09 प्राणाधिकरणम्

विश्वास-प्रस्तुतिः - 70
  1. प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं
    श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्व्योमवत् साधनीयम्।
    तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववच्चानुवादात्
    आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः॥
३४-तमाहोबिल-यतिः - 70
  1. प्राणायत्तं हीत्यादि। इह –लोके।देहादिकम् – आस्माकीनदेहेन्द्रियादिकम्।प्राणायत्तं विदितं हि –प्राणाधीनमिति सर्वलोकविदितं" हि। तेन – प्राणायत्तप्रवृत्तिकत्वस्य सर्वलोकविदितत्वेन।श्रुत्युक्तम् –छान्दोग्ये उषस्तिब्राह्मणप्रकरणे ‘सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ इत्यादिश्रुत्युक्तम्। तत्कारणत्वम् –प्राणस्य सर्वजगत्कारणत्वम्।रूढिशक्त्या –मुख्यप्राणे प्राणशब्दस्य रूढिशक्त्याच।सुदृढमिति – सर्वलोकविदितत्वेनाप्रत्यक्षाकाशीयजगदुत्पादनवैलक्षण्येनात्यन्तदृढमिति हेतोः। तत् –प्राणस्य जगत्कारणत्वम्।व्योमवत् – पूर्वाधइकरणनिरस्ताकाशकारणत्ववत्। न बाधनीयम् – न प्रतिक्षेप्यमिति। तन्न –तदिदमाशङ्कनं" न संभवति। प्राणस्य –मुख्यप्राणस्य। काष्ठादिषु – काष्ठशिलादिषु।महिमहतेः – स्वायत्तप्रवृत्तिकत्वरूपमहिमादर्शनात्।पर्ववदनुवादाश्च –आकाशवाक्य इव अत्रापि हवैशब्ददर्शनेनानुवादरूपत्वावेगमेन पुरोवादकलहाशक्तेः। आकाशोक्तिरिव भगवत्युक्तेः – श्रुतौ ‘यदेव आकाश आन्दो न स्यात्’ ‘दहरोऽस्मिन्नन्तराकाशः’ इत्यादिषु भगवद्विषये आकाशशब्दप्रयोगवत् ’ स प्राणस्य प्राणः’ ‘प्राणस्य प्राणम्’ ‘अमृतस्य प्राणम्’ इत्यादिषु प्राणशब्दस्यापि भगवत्यपि प्रयोगदर्शनात्। निखिलप्राणनस्य दृष्टेरपि – प्राणशब्दप्रवृत्तिनिमित्तस्य निखिलप्राणिप्राणनहेतुत्वस्य ‘को ह्येवान्यात्कः प्राण्यात्’ इत्यादिषु प्रतिपादनाच्च। तन्ने पूर्वेणान्वयः॥
कुमार-वरदः - 70

70.अत्रैवं पूर्वपक्षवादी मन्यते– प्रसिद्धाकाशे जगदुत्पत्तेरप्रत्यक्षत्वात् आकाशशब्दे रूढिभङ्गो न्याय्यः, इह तु प्राणे सर्वेषामपि पुरुषाणां प्राणायत्तप्रवृत्तिकत्वस्योपलम्भादस्माकमनुकूललिङ्गं यत् तदेव युष्माकं प्रातिकूललिङ्गम्, तेनानुकूललिङ्गसघ्रीची प्राणरूढिशक्तिरभञ्जनीयेति। तदिदमाह– प्राणायत्तमिति। तन्निराकरोति - तन्नेति । तत्र हेतुमाह- प्राणस्येति। ’ सर्वाणि हवै ’ इति चेतनाचेतनविभागाभावेन कृत्स्नस्यापि प्रपञ्चस्य प्राणायत्तप्रवृत्तिकत्वमुच्यते। अचेतनेष्वेव केषुचिच्छिलाकाष्ठादिषु प्राणायतीति व्युत्पत्तिमाश्रित्य प्राणशब्दवाच्यतया स्वीकार्य इत्यर्थः। पूर्वाधिकरणोक्तं हेतुमत्रापि योजयति – पूर्ववदिति। उभयत्रापि हवा इति शब्दस्य विद्यमानत्वादित्यर्थः। अत्र भगवति प्राणशब्दस्य श्रौतं प्रयोगं सदृष्टान्तमाह– आकाशेति। यथा परमात्मविषयस्याकाशशब्दस्य श्रुतौ तत्रतत्रोपलभ्यमानत्वादाकाशशब्दः परमात्मविषयः, एवं निखिलप्राणिप्राणनोक्तेर्दृष्टत्वात् प्राणशब्दोऽपि परमात्मविषय इत्युक्तं भवति। तदर्थविचारफलफलिभावौ पूर्वाधिकरणवत् स्वयमेव कल्पनीयौ। संगतिः पुनातिदेशिकी॥

मूलम् - 70
  1. प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं
    श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्व्योमवत् साधनीयम्।
    तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववच्चानुवादात्
    आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः॥
विश्वास-प्रस्तुतिः - 71
  1. नोक्तिं व्याहन्ति लिङ्गं किमपि भवति तु ख्याततत्त्वानुकूलं
    शब्दश्चानन्यनिष्ठश्श्रुत इति न परो ज्योतिराद्युक्तिवेद्यः।
    विश्वोत्पत्त्युक्त्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं
    रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्त्या॥
३४-तमाहोबिल-यतिः - 71

71.. नोक्तिमित्यादि। किमपि लिङ्गं उक्तिं न व्याहन्ति – यथा पूर्वयोरधिकरणयोः सर्वकारणत्वादिकं लिङ्गं विशेषोक्तिं विरुणद्धि तथओत्तरयोरधिकरणयोः किमपि लिङ्गं विशेषोक्तिं न विरुणद्धि।विशेषशब्दविरोधि जगत्कारणत्वादिलिङ्गं नास्तीत्यर्थः। ख्याततत्त्वानुकूलं" लिङ्गं तु भवति —पूर्वपक्षोक्तप्रसिद्धज्योतिरिन्द्रयोरनुकूलं कौक्षेयज्योतिरैक्यादिकं लिङ्गमस्ति। अनन्यनिष्ठः शब्दश्च श्रुतः" –ज्योतिः,इन्द्रः, इति विशेषशब्दश्च श्रुत इत्यर्थः। इति –अस्माद्धेतोः। परोज्योतिराद्युक्तिवेद्यो न –परमात्मा ज्योतिरिन्द्रशब्दवाच्यो न भवति।इह — ज्योतिरिन्द्रवाक्ये।विश्वोत्पत्त्युक्त्यभावेऽपि – जगत्कारणत्वप्रतिपादनाभावेऽपि।तल्लिङ्गमवगतम्—तादृशजगत्कारणत्वव्याप्तमवभासाद्यात्मकं लिङ्गंमवगतम्।इति –एवम्।आक्षिपन्तम् –आशङ्कमानं पूर्वपक्षिणम्।अथाधिक्रियाभ्याम् – अनन्तराधिकरणाभ्याम्।तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्त्या –चिदचिचिदित्यत्र न क्रमो विवक्षितः। ‘द्युतेरिसिन्नादेश्च जः’ इत्युणादिसूत्रेण ‘द्युत दीप्तौ’ ितिधातोरिसिन्प्रत्यये दकारस्य जकारे गुणेच ज्योतिश्शब्दनिष्पत्तिः। ‘इदि परमैश्वर्ये’ इत्यस्माद्धातोः" ‘ऋज्रेन्द्राग्रवज्रविप्रकुब्रुचुब्रुक्षुरखुरभद्रोग्रभेरमेलशुक्रशुक्लगौर्वव्रेरामालाः’ इत्यौणादिक्सूत्रेण रन्प्रत्ययान्ततया निपातनात् सिद्ध इन्द्रशब्दः। अत्र तच्छब्देन पूर्वोर्धोपात्तज्योतिराद्युक्तिवेद्यो गृह्यते। ज्योतिश्शब्दप्रकृतिभूतद्युतधात्वर्थस्य दीप्तिरूपस्य इन्द्रशब्दप्रकॉतिभूतेदिधात्वर्थस्य परमैश्वर्यरूपस्यच उचितोऽनुगुणः, अर्थानुगुण्येनावचिच्चिद्वर्ग इति योज्यम्, यः अचिद्वह्निरूपः, यश्चिदिन्द्ररूपश्च तयोर्वर्गः, समूहः, ज्योतिषां स्वतोबहुत्वेन कल्पभेदसिद्धेन्द्रव्यक्तिबहुत्वेन च वर्गसिद्धिः, तस्य वैशिष्ट्यम् – शरीरशरीरिभावेन तदाश्रितत्वम्, तस्य युक्त्या – युक्तिर्योगः सङ्गतिस्तया तत्प्रदर्शनेन। रुन्धे –निरुणद्धीत्यर्थः।

कुमार-वरदः - 71
  1. पूर्वोक्ताधिकरणद्वयसाध्यप्रसाकयुक्तीनामुक्ताधिकरणद्वयविषयवाक्योरभावेनोज्जिहानस्य पूर्वपक्षिणो निराकरणं प्रकारान्तरेणात्र क्रियत इति पूर्वोत्तरपेटिकावैषम्यं प्रकाशयति शिष्यानुग्रहेण नोक्तिमिति। यत् सिद्धान्तानुकूलं लिङ्गं तत् पूर्वपक्षविरुद्धं" यत् पुनः पूर्वपक्षानुकूललिङ्गं तदेव सिद्धान्ताविरुद्धमिति विरोधाविरोधप्रक्रिया। अत्राकाशादिविशेषशब्देन पूर्वयोरधिकरणयोः *स्वसाध्योपस्थापकसिद्धान्तानुरूपपूर्वपक्षयुक्तिदार्ढ्यात् सिद्धान्तनिर्णयः कृतः। अत्र तावत् पूर्वपक्षवादी मन्यते- यथा पूर्वयोरधिकरणयोः सर्वकारणत्वादिकं लिङ्गं विशेषोक्तिं व्याहरन्ति तथोत्तरयोरधिकरणयोः किमपि लिङ्गं विशेषोक्तिं न व्याहन्ति। अपि तु पूर्वपक्षोक्तप्रसिद्धज्योतिरिन्द्रियोरनुकूलं कौक्षेयज्योतिरैक्यादिकं लिङ्गमप्यस्तीति दर्शयति— भवतीति। तदेव सिद्धान्तभूतपरब्रह्मत्वप्रतिकूलम्। नकेवलं लिङ्गेनैव वदामः, किंतु प्रधानभूतया श्रुत्यापीति दर्शयति – शब्द इति। अनन्यनिष्ठः –विशेषशब्द इत्यर्थः। एवं चतुर्भिर्हेतुभिः परमात्मा न ज्योतिराद्युक्तिवेद्य इति पूर्वपक्षिणो विशेषाभिप्रायसंग्रहः। एवं तर्हि ज्योतिरादिषु साक्षात्कारणत्वकथनाभावे कथं ज्योतिरादिकारणत्वशङ्कावकाश इत्याशङ्क्य साक्षात्कारणत्वकथनाभावेऽपि कारणत्वाक्षेपकयत्किञ्चिदाभासनिरतिशयगीप््त्यादिलिङ्गेन ज्योतिरादिकारणत्वं शङ्कितुमपि कथंचिच्छक्यमित्याह– विश्वेति। एवमाक्षिपन्तमनन्तराधिकरणाभ्यां निराकरोति – रुन्ध इति। तदुचितेति – भगवत इदिद्युत्यनुरूपचेतनाचेतनवैशिष्ट्यप्रदर्शनेन निरुन्ध इति शब्दार्थः॥
मूलम् - 71
  1. नोक्तिं व्याहन्ति लिङ्गं किमपि भवति तु ख्याततत्त्वानुकूलं
    शब्दश्चानन्यनिष्ठश्श्रुत इति न परो ज्योतिराद्युक्तिवेद्यः।
    विश्वोत्पत्त्युक्त्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं
    रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्त्या॥