06 आनन्दमयाधिकरणम्

विश्वास-प्रस्तुतिः - 58
  1. मुख्येक्षा यद्यभीष्टा भवतु तदुचिते सा पुनर्जीवतत्त्वे
    सद्विद्यायां हि शब्दैस्त्रिभिरुपरि सतस्तस्य जीवैक्यमुक्तम्।
    इत्यूहादुज्जिहानं प्रशमयितुमथ प्रस्तुतो विश्वकर्मा
    जीवस्याप्यन्तरात्मा निरुपधिकमहानन्दथुस्स्थाप्यतेऽत्र॥
३४-तमाहोबिल-यतिः - 58
  1. मुख्येक्षेत्यादि। मुख्येक्षा – मुख्येक्षणम्। अभीष्टा यदि – अभिमता चेत्। सा –मुख्येक्षा भवदभिमता। तदुचिते – चेतनत्वान्मुख्येक्षणार्हे। जीवतत्त्वे –जीववस्तुनि। भवतु – स्यात्। कारणवाचिसदादिदेशात्मस्वशब्दास्तत्परा भवन्त्वित्यर्थः। ननु सच्छब्दार्थात् परमात्मनो हि जीवो भिन्नः, अतस्तस्य कथं ‘स्वमपीतः’ इत्यादौ स्वशब्दोल्लेखः? ‘ऐतदात्म्यम्’ इत्युक्तं सर्वतादात्म्यं वा कथमुपपद्येतेत्यत्रोच्यते – सद्विद्यायामुपरि तस्य सतस्त्रिभिः शब्दैर्जीवैक्यमुक्तं हि। छान्दोग्ये षष्ठाध्याये ‘श्वेचकेतुर्हारुणेय आस’ इत्यादौ सद्विद्याशब्दिते प्रकरणे। उपरि –उपरितनखण्डेषु। तस्य सतः –‘सदेव सोम्येदमग्र आसीत्’ इत्युपक्रमे प्रतिपन्नस्य सत्पदार्थस्य। त्रिभिः शब्दैः" – तत् , त्वम्, असि, इति त्रिभिः शब्दैः। जीवैक्यं प्रतिपादितं हि। अतस्सर्वं पूर्वोक्तमुपपद्यत इति भावः। इत्यूहात् — एवमाशङ्कनेन। उज्जिहानम् –शिर उत्क्षिप्याक्षिपन्तं पूर्वपक्षिणम्। प्रशमयितुम् –निराकर्तुम्। अत्र –शारीरप्रथमपादे। अथ –आनन्दमयाधिकरणे। प्रस्तुतो विश्वकर्ता –पूर्वप्रस्तुतो जगत्कारणभूतः" परमात्मा। जीवस्याप्यन्तरात्मा निरवधिकमहानन्दथुः स्थाप्यते – ‘तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्माऽऽनन्दमयः’ इति विज्ञानमयशब्दितस्य जीवस्यापि नियन्तृतया तच्छरीरी ‘ते ये शतम्’ इत्युपक्रम्य निरतिशयदशाशिरस्कतया ऽभ्यस्यमनान्दभूम्नो निधिरिति च ‘आनन्दमयोऽभ्यासात्। नेतरोऽनुपपत्तेः। भेदव्यपेदेशाच्च’ इत्यादिभिः सूत्रैः प्रतिष्ठाप्यते॥
कुमार-वरदः - 58
  1. पूर्वोत्तराधिकरणयोस्संगतिद्वयोक्तिपूर्वकमुत्तराधिकरणार्थं संग्रहेणोपदर्शयति–मुख्येति। यदि सतो मुख्यमीक्षणमिष्टम्, तर्हि चेतनत्वात् मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादेका संगतिः।अन्या च सद्विद्यावाक्ये तत्त्वमसीति त्रिभिः" पदैर्जीवब्रह्मणोरैक्यमेव नवकृत्वः प्रदर्शितम्, तथा च जीव एव जगत्कारणं ब्रहास्त्विति पूर्वपक्षोत्थानमिति। इत्यूहादुज्जिहानं" पूर्वपक्षिणं निराकर्तुं पूर्वप्रस्तुतो विश्वकर्ता जीवस्याप्यन्तरातमा निरुपधिकमहानन्दवान् अत्राधिकरणे स्थाप्यते। तदर्थविचारस्तु –‘ब्रह्मविदाप्नोति परम्’ इत्यस्मिन्वाक्ये यः पुनरानन्दमय उच्यते स किं जीव उत परमात्मा। पुनर्विचार्यते– अत्र मयड् विकारार्थः प्राचुर्यार्थो वा। तदर्थं" विचार्यते– उपक्रमगतान्नमयशब्दस्थमयटो विकारार्थत्वानुसारेण अत्रापि मयटो विकारार्थत्वमेव युक्तम्, उत प्राचुर्यार्थत्वम्। पुनश्च विचार्यते– उपक्रमावगतस्य मध्ये प्राणमयमनोमयादिभिर्विच्छेदो ऽस्ति नवेत्यादि। फलफलिभावस्तु तत्राविच्छेदादुपक्रमावगतविकारार्थत्वस्यैवात्रापि ग्रहीतुं योग्यत्वेनानन्दमयशब्दस्थमयटो विकारार्थत्वादानन्दमयो जीव इति पूर्वपक्षे। व्यत्ययेन राद्धान्ते फलफलिभावः॥
मूलम् - 58
  1. मुख्येक्षा यद्यभीष्टा भवतु तदुचिते सा पुनर्जीवतत्त्वे
    सद्विद्यायां हि शब्दैस्त्रिभिरुपरि सतस्तस्य जीवैक्यमुक्तम्।
    इत्यूहादुज्जिहानं प्रशमयितुमथ प्रस्तुतो विश्वकर्मा
    जीवस्याप्यन्तरात्मा निरुपधिकमहानन्दथुस्स्थाप्यतेऽत्र॥
विश्वास-प्रस्तुतिः - 59

59.दृष्टः पूर्वं विकारे मयडिति चरमेऽप्येवमस्त्वित्ययुक्तं
मध्ये तद्भङ्गदृष्टेः प्रचुरमिह वदेत् प्रत्ययोऽन्यस्य बाधात्।
आनन्दप्राचुरीच प्रकृतपरसुखाल्पत्वलब्धावधित्वा-
द्दुःखाल्पत्वानपेक्षा परदुरितभिदश्शासितुस्तद्विरोधात्॥

३४-तमाहोबिल-यतिः - 59
  1. दृष्टः पूर्वमित्यादि। पूर्वम् – आनन्दमयविद्यायां पञ्चकोशावतारे प्रथमं ‘स वा एष पुरुषोऽन्नरसमयः’ इत्यत्र। मयट् –मयट्प्रत्ययः। विकारे दृष्टः – पुरुषशब्दवाच्यस्य शरीरस्यान्नरसविकारात्मकत्वादेवान्नरसमयत्वं वक्तव्यमिति विकारार्थे प्रयुक्तो दृष्टः। इति– अस्माद्धेतोः। चरमेऽप्येवमस्तु –आनन्दमयकषविषयके ‘तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः’ इत्यत्रानन्दमयशब्देऽपि ‘अन्नरसमयः’ इत्यत्रेव मयटो विकारार्थत्वमेवास्तु। जीवात्मनः स्वत आनन्दरूपस्य संसारित्वावस्था तद्विकार एवेत्यानन्दमयशब्दवाच्यत्वं" संभवति। इत्ययुक्तम् –इति शङ्कनमयुक्तम्। मध्ये तद्भङ्गदृष्टेः—- अन्नमयानन्दमययोर्मध्ये प्राणमय इत्यत्र मयटो विकारार्थत्वभङ्गदर्शनात्। तत्र प्राणवृत्तिप्राचुर्यादेव हि प्राणमयत्वम्। नतु प्राणविकारत्वेन , असम्भवात्। इह प्रत्ययोऽन्यस्य बाधात् प्रचुरं वदेत् –आनन्दमय इत्यत्र मयट्प्रत्ययो निर्विकारे परब्रह्मणि विकारस्य बाधितत्वात् प्रकृत्यर्थमानन्दं प्रचुरमभिदध्यात्। प्राचुर्यार्थको मयडित्यर्थः। आनन्दप्राचुरी च प्रकृतपरसुखाल्पत्वलब्धावधित्वात् परदुरितभिदः शासितुस्तद्विरोधात् दुःखाल्पत्वानपेक्षा –आनन्दप्राचुर्यं" च मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्ततया प्रतृतं मनुष्यादिचतुर्मुखान्त्जीवगतानन्दाल्पतत्वमवधितयाऽसाद्य कृतार्थत्वात् ‘अथ सोऽभयं गतो भवति ‘इति संश्रितदुरुतभेदिनः सर्वप्रशआसितुर्दुःखलेशसंबन्धस्यापि विरुद्धत्वाच्च स्वावधितया दुःखाल्पत्वं नापेक्षते। स्वाश्रयव्यधिकरणसजातीयास्पत्वस्य प्रकरणेन समपितस्यावधितया लाभात् कृतार्थं प्राचुर्यं स्वाश्रयसमानाधिकरणविसजातीयाल्पत्वं प्रमाणशतेन बाधितमवधितया न मार्गत इति भावः॥
कुमार-वरदः - 59
  1. अत्र कश्चिदाह ‘आत्मन आकाशः संभूतः’ इत्यादिना सृष्टेरेवाभिधानात् पूर्वं ‘स वा एष पुरुषोऽन्नरसमयः’ इत्यत्र विकारे मयड् दृश्यत इति चरमेऽपि ‘अन्यो ऽन्तर आत्माऽऽनन्दमयः’ इत्यत्रापि एवमस्तु मयटो विकारार्थत्वमेवास्तु पूर्वोक्तस्य मयटो विकारार्थप्रत्यभिज्ञानादिति, तदिदमाह–दृष्ट इति। तन्निराकरोति–अयुक्तमिति। तत्र हेतुमाह– मध्य इति। प्राणमयादिषु विकारार्थत्वभङ्गदृष्टेरित्यर्थः। फलितमाह– प्रचुरमिति। विकारार्थत्वे को दोष इत्याशङ्क्याह– अन्यस्येति। आनन्दमयादतिरिक्तस्य वस्तुनो बाधेन विकारार्थत्वस्य बाधितत्वादित्यर्थः। नन्वत्रानन्द प्राचुर्याभिधाने दुःखाल्पत्वमेव स्यात् यथा ब्राह्मणप्रचुरो देश इत्युक्ते शूद्राल्पत्वं प्रतीयत इति, तत्प्रतिक्षिपति–आनन्देति। अत्रानन्दप्राचुरी मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्ततया प्रकृतपरसुखाल्पत्वलब्धावधित्वात् आनन्दमयनिष्ञदुःखाल्पत्वं नापेक्षते, अपि तु चतुर्मुखादिनिष्ठानन्दप्राचुर्यनिवृत्तिमेव। यथा ‘अन्नमयो यज्ञः’ इत्यादि। नन्वानन्दप्राचुरी दुःखाल्पत्वेनापि निर्वक्तुं शक्यत इत्याशङ्क्य नेत्याह–परेति। परदुरितभित् संश्रितानां दुरितं भिनत्ति ‘आनन्दमयः’ इति हि श्रूयते। ‘अथ सोऽभयं गतो भवति’ ‘एतं ह वाव न तपति’ ’ न कर्मणा लिप्यते पापकेन ’ इत्यादिकं वाक्यजातं शतशोह्यधीमहि। तस्मादत्र दुःखाल्पत्वशङ्का न संघटत इति। किं च ‘भीषास्माद्वातः पवते’ ‘तस्य हवा एतस्य प्रशासने गार्गि’ ‘प्रशासितारं सर्वेषाम्’ इत्यादिभिः प्रशासितृत्वेन प्रतिपन्नस्यानन्दमयस्य पापाल्पत्वविरोध इत्याह– शासितुरिति॥
मूलम् - 59

59.दृष्टः पूर्वं विकारे मयडिति चरमेऽप्येवमस्त्वित्ययुक्तं
मध्ये तद्भङ्गदृष्टेः प्रचुरमिह वदेत् प्रत्ययोऽन्यस्य बाधात्।
आनन्दप्राचुरीच प्रकृतपरसुखाल्पत्वलब्धावधित्वा-
द्दुःखाल्पत्वानपेक्षा परदुरितभिदश्शासितुस्तद्विरोधात्॥

विश्वास-प्रस्तुतिः - 60

60.आत्मा तस्यैष एवेत्युदितमनितरात्मत्वमस्यैव वक्तुं
शारीरोक्तिश्च तस्मिन्निखिलतनुतया स्यादसङ्कोचवृत्तिः।
शोध्यत्वन्तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्रं
प्राप्येऽस्मिन्प्राप्तिरूपा परविद उपसंक्रान्तिरानन्दसिन्धौ॥

३४-तमाहोबिल-यतिः - 60
  1. आत्मा तस्यैष इत्यादि। अस्यैवानितरात्मत्वं वक्तुं तस्यैष एवात्मेत्युदितम् —-आनन्दमयशब्दितस्य परमात्मनोऽन्नमयादीनां" विज्ञानमयपर्यन्तानामिवान्तरात्मरराहित्यं प्रतिपादयितुं तस्यानन्दमयस्य एष एव आनन्दमय एव आत्मेत्युक्तम्। स्वयमेव स्वस्यात्मेत्युक्तिः" स्वभिन्नदासनिषे धार्थिका ‘स्वयं दासास्तपस्विनः’ इत्युक्तिरिव स्वस्य स्वभिन्नात्मकत्वं निषेझतीत्यर्थः। शारीरोक्तिश्च तस्मिन्नखिलतनुतया ऽसङ्कोचवृत्तिः स्यात् –‘शारीर आत्मा ’ इति शारीरत्वकथनं च परात्मनि अखिलजग्चछरीरकतया पुष्कलार्थकमति न तद्विरोधाशङ्कनं" युक्तम्। शोध्यत्वं तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्रम् –‘अन्नमयप्राणमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्’ इति विरजामन्त्रोक्तं शोध्यत्वं च तत्तद्वस्त्वनुगुणं शोधनमिति न्यायेन ‘शुद्धं राजहृदयम्’ इत्यादाविव भक्त्या शान्तनिग्रहसंकल्पत्वरूपं विभोः प्रसाद्यत्वमेव तद् भविष्यति। आनन्दसिन्धौ प्राप्ये ऽस्मिन्परविद उपसंक्रान्तिः प्राप्तिरूपा –अनवधिकानन्दनिधौ अत एव स्वयंप्राप्यभूतेऽस्मिन् परमात्मनि ब्रह्मविदः ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्युक्तोपंसक्रान्तिः प्राप्तिरुपा। पूर्वमननुभूतस्वरूपगुणदिव्यस्थआनादिविशिष्टब्रह्मानुभवरूपा देशविशेषणातिरूपा च भविष्यतीति न कापि हानिरित्यर्थः॥
कुमार-वरदः - 60

60.नन्वस्मत्पक्षे भवद्भिरानन्दमयत्वलक्षणं लिङ्गं विरुद्धमिति ह्युक्तम्। अस्माकमेक एवायं विरोधः, भवतां बहवो विरोधाः। आनन्दमयेऽपि ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य ‘इत्यात्मान्तर कथनं विरुध्यते। शारीरत्वकथनमपि शरीरस्य कर्मफलत्वान्न युज्यते। न च घटते शोध्यत्ववादः परस्मिन्ब्रह्मणि अशुद्धिप्रसङ्गाभावात्। श्रूयते ह्यानन्दमयेऽपि ‘अन्नमयप्राणमनोमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्’इति शोध्यत्ववादः।किं च तस्मिन्नेवानन्दमये फलनिर्देशदशायामुपसंक्रमितव्यत्वमुच्यते–तदपि विरुद्धम्।परमात्मनि नित्यमेव वर्तमानस्य जीवस्य कथमपूर्वमुपसंक्रमणमिति।एवं चतुरोऽपि विरोधाननुद्य चतुर्भिरपि पादैरणुक्रमेण समाधत्ते–आत्मेति।इयं किल समाधानप्रक्रिया ‘तसैव….आत्मा’इत्युक्तिरानन्दमये’स्वयं दासास्तस्विनः’इतिवदात्मान्तरनिवृत्यर्थेति को विरोधः?शारीरत्वकथनमपि भगवतः सर्वशरीरकत्वादानन्दमय एव विशेषेणोपपद्यते।शोध्यत्वमपि’विशुद्धमेव राजहृदयम्’इत्यादिवदानन्दमयस्य प्रसाद्यत्वमेव। न पुनः पूर्वशुमद्धस्य कश्चित् शुद्धिविशेषः।लोकेऽपि राजहृदयं विशुद्धमित्यादौ निग्रहनिवृत्तिरेवोच्यते;अनुगुणस्यैवार्थस्य तत्रतत्र स्वीकार्यत्वात् ।आकाङक्क्षासन्निधानवद्योग्यत्वस्यापि वाक्यार्थनिर्णयाङ्गत्वात्।अत्रोपसंक्रमणमेव हि शिष्यते,तदप् संघटते;प्राप्तिरेव ह्युपसंक्रमणमुच्यते।प्राप्तिश्च पूर्वमननुभूतस्य ब्रह्मणः पश्चादनुभवसंभवः। एतदेवाभिधीयते ’ सोऽश्नुते सर्वान् कामान् सह ’ इति। अथवा देशविशेषप्राप्तिरेव ह्यस्माभिर्वक्तुं" शक्यत इति। तदेव ह्युच्यते ‘वैकुण्ठे तु परे लोके ’ इति। अतोऽस्मत्पक्षे न विरोधावकाशः। अत्र पदार्थत्वं स्वयमेव भाव्यम्॥

मूलम् - 60

60.आत्मा तस्यैष एवेत्युदितमनितरात्मत्वमस्यैव वक्तुं
शारीरोक्तिश्च तस्मिन्निखिलतनुतया स्यादसङ्कोचवृत्तिः।
शोध्यत्वन्तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्रं
प्राप्येऽस्मिन्प्राप्तिरूपा परविद उपसंक्रान्तिरानन्दसिन्धौ॥

विश्वास-प्रस्तुतिः - 61
  1. निर्देहेऽस्मिन्निरंशे न हि भवति शिरः पक्षपुच्छादि किञ्चि-
    त्तस्मात्पुच्छं प्रतिष्ठेत्युदितमिह परं ब्रह्म भातीति चेन्न।
    सोढा पुच्छत्वकॢप्तिर्यदि कथमितरन्नानुमन्येत कल्प्यं
    ब्रह्मण्यात्मप्रतिष्ठावचनमनितराधारताख्यापनाय॥
३४-तमाहोबिल-यतिः - 61
  1. निर्देह इत्यादि। निर्देह –देहरहिते। निरंशे –निरवयवे। अस्मिन् –परमात्मनि। शिरःपक्षपुच्छादिकिञ्चित् न भवति हि – ‘तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः।’ इत्यादिभिरुक्तं शिरःपक्षपुच्छादिकं किमपि न भवितुमर्हति हि। निर्भागत्वादेवेत्यर्थः। तस्मात् – हेतोः। इह –प्रकरणे। पुच्छं प्रतिष्ठेत्युदितं परब्रह्मभावि –पुच्छं प्रतिष्ठेत्युक्तं सर्वभूताधिष्ठानतया विश्वप्रतिष्ठारूपं" पुच्छमेव परब्रह्म भवितुमर्हति नत्वानन्दमयरूपम्। इति चेन्न – इति शङ्क्यते चेत् तन्न सम्भवति। पुच्छत्वकॢप्तिं सोढा यदि –निरंशस्य ब्रह्मणः पुच्छत्वकल्पनं भवान् सहिष्यते यदि। इतरदपि कल्प्यं कथं नानुमन्येत – शिरःपक्षआदिरूपमपि श्रुत्युक्तं काल्पनिकतया निरंशब्रह्मस्वरूपदोषानावहं कुतो नाङ्गीकुर्यात्। ब्रह्मणि –एतादृशे आनन्दमयशब्दिते ब्रह्मणि। आत्मप्रतिष्ठावचनम् –‘ब्रह्मपुच्छं प्रतिष्ठा’ इति स्वस्य स्वयमेव प्रतिष्ठेत्यभिधानम्। अनितराधारताख्यापनाय –‘सभगवः कस्मिन्प्रतिष्ठितः। स्वे महिम्नि’ इत्यादिश्रुत्यन्तरोक्तन्यायेन स्वभिन्नाधारराहित्यप्रकाशनायेति न कोऽपि विरोध इति सुसंङगतमेतत्॥
कुमार-वरदः - 61
  1. अत्र पुच्छब्रह्मवादी प्रत्यवतिष्ठते –निर्देह इति। आनन्दमयस्यैव ब्रह्मत्वे तस्य निरंशत्वात् ’ तस्य प्रियमेव शिरः’ इत्यादिना शिरःपक्षादिभेदेन पञ्चप्रकारावयवकॢप्तिर्न घटते। तस्मात् पुच्छं प्रतिष्ठा ’ इत्युक्तं सर्वभूताधिष्ठानतया विश्वप्रतिष्ठारूपं" पुच्छमेव परं ब्रह्म, आनन्दमयस्य ब्रह्मत्वे शिरःपक्षादि क्लृप्ती-नामयोग्यत्वादिति। इमं पक्षं प्रितबन्द्या दूषयितुमुपक्रमते– सोढेति।देशकालपरिच्छेदरहिततया भवद्भिरङ्गीकृतस्य सच्चिदानन्दरूपस्य ब्रह्मणः पुच्छत्वकथनं कथं युज्यते। श्रुतिप्रामाण्यसिद्ध्यर्थमस्माभिः" पुच्छत्वकल्पनं सोढव्यमिति चेत् हन्त तर्ह्यस्माभिरपि आनन्दमये निरंशे प्रियमोदादितत्तद्विभागविवक्षया शिरः" पक्षादिकल्पनं सोढव्यमिति संतोष्टव्यमायुष्मतेत्याह– कथमिति। इतरत्–शिरःपक्षादिकमित्यर्थः। तर्ह्यत्यन्तविरुद्धमेतत्, यदानन्दमयस्य ब्रह्मण एव स्वप्रतिष्ठारूपत्वमिति। तच्च न विद्यते। स्वस्यैव स्वप्रतिष्ठानत्ववचनमनितराधारताख्यापनाय ’ स भगवः कस्मिन्प्रतिष्ठितः" स्वे महिम्नि ’ इति श्रुत्यन्तरप्रकारेण सर्वप्रतिष्ठारूपस्य ब्रह्मणः प्रतिष्ठान्तरनिवृत्तिरेव ह्यत्रोच्यत इति को विरोधः। अत्र पुच्छब्रह्मवादिनां बहून्यपि दूषणानि भाष्य एव व्यक्तमुक्तानीति श्लोकार्थमेव प्रदर्श्य विरमामः॥
मूलम् - 61
  1. निर्देहेऽस्मिन्निरंशे न हि भवति शिरः पक्षपुच्छादि किञ्चि-
    त्तस्मात्पुच्छं प्रतिष्ठेत्युदितमिह परं ब्रह्म भातीति चेन्न।
    सोढा पुच्छत्वकॢप्तिर्यदि कथमितरन्नानुमन्येत कल्प्यं
    ब्रह्मण्यात्मप्रतिष्ठावचनमनितराधारताख्यापनाय॥