विश्वास-प्रस्तुतिः - 41
- वीतावीतप्रयोगक्रमनियतिमती कार्यता विश्वमेतत्
सर्वज्ञेन प्रकॢप्तं गमयति विफलस्त्वत्र शास्त्रैर्विचारः।
इत्युन्नीतौ लघुत्वादनुमितिवशतः कर्मजैश्वर्ययुक्तो
विश्वामित्रादिनीत्या स्फुरति विभुमिहासूत्रयच्छास्त्रवेद्यम्॥
३४-तमाहोबिल-यतिः - 41
- वीतावीतेत्यादि। वीतावीतप्रयोगक्रमनियतिमती — विशेषेणेतत्वाद् वीतोऽन्वयी। अन्वयाभाववीतो व्यतिरेकी। वीतावीतोऽन्वयव्यतिरेकी।तादृशो यः प्रयोगक्रमस्तस्मिन्नियतिमती – व्याप्तिशालिनी। अन्वयव्याप्तिशालिनी व्यतिरेकव्याप्तिशालिनी चेत्यर्थः। कार्यता – जन्यता। एतद्विश्वम् —- परिदृश्यमानमहीरमहार्णवादिरूपम्। सर्वज्ञेन प्रक्लृप्तं गमयति – विश्वोपादानोपकरणसंप्रदानाद्यनभिज्ञेन विश्वनिर्माणासंभवात् सर्वज्ञेन निर्मितमवगमयति। अत्र – एवमनुमानेनावगते जगन्निर्मातरि विषये। शास्त्रैर्विचारो विफलस्तु —विफल एव। इत्युन्नीतौ — एवमाशङ्किते सति। अनुमितिवशतः — अनुमानप्रमाणबलेन। लघुत्वात् — अनुमानसहायभूताल्लाघवात्। विश्वामित्रादिनीत्या – नक्षत्रादिकतिपयजागतपदार्थनिर्माणप्रसिद्धविश्वामित्रादिन्यायेन। कर्मजैश्वैर्ययुक्ते — तपोविशेषादिरूपकर्मजन्यपरिमितज्ञानशक्त्यादिशालिनि। स्फुरति —लाघवाद्दर्शनानुगुण्याच्चावभासमाने सति इह – शास्त्रारम्भे। विभुम् — परमात्मानम्। शास्त्रवेद्यमसूत्रयत् –अनुमानाद्यगम्यं शास्त्रैकसमधिगम्यं च ’ शास्त्रयोनित्वात्’ इति सूत्रेण प्रतिपादयमास॥
कुमार-वरदः - 41
- शास्त्रारम्भार्थोपोद्धातपेटिकायां प्रतीतिप्रजननार्था पूर्वपेटिका निर्वृत्ता। तात्पर्यलिङ्गसमर्थनार्थोत्तर पेटिकाऽऽरभ्यते। तत्राप्राप्तत्वलक्षणं तात्पर्यलिङ्गं तृतीयसूत्रे सफलत्वलक्षणं चतुर्थं इति प्रागेवोक्तमस्माभिः। तत्र पूर्वपक्षवादी प्रत्यवतिष्ठते – अप्राप्तत्वमेव नास्ति, अनुमानसिद्धत्वादित्येका संगतिः। किंच ‘यतो वा इमानि भूतानि’ इत्यादिवाक्यं" पुरुषसूक्तादिप्रसिद्धं किमपि वस्त्वनूद्य तस्य बृहत्त्वबृंहणत्वादिकं विदधातीति ब्रह्मोपादानाभिर्भवद्भिरुच्यते, तद्वार्तम् ; अनुमानप्रसिद्धमेवोच्यताम्, तथाचागमस्याप्यनुमानमेव मूलमित्यपरा। एवं च सत्यनुमानविरुद्धमुपादानत्वं" यत इति शब्देन वक्तुं न शक्यत इति भावः। अत्रापि प्रागुक्तमेव विषयवाक्यम्। प्रधानोऽपि विषयः स एव। तदर्थविचारस्तु वेदान्तानां" ब्रह्मणि प्रामाण्यमस्ति न वेति। तदर्थं विचार्यते वेदानातानां सिद्धे ब्रह्मणि तात्पर्यलिङ्गमस्ति न वेति। तदर्थं विचार्यते ब्रह्मणि प्रमाणान्तरप्राप्तिरस्ति न वेति। तदर्थं विचार्यते कार्यत्वादिकं लिङ्गमन्वयेन व्यतिरेकेण च ब्रह्म गमयितुं शक्नोति न वेति। पुनरपि विचार्यते- अन्यथासिद्धत्वादयो हेतुदोषा जगत्कर्तृत्वसाधके कार्यत्वादिहेतौ संभवन्ति न वेति। फलफलिभावस्तु कार्यत्वादिकं हेतुजातमीश्वरसाधने निर्दोषत्वात् साधयितुं शक्नोतीतिश्वरस्य प्रमाणान्तरप्राप्तत्वाद्वेदान्तवाक्यानां" ब्रह्मणि तात्पर्यलिङ्गाभावागप्रामाणयमित्यनारम्भणीयमेव शास्त्रमेतदिति पूर्वपक्षे। राद्धान्तेऽपि वैपरीत्येन वर्णनीयः। शेषं" सुगमम्। अत्र पूर्वपक्षवादी प्राह–वीतेति। वीतः–अन्वयी, विशेषेणेतत्वात्। अवीतःव्यतिरेकी, अन्वयाभावात्। वीतावीतः पुनरन्वयव्यतिरेकी – अन्वयित्वाद् व्यतिरेकित्वाच्च। अत्र कार्यता उपलक्षणम्। कार्यायोजनधृत्यादीनां बहूनामपि हेतूनां न्यायशास्त्रविद्भिरुपात्तत्वात्। इयं किल न्यायप्रक्रिया– ईश्वरसाधने द्वयमनुमानं प्रधानतयोपादीयते। कार्यलिङ्गकानुमानमुपदेशलिङ्गकानुमानं चेति। कार्यलिङ्गकानुमानं" च द्विविधम्– अन्वयव्यतिरेक्यनुमानमेकं विवादाध्यासितं सकर्तृकं कार्यत्वादिति। अपरं तु व्यतिरेक्यनुमानं सर्वं कार्यं सर्ववित्कर्तृपूर्वकं कादाचित्कत्वादिति। एवमुपदेशलिङ्गकानुमानेऽपि भेदो द्रष्ठव्यः। वेदवाक्यानि सकर्तृकाणि वाक्यत्वादित्यन्वयव्यतिरेकी। वेदाः सर्वज्ञप्रणीता वेदत्वादिति केवलव्यतिरेकी। अत्र कार्यत्वस्योपलक्षणत्वात् सकर्तृकत्वप्रसाधकमहाविद्यारूपं प्रमेयत्वादिकं गृह्यते।विप्रतिपन्नं" स्वस्वेतरवृत्तित्वानाक्रान्तसकर्तृकनिष्ठाधिकरणमिति महाविद्यावादयः प्रसाधयन्ति। तेन सकर्तृकत्वानुमानेऽभिहिताः पक्षधर्मतावशादर्थतः" सिध्यन्ति। सर्वज्ञकर्तृकत्वानुमाने व्यतिरेकेण शब्दत एव सिध्यन्ति। एवमनमानादीश्वर सिद्धौ शास्त्रैस्तद्विचारो विफलः। अत्रोत्तरमाह– इतीति।लघुत्वादिति। कार्यत्वादिना प्रसाध्यतां जगत्कर्ता यः" कश्चिदपि, स तु जीवः स्यात् तस्य दृष्टत्वात्। तेन जीवक्लृप्तौ लाघवम्, ईश्वरक्लृप्तौ गौरवमिति नेश्वरसिद्धिः। ननु जीवानामल्पज्ञत्वात् कथं महीमहीधराद्यतिशयितार्थकर्तृत्वमिति ;तत्राह–विश्वामित्रादिनीत्येति। अस्त्वेकस्मिन्नण्डे विश्वामित्रः, अन्यत्र स नास्तीति चेन्न ; अन्यत्राप्यन्यस्य विद्यमानत्वात्। भवद्भिरप्यनन्ता एव योगिनः कल्प्यन्ते सर्वज्ञाः सर्वशक्तयश्चेति। तैरेव तत्रतत्र विश्वसृष्टिः प्रवर्तताम्। किमनेन नित्यज्ञानचिकीर्षाप्रयत्नवत्तया विजातीयतया परिकल्पितेन? तथा चान्यथासिद्धिदूषितानि कार्यताद्यनुमानानीश्वरमनुमातुं न प्रभवन्ति। सर्वं कार्यमेककर्तृकं कार्यत्वादिति साधयाम इति चेत् तर्हि अनेककर्तृकेषु घटपटादिषु व्यभिचारः, अन्यथासिद्धिर्वा। नह्येककर्तृकत्वाभावे कोऽपि विरोधः स्यात्। अनेककर्तृकं न भवति कार्यत्वादित्युक्तेऽप्ययमेव दोषः। तस्मादनुमानानामनेकदोषदुष्टत्वात् वेदान्तवाक्यानाम् अप्राप्तत्वात्वलक्षणं तात्पर्यलिङ्गमस्त्येव। महाविद्यानुमानाडम्बरस्तु विडम्बनेनैव विडम्ब्यत इति वयमत्र न विस्तृणीमहे॥41॥
मूलम् - 41
- वीतावीतप्रयोगक्रमनियतिमती कार्यता विश्वमेतत्
सर्वज्ञेन प्रकॢप्तं गमयति विफलस्त्वत्र शास्त्रैर्विचारः।
इत्युन्नीतौ लघुत्वादनुमितिवशतः कर्मजैश्वर्ययुक्तो
विश्वामित्रादिनीत्या स्फुरति विभुमिहासूत्रयच्छास्त्रवेद्यम्॥
विश्वास-प्रस्तुतिः - 42
- क्षित्याद्यं कार्यताद्यैः कटकमकुटवत् कर्तृपूर्वं स कर्ता
सिद्ध्येदत्राण्वदृष्टप्रभृतिजनकदृक् सर्वशक्तिश्च मैवम्।
श्रोत्राद्यैस्सौरभादिग्रहणरुचिरियन्तादृशव्याप्त्यभावात्
सर्वं हेतुन्न पश्येत् घटकृदिह न चाकर्तृता तावताऽस्य॥
३४-तमाहोबिल-यतिः - 42
- क्षित्याद्यमित्यादि।क्षित्याद्यम् – महीमहीधरमहार्णवादिकम्। कार्यताद्यैः -कार्यत्वादिभिर्हैतुभिः ।कटकमकुटवत् - स्वर्णकारकर्तृककटकमकुटवत्। कर्तृपूर्वम् - सकर्तृकम्। अत्र अस्मिन्ननुमाने। सकर्ता - कार्त्वहेतुबलात्सिध्यन् कर्ता । अण्वदृष्टप्रभृतिजनकदृक-अतिसूक्ष्मभूता विश्वोपादानपरमाणवः,यानि च सर्वजीवात्मासमवतादृष्टानि तत्प्रभृतीनि यानि जगदुपादानसहकारिवस्तूनि तत्साक्षात्कारी।सर्वशक्तिश्च–सर्वनिर्माणानुगुणषक्तियुक्तश्च।सिद्ध्येत्–पक्षधर्माताबालात् सिद्ध्येदेव। मैवम्–एवं वां चिन्तय।इयम्–ते वाञ्छा।श्रोत्राद्यैः सौरभादिग्रहणरुचिः– क्षोत्रान्द्रियादिभिर्गन्दरसाक्षात्कारलिप्सातुल्या।तादृशव्याप्त्याभावात्–कार्यत्वस्य सर्वज्ञकर्तृकत्वव्याप्त्यभावात्। इह – लोके। घटकृत् —- कुलालः। सर्वं हेतुं न पश्येत् – सर्वं कारकजातं न साक्षात्कुर्यात्। तावता – कार्यनिर्माणनानुपयुक्तवस्त्वन्तरसाक्षात्काराभावमात्रेण। अस्य – कुलालस्य। अकर्तृता न च – घटकर्तृत्वाभावो न भवति। अयमत्र विकल्पः – किं सर्वकारकद्रष्टा कर्ता?उत कतिपपयकारकद्रष्टा? पूर्वत्र कुलालस्य सर्वकारकद्रष्टृत्वं न विद्यते। न च तावता तस्य कर्तृत्वहानिः। उत्तरत्र क्षित्यादिकर्तुः" कतिपयकारकद्रष्टृत्वमेव सिध्यतीति नेश्वरसिद्धिरिति॥
कुमार-वरदः - 42
- एवं कर्तुः सर्वज्ञत्वादिकं पक्षधर्मताबललभ्यमङ्गीकृत्य दूषणमुक्त्वा तदनङ्गीकारेणापि दूषणं वक्तुं तदेवानुमानं पुनरनुवदति– क्षित्याद्यमिति। अयमर्थः–क्षित्याद्यं कार्यत्वादिभिः सकर्तृकम्, स तु कर्ता कर्तुरुपादानोपकरणसंप्रदायप्रयोजनाभिज्ञानापेक्षास्तीति क्षित्याद्युपादानरूपाण्यदृष्टप्रभृतिद्रष्टा भवति। तद्दर्शनं चास्मदादीनां न घटते। तदभिज्ञानशक्तिर्दूरत एव। तदिदमाह– सर्वशक्तिरिति। प्रतिक्षिपति–मैवमिति। कुत इत्यत्रासाधकत्वे दृष्टान्तं तावदाह–श्रोत्राद्यैरिति। न ह्यन्येन्द्रियेणान्येन्द्रियविषयो गृह्यत इति। ननु तत्तदिन्द्रियाणां नियतविषयत्वादसामर्थ्यस्तु, अनुमानस्य पुनरनियतविषयत्वात् कथमिवासामर्थ्यमित्याशङ्क्याह– तादृशेति। अनुमानमपि नियतविषयमेव। येन यस्य प्रतिसम्बन्धः, तत्तस्यानुमापकमिति न्यायविदां सम्प्रदायः। अत्र पुनः प्रतिसम्बन्धो नास्ति। कथमित्यत्राह– सर्वमिति। अयमत्र विकल्पः –किं सर्वकारकद्रष्टा कर्ता? उत कतिपयकारकद्रष्टा? पूर्वत्र कुलालस्यापि सर्वकारकद्रष्टृत्वं" न विद्यते। नच तावता कर्तृत्वहानिः। उत्तरत्र क्षित्यादिकर्तुः कतिपयकारकद्रष्टृट्वं सिध्यतीति नेश्वरसिद्धिः॥42॥
मूलम् - 42
- क्षित्याद्यं कार्यताद्यैः कटकमकुटवत् कर्तृपूर्वं स कर्ता
सिद्ध्येदत्राण्वदृष्टप्रभृतिजनकदृक् सर्वशक्तिश्च मैवम्।
श्रोत्राद्यैस्सौरभादिग्रहणरुचिरियन्तादृशव्याप्त्यभावात्
सर्वं हेतुन्न पश्येत् घटकृदिह न चाकर्तृता तावताऽस्य॥
विश्वास-प्रस्तुतिः - 43
- कार्यत्वात् स्याद्विवादास्पदमिदमखिलं सर्ववित् कर्तृपूर्वं
यन्नैवन्तद्धि नैवं पुरुषवदिति नानन्यथासिद्ध्यभावात्।
हेतावेतादृशात्मन्यविदुरभिदुरं व्याप्त्यसिद्ध्यादिदौःस्थ्य-
न्तद्भङ्गे लक्षणानामगणि गमनिका तत्त्वमुक्ताकलापे॥
३४-तमाहोबिल-यतिः - 43
- कार्यत्वादित्यादि। विवादास्पदमदिमखिलम् —- विप्रतिपत्तिविषयभूतमखिलमिदं विश्वम्। सर्ववित्कर्तृपूर्वम् – सर्ववित्कर्तृकम्। यन्नैवं तन्नैवं हि- यत् सर्ववित्कर्तृकं न भवति तत्कार्यमपि न भवति। पुरुषवत्- आत्मवत्। इति न- एवम्प्रयोगेणाभिमतं न सिध्यति। अनन्यथासिद्ध्यभावात्- अन्यथासिद्धत्वात्। सर्ववित्कर्तृकत्वं मा भूत् कार्यत्वमस्त्वित्युक्ते अकर्तृकत्वे कार्यत्वं न स्यादिति हि परिशुद्धस्तर्कः। अकर्तृकत्वमेव ह्याकार्यत्वे प्रयोजकम्, नपुनः सर्वज्ञकर्तृकत्वाभावः, इत्यप्रयोजकत्वादित्यर्थः। एतादृशात्मनि हेतौ अभिदुरं व्यात्यसिद्ध्यादिदौस्स्थ्यं अविदुः- विचक्षणा इति शेषः। विचक्षणा एतादृशात्मनि केवलव्यतिरेकिरूपे हेतौ सर्वत्रापि हेतुसाध्ययोः पक्षादन्यत्र साहचर्यादर्शनेनाभिदुरं दुर्वारं व्याप्त्यसिद्ध्यादिरूपं प्रयोगदूषणं" प्रतिपद्यन्ते। तद्भङ्गे- उक्तदूषणादिभिः केवल- व्यतिरेकिभङ्गेऽपि। लक्षणानाम्- इतरभेदानुमापकत्वेन केवलव्यतिरेकिरूपाणां तत्तत्पदार्थलक्षणानाम्। गमनिका- सार्थक्यसंपादनसरणिः। तत्त्वमुक्ताकलापे- एतदाख्ये स्वानुगृहीते ग्रन्थे बुद्धिसरे ‘सन्त्यक्तावीतहेतोरभिदुरमखिलं लक्षणाभावतः स्यात्। मैवं लक्ष्मैव भेदस्तदवगमकमित्याप्तवक्येतदुक्तिः॥ ’ इत्यादिभिः श्लोकैः। अगणि – प्रत्यपादि। अयमर्थः –लक्षणं केवलव्यतिरेकि मा भूत्। अन्वयव्यतिरेकित्वे पुनः सप्रयोजनमेव तत्। लोके ह्यम्बातातमातुलादिभिर्बहुशः शिक्षिता बाला गवादिशब्दास्तेषु तेष्वर्थेषु वाचकत्वेन प्रतिपद्यन्ते। ततश्च कश्चिद्बालो दूरावस्थितां दोव्यक्तिं दृष्ट्वा सहसैव निर्धारयितुमशक्तः शङ्कते कोऽयमिति। तत्रान्वयव्यतिरेकिरूपानुमानं" प्रवर्तते।अयं गौरिति व्यवहर्तव्यः सास्नादिमत्वात् मातापित्राद्यभिहितप्राचीनगोपिण्डवदिति सार्लौकिकीयं मर्यादा न्यायविदामप्यनुसर्तव्येति॥
कुमार-वरदः - 43
43.एवमीश्वरानुमानेषु साधारणं दूषणमुपन्यस्य केवलव्यतिरेकिणोऽव्याप्तिकत्वात् साक्षादेवविवक्षितार्थप्रसाधकत्वेन परवादिभिः प्रबलतयाऽभिमतत्वाच्च शिष्यप्रतिबोधनार्थं विशेषतस्तस्वरूपमुपन्यस्य तद्भङ्गे सर्वलक्षणविलोपप्रसङ्ग इति परोक्तं तर्काभासमपि निराकरोति–कार्यत्वादिति। इत्थं किलात्रानुमानप्रयोगः– सर्ववित्कर्तृकत्वासर्ववित्कर्तृकत्वविवादास्पदमखिलमपि कार्यजातं सर्ववित्कर्तृकमेव कार्यत्वात् यन्नैवं तन्नैवम्, यत् सर्ववितकर्तृकं न भवति तत् कार्यमपि न भवति। साध्याभावे हि साधनाभावकथनं" व्यतिरेकव्ाप्तिप्रदर्शनमिति न्यायविदः। पुरुषवदिति– आत्मवत्। सौगतव्यतिरिक्तानां सर्वेषामपि वादिनामात्मा नित्यत्वेनैव निर्णयत इति दृष्टान्तसिद्धिः। उक्तमर्थं प्रतिक्षिपति–नेति । तत्राह हेतुमाह– अनन्यथेति। अनन्यथासिद्धिर्हि प्रमाणानां" प्रामाण्यनियामिका। अनन्यथासिद्ध्यनङ्गीकारे हि सर्वेषामनुमानाभासादीनां कक्षीकारः प्रसज्येत। अन्यथासिद्धमप्रयोजकं व्याप्यत्वासिद्ध्यमनुकूलतर्करहितं" प्रतिकूलतर्कपराहतं सोपाधिकं सन्दिग्धव्याप्तिकमित्येतादृशान् शब्दान् प्रायेण पर्यायत्वेन प्रयुञ्जते प्रवावदूकाः।अत्र पुनरित्थमन्यथासिद्धिः– सर्ववितकर्तृपूर्वत्वं मा भूत् कार्यत्वमस्त्विति। अकर्तृकत्वे कार्यत्वं न स्यादिति हि तर्कः परिशुद्धः। त्वदुक्तः पुनरपरिशुद्ध एव व्यर्थविशेषणत्वात्, अन्ततः सोपाघिकत्वाच्च। अकर्तृकत्वमेवाकार्यत्वे प्रयोजकं नपुनः सर्वज्ञकर्तृकत्वाभाव इति ह्यस्माभिरुच्यते। ननु क्वचित् केवलव्यतिरेक्यनङ्गीकारे सर्वमपि केवलव्यतिरेक्यनुमानजातं लोलुप्येतेत्याशङ्क्य लुप्यतामेव दूषणतौल्यादित्याह– हेताविति। विचक्षणा एतादृशत्मनि व्यतिरेकिहेतौ सर्वत्रापि व्याप्त्यासिद्ध्यादिदौस्स्थ्यं प्रतिपद्यन्ते। ननु केवलव्यतिरेरिभङ्गे लक्षणानां" व्यतिरेक्यनुमानरूपत्वात् तद्भङ्गे लक्षणस्यापि भङ्ग इति महानयं प्रहारो भावत्कानामित्याशङ्क्यव्यतिरेकिभङ्गेऽपि लक्षणं तत्प्रयोजनं" च सिध्यतीति तत्त्वमुक्ताकलापे व्यक्तमुक्तमिति परिहरति– तद्भङ्ग इति। अयमर्थः– लक्षणं व्यतिरेकि मा भूत्। अन्वयव्यतिरेकित्वे पुनः सप्रयोजनमेव तत्। लोकेह्यम्बातातमातुलादिभिर्बहुशःशिक्षिता बाला गवादिशब्दांस्तेषुतेष्वर्थेषु वाचकत्वेन प्रतिपद्यन्ते। तादृग्भूतानुमानादिषु व्याप्तिग्रहणतुल्यमेतत्। ततश्च कश्चिद्बालो दूरावस्थितां गोव्यक्तिं दृष्ट्वा सहसैव निर्धारयितुमशक्तः" शङ्कते कोऽयमिति। तत्रान्वयव्यतिरेकिरूपानुमानं प्रवर्तते। अयं गौरिति व्यवहर्तव्यः सास्नादिमत्त्वात् मातापित्राद्यभिहितप्राचीनगोपिण्डवदिति सार्वलोकिकीयं मर्यादा न्यायविदामप्यनुसर्तव्येति सुष्ठूक्तम्॥43॥
मूलम् - 43
- कार्यत्वात् स्याद्विवादास्पदमिदमखिलं सर्ववित् कर्तृपूर्वं
यन्नैवन्तद्धि नैवं पुरुषवदिति नानन्यथासिद्ध्यभावात्।
हेतावेतादृशात्मन्यविदुरभिदुरं व्याप्त्यसिद्ध्यादिदौःस्थ्य-
न्तद्भङ्गे लक्षणानामगणि गमनिका तत्त्वमुक्ताकलापे॥
विश्वास-प्रस्तुतिः - 44
- यद्यप्यात्मान्तरादेरनुमितिरनघा लिङ्गभेदैस्तथाऽपि
प्रत्यक्षव्याप्तिशैली न खलु शिथिलिता कुत्रचित्पक्षभेदे।
आम्नाये त्वद्भुतोक्तिर्न भवति वितथा तादृशाप्तोक्तनीत्या
बाधाभावादिसाम्याद्विहतिमति भवेल्लोकवत् गौणतादिः॥
३४-तमाहोबिल-यतिः - 44
- यद्यपीत्यादि।यद्यपि लिङ्गभेदै — हेतुविशेषैः, विप्रतिपन्नं शरीरं सात्मकं प्राणादिमत्त्वादिहेतुभिरित्यर्थः। आत्मान्तरादेः" — परात्मप्रभृतेः। अनुमितिरनघा –निर्दोषा।अङ्गीकृतेति शेषः। तथाऽपि —तादृशपरात्मानुमितेरङ्गीकारेऽपि। पक्षभेदे कुत्रचित् –तादृशेश्वरानुमितिव्यतिरिक्तानुमितिसाध्याश्रये क्वापि।प्रत्यक्षव्याप्तिशैली न शिथिलिता खलु – प्रत्यक्षसिद्धव्याप्तिमर्यादा न भग्ना खलु। ईश्वरानुमितौ तद्भङ्गादनौचित्यमेव। नहि लोके कश्चित् कर्ता नित्यज्ञानचिकीर्षाप्रयत्नवान् दृश्यते। नच निष्प्रयोजनः" कर्ताऽस्ति। अतो नानुमानान्तरतौल्यमिति भावः। आम्नाये तु – वेदे तु। अद्भुतोक्तिः – अपूर्वार्थप्रतिपादनम्। तादृशाप्तोक्तनीत्या – अस्मदपरिदृष्टदेशान्तरागतपुरुषवक्तृकविचित्रार्थोक्तिन्यायेन। बाधाभावादिसाम्यात् –बाधकज्ञानाभावकारणदोषराहित्यादीनां तुल्यत्वात्। वितथा न भवति —- अप्रमाणं न भवति। विहतिमति — प्रत्यक्षादिप्रमाणान्तरविरुद्धार्थे ‘आदित्यो यूपः’ इत्यादौ। गौणतादि — लक्षणयाऽविरुद्धार्थान्तरपरत्वादि। लोकवत् भवेत् – यथा लौकिकवाक्येष्वपि केषांचित् प्रमाणत्वं केषांचित् प्रमाणान्तविरोधेऽविरुद्धार्थआन्तरपरत्वं च सर्वसंमतम्, तद्वदेव भवेत्। न च तावता सर्ववाक्यप्रामाण्यहानिरिति भावः॥
कुमार-वरदः - 44
- यदीश्वरानुमानं न स्यात् विप्रतिपन्नं शरीरं सात्मकं प्राणादिमत्त्वादिति भवद्भिरभिधीयमानं परात्मानुमानमपि भज्येत। यदि परात्मानुमानमङ्गीकुरुते, अङ्गीकुरुष्व त्वमीश्वरानुमानमपि; तस्यापि परात्मत्वादित्याशङ्क्य विषमोऽयं" दृष्टान्त इत्याह– यद्यपीति।वैषम्यमेव दर्शयति– तथाऽपीति। लिङ्गभेदैरात्मान्तरानुमानसद्भावेऽपि तत्र प्रत्यक्षव्याप्तिमर्यादाभङ्गाभावादौचित्यमेवावतिष्ठते। ईश्वरानुमाने तु तद्भङ्गादनौचित्यमेव। नहि लोके कश्चित्कर्ता नित्यज्ञानचिकीर्षाप्रयत्नवान् दृश्यते। नच निष्प्रयोजनः कर्ताऽस्ति। ईश्वरस्यापि सप्रयोजनत्वे जीवत्वप्रसङ्ग इत्यादिबहुदोषदुष्टत्वात् न्यायवादिनामिष्टमिदमनुमानं कष्ठमेवासंभावतादृष्टार्थपरिकल्पनाबाहुल्यात्।तर्ह्यदृष्टार्थोपवर्णनं" शास्त्रस्यापि न स्यादित्याशङ्क्याह– आम्नायेत्विति। तुशब्दो विशेषमाह। शास्त्रे ह्यपूर्वार्थकथनं भूषणमेव। ‘शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्’ इति तान्त्रिकैरुपवर्णनात्। लोकदृष्टक्रमाच्चामुमर्थमुपपादयति– तादृशेति। लोके हि देशान्तरादागतः कश्चिदत्यन्तादृष्टपूर्वमिष्टादिकमाचष्टे ।स चाप्तत्वादिप्रतिक्षेप्य एव। तथा वेदेऽपि कारणदोषादिरहिते प्रामाण्यस्यावर्जनीयत्वात्। ननु देशान्तरादागतपुरुषवाक्यं क्वचिदप्रमाणमपि स्यात्। ततस्तद्बाधकप्रमाणसद्भावे ऽप्रमाणम्, तदभावे प्रमाणमिति स्वतः प्रामाण्यन्यायसिद्धं प्रामाण्यमवतिष्ठते; एतदिहापि समानम्, तदिदमाह–बाधेति। तथाऽपि ‘आदित्यो यूपः’ ‘यजमानः प्रस्तरः’ इत्यादीनां बाधो दृश्यत इत्याशङक्याह– विहतिमतीति। अयमाशयः– द्वयं" खल्वर्थवादवाक्यमबाधितं बाधितं चेति। ‘यन्न दुःखेन संभिन्नम्’ इत्यादिकमबाधितम्। तच्च प्रतिपन्नार्थवतया तथैवावतिष्ठते। ‘आदित्यो यूपः’ ‘यजमानः प्रस्तरः इत्यादिकं बाधितम्। तत् मुख्यार्थं परित्यज्यौपचारिकार्थे वर्तते। स चात्र प्राशस्त्यादिरेव। तस्माद्बाधइतमबाधितं" वा वेदवाक्यं सार्थकमेवेति सुशोभनमेतत्॥44॥
मूलम् - 44
- यद्यप्यात्मान्तरादेरनुमितिरनघा लिङ्गभेदैस्तथाऽपि
प्रत्यक्षव्याप्तिशैली न खलु शिथिलिता कुत्रचित्पक्षभेदे।
आम्नाये त्वद्भुतोक्तिर्न भवति वितथा तादृशाप्तोक्तनीत्या
बाधाभावादिसाम्याद्विहतिमति भवेल्लोकवत् गौणतादिः॥
विश्वास-प्रस्तुतिः - 45
- नन्वाम्नायप्रधानाः क्वचिदनुकथयन्त्यस्मदादेरशक्यैः
कार्यैः कर्ताऽनुमेयः पर इति तदभिप्रैतु जन्मादिवाक्यम्।
तस्मादीशानुमानत्यजनमनुचितं वैदिकस्येति चेन्न
क्वाप्यौचित्योपदेशाद्यत इति च सदाद्युक्तिसिद्धानुवादात्॥
३४-तमाहोबिल-यतिः - 45
- नन्वाम्नायप्रधाना इत्यादि। ननु – प्रश्नार्थे। आम्नायप्रधानाः – आम्नायः वेद एव प्रधानं प्रमाणतमं येषां ते पराशरादयः। अस्मदादेः —अस्मद्प्रभृतेरल्पज्ञानशक्तिकस्य जीवस्य।अशक्यैः — कर्तुः सर्वथा ऽयोग्यैः। कार्यैः —मेघोदयसागरव्यवस्थादिभिः।कर्ता — तादृशाशक्यकार्यकर्ता। परः – परमात्मा।अनुमेयः – अस्ति कश्चिद्भगवानिति निर्धारणीयः। इति – एवम्। क्वेचित् –विष्णुपुराणागदौ। मेधोदयः सागारसंनिवृतिः इत्यारभ्य एतानि विण्णोः प्रवदन्ति मायात् इत्यन्तेन। अनुकथयन्ति – प्रतिपादयन्ति। जन्मादिवाक्यम् – यतो वा इमानि भूतानि जायन्ते, इत्यादिजग्च्चन्मादिप्रतिपादकवाक्यम्। तदभिप्रैति – पराशरदिभिरूक्तं मेधोदयादिभिर्यदीक्ष्वरानुमानं तदनुवादक तया तदभिप्रायकमेव। तस्मात् — महर्षिभिरेवेक्ष्वरानुमानस्य प्रतिपादनात् वेदे च तपदनुवादात्। वैदिकस्य — वेदप्रमाणकस्य विवेकिनः। ईशानुमानत्यजनमनुचितम् – इश्वरानुमानप्रहाणमयुक्तम्। इति चेन्न – एवमुचयते चेन्नैतधुक्तम्। क्वाण्यौचित्योपदेशात् – विष्णोरेव जगत्कारणत्वं श्रुतिप्रतिपन्नं" तर्कानुमानैरपि साधितुं शक्यमित्येतावन्मात्रप्रतिपादन्तत्परत्वादुदाहृतग्रन्थस्य। यत इति च – जन्मादिवाक्ये यतोवा इमानि इत्यत्रानुवादकेन यतइति पदेन च। सदाधुक्तिसितद्धानुवादात् – सदेव सोम्येदमग्र आसीत् एको हवै नाराण आसीत् सहरत्रशीर्षा पुरूषः इत्यादिपुर्वाक्तेपुरुषसूक्तार्थपर्यवसायिसमस्त कारणवाक्यसिद्धपुरूषनारायणानुवादात्, नपुनर्दूषणशतग्रन्थिलानुमानसिद्धानुवादादित्यर्थः॥
कुमार-वरदः - 45
- अत्र पूर्वपक्षवादी पुनश्चोदयति– नन्विति। इत्थं किल तदभिप्रायः– लोके हि भवन्मतानुसारिणः सर्वऽपि ब्रह्मआदिपिपीलिकान्तस्य विचित्ररचनस्य नारायणमन्तरेण सृष्टिर्न संभवतीति सर्वथा वदन्ति। तदेव केचित् प्रबन्धेषु प्रकरणरूपेषु युक्तिभिः प्रतिष्ठापयन्ति। तदेवानुमानम्। तच्चाभिप्रैति जन्मादिवाक्यम्। तस्मादनुमानमेव परस्मिन्ब्रह्मणि प्रमाणम्। तस्मादनुमानस्य जगत्कर्तृसाधने प्राबल्यमित्यनुमानसिद्धानुवादमात्रम् एतत्ज्जन्मादिवाक्यम्। अनुवादत्वं च ’ यतो वा इमानि भूतानि’ इति यच्छब्दयोगादवगम्यत इत्येतस्मादेव– हेतोर्वैदिकस्य भवत ईश्वरानुमानत्यजनमनुचितमिति। तदिदं प्रतिक्षिपति– नेति। तत्र हेतुमाह– क्वापीति। औचित्यम्– योग्यतातिशयः। नारायणस्यैव कारणत्वे श्रुतिपुराणेतिहासलोकप्रसिद्ध्यादयो भूयांस संवदन्त इत्यास्माकानां प्रवादः। नच तावताऽनुमानगम्यत्वमेवेति प्रतिष्ठाप्यते। केषांचिद्ग्रन्थनिदर्शनेऽपि ‘यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ इत्युक्तप्रक्रियया ऽऽगमानुकूलतर्कमात्रमनुमन्यते। नपुनरागमविरुद्धनिमित्तमात्रेश्वरानुमानं परवादिभिरुपकल्पितं" प्रमाणतया प्रतिष्ठाप्यते। यत इत्यनुवादश्चास्य पूर्वप्रसिद्धिमात्रमेवाक्षिपेत्। नपुनरनुमानेनैव प्रसिद्धम्। अत्र तु प्रसिद्धिः" पुरुषसूक्तादिवाक्चैरिति पूर्वमेवोक्तमस्माभिः। इह च सद्विद्योपादानं सर्ववाक्योपलक्षणम्॥45॥
मूलम् - 45
- नन्वाम्नायप्रधानाः क्वचिदनुकथयन्त्यस्मदादेरशक्यैः
कार्यैः कर्ताऽनुमेयः पर इति तदभिप्रैतु जन्मादिवाक्यम्।
तस्मादीशानुमानत्यजनमनुचितं वैदिकस्येति चेन्न
क्वाप्यौचित्योपदेशाद्यत इति च सदाद्युक्तिसिद्धानुवादात्॥