18 वैश्वानराधिकरणम्

विश्वास-प्रस्तुतिः - 94
  1. स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्द्धादिक्लृप्त्या
    ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात्।
    मैवं ब्रह्मेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो
    वैशिष्ट्याद्वा क्रियाङ्गं स्ववपुषि परधीर्गार्हपत्यादिधीश्च॥
३४-तमाहोबिल-यतिः - 94
  1. स्वर्लोकेत्यादि।स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्धादिक्लृप्त्या वैश्वानरात्मा ध्येयः–स्वर्लोकसूर्यवाय्वाकाशजलपृथिवीरूपाणां" सिरश्चक्षुःप्रमाणमध्यकायसुत्रस्थानपादानां कल्पनया वैश्वानरात्मा ध्यातव्या इति च्छान्दोग्ये वैश्वानरविद्यायामुच्यते।अत उपरिश्वानरशब्द इत्यध्याहारः।वैश्वानरश्ब्दस्तु शब्दलिङ्गादिसाम्यात् अस्थिरबहुविषयः–अत्रोपास्यपरतया प्रयुक्तो वैश्वानरशब्दस्तु प्रयोगसाम्यादुपक्रमादिगतलिङ्गानां" च सर्वेष्वर्थेषु नेयतासाम्याच्चास्थिरबहुविषयः।अयमेक एवेति नियमाभावेनास्थिरबहुविषयकः।जाठरानलमहाभूततृतीयदेवताविशेषपरमात्मरूपचतुर्थक" इत्यर्थः। अतश्च निर्णयानर्ह इत्यार्थः।वैश्वानरात्मा स्थिरबहुविषयः शब्दलिङ्गादिसाम्यात् इत्यपि पाठान्तरं दृश्यते, अस्मिन्पाठे स्थिरबहुविषय इतिच्छेदो युक्तः।स्थिरो निश्चलो दुरिनिवारइत्यर्थः, तादृशो बहः जाठछरानलमहाभूततृतीयदेवताविशेषपरमात्मारूपबहुशिरस्कः विशयः संशयो यस्य सः स्थिरबहुविशयः।शब्दलिङादीत्यस्ययमर्थः–वैश्वानरशब्दस्य उपक्रमादिगतलिङानां च साम्यादिति।अस्मिन्पाठे स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्धादिक्सृप्त्या ध्येयो वैश्वानरात्मा शह्दलिङादिसाम्यात् स्थिरबहुविशय इत्येकवाक्यतया योजना। पूर्वपाठ इव वैश्वनर शब्दाध्याहारश्च नास्ति। शब्दलिङ्गादीत्यत्र शब्दपदस्य प्रयोगपरत्वकल्पनं च नापेक्षितम्। अतोऽयमेव पाठः साधुरिति भाति। अत्र चिन्तामणि पङ्किः" ‘स्वर्लोकेति। स्वर्लोकादित्यादिमूर्धादिपरिक्लृप्त्या वैश्वानरात्मना ध्येयतयाऽभिधीयते। वैश्वानरशब्दस्त्वस्थिरबहुविषयः। अग्निर्वा देवता वेत्यादिरूपेणानेकेष्वर्थेषु लिङ्गादीनां तुल्यत्वादिति तत्रोदाहरणानि भाष्य एव द्रष्टव्यानि’ इत्यादिरूपा। मैवम् – एवं" मा शङ्किष्ठाः। ब्रह्मेत्यधीतेः —-उपक्रमे ‘को न आत्मा किं ब्रह्म’ इति मीमांस्यवस्तुनि ब्रह्मशब्दपठनात् तस्य च परमात्मन्येव मुख्यवृत्तत्वात्। भुवनतनुतया — परमात्मनः प्रपञ्चशरीरकताऽन्यत्रप्रसिद्धा, अत्रापि वैश्वानरात्मनः प्रपञ्चशरीरकता प्रतिपाद्यते, तया च परमात्मलिङ्गभूतया मैवमितियोजना।अग्निशब्दस्तु योगतः –‘स एषोऽग्निवैश्वानरः’ इति वाजसनेयकश्रुतौ वैश्वानराविद्याप्रकरणे वैश्वानरपगसमानाधिकरणतया श्रुतोऽग्निशब्दस्तु अग्रं नयतीत्यग्निरिति योगव्युत्पत्त्या परमात्मपरो भवति। वैशिष्ट्याद्वा — वा पक्षान्तरे। वैशिष्ट्यात् शरीरशरीरिभावेनाग्निवैशिष्ट्यात्। अग्नि शब्दोऽग्निशरीरकपरमात्मपरो भवति। स्ववपुषि परधीर्गार्हपत्यादिधीश्च क्रियाङ्गम्। स्ववपुषि परधीः – उपासकेन स्वशिरश्चक्षुः प्राणमध्यकायमूत्र स्थानपादरूपे स्वशरीरे ‘तस्य हवा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ’ इति श्रुत्या विधीयमाना सुतेजोनामकद्युलोकात्मकपरमात्ममूर्धविश्वरूपनामकादित्यात्मकपरमात्मचक्षुःपृथग्वर्त्म नामकवाय्वात्मकपरमात्मप्राणबहुलनामकाकाशात्मकपरमात्मकायरयिनामकसलिलात्मकपरमात्मक मूत्रस्थान प्रतिष्ठात्मनामकपृथिव्यात्मकपरमात्मपादत्वेन कल्पनात्मिका बुद्धिः, स्ववपुषि गार्हपत्यादिधीश्च —उरोलेमहृदयमनआस्यरूपे ,स्वावयवे ‘उत एव वेदिर्लोमानि बर्हिहृदयं गार्हपत्यो मनोऽन्वाहार्यवचन आस्यमाहवनीयः’ इति श्रुत्या विधीयमाना वेदिर्बर्हिर्गार्हपत्यदक्षिणाग्न्याहवनीया कल्पनारुपा बुद्धिश्च। क्रियाङ्गम्— वैश्वानरविद्याङ्गभूतप्राणाहुतिक्रियाङ्गभूता वेदितव्या॥
कुमार-वरदः - 94
  1. पूर्वं ‘रूपोपन्यासाच्च’ इत्यत्र भगवतो निश्वरूपोपन्यासेन द्युमूर्धत्वादिना भगवतः परमपुरुषत्वं प प्रसाधितम्, इदानीं तत्प्रसङ्गात् वैश्वानरविद्या चिन्त्यते। अत्रापि द्युमूर्धत्वादिपरक्लृप्त्या वैश्वानरः परमपुरुषश्चिन्त्यत इति। तेनात्र त्रिष्वधिकरणेषु कासुचिदुपनिषत्सु परमात्मानमङ्गीकृत्य कस्यांचिदुपनिषदि परमात्मानङ्गीकारेण पूर्वपक्षोत्थानमिति पेटिकाविभागः। पूर्वत्रैकस्मिन्नेव प्रकरणे परमात्मानङ्गीकारपरिक्लृप्त्योत्तानमिति। किमयं वैश्वानर आत्मा परमात्मेति शक्यनिर्णयः, उताशक्यनिर्णय इति संशयपुरस्कारेण पूर्वपक्षः। तदर्थविचारस्तु –किमात्मब्रह्मोपक्रमो वैश्वानरशब्दार्थस्य ब्रह्मभावमवगमयति नेति। किं" ‘एषोऽग्निर्वैश्वानरः ‘इत्याग्निसामानाधिकरण्यादग्नित्रयकल्पनात्प्राणाहुत्याधारत्वादग्निवैश्वानरशब्दार्थस्य ब्रह्मभावविरोध नेति।किं ‘एषोऽग्निर्वैश्वानरः ’ इत्यग्निशब्दोऽग्निमात्रपरः,उचाग्न्यवस्थितपरमात्मपर इति। किमनेन वाक्येनाग्निमात्रोपासनं" ज्ञाप्यते, उत परमात्मोपासनमिति।अत्र पूर्वपक्षसिद्धान्तयोः फलफलिभावः स्वयमेवोन्नेयः। अत्र पूर्वपक्षसिद्धान्तौ संगृह्यय दर्शयति– स्वर्लोकेति। स्वर्लोकादित्यादिमूर्धादिपरिक्लृप्या वैश्वानरात्मा ध्येयतयाऽभिधीयते। वैश्वानरशब्दस्तु अस्थिरबहुविषयः अग्निर्वा देवता वेत्यादिरूपेणानेकेष्वर्थेषु लिङ्गादीनां तुल्यत्वादिति। तत्रोदाहरणानि भाष्य एव द्रष्टव्यानि। उक्तमर्थं प्रतिक्षिपति –मैवमिति। तत्र हेतुमाह–ब्रह्मेत्यधीतेरिति। उपक्रमे ‘को न आत्मा किं ब्रह्म’ इति ब्रह्मशब्दप्रयोगाद् भुवनान्तर्यामिणो विश्वस्यापि प्रपञ्चस्य भगवद्विग्रहत्वेन वैश्वानरविद्यायामुपवर्णनात्। कथं तर्हि ‘स एषोऽग्निर्वैश्वानरः’ इत्यग्निशब्दः परमात्मनि प्रयुज्यते? तत्राह– योगत इति। पक्षान्तमप्याह– वैशिष्ट्याद्वेति। द्वयी हि गतिरत्र प्रयुज्यमानस्याग्निशब्दस्य । अग्रनयनादिना योगेनेत्येका, सर्वेषामग्रनयनं भगवानेव हि करोति। अपरा त्वग्निवैशिष्ट्येनेति सर्वविशिष्टस्यैव भगवतः सर्वसामानाधिकरण्यं युक्तमिति वेदान्तसिद्धान्तः।तर्हि किमर्थमत्र स्वशरीरे परमात्मधीः,गार्हपत्यादिपरिकल्पनं च तत्राह—क्रियेति।प्राणाहुत्यादिक्रियाङ्गमित्यर्थः।सा च क्रिया ब्रह्मविद्याङ्गत्वेन परविद्याफलायैव भवतीति भावः॥
मूलम् - 94
  1. स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्द्धादिक्लृप्त्या
    ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात्।
    मैवं ब्रह्मेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो
    वैशिष्ट्याद्वा क्रियाङ्गं स्ववपुषि परधीर्गार्हपत्यादिधीश्च॥
विश्वास-प्रस्तुतिः - 95
  1. अन्यस्मिन्नन्यदृष्ट्या न भवति विदुषां क्वापि निश्श्रेयसाप्ति-
    स्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वन्नसिद्ध्यादि मैवम्।
    ब्रह्मैव ह्यन्यदृष्ट्यन्वितघटितमिह ब्रह्मशब्दाद्यभावात्
    सर्वाघध्वंस उक्तः फलमपि परमं ब्रह्म च व्याप्तमन्नम्॥
३४-तमाहोबिल-यतिः - 95
  1. अन्यस्मिन्नित्यादि। विदुषाम् – उपासकानाम्। यद्वा परीक्षकाणाम्,परीक्षकाह्ययथावास्थितज्ञानेन मुक्तिं नाङ्गीकुर्वन्ति।अन्यस्मिन् – वस्तुनि। अन्यदृष्ट्या — वस्त्वन्तरत्वारोपणरूपोपासनेन। क्वापि – यत्र क्वचिदपि। निश्श्रेयसाप्तिर्न भवति – मोक्षप्राप्तिर्नोपपद्यते। यथाक्रतुन्यायेनायथावस्थितज्ञानस्यायथआवस्थितफलहेतुतया यथानस्थितमुक्तिहेतुत्वायोगादिति भावः। तस्मात् – उक्तोपपत्तिबलात्। असौ वैश्वानरः – विचार्मयाणो वैश्वानरात्मा । न परः – न परमात्मा। फलं चान्नसिद्ध्यादि – अत्रोपदिश्यमानमुपासनफलञ्चान्नसिद्ध्यादिरूपपवर्गविरुद्धमेवावगम्यते। इतिशब्दः पूर्वपक्षसमाप्त्यर्थः। इहेति पाठे इह प्रकरणे कीर्त्यमानं च फलमन्नसिद्ध्यादिरूपमित्यन्वयः। मैवम् – एवं मा शङ्किष्ठाः। इह – वैश्वानरविद्यायाम्। ब्रह्मैव ह्यन्यदृष्ट्यन्वितघटितम् — अन्यत् ब्रह्मदृष्ट्यन्वितघटितं न, अपितु ब्रह्मैव द्युमूर्धादिदृष्ट्यन्वितस्वरूपघटितं" ध्येयत्वेनोच्यते। अतो ब्रह्मण एव प्राधान्यात् न नामाद्युपासनतुल्यतेत्येशयः। ब्रह्मशब्दाद्यबाधात् — ‘को न आत्मा किं ब्रह्म’ इत्युपक्रमगतब्रह्मात्मशब्दाबाधाच्च। अन्यथा हि तयोर्बाध एव भवेदित्यर्थः। सर्वाघध्वंसः फलमप्युक्तः — किञ्चास्मिन्प्रकरणे ‘तद्यथैषीकतूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ इत्येतद्विद्याफलतया निर्दिष्टं सर्वलोकसर्वभूतसर्वात्मकव्याप्तमन्नं" च सर्वव्यापकं निरतिशयभोग्यरूपं ब्रह्मैव। प्रसिद्धान्नस्य सर्वलोकादिव्याप्चत्वासम्भवादिति भावः॥
कुमार-वरदः - 95

17.अत्र कश्चिच्चोदयति–परब्रह्मोपासनादेव मोक्षप्राप्ति ; नपुनर्गरुडमात्मानं विजानीयादितिवदन्यदृष्टिमात्रेण, कथमत्र नामब्रह्मेत्यादिवत् ब्रह्मदृष्ट्यन्वितेनात्मान्तरध्यानेनापवर्गप्राप्तिरिति, तदितमाह–अन्यस्मिन्निति।अन्यस्मिन्नन्यदृष्ट्या विदुषां क्वापि निःश्रेयसाप्तिर्न भवति।तस्मात्—अपवर्गावाप्तिहेतुत्वाभावात्।असौ वैश्वानरात्मा परमपुरुषो न भवति।किंचात्र कथ्यमानमपि फलमन्नसिद्ध््यादि अपवर्गाविरुद्धमेव।अतोऽपि न परः।उक्तमर्थः प्रतिक्षिपति–मैवमिति।अयमर्थः-अस्मिन्प्रकरणे ब्रह्मदृष्टिघटितमन्यत् प्राधान्येन ध्येयतया नोच्यते।अपितु द्युमूर्धादिदृष्ट्यन्वितस्वरूपघटितं ब्रह्मैव ध्येयत्वेनोच्यते। अतो ब्रह्मण एव प्राधान्यमित्यर्थः।तत्र हेतुमाह –ब्रह्मेति।उपक्रमस्थब्रह्मात्मशब्दयोरबाधादित्यर्थः।किं चास्मिन्प्रकरणे सर्वपापविमोक्षः" फलतया निर्दिश्यते।स च ब्रह्मविद्यायामेव युज्यते, कथं तर्हि सर्वत्रावस्थितान्नप्राप्तिः" फलतयोपदिश्यत इत्यत्राह–ब्रह्मचेति।अद्यत इत्यन्नमिति व्युत्पत्त्या ‘अहमन्नमहन्नादः ‘इति श्रुत्या च परमेव ब्रह्म अन्नशब्देनाभिधीयते।तथा च ब्रह्मविद्याया ब्रह्मप्राप्तिरिति को विरोधः॥

मूलम् - 95
  1. अन्यस्मिन्नन्यदृष्ट्या न भवति विदुषां क्वापि निश्श्रेयसाप्ति-
    स्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वन्नसिद्ध्यादि मैवम्।
    ब्रह्मैव ह्यन्यदृष्ट्यन्वितघटितमिह ब्रह्मशब्दाद्यभावात्
    सर्वाघध्वंस उक्तः फलमपि परमं ब्रह्म च व्याप्तमन्नम्॥
विश्वास-प्रस्तुतिः - 96
  1. त्रिष्वत्रोपासितॄणां मितहृदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो
    विश्वान्तर्यामितादेर्विपुलपरिमितश्चिन्तनीयस्त्रयेऽथ।
    षट्सु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्च-
    व्यावृत्ते विश्वहेतौ प्रकरणनियमान्नामवृत्त्या नमन्ति॥
३४-तमाहोबिल-यतिः - 96
  1. त्रिष्वत्रेत्यादि। अत्र –अस्मिन् द्वितीयपादे।त्रिषु –आदितः सर्वत्रप्रसिद्धाधिकरणात्तधिकरणाक्ष्यन्तराधिकरणेषु त्रिषु। उपासितॄणाम् –उपासकानाम्। मितहृदयगुहाक्ष्यन्चकनिश्चिन्त्य उक्तः —अल्पीभूतहृदयगुहाचक्षुरन्तर्वर्तितया चिन्तनीय इत्युक्तः। परमात्मेतिशेषः। ‘एष म आत्माऽन्तर्हृदये’ ‘तंदुर्दशं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठम् ’ ‘य एषोऽक्षिणि पुरुषः’ इति क्रमेणाधिकरणत्रयविषयवाक्येषु श्रवणादिति भावः।अथ – तदुपरि। त्रये–अधिकरणत्रये। विश्वान्तर्यामितादेः —जगदन्तर्यामित्वविभुत्वाभिविमानत्वगुणैः। विपुलपरमितिश्चिन्तनीयः– महापरिमाणतया चिन्तनीय उक्तः। ‘यःपृथिव्यां, योऽप्सु, यस्तेजसि’इत्यादिश्रवणात् ‘नित्यं विभुं सर्वगतम्’ इति श्रवणात् ‘यस्त्वेतमेव प्रादेशमात्रमभिविमानम्’ इति श्रवणाच्चेति भावः। षट्सु – उक्तेष्वेतत्पादाधइकरणेषु षट्सु। ब्रह्मात्मशब्दौ पुरुषपदमपि —- ब्रह्मात्मपुरुषशब्दा इति लक्ष्यार्थः, अन्यथा ‘नमन्ति’ इत्यनेनान्वयापत्तेः। क्षेत्रतज्ज्ञप्रपञअचव्यावृत्ते — उक्ताधिकरणविषयवाक्येषु चेतनाचेतनयोर्भगवच्छरीरत्वप्रतिपादनात् क्षेत्रक्षेत्रज्ञात्मकप्रपञ्चात् स्वशरीरभूतात् शरीरितया तद्विलक्षणे। विश्वहेतौ – जग्तकारणभूते श्रीमन्नारायणे। प्रकरणनियमात् – ,स्वप्रकरणस्य समानप्रकरणस्य च नियम्यत इति नियमः सामर्थ्यं" तस्मात्। नामवृत्त्या –रूढिशक्त्या। नमन्ति –वर्तन्त इत्यर्थः। अयं चिन्तामणिग्रन्थस्थपाठः। पाठान्तरमपि दृश्यते नामवृत्यामनन्तीति। यदा नामवृत्त्या आमनन्तीतिविच्छेदः। ब्रह्मात्मशब्दौ पुरुषपदमिति पदद्वयं द्वितीयान्तम्। भाष्यकारादय इति शेषः। भाष्यकारादयः" षट्सूक्तेष्वधिकरणेषु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञअचव्यावृत्ते विश्वहेतौ प्रकरणनियमात् नामवृत्त्याऽऽमनन्ति– वर्तन्त इति प्रतिपादयन्तीर्यर्थः॥
कुमार-वरदः - 96

18.अत्रोक्तमधिकरणषट्कम्,अत्र पूर्वत्रिकामुपासितृणामल्पीभूतहृदयगुहाक्ष्यन्तरस्थपरमपुरुषोपासनं प्रतिपादयति, उत्तरात्रिकं तु विश्वान्तर्यामित्वादिना विपुलपरिमिते र्भगवतश्चिन्तनीयत्वमुपपादयति,अतस्त्रिकद्वयविभागो द्रष्टव्य इत्याह–त्रिष्विति।अथ षट्स्वधिकरणेषु साधारणार्थमाह–षट्स्विति।ब्रह्मशब्द आत्माशब्दः पुरुषशब्दश्च त्रयोऽपि भगवदसाधारण्येन सुप्रसिद्धा लोके वेदे च।ब्रह्शब्दस्तावत् ‘ब्रह्म परिबृढं सर्वतः ‘इति. आत्मशब्दोऽपि ‘आत्मन आकाशः संभूतः ‘इति, पुरुषशब्दस्तु ‘पुरुष एवेदं सर्वम् ‘इति।एवं त्रयोऽपि शब्दा योगता लोकवेदप्रसिद्धरूढविशेषाच्चपरमपुरुष एव श्रीनिवासे विशेषवृत्या वर्तन्ते।तेन षट्स्वधिकरणेषु ब्रह्मात्मपुरुषशब्दाः" प्राचुर्येण नामवृत्यारूढ्यैव प्रकरणप्रामाणानुसाराच्च नमन्ति वर्तन्त इत्यर्थः।क्षेत्रेत्यादि–चेतनाचेतनव्यावृत्ते जगत्कारणइत्यर्थः॥

मूलम् - 96
  1. त्रिष्वत्रोपासितॄणां मितहृदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो
    विश्वान्तर्यामितादेर्विपुलपरिमितश्चिन्तनीयस्त्रयेऽथ।
    षट्सु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्च-
    व्यावृत्ते विश्वहेतौ प्रकरणनियमान्नामवृत्त्या नमन्ति॥
विश्वास-प्रस्तुतिः - 97
  1. तज्जत्वादेर्हि सर्वं जग्दभिगदितं ब्रह्मभावेन पूर्वं
    सर्वान्तर्यामिता च प्रभवितुरुदिता सर्वतद्देहता च।
    तस्माद्विश्वैक्यबाधप्रभृतिबहुविधापार्थबम्भ्रम्यमाण-
    क्षुद्रक्षीबोक्तिजालं निखिलमिह नयैस्सूत्रकारो निरास॥
३४-तमाहोबिल-यतिः - 97
  1. तज्जत्वादेरित्यादि।पूर्वम् –सर्वत्रप्रसिद्धाधिकरणे। सर्वं जगत् तज्जत्वादेः–ब्रह्मणो जातत्वात् ब्रह्माधीनाननत्वात् ब्रह्मणि लीनत्वाच्च। ब्रह्मभावेन —ब्रह्माभिन्नतया।हि –यस्मात् कारणात्।अभिगदितम् —‘सर्वं खल्विदं ब्रह्म तज्जलानिति’ इति श्रुत्या प्रतिपादनात्। प्रभवितुः –परमात्मनः।सर्वान्तर्यामिता च उदिता —सर्वस्य चेतनाचेतनात्मकसर्ववस्तु जातस्य अन्तर्यामिता अन्तः" प्रविश्य नियन्तृता आत्मतेत्यर्थः,चोऽप्यर्थः। प्रतिपक्षविरोधार्थः। अद्वैतिमतमूलहरा परमात्मान्तर्यामिता चोक्ता। सर्वद्देहता च — सर्वस्य चेतनाचेतनात्मकप्रपञअचस्य तच्छरीरत्वमपि ‘यस्य पृथिवी शरीरम्, यस्यात्मा शरीरम्’ इत्यादिस्वशब्देनैव बह्व्या वृत्त्या प्रतिपादितम्। तस्मात् –जगद्ब्रह्मणोरभेदस्य ‘सर्वं समाप्नोति ततोऽसि सर्वः’ इतिगीतावचन रीत्या ‘तत्थानत्वागवनुपश्यन्ति ह्येक" एवेति साधवः ’ इति ‘अवस्थितेः’ इति सूत्रसमानार्थकभारतवचनरीत्या च ‘देवालुराः संयत्ता आसन् ते देवा विभ्यतो ऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवताः’ इति श्रुतिदर्शिताग्निसर्वदेवतातादात्म्यवत् ‘यावती वै देवतास्ताः कारणत्वे कार्यवस्तुव्याप्त्यादिमूलकत्वप्रतिपादनात् जगद्ब्रह्मभेदवज्रटङ्कायामान परमात्मान्तर्यामित्वजगतच्थरीरत्वप्रतिपादनक्रियासमभिहाराच्च। विश्वैक्यबाधप्रभृतिबहुविधापार्थूम्भ्रमाणक्षुद्रबोक्तिजालं" निखिलम् — ब्रह्मैव जगद्रूपेण परिणमत इति भाष्यकाराङ्गीकरणात् विश्वैक्यं तन्मतानुसारेण जगतो ब्रह्मस्वरूपैक्यमित्यर्थः। बाधः" मृषावादिनां मते ब्रह्मण्येव विश्वमारोपितं तत्त्वमस्यादिवाक्यजन्यज्ञानेन तस्य बाध इत्यभ्युपगमात् विश्वस्य बाधः। प्रभृतिशब्देन जगद्रब्रह्मणोरभेदनिर्दिशो राजा राष्ट्रमित्यादिनिर्देशवत् भाक्त इति ये माध्वादयो ब्रुवते तद्ग्रहणम्। सर्वस्मिन्नपि ब्रह्मरूपस्य व्याप्तत्वात् तन्मूलकतया तादात्म्यनिर्देशस्य मुख्यतयोपपत्तौ केवलगौणत्वकल्पनमन्याय्यम्।ऐक्यञ्च बाधश्च ऐक्यबाधौ विश्वस्यैक्यबाधौ विश्वैक्यबाधौ तौ प्रभृतिः आदिर्येषां ते विश्वैक्यबाधप्रभृतयः। बहुविधाः – बहुप्रकाराः ऐक्यादिपक्षेषु तत्तद्भाष्यकारव्याख्यानकाराद्यङ्दीकारभेदेन विधानां बहुत्वम्, एमम्भूता ये अपार्था अपन्यायमूला अर्थाः तेषु बम्भ्र्म्यमाणाः पुनःपुनः परिवर्तनपरा ये क्षुद्रा बहुविझजन्मान्तरार्जितदुरितवशेन पुनःपुनरुपरितननरकादिमहानर्थहेतुभूतवेदार्थविप्लवनाय प्राप्तभूम्यवताराः प पापैकसाराःशङ्करभाष्यकारादिप्रच्छन्नबौद्धास्सन्ति तेषां क्षीबोक्तिजालमुन्मत्तप्रलापजालं सर्वमपि। इह –अस्मिन् प्रथमाध्यायद्वितीयपादे। सूत्रकारः –श्रीबादरायणः। निरास — स्वयमेव कण्ठोक्त्या निराचकार। सूत्रकारकण्ठोक्तिनिरस्तेषु दुर्दशनेषु कथं विवेकिनोऽपि परिभ्रमन्तीत्याशयः॥
कुमार-वरदः - 97

19.अस्मिन्पादे परपक्षप्रतिक्षेपः सुत्रकारेणैव साक्षात् कृत इत्याह–तज्जत्वादेरिति। ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’इति पादारम्भे तज्जत्वात् तल्लत्वात् तदन्त्वाच्च ’ सर्वं खल्विदं ब्रह्म ‘इति तज्जत्वादिकमेव सामानाधिकरण्यहेतुः,न पुनः" स्तुतिदृष्टिविधादिकमित्युक्तम्।अतस्तत्रैव शरिरात्मभावसिद्धिः।मध्ये पुनरन्तर्यामिब्राह्मणे ‘यस्यात्मा शरिरिं , यस्य पृथिवी शरीरं,स त आ्त्माऽन्तर्याम्यमृतः’इति शरीरशरीरिभावकथनपूर्वकं तदुपपादकान्तर्यौमित्वं" प्रतिष्ठापितम्।तदिदमाह–सर्वान्तर्यामि।सर्वान्तर्यामिता प्रभवितुर्भगवत उदिता।सर्वतद्देहता च उदितेत्यर्थः।एवं सूत्रकारवचनस्य प्रयोजनमाह–तस्मादिति।एवं वचनाद् विश्वैक्यं भास्करादीनाम्, बाधस्तु मृषावादीनाम्।राजा राष्ट्रमित्यादिवत् स्तुत्यर्थसामानाधिकरण्यं भक्तमिति केषांचित्।जरन्मायावादीनां" दष्टिविधिदर्शनादिति।इत्थं बहुविधापार्थरूपसामानाधिकरण्यकारणकथनबम्भ्रम्यमाण- क्षुद्रहृदयमत्तप्रलापजालं निखिलमेवेह पादे षड्भिर्नयैरधिकरणैः सूत्रकारो निरास॥

मूलम् - 97
  1. तज्जत्वादेर्हि सर्वं जग्दभिगदितं ब्रह्मभावेन पूर्वं
    सर्वान्तर्यामिता च प्रभवितुरुदिता सर्वतद्देहता च।
    तस्माद्विश्वैक्यबाधप्रभृतिबहुविधापार्थबम्भ्रम्यमाण-
    क्षुद्रक्षीबोक्तिजालं निखिलमिह नयैस्सूत्रकारो निरास॥
विश्वास-प्रस्तुतिः - 98
  1. स्वाधीनाशेषसत्तास्थितियतनतया सर्वभावेन तिष्ठन्
    ग्रस्ताशेषोऽक्षिनित्यस्थितिरखिलतनुः कल्पिताग्न्यादिगात्रः।
    स्वर्लोकाद्यङ्गवैश्वानरपदविषयो लक्षणस्यादिमस्य
    प्रोक्तः पादे द्वितीये श्रुतिनिकरशिरश्शेखरः श्रीनिवासः॥
३४-तमाहोबिल-यतिः - 98
  1. स्वाधीनाशेषेत्यादि। स्वाधीनाशेषसत्तास्थितियतनतया सर्वभावेन तिष्ठन् – स्वाधीनानि अशेषवस्तूनां सत्तास्थितियतनानि यस्य तस्य भावस्तया तिष्टन् वर्तमानः। ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इतिवाक्यविषयतसर्वत्रप्रसिद्धाधिकरणार्थोऽयम्। ग्रस्ताशेषः —-ग्रस्तं कबलीकृतमशेषं येन स ग्रस्ताशेषः। ‘यस्य ब्रह्म च क्षत्रं" चोभे भवत ओदनः।मृत्युर्यस्योपसेचनम्’ इति वाक्यविषयकात्ताधिकरणार्थोऽयम्। अक्षिनित्यस्थितिः –अक्ष्णि नित्या स्थितिरवस्थानं" ‘यश्चक्षुषि तिष्ठन्’ इत्यादिना प्रतिपादितं यस्य सः अक्षिनित्यस्थितिः।शरजन्मा, चक्रपाणिरित्यादिवत्समासः। ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इत्यादिवाक्यविषयकाक्ष्यन्तराधिकरणार्थोऽयम्।अखिलतनुः – चेतनाचेतनात्मकमखिलं वस्तु तनुः शरीरं यस्य सः अखिलतनुः ‘यः" पृथिव्यां तिष्ठन्, य आत्मनि तिष्ठन्’ इत्यादिवाक्यविषयकान्तर्याम्यधिकरणार्थोऽयम्। कल्पिताग्न्यादिगात्रः –कल्पितं मूर्धादित्वेन परिकल्पितं अग्निशब्दितद्युलोकचन्द्रसूर्यदिग्देवायुविश्वपृथिवीरूपं मूर्धचक्षुःश्रोत्रोवाग्व्यापारप्राणाहृदयपादात्मकं गात्रं" शरीरं यस्य सः कल्पिताग्न्यादिगात्रः। ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यम्’ अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ’ ित्इत्यादिवाक्यविषयकादृश्यत्वाधइकरणार्थोऽयम्। स्वर्लोकाद्यङ्गवैश्वानरमतिविषयः —स्वर्लोकादीनि स्वर्गलोकादित्यवाय्वाकाशजलपृथिवीरूपाणि अङ्गानि यस्य सः स्वर्लोकाद्यङ्गः स चासौ वैश्वानरः, तद्विषयिणी या मतिः उपासना तद्विषयः ‘प्राचीनशाल औपमन्यवः’ इत्यारभ्य ‘मूर्धा त्वेष आत्मन इति होवाच,’’ ’’ चक्षुष्ट्वेतदात्मन इति होवाच ’’ िइत्यादिवाक्यविषयकवैश्वानराधिकरणार्थोऽयम्। एवम्भूतः श्रुतिनिकरशिरश्शेखरः" —निखिलवेदान्तभूषणभूतः। श्रीनिवासः —श्रीमान् नारायणः। आदिमस्य लक्षणस्य —शारीरकप्रथमाध्यायस्य। द्वितीये पादे प्रोक्तः" –प्रकर्षेण प्रतिपादितः, इमे गुणा अस्मिन् पादे प्रतिपत्तव्या इति भावः॥
कुमार-वरदः - 98
  1. षण्णामधिकरणानां विशेषतो भगवद्गुणविशेष प्रख्यापकत्वमाह– स्वाधीनेति। अत्र शाण्डिल्यविद्याविषये प्रथमाधिकरणे भगवतः- स्वाधीनाशेषसत्तास्थितियतनतया सर्वात्मभावेनावस्थानमुच्यते। अत्र द्वितीयाधिकरणे पुनः कठवल्लीप्रतिपाद्यस्य तस्यैव परत्वमुच्यते। तदप्याह– ग्रस्ताशेष इति। समनन्तराधिकरणार्थमाह– अक्षिनित्यस्थितिरिति। अथान्तर्याम्यधिकरणार्थमाह–अखिलतनुरिति। सर्वशरीरत्वमेव हि तत्र विशेषतः प्रकाश्यते। अदृश्यत्वाद्यदिकरणार्थमाह– कल्पितेति मूर्धादित्वेन परिकल्पितेत्यर्थः । स्वर्लोकेत्यादिना वैश्वानराधिकरणार्थः प्रकाश्यते। अस्यादिमस्य लक्षणस्य अध्यायस्य द्वितीये पादे एवंभूतगुणविशिष्टः श्रुतिनिकरशिरश्शेखरः श्रीनिवासः प्रतिपाद्यत इत्यर्थः॥
मूलम् - 98
  1. स्वाधीनाशेषसत्तास्थितियतनतया सर्वभावेन तिष्ठन्
    ग्रस्ताशेषोऽक्षिनित्यस्थितिरखिलतनुः कल्पिताग्न्यादिगात्रः।
    स्वर्लोकाद्यङ्गवैश्वानरपदविषयो लक्षणस्यादिमस्य
    प्रोक्तः पादे द्वितीये श्रुतिनिकरशिरश्शेखरः श्रीनिवासः॥