13 सर्वत्रप्रसिद्ध्यधिकरणम्

विश्वास-प्रस्तुतिः - 83
  1. यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्त-
    स्तस्मिञ़्जीवत्वशङ््काजगदुपजनके सौति शाण्डिल्यविद्या।
    पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्ये-
    त्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति॥
३४-तमाहोबिल-यतिः - 83
  1. यस्येत्यादि। यस्य प्राणः शरीरं स हिततमोपास्तिकर्मप्रसक्तः खलु —- पूर्वमिन्द्रप्राणाधिकरणे ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ इत्यत्रोपासात्रैविध्याय प्राणेन्द्रशब्दयोः प्राणेन्द्रशरीरकपरमात्मपरत्वस्थापनात् प्राणशरीरको हिततमोपास्तिकर्मतया प्रसक्तः खलु। तस्मिञ्चगदुपजनके —- प्रसक्ते प्राणशीरीरके जगत्कारणे वस्तुनि। शाण्डिल्यविद्या —‘सर्वं" खल्विदं ब्रह्म’ इत्युपक्रमवती ‘इति हस्माह शाण्डिल्यः’ इत्यन्ता छान्दोग्यस्था शाण्डिल्यविद्या। जीवत्वशङ्कां सौति —- ‘मनोमयः" प्राणशरीरो भारूपः’ इति वचनेन जीवासाधारणमनोमयत्वसमर्पकेण जीवत्वशङ्कां जनयति। अत्र प्राणशरीरस्यमनोमयशब्देन जीवत्वप्रतिपादनात् पूर्वाधिकरणे प्राणशरीरस्य जगत्कारणत्वमुक्तम्, तन्न सम्भवतीत्याक्षिपतीत्यर्थः। पूर्वाधिकरणेनास्याधिकरणस्याक्षेपसङ्गतिरिति भावः। किं च। पूर्वन्यायात् — इन्द्रप्राणाधिकरणन्यायात्। इह — शाण्डिल्यविद्यायाम् । महावाक्यतः प्रक्रमस्य दमनं युक्तम् — पूर्वाधिकरणे परमात्मानुगुणमहावाक्येन ‘सर्वं खल्विदं ब्रह्म’ इति परमात्मानुगुणोपक्रमवाक्यनिराकरणं युक्तम्। इत्युत्थाने — एवं पूर्वपक्षोत्थाने सति। प्रक्रमोक्तानुगुणमिति — उपक्रमप्रतिपन्नार्थविरुद्धार्थप्रतिपादनशून्यं तदनुकूलार्थप्रतिपादकं चेतिहेतोः। महावाक्यमेकीकरोति —– उपरितनवाक्यजातमुपक्रमसमानार्थकमिति स्थायतीत्यर्थः। इदं हृदयम् — पूर्वाधिकरणे उपक्रममहावाक्ययोर्विरोधात् बलवता महावाक्येनोपक्रमवाक्यमन्यथाऽकारि, इहतूपक्रमावगतार्थविवरणरूपतया महावाक्यं तदनुकूलमित्यन्तरनिराकरणमेवासाम्प्रतमित्येकहृदयत्वं" सम्पादयतीति। इति च सङ्गतिरिति भावः॥
कुमार-वरदः - 83

5.पादादिसंगतीनां स्पष्टमेवोक्तत्वादधिकरणसंगतिरवशिष्यते। तामप्याह– यस्येति। अत्र द्वयी संगतिः – अर्थैक्यादेका, प्रतिपादकन्यायानुसारादपरा। तथाहि इन्द्रप्राणाधिकरणे ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृत मित्युस्स्व ‘इति स एव हिततमोपास्तिकर्मतया प्रख्याप्यते। अस्यां च शाण्डिल्यविद्यायां ‘मनोमयः प्राणशरीरो भारूपः ‘इति तदेव प्रतिसंधीयते। प्राणशरीरस्तु जीव एवेति पूर्वन्यायाक्षेपेण संगतिः। संगत्यन्तरमप्याह– पूर्वेति।पूर्वं हि परमात्मप्रतिपादनानुकूलमहावाक्यात् जीवप्रतिपादनानुकूलमुपक्रमवाक्यं निराचष्ट तर्हि तेनैव न्यायेन जीवप्रतिपादनानुकूलमहावाक्यात् परमात्मप्रतिपादनानुकूलमुपक्रमवाक्यं निराक्रियतामिति प्रतिबन्दीप्रयोगः। एवं पूर्वपक्षिते सति वैषम्यं दर्शयति – प्रक्रमेति।तत्रोपक्रममाहावाक्ययो र्विरोधाद्युक्तो महावाक्येनोपक्रमोपरोधः। इह पुनः प्रक्रमोक्तमर्थमुपबृंहयति महावाक्यम्। तेन कस्य विरोधः केन वा निरास इति निरूपयतु भवान्। अयमर्थः – शाण्डिल्यविद्या खलूपक्रममारभ्योपसंहारपर्यन्तं ब्रह्म कारणत्वा -नुकूला, तेन तया विद्यया परमपुरुष एव जगत्कारणमिति निश्चीयत इति। अत्रेयमपि काचित् संगतिः स्फुरति– पूर्वाधिकरणे हिततमोपास्तिकर्मत्वेन हेतुना परमपुरुष एवेन्द्रशब्दवाच्य इति निर्धारितम्। तदेतद्धिततमोपास्तिकर्मत्वमस्मिन्नधिकरणए ‘यथा क्रतुरस्मिन्लोके पुरुषो भवति’ इत्युक्तन्यायेन विव्रियत इति। अयमेव हि तत्क्रतुन्यायः – यद्गुणविशिष्टं परमात्मानमुपास्ते तद्गुणविशिष्टमेव परमात्मानं स्वयमपि तद्भोगसाम्येन भुङ्क्त इति। तथाचेदृग्विधोपभोगसाधनात् परमपुरुषोपासनादन्यः को वा हिततम इति भावः। इत्थमपि संगतिर्वक्तुं शक्यते– पूर्वं ह्यधिकरणप्रयोजनकथनावस्थायां" केचिद् व्युत्पादनीया इति पूर्वकाण्डानुक्ताः शारीरके व्युत्पादनीया इत्युक्तम्। अत्र पूर्वाधिकरणे विशेषणवाचिशब्दस्य विशेष्यपर्यन्ताभिधानोपपादनार्थमुपासात्रै – विद्यादित्यपूर्वन्यायविशेषः प्रतिपादितः। इह पुनरत्यन्तापूर्वस्तत्क्रतुन्यायो व्युत्पाद्यत इति वेदान्तो -पयुक्तापूर्वन्यायविनियोगस्तत्र चात्रच व्युत्पाद्यत इति। अत्र पूर्वोत्तरपेटिकयोः संगतिर्वक्तव्या। सा चात्रैव भविष्यति। उपासकशरीरबहिर्भूतज्योतिरिन्द्रप्राणवैशिष्ट्येनोपासनचिन्ता पूर्वत्र। इह पुनरेकपेटिकात्वेन कल्पितेषु त्रिष्वधिकरणेष्वल्पस्वरूपतयावस्थितोपासकशरीरान्तर्गतहृदयगुहाक्षिवासी परमात्मा चिन्त्यत इति। तदर्थविचारस्तु – ‘सर्वं खल्विदं ब्रह्म’इति शाण्डिल्यविद्यायामुपदिष्टं ब्रह्म किं जीव उत वेदान्तप्रसिद्धः परमपुरुष इति। तदर्थं चिन्त्यते – महावाक्यानुसारेणोपक्रमो नेतव्य इति पूर्वाधिकरणोक्तन्यायविशेषोऽत्र जीवपरत्वकल्पनायामुपयुज्यते नेति। पुनश्चिन्त्यते – अत्र महावाक्यस्य जीवपरत्वमस्ति नेति। ततोऽपि विचार्यते – एतस्मिन् महावाक्ये जीवपरत्वानुरूपहेतवो विद्यन्ते नेति। पुनश्चिन्त्यते – तद््बाधकाः परमपुरुशत्वसाधनसमर्था हेतवो न सन्ति यदि वा सन्तीत्यादि॥

मूलम् - 83
  1. यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्त-
    स्तस्मिञ़्जीवत्वशङ््काजगदुपजनके सौति शाण्डिल्यविद्या।
    पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्ये-
    त्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति॥
विश्वास-प्रस्तुतिः - 84
  1. अन्वारुह्यात्र भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं
    विद्यैकत्वे़ऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम्।
    सत्यं ब्रह्मानुमत्य क्वचिदुपनिषदि क्वापि कल्प्ये विवादे
    चिन्तैषोदाहृतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या॥
३४-तमाहोबिल-यतिः - 84
  1. अन्वारुह्येत्यादि। अत्र – सर्वत्रप्रसिद्धाधिकरणे। प्रथमम् – प्रथमयोजनायाम्। भेदमन्वारुह्य — ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इति प्रथमवाक्यस्य ‘सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः’ इत्याद्युपरितनवाक्यस्य च परस्परं भेदं" परमतानुसारेणाङ्गीकृत्य। अधिकृतिः —- विषयसंशयपूर्वपक्षसिद्धान्तोपन्यासरूपमधिकरणम्। किंनिमित्तम् — किं नियामकत्वेन स्वीकृत्य। भाषिता — भाष्यकारैरभाष्यत। ‘सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते’ इति न्यायविरोधादिति भावः। इह– शाण्डिल्यविद्याप्रकरणे। विद्यैकत्वे —- विद्यैक्ये सति। परोऽनुवादो गुणविध्यर्थं एवेति युक्तम् — ‘स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः’ इत्याद्युत्तरवाक्यसन्दर्भः" ‘सर्वं खल्विदं ब्रह्मतज्जलानिति शान्त उपासीत’ इति पूर्ववाक्यविहितोपासनानुवादरूपस्सन्नुपासनविध्यपेक्षितमनोमयत्वादिगुणविध्यर्थ एवेति खलु साधु। यथा ‘अग्निहोत्रं जुहोति’ इति विहितस्याग्निहोत्रस्य ‘दध्ना जुहोति’ इति गुणविधिः। सत्यम् —शङ्कितमर्थमङ्गीकृतमित्यर्थः। उपनिषदि क्वचित् ब्रह्मानुमत्य क्वापि विवादे कल्प्ये परमतरचिता एषा चिन्ता उदाहृतिः" स्यात् इत्यर्थसिद्धिस्तु बोध्या —- एकस्यामुपनिषदि ब्रह्माङ्गीकृत्या उपनिषदन्तरे ब्रह्मानङ्गीकारेण विवादः प्रायशः प्रवर्तते, अत्र पुनरेकस्यामेवोपनिषदि क्वचिद्भागे प्रतिपाद्यतया ब्रह्म नास्ति अस्तीति विवादे बुद्धिवैशद्याय कल्पनीये फलत्वेन प्रतिपत्तव्या। परमतरचिताऽपीयं कल्पना शिष्यबुद्धिवैशद्याय, उत्तरयोजनापेक्षया दोषयुक्तत्वप्रदर्शनाय च भाष्यकारैर्न्यदर्शीति भावः॥
कुमार-वरदः - 84
  1. इह खलु भाष्ये वाक्यभेदमङ्गीकृत्य शाण्डिल्यविद्यायां योजना पूर्वमभिहिता। तस्यां योजनाया पूर्वस्मिन् खण्डे पूर्वपक्षिणाऽपि ब्रह्मसद्भावोऽङ्गीकृतः। उत्तरस्मिन् खण्डे ब्रह्मासद्भावाभिधानेनोत्थितस्य पूर्वपक्षिणस्तत्रापि ब्रह्मसद्भावः प्रसाध्यत इत्यधिकरणकॢप्तिः। योजनान्तरमप्यभिहितम् – ‘सर्वं खल्विदं ब्रह्म’ इत्यारभ्य तस्यामेव शाण्डिल्यविद्यायां समाप्तिपर्यन्तं सर्वत्रापि ब्रह्म न विद्यत इति पूर्वपक्षः। सर्वत्रास्तीति सिद्धान्तः। पूर्वत्र वाक्यभेदमङ्गीकृत्याधिकरणनिर्वाहः। स पुनरन्यायमूलः ’ संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते ‘इति न्यायविरोधात्। अपि च ‘स क्रतुं कुर्वीत ‘इत्युपासनविधिर्मनोमयत्वादिगुणविधिर्नपुनः स्वरूपविधिरिति संभाव्यते विहितस्य विधानायोगात् ‘शान्त उपासीत’इति महावाक्यएवोपासनस्य विहितत्वाच्च। ‘स क्रतुं कुर्वीत ’ इति गुणविध्यर्थमनुवादतयोपपत्तेः। अत्रार्धाङ्गीकारे सत्यमिति। इयं चिन्ता तस्या मर्यादाया उदाहृतिर्दृष्टान्त इत्यर्थः। अत्रायं विशेषः प्रतिभाव्यः– एकस्यामुपनिषदि ब्रह्माङ्गीकृत्योपनिषदन्तरे ब्रह्म नास्तीति विवादः प्रायशः प्रवर्तते। अत्र पुनरेकस्मिन्नेवोपनिषद्वाक्ये पूर्वखण्डे ब्रह्मास्ति, उत्तरकाण्डे ब्रह्म नास्तीति विवादः। अथापि जघन्योऽयं पक्षः किमर्थँ परगृह्यत इत्यत्राह– परेति। परवादिपरिकल्पितत्वादस्माभिर्पयनूद्यते। नपुनः सिद्धान्ततया स्वीक्रियत इति। अयमर्थः सूक्ष्मत्वात्सावधानैरेव शिष्यैरवबोध्य इत्याह– बोध्येति॥
मूलम् - 84
  1. अन्वारुह्यात्र भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं
    विद्यैकत्वे़ऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम्।
    सत्यं ब्रह्मानुमत्य क्वचिदुपनिषदि क्वापि कल्प्ये विवादे
    चिन्तैषोदाहृतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या॥
विश्वास-प्रस्तुतिः - 85
  1. सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोऽत्र चैवे-
    त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न।
    तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादे-
    स्स्वारस्स्यादप्यणुत्वं ह्युपधिकृतमिहोपास्तये ज्यायसि स्यात्॥
३४-तमाहोबिल-यतिः - 85
  1. सर्वत्वमित्यादि। स्वैः कर्मभिः – स्वकीयैः पुण्यापापरूपैः कर्मभिः। जनिमति – देवमनुष्यतिर्यक्स्थावररूपेण जननभाजि जीवे। सर्वत्वं घटते — ‘सर्वं खल्विदं ब्रह्म’ इति तत्तच्छरीरवाचिशब्दसमानाधिकरण्येन सर्वात्मक्तवं घटत एव। ब्रह्मशब्दश्च, अपरे – जीवे। घटते – युज्यते। जीवेऽपि ब्रह्मशब्दस्य तत्र तत्र प्रयोगादिति भावः। इति – हेतोः।अल्पस्थानः – ‘एष म आत्माऽन्तर्हृदयः’ इति हृदयरूपाल्पस्थानवान्। अल्पमानः — ‘अणीयान् व्रीहेः’ इत्यत्रत्यवचनेनाल्पपरिमाणतया प्रतिपन्नः। सुखतदितरभुग्जीव एव – सुखःदुखभागी जीव एवायम्। इति चेन्न —- एवं शङ्क्यते चेत् तन्न सम्भवति। तज्जत्वादेरनूक्तेः — ‘सर्वं" खल्विदं ब्रह्म’ इत्यनन्तरं ‘तज्जलानिति’ इतिवचनेन जगतस्ततोजातत्वात् तज्जत्वं तदधीनस्थितिमत्त्वात् तदन्त्वं तस्मिंल्लीनत्वात् तल्लत्वमितीमे धर्मा अनूद्यन्ते, तस्यैतस्य तज्जत्वादिधर्मजातस्य जीवेऽसम्भवात् ’ यतो वा इमानि’ इत्यादिकारणवाक्यैर्जगज्जन्मस्थितिलयानां" परमपुरुषैकहेतुकत्वस्थापनात्। विविधगुणभिदादर्शनात् — ‘मनोमयः प्राणशरीरो भारूपः सत्यकामः सत्यसङ्कल्पः’इत्यादिना ब्रह्मासाधारणनानाविधगुणविशेषदर्शनात्। सर्वतादेः स्वारस्यादपि —- ‘सर्वं खल्विदं ब्रह्म’ इति चेतनाचेतनविभागं विनाऽविशेषेण सर्वेषामपि ब्रह्मतादात्म्यमुच्यते, तस्य जीवेऽस्वारस्यात् परमात्मन्येव स्वारस्याच्च। इति चेन्नैति पूर्वेणान्वयः। इह – प्रकरणे । अणुत्वम् — ‘अणीयान्’ इत्यनेन प्रतिपन्नमणुत्वम्। उपधिकृतम् — हृदयाख्यसूक्ष्मस्थानरूपोपाधिप्रयुक्तम्। ज्यायसि – ‘ज्यायान्पृथिव्याः’ इत्यादिना सर्वज्यायस्त्वेन प्रतिपन्ने परमात्मनि। उपास्यते स्यात् — तथोपासनार्थमुक्तमित्युरपपन्नं भवेत्॥
कुमार-वरदः - 85
  1. अस्मिन्नधिकरणे पूर्वपक्षसिद्धान्तयुक्तिद्वयं पूर्वोत्तरार्धाभ्यां सङ्गृह्य दर्शयति–सर्वत्वमिति। अयमर्थः- ‘सर्वं खल्विदं" ब्रह्म’इति सर्वसामानाधिकरण्यं जीवे न घटत इति भवन्तो वदन्ति तत्तु घटत एव देवतिर्यङ्मनुष्यस्थावररूपेण जननवति जीवे तत्तच्छरीरसामानाधिकरण्येन निर्देशस्याविरोधात्, तथा हृदयान्तरवस्थितत्वेनाल्पस्थान इत्यल्पमानोऽणीयानितिचात्र प्रतिपाद्यार्थः श्रूयते, तच्च जीवत्वेव प्रसाधयति, किं च सुखदुःखभागी देहे जीव एव वर्तते अतो जीवादन्यः परमपुरुषोऽत्र नास्तीति। परिहरति-नेति। हेतुमाह-तज्जत्वादेरिति। ‘सर्वं खल्विदं ब्रह्म’इत्यनन्तरमेव तज्जत्वात्तल्लत्वात्तदन्त्वादिति हेतुत्रयमनूद्यते, स तु परमपुरुषधर्म एव ‘यतो वा इमानि भूतानि’इत्यादिवाक्ये तस्यैव प्रसिद्धत्वात्। विविधगुणभिदादर्शनात्- ‘मनोमयः प्राणशरीरो भारूपः सत्यकामः सत्यसंकल्पः’इत्यादिना ब्रह्मासाधारणगुणविशेषदर्शनात्। सर्वतादेः स्वारस्यादपि- ‘सर्वं खल्विदं" ब्रह्म’इति चेतनाचेतनविभागाभावेनाविशेषेण सर्वेषामपि ब्रह्मतादात्म्यमुच्यते। तत्तु जीवे न संभवति;एकस्य चेतनस्य चेतनान्तरं प्रति शरीरत्वाभावात्। परमात्मनि तत् संभवत्येव ‘यस्यात्मा शरीरम्, यस्य पृथिवी शरीरम्’इति सर्वशरीरत्वश्रवणात्। तर्हि ‘अणीयान्’इत्यगुणत्वकथनं" कथमिवोच्यत इत्यत्राह-अणुत्वमिति। उपधिकृतम्-अवच्छेदकस्थानकृतमित्यर्थः। न केवलमल्पत्वकथनम्। ‘ज्यायानेष पृथिव्याः’ इत्यादिना ज्यायस्त्वमप्युच्यते। तेन ज्यायसि ब्रह्मण्युपाधिकृतमल्पत्वमुपासार्थमेव। तदिदमाह सूत्रकारः- ‘निचाय्यत्वात्’ इति। ध्येयत्वादित्यर्थः॥
मूलम् - 85
  1. सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोऽत्र चैवे-
    त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न।
    तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादे-
    स्स्वारस्स्यादप्यणुत्वं ह्युपधिकृतमिहोपास्तये ज्यायसि स्यात्॥