विश्वास-प्रस्तुतिः - 104
- आत्माज्ञानाभिलापादनुपरतशुचे नारदाय प्रयुक्तं
प्राणे सानत्कुमारं विरमति वचनं हिंसनार्हस्स जीवः।
अल्पप्रत्यर्थिभूमा निरवधिकसुखोऽप्येष एवेति चेन्न
प्राणाख्यात्सत्यशब्दोदितमधिकतयोपास्यमत्र ह्युपात्तम्॥
३४-तमाहोबिल-यतिः - 104
- आत्मज्ञानाभिलाषादित्यादि। आत्मज्ञानाभिलाषात् —‘ऋग्वेदं भगवोऽध्येमि’ इत्यादिश्रुत्युक्तरीत्या अधिगतसर्वविद्यास्थानत्वेऽपि ‘सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित्’ इत्यत्रत्यश्रुत्युक्तरीत्याऽत्मविज्ञआआशून्यताप्रयुक्तवैकल्यनिवर्तयिषानितादात्मविज्ञानाभिलाषात्। अनुपरतशुचेनारदाय– अनिवृत्तशोकाय नारदाय। प्रयुक्तम्–उपदिष्टम्।सानत्कुमारं वचनम्– भूमविद्योपदेष्टृसनत्कुमारसम्बन्ध्युपदेशरूपं" छान्दोग्यसप्तमाध्यायारम्भप्रभृतिकं नामाद्याशापर्यन्तवेद्यवर्गे प्रश्नपूर्वकमुपर्युपरि प्रत्युत्तररूपतया प्रवृत्तं वचनम्। प्राणे विरमति –प्राणाख्यं वस्तूपदिश्य तावता समाप्तं दृश्यते। सः – प्राणशब्दार्थः।जीवः –जीवात्मैव।हिंसनार्हः —हेत्वर्थं विशेषणम्।‘पितृहा, मातृहा’इत्यादिप्रकरणवचनेन प्राणशब्दितस्य हिंसनार्हत्वप्रतीतेरित्यर्थः। अल्पप्रत्यर्थिभूमापि निरवधिकसुख एष एव –‘यत्रान्यत् पश्यत्यन्यत् श्रृणोत्यन्यद्विजानाति तदल्पं यत्र नान्यत् पश्यति नान्यत् श्रृणोति नान्यद्विजानाति स भूमा’ इति वचनेनाल्पप्रत्यर्थित्वेनाभिधीयमानो भूमशब्दार्थोऽपि निरवधिकसुखाश्रयो जीव एव भवेत्। इति चेन्न –इति शङ्क्यते चेन्नैत्द्युक्तम्।अत्र –अस्मिन् प्रकरणे। हि – यस्मात् कारणात्। सत्यशब्दोदितमुपास्यम् –‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति वचनेन सत्याख्यवस्तुनोपास्येनोपलक्षितो यः" स्वात्मानमतिवदति स एवातिवादीत्यर्थकेन सत्यशब्दोदितमुपास्यम्। प्राणाख्यादधिकतया —-‘स वा एष एवंपश्यन्नेवंविजानन्नतिवादी भवति ’ इति प्राणोपासकस्यातिवादित्वनिमित्तात् प्राणशब्दताज्जीवादधिकतया। उपात्तम् –‘एष तु वा अतिवदति यः सत्येन’ इत्युदाहृतवचनेन प्रतिपादितम्। तस्मान्नेत्यन्वयः॥
कुमार-वरदः - 104
6.परमात्मप्रकरणविच्छेदात् मुण्डोपनिषदि आपादचूढं परमात्मपरत्वमेव प्रसाधितम्। तर्हि च्छान्दोग्ये भूमविद्यायां जीवप्रकरणाविच्छेदात् जीव एव प्रतिपाद्यत इति पूर्वपक्षोत्थानेन प्रमाणद्वारा संगतिः। अर्थद्वारापि संगतिरभिधीयते– पूर्वत्र ’ ओतं मनः सह प्राणैः’ इति प्राणसम्बन्धी पुरुष उक्तः, अत्रापि प्राणसम्बन्धित्वेन प्राणशब्दवाच्यो जीवएवोच्यत इति। तदर्थविचारस्तु किं भूमशब्दनिर्दिष्टः" प्रत्यगात्मा उत परमात्मेति। किं भूमशब्दनिमित्तवैपुल्येन प्रत्गात्मानिर्दिश्यते उत परमात्मेति। किं प्राणशब्दनिर्दिष्टप्रत्गात्मनि प्रश्नप्रतिवचनाभ्यां भूमापि समाप्तो नेति। किं च ’ स वा एष एवंपश्यन्नेवं मन्वान एवंविजानन्नतिवादी भवति’ इत्यतिवादित्वं प्राणातिवादिन उक्त्वा ’ एष तु वा अतिवदति यः सत्येनातिवदति’ इति प्राणातिवादिनः सत्यवजनमङअगतया विदधाति उत सत्यशब्देन परमात्मानं निर्दिश्य तदतिवादिनः प्राणातिवादिनोऽप्यतिवादित्वं वदतीति। किमस्मिन्वाक्ये ’ एष तु वा अतिवदति’ इत्यत्र प्राणातिवादिनः प्रत्यभिज्ञास्ति नेति। किं तुशब्दः प्रत्यभिज्ञानविरोथे नेति। अत्र पूर्वपक्षसिद्धान्तौ संगृह्णाति –आत्मेति। इह खलु भूमविद्यायां सनत्कुमारो गुरुर्नारदः शिष्यः। स च सर्वमपि विद्यास्थानं परिज्ञातवान् तथापि च भगवज्ज्ञानशून्योऽहमिति ‘सोऽहं भगवतो मन्त्रविदेवास्मि नात्मवित्’ इति आत्मज्ञानाभिलाषादनुपरत शोको नारदः। अस्मै नारदाय प्रवृत्तं सनत्कुमारवचनं प्राणे पर्यवस्यति। तदेव प्रतिपादयति– प्राण इति। स च प्राणाख्यो जीव एव तस्मिन्नेव प्रकरणे तस्य हिंसनार्हत्वेन कथनात्। किं च अत्राल्पप्रत्यर्थित्वेनाभिधीयमानो भूमशब्दवाच्योऽर्थो निरवधिकसुखाश्रयो जीव एव स्यादित्याशङ्क्य प्रतिक्षिपति –नेति। तदेव विवृणोति–प्राणाख्यादिति। तत्र हि प्राणब्देन जीवमुक्त्या प्राणवेदिनश्चेतरसुखातिशयितसुखरूपजीववेदिनोऽतिवादित्वमुक्त्वा तस्यापि जीवस्याल्पत्वेन परमात्मसुखवेदिन एवान्ततोऽतिवादित्वं प्रतिष्ठाप्यते। तेन प्राणाख्यादधिकं सत्यशब्द वाच्यं परं ब्रह्मैवास्मिन्प्रकरणे प्रधानप्रतिपाद्यमुच्यत इति ॥
मूलम् - 104
- आत्माज्ञानाभिलापादनुपरतशुचे नारदाय प्रयुक्तं
प्राणे सानत्कुमारं विरमति वचनं हिंसनार्हस्स जीवः।
अल्पप्रत्यर्थिभूमा निरवधिकसुखोऽप्येष एवेति चेन्न
प्राणाख्यात्सत्यशब्दोदितमधिकतयोपास्यमत्र ह्युपात्तम्॥
विश्वास-प्रस्तुतिः - 105
- नामाद्याशान्तवेद्ये प्रतिवचनवशात् प्रश्नतश्चाधिकोक्तेः
प्राणे विश्रान्तिदृष्ट्या भवतु तदवधिः प्रस्तुतात्मोपदेशः ।
मैवं जातो हि नामादिवदिह परमादात्मनः प्राण उक्तः
स्वस्मादित्यत्र तत् स्यादिति न विघटनात् स्वारसिक्या विभक्तेः ॥
३४-तमाहोबिल-यतिः - 105
- नामादित्यादि। नामाद्याशान्तवेद्ये —नाम आदि र्यस्य तन्नामादि आशा अन्तो यस्य तत् आशान्तम्, उभयत्र तद्गुणसंविज्ञानो बहुव्रीहिः। नामादि च आशान्तं च नामाद्याशान्तम्। तच्च तत् वेद्यञ्च नामाद्याशान्तवेद्यं तस्मिन् नामाद्याशान्तवेद्ये। प्रतिवचनवशात् प्रश्नतश्च —-प्रश्नप्रतिवचनयोरनुवत्तत्वात्।अधिकोक्तेः —उत्तरोत्तरमधिफलवत्त्वेनाधिकोक्तेश्च दृष्टत्वात्।प्राणे विश्रान्तिदृष्ट्या —प्राणे तादृगभिधानस्य विश्रान्तिदर्शनाच्च। प्रस्तुतात्मोपदेशः —सनत्कुमारेण नारदाय प्रस्तुत आत्मोपदेशः। तदवधिर्भवति –प्राणपर्यन्त एव स्यात्।तथा च प्राणशब्दितस्य जीवस्यैव वेद्यात्मत्वमिति भावः। मैवम् –एवं माशङ्किष्ठाः। इह –अस्मिन् प्रकरणे। परमादात्मनः—आत्मशब्दित्वात् परमात्मनः सकाशात्। नामादिवत् – नामादितुल्यतया।प्राणः –प्राशब्दार्थोऽपि।जात उक्तो हि –जात इति यस्मात् कारणादुक्तः। तस्मात् जातस्य परमात्मत्वासम्भावात् मैवमित्यन्वयः। तथा हि श्रूयते ‘तस्य ह वा एतस्यैवंपश्यत एवंमन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मत आप आत्मत आविर्भावितिरोभावौ आत्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्मात्मतः" सङ्कल्पमात्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रः’ इत्यादि। अत्र –श्रुतिवाक्ये।तत् —आत्मत इति पदम्। स्वस्मादिति स्यात् —स्वस्मादिति पदार्थे स्वात्मनइत्यर्थः भवतु। आत्मत इत्यस्य स्वत्मत इत्यर्थः स्यादिति शङ्का। इति न — इति शङ्कनमयुक्तम्। स्वारसिक्या विभक्तेः –कार्यकारणभावप्रतिपादने स्वरसप्रवृत्तायाः पञ्चमी विभक्तेः। विघटनात् – वैयर्थ्यापादनादित्यर्थः।स्वात्मनः" स्वस्योत्पत्तिकथनं च क्लिष्टमेवेति भावः॥
कुमार-वरदः - 105
- पूर्वपक्षाभिप्रायं विस्तरेणोक्त्वा स्वाभिप्रायमपि तथैव कथयति– नामेति। नामोपक्रम्य आशान्ते दिक्पर्यन्ते वेद्ये प्रश्नप्रतिवचनयोरनुवृत्तत्वादुत्तरोत्तरमतिशयितफलवत्त्वेनाधिकोक्तेश्च दृष्टत्वात् प्राणे तादृगभिधानस्य विश्रान्तिदर्शनाच्च प्रस्तुतात्मोपदेशः- प्राणावधिः स्यात्। ततः प्राणस्योपरि सत्यशब्दवाच्यतया आत्मोपदेशो नास्ति। उक्तमर्थं प्रतिक्षिपति–मैवमिति। इह– अस्मिन्प्रकरणे। नामादिवत् प्राणोऽपि परस्मादात्मनो जात उक्तः। जातस्य तस्य कथं" परमात्मत्वम्। नन्वत्रात्मशब्दः स्वात्मपरः, तेन स्वस्माज्जात इति प्रकरणाविरोधः स्यादित्याशङ्क्य प्रतिक्षिपति – नेति। तत्र हेतुमाह– विघटनादिति। कार्यकारणभावप्रतिपादिकायाः स्वारसिक्या विभक्तेर्विघटनात् । कार्यकारणभावोऽपि भेदगर्भ एव। स्वात्मन उत्पत्तिकथनं क्लिष्टमेवेति भावः॥
मूलम् - 105
- नामाद्याशान्तवेद्ये प्रतिवचनवशात् प्रश्नतश्चाधिकोक्तेः
प्राणे विश्रान्तिदृष्ट्या भवतु तदवधिः प्रस्तुतात्मोपदेशः ।
मैवं जातो हि नामादिवदिह परमादात्मनः प्राण उक्तः
स्वस्मादित्यत्र तत् स्यादिति न विघटनात् स्वारसिक्या विभक्तेः ॥
विश्वास-प्रस्तुतिः - 106
- प्राणद्रष्टाऽतिवादी तदनुवदनतश्चोदितस्सत्यवाद-
स्तस्मात्सर्वाहमर्थस्सकलजनयिता प्राण एवेति चेन्न।
एष त्वित्यन्तोक्तेरतिवदनकृतः प्राक्तनादस्य तद्व-
न्नत्वन्योऽस्त्यग्निहोत्री स्वमहिमनिलये ह्यत्र धर्मोपपत्तेः॥
३४-तमाहोबिल-यतिः - 106
- प्राणद्रष्टेत्यादि। प्राणद्रष्टा –नामाद्याशान्तवेद्यपरम्पोरपरितनप्राद्रष्टा । अतवादी –अतिक्रान्तस्वोपास्यवस्तुवादितया अदिवादीति प्रतिपादितः।‘स वा एष एवंपश्यन्नेवंमन्वान एवंविजानन्नतिवादी भवति’ इति श्रुरेरिति भावः। तदनुवदनतः –‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति वाक्ये प्राणातिवाद्यनुवादेन। सत्यवादश्चोदितः –सत्यवचनं विहितं भवतु। ‘एष तु वा अग्निहोत्री यः स्यं" वदति’ इत्यत्र तचथादर्शनादिति भावः। तस्मात् – एष तु वा इति वाक्यस्य प्राणोपासनाङअगभूतसत्यवचनचोदकत्वे प्राणभिन्नसत्याख्यपरमात्मपरत्वाभावात्। सर्वाहमर्थः सकलजनयिता –‘अहमेववाधस्तात्’ इत्यादिना ‘अहमेवेदं सर्वम्’ इत्यन्तेन वाक्येन सर्वाहम्रथतया प्रतिपन्नः, ‘आत्मतः" प्राण आत्मत आशा’ इत्यादिवाक्येन सकलजनयितृत्वेन प्रतिपन्नश्च। प्राण ए – अत्रोपदेशावसानभूमिभूतः प्राशब्दितो जीवात्मैव। इति चेन्न — इति शङ्क्यते चेन्नैतद्युक्तम्।एष त्विति –‘एष तु वा अतिवदति’ इति तुशब्दशिरस्कैतच्छब्देन।अस्य–सत्यादिवादिनः" प्राक्नात्— ततःपूर्वप्रकृतात्।अतिवदनकृतः –प्राणातिवादिनः। अन्यतोक्तेः –अन्यत्वप्रतिपादनात्।तद्वत् —-प्राणादिवादिभिन्नसत्यातिवादिवत् –अन्योऽग्निहोत्री तु नास्ति —प्रकृतादग्निहोत्रिणीऽन्योऽग्निहोत्री तु न प्रमितः, अतस्तस्यैवानुवादेन सत्यवचनशङ्गतया विहितम्। अत्र त्वतिवादिद्विरुक्त्या तुशब्देन चातिवाद्यन्तरस्यैव प्रतीतेरिति भावः।स्वमहिमवनिलये —‘सः भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि’ इत्युक्ते स्वमहिमैकनिलये।अत्र हि –परमात्मन्येव हि । धर्मोपपत्तिः –एतत्प्रकरणप्रतिन्नानां स्वाभाविकामृतत्वानन्याधारत्तवानन्याधारत्वसर्वत्मत्वसर्वोत्पादकत्वादिधर्माणामुपपत्तिः, नतु जीवात्मनीतिभावः॥
कुमार-वरदः - 106
- शिष्यप्रतिबोधनार्थं पूर्वपक्षाभिप्रायं विविच्य तदुचितमुत्तरमप्याह– प्राणद्रष्टेति। अत्र हि प्राणद्रष्टा अतिवादित्वेनोक्तः, तदनूद्य सत्यवादोऽङ्गत्वेन विधीयते, तस्मात् सर्वाहमर्थो जीवः खल्वदृष्टद्वारा सकलतत्त्वोत्पादकः प्राण एवेति चेत् तदेतत्प्रतिक्षिपति –नेति। प्रतिक्षेपहेतुं विवृणोति– एष इति। ‘एष तु वा अग्निहोत्री यः सत्यं वदति’ इत्यत्रापि तुशब्दशिरस्क" एषशब्दोल दृश्यते अथापि तत्राधिकार्यन्तरं न कल्प्यते तद्वदत्रापि स्यादित्याशङ्क्याह– तद्वदिति। तत्र ह्यग्निहोत्रद्वयं न प्रमितम्, इह तु प्रमितमेव। पूर्वं प्राणातिवादिनमुक्त्वा पुनश्च ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति द्विवारमतिवादित्वमुच्यते नैवमग्निहोत्रवाक्ये द्विवारमग्निहोत्रित्वमुच्यते। तेन पूर्वाग्रिहोत्रिणमुद्दिश्य सत्यवदनमङ्गतया विधीयत इति युक्तम्। अत्र पुनस्तुशब्दसहितैतच्छब्देनातिवाद्यन्तरं" प्रतीयत इति विशेषः। अन्यथा पुनरत्रापि ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इत्यधिकार्यन्तरं न श्रूयेत। किं च यदि जीवे विश्रान्तिः" स्याद्वाक्यस्य तदानीमेतत्प्रकरणोक्तानां परमात्मासाधारणधर्माणामनुपपत्तिः स्यात्। तेन स्वमहिमनिलये परमात्मन्येव सर्वधर्मोपपत्तिः" स्यादित्ययमपि हेतुः परमात्मसाधने भवति॥
मूलम् - 106
- प्राणद्रष्टाऽतिवादी तदनुवदनतश्चोदितस्सत्यवाद-
स्तस्मात्सर्वाहमर्थस्सकलजनयिता प्राण एवेति चेन्न।
एष त्वित्यन्तोक्तेरतिवदनकृतः प्राक्तनादस्य तद्व-
न्नत्वन्योऽस्त्यग्निहोत्री स्वमहिमनिलये ह्यत्र धर्मोपपत्तेः॥
विश्वास-प्रस्तुतिः - 107
- नामादौ वाक्च तस्योपरि तदनु मनश्चाथ सङ्कल्पनामा
चित्तं ध्यानं च तस्माद्बलमपि च ततस्स्याच्च विज्ञानपूर्वम्।
अन्नं तोयं च तेजो गमनमपि ततो मन्मथस्स्यात्तथाऽशा
प्राणस्सत्यः परात्मा सकलनियमिता गम्यते भूमवाक्ये॥
३४-तमाहोबिल-यतिः - 107
- नामादावित्यादि। भूमवाक्ये–सनत्कुमारेण नारदायोपदिश्माने भूमविद्यावाक्य समुदाये। आदौ –प्रथमतः। नाम –नामात्मकः शब्दः। गम्यते इत्यस्यानुकर्षः, स्यात् इति पदस्य वा। अधिगन्तव्यः स्यादित्यर्थः। तस्योपरि – नाम्नः" पश्चात्। वाक् च गम्यते। तदनु – वाचः पश्चात्। मनश्च गम्यते। अथ – मनसः पश्चात्। सङ्कल्पनामा – सङ्कल्पाख्यः पदार्थः, गम्यते। अथ चित्तं गम्यते। अथ ध्यानं गम्यते। तस्मात् परमपि च –ध्यानात् परमपि च। विज्ञानपूर्वबलं च स्यात् – विज्ञानं पूर्वं यस्य तत् विज्ञानपूर्वं विज्ञानपूर्वं पश्चात् बलमित्यर्थः। ततः – बलानन्तरम्।अन्नं च स्यात्। ततोऽन्नात्परं तोयं जलम्। ततश्च तोयात्परं" च तेजः। ततोऽपि –ततः पश्चाच्च। गगन–माकाशः। अत्र सर्वत्र ‘ततः स्यात्’ इति पदे अनुषञ्जनीये। ततः –आकाशात् परम्। मन्मथः स्यात् – स्मरशब्देन मन्मथ उक्तः स्यात्। ततो मन्मथापरम्। तथा –पौर्वापर्येण। आशा –आशाशब्दिता दिक्।प्राणः - प्राणशब्देनोक्तेः प्राणसहचारि प्रत्यगात्मा च स्यात्। ततःपरं सकलनियमिता– नामादिनिखिलतत्त्ववर्गनियन्ता। सत्यः –सत्यशब्दवाच्यः। परात्मा गम्यते –‘तरति शोकमात्मवित्’ इत्युपक्रमविवक्षइत उपदेश्य आत्मेत्यवगम्यते॥
कुमार-वरदः - 107
- अत्र भूमविद्यायां नामाद्याशापर्यन्तवस्तूनां स्वरूपप्रतिपत्त्यर्थं तत्संग्रहश्लोकमाह– नामेति। आदौ नाम तस्योपरि वाक् तदनु मनः अथ संकल्पनामा ततश्चित्तं ततोऽप्यनन्तरं ध्यानं ततो विज्ञानं ततो बलं तस्मादन्नं तस्मात्तोयं तस्मादपि तेजः ततः पुनराकाशस्ततो मन्मथः तत आशा ततः प्राणशब्दवाच्यो जीवः सर्वेषामुपरि सत्यशब्दवाच्यः परमात्मा सर्वनियन्ताऽयमेवेति गम्यत इति॥
मूलम् - 107
- नामादौ वाक्च तस्योपरि तदनु मनश्चाथ सङ्कल्पनामा
चित्तं ध्यानं च तस्माद्बलमपि च ततस्स्याच्च विज्ञानपूर्वम्।
अन्नं तोयं च तेजो गमनमपि ततो मन्मथस्स्यात्तथाऽशा
प्राणस्सत्यः परात्मा सकलनियमिता गम्यते भूमवाक्ये॥