विश्वास-प्रस्तुतिः - 69
69.अत्राकाशस्त्वशेषप्रभवविलयभूस्साम्नि दृष्टस्स्वनाम्ना
निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्स्वात्मनस्सम्भवोक्त्या।
मैवं सिद्धानुवादो ह्ययमथ च परप्राप्यतादिर्न तस्मिं-
स्तत्कर्तात्मा विपश्चिच्छ्रुत इति विहिता स्वात्मनस्तत्प्रसूतिः॥
३४-तमाहोबिल-यतिः - 69
- अत्राकाशइत्यादि।अत्र साम्नि – अन्तरधिकरणविषयभूते सामवेद ए क्वचित् प्रदेशान्तरे ‘सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते। आकाशं प्रत्यस्तं यन्ति’ इत्यादिवाक्ये। आकाशस्तु –आपण्डितपामरं प्रसिद्धोऽयमाकाश एव।स्वनाम्ना — स्वस्मिन् रूढेन श्रुतिरूपेण शब्देन। अशेषप्रसवविलयभूः –अशेषस्य समस्तस्य जगतः प्रसवउत्पत्तिः, विलयो नाशस्तयोर्भूः उपादानकारणतया तत्थानभूत इति। दृष्टः" —प्रतिपन्नः। तैत्तरीयेऽपि —यजुर्वेदेऽपि। तित्तिरि रूपेण ऋषिणा प्रोक्तत्वाद्यजुषस्तैत्तिरीयत्वम्। स्वात्मनः सम्भवोक्त्या –‘आत्मनः आकाशः सम्भूतः’ इति स्वस्मादेव स्वयमाकाश उत्पन्न इति वचनेन। अनितरजनितो निर्दिष्टः –इतरस्माज्जातो नेति प्रतिपादितः। मैवम् – एवं मा शङ्किष्ठाः। अयं सिद्धानुवादो हि – ‘सर्वाणि हवा इमानि’ इत्यादिवाक्ये हवा इति निर्देशस्य प्रसिद्धिसूचकतयाऽन्यत्रसिद्धार्थानुवादरूपं" हीदं वाक्यम्। अन्यत्र च सद्ब्रह्मात्मनारायणशब्दघटितवाक्यै र्नारायण एव जगत्कारणमितिनिर्णयात् तदन्यथाकरणशक्तिरस्य नास्तीति भावः। अथ च –तदुपरि च।परप्राप्यादिः – ‘आकाशो ज्यायानाकाशः परायणम्’ इत्यादिवाक्यसिद्धं परमप्राप्यत्वरूपं परायणत्वम्। आदिशब्दार्थभूतं" सर्वज्यायस्त्वञ्च। तस्मिन् न – भूताकाशे न सम्भवति।तत्कर्ता आत्मा —‘आत्मन आकाशः’ इत्यत्राकाशकर्तृत्वेन प्रतिपन्न आत्मा। श्रुतो विपश्चित् – ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ इति पूर्ववाक्ये श्रुतः सर्वज्ञत्वरूप विपश्चित्त्वाश्रयः" परमात्मा। इति –हेतोः। स्वात्मनस्तत्प्रसूतिः – आकाशस्य स्वस्मादुत्पत्तिः। विहता –बाधिता। ‘विपश्चिता’ इति पूर्ववाक्ये श्रुतो विपश्चिदेव हि ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यत्र तच्छब्दैतच्छब्दविशेषितात्मशब्देन निर्दिश्यते न पुनराकाशस्य स्वरूपम्; तच्छब्दैतच्छब्दविशेषणायोगात्। सिद्धान्ते तु ‘ब्रह्मविदाप्नोति परम्’ इति ब्राह्मणप्रतिपन्नात् ‘सत्यं ज्ञानम्’ इत्यादितद्व्याख्यानभूतमन्त्रप्रतिपन्नात् परमात्मनः सकाशादित्यर्थोपपत्तेः सार्थक्यमिति भावः॥
कुमार-वरदः - 69
- पूर्वं ’ य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ’ इत्यादित्यान्तर्वर्तिनः कस्यचित् पुरुषस्य विशेषलिङ्गात् वेदान्तवेद्यत्वमुक्तम्। इदानीं तदभावादाकाशस्य विशेषश्रुत्या वेदान्तवेद्यत्वमाशङ्क्य परिह्रियत इति संगतिः। प्रसिद्धाकाशब्रह्मणोराकाशशब्दयोगसाधारण्यं संशयबीजमित्यादि स्वयमेव भाव्यम्। तदर्थविचारस्तु ’ सर्वाणि हवा इमानि भूतानि ’ इत्यादिच्छान्दोग्यवाक्यस्थाकाशशब्दः किं प्रसिद्धाकाशपर उत परमात्मपर इति; तदर्थं विचार्यते – किमयमाकाशशब्दो रूढिशक्त्या वर्तते उत नेति, तदर्थमपि विचार्यते– किं रूढिर्योगमपहरतीतिन्यायापवादकं न्यायान्तरं न विद्यते, उत विद्यत इति। पुनश्च विचार्यते – प्रसिद्धवन्निर्देयुक्तमत्रत्यकारणत्वादिकं चेतनमात्रविषयमुत चेतनाचेतनाविषयमित्यादि॥ फलफलिभावस्तप ’ इमानि भूतानि’ इति प्रसिद्धार्थविषयकारणत्वानुवादस्याचेतनमात्रविषयत्वेन योगशक्तिकल्पकन्यायान्तराभावात् आकाशशब्दो रूढ्यैव वर्तत इत्ययं शब्दः प्रसिद्धाकाशपरः। सिद्धान्तेऽपि स्वयमेव वाच्यः। अत्र पूर्वपक्षवादी मन्यते – छान्दोग्ये ह्याकाशशब्दः" सर्वोत्पत्तिविलयकारणवाचकतया दृश्यते , स चाकाशस्तैत्तिरीयेऽनन्योत्पाद्यतया कथ्यते ’ आत्मन आकाशः संभूतः ’ इति, तस्यानन्योत्पाद्यत्वं" सर्वकारणत्वेन नित्यत्वादेव युज्यते इति। तदिदमाह – अत्रेत्यादिना। तन्निराकरोति – मैवमिति। तत्र हेतुमाह– सिद्धेति।’ हवै’ इति प्रसिद्धवन्निर्देशयुक्तस्यास्य वाक्यस्य सिद्धानुवादविषयत्वात् पूर्वप्रसिद्धिरवश्यापेक्षणीया। प्रसिद्धिश्च कारणवाक्येषु, तानि च नारायणविषयाणीति प्रागेवोक्तम्। तस्मादाकाशशब्दो न प्रसिद्धाकाशपर इत्यर्थः। किं च ’ आकाशः परायणम्’ इति आकाशस्य परमप्राप्यत्वमत्रैव श्रूयते। नह्यचेतनं किंचित् परमप्राप्यमित्यात्मविदो वदन्ति। तदिदमाह- अथेति। तस्मिन्नाकाशे परमप्राप्यत्वं न संभवतीत्यर्थः । दूषणान्तरमाह– तदिति। ’ तदैक्षत, तत्तेज ऐक्षत, ता आप ऐक्षन्त ’ इत्यादिषु तत्तकर्ता विपश्चित्त्वेनैव हि श्रुतः। तथाचाकाशस्य विविधदर्शनं न संभवति। अथवा तत्कर्तेतिआकाशकर्तेति। ब्रह्मवल्ल्यां विपश्चिता ब्रह्मणेति जगत्कारणं वस्तु विपश्चित्त्वेनैव हि श्रूयते। विविधं" पश्यच्चित्त्वं हि विपश्चित्त्वमिति व्याचख्युः। तेनात्मशब्दः परमात्मवाचकः। यत्तूक्तमात्मन आकाश इति स्वात्मन आकाशोत्पत्तिरभिधीयत इति, तत्र मुख्यार्थस्वीकारे बाधः, अमुख्यार्थस्वीकारे स एव दोषः। तस्मादात्मनः परमात्मन आकाशः संभूत इत्ययमेवार्थ इत्यभिप्रायेणाह– विहतेति॥
मूलम् - 69
69.अत्राकाशस्त्वशेषप्रभवविलयभूस्साम्नि दृष्टस्स्वनाम्ना
निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्स्वात्मनस्सम्भवोक्त्या।
मैवं सिद्धानुवादो ह्ययमथ च परप्राप्यतादिर्न तस्मिं-
स्तत्कर्तात्मा विपश्चिच्छ्रुत इति विहिता स्वात्मनस्तत्प्रसूतिः॥