11 इन्द्रप्राणाधिकरणम्

विश्वास-प्रस्तुतिः - 74

74.विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव
ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न।
ब्रह्म त्रेधा ह्युपास्यं बहुविधचिदचित्कञ़्चुकं स्वात्मना च
प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघट्यभग्नः॥

३४-तमाहोबिल-यतिः - 74
  1. विद्या प्रातर्दनीत्यादि। सा –प्रसिद्धा। प्रातर्दनी – ‘प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’ इत्यादिका प्रतदर्नाख्यानप्रतिपादिका। विद्या – कौषीतकिब्राह्मणे वरं वृणीष्वेतीन्द्रेणोक्तेन प्रतदर्नेन ‘त्वमेव मे वरं वृणीष्व यं त्वं" मनुष्याय हिततमं मन्यसे’ इति भवभयाभइितप्तजनहिततमोपायं सर्वज्ञस्त्वमेव चिन्त्येति पुनरुक्ते ‘सहोवाच मामेव विजानीह्येतदेवाहं" मनुष्याय हिततमं मन्ये यन्मां विजानीयात्’ इतीन्द्रवचनरूपा श्रुतिः। इन्द्रमेव हिततमोपास्तिकर्म वदति – इन्द्रमेव भवभयाभइतप्तजहिततमोपासनविषयं" वदति। किंच ख्यातप्राणेन्द्रचिह्नान्वितमपि —-प्राणश्चेन्द्रश्च प्राणेन्द्रौ ख्यातौ जीवशरीरधारणमुख्योपकरणवायुरूपतया त्रयस्त्रिंशद्देवाधिपतितया च प्रसिद्धौ च तौ प्राणेन्द्रौच ख्यातप्राणेन््द्रौ तयोश्चिह्नैस्त्रिशीर्षत्वाष्ट्रहननारुन्मुखयतिशिक्षणादिरूपैरायुस्सत्तानियामकस्वसत्तादिरूपैश्त चिह्नैरन्वितं युक्तमपि। हिततमोपास्तिकर्म वदति — ‘त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखानु यतीन् सालावृकेभ्यः प्रायच्छं यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः’ इत्यादिवाक्यैः ‘स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ इति वाक्येन चेत्यर्थः। तत् –तस्मात्। असौ –प्रसिद्धेन्द्र एव। विश्वकर्ता –जगत्कारणम्। इति चेन्न – इति शङ्क्यते चेत् तन्न सम्भवति। अयमाशयः – उपक्रमस्थं हिततमोपास्तिकर्मत्वं प्रसिद्धेन्द्रस्य न घटते, हिततमोपासनस्यापवर्गार्थत्वात्। तादृशोपासनकर्मत्वं परिमितदेशवासिनि मेघनादादिविजिते कीटकल्पे प्रसिद्घेन्द्रे न सम्भवतीति। तर्हि प्रसिद्धेन्द्रादिलिङ्गं कथमुपपद्येतेत्यत्राह – ब्रह्मेत्यादि। ब्रह्म बहुविधचिदचित्कञ्चुकं स्वात्मनाच त्रेधा उपास्यं हि — परमात्मा चिद्विशिष्टतया, अचिद्विशिष्टतया, स्वरूपेण चेति त्रेधा उपास्यो हि। इदं हृदयम् – चिद्विशिष्टया, अचिद्विष्टतया, स्वरूपेणच ब्रह्मण उपास्यत्वात् प्रसिद्धेन्द्रादिकमप्युपास्यविशेषणतयाऽवगन्तव्यमेवेति। तथोपास्यविशेषणीभूतेन्द्रादिप्रतिपत्त्यर्थत्वात् त्वाष्ट्रवधादिकमपि लिङ्गं सार्थकमेव न विरुद्धमिति। प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघट्यभग्नः – प्रसिद्धप्राणेन्द्रश्रुतिलिङ्गयुक्ततया उपक्रमोऽपि महावाक्यविरोधेन बाधितः। इदमाकूतम् – उपक्रमोपसंहारयोरुपक्रमो बलीयान्, उपक्रममहावाक्ययोर्विरोधे बलीय इति, इदं च पुनर्विरोधे सत्येव। अत्र पुनर्विरोध एव नास्ति, महावाक्यान्तर्गतोपक्रमस्यापीन्द्रविशिष्टपरमात्मविषयत्वेनाध्यात्मविद्भिरनुसन्धानादिति॥
कुमार-वरदः - 74
  1. अत्र संगतिर्भाष्यकारैरेवोक्ता ’ निरतिशय ’ इत्यादिना। आदित्यादिपरज्योतिश्शब्दे निरस्ते परो ज्योतिषामधिपतित्वेन परकल्पित इन्द्रोऽपि जगत्कारणत्वेनाशङ्क्य निरस्यत इति। अथवा उपक्रमप्राबल्यादुपसंहारोक्तार्थनिरासः पूर्वाधिकरण उक्तः, तर्हि तेनैव न्यायेन प्रतर्दनविद्यायामपि उपक्रमप्राबल्यादुपसंहारवाक्यप्रतिपन्नपरमपुरुषपिरकल्पनं बाध्यमिति पूर्वपक्षोत्थानेन संगतिः। तदर्थविचारस्तु प्रतर्दनविद्यायां किं प्रसिद्ध एवेन्द्रः प्रतिपाद्यते उतेन्द्रशरीरकः परमात्मा। एवं प्राणेऽपि वाच्यम्। तदर्थं विचार्यते - पूर्वाधिकरणोक्तोपक्रमाधिकरणन्यायेनात्राप्यर्थोपवर्णनं न्याय्यम्, अथवा नेति। उपक्रमाधिकरणन्यायेबाधकमुपक्रममहावाक्यविरोधे महावाक्यमेवानुसरणीयमिति न्यायनन्तरं न विद्यते, अथवा विद्यत इति। पुनर्विचार्यते अस्मिन्वाक्ये सर्वत्र परब्रह्मत्वनिश्चायकं हेतुजातं नानुगम्यते, उतानुगम्यत इति। अत्र पूर्वपक्षी मन्यते– पूर्वमुपक्रमानुसारेणैवोपसंहारवर्णनं न्याय्यमिति भवद्भिरुक्तम्, प्रतर्दनविद्यायामुपक्रमे पूर्वमिन्द्रशब्दः" प्रयुज्यते, स तु विशेषश्रुतिः, तेनोपक्रमस्थश्रुत्यानुगुण्यमस्त्येव, किं च ’ त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं" मन्यसे’ इति हिततमोपास्तिकर्मत्वं तथैवोच्यते, तच्च परब्रह्मत्वलिङ्गम्, तेनोपक्रमस्थश्रुतिलिङ्गाभ्यामिन्द्र एव परमपुरुषः, किं" च त्वदभिमतनारायणविरुद्धं प्रसिद्धेन्द्रसाधारणं त्वाष्ट्रवधादिकं चोपलभ्यते, तच्च परमपुरुषविरुद्धमेव। फलितमाह– तदिति। तस्मात् । असौ - शक्रादिपद वाच्य इन्द्र एव, जगत्कर्ता। परहरति– नेति। अयमाशयः – उपक्रमस्थहिततमोपास्तिकर्मत्वं प्रसिद्धेन्द्रस्य न घटते, एवं हिततमोपास्तितरपवर्गार्थोपासनम्, प्रसिद्धेन्द्रस्तु देवगणान्तर्गतः स्वर्गादिपरिमितदेशवासी कश्चित्कीटकल्पः, स कथं" हिततमोपास्तिकर्म भवेत्, तेनार्थविरोधात् शब्दार्थासंकोचसिद्ध्यर्थं चेन्द्रशब्देन परमपुरुष एवाभिधीयते, ’ इदि परमैश्वर्यं ’ इति हि व्युत्पादयन्ति, निपुणनिरूपणे पितामहोऽप्युदुम्बरकीटः, किमुत मेघनादादिजितः प्रसिद्धेन्द्र इति त्वमेव भावय। तर्हि मामुपास्स्वेति स्वोपासनं विदधातीन्द्रः, त्वाष्ट्रवधादिकं चास्मिन्नेव प्रकरणे प्रख्याप्यते परमपुरुषविरुद्धं प्रसिद्धेन्द्रानुकूलं लिङ्गम्, तत्कथमिति चेदत्र समाधिमाह– ब्रह्मेत्यादिना। स्वात्मना चेत्यन्तेन। अयमभिप्रायः – त्रेधा ह्युपास्यं ब्रह्म अचिद्विशिष्टोपासनं" चिद्विशिष्टोपासनं केवलं परमात्मोपासनमिति। तेन प्रसिद्धेन्द्रादिकमपि ब्रह्मविशेषणत्वेनोपास्यतयाऽभिधीयते । तेन विशेषणभूतप्रसिद्धेन्द्रादिप्रतिपत्त्यर्थं" त्वाष्ट्रवधादिकमपि लिङ्गं सार्थकमेव न पुनर्विरुद्धम्। अयमत्र निर्णयः– हिततमोपास्तिकर्मत्वादिभिः परमपुरुषस्यैव प्रतर्दनविद्यायामिन्द्रशब्दप्रधानवाच्यत्वं" सिद्धमेव। त्वाष्ट्रवधादिना लिङ्गेन तद्विशेषणत्वेन प्रसिद्धेन्द्रोऽपि परिगृह्यते । एवं प्राकरणिकेन लिङ्गेविशेषेण प्रसिद्धप्राणोऽपि स्वीक्रियतां, नतु स्वरूपेण। स्वरूपेण परमात्मनोपासनं सुप्रसिद्धमेव । तेनोपासात्रैविध्यसिद्ध्यर्थँ प्रसिद्धेन्द्राद्यसाधारणलिभ्गं प्रतर्दनविद्यायामुक्तमिति न विरोधः। अत इन्द्रादिविशिष्टः परमात्मेव प्रतर्दनविद्यायामुपास्य इतीन्द्रादिरूढुिशक्त्या विशेषणपरित्यागेन विशेष्यपर्यन्चाभिधानमिति सिद्धम्। कथं तर्हि उपक्रमविरोधे वाक्यार्थनिर्णय इत्याशङ्क्याह– प्राणेन्द्राति । उभयमिह प्रकाष्यते उपक्रमोपसंहारयो उपक्रमोपसंहारयोपुरक्रमो बलीयान्, उपक्रममहावनक्ययोर्विरोधे महावाक्यमेव बलीय इति। इदं पुनर्विरोधे सत्यमेव। अत्र पुनर्विरोध एव नास्तीति भाष्यकारहृदयम्। महावाक्यगतोपक्रमस्यापीन्द्रविशिष्ट परमात्मविषयत्वेनाध्यात्मविद्भिपनुसन्धानादिति॥
मूलम् - 74

74.विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव
ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न।
ब्रह्म त्रेधा ह्युपास्यं बहुविधचिदचित्कञ़्चुकं स्वात्मना च
प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघट्यभग्नः॥

विश्वास-प्रस्तुतिः - 75

75.यल्लिङ्गं कारणैकस्थितमिति कथितं ज्योतिषीन्द्रे च तत्तु
प्रख्यातान्यैकनिष्ठं प्रथममितमतस्तन्मुखोत्थित्ययोगः।
अप्राप्ते तद्विमर्शे प्रकृतशिथिलता नेति चेत्सत्यमेतत्
विष्णूत्पत्त्यादिनीतिभ्रमत इह पुरोवादमुत्प्रेक्ष्य शङ्का॥

३४-तमाहोबिल-यतिः - 75
  1. यल्लिङ्गमित्यादि। ज्योतिषि इन्द्रे च यल्लिङ्गं कारणैकस्थितमितिकथितम् –ज्योतिरधिकरणविषये ज्योतिषि, इन्द्रप्राणाधिकरणविषयइन्द्रे च उत्तमेषु लोकेषु निरतिशयदीप्तियुक्तत्वरूपं हिततमोपासनकर्मत्वरूपञ्च यत् लिङ्गं ज्ञापकं जग्तकारणभूतवस्त्वेकनिष्ठमिति हेतोः" पूर्वपक्षिणोत्थापकतया प्रतिपादितम्। तत्तु प्रख्यातान्यैकनिष्ठं प्रथममितम् –तदेव लिङ्गं कारणत्वेन प्रख्यातनारायणैकनिष्ठतयया जन्माद्यधिकरणप्रभृत्याकाशाधिकरणपर्यन्तसूत्रैरेव निश्चितम्। जन्माद्यधिकरणविषयवाक्यापेक्षित जगत्कारणभूतपुरुषप्रापकाशाधिकरणपर्यन्तसूत्रैरेव निश्चितम्। जन्माद्यधिकरणविषयवाक्यापेक्षितजगत्कारणभूत पुरुषप्रापकसमानशाख पुरुषसूक्तप्रसिद्धामृतत्वप्राप्त्युपायभूत वेदनविषयत्वस्य ‘उदेति हवै सर्वेभ्यः पाप्मभ्योः य एवं वेद’ इत्यन्तरधिकरणविषयवाक्यस्फुचीकृतस्याकाशाधिकरणविषयवाक्ये परायणत्वेन तद्व्याप्तेन स्थापनात् तत्रैवासमन्तात् काशनस्य च परमात्मनिष्ठतयाऽकाशाशब्दप्रवृत्तिनिमित्तलाभाय स्थापनाच्चेति भावः। अतः – निरुक्तलिङ्गद्वयस्य पूर्वमेव परमात्मैकनिष्टत्वस्थापनात्। तन्मुखोत्थित्ययोगः —उक्तलिङ्गद्वारा पूर्वपक्षोत्थानं न युज्यते। तद्विमर्शे अप्राप्ते – उक्तलिङ्गस्य परमात्मैकनिष्ठत्वप्रत्यवमर्शाभावे। प्रकृतिशिथिलया न – प्रकृतस्य परमपुरुषनिष्ठजगत्कारणत्वस्य भ्रंशो न भवति। इदं हृदयम् – लिङ्गद्वयस्य परमपुरुषैकनिष्ठत्वविमर्शाभावेन पूर्वपक्षोत्थानमिति चेत् तर्हि ज्योतिश्च प्रसिद्धमेव किञ्चिदस्तु, इन्द्रश्च प्रसिद्ध एवास्तु, किं तद्विचारार्थमधिकरणप्रणयनेन फलम्?तदप्रणयने च निरुक्तपरमात्मकारणत्वहान्यभावादिति। इति चेत् – एवमधिकरणवैफल्यं शङ्क्यते चेत्। एतत् सत्यम् – शङ्कितमत्यन्तवैफल्यं" न युक्तम्, अधिकप्रयोजनं तु नास्त्येवेत्यङ्गीकृतमित्यर्थः। इह – अधिकरणद्वयविषयवाक्यजाते।पुरोवादमुत्प्रेक्ष्य – ‘अथ यदतः" परोदिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः’ ‘प्रतदर्नो हवै दैवोदासिरिद्न्न्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च तं हेन्द्र उवाच वरं ते ददानीति प्रतर्दनस्त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’इत्येवंरूपक्रमवाक्यजातं पारिप्लववदृष्ट्या समालोचयता बालानाम्। विष्णूत्पत्त्युक्तिरीतिभ्रमतः— ‘ततस्त्वमपि दुर्घर्षस्तस्माद्भावात्सनातनात्। रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्॥’ इत्यादिरूपा या विष्णूत्पत्युक्तिस्तद्रीति रस्मिन् पुरोवादेऽस्तीति भ्रमेण। शङ्का – ‘अत्र भवति तन्निरासायेदमधिकरणद्वयप्रणयन’ मिति शेषः। अत्रास्मिन्प्रकरणे निखिलजगत्कारणभूतमुमुक्षूपास्यपरमपुरुषावतारभूत उपेन्द्रोऽप्युपास्यतया विधित्सित इति शङ्का भवति, तन्निरासायेदमधिकरणद्वयप्रणयनमित्यन्वयः। तथाहि – ‘परोदिवः’ प्राकृतस्थानविशेषस्योपरिष्टात्। ‘विश्वतः पृष्टेषु व्यष्टिबहिर्भूतेषु। ‘,सर्वतः पृष्टेषु’ समष्टिबहिर्भूतेषु। ‘अनुत्तमेषु’ स्वावधिकोत्तमरहितेषु। ‘उत्तमेषु लोकेषु’ उत्तमस्थानविशेषेषु। ‘यत् ज्योतिर्दीप्यते’ तस्य भासा सर्वमिदं विभातीत्यवभासकतया ज्योतिःशब्दितः परमात्मा यः प्रकाशते। ‘तत् ज्योतिः’ । अस्मिन्नन्तः पुरुषे’अस्मिस्रैलोक्येऽन्तर्विद्यमानस्वकिङ्करभूतेन्द्रसमीपे। ‘यदिदं ज्योतिः’ यदेतदुपेन्द्ररूपं ज्योतिर्वर्तते। ‘इदं वाव तत्’ इदमेव तदित्यन्वयः। अस्मिन्वाक्ये उदाहृतवचनार्थरीत्यऽर्थः" प्रतीयते। एवं ‘दैवोदासिः’ ‘अग्निरवमो देवतानां विष्णुः परमः’ इत्युक्तरीत्या सर्वदेवेभ्य उत्कृष्टतया परमपदे विद्यमानः, दैवेभ्यो देवेभ्य उदास्ते उत्कृष्टतयाऽऽस्त इति दैवोदासिरितिव्युत्पत्तिः। ‘प्रतर्दनः’ परमपुरुषः। ‘युद्धेन च पौरुषेण च’ युद्धसाधनेन चक्राद्यायुधेन सह स्वासाधारणेन श्रीवस्तादिचिह्नेन च सह। पुरुषस्य विष्णोरिदं पौरुषमितिव्युत्पत्तिः। ‘इन्द्रस्य प्रियं धाम’ स्वर्गलोकम्। ‘उपजगाम’ उपेन्द्ररूपेणावततार। ‘तम्’ उपेनन्द्रम्।‘इन्द्र उवाच’ ते वरमहं ददानीति। स ‘प्रतर्दनः ’ परमात्मा। स्वस्यावाप्तसमस्तकामत्वात् स्वार्थं वरं निषिध्य तापत्रयातुरजनिहितभूतं" वरं परिचिन्तयेत्युवाचेत्यर्थः प्रतीयते। अत एवमापातजनितोपेन्द्रपरत्वभ्रमेण तदुपासनमप्यत्र विधित्सितमिति भ्रमसम्भवात् तन्निराकरणमधिकरणद्वयप्रणयनप्रयोजनम्। तन्निराकरणप्रकारोऽयम्– पूर्ववाक्ये ‘अस्मिन्नन्तः पुरुषे’ इत्यस्य त्रैलोक्यान्तर्वर्तीन्द्रपरत्वं न सम्भवति, त्रैलोक्यस्येदंशब्देन निर्देशानर्हत्वात्। सन्निकृष्टं हीदंशब्दनिर्देशार्हम्। पुरुषशब्दश्चेन्द्रपरो न भवितुमर्हति, तथा प्रयोगादर्शनात्। नच ‘राजपुरुषः’ इत्यादाविव पुरुषशब्दो भृत्यपरः सन् पुरुषओत्त्मकिङ्करमिन्द्रमभिदधतीति वाच्यम्, इन्द्रवाचकविशेष्यपदादर्शनेन ‘तत्पुरुषाय विद्महे’ इत्यादौ पुरुषोत्तमयभृत्यत्वेन पुरुषशब्दात् महादेवादीनामेव श्रुतत्वेन, इन्द्रस्य तथाऽश्रुतत्वेन, च तथाकल्पनानौचित्यात्। द्वितीयवाक्येऽपि दिवोदासाप्तयभूतः स्वपितृजेतृवीतहव्यविजेतृतया बलपौरुषात्तिशययुक्त इत्यानुशासनिकादि प्रसिद्धः क्षत्रियः प्रतर्दन एव प्रतीयते। ‘उपजगाम’ इत्यस्य चोपेन्द्रतयावततारेत्यर्थपरिकल्पनं चात्यन्तौपचारिकम्। उभयत्राप्युपरितनवाक्यार्थनन्वयादिदोषाश्चेति। अतो यथोक्तरीत्या प्रसिद्धज्योतिरिन्द्रशरीरकः परमात्मैव प्रकरणद्वयविवक्षित इति॥
कुमार-वरदः - 75
  1. अत्राधिकरणारम्भानुपपत्तिमाशङ्क्य समाधत्ते – यदिति। अयमर्थः – ज्योतिषीन्द्रे च यल्लिङ्गं कारणैकस्थितमिति कथितं भवता ज्योतिषि तावत् ’ अथ यदतः’ इत्याद्युक्तमुत्तमेषु लोकेषु निरतिशयदीप्तियुक्तत्वम्, यच्चेन्द्रे त्वमित्याद्यभिप्रेतं" ’ मामुपास्स्व ’ इति साक्षान्मुक्त्यर्थं मुमुक्षूपास्यत्वम्, तदुभयमपि प्रख्यातान्यैकनिष्ठं कारणत्वेन प्रख्यातनारायणमैकनिष्ठं" प्रथममितम् –आकाशाधिकरणत्ववयाप्तं लिङ्गद्वयम्, तत्कथमुच्यते। यथा सर्वजगत्कारणत्वं परमपुरुषविषयतया प्रथममितम्, तद्वत्, तेन समव्याप्तम् लिङ्गद्वयमपि तथैव प्रमितमेवेत्यर्थः। फलितमाह– अत इति। निरतिशयदीप्तियुक्तत्वलिङ्गस्य मुमुक्षूपास्यत्वस्य च परमपुरुषनिष्ठतया पूर्वमेव प्रमितत्वात् कारणत्वव्याप्तलिङ्गेन पूर्वपक्षोत्थानमिति न घटते। इत्थं लिङ्गद्वयस्य परमपुरुषस्थितत्वपरामर्शे दूषणमुक्तम् तदभावे़ऽपि दूषणमाह– अप्राप्त इति। लिङ्गद्वयस्य सर्वकारणस्थितत्वपरामर्शाभावे लिङ्गद्वयान्वितं यत्किंचिज्जोतिरस्तु यः कश्चिदिन्द्रोऽस्तु न चैतावता पूर्वोक्तमेकनिष्ठं कारणत्वं" परमकारणत्वं भ्रश्यति किमर्थमधिकरणाम्भ इत्याशङ््क्यार्धाङ्गीकारेण परिहरति सत्यमिति। यद्यप्यधिकरणप्रयोजनं नास्ति, अथापि किंचित्प्रयोजनमस्ति, यद्यपि लिङ्गद्वयं परमपुरुषैकनिष्ठम्, अथापि स एव परमपुरुष उपेन्द्रत्वमास्थाय वर्तते, अतः सोऽप्युपास्य एव, तस्य श्रुतिः पुराणादिरिवोपेन्द्रोत्पत्तिं" वावदीतीति कश्चित् बालबुद्धि र्भ्राम्यति, तच्छङ्कानिराकरणमारम्भ इत्यर्थः। उपेन्द्रस्य परमपुरुषत्वं श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम्, तेष्वेवेन्द्रस्य पुरुषोत्तमकिङ्गरत्वमपि तत्रैव प्रसिद्धमिति भावः॥
मूलम् - 75

75.यल्लिङ्गं कारणैकस्थितमिति कथितं ज्योतिषीन्द्रे च तत्तु
प्रख्यातान्यैकनिष्ठं प्रथममितमतस्तन्मुखोत्थित्ययोगः।
अप्राप्ते तद्विमर्शे प्रकृतशिथिलता नेति चेत्सत्यमेतत्
विष्णूत्पत्त्यादिनीतिभ्रमत इह पुरोवादमुत्प्रेक्ष्य शङ्का॥

विश्वास-प्रस्तुतिः - 76

76.ज्योतिः प्राणेन्द्रशब्दाः परतरविषयाः कारणव्याप्तधर्मा-
दित्येतत्साध्वमीषां बहुविहतिमती ख्यातमात्रे तु वृत्तिः।
तत्कौक्षेयानलात्मा कथित इह तथा ध्यानतस्तत्फलाप्त्यै
मुख्यप्राणादिलिङ्गं तदुपहितपरोपासनान्मोक्षणाय॥

३४-तमाहोबिल-यतिः - 76
  1. ज्योतिः प्राणेत्यादि। ज्योतिः प्राणेन्द्रशब्दाः — ‘अथ यदतः परोदिवो ज्योतिः’ इति पूर्वाधिकरणविषयवाक्ये ‘प्रतर्दनौ हवै’ इत्यारभ्य ‘इन्द्रस्य प्रियं धाम, ’ मामेव विजानीहि प्राणोऽस्मि प्रज्ञात्मा इत्यादिरूपे इन्द्रप्राणाधिकरणविषयवाक्ये च श्रुता ज्योतिश्शब्दप्राणशब्देन्द्रशब्दाः। कारणव्याप्तधर्मात् – जगत्कारणव्याप्तदीप्तिविशेषहिततमोपासनकर्मत्वरूपधर्मसम्बन्धात्। परतरविषयाः –प्रसिद्धज्योतिःप्राणेन्द्ररूपविशेषणविशिष्टपरमात्मविषयाः।इत्येतत् साधु – एवं निर्वहणं युक्तम्। विशेषणविशेष्यरूपयावच्छक्त्यार्थाप्रहाणेन प्रवृत्तेति भावः। अमीषाम् – पूर्वोक्तज्योतिः प्राणेन्द्रशब्दानाम्। ख्यातमात्रे वृत्तिस्तु – प्रसिद्धज्योतिःप्राणेन्द्रमात्रपरत्वं तु। बहुविहतिमती – बहुविरोधयुक्ता। वाच्यैकदेशे भञ्जनात् निरुक्तपरमात्मलिङ्गानन्वयाच्चेतिभावः। तत् – तस्मात्। इह – ज्योतिरधिकरणविषयवाक्ये ‘इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे’ इत्यत्र। तथाध्यानतः – कोक्षेयानलशरीरकतया ध्यानेन। तत्फलाप्त्यै – ‘चक्षुष्यः श्रुतो भवति य एवं वेद’ इति तद्विद्यावसानवाक्यावगताभिरूप्यकीर्तिमत्त्वरूपफललाभाय। कौक्षेयानलात्मा कथितः" – शरीरशरीरिभावेन कौक्षेयानलाभिन्नतया श्रुत्या प्रतिपादितः। परमात्मेति शेषः। मुख्यप्राणादिलिङ्गम् – इन्द्रप्राणाधिकरणविषयवाक्ये ‘यावद्ध्यस्मिन्शरीरे प्राणो वसति तावदायुः’ इत्यादिना ‘त्रिशीर्षाणं त्वपाष्ट्रमहनम्’ इत्यादिना च प्रतिपन्नामायुस्सत्ताहेतुस्वसत्ताकत्वरूपं" मुख्यप्राणलिङ्गं त्वाष्ट्रहननादिरूपमिन्द्रलिङ्गञ्च। तदुपहितपरोपासनात् – मुख्यप्राणेन्द्रविशिष्टपरमात्मोपासनेन। मोक्षणाय – मोक्षाख्यपुरुशार्थलाभायैव नतु फलान्तरार्थम्, अनाम्नानादिति भावः॥
कुमार-वरदः - 76
  1. एवमुक्तयोरधिकरणयोर्विरोधाभासं शमयित्वा पूर्वपक्षिणा परिगृहीतेऽर्थे संमतासंमतविभागं दर्शयन् विरोधिलिङ्गत्वेन कथितस्य कौक्षेयज्योतिषैक्यस्य मुख्यप्राणादिलिङ्गस्य चोपासनार्थत्वेन प्रयोजनमपि दर्शयति– ज्योतिरिति। ज्योतिरादिशब्दानां विशेषणविशिष्ठपरमवस्तुवाचित्वं" संमतम्। विशेषणमात्रवाचित्वसंमतम्। कौक्षोयज्योतिषैक्यमुपासनार्थम्। तथा मुख्यप्राणलिङ्गम्प्युपास्यविशेषणप्रकाशनार्थमिति श्लोकार्थसंक्षेपः। स्पष्टमेवावशिष्ठम्॥
मूलम् - 76

76.ज्योतिः प्राणेन्द्रशब्दाः परतरविषयाः कारणव्याप्तधर्मा-
दित्येतत्साध्वमीषां बहुविहतिमती ख्यातमात्रे तु वृत्तिः।
तत्कौक्षेयानलात्मा कथित इह तथा ध्यानतस्तत्फलाप्त्यै
मुख्यप्राणादिलिङ्गं तदुपहितपरोपासनान्मोक्षणाय॥

विश्वास-प्रस्तुतिः - 77

77.कार्यं यत्कर्मवश्यं यदपि दृढमितं तन्निरूढैस्तु शब्दैः
निर्दिष्टे ब्रह्मणि स्यात्क्वचिदगतिहता रूढिरैन्द्रीनयेन।
तल्लिङ्गानन्यथासिद्ध्यधिगमनबलात्तद्विशिष्टे विवक्षा
स्यादीशे ज्योतिरिन्द्राद्यभिलपनपदेऽहंत्वमादीरिते च॥

३४-तमाहोबिल-यतिः - 77
  1. कार्यमित्यादि। यत् कार्यं दृढमितम् – यद्वस्तु कार्यत्वेन दृढप्रमितिसिद्धमाकायशादिकम्। यदपि कर्मवश्यं दृढमितम् —यच्चेतनवस्ति कर्मवश्यजीवत्वेन दृढप्रमाणसिद्धम्। तन्निरूढैः शब्दैः –तादृशेऽचेतने चेतने वा प्रसिद्धैराकाशप्रजापत्यादिशब्दैः। ब्रह्मणि निर्दिष्टे – परमात्मनि निर्दिष्टे सति। क्वचित्– तादृशे क्वापि स्थले। रूढिः – अचेतने चेतने वा रूढिशक्तिः। ऐन्द्रीनयेन – ‘ऐन्द्रय गार्हपत्यमुपतिष्ठते’ इत्यत्रेन्द्रशब्दस्य गार्हपत्ये रूढिशक्त्यभावात् गौणीवृत्तिर्व्युत्पत्तिर्वा समाश्रयणीया। उभयमपि तान्त्रिकैरुक्तम्, इन्द्रत्वमग्नौ गौणं स्याद्यज्ञसम्बन्धकारितम्। इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः॥’ इति, तन्न्यायेन। अगतिहता स्यात् – अगत्या रूढिनिर्वाहासम्भवरूपया बाधिता भवेत्। रूढिनिरासेन योग एवाश्रीयेतेत्यर्थः। तेनाकाशप्राणशब्दयोस्स्माभिः" परस्मिन्ब्रह्मणि योगव्युत्पत्तिरेवाश्रितेतिभावः। ईशे –परमात्मनि। ज्योतिरिन्द्राद्यभिलपनपरे– ज्योतिरिन्द्रशिवहिरण्यगर्भसूर्यादिशब्दवाच्ये सति। अहन्त्यमादीरिते च – ‘अहं ब्रह्मास्मि’ ‘तत्वमसि’ ित्यादावहंत्वमित्यादिशब्दैर्निर्दिष्टे च सति। तल्लिङ्गानन्यथासिद्ध्यधिगमनबलात् – चेतनाचेतनलिङ्गानामनन्यथासिद्धत्वज्ञानबलेन। तद्विशिष्टे विवक्षा स्यात् – तादृशचेनताचेतनविशिष्टे परमात्मनि शब्दप्रवृत्तिर्वक्तव्येत्यर्थः। तथा च ज्योतिःशब्दस्य ज्योतितिर्विशिष्टे परमात्मनि, इन्द्रशब्दस्येन्द्रविशिष्टे परमात्मनिच शक्तिर्निरूढा। एवमहं ब्रह्मास्मीत्यत्राहंशब्दस्य स्वात्मविशिष्टपरमात्मपरत्वं तत्त्वमसीत्यत्र त्वंशब्दस्याभिमुखचेतनविशिष्टपरमात्मपरत्वं च सिद्धम्। तद्वदेव शिरहिरण्यगर्भसूर्यादिशब्दनिर्देशेऽपि प्रबलतमपरमात्मलिङ्गवशेन प्रकरणस्य परमात्मपरत्वे निश्चिते जीवलिङ्गानां चान्यथासिद्धौ तत्तज्जीवविशिष्टपरमात्मोपासनसिद्ध्यर्थं" तत्तज्जीवविशिष्टपरमात्मपरत्वं शिवहिरण्यरगर्भसूर्यादिशब्दानां सुसङ्गतमिति भावः॥
कुमार-वरदः - 77
  1. अत्र शिष्यामुग्रहार्थं आकाशज्योतिराद्यधिकरणोक्तार्थवैशद्यायेतरवाचिशब्दानां ब्रह्मणि प्रयोगे विषयभेदेन नियमं दर्शयति – कार्यमिति। यत् कार्यमिति दृढमितमधिगतमाकाशादिकं यदपि कर्मवश्यमिति दृढमितं प्राजापत्यादिकं तयो र्निरूढैः प्रसिद्धैः शब्दैः ब्रह्मणि निर्दिष्ठे सति क्वचित् आत्मावस्थितेष्वाकाशादिशब्देषु गत्यन्तराभावाद्रूढिर्बाध्या। अगतिहता – रूढित्वेन निर्वाहासंभवस्त्विह– अगतिः तया निवार्यते रूढिः। तेन योग एवाश्रीयत इत्यर्थः। क्वचिदन्यत्र प्रकारान्तरेण निर्वाहमाह– तदिति। ज्योतिषि लिङ्गं कौक्षेयज्योतिषैक्यम्, इन्द्रे त्वाष्ट्रवधादिकं तदुभयमनन्यथासिद्धं व्याप्तमित्यर्थः॥ तत्तलिङ्गानन्यथासिद्धेर्ज्ञानबलात् तद्विशेषणविशिष्ठविषयत्वं स्यात्। अत्रोदाहरणचतुष्टयमाह– ज्योतिरिति। ज्योतिर्विशिष्टे ब्रह्मणि ज्योतिशब्दः। इन्द्रविशिष्ठे पुनरिन्द्रशब्दः। एवमहं ब्रह्मास्मीत्यत्राहंशब्दः स्वात्मविशिष्टं परमात्मानमाह। अत्र ऐन्द्रानयेनेत्येतदवशिष्यते, तदप्याचक्ष्महे ’ ऐन्द्र्या गार्हपत्यम्’ इत्यत्रेन्द्रशब्दस्य गार्हपत्ये रूढिशक्त्यभावात् गौणीवृत्तिर्व्युत्पत्तिर्वा समाश्रयणीया। उभयमप्याहुः" — ’ इन्द्रत्वमग्नौ गौणं स्यात् यज्ञसम्बन्धकारितम्। इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः॥ ’ इति। तेनाकाशप्राणशब्दयोरस्माभिः परस्मिन् ब्रह्मणि व्युत्पत्तिरेवाश्रीयत इति सुसंगतमेतत्। अयमर्थः– व्युपत्त्या परमात्मानं तत्तदुक्तिः प्रकाशयेत्। तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी॥ इति॥
मूलम् - 77

77.कार्यं यत्कर्मवश्यं यदपि दृढमितं तन्निरूढैस्तु शब्दैः
निर्दिष्टे ब्रह्मणि स्यात्क्वचिदगतिहता रूढिरैन्द्रीनयेन।
तल्लिङ्गानन्यथासिद्ध्यधिगमनबलात्तद्विशिष्टे विवक्षा
स्यादीशे ज्योतिरिन्द्राद्यभिलपनपदेऽहंत्वमादीरिते च॥

विश्वास-प्रस्तुतिः - 78
  1. स्वेच्छातस्सर्वहेतुश्शुभगुणविभवानन्तनिस्सीमहर्ष-
    श्शुद्धाकर्मोत्थनित्याकृतिरनुपधिकाकाशनादिस्वभावः।
    सप्राणाप्राणभेदव्यतिभिदुरजगत्प्राणनो दिव्यदीप्तिः
    प्राणेन्द्राद्यन्तरात्मा प्रभुरधिकरणैस्सप्तभिः प्रत्यपादि॥
३४-तमाहोबिल-यतिः - 78
  1. स्वेच्छात इत्यादि।स्वेच्छातः सर्वहेतुः — जिज्ञासाधिकरणजन्माद्यधिकरणशास्त्रयोनित्वाधिकरणसमन्वयाधिकरणानां शास्त्रारम्भसमर्थनार्थत्वेनोपोद्घत रूपत्वात्, ईक्षत्यधिकरणमारभ्यैव शास्त्रत्वात् तदधिकरणलब्धः परमात्मगुणः स्वेच्छआत सर्वहेतुत्वम्। ‘तदैक्षत बहुस्यां प्रजायेयेति। तत्तेजोऽसृजत’ इति तदधिकरणविषयवाक्यन परमात्मनः स्वेच्छापूर्वकसर्वस्तुसृष्टिप्रतिपादनात् भगवतः स्वेच्छामात्राधीन सर्वस्रष्टृत्वरूपो गुम ईक्षत्यधिकरणलब्ध इत्यर्थः।शुभगुणविभानन्तनिस्सीमहर्षः —- ‘शुभगुणविभवरूपानन्तनिस्सीमहर्ष इत्यर्थः’ इति चिन्तामणिः। अयमानन्दमयाधिकरणार्थः। शुद्धाकर्मोत्थदिव्याकृतिः –सत्त्वैकरूपतया रजस्तमस्सम्बन्धाभावेन शुद्धा , स्वेच्छैकमूलकतया अकर्मोत्था , अत्यद्भुतसंस्थानविशिष्टतया दिव्या आकृतिर्विग्रहो यस्य स शुद्धाकर्मोत्थदिव्याकृतिः। अयं ‘अन्तस्तद्धर्मोपदेशात्’ इत्यधिकरणार्थः। तद्विषयवाक्ये ‘अथ यएषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ इत्यारभ्य ‘एवमक्षिणी’ इत्यादिना भगवद्दिव्यविग्रहप्रतिपादनात्। अनुपधिकाकाशनादिस्वभावः – अनुपधिकः कर्माद्युपाधिरहितः, यद्वा सङ्कोचरहितः ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति प्रकाशप्रकाशकविभागं विना सर्ववस्त्ववभासकत्वात्। अत्राकाशशब्दे आकाशत इति, आकाशयतीति च व्युत्पत्तिद्वयाश्रयणेन स्वयम्प्रकाशाश्रयत्वं सर्ववस्तुप्रकाशकत्वं चाकाशशब्दार्थः। आदिशब्देन ‘अस्य लोकस्य का गतिरित्याकाश इतिहोवाच’ इत्युक्त्या पृथिवीलोकगतिभूतत्वं ‘आकाशो ज्यायान्’ इत्याद्युक्तिसिद्धं सर्वज्यायस्त्वं परायणत्वं च विवक्षितम्। अनुपधिकाकाशनादिरूपः स्वभावो यस्य स इति विग्रहः। अयं ‘आकाशस्तल्लिङ्गात्’ इत्यधिकरणार्थः। सप्राणप्राणभेदव्यतिभिदुरजगत्प्राणनः – सप्राणाः देवतिर्यङ्मनुष्यादिरूपाः, अप्राणाः – केवलदारुशिलादयः, तद्रूपा ये भेदा विशेषास्तैवर्वयतिभिदुरस्य नानाकारस्य जगतः प्राणनः सत्ताहेतुः। अयं ‘अत एव प्राणः’ इत्यधिकरणार्थः।दिव्यदीप्तिः" – दिव्या –अप्राकृत सर्वलोकव्यापिनी दीप्तिः – प्रकाशो विग्रहगुणो यस्य स दिव्यदीप्तिः। अयं ‘ज्योतिश्चरकणाभिधानात्’ इत्यधिकरणार्थः। प्राणेन्द्राद्यन्तरात्मा – इन्द्रप्राणाधिकरणविषयवाक्यघटकप्राणेन्द्रशब्दार्थयोः प्रसिद्धप्राणेन्द्रयोः, एवमचेतनविशेषजीवविशेषलिङ्गविशिष्टश्रुतिवाक्यघटकतत्तदचिद्विशेषरूढशिवहिरण्यरगर्भसूर्यादिजीवविशेष रूढशब्दार्थानां तत्तदचिद्विशेषचिद्विशेषाणां चान्तरात्मा। अयमिन्द्रप्राणाधिकरणार्थः। प्रभुः –एवं सर्वाधिकरणोक्तवैभवविशिष्टः" परमात्मा। सप्तभिरधिकरणैः –ईक्षत्यादिभिः सप्तभिरधिकरणैः। प्रत्यपादि– प्रतिपादितः। सर्वेषामप्यधिकरणानां तत्तद्भगवद्गुणप्रतिपादनं" प्रधानकृत्यम्, विचारोपयुक्तार्थप्रतिपादनप्रकारस्तु यथासम्भवमधिगन्तव्या इति भावः॥ ॥ इति प्रथमाध्यायस्य प्रथमपादः समाप्तः॥
कुमार-वरदः - 78
  1. पूर्वं तद्गुणाद्गृणातीत्यागामिनामधिकरणानां प्रत्येकमेकैकभगवद्गुणप्रकाशने तात्पर्यमिति प्रतिपादितम्। अधुना पुनरतीतानां" सप्तानामधिकरणानां सप्तसु भगवद्गुणेषु तात्पर्यमनुक्रमा इत्यादौजेतृवीतहव्यविजेवृतया बलपौरुषादिशययुक्त इत्यानुशासनिकादि दाचष्टे – स्वेच्छात इत्यादिना। शुभेति शुभगुणविभवरूपानन्तनिस्सीमहर्ष इत्यर्थः। अनुपधिकेति– देशकालवस्तुपिरच्छेदराहित्येनेत्यर्थः। सप्राणेति– सप्राणानामप्राणानां प्राणहेतुरित्यर्थः। तत्र प्रभुरितिकथनं सर्वाधिकरणोक्त वैभवप्रकाशनार्थम्॥
मूलम् - 78
  1. स्वेच्छातस्सर्वहेतुश्शुभगुणविभवानन्तनिस्सीमहर्ष-
    श्शुद्धाकर्मोत्थनित्याकृतिरनुपधिकाकाशनादिस्वभावः।
    सप्राणाप्राणभेदव्यतिभिदुरजगत्प्राणनो दिव्यदीप्तिः
    प्राणेन्द्राद्यन्तरात्मा प्रभुरधिकरणैस्सप्तभिः प्रत्यपादि॥