विश्वास-प्रस्तुतिः - 54
- आत्मन्येवं परस्मिन्न कृत इति मिते विश्वहेतुत्वलक्ष्ये
शास्त्रैकस्थापनीये निरुपधिपरमप्रेमयोग्ये प्रसक्ते।
ईदृक्त्वं स्याद्यथार्हं प्रकृतिपुरुषयोर्नानुमानाद्ययोग्यौ
दुःखास्पृष्टौ च तावित्यथ परकथनं दोधवीति क्रमेण॥
३४-तमाहोबिल-यतिः - 54
- आत्मन्येवमित्यादि।अकृत इति मते – जिज्ञासाधिकरणविषयवाक्ये ‘नास्त्यकृतः कृतेन’ इत्युक्त्या अकृतः सिद्ध इति चिन्तिते। विश्वहेतुत्वलक्ष्ये – जगत्कारणत्वस्य लक्षणस्य लक्ष्ये आश्रये तेनेतरव्यावृत्ततयाऽवगते। शास्त्रैकस्थापनीये –शास्त्रेणैकेनेवाधिगन्तव्ये। निरवधिपरमप्रेणयोग्ये –अनवधिकातिशयानन्दरूपतया निरवधिपरमप्रेमरूपभक्तेर्योग्ये। परस्मिन्नात्मनि – परमात्मनि। एवम् –व्युत्पत्त्यभावादिनिरसनक्रमेण। प्रसक्ते – विचारणीयत्वेन संसिद्धे सति। ईदृक्त्वम् – पूर्वपेटिकाप्रोक्तमथजातम्। यथार्हम् –प्रकृतिपुरुषस्वभावानुगुण्येन। प्रकृतिपुरुषयोः स्यात् —प्रधानपुरुषयोरेवास्तु। इति परकथनम् –एवं पूर्वपक्षिण उपन्यसनम्। तौ – प्रकृतिपुरुषौ। अनुमानाद्ययोग्यौ न – अनुमानयोग्यत्वेन शास्त्रैकसमधिगम्यौ न भवतः। अयमीक्षत्यधिकरणार्थः। दुःखास्पृष्टौ च न –दुःखास्पष्टो हि ज्ञेयतामर्हति। इमौ तु दुःखसंसंपर्शिनावेवेत्यर्थः। अयमानन्दमयाधिकरणार्थः। इति क्रमेण – एवं सिद्धान्तप्रतिपादनक्रमेण। अथ – ईक्षत्यानन्दमयाधिकरणयोः, यद्वा पादशेषेण। दोधवीति –प्रतिक्षिपति॥
कुमार-वरदः - 54
- अत्र शारीरकशास्त्रारम्भहेतुभूतचतुस्सूत्र्यात्मकप्रथमपेटिकार्थं सामान्यतो विशेषतश्च दर्शयित्वा तदनन्तरं शास्त्रारम्भरूपद्वितीयपेटिकार्थाभिधानेन तयोःस संगतिमप्याह– आत्मन्येवमिति। अत्र खलु चतुरधुकरण्यामात्मा ज्ञातव्य इत्यर्थैक्यम्, अकृत इतिमत इत्यादिकर्मचतुष्टयमधिकरणार्थविभागः; ब्रह्मविशेषप्रतिपादकत्वात् सर्वेषामधिकरणानाम्। अथ द्वितीयपेटिकापूर्वपक्षानुवादमुखेन संगतिरपि दर्शयन् पेटिकाप्रवृत्तिप्रकारमपि विशदं दर्शयति– ईदृक्त्वमिति। पूर्वपोटिकाप्रोक्तमर्थजातं यथार्हं प्रकृतिपुरुषयोरेव स्यादिति परकथनं न तावनुमानाद्ययोग्यौ दुःखास्पृष्टौ चेत्युत्तराभ्यां द्वाभ्यामधिकरणाभ्यां क्रमेण दोधवीतीत्यर्थः। अथवा ईदृक्त्वमित्यारभ्य इतिशब्दपर्यन्तं पूर्वपक्षवाक्यमेव। प्रकृतिपुरुषयोरेव जगत्कारणत्वादिकं प्रमाणासिद्धं" तयोरनुमानाद्ययोग्यत्वं दुःखास्पृष्टत्वं च नास्तीति पूर्वाधिकरणाक्षेपे उत्तरं योग्याभिरुक्तिभिर्दोधवीतीति। अथ –समनन्तरपेटिकया पादशेषेण वा। पूर्वं हि शास्त्रयोन्यधिकरण समन्वयाधिकरणाभ्यां वेदान्तवेद्यस्यार्थस्यानुमानाद्ययोग्यत्वं" दुःखासंस्पृष्टत्वं चोक्तम्, उभयमपि प्रकृतिपुरुषयोरन्यतरस्य वेदान्तवेद्यत्वाङ्गीकारे न संभवतीति पूर्वोक्तावान्तरपेटिकासंगतिरप्यत्रोच्यते। अकृत इति– प्रथमाधिकरणे ‘नास्त्यकृतः कृतेन’ इति विषयवाक्योक्तमकृतत्वं प्रधानार्थ इति दर्शयति। एवं द्वितीयाधिकरणादिष्वपि विश्वहेतुत्वादिकं प्रधानार्थं इत्यनुक्रमेण मन्तव्यम्। तत्र हि वेदान्तवाक्यानां ब्रह्मण्ययोदव्यवच्छेदपरे प्रथमपादे प्रकृत्याद्यन्ययोगव्यवच्छेदकथनमयोगव्यवच्छेदशेषत्वेन नपुनः प्राधान्येनेति समाधानात् ईक्षत्यधिकरणादीनामसंगतिरनाशङ्कनीया। अयं किल पेटिकाविभागः – प्रथमपादे शास्त्रारम्भार्था चतुरधिकरणी तावदेका। तत्र द्वयोरवान्तरपेटिकात्वम्। पुंनरीक्षत्याधिकरण आनन्दमयाधिकरणयो -रेकपेटिकात्वमुच्यते। अतः परं पञ्चानामप्यधिकरणानां" प्रकृतिपुरुषविशेषत्वात्एकपेटिकात्वं प्रतिपद्यते। अथवा ईक्षत्यधिकरणादीनि त्रीण्येका पेटिका सदात्मपुरुषरूपसामान्यश्रुत्या समुत्थितस्य पूर्वपक्षिण ईक्षत्यादि विशेषलिङ्गेन प्रतिक्षेपस्य तुल्यत्वात्। श्रुतिलिङ्गयोर्हि सामान्यश्रुत्यपेक्षया विशेषलिङ्गं प्रबलमिति तान्त्रिकाः। ततः परमाकाशप्राणज्योतिरादिविशेषश्रुत्या समुत्थितस्य पूर्वपक्षिणो न्यायानुकूलयौगिकश्रुत्यर्थाङ्गीकारेणाकाशप्राणाधिकरणाभ्यां" तावन्निराकरणं क्रियते। आकाशप्राणशब्दयोस्तु यौगिकार्थावेवाङ्गीक्रियेते। नतु रूढिर्योगमपहरति। क्लृप्तो योगः कल्प्यांरूढिं बाधत इतिन्यायेन बाध्यते। तेनाकाशप्राणाधिकरणयोः सिद्धमवान्तरपेटिकात्वम्। ज्योतिरधिकरणेन्द्रप्राणाधिकरणयोस्तु रूढिभङ्गं विहाय तत्तद्रूढार्थविशिष्टपरमात्मपरत्वमुच्यत इति तयोरपि पेटिकान्तरत्वं सिद्धम्। अत्र चतुःसूत्र्यां सम्यगर्थावबोधनाय प्रमेयसंग्रहपरिश्रमशालिभिर्भवितव्यम्। अवलोकनीया च नियतमाचार्यकृता शतदूषणी॥
मूलम् - 54
- आत्मन्येवं परस्मिन्न कृत इति मिते विश्वहेतुत्वलक्ष्ये
शास्त्रैकस्थापनीये निरुपधिपरमप्रेमयोग्ये प्रसक्ते।
ईदृक्त्वं स्याद्यथार्हं प्रकृतिपुरुषयोर्नानुमानाद्ययोग्यौ
दुःखास्पृष्टौ च तावित्यथ परकथनं दोधवीति क्रमेण॥
विश्वास-प्रस्तुतिः - 55
- गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं
दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तम् ।
सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं
श्रुत्याऽन्येषां निरोधात्त्वदभिमततिरस्कारिलिङ्गादिभिश्च ॥
३४-तमाहोबिल-यतिः - 55
- गौणेक्षेत्यादि। गौणेक्षासाहचर्यात् –सद्विद्यायां ‘तत्तेज ऐक्षत, ता आप ऐक्षन्त ’ इत्यीदिगौणेक्षासाहचर्यात्। सति – सच्छब्दार्थभूते वस्तुनि। बहुभवनप्रेक्षणं मुख्यं नैव – ‘तदैक्षत बहु स्यां प्रजायेय’ इति बहुभवनानुकूलं पर्यालोचनं मुख्यं नैव भवति अपितु ‘वृष्टिप्रतीक्षाः" शालयः’ ‘कूलं पिपतिषति’ ‘वर्षेण बीजं प्रतिसंजहर्ष’ इत्यादिषु वृष्टिप्रतीक्षादीनां वृष्टिसापेक्षम्लानत्वाद्यवस्थादिरूपत्वेन गौणत्ववदिहापि सृष्ट्यौन्मुख्यादिरूपगौणार्थरूपं भवति। किं च इह - सद्विद्योपक्रमे। दृष्टान्ताद्यैः –‘यथा सोम्यैकेन मृत्पिण्डेन’ इत्यादिनिदर्शितदृष्टान्तप्रभृतिभिः। अचितोऽनुमितिराभाति – साङ्ख्योक्तप्रधानानुमितिरियमिति न्यायविदां" प्रतिभाति। तादृशाजन्म युक्तम् –अचेतनरूपकार्यस्याचेतनादेव जन्म युक्तम्। तेन – उक्तोपपादनेन। सच्छब्दः –‘सदेव सोम्येदमग्र आसीत्’ इत्यत्र सच्छब्दः। अविकृतिं मूलप्रकृतिं" व्याहरेत् –विकाररहिततया सच्छब्दार्थतायोग्यां मूलप्रकृतिमभिदध्यात्। इत्ययुक्तम् –इत्याशङ्कनमयुक्तम्। श्रुत्या –‘स आत्मा’ इत्यादिषु चेतनैकान्तात्मशब्दश्रुत्या। अन्येषाम् – प्रकृत्यादीनाम्।निरोधात् – सच्छब्दार्थतानिरसनात्। त्वदभिमततिरस्कारिलिङ्गादिभिश्च – त्वदभिमत प्रकृतिकारणत्वतिरस्कारकेक्षणादिलिङ्ग वाक्यप्रकरणैरपि निरोधादित्यन्वयः॥
कुमार-वरदः - 55
- पूर्वं परमात्मनो वेदान्तवेद्यत्वमुक्तम्। इदानीं प्रकृत्यादीनां तदेव वेदान्तवेद्यत््वं न संभवतीत्युच्यते।तत्रापि सांख्यादिशास्त्रोक्तप्रकृतिपुरुषयोः" प्रकृतेर्विश्वाकारेण परिणतायाः सर्वलोकप्रसिद्धत्वात् तदपेक्षया पुरुषस्य सूक्ष्यत्वात् सैव प्रथमं निराक्रियत इति संगतिः। अथवा पूर्वाधिकरणे वेदान्तवेद्यस्य वस्तुनः पुरुषार्थरूपत्वमुक्तम्, तन्न घटते अपुरुषार्थरूपायाः प्रकृतेरेव कारणत्वादिति। एवं वा सर्वेषामपि वेदान्तवाक्यानां प्रकृतिपुरुषोत्तीर्णब्रह्मपरत्वमुक्तं पूर्वाधिकरणे, सर्ववेदान्तसारभूता सद्विद्या तावत् प्रकृतिमेवाचष्टे।किमन्यैर्वाक्याभासैरिति।एवं" संभावितं संगत्यन्तरमपि वाच्यम्। विषयस्तु परमेव ब्रह्म, पुर्वं शास्त्रारम्भ इति ततो विभागः। संशयः पुनः किं प्रकृतिविलक्षणं" ब्रह्म सद्विद्यावेद्यम्, उत प्रकृतिरिति। संशयोत्थानकारणं तु सदितिसामान्यश्रुतिः। सर्वभाववाचकस्य सच्छब्दस्य प्रकृतिपुरुषेश्वरसाधारणत्वात्। तदर्थविचारस्तु– सच्छब्दः किं परमात्मपरः, उत प्रकृतिपरः। प्रकृतिपरत्वे ‘तदैक्षत’ इत्यक्तमीक्षणं न घटते, उत घटत इति। तदर्थं पुनर्विचार्यते-इदञ्चेक्षणं मुख्यमुत गौणमिति। पुनश्च विचार्यते-अत्र गौणेक्षणसाहचर्यं नास्ति उतास्त्येवेति। तत्रापि विचार्यते- ‘तत्तेज ऐक्षत’ इत्यादिकं तेजः प्रभृतीक्षणं मुख्य्मुतामुख्य्मिति। अतोऽपि विचार्यते–किं मुख्यत्वानुरूपा हेतवो ऽनुरोद्धव्याः, उतामुख्यत्वानुरूपा हेत्वोऽपीत्यादि। फलफलिभास्तु अमुख्यत्वानुरुपाणां" बहूनामपि युक्तीनामत्र विद्यमानत्वात् ‘तत्तेज ऐक्षत’ इत्यत्रेक्षेणस्य गौणत्वात् गौणेक्षा -साहचार्यस्य चात्र विद्यमानत्वेन सदीक्षणस्यापि गौणत्वात् अत्रोक्तमीक्षणं प्रकृतिपरत्वेऽपि संघटत इति सांख्याद्युक्तं प्रधानमेवात्र सच्छब्दः प्रतिपादयतीति पूर्वपक्षे। सिद्धान्ते फलफलीभावस्तु वैपरीत्येन। उक्तमर्थमनुक्रमेणाचष्टे–गौणेक्षासाहचर्यादिति। बहुभवनप्रेक्षणं नैव मुख्यमिति–इत्थं" किल पूर्वपक्षी मन्यते ईक्षणगुणयोगात् प्रकृतिकारणत्वं निराक्रियते ब्रह्मवादिभिः, तच्चेक्षणं गौणम्, कूलं पिपतिषति, वृष्टिप्रीतक्षत्राः" शालय इत्यादिवत् चेतनधर्मस्याचेतनेऽपि योजयितुं शक्यत्वात् , अत्र गौणत्वे निदानं ‘तत्तेज ऐक्षत’ इत्यादिगौणेक्षणमाह– चर्यमेव। किं च मृत्तत्कार्यदृष्टान्तादेवेदानां परिणामादित्यादिसांख्योक्तं प्रधानानुमानमेव प्रतिभातीत्याह– दृष्टान्ताद्यैरिति। नच श्रुतिप्रतिभावनामात्रमेव, युक्तियुक्तमपीदमित्याह–तादृशादिति। अचेतनरूपकार्यस्याचेतनादेव जन्मयुक्तम्। ननु सविकारे प्रधाने कथं सच्छब्दः स्यादित्याशङ्क्याह–सदिति। महदादीनां विकाराणां क्वाचित्कत्वेन सच्छब्दवाच्यत्वं मा भूत्, अविकृतिरूपायाः- प्रकृतेर्नित्यसिद्धत्वेन सच्छब्दवाच्यत्वं भवेदिति पूर्वपक्षे राद्धान्तमाह– अयुक्तमिति। श्रुत्या-चेतनासाधारणात्मशब्दादिश्रुत्या। प्रकृत्यादीनां निरोधात्। न केवलं श्रुत्या, अपितु त्वदभिमत प्रकृतिकारणत्व तिरस्कारकेक्षणादिलिङ्गवाक्यप्रकरणैरप्ययमेवार्थ इति निश्चीयत इत्याह– त्वदभिमतेति॥
मूलम् - 55
- गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं
दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तम् ।
सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं
श्रुत्याऽन्येषां निरोधात्त्वदभिमततिरस्कारिलिङ्गादिभिश्च ॥
विश्वास-प्रस्तुतिः - 56
- ज्ञाते ह्येकत्र सर्वं विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा
मृत्तत्कार्यादयश्च त्रय इह कथितास्तस्य दृष्टान्तभेदाः।
तेनाव्याक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्ते-
स्सारूप्यादेश्च हेतोरुपरि परिहृतेरत्र संभावनोक्तेः॥
३४-तमाहोबिल-यतिः - 56
- ज्ञाते ह्येकत्रेति। एकत्र ज्ञाते सर्वं विदितं भवतीति प्रतिज्ञा ऐक्यसिद्ध्यै हि भवति – ‘येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ इत्यादिवाक्ये एकस्मिन् सद्वस्तुनि ज्ञाते सर्वं वस्तु विज्ञातं भवतीति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाकार्यकारणयोरैक्यसिद्ध्यै हि प्रतिपादिता भवति। इदं चैक्यं प्रधान एव संभवतीत्यर्थः। तस्य —एकविज्ञानेन सर्वविज्ञानस्य। मृत्तत्कार्यादयश्च त्रयो दृष्टान्तभेदा इह कथिताः —- ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्, यथा सोम्यैकेन लोहमणिना, यथा सोम्यैकेन नखनिकृन्तनेन’ इत्यादवाक्यत्रयेण मृत्तत्कार्यनिखिलमृन्मय सुवर्णपिण्डविशेषात्मकलोहमणितत्कार्यनिखिलकटककुटाद्याभरण कृष्णायसपिण्डात्मक नखनिकृतन्तकार्यभूतसिवास्यादिसर्वकाष्णार्यासरूपाश्च त्रयो निदर्शनविशेषाः प्रतिपादिताः। तेन –अनुमानवेषापेक्षितप्रतिज्ञादृष्टान्तोपादानेन। अव्यक्तानुमानं कथितम् — मूलप्रकृतेः साङ्ख्योक्तमनुमानमेवात्रत्यवाक्यरूपमिति। इति वृथोत्कण्ठितम् – इति चिन्तनं वृथा मनोकथ एव। कुत इत्यत्रोच्यते –हेत्वनुक्तेः। अनुमानप्रधानाङ्गभूतहेतूपादानस्यात्रदर्शनात्। कार्यकारणयोः सारूप्यं प्रतीयमानं हेतुर्भविष्यतीत्यत्राह –सारूप्यादेहेतोश्च उपरि परिहृतेः । यत् सरूपं तत् परस्परं कार्यकारणभावभाक् यथा मृद्घटादीत्याद्यनुमानहेतुभूतकार्यकारणसारूप्यरूपहेतोश्च द्वितीयाध्यायद्वितीयपादे परिहरिष्यमाणत्वात्। तर्ह्यत्र तत्र चेति पौनरुक्त्यमित्यत्राह –अत्र संभावनोक्तेः" । उत्तरत्रैव प्रधानकारणत्वनिश्चायकहेतुसर्वस्वनिराकरणम्। अत्र तु प्रधानकारणत्वानुमानसंभावनामात्रस्य परिहारात्। अत्र संभावनोक्तेरित्यत्रापि परिहृतेरित्यनुषङ्गः। पञ्चम्यन्तानां वृथोत्कण्डितमित्यनेनान्वयः॥
कुमार-वरदः - 56
56.अत्र सांख्योक्तानुमानिकप्रक्रियाप्रत्यभिज्ञानमाशङ्क्य निराकरोति–ज्ञात इति।अत्रैवं किल पूर्वपक्षी मन्यते एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा तावत् दृश्यते ‘येनाश्रुतं श्रुतम्’ इत्यादिना।न केवलं प्रतिज्ञामात्रं, दृष्टानोऽप्यस्तीत्याह–मृत्तदिति।आदिशव्दात् श्रुत्युक्तो नखनिकृन्तनादिर्गृह्यते।एवमनुमानप्रधानभुतयोः प्रतिज्ञादृष्टान्तयोरुपपादनेनेदंवाक्यंसांख्योक्तानुमानामुवादकमेवस्यादित्याह-त्येनेति।निराकरोति–वृथेति।तत्र हेतुमाह–हेत्वनुक्तेरिति।अनुमानावयवेष्वत्यन्तप्रधानभूतहेत्वनुक्तेः। सन्ति सारूप्यादयो हेतवः सांख्यानामिति चेत् तन्न; तेषामुत्तरत्र सांख्याधिकरणे निराकरणादित्याह– सारूप्यादेरिति। ननु तत्रचात्र च निराकरणे पौनरुक्त्यमित्याशङ्क्याह– अत्रेति।उत्तरत्र प्रधानकारणत्वनिश्चायकहेतवो निश्शेषमुन्मूलयिष्यते। अत्र प्रधानकारणत्वानुमानसंभावनामात्रं निराक्रियत इति न पौनरुक्त्यावकाशः॥
मूलम् - 56
- ज्ञाते ह्येकत्र सर्वं विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा
मृत्तत्कार्यादयश्च त्रय इह कथितास्तस्य दृष्टान्तभेदाः।
तेनाव्याक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्ते-
स्सारूप्यादेश्च हेतोरुपरि परिहृतेरत्र संभावनोक्तेः॥
विश्वास-प्रस्तुतिः - 57
57.आदेशात्मस्वशब्दैरनियतशरणैस्त्वन्तदैक्योपदेशा-
ज्जीवेन स्वेन साहंकरणमनहमोऽचिद्गणस्य प्रवेशात्।
एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा
शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः॥
३४-तमाहोबिल-यतिः - 57
- आदेशेत्यादि। अनितरशरणैः –अनन्यथासिद्धैः। आदेशात्मस्वशब्दैः —‘उत तमादेशमप्राक्ष्यः’इत्यत्र प्रयुक्तेननियन्तृत्वरूपागदेष्टृत्वपरेणादेशशब्देन, ‘स आत्मा’ इत्यत्र प्रयुक्तेन शरीरप्रतिसंबन्धिचेतनपरेणात्मशब्देन सुषुप्तिप्रसङ्गे ‘स्वमपीतो भवति’ इति प्रयुक्तेन स्वप्त्रन्तर्यामिभूतसुषुप्तिस्थानभूतपरमात्मपरतयैव लब्धसार्थक्येन स्वशब्देन च। द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकं सम्बन्धात् आदेशशब्दश्चात्मशब्दश्च स्वशब्दश्चादेशात्मस्वशब्दास्तैरादेशात्मशब्दैः। त्वन्तदैक्योपदेशात् —‘तत्त्वमसि’ इत्यत्र त्वम्पदार्थस्य जीवस्य तत्पदार्थेन परमात्मना, ऐक्यमभेदस्तस्योपदेशस्तस्मात्। स्वेन जीवेन साहङ्करणमनहमोऽचिद्गणस्य प्रवेशात्। स्वेन – स्वात्मकेन। जीवेन – जीवात्मना। प्रवेशक्रियाकर्तृभूतस्यापि जीवस्य साधकतमत्वविवक्षया करणत्वमभिप्रेत्य तृतीया। साहङ्करणम् – ‘अनेन जीवेनात्मनानुप्रविश्यनामरूपे व्याकरवाणि’ इत्युत्तमपुरुषसिद्धाहंशब्दोल्लेखपूर्वकम्। अनहमः – अहमर्थव्यतिरिक्तस्य। अचिद्गणस्य –महदादिसृज्यवर्गस्य। प्रवेशात् –प्रवेशवचनात्। एकज्ञानेन सर्वं विदितमिति गिरा —कारणभूतैकसत्पदार्थविज्ञानेन तद्व्यतिरिक्तं सर्वं चेतनाचेतननरूपं कार्यजातं विदितं भवतीत्येतदर्थकेन ‘येनाश्रुतं श्रुतं भवत्यमतं मतम्’ इत्यादिश्रुतिवाक्येन। सर्वतादात्म्यवाचा – ‘ऐतदात्म्यमिदं सर्वम्’ इति श्रुत्या सर्वशब्दार्थान्तर्गतस्य चेतनस्याप्येतच्छब्दार्थभूतसत्तादात्म्यप्रतिपादनेन। प्रधानस्य सत्पदार्थत्वे चेतनस्य सत्तादात्म्यमनुपपन्नं भवेदिति भावः। सिद्धान्ते तु सूक्ष्मचेतनाचेतनशरीरकस्यैव परमात्मनःसत्पदार्थत्वात् तत्तादात्म्यं ‘इदं सर्वम्’ इति निर्दिष्टस्य सचेतनस्य जगतः सुतरामुपपद्यते। प्रधानस्य चेतनाचेतनशरीरित्वमसंभावितमिति न परपक्षे निरुक्तोपपत्तिलाभः। शाखाविद्यान्तरागेरपि अन्या शाखा शाखान्तरम्। अन्या विद्या –विद्यान्तरम्। आदिशब्देन स्मृतिपुराणादिसंग्रहः। सुस्पष्टतया ब्रह्मकारणत्वं वदद्भिः ‘ब्रह्मविदाप्नोति परम्। सत्यं ज्ञानमनन्तंब्रह्म, सोऽकामयत बहुस्यां प्रजायेयेेति, तदात्मानं" स्वयमकुरुत’ ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः। उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते’ ‘विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम्। स्थितिसंयमकर्ताऽसौ जहतोऽस्य जगच्च सः॥’ इत्यादिरूपैः शाखान्तरविद्यन्तरस्मृतिपुराणादिवचनैश्चेत्यर्थः। उक्तैर्हेतुभिः। विश्ववित् – जगन्निमित्तकारणत्वोपयुक्तं ‘यः सर्वज्ञः सर्ववित्’ इत्यादिश्रुतिसिद्धं सर्वज्ञत्वादकल्याणगुणजातं वहन्। विश्वमूर्तिः –जगदुपादानत्वोपयुक्तसर्वशरीरकत्वविशिष्टः" परमात्मैव। बहुभविता –‘बहुस्याम्’ इति सङ्कल्पपूर्वकं चेतनाचेतनात्मकनिखिलजग्द्रूपेण बहुभवनशाली, नान्यदित्यर्थः॥
कुमार-वरदः - 57
- एवं प्रतिपक्षप्रक्रियां निरस्य स्वपक्षानुकूलान् विषयवाक्यार्थान् हेतून् संगृह्णाति– आदेशेति। ‘उत तमादेशमप्राक्ष्यः’ इत्युपक्रमे तावदादेशशब्देन सच्छब्दवाच्यं ब्रह्म निर्दिश्यते। आदेशशब्दो ऽप्यादेष्टारमेवाह। आदेष्टृत्वं पुनर्नियन्तृत्वमेव। नच तत् प्रधानपक्षे संभवति तस्याचेतनत्वात्। आत्मशब्दोऽप्यत्र श्रूयते `स आत्मा’ सतु चेतनस्यैवासाधरणः। तत्र सुषुप्तिप्रसङ्गे ‘स्वमपीतो भवति’ इति सुषुप्तिस्थानं परमात्मा स्वशब्देन निर्दिश्यते। अन्तर्यामित्वात् परमात्मैव स्वशब्देन निर्देशार्हः। न पुनः प्रधानम्। तस्य सुषुप्तं प्रत्यनन्तर्यामित्वात्। अनितरशरणैः–अनन्यथआसिद्धैरित्यर्थः। एते हि शब्दाः परमात्मविषयत्वे मुख्याः ,प्रधानविषयत्वे पुनर्जघन्यवृत्तय– इत्यर्थः। हेत्वन्तरमप्याह–त्वमिति।तच्छब्दवाच्येन सह त्वंशब्दस्य जीवस्यैक्यमत्र व्यपदिश्यते। यदि तच्छब्दः प्रधानपरः, तदानीमतत्वोपदेश एवायं स्यात्; चेतनाचेतनयोरैक्योपदेशस्य देहात्मोपदेशवत् भ्रान्तिहेतुत्वात्। अत्र साधकान्तरमाह–जीवेनेति। स्वेन – स्वात्मकेनेत्यर्थः। ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ’ इत्युत्तमपुरुषसिद्धाहङ्कारपूर्वकमहमर्थव्यतिरिक्ताचिद्गणस्य प्रवेशात्,अत्र जीवशरीरकः परमात्मा जीवद्वारा जीवव्यतिरिक्तमचेतनजातं प्रविशतीत्यर्थः। तेन प्रवेष्टव्यस्याचिद्वस्तुनः साहङ्करणमहङ्कारसहितं प्रवेष्टृत्वं न योयुज्यत इत्युक्तं" भवति। किं च ‘येनाश्रुतं श्रुतं भवति’ इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा दृश्यते। सा पुनरीश्वरकारणत्व एव घटते नपुनः प्रधानकारणत्वे,प्रधानस्य चेतनं प्रत्यकारणत्वादित्याह–एकेति।हेत्वन्तरमप्याह–सर्वेति।‘ऐतदात्म्यमिदं सर्वम्’इति हि श्रुयते,प्रधानस्य क्रणत्वे कथं तत्तादात्म्यं सर्वशब्दान्तर्गस्य जीवस्य वक्तुं शक्यत इत्यर्थः।न केवलं छान्दोग्यश्रपत्यैव ब्रह्मकारणत्वं प्रतीयते,अपितु श्रुत्यन्तरेणापि।छान्दोग्येऽपि न केकलं सद्विद्यावाक्येन,किं तु दहरव्द्याभुमविद्यादेरेपि।अत्र आदिशब्देन उपबृंहणस्मृतिपुराणादिकं गृह्यते।अत्र विश्वविदिति नमित्तत्वोपयुक्तं सार्वज्ञ्यं गृह्यते।विश्वमुर्तिरित्युपादानत्वोपयुक्तं" सर्वशरीरत्वं गृह्यत इति विभागः।अत्र पुपक्षसिद्धान्तोपन्यासप्रंकियाविभागः श्रीमतिभाष्ये न्यायसुदर्शनादौ च द्रष्टव्यः।अत्र चोपक्रमोपसंहारमहावाक्योपपत्तिः श्रुत्यन्तरविद्यान्तरादिप्राकाशनपरानां सुत्राणामनुक्रमोऽपि तत्रैवानुसन्धेयः॥
मूलम् - 57
57.आदेशात्मस्वशब्दैरनियतशरणैस्त्वन्तदैक्योपदेशा-
ज्जीवेन स्वेन साहंकरणमनहमोऽचिद्गणस्य प्रवेशात्।
एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा
शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः॥