विश्वास-प्रस्तुतिः - 99
- स्पषटैर्जीवादिलिङ्गैर्युतमिह हि वचस्साद्ध्यते ब्रह्मनिष्ठं
मध्येऽत्राधिक्रियोक्तिस्त्रिषु किमिति न तत्तत्प्रसङ्गात्तदुक्तेः।
किञ्चास्यामर्धलौकायतिकनिरसनं प्रस्तुतार्थोपयुक्तं
ब्रह्मोत्कर्षश्च सिद्ध्येद्गलति दिविषदां कारणैक्यभ्रमश्च॥
३४-तमाहोबिल-यतिः - 99
- स्पष्टैरित्यादि। अथ– अस्मिन् प्रथमाध्यायतृतीयपादे। स्पष्टैर्जीवादिलिङ्गैर्युक्तं वचो हि ब्रह्मनिष्ठं साध्यते— पूर्वनिरुक्तस्पष्टतायुक्तचेतनाचेतनलिङ्गवत् श्रुतिवाक्यं हि ब्रह्मपरमिति साध्यते। अत्र –तृतीय पादे। मध्ये – षष्ठात् प्रमिताधिकरणादुपरि अर्थान्यतरत्वाद्यधिकरणद्दशमादर्वाङ् मध्ये। त्रिषु — ‘तदुपर्यपि बादरायणः सम्भवात्’ ‘मध्वादिष्वसम्भवादनधिकारं जैमिनिः।’ ‘शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि’ इत्युक्तेषु त्रिष्वधिकरणेषु। अधिक्रियोक्तिः –ब्रह्मविद्याधिकार प्रतिपादनम्।किमिति –किमर्था ब्रह्मगुणप्रतिपादनमध्ये अधिकारप्रतिपादने सङ्गतिहान्यापत्तिरिति भावः। तत् न – इदमाशङ्कनं न युक्तम्। तत्प्रसङ्गात् तदुक्तेः —-‘हृद्यपेक्षया तु मनुष्याधिकारत्वात्’ इति सूत्रेऽधिकारप्रसङ्गात् प्रसक्तप्रतिपादनस्य सङ्गतत्वेन समुचितत्वात्।कॢञ्च —युक्त्यन्तरञ्चेत्यर्थः।अस्याम् –देवताधिकरणाद्युक्तौ ।अर्धलोकायतिकनिरसनम् –अर्धलोकायतिकानां निरीश्वरमीमांसकानां शब्दमयीमेव देवतां कर्मैव सकलफलप्रदमीश्वराभावं चाभ्युपगच्छतां" निरसनं देवतानामर्थित्वसामर्थ्यरूपब्रह्मविद्याधिकारोपयुक्ततया स्वरूपविग्रहविरादानादिव्यापारज्ञानशक्त्यादिविशेषभवभयादिविवेककार्यप्रतिपादनेन शब्दातिरिक्तदेवता स्वरूपादिस्थापनात् क्रियमाणं तत्पक्षविध्वंसनं च।प्रस्तुतार्थोपयुक्तम् –प्रस्तुतार्थस्य परमपुरुषनिष्ठचतुर्मुखादिपिपीलिकान्तनिखिलभुवनकारणत्वरूपप्रकृतार्थस्य उपयुक्तं उपयोग्येव। देवतानामभावे भगवतस्तन्निरूपितकारणत्वायोगात्।ब्रह्मोत्कर्षश्च सिध्येत् –ब्रह्मादीनां भगवदुपासकत्वप्रतिपादनेन तदुपास्यत्वरूपो भगवत उत्कर्षश्च सिध्येत्। दिविषदां कारणैक्यभ्रमश्च गलति –हिरण्यगर्भशिवेन्द्रादीनामन्तरधिकरणन्यायेन इन्द्रप्राणाधिकरणन्यायेन च स्वरूपेण जगत्कारणत्वस्य निरासेऽपि रामकृष्णादिवत् तेऽपि भगवदवतारतया तदभिन्नाःसन्तो जगतः कारणं स्युः, एवं च सति हिरण्यगर्भादिशब्दानां" रूढ्यर्थत्यागद्विशिष्टपर्यन्तताकल्पनक्लेशोऽपि न स्यादिति शङ्का परं जागर्ति, साच तेषामत्र भगवदुपासकत्वप्रतिपादनेन राजभृत्यैक्यवत् भगवदैक्यस्य सुतरां निरस्तत्वादुन्मूलिता भवतीति भावः। प्रसङ्गादधिकरणत्रयकथनमिति नासङ्गत्यञ्च॥
कुमार-वरदः - 99
- अतीतानां पादाभ्यामस्पष्टतरास्पष्टजीवादिलिङ्गकानि वाक्यानि निरूपितानि उत्तराभ्यां पुनः पादाभ्यां स्पष्टस्पष्टतरजीवादिलिङ्गकानि वाक्यानि क्रमेण निरूप्यन्ते। अत एव द्वितीय तृतीयपादयोः परस्परसंगतिरपि सिद्धा। अधिकरणसंगतिस्तु पूर्वपादान्ते द्युपृथिव्यादिसंबन्धिनः" परमात्मत्वमुक्तम्, तदेवाक्षिप्य समाधीयते। किंचादृश्यत्वाद्यधिकरण एव त्रैलोक्यशरीरत्वेन परमात्मत्वं प्रसाधितम्, तत्प्रसङ्गात् वैश्वानराधिकरणेऽपि जीवत्वमाशङ्क्य निराकृतम्। अत्र पुनः प्रासङ्गिकपरिसमाप्तौ पूर्वाधिकरणोक्तार्थशेषाभिधानेन पुनर्द्युभ्वादिवाक्यमेव समाधीयते। इह तृतीयपादे निवेशस्तु निरसनीयजीवादिलिङ्गानां स्पष्टत्वात्। अस्मिन्खलु पादे सप्तैवाधिकरणानि साक्षात्संगतानि।मध्ये देवताधिकरणादीनि त्रीण्यर्थान्तरत्वात् न संगतानीत्याशङ्क्य परिहरति–स्पष्टैरिति। स्पष्टैर्जीवादिलिङ्गैर्युतमस्मिन् तृतीये पादे ब्रह्निष्ठं वचः प्रसाध्यते मध्ये त्रिष्वधिकरणेषु विद्याधिकारोक्तिः किमर्था? तन्न प्रसङ्गादुक्तेः ‘हृद्यपेक्षया तु मनुष्याधिकारत्वात्’ इत्यधिकारप्रसङ्गात् तदुक्तेः समुचितत्वात्। किं च देवताधिकरणाद्युक्तौ अर्धलोकायतिकानां निरीश्वरमीमांसकानां निरसनं परमपुरुषस्य चतुर्मुखादिपिपीलिकान्तसकलजगत्कारणत्वरूपप्रस्तुतार्थप्रसाधनोपयुक्तमेव। देवतानामभावे तदपेक्षया कारणत्वापादानायोगात्। तदपेक्षयापि भगवत आराध्यत्वेन ब्रह्मोतकर्षश्च सिध्येत्। तासां देवतानां कारणैक्यभ्रमोऽपि गलत्येव॥
मूलम् - 99
- स्पषटैर्जीवादिलिङ्गैर्युतमिह हि वचस्साद्ध्यते ब्रह्मनिष्ठं
मध्येऽत्राधिक्रियोक्तिस्त्रिषु किमिति न तत्तत्प्रसङ्गात्तदुक्तेः।
किञ्चास्यामर्धलौकायतिकनिरसनं प्रस्तुतार्थोपयुक्तं
ब्रह्मोत्कर्षश्च सिद्ध्येद्गलति दिविषदां कारणैक्यभ्रमश्च॥
विश्वास-प्रस्तुतिः - 100
- न्यायास्सप्तैव साक्षात् परविषयतया सङ्घटन्तेऽत्र पादे
सर्वाधारस्स आत्मा स्वमहिमनिलयस्तत्र तात्पर्यभूमिः।
तत्सिद्ध्यै शासनाद्यं कथितमिह मिथस्स्यूतमालोचनीयं
सर्वेशत्वं च षष्ठप्रमितनयमितं पश्चिमन्यायरक्ष्यम्॥
३४-तमाहोबिल-यतिः - 100
2.न्याया स्सप्तेत्यादि। अत्र पादे –अस्मिंस्तृतीयपादे। सप्तैव न्यायाः –द्युभ्वादिन्यायो भूमन्यायो ऽक्षरन्याय ईक्षतिकर्मन्यायो दहरन्यायः प्रमितन्यायश्चचेत्यमी षट् न्यायाः, अन्ते अर्थान्तत्वादिन्यायश्चेत्यमी सप्त न्याया एव। साक्षात् –अव्यवधानेन।परविषयतया —परमात्मविषयतया। सङ्घटन्ते —सङ्घटिताः।तत्र तात्पर्यभूमिः सर्वाधारः स आत्मा स्वमहिमनिलयः — तत्पादतात्पर्यविषयस्तु सर्वाधारभूतः" परमात्मा ‘स भगवः कस्मिन्प्रतिष्ठितः, स्वे महिम्नि’ इत्युक्तरीत्या स्वमहिमनिलय इति। स्वमहिमनिलयत्वकृतमनन्याधारत्वं तात्पर्यविषयभूतभगवद्गुण इत्यर्थः। तत्सिद्ध्यै —- अनन्याधारत्वसिद्ध्यर्थम्।इह –पादे।कथितम् –प्रतिपादितम्।शासनाद्यम् —-अक्षराधिकरणादिप्रतिपन्नं" सर्वशासितृत्वादितमर्थजातम्। मिधस्स्यूतम् –परस्परसंश्लिष्टमालोचनीयम्। षष्ठप्रमितनयमितं सर्वेशत्वं च पश्चिमन्यायरक्ष्यम् –आलोचनीयमित्यनुषङ्ञ्जनीयम्। षष्ठेन ‘शब्दादेव प्रमितः’ इत्यधिकरणेन निश्चितं सर्वेश्वरत्वं ‘आकाशोऽर्थान्तरत्वादिव्यपदेशात्’ इति पादान्त्यधिकरणेन ‘आकाशो ह वै नामरूपयोर्निर्वहिता’ इत्यारभ्य ‘प्रजापतेः सभां वेश्म प्रपद्ये’ इत्यादि वाक्यविषयकेण सर्वेश्वरत्वोपपादकमोक्षप्रदत्वप्रतिपादनेन रक्षणीयम्। तथा च षष्ठाधिकरणप्रतिपन्नसर्वेश्वरत्वोपपादकमोक्षप्रदत्वप्रतिष्ठापकत्वादन्त्याधिकरणस्य तयोः परस्परं सङ्गितरिति भावः॥
कुमार-वरदः - 100
2.अतः सप्तानामधिकरणानां साक्षात् संगतिः, प्रसङ्गादन्येषाम्, तदिदमनूद्य साक्षात्संगतेषु सप्तसु षष्ठदशमयोः परस्परसंगतिं चाह– न्याया इति। सप्तैव न्यायाः साक्षात्परविषयतया संघटन्तेऽत्रपादे। किंचास्मिन् पादे सर्वाधारः स एवात्मा ’ कस्मिन्प्रतिष्ठितः" स्वे महिम्नि’ इत्युक्तक्रमेण भगवतः स्वमहिनिलयत्वोपपादनमनन्याधारत्वं च पादस्य तात्पर्यविषयः। उक्तं हि पूर्वमेव स्रष्टा देही स्वनिष्ठः इति ‘स्वयं दासास्तपस्विनः’ इतिवत्। एतस्य तात्पर्यस्य प्रसिद्ध्यर्थं भगवतः सर्वप्रशासितृत्वादिकं तत्तदधिकरणार्थजातं" कथितं मिथरस्यूतं परस्परसंश्लिष्टमालोचनीयम्। तर्हि त्रिभिरधिकरणैः षष्ठदशमयोर्व्यवधाने कथं सम्बन्ध इत्याशङ्क्य षष्ठाधिकरणप्रमितं" भगवतः सर्वेशत्वं" दशमाधिकरणेन तस्यैव मोक्षप्रदत्वप्रतिष्ठापनेन संरक्षणीयमिति परस्परसंबन्धः सिध्यत्येव॥
मूलम् - 100
- न्यायास्सप्तैव साक्षात् परविषयतया सङ्घटन्तेऽत्र पादे
सर्वाधारस्स आत्मा स्वमहिमनिलयस्तत्र तात्पर्यभूमिः।
तत्सिद्ध्यै शासनाद्यं कथितमिह मिथस्स्यूतमालोचनीयं
सर्वेशत्वं च षष्ठप्रमितनयमितं पश्चिमन्यायरक्ष्यम्॥
विश्वास-प्रस्तुतिः - 101
- सिद्धं प्रागेव मुण्डोपनिषदि परमं ब्रह्म तद्धर्मभेदै-
र्भेदोक्तेश्चेत्यकाण्डे किमिति पुनरिमां पिष्टपेषम्पिनष्टि।
सत्यं क्षेत्रज्ञधर्मैः पटुभिरुपनता प्रक्रियाभेदशङ््का
प्रख्याप्य प्रत्यभिज्ञामपुनरुदयमुन्मूल्यते शब्दपूर्वैः॥
३४-तमाहोबिल-यतिः - 101
- सिद्धं प्रागेवत्यादि। प्रागेव –पूर्वपादेऽदृश्यत्वाधिकरण एव। मुण्डोपनिषाद परमं ब्रह्म, तद्धर्मभेदैर्भेदोक्तेश्च सिद्धम् – ‘अदृश्यत्वादिगुणको धर्मोक्तेः। विशेषणभेदव्यपदेशाभ्यां च नेतरौ ’ इति सूत्रसिद्धैः ‘यः सर्वज्ञः सर्ववित्’ इत्यादिवाक्यप्रतिपादितैर्भगवदसाधारणैः" सर्वज्ञत्वादिधर्मविशेषैः ‘अक्षरात्परतः" परः’ इति वाक्यप्रतिपन्नजीवपरमात्मभेदव्यपदेशाच्च प्रतिपाद्यतया निश्चितमेव हि। इति – एवं कर्तव्यस्य कृतत्वात्। अकाण्डे – अनवसरे ‘काण्डोऽस्त्री दण्डबाणार्वर्गावसरवारिषु’ इति कोशात्। किमिति –कुतो हेतोः।पुनः,इमाम् –मुण्डोपनिषदम्।पिष्टपेषम् —पिष्टस्य पुनः पुनः पेषणवत् व्यर्थतया। पिनष्टि — विचारयति। सूत्रकार इति शेषः। सत्यम् – अर्धमङ्गीकृतमित्यर्थः।पटुभिः –जीवात्मत्वसाधआनसमर्थैः। क्षेत्रऊधर्मैः –मुण्डकोपनिषद्येव उपरि ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्चसर्वैः। अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः’ इत्यादिश्रवणात् एषु प्रतीयमानैर्मनःप्राणाधारत्वनाड्याधारत्वबहुधाजायमानत्वरूपैर्जीवासाधारणधर्मैः। उपनता –प्राप्ता।प्रक्रियाभेदशङ्का –पूर्वंपरमात्मप्रकरणम्,इदं" जीवप्रकरणमिति प्रकरणभेदशङ्का। प्रत्यभिज्ञां प्रख्याप्य–‘अमृतस्यैष सेतुः’ इत्यादिप्रतिपन्नमोक्षप्रदत्वादिभगवदसाधारणगुणैः" स एवात्रापि परमात्मा प्रतीयत इति प्रत्यभिज्ञां प्रदर्श्य। शब्दपूर्वैः –श्रुत्यादिभिः प्रमाणैः। अनुपरुदयम् —पुनश्च शङ्का यथा नोत्पद्येत तथआ, क्रियाविशेषणम्। उन्मूल्यते –उद्धृयते परिह्रियत इत्यर्थः॥
कुमार-वरदः - 101
- सूत्रे द्युभ्वादीतिपदद्वयोपादानमूर्ध्वलोकोपलक्षणार्थमिति मन्तव्यम्। अत्राधिकरणारम्भमाक्षिप्य समाधत्ते– सिद्धमित्यादिना। प्रागेव– अदृश्यत्वाधिकरण एव। मुण्डोपनिषदिपरं ब्रह्म स्वव्यवस्थापकैस्तत्तद्धर्मभेदैः सिद्धभेदमेव। भेदोक्तेश्च –साक्षाज्जीवपरयोर्भेदकथनाच्च। तथा च सति किमर्थमिमामुपनिषदं पिष्टपेषं पिनष्टि विशिष्य पुनः पुनः पिनष्टीत्यर्थः। अर्धाङ्गीकारेण समाधत्ते –सत्यमित्यादिना। अस्तु पूर्वमेव विचारितं मुण्डोपनिषद्वाक्यम्, अथापि विचार्यते तत् किमर्थमित्यत्राह–क्षेत्रज्ञेति। नाड्याधारत्वादिभिरसाधारणैर्जीवधर्मैरुपनता शङ्कायाः पुनरुदयाभावेनोन्मूल्यते शब्दपूर्वैः श्रुत्यादिभिः प्रमाणैः। अयमर्थः– मुण्डोपनिषद्वाक्ययोरुभयत्रापि परमपुरुषगुणप्रत्यभिज्ञानात् प्रकरणभेदशङ्कैव नास्ति। नाडीसम्बन्धादयश्चाभासहेतवः। तत उचितैः" समाधानरहेतुभिर्भाष्यकाराभिप्रेतैरेव समाधेया इति। तदर्थविचारस्तु – किं द्युपृथिव्याद्यायतनं जीव उत परमात्मेति। तदर्थं पुनर्विचार्यते– ‘यस्मिन्द्यौ’ इत्यादिवाक्यजातं किमदृश्यत्वादिगुणकप्रकरणात् भिन्नमुताभिन्नमिति। तदर्थं पुनः प्राणादिसंबन्धः किमुपकार्योपकारकत्वनिबन्धन उताधाराधेयभावलक्षणः। तदर्थं पुनः प्राणादिसंबन्धः किमुपकार्योपकारकत्वनिबन्धन उताधारधेयभावलक्षणः। तदर्थं द्युपृथिव्याद्यायतनत्वामृतसेतुत्वादिधर्माः" किं कर्मफलानुभवितुर्जीवस्य संभवन्ति उत नेति॥
मूलम् - 101
- सिद्धं प्रागेव मुण्डोपनिषदि परमं ब्रह्म तद्धर्मभेदै-
र्भेदोक्तेश्चेत्यकाण्डे किमिति पुनरिमां पिष्टपेषम्पिनष्टि।
सत्यं क्षेत्रज्ञधर्मैः पटुभिरुपनता प्रक्रियाभेदशङ््का
प्रख्याप्य प्रत्यभिज्ञामपुनरुदयमुन्मूल्यते शब्दपूर्वैः॥
विश्वास-प्रस्तुतिः - 102
- यस्मिन्नोतम्मनोऽन्यैस्सह करणगणैर्जायते यश्च नाना
नाड्याधारश्च योऽन्तश्चरति सकरणी कर्मभोक्तेति चेन्न।
विश्वाधारात्मभावादमृतवितरणान्मुक्तसृप्यत्ववादात्।
प्रागुक्तप्रक्रियैक्यादनशनसहितात् काशनाच्चान्यसिद्धेः॥
३४-तमाहोबिल-यतिः - 102
- यस्मिन्नित्यादि। यस्मिन् मनोऽन्यैः करणगणैः सह ओतम् –‘यस्मिन्द्यौः पृथिवीचान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः’ इति श्रवणात् यस्मिन् आत्मनि मनः प्राणशब्दितैरितरैरिन्द्रियगणैः सह ओतं नैरन्तर्येण सम्बद्धम्। यश्च नाना जायते –‘अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरत बहुधा जायमानः’ इति श्रवणात् यश्चात्मा देवादिरूपेण नाना जायते। नाड्याधारश्चयः –उक्तवचनादेव यो नाड्याधारश्च प्रतीयते। योऽन्तश्चरति – तत एव वचनात् यश्च सर्वदेहेष्वन्तर्हृदयदेशे चरति सञ्चरति। अणुपरिमाणतया मुख्यसञ्चरणाश्रय इत्यर्थः। स कर्मभोक्ता करणी – सोऽयं पुण्यापुण्यकर्मफलभोक्ता करणग्रामवान् जीवात्मैवास्तु। इति चेन्न —इति शङ्क्यते चेत् तन्न सम्भवति। विश्वाधारात्मभावात् —उदाहृदयश्रुतिवाक्यप्रतिपन्नादेव द्युपृथिव्याद्युपलक्षितजगदाधारत्वयुक्तनिरुपाधिकात्मत्वात्। अमृतवितरणात् –‘अमृतस्यैष सेतुः ’ इति श्रुतात् मोक्षप्रदत्वात्। मुक्तसृत्यत्ववादात् – ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निऱञ्जनः परमं साम्यमुपैति’ ‘परात्परं पुरुषमुपैति दिव्यम्’ इति श्रुत्या कर्मबन्धविमुक्तमुक्तात्मप्राप्यत्ववचनात्। प्रागुक्तप्रक्रियैक्यात् –अदृश्यत्वाधिकरणोक्तपरमात्मप्रकरणविच्छेदाभावाच्च। अनशनसहितात् काशनाच्च —‘अनश्नन्नन्यो अभिचाकशीति’ इति श्रुत्युक्तात् कर्मफलानशनसहितात् दीप्तियोगाच्च। अन्यसिद्धेः – जीवादन्यस्य परमपुरुषस्यैव एतत्प्रकरणेऽपि प्रतिपाद्यत्वसिद्धेः। इति चेन्नेत्यन्वयः॥
कुमार-वरदः - 102
- अत्र पूर्वपक्षसिद्धान्तौ संगृह्णाति– यस्मिन्नोतमित्यादिना। ‘यस्मिन् द्यौः पृथिवी च’ इत्यादिवाक्येष्वन्यकरणैस्सह मनो यस्मिन्नोतं" यस्मिन्नैरन्तर्येण संबद्धम्। यश्च नाना जायते नाड्याधारश्च यश्च देहेऽन्तश्चरतीति कथयते , स चक्षुरादिना करणी करणवान् कर्मभोक्तैवेति चेत्, उक्तमर्थं प्रतिक्षिपति–नेति। तत्र हेतूनाह–विश्वेति। विश्वाधारात्मभावेनास्मिन् प्रकरणे परमपुरुषस्य कथनात् ‘अमृतस्यैष सेतुः’ इति मोक्षप्रदत्वप्रतिपादनात् मुक्तप्राप्यत्वप्रतिपादनात् पूर्वोक्तब्रह्मप्रकरणविच्छेदाभावात् ‘अनश्नन्नन्यो अभिचाकशीति’ इति कर्मफलभोक्तृत्वाभावेन निरतिशयदीप्तियोगात् चकारादन्यस्मादपि ब्रह्मासाधारणगुणयोगात् त्वदुक्तं" न घटत इत्यन्वयः॥
मूलम् - 102
- यस्मिन्नोतम्मनोऽन्यैस्सह करणगणैर्जायते यश्च नाना
नाड्याधारश्च योऽन्तश्चरति सकरणी कर्मभोक्तेति चेन्न।
विश्वाधारात्मभावादमृतवितरणान्मुक्तसृप्यत्ववादात्।
प्रागुक्तप्रक्रियैक्यादनशनसहितात् काशनाच्चान्यसिद्धेः॥
विश्वास-प्रस्तुतिः - 103
- व्याप्ते तत्राक्षमोतं यदि किमिह ततो जन्म चास्येच्छयोक्त-
न्नाडीचक्रस्य नाभिर्भवति च स परो हार्दरूपेण तिष्ठन्।
निष्कम्पव्यापिनोऽन्तश्चरणमपि शुभैर्विग्रहैरस्ति लोके
सौबालाम्नातवद्वा चरणमिदमपि स्यादधिष्ठानमात्रम् ॥
३४-तमाहोबिल-यतिः - 103
5.व्याप्तेऽस्मिन्निति। व्याप्ते –सर्वव्यापके।अस्मिन् – परमात्मनि।अक्षम् –इन्द्रियादिकम्।ओतं यदि— निरन्तरं सम्बद्धं" चेत्।तत इह किम् –तावता किमनिष्टमापतति। सर्वाधआरस्येन्द्रियाधारत्वं किं नोपपद्यत इति वाऽर्थः। अस्य च –परमात्मनोऽपि। इच्छया जन्म उक्तम् –‘इच्छागृहीतभिमतोरुदेहः’ इत्याद्युपबृंहितेन ‘अजायमानो बहुधा विजायते’ इति प्रमाणेन स्वेच्छामात्रेण मत्स्यकूर्मादिरूपेँण जन्म प्रतिपादितमेव।तत्परमत्रत्यं ‘बहुधा जायते’ इति वचनमित्यर्थः।हार्दरूपेण तिष्ठन्-अन्तर्यामिरूपेणान्त- र्विद्यमानः।स परः-स परमपुरुषश्च।नीडीचक्रस्य नाभिर्भवति–‘सन्ततं सिराभिस्तुलम्बत्याकोशसन्निभम्’ इत्यारम्भ ‘तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः’ इति वचनोक्तरीत्या नाडीचक्रस्य नाभिवदाधारो भवत्येव।निष्कम्पव्यापिनोऽपि लोकेऽन्तश्चरणं शुभैर्विग्र्हैरस्ति-निश्चलतया सर्वव्यापिनोऽपि भगवतः ‘स एषोऽन्तश्चरते’ इत्यत्रत्य श्रुत्यक्तें लोकेऽन्तश्चरणं सञ्चरणं ध्यातृजनपापनिवर्तकैरन्तर्यामिविग्रहैस्तत्तज्ज- न्मतृचिदैरस्त्येव।अचो व्यापकस्य कथमन्तः-स़ञ्चरणमिति न श्ङ्क्यमिति भावः।सौबालाम्नातवद्वा इदमपि चरणमधिष्ठानमात्रं स्यात्—यद्वा ‘पृथिवीमन्तरे सञ्चरन्’ इत्यादिसुबालोपनिषदुक्तपृथिव्यादि- सञ्चरणवत् एतच्छ्रुत्युक्तमिदमपि लोकेऽन्तःसञ्चरणमन्तर्यामित्वेनाधिष्ठानमात्रमेव भवेत्।अनन्यथासिद्ध- सर्वव्याप्तिश्रुतिबलेन सञ्चरणश्रुतिःगौणीति कल्पनीयेति नैतावन्मात्रेण बहुश्रुतिलिङ्गादिसिद्धं परमात्परत्वमपनोद्यमिति भावः॥
कुमार-वरदः - 103
- अथ पूर्वपक्षयुक्तीनामन्यथासिद्धिं वक्तुमारभते –व्याप्त इति। सर्वव्याप्ते भगवति इन्द्रियादिकमोतं चेत् किमिह ततः किं नोपपद्यत इत्यर्थः। भगवतो जन्म नोपपद्यत इति चेतच्चोपपद्यते ऐच्छत्वाज्जन्मन इत्याह–जन्मेति। ‘अजायमानो बहुधा विजायते’ इति हि श्रूयते। नाडीचक्रहार्दरूपेण तिष्ठन् हृदयान्तर्वर्तित्वेन वर्तमानः। सर्वासामपि नाडीनां हृदयान्तर्वर्तिपरमपुरुष सम्बन्धित्वात्। श्रूयते हि ‘शतं चैका हृदयस्य नाड्यः’ इति। तर्हि सर्वव्यापिनः कथमन्तश्तरणमिति चेत्तदप्यनूद्य समाधत्ते– निष्कम्पेति। द्विरूपं खल्वन्तर्यामित्वं" भगवतः, विग्रहपरिग्रहेणैकम्, सर्वव्याप्तेन स्वरूपेणापरम्। विग्रहेण देहान्तश्चरणं तावन्मुख्यत एव स्वरूपेणान्तश्चरणं तु ‘यः" पृथिवीमन्तरे सञ्चरन् ’ इत्यादिना सुबालोपनिषदाम्नातसर्वान्तर्यामित्वरूपचरणवदत्रापि संघटत एव। अन्तर्यामित्वेनाधिष्ठानमात्रस्यैव चरणशब्दवाच्त्वादित्यर्थः॥
मूलम् - 103
- व्याप्ते तत्राक्षमोतं यदि किमिह ततो जन्म चास्येच्छयोक्त-
न्नाडीचक्रस्य नाभिर्भवति च स परो हार्दरूपेण तिष्ठन्।
निष्कम्पव्यापिनोऽन्तश्चरणमपि शुभैर्विग्रहैरस्ति लोके
सौबालाम्नातवद्वा चरणमिदमपि स्यादधिष्ठानमात्रम् ॥