विश्वास-प्रस्तुतिः - 93
- दृश्यत्वादेर्निषेधो विकृतिमति भवत्यक्षरे सन्निकर्षात्
पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत्।
सर्वज्ञत्वादिदृष्टः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धं
पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः॥
३४-तमाहोबिल-यतिः - 93
- दृश्यत्वादेरित्यादि। दृश्यत्वादेर्निषेधः —मुण्जकोपनिषदि ‘अथ परा यया तदक्षमधिगम्यते ’ इत्यादिवाक्ये ‘अद्रेश्यम्’ इत्यस्य अदृश्यमित्यर्थकतया दृष्यत्वनिषेधो लब्धः, सोऽयं दृश्यत्वनिषेधः, आदिशब्देन ग्राह्यत्वनिषेधः। सन्निकर्षात् —पृथिव्यादिषु दृष्टदृश्यत्वनिषेधसन्निकर्षात्। विकृतिमत्यक्षरे भवति — पृथिव्यादिविकृतिशालिनि प्रकृत्यात्मकेऽक्षरे भवितुमर्हति। पञ्चम्युक्ताक्षरं तत्—उत्तरत्र ‘आक्षरात्परतः परः’ इतिवाक्ये ‘अक्षरात्’ इति पञ्चमीविभक्त्यन्तमेनोक्तं यदक्षरपदं तदर्थभूतमक्षरं" वस्तु चात्रोच्यमानं प्रधानमेव। तदवधिकपरःपञ्चविंशोऽस्तु —तस्मिन्नेव वाक्ये अक्षरात्पर इत्यक्षरापेक्षया परत्वाश्रयत्वेन पर इति निर्दिश्यमानश्च जीवोऽस्तु। ‘आत्मा तु स मकारेण पञ्चविंशः प्रकीर्तितः’ इति प्रमाणेन प्रकृत्यादिचतुर्विंशतितत्त्वेभ्यः परत्वेन जीवः पञ्चविंश इत्युच्यते। ‘परतः’ इति तसिलन्तस्य ‘अक्षरात्’ इति पदं प्रति विशेषणत्वात् स्वविकृतिभ्यः परभूतादक्षरात्प्रधानात् परो जीव इत्यर्थः इति भावः। मा भूत् — इयमाशङ्कनं न सम्भवति। सर्वज्ञत्वादिदृष्टेः —‘यः सर्वज्ञः सर्ववित्’ इत्यादिना परमात्मासाधरणसर्वज्ञत्वादिगुणप्रतिपादनात्। प्रथमसमुदितमक्षरं तु —’ अथ परा यया तदक्षरमधिगम्यते’ इति प्रथणवाक्योक्तमक्षरम्। शुद्धं ब्रह्म — स्वरूपस्वभावविकाररूपाशुद्धिरहिततया क्षररहितं परं ब्रह्मैव। पश्चादुक्तं तु जीवादिकम् –‘अक्षरात्परतः परः’ इति वाक्ये पञ्चम्यन्ताक्षरपदवाच्यं तु जीवो वा भवति प्रधानं वा भवति। कुत इति चेत् अवधितया भेदतस्तत्परोक्तेः – पञ्चम्यन्ताक्षरशब्दार्थस्य प्रथमान्तपरशब्दार्थभूतपरत्वनिरूपकत्वात् तद्भिन्नतया तस्मात्परइति परमात्मनः प्रतिपादनाद्धेतोरित्यर्थः। अक्षरशब्दस्य जीवपरत्वे ’ परतः’ प्रकृत्यपेक्षया परभूतात् ‘अक्षरात्’ जीवात् ‘परः’ इति योजना। अक्षरशब्दस्य प्रधानपरत्वे ‘अक्षरात्’ प्रधानात् ‘परः’ परभूताज्जीवात् ‘परः’ इति योजना॥
कुमार-वरदः - 93
- अत्र भाष्ये संगतेः स्फुटत्वादधिकरणमेवारचयति– दृश्यत्वादेरिति। इयं किलात्र संगतिः– पूर्वाधिकरणे परमपुरुषस्य जीवस्यापि नियन्तृत्वेन ‘अदृष्टो द्रष्टा’इति द्रष्टृत्वेनाभिधानाज्जीवो नान्तर्यामित्युक्तम् इह तु न ताद्दशं द्रष्टृत्वादिकमुच्यते । अतः प्रकृतिर्जीवो वा अद्दश्यत्वादिगुणकमक्षरमिति । तदर्थविचारश्तु—अथ परा यया तदक्षरम् इत्यादिवाक्येऽद्दश्यत्वादिगुणकमक्षरात्परतः परश्च किं प्रधानपुरुषौ, उत परमात्मेति । पृथिव्यादिशंबन्धितया द्दष्टं स्थूलत््वादिकं निषिध्यमानं पृथिव्यादिसजातीयमचेतनमाश्रयमुपस्थापयति उत नेति । किं `यथोर्णनाभिः सृजते गृह्णते च’इत्यादिद्दष्टान्तोपादानमचेतनाश्रयोपस्थापकं नेति । किं ‘अक्षरात्संभवतीह विश्वम्’ इत्यत्र विश्वशब्दश्चेतनाचेतनप्रपञ्चमुपस्थापयति, उताचेतनमात्रमिति। अत्रायं पूर्वपक्षः – पूर्वं विश्वनियन्तृत्वेनान्तर्यामी परमात्मास्तु, इह पुनः परविद्याप्रसङ्गे ‘यत्तदद्रेश्यम्’ इत्यादिना मूलप्रकृतिर्जीवो वाऽभिधीयते, ‘अद्रेशयम्’ इति ह्यत्र श्रूयते, अद्रेश्यत्वमदृश्यत्वम्, तेन प्रकृतिकार्यपृथिव्यादिषुप दृष्टदृश्यत्वनिषेधः सन्निकर्षात् प्रकृतिमेव उतस्थापयति न पुनरसंनिकृष्टं परमात्मानम्, यथा ह्यह्काह्मण इति संनिकृष्टं क्षत्रियमेव कथयति न पुनरसंनिकृष्टानन्यान्, अथवा अक्षरशब्दोऽर्थसामर्थ्याज्जीवं" कथयतु त्सायपि प्रकृत्यधिष्ठआतुः प्रकृतिद्वार दृष्य पृथिव्यादिकार्ययधीनिर्णेतव्यत्वात्, उत्तरत्र ‘अक्षरात्परतः परः’इति पञ्चम्युक्ताक्षरमशब्दः" परतोऽक्षरादिति सानमानाधिकरण्येन तदेवाक्षरमाह।तस्मात्परइति तु जीव एवाभिधीयते। तेनात्र प्रकृतिपुरुषातिरिक्तः परमपुरुषो नास्तीति। राद्धान्तमारभते– मा भूदिति। हेतुमाह– सर्वज्ञत्वादिदृष्टेरिति। ‘यः सर्वज्ञः सर्ववित्’ इति सर्वज्ञत्वादेःपरमात्मासाधारणगुणस्यात्र दृष्टेः, प्रथमसमुदितं त्वक्षरं परमपुरुष एव। तर्हि ‘अक्षरात्परतः परः ’ इति द्वितीयाक्षरशब्दस्य को?र्थः प्रकृतिरेव। ‘अक्षरात्’प्रकृतेः ‘परतः’जीवात् ‘परः परमपुरुष इति वाक्ययोजना। अत्र जीवादिकमित्युक्त्या जीवोऽप्यक्षरशब्दवाच्यः, तदा समानाधिकरणे पञ्चम्यौ प्रकृतेः परतोऽक्षराज्जीवात्पर इति। तेन प्रकृतिपुरुषाभ्यां परः) परमपुरुष एवात्रोच्यते॥
मूलम् - 93
- दृश्यत्वादेर्निषेधो विकृतिमति भवत्यक्षरे सन्निकर्षात्
पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत्।
सर्वज्ञत्वादिदृष्टः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धं
पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः॥