विश्वास-प्रस्तुतिः - 88
- यद्वृत्तादेर्य एषोऽक्षिणि पुरुष इति श्रूयमाणोऽस्तु जीवो
यद्वाऽक्ष्णोर्देवताऽर्कः प्रतिकृतिरथवा तत्र दृश्येति चेन्न।
एतद्ब्रह्मैतदेवामृतमभयमिदं कं खमित्याद्यधीते-
स्संयद्वामत्वमुख्यैस्स्थितिनियतिबलादर्चिराद्युक्तितश्च॥
३४-तमाहोबिल-यतिः - 88
- यद्वृत्तादेरित्यादि। यद्वृत्तार्देर्य एषोऽक्षिणि पुरुष इति श्रूयमाणस्तु जीवः —’ य एषोऽक्षिणि पुरुषो दृश्यते’ इति च्छान्दोग्यश्रुतौ प्रसिद्धवन्निर्देशरूपयच्छब्दादे र्ज्ञापकात् ‘अक्षिणि’ चक्षुषि, ‘य एष पुरुषो दृश्यते’ योऽसौ पुरुषात्मा दृश्यत इति श्रूयमाणस्तु जीवात्मा। उन्मीलितनिमिषित चक्षुरुद्वीक्षणेन शरीरे जीवात्मनः स्थितिगतिनिश्चयदर्शनादिति भावः।यद्वा — पक्षान्तरे। य एषोऽक्षिणि पुरुष इति श्रूयमाण इत्युद्देश्यांशः सर्वविधेयविकल्पेष्वनुवर्तयितव्यः। अक्ष्णोर्देवता अर्कः –‘आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्’ इति चक्षुर्देवताभूतः सूर्यो वा।अथवा — पक्षान्तते। तत्र — अक्षिणि। दृश्या — दृश्यमाना। प्रतिकृतिर्वा — पुरुषान्तरप्रपतिकृतिर्वाऽस्तु। तस्यां ‘दृश्यते’ इत्यस्योपपन्नत्वादितिभावः। इति चेन्न — इति शङ्क्यते चेत् तन्न सम्भवति।एतद्ब्रह्म एतदेवामृतमभयं इदं कं खं इत्याद्यधीतेः" — अन्तरवाक्ये ‘एतदमृमभयम्, एतद्ब्रह्म प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इत्यादिश्रुतेः। एतच्छ्रुत्युकातनाममृतत्वाभयत्वनिरतिशयबृहत्त्वापरिच्छिन्नसुखरूपत्वादिधर्माणां" परमात्मभिन्नेष्वसम्भवादित्यर्थः। संयद्वामत्वमुख्यैः — ‘एतं संयद्वाम इत्याचक्षते एष उ एव वामनिः एश उ एव भामनिः’ इत्यादिश्रुत्युक्तैः" सर्वकल्याणगुणाश्रयत्वरूपसंयद्वामत्वस्वाश्रितशोभनप्रापकत्वरूपवामनित्वसर्वलोकव्याप्तदीप्तिमद्विग्रहयुक्तत्वरूपभामनित्वादिगुणैः। स्थितिनियतिबलात् — ‘यश्चक्षुषि तिष्ठन्’ इति श्रुतिबलात् चक्षुष्यवस्थाननैयत्यात्। अर्चिराद्युक्तितश्च —- ब्रह्मविदसाधारणगमनस्यार्चिरादिमार्गस्याक्षइपुरुषविद्यानिष्ठगन्तव्यतया प्रतिपादनाच्च। इति चेन्नति योजना॥
कुमार-वरदः - 88
- पूर्वाधिकरणेऽप्युपासकस्य हृदयगुहान्तर्वर्ती परमात्मा निरूपितः, इदानीमुपासकस्य चक्षुर्वर्ती परमपुरुषो निरूप्यत इति संगतिः। तदर्थविचारस्तु – किमक्ष्यन्तर्वर्तितया निर्दिश्यमानः प्रतिबिम्बचक्षुरधिष्ठातृजीवानामन्यतमः, उत परमात्मेति। किममृतत्वादयो यथाकथञ्चिन्नेया उत मुख्यतया नेया इति। किं ‘कं ब्रह्म खं ब्रह्म’ इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मण उपासनस्थानविधानार्थं" संयद्वामनेति। किमग्निविद्या ब्रह्मविद्याङ्गं नेति। किमग्निविद्याफलं ब्रह्मविद्याङ्गत्वानुगुणं नेति। अत्रायं पूर्वपक्षः – ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति प्रसिद्धवन्निर्देशरूपयच्छब्दादेः प्रतीयमानः पुरुषो जीवोऽस्तु , यद्वा चक्षुर्देवतात्वेन श्रूयमाणः सूर्यः, अथवा चक्षुषि दृश्यमाना प्रतिकृतिरेवास्त्विति। निराकरोति –नेति। कुत इत्यत्र श्रूयमानपरमपुरुषासाधारणगुणानुपपत्तिं" हेतुमाह – एतदिति। एतद्ब्रह्मेति– ब्रह्मत्वम्। एतदमृतमिति– अमृतत्वम्।इयमभयमिति अभयत्वम्। कमिति – सुखरूपत्वम्। खमिति–आकाशवद्विपुलत्वम्।. संयदिति– अनुकूलत्वम्। अन्यैश्च तादृशैः परमपुरुषलिङ्गैः स्थितिनियतिबलात् –‘दृश्यते’इति वर्तमाननिर्देशेन चक्षुष्यवस्थाननियतत्वं" ब्रह्मनिष्ठानामेवासाधारण्येन प्रतिपाद्यमानार्चिरादिमार्गगमनस्यात्रोपदेशाच्च परमपुरुष एवायमक्ष्यन्तरः पुरुष इति निर्णीयते॥
मूलम् - 88
- यद्वृत्तादेर्य एषोऽक्षिणि पुरुष इति श्रूयमाणोऽस्तु जीवो
यद्वाऽक्ष्णोर्देवताऽर्कः प्रतिकृतिरथवा तत्र दृश्येति चेन्न।
एतद्ब्रह्मैतदेवामृतमभयमिदं कं खमित्याद्यधीते-
स्संयद्वामत्वमुख्यैस्स्थितिनियतिबलादर्चिराद्युक्तितश्च॥
विश्वास-प्रस्तुतिः - 89
- स्वातन्त्र्योत्तंसितासु श्रुतिषु न फलदस्यैव वेद्यत्ववादः
कल्याणालोकनादेरिव विधिबलतो वेदनस्यार्थवत्त्वात्।
तस्मादक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते पूर्वपक्षे
सेयं पूर्वापरास्वप्यधिकृतिषु यथासम्भवं नीतिरूह्या॥
३४-तमाहोबिल-यतिः - 89
- स्वातन्त्र्येत्यादि। स्वातन्त्र्योत्तंसितासु —- स्वातन्त्र्यारूढासु । ‘यद्वेदात्प्रभुसंमितादधिगतं शब्दप्रमाणाच्चिरम्’ इत्युक्तरीत्योद्दण्डमहाराजवत् स्वातन्त्र्येण वेदः किमपि विदधाति, न तत्र युक्तत्वायुक्तत्वविचारः कार्य इति भावः। श्रुतिषु — वेदेषु। वेद्यत्ववादः — उपास्यत्वविधिः। फलदस्यैव न — फलप्रदानसमर्थदेवतादिवस्तुन एवेति न नियमोऽस्ति। विधिबलतः – चोदकप्रामाण्यात्। कल्याणालोकनादेरिव—- ‘सुवर्णं चन्दनं रत्नं पञ्चगव्यानि रोचना। प्रियङ्गु ,सर्षपं क्षौद्रं मङ्गलानि प्रयुञ्जते॥’ ‘राजानं ब्राह्मणं कन्यां श्वेतपुष्पाणि चन्दनम्। धेनुं सवत्सां वृषभं मृत्तिकां गोमयं तिलान्॥’ ‘सुवर्णमक्षतान्रत्नं दूर्वो दधि धृतं मधु। शम्यश्वात्थार्कदहनान् हरिद्रां लवणं गुडम्।’ गोरोचनां मृदङ्गं च दर्पणं धान्यमेवच जीरकं राजमाषं च प्रातः पश्येत्सदाबुधः॥’’ इत्यादिवचनविहितसुवर्णरतन्दर्पणादिमङ्गलद्रव्यावलोकनस्पर्शनादेर्मङ्गलहेतुत्ववत्। वेदनस्यार्थवत्त्वात् — वस्तुमिथ्यात्वेऽपि तदुपासनस्य फलसाधनत्वात्। तस्मात् – एवमुपपादनात्। पूर्वपक्षे – अन्तराधिकरणपूर्वपक्षोपन्यासे। अक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते – चक्षुरन्तरवर्ती पुरुशान्तरप्रतिबिम्बात्मा पुरुष उपास्यकोटिविकल्पेष्वन्यतमतया निवनेशमर्हत्येव। सेयं नीतिः – श्रुत्युक्तेऽर्थे यथाश्रुति प्रतिपत्तव्यं नपुनस्तत्र युक्तायुक्तविचारकथा प्रचारणीयेत्ययं न्यायः। पूर्वापरास्वधिकृतिष्वपि — इतःपूर्वाधिकरणेषु इत उपरितनाधिकरणेष्वपि।यथासम्भवम् – औचित्येन। ऊह्या — पर्यालोच्यताम्॥
कुमार-वरदः - 89
11.अत्र कश्चिच्चोदयति – इह खलु मोक्षार्थमुपास्य एव चक्षुषि प्रतिपाद्यते, चक्षुषि दृशयमानः प्रतिकृतिपुरुषः स्वयं फलप्रदो न भवति अफलप्रदस्य कथमुपास्यत्वमिति। अस्योत्तमाह– स्वातन्त्र्येति। अयमत्राशयः— श्रुत्युक्तार्थे यथाश्रुति विश्वास एव करणीयः,दर्पणदर्शनात् मङ्गलं पाषण्डिदर्शनादामङ्गलमिति श्रुत्योच्यते तत्र किंनियामकम्? श्रुतिस्वातन्त्र्यमेव, तथा ज्योतिष्टोमादिकं धर्मो ब्रह्महत्यादिकमधर्म इति चोच्यते, एवं सर्वत्र धर्माधर्मेषु श्रुतिस्वातन्त्र्यमेव पुरस्कुर्महे नपुनः कामपि युक्तिम्, एवमत्रापि मिथ्याभूतप्रतिबिम्बोऽस्तु तद्दर्शनमेव फलं यच्छति यथा मिथ्यात्वेऽपि दर्पणस्थस्वात्मप्रतिबिम्बिदर्शनात् मङ्गलावाप्तिः, एवं अक्षिपुरुषस्यैवोपास्यत्वे तदुपासनात् मङ्गलावाप्तिरिति सुसंगतमेतदिति। अयमर्थः – स्वातन्त्र्यमेव श्रुतेः स्वाभाव्यम्। स्वातन्त्र्यारूढासु श्रुतिषु फलदस्यैव वेद्यत्वमिति व्यवहारनियमो नास्ति, अफलदस्यापि वेद्यत्वमस्तीत्यत्र दृष्टान्तमाह – कल्याणेति। कल्याणवस्त्ववलोकनादेरिव शास्त्रबलतस्तत्तद्वस्त्ववलोकनस्यैव फलदत्वात्, न पुनर्वेद्यस्य। नह्याज्यपण्यस्त्रीकपिलादिकमलवलोकयितुः फलं ददाति, अपि तु तत्तदवलोकनमेव।एतदाह– तस्मादिति– एवंयुक्तियुक्तत्वात्।अक्ष्यन्तरस्थः" प्रतिकृतिपुरुषो ध्येयतया पूर्वपक्षिणा कल्पयितुं युज्यत इति एवं समाधानपरिपाटी न केवलमस्मिन्नेवाधिकरणे सर्वेष्वधिकरणेष्वयोग्यार्थपरिकल्पनायां" यथासंभवं परिहारत्वेन कल्पनीयेत्याह– सेयमिति॥
मूलम् - 89
- स्वातन्त्र्योत्तंसितासु श्रुतिषु न फलदस्यैव वेद्यत्ववादः
कल्याणालोकनादेरिव विधिबलतो वेदनस्यार्थवत्त्वात्।
तस्मादक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते पूर्वपक्षे
सेयं पूर्वापरास्वप्यधिकृतिषु यथासम्भवं नीतिरूह्या॥
विश्वास-प्रस्तुतिः - 90
- पूर्वन्यायेऽग्निविद्या पुरत उपनता मध्यतस्त्वत्र तस्मा-
त्तद्वन्न ब्रह्मविद्यानुगतिरिति भवेदक्षिविद्या ततोऽन्या।
मैवं विचछित्तिरङ्गैर्न हि भवति मिता चाङ्गगताऽनेकधाऽस्याः
प्रोक्तं च ब्रह्मविद्यानुगुणमिह फलं प्राक्तु न ब्रह्मदृष्टिः॥
३४-तमाहोबिल-यतिः - 90
- पूर्वन्याय इत्यादि। पूर्वन्याये – इतः पूर्वतनेऽत्ताधिकरणे। अग्निविद्या पुरतउपनता – नाचिकेताग्निविद्या ब्रह्मविद्यायाः" पूर्वमेवोरदिष्टा। अत्र तु – अक्ष्यन्तराधिकरणे तु। मध्यतउपनता – ब्रह्मविद्यामध्ये उपदिष्टा। तस्मात् – पूर्वाधिकरणवैषम्यात्। तद्वत् ब्रह्मविद्यानुगतिर्न — पूर्वाधिकरण इव ब्रह्मविद्याया अनुगतिरनुस्यूतिर्न। किन्तु मध्यप्रविष्टयाऽग्निविद्यया ब्रह्मविद्याया विच्छेदोस्तीति भावः।इति – अस्माद्धेतोः। अक्षिविद्या ततोऽन्या – प्रथमं ब्रह्मविद्या, ततः परमग्निविद्या किल, ततः परमुपदिश्यमानाऽक्षिविद्या ब्रह्मविद्या न भवितुमर्हति, अपि तु भिन्नवेयमन्यफलाविद्या। मैवम् – एवं मा शङ्किताः। अङ्गैर्विच्छित्तिर्न भवति हि — स्वाङ्गैः स्वव्यवधानं न भवतीति प्रसिद्धं खलु। ‘नहि स्वाङ्गंस्ववधायकम्’ इति न्यायवादिवचनादिति भावः। तथा चाग्निविद्याया ब्रह्मविद्याङ्गत्वात् न तया ब्रह्मविद्याव्यवधानं शङ्कितुं युक्तमिति भावः। अस्या अङ्गता चानेकधा मिता — अस्या अग्निविद्याया ब्रह्मविद्याङ्गत्वमसमाप्तब्रह्मविद्यामध्यगतत्वब्रह्मविद्याधिकृतोपकोसलोद्देश्यकोपदेश कर्मत्व ब्रह्मविद्यासमुच्चयोपदेशादिभिर्रनेकहेतुभिः प्रामीयतेत्यर्थः। इह ब्रह्मविद्यानुगुणं फलञ्च प्रोक्तम् – अग्निविद्यावसाने ब्रह्मविद्यानुसूलमेव फलमुक्तम्, नतुब्रह्मविद्याननुकूलमित्यर्थः। तथा सति ह्यनङ्गत्वमिति भावः। फलवत्संनिधावफलं तदङ्गमितिन्यायस्य यदङ्गिप्रतिकूलं यच्च तदनपेक्षितं तदनुभयमङ्गफलं न भवती त्येवमर्थपरत्वादिति हृदयम्। प्राक्च ब्रह्मदृष्टिर्न–पूर्वत्रापि ब्रह्मविद्यैव, न पुन र्दृष्टिविधिः। अतस्तद्रीत्या दृष्टिविधिरूपत्वं" च नाशङ्कनीयमिति भावः॥
कुमार-वरदः - 90
- पूर्वाधिकरणवैषम्येण पूर्वपक्षोत्थानोक्तिपूर्वकं पूर्वपक्षसिद्धान्तावारचयति–पूर्वेति। पूर्वाधिकरणविषयभूतायां कठवल्ल्यामग्निविद्याया ब्रह्मविद्यामपेक्ष्य पूर्वमेवोक्तत्वादग्निविद्याया ब्रह्मविद्याविच्छेदशङ्कावकाशो माऽस्तु, अत्र तु ब्रह्मविद्यामध्यपातित्वादग्निविद्याया विच्छेदकत्वमस्तु, तेन पूर्वं ब्रह्मविद्या मध्येऽग्निविद्या अन्ततो जीवप्रकृत्यादिविद्येति विद्याभेदोऽस्ति, अतो ‘य एषोऽक्षिणि’ इति प्रतिपाद्यमानः पूर्वं प्रतिपन्नब्रह्मणो ऽन्य इति पूर्वः पक्षः। राद्धान्तमाह– मैवमिति। नहि स्वाङ्गं स्वव्यवधायकमिति न्यायानुसारेण पूर्वपक्षोक्तमर्थमन्यथयति–विच्छित्तिरिति। अग्निविद्याया ब्रह्मविद्याङ्गत्वादित्यर्थः। कथमङ्गत्वमित्यत्राह– मितेति।यद्यपि फलवत्सन्निधावफलं तदङ्गमितिन्यायो विद्यते, अथाप्यङ्गानामस्ति फलम्, तेषां प्रधानफलेनैव फलवत्त्वस्य तान्त्रिकैरोवोक्तत्वात्, अथापि फलान्तरं नास्तीति चेत् तदप्यस्ति; अवान्तरापूर्वादेरङ्गफलत्वात्, नह्यवान्तरापूर्वादेरङ्दफलत्वम्, दृष्टफलस्यापरित्याज्यत्वात्। वैतुष्यादेरवघातफलत्वेन तान्त्रिकैरेवाभिधानात्। तत्त्ववान्तरापूर्वरूपत्वेनाव्यवहितं फलमिति चेत् एवं तर्हि अत्रापि तादृग्विधं फलमस्येव तत्किमिति चेत् यदग्निविद्यायां श्रूयमाणं" ब्रह्मविद्यानुकूलं फलं सर्वायुःप्राप्त्यादिकम्। तर्ह्युङ्गस्याफलत्वं किमुच्यते। यदङ्गिप्रतिकूलं यच्च तदनपेक्षितं तदुभयमङ्गयफलं" न स्यादित्यर्थः। अत्र ब्रह्मविद्यानुकूलफलस्याग्निविद्यायांश्रूयमानत्वात् ब्रह्मविद्याप्रकरणपठितत्वाच्च सिद्धमग्निविद्याया ब्रह्मविद्याङ्गत्वम्।ननु ब्रह्मविद्यायां सत्यामेवाग्निविद्यया ब्रह्मविद्याविच्छेदो नास्तीति वक्तुं शक्यते, पूर्वं तु दृष्टिविधिमात्रमेव, कथं विद्यानुवृत्तिरत्रोच्यत इत्यत्राह– प्रागिति। पूर्वत्रापि ब्रह्मविद्यैव नपुनरदृष्टिविधिरित्यर्थः" । अत्रातीतेषु त्रिष्वधिकरणेषु अर्थभेदात् वाक्यभेदमाशङ्क्यार्थैक्यादेकवाक्यत्वं समर्थितम्। तथा च त्रयाणामेकवाक्यत्वादेकपेटिकात्वं" भवति॥
मूलम् - 90
- पूर्वन्यायेऽग्निविद्या पुरत उपनता मध्यतस्त्वत्र तस्मा-
त्तद्वन्न ब्रह्मविद्यानुगतिरिति भवेदक्षिविद्या ततोऽन्या।
मैवं विचछित्तिरङ्गैर्न हि भवति मिता चाङ्गगताऽनेकधाऽस्याः
प्रोक्तं च ब्रह्मविद्यानुगुणमिह फलं प्राक्तु न ब्रह्मदृष्टिः॥