विश्वास-प्रस्तुतिः - 79
- अत्रायोगान्ययोगव्यपनयननयैर्ब्रह्मपादत्रिपादी-
भागारूढैर्मृदूपक्रमकठिनपरैः प्राय आद्ये प्रसाद्ध्यम्।
कृत्स्नाक्षेपोपशान्त्यै प्रथम इह ततः पाद उक्तिस्त्रिपादी
क्वाचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय प्रणीता॥
३४-तमाहोबिल-यतिः - 79
- अत्रायोगेत्यादि। अत्र आद्ये – अस्मिन्नाद्येऽध्याये। मृदूपक्रमकठिनपरैः — मृदरुपक्रम आरम्भः, कठिनः पर उपंसहारश्च येषां" तैः। उपक्रमस्य मृदुत्वं नाम –सिद्धान्त्यङ्गीकृत एव वस्तु विशेषे धर्मविशेषाशङ्कनरूपयतया, यथा आकाशाधिकरणे सिद्धान्त्यङ्गीकृत्य एवाचिद्विशेषे जगत्कारणत्वशङ्कनम्। उपहंसारस्य कठिनत्वं नाम — सर्वशून्यत्वादिमाहासाहसमार्गपतनुहेतुत्वम् — यथा तस्मिन्नेवाधिकरणे आकाशस्य जगत्कारणत्वमवलम्ब्य तत्स्वरूपस्यावरणाभावात्मकत्वसाधनेन तत्कार्यस्यापि जगतोऽभावरूपत्वसिषाधयिषया सर्वशून्यत्वापत्तिपर्यवसायित्वम्। पादत्रिपादीव्यूहारूढैः — प्रथमपादात्मकं तत्परपादत्रयात्मकं च विभागमारूढैः। प्रायः, अयोगान्ययोगव्यपनयननयैः – बाहुल्येन परमात्मायोगव्यवच्छेदपरैः बाहुल्येन परमात्मान्ययोगव्यवच्छेदपरैश्चाधिकरणैः। प्रायः पदप्रयोगेण भूयस्त्वप्रतीतेः सङ्करदोषनिराकरणार्थँ" ब्रह्मायोगव्यवच्छेदभूयस्त्वं प्रथमे पादे, तदन्ययोगव्यवच्छेदभूयस्त्वं त्रिपाद्यामिति लभ्यते। ब्रह्म प्रसाध्यम् — प्रतिपाद्यम्। इह — शास्त्रे प्रथमाध्याये। कृत्स्नाक्षेपोपशान्त्यै — कृत्स्नवेदान्ताक्षेपपरिहाराय। प्रथम पादः उक्तः। ततः परं क्वाचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय — उपक्रमदशायामेकदेशवाक्याक्षेपपूर्वककृत्स्नवेदान्ताक्षेपकलहनिवृत्तये। त्रिपादी — द्वितीयतृतीयचतुर्थपादात्मिका पादत्रयी। प्रणीता —- रचिता॥
कुमार-वरदः - 79
1.इह खलु भगवता भाष्यकारेण ’ अथातो ब्रह्मजिज्ञासा ‘इत्यारभ्य पूर्वोक्तानामेकादशानामधिकरणानां परस्परमर्थविभागः संगतिविशेषोऽपि व्यक्तमभ्यधायि। ‘तत्रास्पष्ट’ इत्याद्युपक्रमेण चतुर्णामपि पादानां संगतिरपि प्रत्यपादि। तद्भाष्य एव विस्तरेण द्रष्टव्यम्। इदानीं भाष्यकाराभिप्रायस्थं संगतिद्वयमप्याचष्टे। द्वौ खल्वत्र प्रथमाध्याये विवक्षितौ परमपुरुषायोगव्यवच्छेदः प्रथमपादे तदन्ययोदव्यवच्छेदस्त्रिपाद्यमिति। अत्रायोदव्यवच्छेदप्रधानः प्रथमपादः अन्ययोगव्यवच्छेदप्रधाना त्रिपादीति विभागविशेषः। तेनोभयत्राप्युभयमस्तीति न संङ्करदोषशङ्कावकाशः। तदिदमाह– अत्रायोगेति। अयमर्थः— अयोगान्ययोगव्यपनयनयैर्व्यपनयन प्रधानैः प्रथमपादत्रिपादीविभागारूढैरधिकरणैर्मृदूपक्रमकठिनपरैराद्येऽध्याये ब्रह्म प्रतिपाद्यम्, अत्र प्राय इति वचनं भूयस्त्वप्रकाशनेन संङ्करदोषनिराकरणार्थम्, ब्रह्मायोगव्यवच्छेदभूयस्त्वं प्रथमपादे, तदन्ययोगव्यवच्छेदभूयस्त्वं त्रिपाद्यमिति। तथायमपि विभागः पर इत्याह – कृत्स्नेति। कृत्स्न वेदान्ताक्षेपपरिहारः प्रथमपादे। उपक्रमदशायामेकदेशवाक्याक्षेपपूर्वककृत्स्नवेदान्ताक्षेपकलहसमुन्मूलनाय प्रवृत्ता त्रिपादीति। अयमर्थः — वेदान्ताः परं ब्रह्म प्रतिपादयन्तु नाम, इदं तु वाक्यमन्यदेव किञ्चित् प्रतिपादयतीति कलहपूर्वकं क्रमेण कृत्स्नमपि वाक्यं न प्रतिपादयतीति वदन्तं" प्रतिक्षिपतीति पादत्रिपादीविभागः। अत्र शब्दार्थः सुव्यक्तः॥
मूलम् - 79
- अत्रायोगान्ययोगव्यपनयननयैर्ब्रह्मपादत्रिपादी-
भागारूढैर्मृदूपक्रमकठिनपरैः प्राय आद्ये प्रसाद्ध्यम्।
कृत्स्नाक्षेपोपशान्त्यै प्रथम इह ततः पाद उक्तिस्त्रिपादी
क्वाचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय प्रणीता॥
विश्वास-प्रस्तुतिः - 80
- अस्पष्टस्पष्टरूपस्फुटतरचिदचिल्लिङ्गवद्वाक्यचिन्ता
भाष्ये दीपावतारेऽप्यभणि नयगणैस्सम्प्रवृत्ता त्रिपाद्याम्।
अत्यन्तास्पष्टलिङ्गान्वितविषयमुशन्त्याद्यपादं तु केचित्
तत्रेदन्तारतम्यं नियतनिजबलैः कर्मतार्तीयमानैः॥
३४-तमाहोबिल-यतिः - 80
- अस्पष्टेत्यादि। भाष्ये – श्रीभाष्ये द्वितीयपादोपक्रमे। दीपावतारेऽपि —वेदान्तदीपेऽप्यवतारिकादानप्रकरणे। त्रिपाद्याम् — द्विती.तृतीयचतुर्थपादेषु विद्यमानैः। नयगणैः — अधिकरणगणैः। अस्पष्टस्पष्टरूपतरचिदचिल्लिङ्गवाक्यचिन्ता सम्प्रवृत्ता अगणि —अष्पष्टानि विलम्बितप्रत्ययविषयभूतानि स्पष्टरूपाणि झटितिप्रत्ययविषयभूतानि स्फुटतराणिअत्यन्तझटितिप्रत्ययविषयभूतानि च यानि चिदचिल्लिङ्गानि चेतनाचेतनज्ञापकानि तद्वतां श्रुतिवाक्यानां विचारः प्रवृत्त इति निरणायि । केचित्तु — श्रीभाष्याभिप्रायविदः" केचिदाचार्यस्तु। आद्यपादम् — प्रथमाध्यायप्रथमपादम्। अत्यन्तास्फष्टलिङ्गान्वितविषयमुशन्ति —– अत्यन्तविलम्बितप्रत्ययचिदचिल्लिङ्गयुक्त वाक्य विषयं प्रतिपादयन्ति। तत्र —- प्रतिपादितविषये । इदं तारतम्यम् —- इदानीं प्रतिपादिचमस्पष्टत्वस्पष्टस्फुटतरत्वरूपं" तारतम्यम्। नियतनिजबलैः — व्यवस्थितस्वसामर्थ्यैः। अत्र सामर्थ्यं साक्षआदर्थप्रत्यायकत्वैदद्वित्र्यादि प्रमाणव्यवधानसहितार्थप्रत्यायनादिरूपम्। तत्र च तारतम्यव्यवधानैकव्यवधानद्विव्यवधानत्रिचतुरादिव्यवधानक्रमेण। यथा श्रुतिस्मृत्याचारादेः। अत एव च श्रुतिलिङ्गानां प्राबल्यदौर्बल्ये। तच्च सूत्रितं ‘श्रुतिलिङअगवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ इति। अत्रार्थविप्रकर्षश्च एकद्वित्र्यादिव्यवधानकृतः" प्रत्ययविलम्ब एव। प्राच्यतार्तीयमानैः — पूर्वकाण्डस्थतृतीयाध्यायप्रतिपन्नश्रुतुलिङ्गादिरूपप्रत्यायकैरेवेत्यर्थः। तथाच पूर्वक्षानुगुणश्रुतिलिङ्गादिबलाबलविचिन्तनक्रमभाविप्रत्ययविलम्बतारतम्यकृतस्पष्टत्वादिरूपं" तारतम्यमिति भावः॥
कुमार-वरदः - 80
- एवं संगतिमुक्त्वा भाष्यतद्व्याख्यानोक्तामपि संगतिं विशदं प्रकाशयन् अस्पष्टतरत्वादिकल्पने निदानं कर्मकाण्डतृतीयाध्यायोक्तश्रुत्यादितारतम्यमित्याह– अस्पष्चस्पष्टेति। आद्यपादस्यास्पष्टतरजीवादिलिङ्दवाक्यविषयत्वं भाष्याभिप्रायज्ञैर्व्याख्यातृभिरुक्तमित्याह–अत्यन्तेति। ननु वाक्यानां वैषम्यं भवद्भिरुच्यते तच्च न वाक्यस्वरूपस्थम्, अदर्शनात्, नापि वाच्यस्थम्, तत एव, इत्याशसङ्क्य तत्प्रतिपादनप्रकारस्थमित्याह–तत्रेति। श्रुतिलिङ्गादिभिः षड्भिःः प्रमाणैः संभावितमेव हि वाक्यमस्पष्टत्वादिकं प्रकाशयति। तेषां च श्रुतिलिङ्गादीनां तारतम्यं पूर्वकाण्ड एव परिकल्पितम्। असूत्रयच्च भगवाञ्जैमिनिः ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ‘इति। तेन झटिति प्रत्यायकानि वाक्यानि स्पष्टतराणि, ततोऽन्यानि स्पष्टानि, ततोऽन्यान्यस्पष्टानि, ततोऽन्यान्यस्पष्टतराणि, इति वाक्येषु विभागः। एवमर्थेऽपि विभागो द्रष्टव्यः॥
मूलम् - 80
- अस्पष्टस्पष्टरूपस्फुटतरचिदचिल्लिङ्गवद्वाक्यचिन्ता
भाष्ये दीपावतारेऽप्यभणि नयगणैस्सम्प्रवृत्ता त्रिपाद्याम्।
अत्यन्तास्पष्टलिङ्गान्वितविषयमुशन्त्याद्यपादं तु केचित्
तत्रेदन्तारतम्यं नियतनिजबलैः कर्मतार्तीयमानैः॥
विश्वास-प्रस्तुतिः - 81
- पूर्वत्रासिद्धरूपैस्स्वमतिविरचितोन्नीतिभिः पूर्वपक्ष-
स्सिद्धैस्साधारणैरप्युपधिनियमितैः प्रत्यवस्था द्वितीये।
स्पष्टासाधारणत्वैरुपरिपरमतानूक्तिकल्पैरथेति
न्यायैकत्रिंशदत्र प्रतिचरणविभक्त्यन्विताऽन्वेषणीया॥
३४-तमाहोबिल-यतिः - 81
- पूर्वत्रेत्यादि। पूर्वत्र — प्रथमाध्याये प्रथमपादे। असिद्धरूपैः – स्वरूपेणासिद्धैः। स्वमतिविरचितोन्नीतिभिः —- केवलं" वादिपरिकल्पितैर्हेतुभिः। पूर्वपक्षः – पूर्वपक्षोत्थानम्। द्वितीये – द्वितीयपादे तु। सिद्धैः साधारणैरप्युपधिनियमितैः प्रत्यवस्था —- स्वरूपतः" सिद्धैर्व्यभिचारिभिरथापि कुसृष्ट्या विशेषणेन नियमितैः परिहृतव्यभिचारैर्हेतुभिः पूर्वपक्षोत्थानम्। उपरि — तृतीयपादे । स्पष्टासाधारणत्वैः" — स्वपक्षस्यैव साधकैर्हेतुभिः पूर्वपक्षोत्थानम्। अथ – चतुर्थपादे। परमतानूक्तिकल्पैः — परसिद्धान्तानुवादप्रायैर्हेतुभिः" पूर्वपक्षोत्थानम्। अत्र — प्रथमाध्याये। प्रतिचरणविभक््त्यन्विता — अक्षोर्मीत्यादिपूर्वोक्तरीत्या प्रतिपादमियन्त्यधिकरणानीतिविभागयुक्ता। इति — पूर्वोक्तपादविभागादिक्रमेण। न्यायैकत्रिंशत् – अधिकरणानामेकत्रिंशद्रूपा न्यूनाधिकव्यवच्छेदिका संख्या। अन्वेषणीया — निश्चेतव्येत्यर्थः। अत्र ‘अक्षोर्मि’ इत्युक्तरीत्या प्रथमाध्याये पञ्चत्रिंशदधिकरणानां विद्यमानत्वेऽपि आद्याधिकरणटचतुष्टयस्य शास्त्रोपोद्धातरूपत्वेन शास्त्रानन्तर्भावात्, ईक्षत्धिकरणप्रभृतिसर्वव्याख्यानाधिकरणान्तमन्तर्विद्यमानानामधिकरणानामेकत्रिंशत्त्वमभिमतं" वेदितव्यम्॥
कुमार-वरदः - 81
- अत्र शिष्यानां विशेषेण स्पष्टतरत्वादिप्रतिपत्त्यर्थं प्रकारभेदेनापि पूर्वपक्षहेतूनां विभागमाह– पूर्वत्रेति। असिद्धरूपैः" – स्वरूपेणालिद्धैः, केवलं वादिपरिकल्पितैर्हेतुभिः पूर्वपक्षोत्थानम्। द्वितीयपादे प्रत्यवस्थानप्रकारमाह–सिद्धैरिति। स्वरूपतः" सिद्धैर्व्यभिचारिभिः कयापि तु कुसृत्या विशेषणेन नियमितैर्हेतुभिः पूर्वपक्षोत्थानम्। तृतीये तु स्पष्टासाधारणत्वैः स्वपक्षस्यैव प्रसाधकैरुत्थानमित्याह–स्पष्टेति। चतुर्थे पुनः परसिद्धान्तानुवादप्रायैरुत्थानमित्याह– परमतेति। अत्राधिकरणानामन्योन्यसङ्गकरव्यावृत्त्यर्थं" मतान्तरव्यावृत्त्यर्थँ चाधिकरणसंख्यामाह– इतीति। प्रतिपादमधिकरणसंख्याविभागं पूर्वमेवोक्तं स्मारयति – प्रतिचरणेति॥
मूलम् - 81
- पूर्वत्रासिद्धरूपैस्स्वमतिविरचितोन्नीतिभिः पूर्वपक्ष-
स्सिद्धैस्साधारणैरप्युपधिनियमितैः प्रत्यवस्था द्वितीये।
स्पष्टासाधारणत्वैरुपरिपरमतानूक्तिकल्पैरथेति
न्यायैकत्रिंशदत्र प्रतिचरणविभक्त्यन्विताऽन्वेषणीया॥
विश्वास-प्रस्तुतिः - 82
- विश्वं पादे द्वितीये वपुरिति कथयंश्चिन्त्यते वाक्यवर्गो
विश्वाधारस्स आत्मेत्यभिलपनपरस्तर्कणीयस्तृतीये।
तुर्ये साङ्ख्यादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीये-
त्येवं केचित्त्रिपादीं जगदुरयमपि श्रोतृबुद्धेस्समाधिः॥
३४-तमाहोबिल-यतिः - 82
- विश्व मित्यादि। द्वितीये पादे विश्वं वपुरिति कथयन् वाक्यवर्गश्चिन्त्यते — द्वितीयपादे जगत् भगवतः" शरीरमिति प्रतिपादयन् श्रुतिवाक्यगणो विचार्यते। आत्मा स विश्वाधार इत्यभिलपनपरस्तृतीये तर्कणीयः— द्वितीयपादोक्तरीत्या जगत आत्मा परमात्मा विश्वशरीरत्वप्रतिपादकविश्वाधारत्वानिति प्रतिपादयन् वाक्यगणस्तृतीये पादे विचारणीयः। तुर्ये – चतुर्थपादे तु। साङ्ख्यादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीया — इमाः श्रुतयः साङ्ख्यादिसिद्धान्तोक्तार्तपरिपठनरूपा इति केचित् श्रुतिवाक्येषु जायमाना भ्रान्तिः पूर्वोक्तार्थविरुद्धतया परिहरणीया। इत्येवम् — उक्तक्रमेण। केचित् — केचिदाचार्याः। त्रिपादीं जगदुः — त्रिपादीप्रवृत्तिप्रकारभेदं निरवहन्। अयमपि —- अयं प्रकारोऽपि। श्रोतृबुद्धेः समाधिः – श्रोतृजनानां बुद्धेः प्रसादहेतुः। अतोऽयमपि प्रकारभेदः स्वीकार्य इति भावः॥
कुमार-वरदः - 82
- प्रकारान्तरेणाप्याचार्यैरुक्तां त्रिपादीलंगतिमनुवदति – विश्वमित्यादिना। द्वितीयपादे विश्वं भगवतः शरीरमिति प्रतिपाद्यते। तृतीयपादे विश्वशरीरत्वोपपादकं विश्वाधारत्वमुच्यते। चतुर्थे पुनरुक्तार्थपरिपन्थिरूपसांख्यादिसिद्धान्तप्रक्रियां समुन्मूल्यत इति विभागः। तमेतं विभागं श्रोतृबुद्धिसमाधानार्थत्वतादाद्रियामह – अयमिति॥
मूलम् - 82
- विश्वं पादे द्वितीये वपुरिति कथयंश्चिन्त्यते वाक्यवर्गो
विश्वाधारस्स आत्मेत्यभिलपनपरस्तर्कणीयस्तृतीये।
तुर्ये साङ्ख्यादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीये-
त्येवं केचित्त्रिपादीं जगदुरयमपि श्रोतृबुद्धेस्समाधिः॥