विश्वास-प्रस्तुतिः - 86
- अत्ता खल्वोदनादेर्भवभुगिति कठश्रुत्यधीतोऽप्यसौ स्या-
न्न स्यान्मृत्यूपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः।
जीवव्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु
प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात्॥
३४-तमाहोबिल-यतिः - 86
- अत्ता खल्वित्यादि। ओदनादेरत्ता — भक्षकः। भवभृत् खलु – जीवएव किल। इति – अत्तृत्वस्य जीव एव प्रसिद्धत्वात् हेतोः। कठश्रुत्यधीतोऽप्यसौ स्यात् — ‘यस्य ब्रह्म च क्षत्ऱञ्च उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्थावेद यत्रः॥’ इति कठवल्लीपठितोऽप्यत्ताजीव एव स्यात्। मृत्यूपसिक्तस्थिरचर निखिलग्रासतस्तल्लयोक्ते र्नस्यात् —– मृत्युना उपसिक्तस्योपसेचनवतः" स्थिरचरात्मकस्य निखिलस्य वस्तुनो ग्रसनेन स्थिरचरात्मकनिखिलवस्तुलयस्यैव प्रतिपादनात्। केवलान्नादनाप्रतिपादनादाशङ्कितं न सम्भवतीत्यर्थः। ग्रासतत्तल्लयोक्तेः ’ इति पाठे ग्रासरूपस्य तत्तद्वस्तुलयस्यैव प्रतिपादनादिति योज्यम्। जीवव्यातवर्तनं च प्रकरणविदितम् —- ’ विज्ञानसारथिर्यस्यु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्॥’ इत्यादिप्रकरणवशेनएतद्विविद्याप्रतिपाद्यस्योपासकत्तवप्राप्तृत्वाद्द्याश्रयाज्जीवादुपास्यत्वप्राप्यत्वादिरूपव्यावर्तकधर्मजातं" च विदितम्। द्वयोर्भोक्तृतोक्तिस्तु —- ‘ऋतं पिबन्तौ’ इति वाक्ये जीवपरमात्मनोर्द्वयोस्तुल्यतया कर्मफलभोक्तृत्वोक्तिः। प्रेर्यत्वप्रेरकत्वप्रतिनियतरसा – जीवगतप्रेर्यत्व परमात्मगतप्रेरकत्वाभ्यां व्यवस्थितरसवती। तुल्यतया भोक्तृत्ववचनेऽपि परप्रेरितो जीवः साक्षाद्भोक्ता, तत्प्रेरणद्वारा परमात्मा भोक्ता, नतु साक्षात्परमात्मा भोक्ता, ‘पिबन्तौ’ इत्यत्र पातृत्वपाययितृत्वयोस्तन्त्रेणोक्तेः, तेन च द्वयोस्तुल्यभोक्तृत्वं" प्रतिपत्तव्यमति भावः. अथवा — पक्षान्तरे। छत्रिनीत्या स्यात् — यथाछत्रिणो गच्छन्तीत्यत्रछत्रिशब्देन लक्षणया छत्रिणामच्छत्रिणां" च ग्रहणम् एवं ‘पिबन्तौ’ इत्यत्रापि लक्षणया पिबतो जीवस्य, अपिबतः परमात्मनश्च ग्रहणं भविष्यति, एवंरीत्यापि शङ्का सुनिरसेति भावः॥
कुमार-वरदः - 86
- अत्राधिकरणसंगतिर्भाष्य एव सुव्यक्तमुच्यते ‘संभोगप्राप्तिरिति चेन्न वैशेष्यात्’इत्यत्र। भगवतः सर्वान्तर्यामित्वेनावस्थितस्यापि भोक्तृत्वं नास्तीत्युक्तम्। तर्हि ‘यस्य ब्रह्म च क्षत्रं च’इत्यत्र भोक्तॄत्वेन प्रतिपन्नः परमपुरुषो न स्यादिति पूर्वपक्षोत्थानेन संगतिः। अपि च पूर्वाधिकरणे हृदयरूपाल्पस्थानवर्तित्वेन परमपुरुषश्चिन्त्य उक्तः, अत्र ‘गुहां प्रविष्टौ’ इति हृदयगुहान्तर्वर्ती परमपुरुष एव चिन्त्यतयोच्यत इति भावः। कठवल्ल्यां भोक्तॄत्वेनोपदिष्टः किं जीवः, उत परमात्मा। तदर्थं विचार्यते-अत्रौदनोपसेचनसूचितमत्तृत्वं" किं कर्माधीनभक्षणमुतसर्वसंहर्तृत्वमात्रेण। तदर्थमपि विचार्यते- किमस्मिन् प्रकरणे विश्वजगत्संहर्तृत्वरूपपरमपुरुषत्वनियामकानि श्रुतिलिङ्गादीनि न विद्यन्ते उत विद्यन्ते इति। अत्रायं पूर्वपक्षी मन्यते- लोके खल्वोदनादेरत्ता भवभृज्जीव एवेति कठश्रुतौ ‘यस्य ब्रह्म च क्षत्रं च’इत्युक्तोऽत्ता स एव स्यादिति। तत् प्रतिक्षिपति- न स्यादिति। हेतुमाह-मृत्यूपसिक्तेति। अत्र हि साक्षादत्ता नोच्यते। अपि तु मूत्यूपसिक्तजङ्गमाजङ्गमसंहारक एव। तेन परमात्मैवात्ता। किंचैतस्मिन् प्रकरणे जीवव्यावर्तनं सुस्पष्टं विदितम्। ननु यदि परमात्मनो भोक्तॄत्वं नास्ति कथं ‘ऋतं पिबन्तौ’इति जीवपरमात्मनोर्द्वयोरपि भोक्तॄत्वमुच्यत इत्याशङ्क्य परिहरि-प्रेर्यत्वेति।प्रेर्यत्वप्रेरकत्वप्रतिनियतरसा-जीवो हि परमात्मप्रेर्यः कर्मफलं भुङ्के तेन जीवो रसिकः, परमात्मा तु जीवस्य प्रेरकत्वेन व्यपदिश्यत इत्यर्थः॥
मूलम् - 86
- अत्ता खल्वोदनादेर्भवभुगिति कठश्रुत्यधीतोऽप्यसौ स्या-
न्न स्यान्मृत्यूपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः।
जीवव्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु
प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात्॥
विश्वास-प्रस्तुतिः - 87
- सत्त्वं स्वाद्वत्त्यनश्नन् ज्ञ इति विभजनात्पैङ्ग्यधीतन्तु सत्त्वं
बुद्धिः प्राणोऽथवेति त्वृतमिह पिबतोर्जीव एकस्तयोश्चेत्।
मैवं जन्तौ तु सत्त्वश्रुतिरियमुचिता कर्मभुङ्नाप्यनश्नन्
तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः॥
३४-तमाहोबिल-यतिः - 87
- सत्त्वमित्यादि। सत्त्वं स्वाद्वत्त्यनश्नन् ज्ञ इति विभजनात् — ‘द्वा सुपर्णा’ इत्यस्य वाक्यस्य व्याख्यानरूपायां पैङ्गिकश्रुतौ ‘तदोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’ इति पूर्वांशस्यान्तःकरणपरत्वेन ‘अनश्नन्नन्यो अभिचाकशीतिति ज्ञः’ इत्युत्तरांशस्य जीवपरत्वेन च विभजनात्। तावेतौ सत्त्वक्षेत्रज्ञावितिनिर्णीतत्वाच्च। पैङ्ग्यधीतं सत्त्वं तु बुद्धिः, अथवा प्राणः — उदाहृतपैङ्गिश्रुतिपठितं" सत्त्वशब्दितं वस्तु ‘द्रव्यसुव्यवसायेषु सत्त्वम्’ इति कोशात् बुद्धिस्तु अथवा प्राणोऽस्तु। इति — हेतोः। इह– प्रकरणे। ऋतं" पिबतोः —–‘ऋतं पिबन्तौ’ इति श्रुत्युक्तयोः, ऋतं कर्मफलं पिबतोरनुभवतोः। तयोश्च—–बुद्धिप्राणान्यतरक्षेत्रज्ञयोः। जीव एकः" – जीवात्मा एकः। क्षेत्रज्ञशब्दितस्तयोरन्यतर इत्यर्थः। मैवम् —- एवं मा शङ्किष्ठाः। इयं सत्त्वश्रुतिर्जन्तौ चोचिता —-‘द्रव्यासुव्यवसायेषु पैङ्गिकश्रुत्युक्तः सत्त्वशब्दो जन्तौ जीवात्मनि वर्तत इत्युचितम्। कर्मभुक् — कर्मफलभोक्ता जीवः। अनश्न्न —- अनश्नन्नित्यभिलप्यो न भवति। कर्मफलमश्नतोऽनश्नत्वं हि विरुद्धम्। अपीति दूषणान्तरसमुच्चये। तत् –तस्मात्। प्रश्नप्रक्रमोऽन्याशयः —- ‘येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः॥’ इति यमं प्रति नचिकेतसस्तृतीयप्रश्नप्रक्रमः, अयं हि ज्ञातव्यतत्त्वार्थप्रश्नप्रक्रमः, अस्मिन् प्रश्ने हि शरीरवियुक्तस्य जीवस्यास्तित्वनास्तित्वविप्रतिपत्त्या तत्त्वजिज्ञासा प्रतीयते न तु परमात्मस्वरूप जिज्ञासादिकम्, अतः प्रश्नप्रक्रमः प्रकरणस्य जीवात्मपरतावगमयतीति चेत् सोऽन्याशयः" — न मृतात्मास्तित्वनास्तित्वविप्रपत्तिमूलकजीवात्ममात्रतत्त्वजिज्ञसामूलकः। इदमपि च — प्रश्नप्रक्रमस्य निरुक्तजिज्ञासामूलकत्वं" च। पूर्वापराद्यैः —- उपक्रमोपसंहाररूपैः पूर्वोत्तरवाक्यसन्दर्भैः। आद्यशब्देन युक्त्यन्तरैश्च। अभाषि — श्रीभाष्यकारैरेवास्मिन्नधिकरणे समाभाष्यत। अत्रेयं भाष्यपङ्क्तिः ‘अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मजिज्ञासयाऽयं प्रश्नः क्रियते ’ इत्यादिः। अतस्तद्विषये नास्माभिः साधनीयमस्तीति हृदयम्॥
कुमार-वरदः - 87
- ननु ‘द्वा सुपर्णा ‘इत्यस्य वाक्यस्य व्याख्यानरूपायां पैङ्गिश्रुतौ ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’इति पूर्वांशस्यान्तःकरणपरत्वम्, ‘अनश्नन्नन्यो अभिचाकशीतीति ज्ञः’इत्युत्तरांशस्य जीवपरत्वं चोक्तम्, तावेतौ सत्त्वक्षेत्रज्ञाविति तत्रैव निर्णीतम्, तत्कथं" द्वासुपर्णादिवाक्ये जीवपरमात्मपरत्वमुच्यत इत्याशङ्कते – सत्त्वमिति। निराकरोति – मैवमिति। विवृणोति – जन्ताविति। सत्त्वशब्दसामर्थ्यात् खलु भवताऽन्तकरणपरत्वमुच्यते, स तु सत्त्वशब्दो जीवेऽपि प्रयुज्यते ‘सत्त्वमस्त्री तु जन्तुषु ‘इति, अतोऽयं सत्त्वशब्दो जीवपर इत्यर्थः। ‘अनश्नन्नन्यो अभिचाकशीति’ इति जीव एवोच्यत इति च भवतोक्तं, तदपि च न घटते कर्म भुग्जीवो ह्यनशनन्निति नैव वक्तुं शक्यतइत्याह– कर्मभुगिति। अथापि प्रश्नोपक्रमे किंचिदानुकूल्यमस्तीत्याशङ्क्याह– तदिति। महावाक्ययस्यायमर्थ इति निर्णये सति उपक्रमे तद्विपरीतं" यदि किञ्चित्प्रतिपन्नं तदभिप्रायविशेषण महावाक्यानुकूलतया समाधेयमित्यर्थः। तर्हि सर्वमिदं भवदीयभाष्यकारैः किमर्थँ नोक्तमित्याशङ्क्याह– इदमपि चेति। प्रधानवाक्यार्थकथने पूर्वापरवाक्यादिभिरवधेयमर्थजातं स्वयमेव कथितं भवतीत्यर्थः। अयमाशयः–‘द्वा सुपर्णा’ इत्यत्र वाक्ये ‘समाने वृक्षे पुरुषो निमग्नो नीशया शोचति मह्यमानः।जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः॥’ इत्यनेन ‘द्वा सुपर्णा’ इति मन्त्रस्य जीवपरमात्मानावेव विषय इति निर्णीयते, तेन निर्णीतस्यार्थस्य पैङ्गिश्रुत्यपेक्षैव नास्ति, अपेक्षायामपि जीवपरमात्मपरत्वेन तद्वाक्यमपि जीवात्मपरतया वर्णितमेव, तस्मात् ‘द्वा सुपर्णा’ इति जीवपरमात्मानावेवोच्येते इति सिद्धम्। विस्तरस्त्वाचार्यव्याख्याने द्रष्टव्यः।क्षेत्रज्ञशब्दस्य ‘क्षेत्रज्ञं चापि मां विद्धि’इति भगवतैव परमात्मपरत्वं स्फुटयमवोक्तमिति तत्रापि समाधेयं न किञ्चिदवशिष्यते। भगवतः सर्वक्षेत्रज्ञान्तर्यामित्वात् विश्वशरीरत्वेन परमक्षेत्रज्ञत्वाच्च॥
मूलम् - 87
- सत्त्वं स्वाद्वत्त्यनश्नन् ज्ञ इति विभजनात्पैङ्ग्यधीतन्तु सत्त्वं
बुद्धिः प्राणोऽथवेति त्वृतमिह पिबतोर्जीव एकस्तयोश्चेत्।
मैवं जन्तौ तु सत्त्वश्रुतिरियमुचिता कर्मभुङ्नाप्यनश्नन्
तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः॥