विश्वास-प्रस्तुतिः - 46
- कर्तव्ये ह्यर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात्
प्रीत्या साफल्यक्लृप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम्।
विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावी-
त्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह॥
३४-तमाहोबिल-यतिः - 46
- कर्तव्ये हृर्थ इत्यादि। कर्तव्येऽर्थे उक्ते हि निशमयितृफलम् – स्वर्गकामो यजेत इत्यादिरीत्या पुरूषप्रवृत्तिसाध्येऽर्थे प्रतिपादिते सति हि श्रोतुः फलं न स्यात्। सिद्धरूपे तु न स्यात् – अष्टौ काकदन्ताः सन्तीत्यादिरीत्या सिद्धरूपेऽर्थे प्रतिपादिते श्रोतुः फलं न स्यात्। प्रीत्या साफल्यक्लृप्तौ – सिद्धपरत्वेऽपि तव गृहे निधिस्ति पिता ते सुखमास्त इत्यादिण्विव तादात्विकप्रीत्युत्पतिमात्रेण सफलत्वसम्पादने। तदर्थम् — प्रीत्यर्थमुच्यामानम्। वितथमपि वचः अयथार्थभूतं विप्रलम्भकवाक्यमपि।न द्दष्टं किम् तथा च तन्नार्थसद्भावे प्रमाणं भवितुमर्हतीति भावः। विद्यार्थत्वे —- स्वातन्त्र्येण ‘सत्यं ज्ञानम्’ इत्यादिभिर्ब्रह्मप्रतिपत्तौ किलापादिता दोषाः। न वयं तथा वदामः। अपि तु ‘परप्राप्तिकामो ब्रह्म विद्यात्’ इति विधिशेषत्वेनैव ध्येयस्वरूपप्रतिपत्तिहेतुभूतानां सत्यादिवाक्यानां प्रामाण्यमितिचेत्। अन्यद्दष्टेर्विषयवदनृतम् — मनो ब्रहोत्युपासीत इत्यादाविव अन्यस्मिन्नन्य तया या दृष्टि र्मनसि ब्रह्यत्वेन दृष्टि र्नाम्नि ब्रह्ये दृष्टि र्गवि परमात्मतया दृष्टिरित्यादिः। तस्यां विषयभूतमारोण्यमाणं वस्त्विवानृतं मिथ्याभूतं भवेत्ष। नपुनर्वास्तवं सिध्येत्। तत् – तस्मात्। परिक्ष्यं" न भावि निरूक्तसत्यज्ञानाधुपनिषदर्थभुतं वस्तु विचारणीयं न भविण्यति। तद्विचारात्मकमिदं शास्त्रमनारम्भणीयं स्यात्। इत्याक्षेपे – एवमाशाङ्किते सति। निखधिकसुखे – अनवघिसुखात्मके ब्रहाणि। अनन्यशेषम् – विधिवाक्यशेषत्वमनापन्नं स्वतान्त्र्येणैव प्रवृत्तम्। शास्त्रतात्पर्यम् – शास्त्रस्य उपनिषदात्मकस्य तात्पर्यं बोधक्वेन पर्यवसानम्। आह – ततु समन्वयादिति प्रतिपादयामास॥
कुमार-वरदः - 46
- एवं सिद्धपराणां वेदान्तवाक्यानामप्राप्तत्वलक्षणं तात्पर्यलिङ्गं प्रसाध्य साफल्यलक्षणं तात्पर्यलिङ्गं समन्वयाधिकरणेन साध्यते इति संगतिः। अथवा शास्त्रयोन्यधिकरणे तार्किका निरस्ताः अधुना तान्त्रिकाः निरस्यन्त इति। एवं वा पूर्वं निमित्तमात्रेश्वरवादिनो निरस्ता इदानीं निरीश्वरवादिन इति। विषयस्तु शास्त्ररम्भ एव प्रधानः। अवान्तरविषयः पुनः– अशेषमपि वेदान्तवाक्यजातम्, संशयकारणं" वैदिकानामवैदिकानां प्रामाण्याप्रमाण्यसाधारण्यम्। तदर्थविचारस्तु – वेदान्तशास्त्रमारम्भणीयमनारम्भणीयं वेति। तदर्थं विचार्यते– सिद्धे ब्रह्मणि वेदान्तवाक्यानां स्वातन्त्रेण विधिशेषत्वेनापि वा प्रामाण्यं संभवति न वेति। स्वातन्त्र्यपक्षे तात्पर्यलिङ्गमस्ति न वेति। तदर्थं विचार्यते– वेदान्तानां ब्रह्मप्रतिपादने सप्रयोजनत्वमस्ति न वेति। तच्च प्रयोजनवत्त्वं वाक्यानां स्वरूपप्रतिपत्त्या स्वादार्थत्वमात्रेण उक्त कार्यरूपप्रयोजनपरत्वेनेति। स्वादार्थत्वे पुनरर्थमिथ्यात्वेऽपि प्रयोजनपरत्वमस्ति न वेति। फलफलिभावस्तु –स्वादार्थत्वेऽमिथ्यात्वेऽपि प्रयोजनसिद्धेर्ब्रह्मयाथात्म्याभावात् प्रवृत्तिनिवृत्तिप्रयोजनपरत्वेऽपि वाक्यस्यान्यपरत्वेन परब्रह्मयाथात्म्याभावस्याविशिष्टत्वात् निष्प्रयोजनत्वेन तात्पर्यलिङ्गाभावादर्थसद्भावे स्वातन्त्र्येण पारतन्त्र्येण वा वाक्यप्रामाण्याभावाद् वेदान्तशआस्त्रमनारम्भणीयमिति पूर्वपक्षे। सिद्धान्ते वैपरीत्येन वर्णनीयः। शेषं सुगमम्। अत्र पूर्वपक्षमाह–कर्तव्य इति। ‘स्वर्गकामो यजेत’ इत्यादौ कर्तव्यार्थे प्रतिपादिते श्रोतुः फलं स्यात्।नपुनरष्टौ काकदन्ता इत्यादौ सिद्धरूपप्रतिपादने।इयं हि लोकमर्यादा। इयमेव मर्यादा वेदेऽप्यङ्गीकार्या य एव लौकिकास्त एव वैदिका इतिन्यायत्। तेनोपनिषदामूषरप्रायत्वेमेव। प्रथमाधिकरणेऽप्युक्तमिहाप्युच्यत इति पौनरुक्त्यम्; न पुनरुक्तिः – तत्र पदार्थप्रतिपत्तिर्न संभवतीति पूर्वपक्षः, अत्र पुनर्वाक्यार्थप्रतिपत्त्यनुपपत्तिकथनेनेति विभागः। विभागान्तरमपि– तत्र केवलं" नियोगवाक्यार्थवादिनो निरस्ताः।अत्र पुनर्भावनावाक्यार्थवादिनश्चेति विशेषः। ननु सिद्धरूपत्वेऽपि तव गृहे निधिरस्ति पिता ते सुखमास्त इत्यादि तादात्विकप्रीत्युत्पत्तिमात्रेण साफल्यं स्यात्, अर्थाभावेऽपि पिता ते सुखमास्त इत्यादि विप्रलम्भकवाक्यमपि प्रीतिमातनोति, तथा च वेदान्तवाक्यानां ‘आनन्दो ब्रह्म’ इति वाक्यमनर्थकमेव प्रीतिमातनोतीति मिथ्याभूततदर्थविचारात्मकं शारीरकशास्त्रं" कथमिवारभ्येत? तर्हि स्वातन्त्रेण माभूत्प्रामाण्यम्, ’ परप्राप्तिकामो ब्रह्म विद्यात्’ इति विद्याविधिशेषत्वेन स्वरूपप्रतिपत्तिहेतुभूतानां सत्यज्ञानादिवाक्यानां प्रामाण्यमस्तीति चेत् तत्रोत्तरमाह– विद्येति ।अन्यदृष्टिः- गरुडमात्मानं जानीयादित्यादिदृष्टिः । तदर्थो मिथ्या।एवं ‘ब्रह्म विद्यात्’ इत्यत्रापि फलार्थं विद्याविधावेव तात्पर्यम्। न पुनः सिद्धे ब्रह्मणि। तथा च तात्पर्यविषयभूतवेद्यब्रह्मपरिशोधनात्मकं सत्यज्ञानादिवाक्यमप्रमाणमिति तदर्थविचारात्मकं शास्त्रमनारम्भणीयम्। एवं पूर्वपक्षमवनूद्य सिद्धान्तमारभते– अनन्येति। अयमभिप्रायः– विधिशेषत्वपक्षस्तु भाष्यादावेवादि। स्वातन्त्र्यपक्ष एव साक्षात्सिद्धान्तः। तस्यैव बहुन्यायसिद्धत्वादिति॥46॥
मूलम् - 46
- कर्तव्ये ह्यर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात्
प्रीत्या साफल्यक्लृप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम्।
विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावी-
त्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह॥
विश्वास-प्रस्तुतिः - 47
- तात्पर्यं ब्रह्मतत्त्वेऽप्यविहिवीधिनाऽप्येकवाक्यत्वपक्षे
भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम्।
स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगा-
द्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद््ध्यैव हर्षः॥
३४-तमाहोबिल-यतिः - 47
- तात्पर्यमित्यादि।विधिना, एकावाक्यत्वपक्षेऽपि – सत्यादिवाक्यानां वेदनाविध्यपेक्षितध्येयस्वरूपसमर्पणपरत्वेन तदेकवाक्यत्वपक्षेऽपि। ब्रह्यतत्वेऽपि — ब्रह्यस्वरूपेऽपि। अविहति – ईत्वर्थ विशेषणम्। अविरूद्धत्वात्। तात्पर्यम् – बोधकतया पर्यवसानम्। अस्त्येवेति शेषः। भेदेऽपि भिन्नवाक्यत्वेऽपि। स्वादसिद्धेः – प्रतिसिद्धेः। नैरर्थक्याभावादिति चिन्तामणिः। बलिभुगदनत संरव्योक्तिसाम्यं" न भवति – अष्टौ काकदन्ताः सन्तीत्यादिकाकदन्तसंरव्यावचनतुल्यत्वं न भवति।स्वादार्थत्वं मृषात्वक्षममिति न –प्रीत्यर्थं वचनं" मिथ्याभूतमपि भवेदिति शङ्कनं न युक्तम्। मृषेत्यूहने प्रीत्ययोगात् –तस्य वचनस्य मिथ्यात्वप्रतिपत्तौ स्त्यां प्रीत्युत्पत्तेरसंभवात्। बालोपच्छन्दनादिँण्वपि –बालोपलालनार्थेण्वपि कषायं पिन फलं दास्यामीत्यादिरूपेषु। विषयसत्यत्वज्ञानेनैव बालस्य हर्षे भवति। अन्यथा हर्षोन भवत्येव॥
कुमार-वरदः - 47
- एवं विवक्षितं विधिशेषत्वपक्षमङ्गीकृत्य स्वातन्त्र्यपक्षेण सामाधानमुक्तम्।इदानीं विधिशेषत्वपक्षेऽपि नास्माकं कश्चिद्दोष इत्युभयपक्षाङ्गीकारेण स्वाभीष्टमर्थं समर्थयते– तात्पर्यमिति।द्विविधं" खल्वर्थवादप्रमितम्–विध्यपेक्षितमविहमित्येकमनपेक्षितं विहतमित्यपरम्। तत्र पूर्वमङ्गीक्रियते तान्त्रिकैः। यथा दुःखासंभिन्नदेशविशेषादि। तद्वद् ब्रह्मणि विहत्यभावाद् विधिशेषत्वेन प्रामाण्यमस्त्येव। विहतपक्षस्त्वत्राङ्गीकारेणैव निरस्तः। अनपेक्षितत्वं पुनरत्र नास्तीत्याह– न भवतीति। तत्र हेतुः–स्वादसिद्धे नैरर्थक्याभवादित्यर्थः। उत्तरपक्षेऽप्युद्धाटितामनुपपत्तिं परिहरति– स्वादार्थत्वमित्यादिना। तत्र हेतुमाह– मृषेति अयमर्थः तव गृहे निधिरस्ति , पिता ते सुखमास्ते इत्यादिवाक्यं मृषार्थमिति यदिप्रतिपद्येत, तदा कथमिव तस्य प्रीतिरुत्पद्यते। अस्मिन्नर्थे लोकदृष्टान्तमाह– बालेति। बालाः खलु पिता ते सुखमास्त इत्यादिकं परमार्थप्रतिपादकमिति मत्वा सन्तुष्यन्ति। अन्यथा सन्तोषाभावात्। अत्र पुनर्विशेषणानां निरतिशयानन्दादीनां पारमार्थ्यं .यदि प्रतिपद्यते श्रोता, तदानीमस्मच्छिष्य एव। अथ न प्रतिपद्यते तदा परमार्थप्रतिपत्त्यभावात् पुरुषार्थप्राप्तिर्न स्यादेव। तथा च स्वादार्थत्वं मृषात्वममित्यसंगतमेव॥47॥
मूलम् - 47
- तात्पर्यं ब्रह्मतत्त्वेऽप्यविहिवीधिनाऽप्येकवाक्यत्वपक्षे
भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम्।
स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगा-
द्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद््ध्यैव हर्षः॥
विश्वास-प्रस्तुतिः - 48
- यत्प्रीत्यर्थं वचस्तन्निखिलमनृतमित्यर्भकप्रायवाक्यं
सत्योक्त्यानन्ददृष्टेर्न च विहतिरिहाद्ध्यक्षतश्शास्त्रतो वा।
तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन
त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम्॥
३४-तमाहोबिल-यतिः - 48
- यत्त्प्रीत्यर्थमित्यादि। यद्वचः प्रीत्यर्थं तन्निखिलमनृतमित्यर्भकप्रायक्यम् — प्रीत्युत्पत्तिप्रयोजनकं यघद् वचस्तत्सर्वं" मिथ्यार्थकमिति बालतुल्यस्य वचनम्। सत्योक्तया आनन्दद्दष्टेः — सत्यार्थकवचनादानन्दजननदर्शनेन व्यभिचारात्। इह – स्त्यादिवाक्यावग्ते ब्रह्यणि। अध्यपक्षतः शास्त्रतो वा –प्रत्यक्षेण वा शास्त्रेण वा। नच विहतिः – न विरोधः। तेन – उक्तरूपेण।अनन्यार्थसिद्धोक् त्यनृतविषयताशङ्कनस्तम्नेनव— अनन्यार्था विधिशेषत्वमनापन्ना स्वान्तन्त्र्येण प्रवृत्ताया सिद्धोक्तिः" पुरूषवृत्तयसाध्यब्रह्यतत्वविषयिणी सत्यं ज्ञानम् इत्याधुपनिषदुक्तिस्तायाः अनृतविषयताशङ्कनं मिथ्यार्थकताशङ्कनं यत् तस्य स्तम्भनेन निरोधनेन। सत्यनित्याद्भुतसुखपरम ब्रह्यनिष्ठाः — सत्यं स्वरूपस्वभावविकाररहितम्, नित्यं कालपरिच्छेदरहितम्, अद्भतं चेतनाचेतन विलक्षणस्वरूपस्वभावम्, सुखमानन्दरुपम्, परमं न परं पुण्डरीकाक्षात्,परः पराणां परमः इत्यादि नीत्या सवोत्कृष्टवस्तुसून्यम्, यद् ब्रह्य स्वरूपतो गुणतक्ष्चानवधिकातिशयबृहत्त्वा श्रयभूतमाश्रितानाप्या नन्त्यहेभूतं वस्तु तन्निष्ठा स्तस्मिन्नेव तात्पर्येण पर्यवसन्नाः। त्रथ्यन्ताः –उपनिषदः। प्रमाणम् – प्रमाकरणमिति सिद्धम्॥
कुमार-वरदः - 48
- यत् प्रीत्यर्थं वाक्यं तत् वितथमित्युक्तं पूर्वपक्षिणा,तद् विकल्प्य दूषयति– यदितिव। किं प्रीत्यर्थँ वाक्यं निखिलमपि वितथनमित्युच्यते? किं वा यत्किंचित् ? न तावदाद्यः– अवितथेनापि पिता ते सुखमास्त इत्यादिना प्रीतिदर्शनात्। अतो व्यभिचरितार्थं" वाक्यं वदन् अर्भकप्राय एव भवान् बालप्राय इत्यर्थः। तत्र हेतुमाह–सत्येति। परमार्थोक्त्याऽऽनन्ददृष्टेरित्यर्थः। उत्तरस्मिन्पक्षे व्याहतं वितथमित्युच्यते किमव्याहतमपि तत्र व्याहतिरत्र नास्तीत्याह– नचेति। तत्रापि विकल्पोऽभिप्रेतः किं प्रत्यक्षेण व्याहतिरुतागमत इति। अव्याहतिपक्षेऽपि लौकिकवैदिकसर्वव्यवहारोच्छेदप्रसङ्ग इति भावः। किं च केवलं व्याहतत्वस्यैव वैतथ्यहेतुत्वे संभवति प्रीत्यर्थत्वे सति व्याहतत्वादिति विशिष्टप्रयोगो विशेषवैयर्थ्यादनुमानवार्तानभिज्ञतां दर्शयति। केवलं प्रीत्यर्थत्वादिति प्रयोगो व्यभिचारेण दुष्ट इतीदीनीमेवोक्तम्। एवं परोक्तप्रक्रियां निराकृत्य स्वोक्तमर्थं निगमयति–तेनेति। पूर्वपक्षोक्तार्थाशङ्कनस्तम्भनेन वेदान्ताः" परस्मिन् ब्रह्मणि प्रमाणमित्यर्थः॥
मूलम् - 48
- यत्प्रीत्यर्थं वचस्तन्निखिलमनृतमित्यर्भकप्रायवाक्यं
सत्योक्त्यानन्ददृष्टेर्न च विहतिरिहाद्ध्यक्षतश्शास्त्रतो वा।
तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन
त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम्॥
विश्वास-प्रस्तुतिः - 49
- ब्रह्मैके निष्प्रपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये
निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति ब्रुवन्ति।
तेषामेषां स्वपक्षस्ववचनविहतिव्याकुलानेकजल्पाः
कल्पोऽयं बाह्यकल्पः कृतमतिपरिषत्पीठमर्दैरमर्दि॥
३४-तमाहोबिल-यतिः - 49
49.ब्रह्मैक इत्यादि। एके –जरन्मायावादिनः केचित्। ब्रह्य निष्प्रपञ्चीकरणविघिपदं सिध्यतीति ब्रवन्ति – सप्रपञ्चतया भासमानं" ब्रह्य निण्प्रपञ्चं कुर्यादित्येतदर्थकस्य न द्दष्टेर्द्रष्टारं पश्येः इत्यादि निण्प्रपञ्चीकरणविधिवाक्यस्य विषयभूतं सद् ब्रह्य सिध्यतीति वदन्ति। अन्यो ध्यानविघ्यर्थं ब्रुवान्त – अपरे केचिज्जरन्मायिनो ब्रह्य ओमित्यात्मानं ध्यायीत इति ध्यानविधिवाक्यार्थं" वदन्ति। अपरे निर्धर्माद्धैतवाक्योपचरितं सिध्यतीति ब्रुवन्ति – आधुनिकास्तु मायिनो निर्धर्मं प्रतीयमानधर्मद्वयसम्बनघरहितं" यज्जीवब्रह्यणोरद्धैतमभेदस्तत्परं तत्त्वमसीत्यादिवाक्यं तेनोपचरितं जीवाभेदेन लक्षितं सद् ब्रह्म सिध्यतीति संगिरन्ते। तेषामेषाम् – जगन्माय्याधुनिकभेदभिन्नानां मायिनां संबन्धी। स्ववचनविहतिः – प्रतिज्ञाविरोधः, ताभ्यां व्याकुला अनेके जल्पा यस्मिन् सः। बाह्यकल्पः– मायिभर्भक्त्या स्वपक्षस्य बौद्धपक्षआत्किचिद्वैषम्यकथनेऽपि पर्यवसाने तादृशवैषम्यायोगात् बाह्यपक्षतुस्य एवायमित्यर्थः। अयं कल्पः –सङ्ग्रहेणोपन्यस्तस्तत्पक्षप्रकारः।कृतमतिपरिषत्पीठमर्दैः–कृतमतयः" शिक्षितबुद्धयस्तेषां परिषदि ये पीठमर्दा नियुक्तकार्यकारिणस्तैः। अमर्दि – निर्मूलित इत्यर्थः॥
कुमार-वरदः - 49
- अस्मिन्नधिकरणे मृषानादिनां पक्षत्रितयमुपन्यस्तम्, तत्राद्यौ पक्षौ जरन्मायावादिभिरभिधीयेते, एकस्त्वाधुनिकैः , तेन च तौ निरस्तो, सोऽपि पक्षोऽस्मत्पूर्वपक्षवादिना निरस्तः,स च वादी सिद्धान्तवादिनेति पक्षपञ्चकमुपन्यस्यते। तत्र पक्षत्रितयं भाष्यकारैरेवोपन्यस्य परास्तं तदनुवादिभिराचार्यैरपीति नास्माकमिह वक्तव्यं किंचिदवशिष्यत इत्यभिप्रायेणाह– ब्रह्मेति। तत्र निष्प्रपञ्चीकरण नियोगवाद एकः ‘न दृष्टेर्द्रष्टारं पश्येः’ इत्यादिनोपपादितः। अपरस्तु ध्याननियोगवादः ‘ओमित्यात्मानं" ध्यायीत’ इत्यादिवाक्यसिद्धः। तृतीयोऽपि ‘तत्त्वमसि’ इत्यादिवाक्यसिद्ध इति तेषां प्रक्रिया। तेषामेकदर्शनेन दूषणं सूचयति– तेषामिति।स्वपक्षविहतिः– अपसिद्धान्तः। स्ववचनविहतिः– प्रतिज्ञाविरोधः। अत्र व्याकुल शब्दः प्रकारान्तरेण वैयाकुलीमुपलक्षयति। अनेन सर्वनिग्रहस्थानोपहतिरुच्यते। बाह्यकल्पः– साक्षात् बाह्य एवायं पक्षः , अथापि वाङ्मात्रेण तद्भक्तैर्वागिभिः यत्किञ्चिद्वैषम्यमुच्यत इति भावः। कृतमतयः–शिक्षइतमतयः, तेषां परिषदि पीठमर्दैः–एकासनाधिरूढैरतिशयितततत्त्वविद्भिरित्यर्थः॥
मूलम् - 49
- ब्रह्मैके निष्प्रपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये
निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति ब्रुवन्ति।
तेषामेषां स्वपक्षस्ववचनविहतिव्याकुलानेकजल्पाः
कल्पोऽयं बाह्यकल्पः कृतमतिपरिषत्पीठमर्दैरमर्दि॥
विश्वास-प्रस्तुतिः - 50
- अन्यार्थो ह्यर्थवादस्स्तुतिमुखमुखतः स्थापितः प्रागिदानीं
स्वातन्त्र्येण प्रमाणीक्रियत इति ततः काण्डयोस्स्याद्विरोधः।
न स्यात्सामान्यतो हि प्रथममभिदधे मानतास्थापनार्थं
केषांचित्स्वार्थतोक्ता स्वत इह सुभगे बोधमात्रात्पुमर्थे॥
३४-तमाहोबिल-यतिः - 50
- अन्यार्थो हीत्यादि। प्राक् – पूर्वकाण्डे। अर्थवादः – ‘वायुर्वै क्षेपिष्टा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं" भूतिं गमयति’ इत्यादिरूपोऽर्थवादः। स्तुतिमुखमुखतः – विधिमवाक्यविहितार्थप्रशंसनप्रभृतिद्वारा। अन्यार्थः – विधिशेष इति।स्थापितः" –‘आम्नायस्य क्रियार्थत्वादानर्थक्यमततदर्थानाम्’ इत्याद्यर्थवादाधिकरणे प्रतिपादितः। इदानीम् –समन्वयाधिकरणप्रणयनावसरे।स्वातन्त्र्येण प्रमाणीक्रियते — विधिशेषत्वं विना स्वतन्त्रतयैव ब्रह्मप्रमाणकरणतया ऽङ्गीक्रियते।इति ततः – अस्माद्धेतोः। काण्डयोः – पूर्वोत्तरयोः" कर्मब्रह्यकाण्डयोः।विरोधः स्यात् – ऐकशास्ञ्यविरोधः प्रसरीसर्ति। न स्यात् –नैव भवेदेष विरोधः। प्रथमम् – पूर्वकाण्डार्थवादाधिकरणे। मानतास्थापनार्थम् –अक्रियार्थत्वप्रयुक्तानर्थक्यमूलकाप्रामाण्य परिहारेण प्रामण्यप्रतिष्ठापनार्थम्। सामान्यतो ह्यभिदधे – अर्थवादत्वसामान्याकारेण हि विधिशेषत्वमभ्यधायि। इह –अस्मिन्काण्डे समन्वयाधिकरणे तु। केषाञ्चित् –अर्थवादविशेषणामे। सुभगे –हेतुगर्भं विशेषणम्। आनन्दाधसंरव्येय कल्याणगुणमहोदधिरूपत्वात्। बोधमात्रात्पुमर्थो – यथाऽवस्थितस्वस्वरूपस्वभावावगतिमात्रेण पुरूषार्थभूते ब्रह्यणि विषये। स्वतः – स्वतन्त्रतया, विधिशेषत्वं विनैव। सार्थतोक्ता– अर्थवत्वं प्रत्यपादि। तथा च पूर्वकाण़्डार्थवादाधिकरणे सामन्येनार्थवादानां विधिशेषत्वस्थापनात् समन्वयाधिकरणेऽर्थवाद विशेषाणां स्वतः पुरूषार्थभूतब्रह्यरूपार्थवत्तवेन विधिशेषत्वं" विनैव प्रामण्यप्रतिष्ठापनाञ्चोत्सर्गापवादन्यायेन विरोध एव नास्तीति भावः॥50
कुमार-वरदः - 50
- एवं परस्परविरोधात् प्रस्फुटदोषत्वाद् भाष्यकारैरेव सुव्यक्तमेव निरस्तत्वाद् वक्तव्याभावेन परपक्षानुपेक्ष्य भाष्योक्तपूर्वपक्षसिद्धान्तयोः" परिक्लृप्त प्रकारमाक्षिप्य समाधत्ते– अन्यार्थ इति। अयमर्थः – पूर्वस्मिन् काण्डेऽर्थवादानां विधिशेषतयैव प्रामाण्यमुक्तम्, अत्र पुनः स्वातन्त्र्येण, तेन पूर्वोत्तरविरोधात् पूर्वोत्तरकाण्डयोरैकशास्त्र्यवादिनां युष्माकमनुचितमेवेदं भाषणमित्याक्षेपः। समाधिस्तु द्वौ खल्वर्थवादौ – एकस्तु विधिशेषतयैव निर्वाह्यः।अपरस्तु विधिशेषत्वमन्तरेणापि निर्वोढुं शक्यः। तेनोत्सर्गापवादन्यायेन पूर्वोत्तरकाण्डयोर्विरोधापशमनादैकशास्त्र्याक्षेपप्रसङ्गोऽपि न संघटते। एकत्रार्थवादसामान्यविषयत्वात् इतरत्र ब्रह्मपरार्थवादविशेषविषयत्वात्। अत्र हि ब्रह्मपरं विशेषवाक्यं स्वरूपपरतयाऽपि प्रमाणमित्युच्यते। इतरत्र शिष्टान्यर्थवादवाक्यानि सर्वाणि विधिशेषतया प्रमाणानीत्युच्यन्ते। ननु सर्वोऽप्यर्थवादो विधिशेष एव ‘परप्राप्रिकामो ब्रह्म विद्यात्’ इतिविधिशेषत्वात् ’ तदेषाऽभ्युक्ता’ इत्यारभ्योक्तानां सर्वेषामपि वाक्यानाम्। तेन नरविषाणकल्पत्वात् स्वरूपरार्थवादवाक्यस्य स्वरूपमेव नास्ति। कश्चात्र विरोधपरिहारः ? उच्यते– ’ सहस्रशीर्षं देवम् ’ इत्यादिकं वाक्यं स्ववाक्ये विध्यदर्शनाद् विधिशेषमेव न भवति अपि तु परतत्त्वैकप्रतिपादनपरमिति त्वदुक्तोऽभयमनुपालम्भः। मृषावादिभिरप्ययमेवार्थोऽङ्गीकार्यः ; ’ तत्त्वमसि ’ इत्यादिवाक्ये विध्यदर्शनात् केवलं" तत्त्वपरमेवेदं वाक्यमिति तेषामुद्धोषः। एवमन्यान्यपि विधिदर्शनमन्तरेण ब्रह्मप्रतिपादकानि श्रौतानि पौराणिकान्यैतिहासिकान्यपि वाक्यानि प्रतिपत्तव्यानि॥
मूलम् - 50
- अन्यार्थो ह्यर्थवादस्स्तुतिमुखमुखतः स्थापितः प्रागिदानीं
स्वातन्त्र्येण प्रमाणीक्रियत इति ततः काण्डयोस्स्याद्विरोधः।
न स्यात्सामान्यतो हि प्रथममभिदधे मानतास्थापनार्थं
केषांचित्स्वार्थतोक्ता स्वत इह सुभगे बोधमात्रात्पुमर्थे॥
विश्वास-प्रस्तुतिः - 51
- त्रेधा सर्वत्र वेदे नियतविभजने चोदनाद्यंशभेदै-
श्चत्वारोऽप्यर्थवादा मुनिभिरभिहिता ब्राह्मणांशस्य शेषाः।
अत्रातच्छेषतोक्तौ स्मृतिहतिरिति चेद्विद्धि दत्तोत्तरन्तत्
सामान्योक्तिर्हि सेयं तत उपरि यथामन्त्रविध्यन्यतोक्तेः॥
३४-तमाहोबिल-यतिः - 51
- त्रेधेत्यादि। चोदनाधंशभेदैः – विधिः। आदिशब्देन मन्त्रार्थवादग्रहणम्, विधिमन्त्रार्थवादरूपभागविशेषैः। त्रेधा –त्रिप्रकारेण। नियतविभजतने —निन्दाप्रशंसापरकृतिपुरा कल्परूपाक्ष्चतुर्विधा अर्थवादा अपि। ब्राह्यणांशस्य शेषा मुनिभिरभिहिताः – ब्राह्यणांशेनैकवाक्य तामापन्ना एव भवन्तीत्यापस्तम्बादिभिहिताः। अत्र – शारीरकशास्त्र्त्रे। अतच्छेषतोक्तौ – अर्थयादानां विधिशेषत्वं विना स्वातन्त्र्येण प्रामाण्यकथने। स्मृतिहतिः – स्मृतिविरोधः प्रसज्यते। इति चेत् – एवमाशङ्कयते चेत्। तद् दत्तोत्तरं हि –तदाशङ्कनं पूर्वमेव दत्तोत्तरमे। सेयम्– अर्थवादानां" चतुर्णामपि ब्राह्यणशेषत्वस्मृतिः। तत्सामान्योक्तिर्हि –अर्थवादसामान्यस्य विधिशेषत्ववचनरुपा हि। समन्वयाधिकरणे त्वर्थवादविशेषणां" स्वातन्त्र्येण प्रामण्यकथनादुत्सार्गापवादन्यायेनार्थवादसामन्यस्य विधिशेषत्व परस्मृतिवचनेन विरोध एव नास्ति। अन्यथा न हिंस्यात् सर्वा भूतानि इति हिंसासामान्यस्य निषिद्धत्वात् अग्निषोमीयं पशुमालभेत इति विहितस्तद्धिशेषोऽपि निषिध्येत। तत उपरि – अर्थवादानां" ब्राह्यणशेषत्ववचनादुपरि। मन्त्रविध्यन्यतोक्तिः – विध्यर्थवादाम्यामन्ये मन्त्रा इत्येतदर्थिका ततोऽन्येमन्त्राः इत्युक्तिर्मन्त्रविध्योः" परस्परभेदं ब्रुवती। यथा –यथा मन्त्रोऽपि विवत इत्यङ्कारान्मन्त्रसामान्यस्यैव विधिभिन्नत्वपरतया नेया, तथेयमपि तत्सामान्योक्तिर्नेयेत्यन्वयः॥51
कुमार-वरदः - 51
- एवं काण्डद्वयवाक्यविरोधमुत्सर्गापवादन्यायेन परिहृत्य पूर्वपक्षिणोत्थापितं कल्पसूत्रादि वाक्यविरोधमिति तैनैव न्यायेन परिहरति–त्रेधेति। इदमत्र विरोधाभासोपपादनं ‘कर्मचोदना ब्राह्मणानि’ इत्युपक्रम्य ’ ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च’ इति चतुर्णामप्यर्थवादानां ब्राह्मणशेषत्माह भगवानापस्तम्बः।एवमन्यदपि द्रष्टव्यम्। तथा च कथमर्थवादानां विधिशेषत्वमन्तरेण ब्रह्मणि प्रामाण्यमुच्यते? अत्रोत्तरमाह– दत्तोत्तरमिति। अयमर्थः – अर्थवादानां विधिशेषत्ववचनं सामान्यम्। अत्र पुनर्ब्रह्मविषयार्थवादानां" स्वातन्त्रेण प्रामाण्यकथनं तस्यैवापवादः। अतस्तेनैवोत्सर्गापवादन्यायेन विरोधप्रशमनात् स्मृतिविरोधकथनमनुपालभ्य एव। तमेवोत्सर्गापवादन्यायमजानानस्य शिष्यस्य विशेषतः प्रकटयति–सामान्येति। इममेवार्थं तद्वाक्यस्थेनैव दृष्टान्तेनोपपादयति तत इति। तस्मिन्नेव ह्यापस्तम्बवाक्ये मन्त्रविध्योः परस्परमन्यत्वं ह्युपरि कथ्यते ’ ततो ऽन्ये मन्त्राः’ इति। ‘ततः’ विध्यर्थवादाभ्यां ‘अन्ये मन्त्राः’ इति। एतत्तु सामान्यमेव मन्त्राणामपि विधायकत्वस्वीकारात्।मन्त्रो हि विधत्त इति ह्याहुस्तान्त्रिकाः। तेन मन्त्राणां विध्यन्यत्ववचनम् उत्सर्गः, विधायकत्ववचनमपवाद इति भवद्भिः परिगृह्यते।तद्वदत्रापि ब्राह्मणशेषत्ववचनमुत्सर्गः स्वातन्त्र्येण प्रतिपदकत्ववचनमपवाद इति परिगृह्य परितुष्यतु भवान्॥
मूलम् - 51
- त्रेधा सर्वत्र वेदे नियतविभजने चोदनाद्यंशभेदै-
श्चत्वारोऽप्यर्थवादा मुनिभिरभिहिता ब्राह्मणांशस्य शेषाः।
अत्रातच्छेषतोक्तौ स्मृतिहतिरिति चेद्विद्धि दत्तोत्तरन्तत्
सामान्योक्तिर्हि सेयं तत उपरि यथामन्त्रविध्यन्यतोक्तेः॥
विश्वास-प्रस्तुतिः - 52
- आम्नातैरैहिकार्थैरविगुणसफलैश्शाकुनज्यौतिषाद्यैः
पारत्रिक्या प्रवृत्त्याऽप्यतिनिपुणधियामागमाश्वाससिद्धौ।
शब्दे तस्माच्च बोधे सति परविषये दोषबाधव्यपेते
मानं तत्र स्वतोऽसौ न कथमितरथा नैगमाध्वापलापः॥
३४-तमाहोबिल-यतिः - 52
- आम्नातैरित्यादि। आम्नातैः – वेदावगतैः। अविगुणसफलैः –कर्मकर्तृ साध्नवैगुण्ये सति फलासिद्धावपि ताद्दशवैगुण्याभावे फलाविनाभूतैः। ऐहिकार्थैः – वृष्टिकामः कारीर्यायजेत इत्यादि विहितैर्द्दष्टफलैः कारीर्यादिभिः।शाकुनज्योतिषाधैः –संकोर्णमन्त्रार्थवादादिमूलकशकुनज्योतिश्शास्त्र्त्र सिद्धत्ततद्भाव्यर्थानर्थसूचनतत्साधनपरिहरणक्रियाविशेषैः। अविगुणसफलैरीत्यस्यपि विशेषणम्। आतिनिपुणधियाम् —शिष्टनां सबान्धिन्या। पारत्रिक्या प्रवृत्त्याऽपि— परलोकहेतुभूतया प्रवृत्त्याऽपि। आगमाश्वाससिद्धौ – वेदप्रामण्ये विश्चिते सिक्ष्चिते सति। परविषये – परमात्मविषयके। दोषबाधव्यपेते – अनादिनिध्नाविच्छिन्नसम्प्रदायतया कारणदोषरहिते अलौकिकार्थविषयत्वात् बाधकप्रत्ययरहिते।शब्दे तस्माद्बोधे च सति – वेदाख्याक्षरराशौ तस्मादेव करणादुत्पद्यमाने ज्ञाने च जाग्रति सति। अप्रामाण्यकारणे चासतीति शेषः। असौ – वेदः।तत्र – ब्रह्मणि विषये। कथं स्वतो न मानम् –कुतः स्वातन्त्र्येण न प्रमाणं भवेत्। स्वातन्त्र्येण प्रमाणं" भवेदेवेत्यर्थः। इतरथा – कारणमन्तरेण वेदान्तवाक्यानामप्रामाण्यकथने। नैगमाध्वापलापः – तेनैव न्यायेन कर्मभागेऽप्यप्रामाण्यं" कथनीयमिति वेदमार्गापलाप एव स्यादित्यर्थः॥
कुमार-वरदः - 52
- बहुषु प्रामाण्यहेतुषु विद्यामानेषु दूषणमुपनिषद्वाक्यानां विरीश्वरमीमांसकानां साहसमेव तद्व्यहारनिबन्धनमिति प्रतिपादयन् सर्वनिगममार्गापलापप्रतिबन्दीमारचयति– आम्नातैरिति।वेदे ‘कारीर्या वृष्टिकामो यजेत ’ इति दृष्टफवाक्यानुसारेण ’ स्वर्गकामो यजेत’ इत्यदृष्टफलवाक्यानां प्रामाण्यं परिकल्प्यते। अविगुणसफलैरिति कर्मकर्तृसाधनवैगुण्यादेव क्वचित्कारीर्यादिषु फलासिद्धिरित्यर्थः। शाकुनच्योतिषाद्यैरिति– यथाहि अविगुणसफलैर्वेदोक्तैः कारीर्यादिभिः फलसिद्धिः तथैवाविगुणसफलैः कुनज्योतिषाद्यैर्वेदोक्तैरपि फलसिद्धिर्वर्ण्यत एव। तेन वेदे प्रामाण्यं दृष्टफलेषु क्वचित्प्रतीयते। तथा शिष्टानामदृष्टार्थप्रवृत्त्या ऽपि वेदप्रामाण्यं" सर्वत्र निश्चीयत इत्याह– पारत्रिक्येति। अतिनिपुणेति– महानुभावानां परलोकहेतुभूतया प्रवृत्त्यापि वेदप्रामाण्यं निश्चीयत इत्यर्थः। अनेन महाजनपरिग्रहोऽभिधीयते। आगमाश्वाससिद्धौ– एवं बहुभिर्हेतुभिर्वेदप्रामाण्ये निश्चिते सति। अप्रामाण्यकारणाभावमाह– शब्द इति। शब्दे तस्माच्च बोधे सतीत्यनुत्पत्तिलक्षणाप्रामाणयनिरासः। परविषये–ईश्वरविषये। दोषबाधव्यपेत इति कारणदोषबाधकप्रत्ययौ निरस्येते। अनादिनिधनाविच्छिन्नसंप्रदायत्वात् कारणदोषाभावाच्च अलौकिकार्थविषयत्वाद् बाधकप्रत्ययाभावाच्च प्रामाण्ये सत असति चाप्रामाण्यकारणे पुनरसौ वेदः परस्मिन् ब्रह्मणि मानमेव। एवं च कारणमन्तरेण वेदान्तवाक्यानामप्रामाण्यकथने तेनैव न्यायेन कर्मभागेऽप्यप्रामाण्यं कथनीयमिति वेदमार्गापलाप एव स्यादित्यर्थः॥
मूलम् - 52
- आम्नातैरैहिकार्थैरविगुणसफलैश्शाकुनज्यौतिषाद्यैः
पारत्रिक्या प्रवृत्त्याऽप्यतिनिपुणधियामागमाश्वाससिद्धौ।
शब्दे तस्माच्च बोधे सति परविषये दोषबाधव्यपेते
मानं तत्र स्वतोऽसौ न कथमितरथा नैगमाध्वापलापः॥
विश्वास-प्रस्तुतिः - 53
- शास्त्रारम्भोपपत्त्यै चतुरधिकरणी पेटिकेयं प्रवृत्ता
लक्ष्यस्योक्तं विशेषद्वयमिह घटते वक्ष्यमाणोपजीवि।
सद्ब्रह्माद्युक्तिवेद्यः पर इति हि वदेत्कारणत्वाधिकारे
वक्ष्यत्यस्य द्विलिङ्गाद्यधिकृतिषु पुनस्तादृशानन्दतादीन्॥
३४-तमाहोबिल-यतिः - 53
- शास्त्रारम्भेत्यादि। इयं चतुरधिकरणीपेचिका शास्रारम्भोपपत्त्यै प्रवृत्ता –एषा जिज्ञासाधिकरणजन्माद्यधिकरणशास्त्रयोनित्वाधिकरणसमन्वयाधिकरणरूपचतुरधिकरणवती पेटिका शास्त्रारम्भविरोधिव्युत्पत्त्यभावप्रतिपत्तिदौस्स्थ्यान्यलभ्यत्वाफलत्वशङ्कनिरसनद्वारा ब्रह्मिचारात्मकशास्त्रारम्भ निर्वाहाय तदुपोद्धातरूपतया प्रावर्तत। लक्ष्यस्य – ब्रह्मणः। इह — द्वितीयचतुर्थाधिकरणयोः। उक्तम् – प्रतिपादितम्।विशेषद्वयम् – सद् ब्रह्मादिसामान्यशब्दानां पुरुषसूक्तप्रतिपाद्यते नारायणे पर्यवसानं द्वितीयाधिकरणोक्तम्, चतुर्थाधिकरणोक्तं वेदान्तवाक्यावगतस्य ब्रह्मणो निरतिशयानन्दरूपत्वम्, इदमुभयं च विशेषद्वितयम्। वक्ष्यमाणोपजीवि घटते –कारणत्वाधिकरणोभयलिङ्गाद्यधिकरणेषु वक्ष्यमाणमेवार्थमुपजीव्य निरुक्तप्रयोजनायात्र प्रदर्शितमिति युज्यते। अतो न पौनरुक्त्याशङ्केति भावः। कारणत्वाधिकरणे – ‘कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः’ इत्यधिकरणे। सद्ब्रह्मद्युक्तिवेद्यः – ‘सदेव सोम्येदमग्र आसीत्’ ‘ब्रह्म वा इदमेकमेवाग्र आसीत्’ ‘आत्मा वा इदमेक एवाग्र आसीत्’ ‘न सन्नचासाच्छिव एव केवलः’ ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यादिकारणवाक्यघटकसद्ब्रह्मात्मशिवाकाशादिशब्दवाच्यः। पर इति – ‘एको ह वै नारायण आसीत्’ ‘विष्णुस्तदासीद्धरिरेव निष्कलः’ इति विशेषशब्दमूर्धन्यनारायणविष्णुपुरुषादिशब्दार्थभूतः पराणां" परमः परमात्मैवेति। वदेद्धि – वदिष्यति किल। अस्य पुनः – समन्वयाधिकरणे पुरुषार्थरूपतया प्रतिपादितस्यास्यैव ब्रह्मणः। द्विलिङ्गाद्यकृतिषु – ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इत्युभयलिङ्गाधिकरणेऽधिकरणान्तरेषु च। तादृशानन्दतादीन् — निरतिशयानन्दरूपत्वादीन्। वक्ष्यति –तदुपजीवननेनैवात्र विशेषद्वयं प्रतिपाद्यत इति न पौनरुक्त्यमाशङ्क्यमिति भावः॥
कुमार-वरदः - 53
53.एवं चतुर्णामधिकरणानामर्थान् विभागेनाभिधाय सामान्यार्थानुवादपूर्वकमत्रत्ययोर्जन्माद्यधिकरणसमन्वयाधिकरणयोरुत्तरत्तरवक्ष्यमाणाभ्यां" कारणत्वाधिकरणोभयलिङ्धिकरणाभ्यां पौनरुक्त्यमाशङ्क्योत्तररत्र तत्तदधिकरणार्थप्रसाधनम्, अत्र पुनर्वक्ष्यमाणार्थोपजीवनेन तत्तदर्थाभिधानमिति न पौनरुक्त्यमित्याह– शास्त्रेत्यादिना। विशेषद्वयमेवम्– ब्रह्मादिशब्दानां श्रीनिवासपर्यवसानं द्वितीयाधिकरणोक्तम्। वेदान्तवेद्यस्य ब्रह्मणो निरतिशयानन्दरूपत्वं चतुर्थाधिकरणोक्तम्। तत्र पूर्वं वक्ष्यमाणं कारणत्वाधिकरणमुपजीवति। उत्तरमुभयलिङ्गाधिकरणमिति सुशोभनमेतत्॥
मूलम् - 53
- शास्त्रारम्भोपपत्त्यै चतुरधिकरणी पेटिकेयं प्रवृत्ता
लक्ष्यस्योक्तं विशेषद्वयमिह घटते वक्ष्यमाणोपजीवि।
सद्ब्रह्माद्युक्तिवेद्यः पर इति हि वदेत्कारणत्वाधिकारे
वक्ष्यत्यस्य द्विलिङ्गाद्यधिकृतिषु पुनस्तादृशानन्दतादीन्॥