विश्वास-प्रस्तुतिः - 62
- भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धपूर्वोक्तभूम्नां
शक्रादिन्यायतस्स्यात् त्रिगुणतनुभृतामीश्वराणां प्रवाहः।
तन्नाकर्मोत्थदिव्याकृतिजनिमहिमा शासिता सर्वपुंसां
नित्यश्रीर्ब्रध्नबिम्बे श्रुत इति स य इत्युक्त एवैष एकः॥
३४-तमाहोबिल-यतिः - 62
- भूयिष्ठेत्यादि। भूयिष्ठानन््तपुणयोपचयबलसमुद्धपूर्वाक्तभूम्नाम् – भूयिष्ठानां महत्तमानामिन्तानामसङ्वयातानां पुण्यानामुपचयस्य अतिशयस्य बलेन सामथर्थेन समुद्धद्धः आविर्भूतः प्राप्त इति यावत् पूर्वैक्तः — आनन्दमयाधिकरणाविषयवाक्यप्रकरणे, तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दः, इत्यारभ्य स एकः प्रजापतेरानन्दः इत्यनतसन्दर्भेण पूर्वपूर्वशतगुणितातिशयितोत्तरोत्तरक्रमेँण प्रतिपादितः भुमा ऐक्ष्चर्यातिशयो येषां ते ताद्दशानाम्।ईश्वराणाम् – जगत्सृष्टचादिकारणभूतपुरूषाणाम्। प्रवाहः – यावदुत्तरकालानुवृतनष्टलसजातीयपरम्पारा। शक्त्रादिन्यायतः — यथैकस्मन् शऋमन्वन्तारावसाने नष्टे सति पुनरूपरितनमन्वन्तरे शक्रान्तरस्य सम्भवस्तदनते चान्यस्य शक्रस्येत्येवंन्यायेन। स्यात्– अस्तु। सर्वेण्वपि कालेँण्वीश्वरोणौकेनैव भाव्यमिति कृतो निर्बन्ध इति भावः। तन्न – तदाशङ्नमपि न यक्तम्। अकर्मात्थादिव्याकृतिजनिमहिमा सर्वपुंसां शासिता नित्यश्रीर्ब्रध्नाबिम्बे श्रुते इति स य इत्युक्तः, एष चैक एवेति च हेतोस्तन्नेत्यन्वयऋ। अकर्मेत्थाः अकर्माधीनाः" दिव्याकृतिचजानिमाहिमानो यस्य सः। दिव्या – आश्वर्यकरी शुद्धसत्त्वमयी च। आकृतिः – तनुः। जनिः – अवतारः। महिमा – गुणविभूत्यतिशयः। सर्वपुंसाम् – सर्वजीवानाम्। शासिताव – नियन्ता। नित्यश्रीः – नित्यमेव लक्ष्मीसम्बन्धवान्। एवम्भूतः पुरूषः, ब्रध्नबिम्बे – सूर्यमण्डले। भास्कराहस्करब्रध्नप्रभाकरविभाकराः इतिकोशात्। श्रुत इति – अथ य एषोऽन्तरादित्ये हिरण्मयः पुरूषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात् सर्व एव सुवर्णस्तस्य यथा कण्यासं पुण्डरीकमेवमक्षिणी इत्यादिश्रुत्या प्रतिपन्न इति हेतोः। सय इत्युक्तः –स य एषोऽनतर्हृदय आकाशः। तस्मिन्नयं पुरूषो मनोमयः। अमृतो हिरण्मयः। इति श्रुतिप्रतिपन्नः पुरुषः। एषच – अथ य एषोऽन्तरादित्ये हिरण्यमयः पुरूषः" इत्यादिपूर्वापात्तश्रुतिप्रतिपन्नः पुरूषक्ष्च। एक एवेति च हेतोः – उभयत्र पुरुषशब्दश्रवणात् ‘स यश्चायं पुरुषे। यश्चासावादित्ये।स एकः’ इति साक्षादेव द्वयोः पुरुषयोरैक्यश्रुत्या, उभयत्रापि जीवासम्भावितविशेषणश्रवणैकरूप्येण चैक एवेति सुप्रतिपन्न इति हेतोश्च पूर्वोक्तशङ्कनं न ययुक्तमित्यर्थः। ‘अथ तस्योदितिनाम’ इति सर्वोत्कर्षप्रतिपादकनामबलेन कप्यासश्रुतिघटकपुण्डरीकपदस्य रक्ताम्बुजपरत्वस्थापनेन ‘रक्ताक्षं न जहाति श्रीः’ इति सामुद्रिकोक्तरीत्या कर्मसंबन्धाभावकण्ठोक्त्या ‘सयश्चायम्’ ‘स य एषः’ इत्यादिश्रुत्यन्तरैकार्थ्येन च अकर्मोत्थेत्यादि विशेषणलाभ इति भावः॥
कुमार-वरदः - 62
- ईक्षत्यधिकरणविषयवाक्ये ’ तस्य तावदेव चिरम् ’ इति शरीरपातपर्यन्तो दुःखसंबन्ध उच्यते। तेन ‘तस्यैष एव शारीर आत्मा ‘इति शरीरसंबन्धी पुरुषो जीव एव स्यादित्याशङ्क्य परिहृतमान्दमयाधिकरणे कर्माधीनकरणकलेबरपरिग्रहस्यैव संसारात्मकत्वम्, नपुनः स्वाभाविकस्यैव विश्वशरीरस्येति। अतः परमन्तरादित्याधिकरणं प्रवर्तते अस्मिन्नधिकरणे न केवलमन्तर्यामित्वावस्थानमात्रेण शरीरात्मभाव उच्यते, अपितु पाणिपादाक्षिकेशादिविभागवच्छरीरसंबन्धी पुरुषः, तादृशशरीरसंबन्धित्वं जीवस्यैव संभवतीति पूर्वपक्षोत्थानेन संगतिः। पूर्वं जीवसामान्यस्य निरासः, इदानीं जीवविशेषस्य निरास इति च संगतिः। तदिदमाह– भूयिष्ठेति। पूर्वोक्ताः खलु मनुष्यानारभ्य प्रजापतिपर्यन्ता भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धैश्वर्याः केचित्पुरुषाः, तेष्वेव कश्चिदीश्वरः" प्रवाहरूपेण वर्तत इति कल्प्यमिति च पूर्वाधिकरणसंगत्यन्तरमुच्यते। अयमर्थः – पापोत्तराः पुण्यपापयोस्तुल्यवृत्तयश्च मा भूवन् , अपि तु पुण्योत्तराः केचिदीश्वरत्वेन प्रकल्प्येरन्निति। अत्रोत्तरम् –तन्नेति। तत्र हेतून्प्रमाणानुसारेण संगृह्णाति – अकर्मेति। अकर्माधीनदिव्यशरीरवान्। जनिः –जन्म। महिमा- माहात्म्यम् । सर्वपुंसां स्वाभाविकनियन्ता। नित्यश्रीः– नित्यमेव लक्ष्मीसंबन्धवान्। एवंभूतः पुरुषः , ब्रध्नबिम्बे - सूर्यमण्डले, श्रुत इति, ’ स य एषोऽन्तर्हृदय आकाशः ’ इत्यनुवाकश्रुतः परमपुरुषः एक एव –‘एषोऽन्तरादित्ये ’ इत्यन्तरादित्यविद्यायां श्रूयत इति न जीवविशेषशङ्कावकाशः। ‘एष सर्वेभ्यः पाप्मभ्यः उदितः उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद ’ इत्यत्रैव हि श्रूयते। ’ समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ’ इत्यादिकमत्र भाव्यम्। ‘न सा कर्मनिमित्तजा ’ इति हि तत्रोच्यते। ऐतिहासिकमपि ‘व्यक्तमेष महायोगी ’ इत्यादिकं सुप्रसिद्धमेव। अत्रोक्तं शासितृत्वं हि ’ अन्तः प्रविष्टऋ शास्ता जनानां सर्वात्मा ’ ’ प्रशआसितारं सर्वेषाम्’ इत्यादि– बहुप्रमाणसिद्धत्वात् सर्वविषयमेवानुसन्धातव्यम्। अयमत्रसंग्रहः – सूर्यमण्डलान्तर्वर्तिनो भगवद्विग्रहस्याकर्माधीनत्वादप्राकृतत्वादाश्रितानुग्रहार्थत्वाच्च विग्रहसंबन्धमात्रेण जीवविशेषत्वाशङ्कावचनं परमपुरुषविद्वेषिणां" पापिष्ठानां प्रलापः। अत्र तदर्थविचारोऽपि किंदिदालिख्यते। आदितमण्डलान्तर्वर्ती पुरुषः किं जीवविशेषः उत परमात्मेति। तदर्थं" विचार्यते – किं पाणिपादादिविभागवच्छशरीरादिसंबन्धो जीवत्वं प्रसाधयति न वेति। तदर्थँ पुनर्विचार्यते – किमयं शरीरसंबन्धः कर्माधीनः, उताकर्माधीन इति। पुनरपि विचार्यते – सर्वपाप्मोदितत्वादिवचनं किं कर्माधीनत्वं निवारयति उत नेति। तदर्थमपि पुनर्विचार्यते – तत्र पाप्मशब्दः किं पापमात्रपरः, उत पुण्यपापात्मककर्ममात्रपर इति। फलफलिभावस्तु पाप्मशब्दस्य पापमात्रपरत्वेन सर्वपाप्मोदितत्वादिवचनस्य कर्माधीनत्वनिवारकत्वाभावात् शरीरसंबन्धस्य कर्माधीनतया नियमेन जीवकर्माधीनत्वादित्यमण्लान्तर्वर्ती पुरुषो जीव इति। राद्धान्ते फलफलिभावोऽन्तेवासिभिः स्वयमेवोह्यः॥
मूलम् - 62
- भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धपूर्वोक्तभूम्नां
शक्रादिन्यायतस्स्यात् त्रिगुणतनुभृतामीश्वराणां प्रवाहः।
तन्नाकर्मोत्थदिव्याकृतिजनिमहिमा शासिता सर्वपुंसां
नित्यश्रीर्ब्रध्नबिम्बे श्रुत इति स य इत्युक्त एवैष एकः॥
विश्वास-प्रस्तुतिः - 63
- सर्वेभ्यः कल्पकेभ्यो ह्युदित इति वदत्यन्तरादित्यविद्या
तस्माच्छेषाभ्यनुज्ञानयत इति विभोः पुण्ययोगो़ऽस्तु मैवम्।
आम्नातोऽनन्यशास्यस्स्ववशपरफलस्साधुना नैष भूयान्
स्यात्पुण्ये लक्ष्मयोगादपि न सुकृतमित्यादिना पाप्मशब्दः॥
३४-तमाहोबिल-यतिः - 63
- सर्वेभ्य इत्यादि।अन्तरादित्यविद्या ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषः’इत्यादिका अन्तरादित्यविद्यासमाख्या श्रुतिः। सर्वेभ्यः कल्मषेभ्यः उदित इति वदति हि –’ सएष सर्वेभ्यः पाप्मभ्यः उदितः’इतिवाक्यशेषेण अयं" पुरुषः सर्वेभ्यः पापेभ्यो बहिर्भूत इति प्रतिपादयति हि। ततः किमित्यत्राह –तस्मात् –पुण्यपापयोर्मध्ये पापमात्रनिषेधात्। शेषाभ्यनुज्ञानयतः" – विशेषनिषेधे शेषाभ्यनुज्ञानमितिन्यायेन। इह विभौ –एतद्विद्यावेद्ये पुरुषविशेषे।पुण्ययोगोऽस्ति –अनिषिद्धपुण्यसम्बन्धोऽस्तीति प्रतिभाति। मैवम्—एवं मा शङ्किष्ठाः। एषः – जगत्कारणभूतपुरुषवरः। अनन्यशास्यः –इतरशासनीयो न भवति इति। स्ववशपरफलः – ‘चतुर्होताररो यत्र सम्पदं गच्छन्ति देवैः इतिवेदार्थसंग्रहोपात्तश्रुत्या ‘फलमतउपपत्तेः’ इति सूत्रेण ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इत्यादिस्मृत्या च परेषामिष्टमनिष्टं वा फलं भगवानेव ददादीत्युक्तम्। स्ववशं स्वाधीनं परसम्बन्धि फलं पुण्यपापफलं यस्येति विग्रहः। साधुना –सुकृतेन। न भूयान् –नोत्कृष्टो भवति। यथा ब्रह्मादयः" ‘युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः। पुनस्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम॥’ इत्याद्युक्तरीत्या सुकृतातिशयेनातिशयितफलभाजो भवन्ति’ तथाऽयम्। अपि तु स्वतः सिद्धदिव्यैश्वर्य इत्यर्थः। इति च , आम्नातः— ‘न तस्येशे कश्चन’‘चतुर्होतारः’‘सा न साधुनाकर्मणा भूयान्’ इत्यादिश्रुतिभिः सर्वशाखाप्रत्ययन्यायेन जगत्कारणभूतपरवस्तुपराभिः" प्रतिपादितः। इति हेतोर्मैवमित्यन्वयः। लक्ष्मयोगात् – अधिकारिविशेषापेक्षयाऽनिष्टफलकत्वरूपपापलक्षणस्य पुण्येऽपि विद्यमानत्वात्। न सुकृतमित्यादिना – ‘न सुकृतं न दुष्कृतम्। सर्वे पाप्मानोऽतो निवर्तन्ते’ इति सुकृतदुष्कृतयोर्द्वयोरपि पाप्मशब्दं प्रयु़ञ्जानेन श्रुतिवाक्येन च पाप्मशब्दः – ‘स एष सर्वेभ्यः पाप्मभ्यः उदितः’ इत्यादिप्रकृतश्रुतौ श्रुतः पाप्मशब्दः। पुण्येऽपि स्यात् – पुण़्यविषयेऽपि वर्तितुमर्हति। तथा च सर्वकर्मसम्बन्धविदूरत्वमस्मिन् सिद्धमिति भावः॥
कुमार-वरदः - 63
- अत्र चेदकः प्राह – अन्तरादित्यविद्यायां ’ सर्वेभ्यः पाप्मभ्यः उदितः ’ इति भगवतः सर्वपापरहितत्वमुच्यते, विशेषनिषेधे शेषाभ्यनुज्ञानमिति तान्त्रिकाणां प्रक्रिया, तथा चादित्यमण्डलान्तर्वर्तिनि पुरुषे पापनिषेधात् पुण्याभ्यनुज्ञानमस्तीति। तदिदमाह– सर्वेभ्य इत्यादिना। तन्निराकरोति –मैवमिति। अत्र हेतूनाह– आम्नात इत्यादिना। ‘न तस्येशे कश्चन ’ इत्यादिभिर्बहुभिः प्रमाणैर्भगवतोऽनन्यशास्यत्वं प्रतीयते, अन्यशास्यो हि राजकिंकरः शासनातिसङ्घनात् प्रत्यवायमुपेयात्, तदनुपालनादनुकूलं फलम्। ईश्वरस्यानन्यशास्यत्वाद् दुरितवत् परशासनानुवर्तनरूपं सुकृतमपि न संभवतीत्ययमेको हेतुः। हेत्वन्तरमाह —स्ववशेति। ‘फलमत उपपत्तेः’ इति न्यायेन परेषामिष्टमनिष्टं वा फलं भगवानेव ददातीत्युच्यते तस्य कथं सुकृतसंबन्धः" संभवतीति। किं च ’ स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ’ इति ह्यर्थात् सुकृतसंबन्धः प्रतिक्षिप्यते, तच्च विरुद्धं" तव। तर्हि पाप्मशब्दः पुण्ये कथं प्रयुज्यते? इत्यत्राह – स्यादिति। पुण्येऽपि पापलक्षणयोगादिह पाप्मशब्दः प्रयुज्यते। अस्ति हि पुण्येऽपि पापलक्षणयोगः, अनिष्टफलसंबन्धित्वात् । लोके हि कस्यचिदिष्टं फलमन्यस्यानिष्टं भवति।तथा च स्वर्गादिकमिष्टं फलमध्यात्मविदामनिष्टमित्यधिकारिविशेषापेक्षया पापमेव काम्यं कर्म। अत्र श्रौतप्रयोगरूपं प्रबलव्यवस्थापकमाह– न सुकृतमित्यादिनेति। अत्र हि सुकृतं दुष्कृतमुभयमपि निर्दिश्य द्वयोरपि पाप्मशब्देन निर्देशः स्पष्टमेव क्रियते। तस्मात् दुरितवत् सुकृतस्यापि पाप्मशब्दवाच्यत्वात् सर्वपाप्मोोदितवचनं सुकृमनिवृत्तिमप्याहेति सिद्धम्॥
मूलम् - 63
- सर्वेभ्यः कल्पकेभ्यो ह्युदित इति वदत्यन्तरादित्यविद्या
तस्माच्छेषाभ्यनुज्ञानयत इति विभोः पुण्ययोगो़ऽस्तु मैवम्।
आम्नातोऽनन्यशास्यस्स्ववशपरफलस्साधुना नैष भूयान्
स्यात्पुण्ये लक्ष्मयोगादपि न सुकृतमित्यादिना पाप्मशब्दः॥
विश्वास-प्रस्तुतिः - 64
- प्रख्यातं शुद्धसत्वं किमपि तदनघं द्रव्यमव्यक्ततोऽन्य-
त्तद्रूपं रूपमैशं दिवि कनति तथा शेषशेषाशनाद्यैः।
नित्यं तत्सूरिसेव्यं परतरमजहत्स्वस्वभावस्स देवः
पुंसां संसारशान्त्यै विपरिणमयति व्यूहपूर्वैर्विभागैः॥
३४-तमाहोबिल-यतिः - 64
- प्रख्यातमित्यादि। प्रख्यातम् –‘पादोऽस्य विश्वा भूतानि। त्रिपादस्यामृतं दिवि’ ‘वैकुण्ठे तु परे लोके’ इत्यादिश्रुतिस्मृतिपुराणादिषु प्रसिद्धम्।शुद्धसत्त्वम् – ‘स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम्’ इत्यादिप्रमाणानुसाराद् रजस्तमोरहितसत्त्वाश्रयभूतम्, शुद्धं रजस्तमोभ्याममिश्रं सत्त्वं यस्य तत् शुद्धसत्त्वम् – संसारप्रवर्तनोपकरणत्वाभावात्, न विद्यते संसारप्रवर्तनोपकरणत्वरूपमघं यस्य तदनघम्। अव्यक्ततोऽन्यत् – ‘गुणसत्त्वाद्विलक्षणम्’ इत्यादिप्रमाणादव्यक्ताख्यत्रिगुणद्रव्यतोऽन्यत्। किमपि तद् द्रव्यम् –अनिर्वचनीयं श्रीमत्पाञअचरात्रप्रसिद्धं वक्ष्यमाणोपयोगविशिष्टतया बुद्धिस्थं द्रव्यम्।तद्रूपम् – तादृषशुद्धसत्त्वद्रव्यात्मकमेव। एंशे रूपम् – ईश्वरसम्बन्धि शरीरम्। दिवि – परव्योमनि। कनकि –प्रकाशते। तथा –तद्वदेव। शेषशेषानादेः –शेषोव भगवच्छय्यासनादिरूपः" फणिराजः। शेषाशनो विष्वक्सेनः। ‘त्वदीयभुक्तोज्झितशेषभोजिना’ इत्यादौ, पाञ्चरात्रशास्त्रे च विष्वक्सेनस्य शेषशनत्वं प्रसिद्धम्। आदिशब्देन गरुडादिविग्रहम्। शेषशेषानाशनौ आदीयस्य बगवत्परिजनवर्गस्य स शेषाशेषनादिः।तस्यापि रूपं तद्रपमेव दिवि कनतीति पूरणीयम्। स देवः - सर्वप्रमाणप्रसिद्धः परमपुरुषः। अजहत्स्वस्वभावः सन्नेव –ज्ञानबलैश्वर्यादि स्वासाधारणं स्वभावमविजहदेव। अजहत् –स्वस्मादविश्लेषः" स्वस्वभावो यस्य स इति विग्रहः। नित्यम् – ‘नित्यं नित्याकृतिधरम्’ इति प्रमाणेन नाशरहितम्।सूरिसेव्यम् –‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’ इति प्रमाणेन नित्यसूरिपरिषन्नित्यानुभाव्यम्। परतरम् – व्यूहविभवान्तरर्याम्यर्चारूपेभ्यः" श्रेष्ठतमम्। तत् – पूर्वोक्तं शुद्धसत्वादिकं दिव्यविग्रहमेव। पुंसां संसारशान्त्यै –व्यूहादिस्थानेषु वर्तमानानां देहिनां" स्वसाक्षात्कारादिभिः संसारनिवृत्त्यै। व्यूहपूर्वैः – व्यूहप्रभृतिभिः। विभागैः –स्वारसिकाभेदैः । विपरिणमयति – यथाऽभिमतं" वैविध्येन परिणमयति। तथाच भगवद्रूपं सर्वमपि शुद्धसत्त्वरूपं दिव्यम्, तद्ग्रहणस्य फलं च मोक्षोपयोग एवेति भावः॥
कुमार-वरदः - 64
- अत्र पुनश्चोदयति परस्य ब्रह्मणो विग्रहोऽस्तीति भवद्भिरुक्तम्, स विग्रहः किं पारकृतः, उताप्राकृतः, अप्राकृतत्वेपि किं" भगवत्स्वरूपमेव उत तत्त्वान्तरम्। पूर्वत्रास्मदुक्तं संसारित्वमेवापद्यत इति घट्टकुटीन्यायः, द्वितीये पक्षे स्वरूपपरिणामप्रसङ्गः, तृतीयोऽपि पक्षो न घटते, प्रकृतिपुरुषेश्वरकालव्यतिरिक्ततत्त्वान्तराभावात्, अतः कथं तदिति। एतन्निराकरोति –प्रख्यातमिति। प्रख्यातम् – ‘पादोऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि ’ ’ वैकुण्ठे तु परे लोके ’ ’ तमसः परमो धाता ’ ’ स्वसत्ताभासकं सत्त्वम् ’ इत्यादिभिः । शुद्धसत्त्वम् – रजस्तमोरहितसत्त्वाश्रयभूतम्। दिव्यं किमपि द्रव्यं तत्। अनघत्वं संसारप्रवर्तनोपकारणत्वाभावादुच्यते। तस्याव्यक्ततोऽन्यत्वं ’ त्रिपाद्स्यामृतं दिवि’ इति व्यक्तमेवाभिधीयते। अनेन भगवतो रूपं प्राकृतं स्वरूपं च न भवति अपितु अप्राकृतं द्रव्यान्तरमित्याह – तद्रूपमिति। ’ तद्विश्वरूपवैरूप्यं" रूपमन्यद्धरेर्महत्’ इति भगवान् पराशरः प्राह। वैरुप्यं विरूपमित्यर्थः। तेन विप्रतिपन्नं रूपं प्राकृतं रूपत्वात् तदनित्यं सावयवत्वादित्यादयः" परेषां हेतवो निरस्ताः। तादृग्विधरूपसिद्धौ धर्मिग्राहकप्रमाणविरोधः। अप्राकृतानित्यत्वादिविशेषणयोगेनैव प्रमाणसिद्धत्वात्। असिद्धौ चाश्रयासिद्धेरिति स्वकीयां प्रक्रियां स्वयमेव स्मरतु हैतुकः। नन्वस्तु भगवतस्तादृशं रूपम्, अनन्तगरुडादीनां का गतिरिति चेत् भगवानेव गतिः। ’ तद्विष्णोः परमं पदम्’ ’ आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ’ इत्यादिप्रमाणशतव्याहतत्वात् शङ्कापिशाचिकायाः। अस्तु वैकुण्ठवासिनस्तादृशं रूपम्, अथापि तस्य नित्यत्वादौ निश्चायकं किमित्याशङ्क्य श्रुतिपुराणादीत्यभिप्रायेणाह– नित्यमिति। ‘सदा पश्यन्ति’ ’ नित्यं नित्याकृतिधरम् ’ ’ नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर ’ ’ श्रीवत्सवक्षा नित्यश्रीः ’ इत्यादिप्रमाणसहस्रमनुसन्धेयम्। अस्तु सर्वं गुणजातं वैकुण्ठवासिनो भगवतः, रामकृष्णादयस्तु प्राकृताः कर्मवशेन सुखदुःखादिभाजश्च, कथं तेषामाराधनेनास्माकमापवर्गिकी सिद्धिरित्याशङ्क्य पराशरपाराशर्यादिमतानुसारेण अप्राकृतत्वादिकं गुणजातमाह– अजहदित्यादिना ग्रन्थशेषेण। ’ समस्तशक्ति’ इत्यादि पराशरवचनम्। ‘न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः ’ इति पाराशर्यवचनमप्यनुसन्धेयम्। ’ व्यक्तमेष महायोगी परमात्मा सनातन ’ इति वल्मीकसंभवोऽप्याह। तेनावतारेषु शोकमोहाद्यनुकरणं नटानां नाटकेष्विव परिहासरूपमेवेति मन्तव्यम्। परव्यूहादिविभागः पञ्चरात्रादिषु स्पष्टमेवानुसन्धेयः॥
मूलम् - 64
- प्रख्यातं शुद्धसत्वं किमपि तदनघं द्रव्यमव्यक्ततोऽन्य-
त्तद्रूपं रूपमैशं दिवि कनति तथा शेषशेषाशनाद्यैः।
नित्यं तत्सूरिसेव्यं परतरमजहत्स्वस्वभावस्स देवः
पुंसां संसारशान्त्यै विपरिणमयति व्यूहपूर्वैर्विभागैः॥
विश्वास-प्रस्तुतिः - 65
65.देहत्वात् सप्तधातुत्रिमलमघभवन्दुःखकृन्नाशयुक्तं
सांशत्वादेश्च हेतोरिति यदि तदसद्धर्मिमानेन बाधात्।
बाधश्शास्त्रैकवेद्ये क्वचिदपि न भवेदन्यथाऽतिप्रसङ्गात्
यत्तु स्वेच्छावतारेष्वभिनयति तदप्यासुरोपप्लवार्थम्॥
३४-तमाहोबिल-यतिः - 65
- देहत्वादित्यादि। भगवच्छरीरं सप्तधातु त्वक्चर्ममांसरुधिरभेदोऽस्थिमज्जारूपसप्तधातुयुक्तम्।त्रिमलम् –मलत्रवत्। अघभवम् - कर्ममूलकम्।दुःखकृत् – दुःखहेतुभूतम्। देहत्वात्, इत्येकः प्रयोगः। तत् नाशयुक्तं च – नाशवच्च। सांशत्वादेः –सावयवत्वादेःहेतोः। अयमपरः प्रयोगः।इति यदि –इत्युच्यते चेत्।तदसत् –तदयुक्तम्।धर्मिमानोपरोधात् – ‘न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः। ’ ‘न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्भवा’ इत्यादिभिर्निरुक्तसाध्याभावसमर्पकैर्भगवद्विग्रहकप्रमाणैरुपरोधात् बाधात्। नहि वह्निरनुष्णः पदार्थत्वादित्यनुमितिः" प्रत्यक्षविरुद्धबह्न्यनुष्णत्वसाधनाय प्रभवति। शास्त्रैकवेद्ये –शास्त्रैकप्रमाणसमधिगतेऽर्थे। क्वचिदपि –कुत्रापि।बाधो न भवेत् –प्रमाणाभासेनान्यथासिद्धशास्त्रान्तरेण वा कालात्ययापदेशो न भवेत्। अन्यथा – शास्त्रैकसिद्धस्यार्थस्य प्रत्यक्षादिना अन्यथासिद्धशास्त्रान्तरेण वा बाधाङ्गीकारे।अतिप्रसङ्गात् –अग्नीषोमीयहिंसादावपि बाधप्रसङ्गात्।स्वेच्छावतारेषु स्वेच्छाकृतेषु रामकृष्णाद्यवतारेषु। यत्त्वभिनयति – ‘राज्याद्भ्रंशो वने वासःसीता नष्टा हतो द्विजः। ईदृशीयं ममालक्ष्मीनिर्दहेदपि पावकम्॥’ इत्यादिरीत्या दुःखमभिनयतीति यत्। तदपि — तथा दुःखनटनमपि। आसुरोपप्लवार्थम् – आसुरः असुरसम्बन्धी उपप्लवो मनुष्यत्वभ्रान्त्या प्रातिकूल्याचरणेन स्वयमेव निवाशस्तदर्थमिति मन्तव्यमित्यर्थः। तथाचातारेषु दुःखाबाणक्षतरुधिरदर्शनादिप्रतिपादकप्रणाणाभासामन्यथासिद्धत्वात् तैरुपरोधो न सम्भभवतीति भावः॥
कुमार-वरदः - 65
- उक्तमेवार्थं पूर्वपक्षानुवादपूर्वकं प्रतिबन्द्या स्थिरीकुर्वन् दुःखित्वादि नटनफलमपि प्रदर्शयति – देहत्वादिति । इहैवं" प्रतिबन्दी – यदि शास्त्रैकवेद्यार्थे बाधः क्वचिदिष्यते - तर्हि अग्नीषोमीयहिंसादावपि बाधः स्यादिति। अत्र श्रुतिसिद्धत्वान्न बाध इति प्रतिबन्दीमोचने बन्दीमोचनमपि तथैव स्यादिति। भगवद्विग्रहादेरपि श्रुतिसिद्धत्वात् दुःखमिश्रत्वादिवचनमासुरोपप्लवार्थमित्युक्तम्। आसुराः - कंसादयः। कृष्णादीनां बाल्यादिनटनं परमार्थ एवेति मत्वा पुनः पुनः प्रातिकूल्ये प्रवर्तेरन् तत्प्रवृत्त्यैव विध्वंसेरन्निति। ‘विनाशाय च दुष्कृताम्’ इत्युक्तदुष्कृद्विनाशफलं बाल्यादिनटनमित्यर्थः॥
मूलम् - 65
65.देहत्वात् सप्तधातुत्रिमलमघभवन्दुःखकृन्नाशयुक्तं
सांशत्वादेश्च हेतोरिति यदि तदसद्धर्मिमानेन बाधात्।
बाधश्शास्त्रैकवेद्ये क्वचिदपि न भवेदन्यथाऽतिप्रसङ्गात्
यत्तु स्वेच्छावतारेष्वभिनयति तदप्यासुरोपप्लवार्थम्॥
विश्वास-प्रस्तुतिः - 66
- इत्थं विद्यात्रयेण स्थिरचरचिदचिद्देहिनस्सर्वहेतो-
रव्यक्ताज्जीवतत्त्वादपि समधिकता यद्यपि स्यात्तथाऽपि।
उत्थानद्वारभेदात् क्रमत इह मृदूपक्रमान् क्रूरनिष्ठान्
अध्यायेऽस्मिन्निरुन्धन्नधिकरणगणैस्तद्गुणानुद्गृणाति॥
३४-तमाहोबिल-यतिः - 66
- इत्थमित्यादि।इत्थं विद्यात्रयेण – विचारितेन सद्विद्यानन्दमयविद्याऽन्तरादित्यविद्यात्रयेण। स्थिरचरचिदद्देहिनः –स्थावरजङ्गमात्मकनिखिलचेतनाचेतनशरीरिणः। सर्वहेतोः – सर्वजगन्निमित्तोपादानभूतस्य परमात्मनः। अव्यक्तात् – प्रधानात्।जीववर्गादपि – निखिलचेतनसमुदायाच्च।समधिकता –वैलक्षण्यम्।यद्यपि स्यात् –यद्यपि भवेदेव।तथाऽपि –भगवतोऽचेतनाच्चेतनाच्च वैलक्षण्यत्यैतावता सिद्धावपि। इह –शास्त्रे। अस्मिन्नध्याये –प्रथमाध्याये। क्रमतः –प्रथमद्वितीयतृतीयचतुर्थपादक्रमेण। उत्थानद्वारभेदात् –अस्पष्टतरास्पष्टच्छायानुसारिजीवलिङ्रकवेदान्तवाक्यरूपशङ्कोत्थापकभेदात्।मृदूपक्रमक्रूरनिष्ठान् –मृदुरुपक्रमो येषां ते, क्रूरा निष्ठा, येषां ते च मृदूपक्रमक्रूरनिष्ठाः तान्। निरुन्धन् –निराकुर्वन्। अधिकरणगणैः —इत उपरि शिष्टैः सर्वैरप्यधिकरणैः। तद्गुणान् – भगवतस्तत्तदधिकरणप्रतिनियतान् गुणान्। उद्गृणाति –प्रतिपादयति। अयमाशयः – ईक्षत्यधिकरणे भगवतो जगत्कारणभूतस्याचेतनाद्व्यावृत्तिः प्रत्यपादि, आनन्दमयाधिकरणे चेतनसामान्यवैलक्षण्यमभ्यधायि, अन्तारधिकरणे जीवविशेषवैजात्यं च निरणायि, अत एतावता शास्त्रेण कृत्यं कृतमेव, अथाप्येतत्स्थिरीकरणार्थं पूर्वपक्षिणो निगृह्य प्रत्यधिकरणं प्रतिनियतान् भगवद्गुणांस्तद्भक्तिवर्धनाय प्रतिपादयति, तेच गुणास्तत्तत्पादावसाने ‘स्वेच्छातः सर्वहेतुः’ इत्यादिभिः" सङ्गृहीता इति॥ केवलभूताकाशादिप्रसिद्धिर्नपर्याप्तेति परमात्मलिङ्गं सुरक्षितमिति॥
कुमार-वरदः - 66
- अत्रोक्तानामधिकरणानामर्थैक्यादेकपेटिकात्वमध्यायपरिसमाप्तिपर्यन्तमागामिनामधिकरणानामर्थविशेषा – भावान्नैरर्थक्यमाशङ्क्यमानस्य पूर्वपक्षवादिनः प्रकारभेदेन प्रयोजनवत्त्वमुपपादयन् सर्वाधिकरणसाधारणं भगवद्गुणविशेषानुसन्धानरूपं" प्रधानं प्रयोजनं प्रकटमेवाचष्टे – इत्थमिति। विद्यात्रयेण सद्विद्याद्यधिकरणत्रयोक्तेन स्थावरजङ्गमात्मकचेतनाचेतनात्मकस्य सर्वकारणस्य भगवतः प्रधानाज्जीववर्गाच्चादित्यादेरप्याधिक्यं यद्यपि स्यात् । तथापि ’ अस्पष्टतरमस्पष्टं स्पष्टं छायानुसारी च ’ इत्युक्तक्रमेणोत्थानद्वारभेदात् क्रमेणोत्थितान् मृदूपक्रमक्रूरनिष्ठान् प्रतिवादिनो ऽस्मिन्नध्याये निरुन्धन् सन् शिष्टैरधिकरणैर्भगवद्गुणानपि विशेषतः प्रकाशयतीतिशब्दार्थः। अयमत्रभावः – यथा युद्धेषु पदात्यश्वगजरथानां पूर्वपूर्वदुर्बलानां दुर्बलभङ्गे प्रबलयोधनम्, एवमस्पष्टतरजीवलिङ्गानां पूर्वपूर्वभङ्गे पुनरुत्तरोत्तरपरिग्रहेण पूर्वपक्षः प्रवर्तते। तत्प्रवृत्तिकुण्ठनमन्तरेण जातमपि तत्त्वज्ञानं" न प्रतितिष्ठतीति। तेनाध्यायशेषोऽप्यारम्भणीय एव। किं च सर्वेष्वप्यधिकरणेषु तत्तदधिकरणप्रतिनियता भगवद्गुणा विशेषतः प्रकाशन्ते, तेषां गुणानां कार्त्स्न्येनानुसन्धानमध्यायशेषप्रयोजनमित्यास्माको मार्गः। निर्विशेषावादिनां तु एकेनैवाधिकरणेन निर्विशेषं प्रतिपन्नमिति प्रतिपाद्यगुणविशेषाभावादुत्तरेषामधिकरणानां नैष्फल्यमेवेति हृदयम्॥
मूलम् - 66
- इत्थं विद्यात्रयेण स्थिरचरचिदचिद्देहिनस्सर्वहेतो-
रव्यक्ताज्जीवतत्त्वादपि समधिकता यद्यपि स्यात्तथाऽपि।
उत्थानद्वारभेदात् क्रमत इह मृदूपक्रमान् क्रूरनिष्ठान्
अध्यायेऽस्मिन्निरुन्धन्नधिकरणगणैस्तद्गुणानुद्गृणाति॥
विश्वास-प्रस्तुतिः - 67
67.शब्दैस्सद्ब्रह्ममुख्यैश्श्रुतिशिरसि मितं कारणं किञ्चिदेकं
सङ्कल्पाभ्यासरूपैरतदननुगुणैश्चिन्तितश्चिद्विशेषः।
भूताकाशादिशङ्काजननसमुचितैर्नामभिः कारणस्थैः
क्षिप्त्वा तत्पादशेषश्रुतिसमुदयनासम्भवोक्त्या भुनक्ति॥
३४-तमाहोबिल-यतिः - 67
- TODO: MISSING??
कुमार-वरदः - 67
- एवं पूर्वपेटिकया सहाध्यायशेषस्य संगतिमुक्त्वा पादशेषस्य संगतिं वक्तुं पूर्वोत्तरपेटिकयोः स्वरूपमपि विशेषतः प्रकाशयति— शब्दैरिति। ’ अथातो ब्रह्मजिज्ञासा ’ इति शारीरकशास्त्राद्यपेटिकायां ब्रह्म जिज्ञास्यमित्युक्तम्। तत् ब्रह्मसदात्मापुरुषरूपसाधारणशब्दप्रतिपन्नं ब्रह्म किं प्रकृतिः किं वा जीवः अथवा उपचितपुण्यविशेषः कश्चिज्जीवविशेषः, पाप्मशब्दस्य साधारणत्वेन पुण्यापुण्यरूपपाप्मोदितत्वेऽपि किं पुण्डरीकाक्षः, अन्यो वा कश्चिच्चतुर्मुखविरूपाक्षादिरित्याशङ्क्य पुण्डरीकाक्ष एवेति निर्धारितं पूर्वपेटिकायाम्। तत्रेतरव्यावर्तकलिङ्गान्याह– संकल्पेति। संकल्पात् प्रधानव्यावृत्तिः। आनन्दाभ्यासाज्जीवसामान्यं" व्यावर्त्यते। अप्राकृतरूपविशेषादुपचितपुण्यविशेषो जीवोऽपि । तत्रापि पुण्डरीकाक्षत्वश्रवणात् चतुर्मुखादिरपीति हार्दो भावः। अतदननुगुणैः – अनन्यथासिद्धैरित्यर्थः। अत्र पूर्वपक्षी प्रत्यवतिष्ठते –पूर्वाधिकरणत्रये लिङ्गैरेव सामान्यश्रुतिबाधेन प्रधानादिव्यावृत्तिर्भवद्भिरभिहिता। लिङ्गाद् विशेषश्रुतिर्बलीयसी। सा हि रूढिशक्त्या वर्तते। तेनाकाशप्राणज्योतिरिन्द्रियादिविशेषश्रुत्या लिङ्गानि बाधित्वा प्रसिद्धाकाशादिकमेव जिज्ञास्यब्रह्मत्वेन स्वीकार्यमिति। तेन पादशेषात्मकपेटिकासंगत्यमुक्तं भवति। तदेतदाह– भूतेति। आकाशो द्विविधः – ’ यदेव आकाश आनन्दो न स्यात् ’ इत्यध्यात्मवितसम्मतएकः, पामरपरीक्षकाविशेषेण सर्वलोकप्रसिद्धो भूताकाशोऽपरः। तेन प्रसिद्ध्यतिशयानुसारेण भूताकाशएवात्र ग्राह्यः। एवं प्राणादावपि द्रष्टव्यम्। एवमाकाशादीनां विशेषश्रुत्या पूर्वाधिकरणत्रयोक्तं लिङ्गं बाधित्वा पूर्वपक्ष्यभिप्रायेण निरस्य सिद्धान्ती पुनराकाशादिविशेषसमुदायासंभव प्रतिपादनेन तदेव ब्रह्मप्रतिपादकं लिङ्गं प्रधानादिव्यावर्तकं भुनक्ति- रक्षतीत्यर्थः। ’ भुजोऽनवने ’ इति रक्षणव्यतिरिक्तार्थविवक्षायामात्मनेपदविधानात्। अयमाशयः – रूढिर्योगमपहरतीति सिद्धमेव, अथापि प्रमाणपरिक्लृप्तो योगो रूढिमेव बाधत इति न्यायविदां निर्णयः। अत्र च ’ सर्वाणि ह वा इमानि’ इति प्रसिद्धवन्निर्देशो दृश्यते। हवा इति प्रसिद्धइप्रतिपादकाव्ययदर्शनात्। प्रसिद्धिश्च कारणवाक्येषु । तेषु च छागपशुन्यायादिना नारायणपरत्वं सिद्धमेव। अतो नारायणप्रत्यभिज्ञापकप्रसिद्धवन्निर्देशयुक्तानन्यथासिद्धवाक्यस्थ सर्वकारणत्वलिङ्गपरिक्लृप्तो योग आकाशशब्दस्य रूढिं बाधत इति युक्तमेव। शेषं भाष्ये॥
मूलम् - 67
67.शब्दैस्सद्ब्रह्ममुख्यैश्श्रुतिशिरसि मितं कारणं किञ्चिदेकं
सङ्कल्पाभ्यासरूपैरतदननुगुणैश्चिन्तितश्चिद्विशेषः।
भूताकाशादिशङ्काजननसमुचितैर्नामभिः कारणस्थैः
क्षिप्त्वा तत्पादशेषश्रुतिसमुदयनासम्भवोक्त्या भुनक्ति॥
विश्वास-प्रस्तुतिः - 68
68.आकाशप्राणशब्दावनितरगतिकौ रूढिभङ्गेन नेयौ
ज्योतिश्शब्दस्तु रूढ्या प्रथयति पुरुषं दिव्यतेजोविशिष्टम्।
प्रख्यातेन्द्रादिशब्दस्तदनु नियमितस्तद्विशिष्टप्रवृत्त्ये-
त्येवं स्यात् पेटिकैषा द्विकयुगलवती शब्दवृत्तिक्रमेण॥
३४-तमाहोबिल-यतिः - 68
- आकाशप्राणशब्दावित्यादि।अनितरगतिकौ –प्रसिद्धाकाशप्राणप्रतिपादनानर्हौ। आकाशप्राणशब्दौ —-आकाशाधिकरणविषयवाक्यप्राणाधिकरणविषयवाक्ययोः" क्रमेण श्रुतावाकाशप्राणशब्दौ। रूढिभङ्गेन नेयौ —प्रसिद्धाकाशप्राणरूढिं त्याजयित्वा केवलयोगेन ब्रह्मणि नेयौ।ज्योतिश्शब्दस्तु – ‘ज्योतिश्चरणाभिधानात्’ इत्यधिकरणविषयवाक्ये ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इत्यादौ श्रुतो ज्योतिश्शब्दः।दिव्यतेजोविशिष्टं" पुरुषं रूढ्या प्रथयति – दिव्यतेजोविशिष्टविग्रहयोगिनं परमपुरुषं रूढ्यत्यागेन रूढ्यैव प्रतिपादयति। तदनु –ततः पश्चात्। प्रख्यातेन्द्रादिशब्दः— ’ त्रिशीर्षाणं त्वाष्ट्रमहनम्’ इत्यादिजीवविशेषलिङ्गसमर्पकविशेषणयुक्त इन्द्रशब्दः, ‘यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुः’ इति प्रसिद्धप्राणविशेषणयुक्तः प्राणशब्दश्च। तद्विशिष्टप्रवृत्त्या नियमितः — इन्द्रप्राणरूढ्यर्थभूतेन्दरप्राणविशिष्टपरमात्मबोधनेन व्यवस्थापितः।इति –उक्तोपपादनाद्धेतोः। एवम् –उक्तरीत्या शब्दवत्तिक्रमेण –प्रथमद्विके यौगिकशक्तरन्यत्र विशेषणमात्राप्रयवसिता रूढिशक्तिरिति शब्दप्रवृत्तिक्रमेण। एषा पेटिका – आकाशाधिकरणप्राणाधिकरणज्योतिरधिकरणेन्दरप्राणाधिकरणरूपचतुरधिकरणयुक्तेयं" पेटिका। द्विकयुगलवती स्यात् – अधिकरणद्वयात्मकद्विकद्विकद्वययुक्ता भवतीत्यर्थः॥
कुमार-वरदः - 68
68.अतः परमुत्तरेषां चतुर्णामधिकरणानां युगद्वयेन भेदमन्योन्यसंगतमप्याह -आकाशेति। आकाशप्राणशब्दावनितरगतिकौ प्रसिश्रद्धाकाशप्राणप्रतिपादनानार्हौ परस्मिन्ब्रह्मणि रूढिं हित्वा योगशक्त्यैव प्रतिपादनीयौ। तेन द्वयोरधिकरणयोरेकपेटिकात्वसिद्धिः। तथोत्तराधिकरणयोरूढिभङ्गमन्तरेण रूढार्थविशिष्टब्रह्मपरत्वादेकपेटिकात्वं सिद्धम्। तत्र ज्योतिश्शब्दस्य तावद्रूढार्थविशिष्टपरत्वं दर्शयति – ज्योतिरिति। ‘न तत्र सूर्यो भाति ’ ‘नचोदेति नास्तमेति ’ ’ यदादित्यगतं तेजः ’ इत्यादिकं हि प्रमाणजातमुपलभ्यते। एवमिन्द्रियादिशब्दोऽपि इन्द्रादिविशिष्टपरमात्मपरतया रूढ्यभङ्गेन विशेषणमात्रार्थवसानमाश्रित्य नेतव्यः। तथाचार्थभेदात् पेटिकाद्वयसिद्धिरिति निगमयति -इत्येवमिति। एकत्र यौगिकशक्तिरन्यत्र विशेषणमात्रापर्यवसिता रूढिशक्तिरिति शब्दप्रवृत्तिक्रमः॥
मूलम् - 68
68.आकाशप्राणशब्दावनितरगतिकौ रूढिभङ्गेन नेयौ
ज्योतिश्शब्दस्तु रूढ्या प्रथयति पुरुषं दिव्यतेजोविशिष्टम्।
प्रख्यातेन्द्रादिशब्दस्तदनु नियमितस्तद्विशिष्टप्रवृत्त्ये-
त्येवं स्यात् पेटिकैषा द्विकयुगलवती शब्दवृत्तिक्रमेण॥