10 ज्योतिरधिकरणम्

विश्वास-प्रस्तुतिः - 72

72.कौक्षेयज्योतिषैक्यं कथितमिह परज्योतिषस्तस्य विश्वो-
पादानत्वं च विद्यान्तरविदितमतः कारणं वह्निरस्तु।
मैवं पुंसूक्तवाक्योदितपरपुरुषप्रत्यभिज्ञप्त्यबाधात्
गायत्र्युक्तिस्तु साम्यादपि च निगदितास्तस्य भूतादिपादाः॥

३४-तमाहोबिल-यतिः - 72
  1. कौक्षेयेत्यादि। इह – ज्योतिरधिकरणविषयवाक्ये।परज्योतिषः – ‘अथ यदतः परो दिवोज्योतिर्दीप्यते’ इति प्रस्तुतस्य परज्योतिषः। कौक्षेय्जोज्योतिषा –जाठरानलेन सह। ऐक्यम् —अभेदः।कथितम् – प्रत्यपादि। ‘इदं वाव तद्यदितमस्मिन्नन्तःपुरुषे ज्योतिः’ इति वाक्येनेति शेषः। तस्य – परज्योतिषः। विश्वोपादानत्वम् –जगदुपादानकारणत्वम्। विद्यान्तरविदितं च – न केवलमस्यां विद्यायामेव प्रतीयते किंतु वैश्वानरविद्याप्रतिपन्नं च।अतः –एवं लिङ्गबलात् श्रुत्या प्रसिद्धेश्च। वह्निः – प्रसिद्धो वह्निरेव।कारणमस्तु – जगत्कारणमित्यङ्गीकार्यम्। मैवम् –एवं मा शङ्किष्ठाः। पुंसूक्तवाक्योदितपरपुरुषप्रत्यभिज्ञप्त्यबाधात् –पुंलूक्तवाक्यं एतद्विद्योपक्रमे श्रुतं ‘एतावानस्य महिमा। ततो ज्यायॉ पूरूषः। पादोऽस्य सर्वा भूतानि। त्रिपादस्यामृतं दिवि।’ इत्येवंरूपं तेन उदितायाः परपुरुषप्रत्यभिज्ञप्तेः" –पुरुषसूक्तप्रतिपादितः पुरुषोत्तम एवायमित्येवं रूपायाः अबाधात् बाधासम्भवात्।मैवमित्यन्वयः। गायत्र्युक्तिस्तु –‘गायत्री वा इदं सर्वं भूतम्’ इत्यस्मिन्नेव ज्योतिश्शब्दवाच्ये गायत्त्रीशब्दप्रयोगस्तु। साम्यात् —चतुष्पात्त्वषाड्विध्यरूपगायत्रीसाधर्म्यात् न पुनर्गायत्रीस्वरूपत्वात्। ‘इन्द्रः शचीपतिर्बलेन पीडितः। दुश्च्यवनो वृषा समित्सुसासहिः’ इतीयमृक् चतुष्पदा प्रतिपादं षडक्षरात्मकतया षड्विधा। चतुर्विंशत्यक्षरात्मकतया गायत्र्यृक्च। अतो गायत् त्र्याश्चतुष्पात्त्वं षाड्विध्यञ्च प्रसिद्धम्। तस्य – निरुक्तगायत्रीसादृश्येन गायत्रीशब्दितस्य ब्रह्मणः। भूतादिपादा अपि च निगदिताः –भूतशब्दितात्मवर्ग एकः पादः, कर्मार्जित भोगस्थानरूपः, पृथिवीलोक एकः" पादः, भोगोपकरणं शरीरमेकः पादः, आत्मस्थित्यनुगुणप्रदेशविशेषरूपं ह-दयमेकः पादः िति भूतपृथिवीशरीरहृदयरूपाः केवलगायत्र्या असम्भाविताः" परमात्मनः सर्वाश्रयत्वेन तस्यैव सम्भाविताश्च चत्वारः पदाः आम्नाताः। चकारात् –षाड्विध्यं चोक्तमित्यर्थः। तत्र सर्वभूतलक्षणपादस्य ब्रह्मात्मकवाक्कर्तृकगानकर्मत्वत्राणकर्मत्वलक्षणं विधाद्वयम्। पृथिवीलक्षणस्य पादस्य सर्वभूतप्रतिष्ठात्वसर्वभूतानतिवर्तित्वलक्षणं" विधाद्वयम्। शरीरहृदयलक्षणयोः पादयोः प्राणप्रतिष्ठात्वतदनतिवर्तित्वलक्षणं" विधाद्वयमेव द्वयोरपि विधाद्वययोर्भेदाभावात्। ततश्च ब्रह्मरूपा गायत्री भूतपृथिवीशरीरहृदयरूपपादचतुष्टयवत्तया चतुष्पाजागानकर्मत्वत्राणकर्मत्वसर्वभूतप्रतिष्ठात्वसर्वभूतानतिवर्तित्वसर्वप्राणप्रतिष्ठात्वसर्वप्राणनतिवर्तित्वलक्षणविधाषट्कयुक्ततया षड्विधा च। अतश्च चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणि गायत्त्रीसाम्यात् गायत्र्युक्तिरिति भावः। उक्तपादचतुष्टयषड्विधआस्वरूपादिकं सर्वं छान्दोग्ये विषयवाक्यदीपिकायां च स्पष्टं द्रष्टव्यम्॥
कुमार-वरदः - 72
  1. अत्राकाशादिषु त्रिष्वधिकरणेषु ’ आकाशाद्वायुः ’ इत्यादिश्रुत्युक्तक्रमेण पूर्वपक्षोत्थानं समाधानं चेति संगतिः। प्रसिद्धज्योतिः परमात्मनोस्तत्रतत्र ज्योतिश्शब्दप्रयोगसाधारण्यं संशयकारणम्। तदर्थविचारस्तु –’ अथ यदतः परोदिवः ’ इत्यादिवाक्ये ज्योतिश्शब्दः प्रसिद्धज्योतिर्वाचकः, उत परमात्मवाचकः। तदर्थं विचार्यते – स्ववाक्ये परमात्मासाधारणलिङ्गाभावेऽप्युपक्रमस्थं" परमात्मासाधारणं लिङ्गं ज्योतिश्शब्दस्य परमात्मवाचकत्वं न प्रतिपादयति, उत प्रतिपादयतीति। तदर्थमपि विचार्यते – उपक्रमेऽपि परमात्मासाधारणं लिङ्गं नास्ति उतास्तीति। ततश्च विचार्यते। – ’ गायत्रीवा इदं सर्वम् ’ इत्युपक्रमस्थगायत्रीशब्दः परमात्मपरत्वं" बाधते न वेति। पुनश्च विचार्यते - एतद्वाक्यस्थो भूतादिपादव्यपदेशो गायत्रीमात्रपरत्वं न व्यावर्तयति, उत व्यावर्तयतीति। फलफलिभावः स्वयमेवोन्नेयः। अत्र पूर्वपक्षी मन्यते – आकाशप्राणाधिकरणयोरिव ज्योतिरधिकरणविषयवाक्ये ज्योतिश्शब्दस्य परमपुरुषवाचकत्वस्थापकं सर्वकारणत्वादिकं प्रसिद्धज्योतिर्विरुद्धलिङ्गं नोपलभ्यते। उपलभ्यते चानुकूललिङ्गं कौक्षेयज्योतिषैक्यम्। तदिदमाह– कौक्षेयेति। तथा च तदेव जगत्कारणम्। न केवलमनया विद्यया प्रतीयते अपितु वैश्वानरविद्यायामपि तदेव जगत्कारणत्वेन प्रतीतमित्याह– तरयेति।फलितमा– अत इति। निराकरोति – मैवमिति। हेतुमाह– पुंसूक्तेति। उपक्रमे हि ’ पादोऽस्य सर्वा भूतानि ’ इति वाक्येन पुरुषसूक्तस्थं" ’ पादोस्य विश्वा भूतानि ’ इत्यादिवाक्यं प्रत्यभिज्ञाप्यते। पुरुषसूक्ते हि नारायणपरत्वं सुप्रसिद्धमेव। तच्च कारणत्वं नारायणे ’ ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ’ इति लक्ष्मीपतित्वलिङ्गसामर्थ्यात् , ’ भगवानितिशब्दः’ इति पराशरवाक्याच्च। तर्हि वाक्यशेषस्थकौक्षेयज्योतिरैक्यस्य का गतिरिति चेत् तस्य न्यायविरोधेन बाध एव गतिः। उपक्रमोपसंहारयोरुपक्रमो बलीयानिति हि न्यायविदः। अत्राश्वप्रतिग्रहेष्टिन्याय एवोदाहरणम्। ननु सर्वोक्रमे ’ गायत्री वा इदं सर्वम् ’ इति गायत्रीपरत्वप्रदर्शनादुपक्रमवाक्यं गायत्रीमेव प्रतिपादयति न पुनः" परमपुरुषमित्याशङ्क्य तस्याप्यन्यथासिद्धिमाह– गायत्रीति। गायत्र्युक्तिश्चतुष्पात्त्व साम्यादेव न पुनः गायत्रीस्वरूपत्वात्। इत्थमवगमे को हेतुरित्याशङ््क्य नियामकं हेतुमाह– अपि चेति। अस्मिन्खलु वाक्ये गायत्रीशब्दवाच्यस्य परस्य ब्रह्मणः सादृश्येन भूतपृथ्वीशरीरहृदयानि निर्दिश्यन्ते। गायत्रीशब्दस्य परमात्मपरत्वे नियामकं परमात्मनो विश्वात्मकत्वं न केवलमक्षरसंघातरूपायां" गायत्र्याम्, अत उपक्रमवाक्यानुसारेणैवोपसंहारस्य वर्णयितुं शक्यत्वात् ज्योतिश्शब्दवाच्यं परमेव ब्रह्मेति निर्णयः। प्रयुज्यते च ’ तं देवा ज्योतिषां ज्योतिः ’ इत्यादिषु परस्मिन्नेव ब्रह्मणि ज्योतिशब्दः स्थलान्तरेष्वपि॥
मूलम् - 72

72.कौक्षेयज्योतिषैक्यं कथितमिह परज्योतिषस्तस्य विश्वो-
पादानत्वं च विद्यान्तरविदितमतः कारणं वह्निरस्तु।
मैवं पुंसूक्तवाक्योदितपरपुरुषप्रत्यभिज्ञप्त्यबाधात्
गायत्र्युक्तिस्तु साम्यादपि च निगदितास्तस्य भूतादिपादाः॥

विश्वास-प्रस्तुतिः - 73

73.उत्थानं ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गा-
दित्याभाष्यान्यलिङ्गं स्ववचसि विहितं नेति भाष्यं कथं स्यात्।
इत्थं विश्वादिलिङ्गं सदिह न तु पराभीष्टलिङ्गं समस्ती-
त्युत्पश्यन् पूर्वपक्षी व्यवहरति तथा व्याहतिस्तन्न शङ्क्या॥

३४-तमाहोबिल-यतिः - 73
  1. उत्थानमित्यादि। ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गादुत्थानमित्याभाष्य रववचसि विहितमन्यलिङ्गं नेति भाष्यं कथं स्यात् – एतदिधकरणारम्भे ‘अतः परं जगत्कारणत्वव्याप्तेन येन केनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरे प्रसिद्धैरप्यभिधीयमानं" परं ब्रह्मैवेत्यभिधीयते’ इत्यवतरणभाष्ये ज्योतिरिन्द्रप्राणाधिकरणद्वये कारणत्वव्याप्तलिङ्गादुत्थानमिति भाषित्वा पूर्वपक्षोपन्याससमये ‘प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मव्याप्तलिङ्गविशेषादर्शनात्’ इत्याभाषि, अतः" परस्परविरुद्धार्थकं भाष्यवाक्यद्वयं कथमुपपन्नं स्यात्। इत्थम् – एवं तस्य निर्वाह इत्यर्थः।इह विश्वादिलिङ्गं सत् पराभीष्ट लिङ्गं तु न समस्ति — ‘विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु’ इत्यादिकं कारणत्वाक्षेपकमवभासात्मकं लिङ्गमस्ति, अथाप्युभयलिङ्गत्वादिविशिष्टपरमपुरुषत्वप्रतिष्ठापकं जग्तकारणत्वादिकं स्ववाक्ये लिङ्गं नास्तीत्यर्थः। इत्युत्पश्यन् पूर्वपक्षीतथाव्यवहरति — एवं विचिन्त्य पूर्वपक्षी पूर्वोक्तरीत्या व्यवहरति। तत् –तस्मात्। व्याहतिर्नशङ्क्या –भाष्यवाक्ययोर्द्वयोर्विरोधो न चिन्त्य इत्यर्थः॥
कुमार-वरदः - 73

73.श्रीमद्भाष्यग्रन्थे मन्दप्रतिबोधार्थँ पूर्वोत्तरवाक्ययोः परस्परं व्याहतिमाशङ्क्य परिहरति– उत्थानमित्यादिना इत्थमित्यन्तेन। एतदधिकरणारम्भे ज्योतिरादावधिकरणयुगे कारणव्याप्त- लिङ्गादुत्थानमिति भाष्यकारैरेवाभाष्य पुनरपि पूर्वपक्षोपन्याससमये प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मलिङ्गविशेषादर्शनादित्युक्तम्, अतः कथमविरोध इति। अत्र निराकरणहेतुमाह– विश्वेति। अयं किल भाष्यकाराभिप्रायः" – एवं किल मन्यते पूर्वपक्षी ’’ विश्वतःपृष्टेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु ’ इत्यादिकं कारणत्वाक्षेपकमवभासात्मकं लिङ्गमस्ति। अथाप्युभयलिङ्त्वादिविशिष्टपरमपुरुषप्रतिष्ठापकं जगत्कारणत्वादिकं स्ववाक्ये लिङ्गं नास्तीति। अतो न विरोधइत्याह– व्याहतिरिति। अयमर्थः - सिद्धान्तोपन्यासभाष्ये यद्यपि ’ अथ यदतः परदिवो ज्योतिः’ इत्येतस्मिन्वाक्ये परमपुरुषासाधारणं लिङ्गमस्तीति भाष्यकारहृदयम्। अनुत्तमेषूत्तमेषु लोकेषु द्योतत इति विशेषणद्वयोपादानमप्राकृतदिव्यलोकवासिनो ज्योतिष एव संघटते। न पुनरण्डान्तर्वर्तिनो वा ज्योतिर्मात्रस्येति भावः॥

मूलम् - 73

73.उत्थानं ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गा-
दित्याभाष्यान्यलिङ्गं स्ववचसि विहितं नेति भाष्यं कथं स्यात्।
इत्थं विश्वादिलिङ्गं सदिह न तु पराभीष्टलिङ्गं समस्ती-
त्युत्पश्यन् पूर्वपक्षी व्यवहरति तथा व्याहतिस्तन्न शङ्क्या॥