16 अन्तर्याम्यधिकरणम्

विश्वास-प्रस्तुतिः - 91
  1. अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनूक्ते-
    र्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात्।
    द्रष्टृत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं
    तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम्॥
३४-तमाहोबिल-यतिः - 91
  1. अन्तर्यामीत्यादि। अन्तर्यामी —-यः पृथिव्यां तिष्टन् पृथिव्या अन्तरः ‘इत्यादिवाजसनेयकश्रुतौ ‘एष त आत्मा।न्तर्याम्यमृतः’ इति प्रतिपन्नोऽन्तर्यामी। स जीवः —- सर्वशरीरेषु आत्मतया वर्तमानः प्रसिद्धो जीवात्मैव। कुतः? बहुविधकरणायत्तधईवृत्त्यनूक्तेः" —’ द्रष्टा श्रोता इत्यादिवाक्यशेष नानाविधचक्षुरादीन्द्रियजन्यबुद्धिमत्तयाऽनुवादात्। किंच, नान्यो द्रष्टेत्युक्तेश्च —‘नान्योऽस्ति द्रष्टा’ इत्यादिना ‘अतः’ करणायत्तधीवृत्तिमतो द्रष्टुः ‘अन्यः’ ईश्वरादिः ‘न’ नान्तर्यामी इत्युपपादनाच्च।इति यदि – एवं शङ्क्यते यदि। न – न तद्युक्तम्। नियन्त्रन्तरस्य व्युदासात् — ‘यं पृथिवी न वेद ’ ’ यमात्मा न वेद’ इत्यादिभिर्वाक्यैः पृथिव्यात्मादि नियाम्यैरनुपलम्भमान एव नियमयतीति यत्पूर्वमुक्तम्, तदेव ‘अदृष्टो द्रष्टाऽश्रुतः श्रोता’ इति निगमस्य ‘नान्योऽतोऽस्ति द्रष्टा ’ इत्यादिना तस्य नियन्तुर्नियन्त्ररस्यैव निषिध्यमानत्वात्। द्रष्टृत्वाद्यं तु तत्तद्विषयघटितधीरूपमीशे मुख्यं हि —–‘द्रष्टा श्रोता’ इत्यादिश्रुत्यवगतं द्रष्टृत्वादिकं रूपशब्दादिविषयकं बुद्धिविशेषात्मकं सत् करणानायात्तज्ञानेऽपि परमात्मनि मुख्यमेव हि भवति। नहि चक्षुर्जन्यज्ञानवानेव द्रष्टा, श्रोत्रजन्यज्ञानवानेव श्रोतेति च व्यवहार्य इति राजाज्ञेति भावः। काण्वमाध्यन्दिनपरिपठितास्ततद्धर्माः" —- यदेकस्यैव सतः सर्वलोकसर्वभूतसर्वसर्वदैवादिनियमनम्, एवमादयः काण्वमाध्यन्दिनाख्याध्यायपकविशेषपरिपठिताः परमात्मैकयोग्या धर्माश्च परमात्मत्वनिर्णायकाः सन्ति। तस्यात्मा शरीरं च – तस्य अन्तर्यामिणः,आत्मा जीवात्मा शरीरं च शरीरमिति चोच्यते। ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम्’ इत्यादिश्रुतेरित्यर्थः। नहि जीवस्य जीवः शरीरं भवितुमर्हतीति भावः॥
कुमार-वरदः - 91
  1. अत्र पेटिकासंगतिस्तावदुच्यते।पूर्वमुपासकशरीरस्थहृदयादिपरिमितदेशावच्छिन्नः परमपुरुष उपास्यतया प्रतिपन्न इति त्रयाणामधिकरणानां" संबन्ध उक्तः।उत्तरत्र त्रिष्वधिकरणेषु विपुलदेशावस्थितः" परमात्मोपास्यतया प्रतीयत इति विभागः। अक्ष्यधिकरणान्तर्याम्यधिकरणयोस्तु संगतिर्भाष्यकारैरेवोक्ता यश्चक्षुषि तिष्ठन्नित्यन्तर्याम्यघिकरणे सूचितं परमपुरुषस्य चक्षुष्यवस्थानं ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इत्यक्ष्यधिकरणे सूचितमिति, अधुना चक्षुष्यवस्थानं परमात्मनो जीवस्य वेति चिन्त्यते"इति। आचार्यस्तु प्रकारान्तरेणापि संगतिमालपन्तः पूर्वपक्षसिद्धान्त संग्रहेण प्रकटयन्ति–अन्तर्यामीति। तदर्थविचारस्तु – किमन्तर्यामी प्रत्यगात्मा उत परमात्मेति। किं ‘अदृष्टो द्रष्टाऽश्रुतः" श्रोता’ इत्यादिद्रष्टृत्वादिश्रवणमन्तर्यामिणि जीवभावमवगमयति नेति। किं द्रष्टृत्वं जीवस्यैव उत परमात्मनो संभवति। किं द्रष्टृत्वादिकं चक्षुरादिजन्यज्ञानकर्तृत्वमुत रूपाद्यपरोक्षज्ञानाश्रयमिति। ‘अदृष्टो द्रष्टा’इत्यादिना पुरुषस्य शरीरकरणमायत्तधीवृत्तिद्रष्टृत्वादिकमुच्यते। तेन पूर्वेषु विद्याविशेषेष्वस्तु परमात्मा प्रतिपाद्यः। अन्तर्यामिब्राह्मणे पुनर्न परमपुरुषः प्रतिपाद्यः। तद्विरुद्धकरणायत्तधीवृत्त्यनूक्तेर्दर्शनादिति पूर्वाधिकरणोक्ताक्षेपेण संगतिः। किञ्च ‘नान्योऽतोऽस्ति द्रष्टा’ इति साक्षआदेव तस्माज्जीवादतिरिक्तस्य परमपुरुषस्य निषेधो दृश्यते। स च पूर्वाधिकरणोक्ताक्षेपः अनेनैव पूर्वपक्षोपन्यासश्च संक्षेपतः कृतः। पूर्वपक्षँ प्रतिक्षिपति–नेति। तत्र हेतुमाह– नियन्त्रिति। लोके हि कञ्चिदर्थमुक्त्वाऽन्यप्रयोगे तत्सदृशस्य वा सजातियसंनिकृष्टयोरन्यतरस्य वा तेन प्राप्तमिति वदन्ति प्राज्ञाः।उदाहरन्ति च ‘एष वाव प्रथमो यज्ञो यज्ञानां यो ज्योतिष्टोमः’इत्युक्त्वा पुनरपि ‘तेनानिष्ट्वा नान्येन यजेत’ इति च तत्सदृशवस्त्वन्तरयजनविषय एव योग्यत्वादुच्यते,न पुनर्यज्ञान्तरमात्रम्।नह्यत्र यज्ञशब्दवाच्यत्वमात्रेण ब्रह्मयज्ञादिकमपि व्यावर्तयते।एवमिष्टौ ‘समानमितरत् श्येनेन’इत्यादौ इष्टिवैशेषिकधर्माणामेव पूर्वप्रकृतत्वादितरशब्देन श्येनवैशेषिकधर्म एवोच्यते, न पुनः ‘प्रकृतिवद्विकृतिः कर्तव्या’इति चोदकप्राप्ताः सामान्यधर्माः।एवमग्रजः समागतो नान्य इत्युक्ते तत्संनिकृष्टः स्वानुज एव प्रतीयते। इत्थं अद्वितीयप्रतिपन्नपुरुषसदृषनियन्त्रन्तरमेव निषिध्यते नपुनः पुरुषमात्रम्।नहिश्वरस्येश्वरान्तरमस्ति।यत्तु द्रष्टृत्वाद्यं करणायत्तज्ञानवत्वस्वरूपत्वादीश्वरे न संभवतीत्युक्तम्,तत् समाधते–द्रष्टृत्वाद्यमिति।नह्यत्र दष्टृत्वं चक्षुर्जन्यज्ञानवत्वम्, अपितु रूपविषयज्ञानवत्वमिति विषयतो निरूप्यते न पुनः करणतः।एवं" श्रोतृत्वमिति शब्दविषयज्ञानवत्वमेव कथ्यते नपुनः श्रोत्ररूपकरणसापेक्षत्वम्।तेनेश्वरस्य तत्तत्करसापेक्षत्वाभावेऽपि स्वाभाविकतत्तद्विषयसाक्षात्करणादिव्यवहारो युज्यते।किंञ्चेश्वरत्वनियामका धर्मा विश्वनियमनादयः काण्ठापाठे माध्यन्दिनपाठेच परिपठिताः सर्वद्रष्टुरीश्वरत्वे नियामकानि लिङ्गानित्याह—तद्घर्मा इति।तस्य चात्मा शरिरमिति–उक्तमन्यत् सर्वमस्तु,इदमेव समाधानमीश्वरत्वनियामकं यत् पृथिव्यादिरिव ‘यस्यात्माशर्रम्’इति जीवोऽपीश्वरस्य शरिरतया निर्दिश्यत इति।अतो जीवादन्य एवान्तर्यामिति सिद्धम्॥
मूलम् - 91
  1. अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनूक्ते-
    र्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात्।
    द्रष्टृत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं
    तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम्॥
विश्वास-प्रस्तुतिः - 92
  1. स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दा-
    वेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः।
    लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकतानौ
    बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम्॥
३४-तमाहोबिल-यतिः - 92

14.स्थानैक्यादित्यादि। अत्र —वाजसनेयकेऽन्तर्यामिब्राह्मणे।शाखाद्वयपरिपठितौ –काण्वमाध्यन्दिनाख्यशाखआद्वये एकस्यां ‘आत्मनि’ इति अन्यस्यां ‘विज्ञाने’ इति च पठितौ।आत्मविज्ञानशब्दौ स्थानैक्यात् – ‘यः पृथिव्याम्’ इत्यादिषु समसङ्ख्येषु पर्यायेषु गतेषु तत एकस्मिन्पर्याये आत्मविज्ञानशब्दयोः शाखाभेदेन श्रवणात् स्थानैक्यं तस्मात्, यस्थाने एकस्यां शाखायामात्मशब्दः पठितस्तत्स्थान एव शाखान्तरे विज्ञानशब्दश्रवणादितियावत्।एकार्थावित्यकम्प्यम् — यदर्थक आत्मशब्द्स्तदर्थक एव विज्ञानशब्द इति निश्चलमुपपादनम्।तदपि — स्थऐनैक्यादैकार्थ्यावश्कत्वमङ्गीकृत्यपि। बुद्धिमेव —अन्तःकरणमेव। इति –आत्मविज्ञानशब्दार्थत्वेन। कथयतः –केवलधाष्टर्येन जल्पतः।अपार्थम् —अपकृष्टार्थकं वचनम्। अप्रसिद्धार्थकं भवेदित्यर्थः। लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकातानौ —-‘आत्मा यज्ञं धृतौ जीवे’ ‘आत्मा तु स मकारेण पञ्चविंशः प्रकीर्तितः’ ‘आत्मानं रथिनं विद्धि’ ‘विज्ञानं यज्ञं तनुते’ ‘विज्ञानघन एव’ ‘विज्ञानात्मा’ इत्यादिलोकवेदप्रसिद्ध्यनुस्यूतिबलात् एतावात्मविज्ञानशब्दौ चेतनैकवर्तिनावगम्येते हि। अस्मिन् केनापि बाधो न —अस्मिन्नर्थे प्रबलेन केनचित्प्रमाणेन प्रतिरोधोऽपि न भवति। प्रत्यक्षबाधेन हि ‘आदित्यो यूपः’ इत्यत्र गौणी वृत्तिराश्रिता। अत्र न तथा प्रमाणबाधः, येन मुख्यार्थप्रहाणेन गौणार्थकत्वकल्पनेतिभावः। स त इत्यादिभिः सामरस्यं" च भवति — ’ स त आत्माऽन्तर्याम्यमृतः’ इति खलु वाक्यनिगमनम्। अत्र ‘ते’ इति शरीरभूतजीवनिर्देशः, ‘अन्तर्याम्यमृतः’ इति शरीरगतदोषसंस्पृष्टोऽन्तर्यामी प्रतीयते, एवं च पूर्वोक्तरीत्याऽऽत्मविज्ञानशब्दितस्य जीवात्मनः परमात्मशरीरत्वाङ्गीकारे सत्येव प्रतिपर्यायं निरुक्तार्थनिगमनवाक्यसामरस्यं" च सिध्यति। अतोऽप्यात्मविज्ञानशब्दार्थो जीवात्मैवेतिभावः॥

कुमार-वरदः - 92
  1. कश्चिदाह– यद्यप्यात्मविज्ञानशब्दयोरन्योन्यस्थानयोरन्योन्यपाठादेकार्थत्वमस्ति तथापि जीवपरत्वं नास्ति उभाभ्यामपि शब्दाभ्यामन्तःकरणस्यैवाभिधानात् तेन कथमत्र जीवपरमात्मनोः शरीरात्मभावेन भेदः प्रतीयत इति, तदिदमुच्यते–स्थानेति। प्रतिक्षिपति–अपार्थमिति। हेतुमाह– लोकेति। शब्दार्थनिर्णये लोकवेदप्रसिद्धिरेव नियामिका। आत्मविज्ञानशब्दौ लोकवेदयोश्चेतनासाधारणतया निर्णीतौ। अतो नान्तःकरणपरावित्यर्थः। तयोर्गौणी वृत्तिरस्त्विति चेत्;नेत्याह– बाध इति। बाधे सत्येव ह्यौपचारिकी वृत्तिराश्रयणीया, अत्र त्वात्मविज्ञान – शब्दयोर्जीवपरत्वे बाधो नास्तीत्यर्थः। न केवलं बाधाभाव एव, अपि तु प्रतिपर्यायमनुग्राहकमेव निगमनवाक्यमित्याह– भवतीति। त इति– बोध्यशरीरभूतजीवनिर्देशः। ‘अन्तर्याम्यमृतः’इति शरीरगतदोषासंस्पृष्टोऽन्तर्यामी प्रतीयत इति व्यक्तमेव भेदः प्रतीयते जीवपरमात्मनोः॥
मूलम् - 92
  1. स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दा-
    वेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः।
    लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकतानौ
    बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम्॥