02 जन्माद्यधिकरणम्

विश्वास-प्रस्तुतिः - 35

35 . जन्माद्यैश्चेद्विशेष्यं भवति बहुलताऽथोपलक्ष्यं ब्रवीषि
ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा।
उद्दिष्टब्रह्मचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः
पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्रशब्दार्थ उक्तः॥

३४-तमाहोबिल-यतिः - 35
  1. जन्माद्यैश्चेदित्यादि। जन्माद्यैर्विशेष्यं चेत् – लक्षणीयं ब्रह्म जगज्जन्मादिभिर्विशेषणैर्विशेष्यमित्युच्यते यदि। जगज्जन्मादीनां" ब्रह्मलक्षणत्वं विशेषणत्वेनेत्युच्यते यदीत्यर्थः। विहतिबहुलता — खण्डो मुण्डः पूर्णश्रृङ्गो गौरित्यादौ खण्डत्वादिनामिव विशेष्यभेदकत्वाज्जगज्जन्मादीनां" ब्रह्मनानात्वापत्त्या विरोधबाहुल्यं स्यात्।अथ –पक्षानतरे।उपलक्ष्यं ब्रवीषि – जन्माद्यैरुपलक्ष्यं ब्रह्मेति दसि याद। जगज्जन्मादीनामुपलक्षणत्वेन ब्रह्मलक्षणत्वं वदसि यदीत्यर्थः। ज्ञाताज्ञातादिदौस्थ्यम् —केदारादिस्थानापन्नः सारसादिस्थानापन्नोपलक्षणं च ज्ञातविशेषौ। देवदत्तीयत्वस्थानापन्न उपलक्ष्याकारोऽज्ञातांशः। एवमादिविशेषाणां निर्विशेषे परे ब्रह्मणि समापाताद् दुरवस्थापत्तिः। व्यतिषजति — प्रसज्यते। अलक्षिते च परीक्षा न स्यात् –लक्षणेनेतरव्यावृत्ततयाऽनगते वस्तुनि विचारो नावकाशं लभते। ततः –तस्मात् कारणात्। इह —शास्त्रे। उद्दिष्टब्रह्मचिन्ता कथमिति –उद्दिष्टस्य विचार्यतया निर्दिष्टस्य ब्रह्मणः चिन्ता विचारः कथं क्रियेतेति। अत्र — अस्मिन्नाक्षेपे कृते सति तत्परिहाराय। हेतुत्वलक्ष्यः —जगत्कारणत्वलक्षणेन लक्ष्यः – उपलक्ष्य इतरव्यावृत्ततया ऽवसेयः। पुंसूक्तादिप्रसिद्धः — जगत्सृष्ट्यादप्रतिपादकसर्ववेदसारभूतपुरुषसूक्तादिषु पुरुषशब्दवाच्यतया प्रसिद्धः। गुणविधिः – कल्याणगुणमहानिधिः। स्वरूपगुणकृतबृहत्त्वाश्रयः। अघजित् –हेतप्रतिभटः। अनेनाश्रितबन्धनिवर्तनरूपबृंहणत्वाश्रयत्वमुक्तम्। एतादृशः पुरुषो ब्रह्मशब्दार्थ उक्तः –भृगुवल्यां भृगुणा ब्रह्म किमिति पृष्टो वरुणो यतो जगत्सृष्ट्यादिकं प्रसिद्धं तद् ब्रह्मेत्याह। तथा च ‘वेदेषु पौरुषं सूक्तम्’इति वेदत्रयसारभूते पुरुषसूक्ते पुरुषशब्दवाच्स्य नारायणस्यैव जग्तसृष्ट्यादिप्रतीतेः स एव ब्रह्मशब्दार्थ इत्युक्तं भवतीति भावः। एवं चोपलक्षणं जगत्कारणत्वं सारसस्थानापन्नं केदारस्थानापन्नः पुरुषशब्दितः, श्रीविष्णुःदेवदत्तीयत्वस्थानापन्नमनवधिकातिशयबृहत्त्वंबृंहणत्वाश्रयत्वरूपं" ब्रह्मशब्दार्थमित्युपलक्षपक्षनिर्वाहः। निर्विशेषवादस्तु वेदवादे न युज्यते,किन्तु माध्यमिकगोष्ठ्यामेवेति भावः॥
कुमार-वरदः - 35
  1. प्रमाणपरीक्षा सिद्धा। ततः प्रमेयपरीक्षेति संगतिः। पूर्वस्मिन्नधिकरणे हेयत्वेनोपादेयत्वेन चाधिगतकर्मणोऽधिकारिणः प्रागुक्तादतःशब्दार्थाद् ब्रह्मविचारस्य कर्तव्यत्वमुक्तम्, तत् किमिति शिष्याकाङ्क्षायां जन्माद्यधिकरणमारभ्यत,इति भाष्यकारैरेव संगतिरुक्ता। अत्रान्ये च संगतिविशेषा दरीदृश्यन्ते। पूर्वं ब्रह्मेति स्वरूपनिर्देशादुद्देशः। अत्र जन्मादिकं लक्षणत्वेनोच्यते। उत्तराभ्यामपि सूत्राभ्यां" परीक्ष्यत्वसिद्धिः । ततः परं परीक्षेति। एवं वा – प्रथमसूत्रे सिद्धसामान्ये शब्दसामान्यव्युत्पत्तिसमर्थनम्। इह पुनः सिद्धेविशेषे ब्रह्मणि शब्दविशेषस्य ब्रह्मशब्दस्येति। इत्थं चाहुः– पूर्वाधिकरणविषयवाक्ये सामान्येन ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इत्यादिना शिष्याचार्ययोः कृत्यविशेषविधानमुक्तम्। अत्र पुनः स्वरूपोदाहरणविशेषे तस्यैव श्रुतिसंवाद उच्यते। तत्र विहितमेवात्रानुष्ठेयत्वेन विशेष्यते। अयमत्र विशेषः – पूर्व शिष्यसामान्यस्य गुरुणोपदेशः प्रकाशितः। अत्र पुनः शिष्यविशेषस्य पुत्रस्य पित्रोपदेशः प्रकाश्यते। उभयं श्रुतिसिद्धम् ‘ज्येष्ठाय प्रणाय्यायान्तेवासिने प्रब्रूयात्’ इति । अत्रासंमतः प्रणाय्यः। ‘प्राणाय्योऽसंमतौ’ इति परमर्षिणा पाणिनिनैवौक्तत्वात्। अत्र शिष्यस्यासंमतत्वमाचार्य उपदेशमात्रासन्तुष्टत्वम्। प्रबुद्धौ हि शिष्य उपदिष्टेऽप्यर्थे युक्तिमप्यपेक्षते। अत्र ज्येष्ठपुत्रोपादानं प्राधान्यात्। ’ यो ब्रह्माणम्’ ‘अथर्वाय’ इति च श्रुतेः। संगत्यन्तरमप्याहुः– पूर्वत्राप्रतिपत्तिः पूर्वपक्षहेतुः। उत्तरत्र विप्रतिपत्तिः। अत एवाहुः– ‘व्युत्पत्यभावात् प्रतिपत्तिदौःस्थ्यात्’ इति। किंच पूर्वाधिकरणे निरीश्वरवादिनिराकरणम्, उत्तरत्र निर्विशेषवादिनिराकरणम्। अत्रापि तत्त्वतो निरीश्वरवादिनिरीकरणमेव – निर्विशेषस्यानीश्वरत्वात्ष प्रथमाध्यायप्रतिपाद्यशब्दार्थसंबन्धप्रतिपादनं प्रधमाधिकरणे। द्वितीयाध्यायोक्तविरोधकथनं द्वितीय इति चाहुराचार्याः। एवमुत्तराधिकरणयोरध्यायद्वयसंग्रहरूपत्वं द्रष्टव्यम्। एवं संगत्यन्तराण्यप्याचार्याभिहितानि तत्रतत्र द्रष्टव्यानि। शास्त्रादसंगतिषु षट्कं प्रागुक्तमत्राप्यविशिष्टमिति न लिख्यते। विषयो ऽप्यविशिष्ट एव शास्त्रारम्भस्यैव विषयत्वात्। तदर्थविचारस्तु – किं ब्रह्मलक्षणतः प्रतिपत्तुं शक्यते न वेति। तदर्थमपि वियार्यते–‘यतो वा’ इत्यादिवाक्यानि जन्मादीनि किं ब्रह्मलक्षणतया प्रतिपादयितुं शक्नुवन्ति न वेति। तदर्थम् विचार्यते– जन्मादीन्युपलक्षणान्युत विशेषणानीति।उपलक्षणपक्षेऽपि ब्रह्मणि प्रतिपन्नाप्रतिपन्नोपलक्षकाकारत्रयविभागोऽस्ति न वेति। विशेषणपक्षेऽपि किं विशेषाणानां विशेष्यभेदकत्वंस्वभाव किं वा विरुद्धविशेषणानामिति चिन्ताक्रमः सन्तन्यते। फलफलिभावोऽपि –उपलक्षणत्वे तावदाकारत्रय प्रतीत्यभावात् विशेषणपक्षे तु विशेषाणानां विशेष्यभेदापादनस्वभाव्याज्जन्मादीनां ब्रह्मण्युभयथापि लक्षणत्वासंभवाद लक्षिते ब्रह्मणि परीक्षारूपविचारो न कर्तव्य एवेति। उक्तार्थवैपरीत्येन सिद्धान्ते फलफलिभावो विभाव्यः। एतत् सर्वमभिप्रेत्याधिकरणपूर्वपक्षसिद्धान्तावारचयति– जन्माद्यैरिति। अत्र द्वौ पक्षौ संभावितौ, विशेषणत्वोपलक्षत्वेन वा जगत्कारणत्वादिकं ब्रह्म व्यावर्तयतीति। उभयमपि न संभवति। खण्डो मुण्डः पूर्णश्रृङ्गो गौरित्यादिन्यायेन विशेषणानां विशेष्यभेदकत्वस्वाभावाद् विशेष्यभेदाद् ब्रह्मणि नानात्वप्रसङ्गेन विशेषणपक्षस्तावदत्यन्तविरुद्ध एव।उपलक्षणपक्षोऽपि न घटते–निर्विशेषे परब्रह्मणि प्रतिपन्नाप्रतिपन्नोपलक्षकाकाररूपविशेषाभावात्। लोके ह्याकारत्रयान्वयेन यत्रायं सारसः स देवदत्तकेदार इत्यादावुपलक्षणपरिज्ञप्तिः। केदारत्वं प्रसिद्धम्। देवदत्तीयत्वमप्रसिद्धम्। सारसंबन्धो ऽप्युपलक्षणत्वात् प्रसिद्ध एव। तेनोभयपक्षासंभवेन लक्षणाभावादलक्षिते विचारस्यान्याय्यत्वाच्च ब्रह्मविचारो न संभवतीति पूर्वः पक्षः। अत्र विशेषपक्षे बहुवक्तव्यत्वात् सूचीमत्राभिप्रायः। ब्रह्म निर्गुणमिति निर्गुणानामेव प्रलापः। तेन जगत्कारणत्वादिर्ब्रह्मगुणः। स तूपलक्षणाकारतया सुप्रसिद्ध एव। उपलक्ष्योऽपि कश्चित्पुरुषविशेषः पुंसूक्तादिषु पुरुषः पुरुष इति सामान्यतः प्रसिद्ध एव। अप्रसिद्धं पुनरवशिष्यते। तत्तु निरतिशयबृहत्त्वबृंहणत्वाभ्यां" ब्रह्मशब्दवाच्यत्वम्। किं ब्रह्मेति ह्यनुयुज्यते शिष्येण। तदिदं सर्वमभिप्रेत्याहुर्भाष्यकाराः ’ उपलक्ष्यं ह्यनवधिकातिशयबृहदंबृहणञ्च बृहतेर्धातोस्तदर्थत्वात्’ इति। अनेनोभयलिङ्दत्वमुच्यते। कल्याणगुणैकतानत्वं हि बृहत्वम्। अखिलहेयप्रत्यनीकत्वं पुनर्बृंहणत्वमिति। तदिदमुभयमप्याह– गुणनिधिरघजिदिति॥35॥
मूलम् - 35

35 . जन्माद्यैश्चेद्विशेष्यं भवति बहुलताऽथोपलक्ष्यं ब्रवीषि
ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा।
उद्दिष्टब्रह्मचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः
पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्रशब्दार्थ उक्तः॥

विश्वास-प्रस्तुतिः - 36
  1. नाना चेल्लक्षणानि स्वरसभिदुरता ब्रह्मणि स्याद्विशेष्ये
    खण़्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दैकताऽत्र।
    तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्व्यवच्छेद्यहानेः
    खण्डत्वादिक्रमाच्चेत्यसदविहतितः खण्डतादेर्विशेषात्॥
३४-तमाहोबिल-यतिः - 36
  1. नानाचेदित्यादि। लक्षणानि –जगज्जन्मादीनि सत्यत्वादीनि च। नानाचेत् –बहूनि चेत्। विशेष्ये ब्रह्मणि स्वरसभिदुरता स्यात् – विशेषणानां विशेष्यभेदकत्वात् तत्तद्विशेष्यस्य ब्रह्मणोऽपि तत्तद्विशेषणाश्रयत्वस्वरसतो भिन्नभिन्नता स्यात्। अत्र – अनेकविशेषणविशेष्ये ब्रह्मणि। धर्मिशब्दैकात – ब्रह्मेतिधर्मिशब्दैक्यम्।खण्डो मुण्डश्च गौरित्यभिलपनसमा– खण्डो मुण्डः पूर्णश्रृङ्गो गौरिति धर्मिपदैक्येऽपि विशेषणभेदात् विशेष्यभेदो दृश्यते, तद्वदप्रयोजदमित्यर्थः। तेषु –जन्मादिषु। एकं चेत्् — एकं लक्षणत्वेनाभिमतं चेत्। अन्यद् वृथा– आम्नातमन्यद्वृथा स्यात्। तेष्वनियतं किमपीत्युक्ते ब्रह्मानियतिः स्यादिति सिद्धम्। समुदितं चेत् – जन्मादिकं समुदितं लक्षणं चेत्।व्यवच्छेद्यहानेरफलं स्यात् – लक्षणघटकविशेषमानामतिव्याप्तिवारकत्वेन साफल्यस्य वक्तव्यतया जगज्जन्मादिष्वेकैकस्यैव ब्रह्मान्यगामित्वाभावेनानातिव्याप्ततया व्यवच्छेद्यस्य व्यावर्त्यस्य हानेरभावादितरविशेषणमफलं स्यात्। खण्डत्वादिक्रमाच्चेति —-तस्मात्खण्डो मुण्डः पूर्णश्रृङ्गो गौरितिवदसंगतोऽयं लक्षणप्रणयनक्रम इति। असत्—उक्तमसाधु।अविहतितः खण्डतादेर्विशेषात् —- जगज्जन्मादीनामविरुद्धत्वेन खण्डत्वाद्यपेक्षया विशेषस्य विद्यमानत्वात्। नीलमुत्पलं सुगन्धि, देवदत्तः, श्यामो युवा लोहिताक्षः समपरिमाण इत्यादिस्थले विशेषणानि बहून्यपि न विशेष्यं" भिन्दन्ति, अपि त्वेकस्मिन्नेव समाविशन्ति।तद्वज्जन्मादीन्यप्यविरुद्धानि न ब्रह्मव्यक्तिभेदकानि। खण्डत्वादीनि चु विरुद्धत्वादेकत्र समावेशं नार्हन्ति। तत एव स्वस्वाश्रयं भिन्दन्तीति महदिदं वैषम्यमिति भावः॥
कुमार-वरदः - 36
  1. एवमुपलक्षणपक्षे पूर्वपक्षं निराकृत्य विशेषणपक्षेऽपि विशेषेण पूर्पक्षमनूद्य निराकरोति– नानाचेदिति। उभयमिह लक्षणमिति वदन्ति वेदान्तवेदिनः। ‘यतो वा इमानि’ इत्यादिकमेकं ‘सत्यं ज्ञानम्’ इति शोधकवाक्य- प्रतिपन्नमपरमिति। तत्र पूर्वं तटस्थलक्षणम् , उत्तरं स्वरूपलक्षणमिति मृषावादिन उद्धोषयन्ति। उभयमपि सामा- नाधिकरण्यवैयधिकरम्याभ्यां ब्रह्मस्वरूपप्रतिपत्त्यर्थत्वात् प्रायेण स्वरूपलक्षणे पर्वस्यतीति प्राज्ञाः। तत्र पूर्वपक्षवादि न्यायसाम्यादुभयमपि विकल्प्य प्रतिक्षिपति–अत्र जगत्कारणत्वादिकं सत्यत्वादिकं वा किमैकैकश्येन सर्वं ब्रह्म- लक्षणम्? यद्वा तेष्वेकम् , उत सर्वमपि समुदितं लक्षणमिति। नाद्यः—खण्डो मण्डः पूर्णश्रृङ्गो गौरित्यादिवद् ब्रह्मनानात्वप्रसङ्गात्। नापरः–तस्मिन्नपि पक्षे किं नियतमेकमुतान्यतमत्वेनानियतं वा?। पूर्वत्र दोषमाह-वृथेति। उत्तरत्रपि ब्रह्मानियति स्यादिति भावः। समुदितमपि पक्षं प्रतिक्षिपति–अफलमिति ।अफलत्वमेवोपपादयति– स्यादिति ।लक्षणेषु विशेषणानि व्यभिचारवारणायैव प्रयुज्यन्ते। व्यभिचारो ह्यलक्ष्यगामित्वम्। तेनोक्तस्य विशेषणस्यालक्ष्यगामित्वे विशेषणान्तरं प्रयोज्यमिति न्यायविदां निर्णयः। अत्र जगत्कर्तृत्वादीनामब्रह्मगामित्वं नास्तीति विशेषणान्तरमनर्थकमेव। तस्मात् खण्डो मुण्जः पूर्णश्रृङ्गो गौरितिवदसंगतोऽयं लक्षणव्यवहार इति। एतत्प्रतिक्षिपति– असदिति । तत्र हेतुमाह–अविहतित इति। द्विधा खलु विशेषणानि प्रयुज्यन्ते– क्वचिद्विरुद्धानि क्वाप्यविरुद्धानीति। नीलमुत्पलं देवदत्तोऽयं ब्राह्मण इत्यादावविरुद्धानि। खण्डो मुण्ड इत्यादौ विरुद्धानीति। अत्र विशेषणानां विरोधाभावात् परतो भिद्यत इत्यनुपालभ्य एव। इयं किलात्र पूर्वपक्षसिद्धान्तवादिनोर्युक्तपरिपाटी। ‘सत्यं ज्ञानम्’ इत्यादौ समानाधिकरणवाक्ये सत्यत्वादिविशेषणसंबन्विवक्षायां" भेदकं विशेषणं भेद्यं विशेष्मितिन्यायेन खण्डो मुण्डः पूर्णश्रृङ्गो गौरितिवद् विशेष्यभेदः स्यादित्येकः प्राह। अपरस्तु धर्मिवाचिपदैक्यात् समानविभक्तिनिर्देशाच्च नीलमुत्पलमित्यादिवद्विशेष्याभेद इति समाधत्ते। तत्र पूर्वपक्षवादी पुनरन्यथासिद्धमाह– नीलमुत्पलमित्यादौ धर्मिवाचिपदैक्यादिना न धर्म्यैक्यम्, अपि तु प्रत्यक्षसिद्धत्वादिति। एवं तर्हि खण्डो मुण्ड इत्यादावपि प्रत्यक्षसिद्धत्वादेव भेदो न पुनविशेषणभेदादिति परपक्षेऽपि विशेषणभेदस्याप्रयोजकत्वमाचष्टे सिद्धान्तवादी। एवं तर्हि भेदाभेदोदाहरणद्वयसद्भावे किं" नियामकमिति गलिताहङ्कारेण पृष्टे वर्णयति निर्णेतारः– विरुद्धमेव विशेषणं विशेष्यभेदकं न पुनरविरुद्धं विशेषणम्। तथैव दृष्टत्वादिष्टत्वाच्च सर्वेषामपि विदुषामिति॥36॥
मूलम् - 36
  1. नाना चेल्लक्षणानि स्वरसभिदुरता ब्रह्मणि स्याद्विशेष्ये
    खण़्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दैकताऽत्र।
    तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्व्यवच्छेद्यहानेः
    खण्डत्वादिक्रमाच्चेत्यसदविहतितः खण्डतादेर्विशेषात्॥
विश्वास-प्रस्तुतिः - 37
  1. तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि
    व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम्।
    प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृतिर्धीमहिम्ने
    संभूयाप्याहुरेके फलमपि च तदाशङ्कितार्थव्युदासः॥
३४-तमाहोबिल-यतिः - 37
  1. तत्तदित्यादि। तत्तद्भेदकं स्वप्रत्यनीकव्युदसननियतम् — नीलत्वोपलत्वसुगन्धित्वरूपं विशेषणं स्वप्रतिपन्नाकारविरुद्धाकारनिरसननियतम्। अन्यबाधि न — अविरुद्धाकारनिरासकं न भवति। यथा नीलमित्युक्ते सति अनीलाद्व्यावृत्तिः क्रियते। न पुनरविरुद्धस्योत्पलत्वस्य व्यावृत्तिः। एवमुत्पलमित्युक्ते सत्यप्नुपलादेरेव व्यावृत्तिर्नपुनरविरुद्धस्य नीलत्वस्य व्यावृत्तिः क्रियते। एवं जगज्जन्महेतुत्वं स्वाश्रयमतथाभूताद् वस्तुनो व्यावर्तयति। जगत््स्थितिहेतुत्वञ्चातथाभूतात् स्वाश्रयं व्यावर्तयति। जगन्नाशहेतुत्वं चातथाभूतात् स्वाश्रयं व्यावर्तयति। न पुनः स्वसमानाधिकरणधर्माश्रयं स्वविरुद्धं व्यवर्तयति। स्वप्रतिपन्नाकारविरुद्धाकारवस्तुव्यावर्तकत्वादेव विशेषणानां भेदकत्वप्रवाद इति भावः।जननस्थापनध्वंसनानाम्–स्रष्टृत्वस्थापकत्वसंहर्तृत्वानाम्। कालभेदाद् व्याघआतो न भवति–एककाले विरुद्धत्वऽपि कालभेदाद्विरोधो नास्ति। इह – जगज्जन्मादिसमुदाये। प्रत्येकं लक्षणत्वं सुवचम् – एकैकस्यैवान्यासंवलतस्य ब्रह्मलक्षणत्वं वक्तुमुचितम्। बहूदाहृतिर्धीमहिम्ने – एकैकस्यैव स्वेतरव्यावर्तकत्वेन लक्षणत्वे युक्तेऽपि बहूदाहरणं शिष्यबुद्धिदार्ढ्याय। एके – केचन। संभूयाप्याहुः – जगज्जन्मादीनि परस्परं मिलित्वापि लक्षणानि भवन्तीत्याहुः। तदा च –तत्पक्षे च। फलमपि –विशेषणबाहुल्यफलमपि।शङ्कितार्थव्युदासः – अयमभिप्रायः। सृष्टिस्थितिसंहारकर्तारः परवादिकथितास्त्रयः" सन्ति। ते सर्वे ऽपीश्वरा ब्रह्मशब्दवाच्याश्चेति कैश्चिदाशङ्क्यते।तेषां प्रत्येकेश्वरनिरसनफलं विशेषणत्रयमिति। सृष्ट्यादिकर्तृत्वं" समुदितमेव परब्रह्मत्वनियामकम्, तच्च ब्रह्म नारायण एव ‘नारायण परं ब्रह्म’ इति श्रुतिरिति॥
कुमार-वरदः - 37
  1. तर्हि भेदकं विशेषणं भेद्यं विशेष्यमिति विचक्षणप्रवादो व्यर्थः स्यादित्याशङ्क्याह– तत्तदिति। तत्र तत्तद्विशेषणप्रतिपन्नाकारविरुद्धाकारनिवर्तनं" क्रियते न पुनरविरुद्धाकारनिवर्तनम्। यथा नीलमित्युक्ते सति अनीलाद्व्यावृत्तिः क्रियते न पुनरविरुद्धस्योत्पलत्वस्य व्यावृत्तिः। एवमुत्पलमित्युक्ते ऽप्यनुत्पलादेरेव व्यावृत्तिः। न पुनरविरुद्धस्य नीलत्वस्य व्यावृत्तिः। नीलत्वोपलत्वयोस्सामानाधिकरण्येनैव दृष्टत्वात् नीलोत्पलशब्दयोर्यथा दर्शनं व्युत्पत्तेश्च। तेन भेदकत्वं च सिद्धं विशेषणानां विरोधे व्यावर्तकत्वात्। अविरोधे पुनरसिद्धमिति। तर्हि ’ यतो वा इमानि भूतानि’ इत्यादिवाक्यं" भवद्भिर्लक्षणत्वेन प्रधानतयोच्यते। तस्मिन् वाक्ये यत इत्यादिना वैयधिकरण्ये सत्यपि यत्कारणं यच्च स्थापकं यच्च पुनः संहारकं तद्ब्रह्मेत्युत्तरेण सामानाधइकरण्येमेव विवक्षितम्। तत्र हेतुत्वादीनां परस्यविरुद्धानां कथमिव लक्षणत्वम्? न हि जनक एव विनाशयति। अतो विरुद्धविशेषणत्वाद् हेतुत्वादिकं न ब्रह्मलक्षणमिति। अत्रोत्तरमाह– व्याघआत इति। एकस्यैव कर्तुर्विरुद्धेष्वपि कार्येषु कालभेदाद्विरोधः कार्येषु प्रशाम्यतीति भावः। एवं चोद्यमनिष्टं क्रमेण परिहरति–प्रत्येकमिति। अत्र ह्येकैकमेव लक्षणमुचितम्। यथा चेष्टेन्द्रियार्थाश्रयः शरीरमिति, यथा वा क्रियावद् गुणवत् समवायिकारणं द्रव्यमित्यादि। बहूदाहरणं किमर्थमिति चोद्ये शिष्यशिक्षार्थमित्युत्तरं" तथेत्याह–बह्विति। सम्भूत लक्षणमित्येकदेशिनां पक्षमपि समाधातुमुपक्रमते– सम्भूयेति। समाधानमेवाह– फलमिति। इत्थं किलाभिप्रायः" सृष्टिस्थितिसंहारकर्तारः परवादिकथितास्रयः सन्ति। सर्वे ऽप्यीश्वरा ब्रह्मशब्दवाच्याश्चेति चापरिचितवेदान्तैरकालितसम्यङ्न्यायकलापैरन्तेवासिभिराशङ्क्यते। तेषां प्रत्येकेश्वरत्वनिरसनफलं विशेषणत्रयोपादानमिति। सृष्ट्यादिकर्तृत्वं समुदितमेव परब्रह्मत्वनियामकम्। तच्च ब्रह्म नारायण एव। ’ नारायण परं ब्रह्म’ इति श्रुतेः॥37॥
मूलम् - 37
  1. तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि
    व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम्।
    प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृतिर्धीमहिम्ने
    संभूयाप्याहुरेके फलमपि च तदाशङ्कितार्थव्युदासः॥
विश्वास-प्रस्तुतिः - 38
  1. ज्ञातं चेन्नोपलक्ष्यन्न च यदि नतरां लक्ष्मयोगाप्रतीतेः
    ज्ञाताज्ञातांशभेदस्विह दुरभिलपो लक्षणेनैव वेद्ये।
    ब्रह्मत्वं ब्रह्मशब्दान्वितिरपि विदितेऽन्यत्र नोचेन्न शङ्का
    मैवन्नानागमोद्यद्विशयशमनतः श्रीमति ब्रह्मतोक्तेः॥
३४-तमाहोबिल-यतिः - 38
  1. ज्ञातञ्चेत्यादि। ज्ञातं चेत् —-ब्रह्म पूर्वं ज्ञातं चेत्। उपलक्ष्यं न —उपलक्ष्यं न भवति। ज्ञानार्थं ह्युपलक्षणान्वेषणम्। नच यदि —न ज्ञातमिति चेत्। अप्रतिते —अज्ञाते। लक्ष्मयोगो नतराम् — लक्षणसम्बन्धो न भवत्येव। सारसाद्युपलक्षणसंबन्धित्वेन ज्ञात एव हि केदारः उपलक्ष्यो दृश्यते न त्वज्ञातः। लक्षणैरेव वेद्ये – इदानीं प्रणीयमाने र्जगज्जन्मादिभिरेवावगन्तव्ये। इह – ब्रह्मणि। ज्ञाताज्ञातांशभेदस्तु दुरभिलपः — यथा सारसोपलक्ष्ये भूखण्डे केदारत्वरूपो ज्ञातधर्मः, देवदत्तीयत्वरूपोऽज्ञातधर्मः, एवं ज्ञाताज्ञातांशभेदो ब्रह्मणि वक्तुं न शक्यते। अत्र विदिते हि — अस्मिन्शास्त्रे वस्तुनि ज्ञाते सति हि। ब्रह्मत्वं ब्रह्मशब्दान्वितिरप भविष्यति न त्वविदिते। नो चेत् – अविदितं चेत्। शङ्का न स्यात् — सर्वथाऽज्ञाते शङ्का नोदियात्। मैवम् — एवं न वाच्यम्। नानागमोद्यद्विशयमनतः श्रीमति ब्रह्मतोक्तेः — आपाततो ब्रह्मशिवादिपरानेकश्रुतिदर्शनजनितस्य त्रिमूर्तिषु कः परं ब्रह्मेत्याकारकसंशयस्य निवृत्तये श्रीमति पुरुषोत्तमे ब्रह्मत्वप्रतिपादनात्। अयमाशयः – यद्यपि निरतिशयबृहत्त्वबृंहणत्वविशिष्टं ब्रह्मेति ‘ब्रह्म परबृढं सर्वतः’ ‘बृहति बृंहयति तस्मादुच्यते परं ब्रह्म’ ‘बृहत्त्वाद् बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते’ इत्यादिप्रमाणप्रसिद्धम्, तथापि तत्तच्छ्रुतिपुराणोक्तब्रह्मविष्णुरुद्रादिषु तादृक् परं ब्रह्म किंरूपमिति संशयोत्थानात् तन्निवृत्तये ह्नीशब्दवाच्यभूमिपतित्वलक्ष्मीपतित्वलिङ्गोपोद्बलितविशेषनिर्णयोत्तरानुवाकसहितपुरुषसूक्तप्रतिपन्नमहापुरुषे तादृशपरब्रह्मत्व प्रतिपादनतत्परत्वाज्जगत्कारणत्वलक्षणप्रणयनस्य न वैयर्थ्यमिति भावः॥
कुमार-वरदः - 38
  1. पुनरपि पूर्वपक्षमुपक्षिप्य प्रकारान्तरेण प्रतिक्षिपति–ज्ञातमिति। अत्रायं विकल्पः– किं ज्ञातमुपलक्ष्यम्? उताज्ञातम्? ज्ञातं चेदुपलक्ष्यमेव न भवति ज्ञातत्वादेव। नाप्यज्ञातमुपलक्ष्यमज्ञातत्वादेव। सारसाद्यमुपलक्षणसम्बन्धित्वेन ज्ञात एव केदार उपलक्ष्यः। तथा च ज्ञाताज्ञातमुपलक्ष्यमिति वक्तव्यम्।तच्चात्र वक्तुं न शक्यते। केदारे हि प्रत्यक्षसिद्धं केदारत्वं" ज्ञातं देवदत्तीयत्वमज्ञातम्। तेन तत्रोपलक्षणत्वं युज्यते। अत्र पुनः श्रुतिसिद्धलक्षणैकवेद्ये ब्रह्मणि ज्ञातत्वेन न संभवति। पुराणादिप्रसिद्धपुरुषस्तु ज्ञात एवेति चेत्; हन्त तर्हि तैरेव पुराणादिभिर्ब्रह्मत्वं ब्रह्मशब्दवाच्यत्वं च ज्ञातमिति पुनरपि ज्ञातत्वादेव नोपलक्ष्यत्वम्। अज्ञातत्वं च भवता वक्तुं न शक्यते। सर्वथाऽप्यज्ञाते किं ब्रह्मेति विशेषशङ्काया अनवकाशात्। तदिदमाह– नोचेदिति। तदिदं प्रतिक्षिपति– मैवमिति। अत्र हेतुमाह–नानेति। यद्यपि निरतिशयबृहत्त्वबृंहणत्वविशिष्टं ब्रह्मेति ‘ब्रह्म परिबृढं सर्वतः’ ’ बृहति बृंहयति तस्मादुच्यते परं ब्रह्म’ ’ बृहत्त्वाद् बृंहणत्वाच्च तद्ब्र्मेत्यभिधीयते’ इति प्रमाणप्रसिद्धम्, तथापि तच्छ्रुतिपुराणोक्तं ब्रह्मविष्णुरुद्रादिषु तादृक् परं ब्रह्म किंरूपमिति व्यक्तिविशेषपरिज्ञानं नास्ति। ह्नीलक्ष्मीश्वरत्वेन विशेषपरिज्ञानं जायते। तथा च श्रियः पतित्वमेव पूर्वमपरिज्ञातत्वात् परस्मिन् ब्रह्मण्युपलक्ष्याकारः। अन्यत् सर्वं परिज्ञातत्वाप्रतिपन्नाकार उपलक्षणाकारोऽपि वा भवति। पूर्वं निरतिशयबृहत्त्व- बृंहणत्वाभ्यां ब्रह्मशब्दवाच्यत्वाकार उपलक्ष्याकार इत्युक्तम्। इदानीं पुनः परस्मिन्ब्रह्मणि श्रियः" पतित्वमुपलक्ष्याकार इति विभागः॥38॥
मूलम् - 38
  1. ज्ञातं चेन्नोपलक्ष्यन्न च यदि नतरां लक्ष्मयोगाप्रतीतेः
    ज्ञाताज्ञातांशभेदस्विह दुरभिलपो लक्षणेनैव वेद्ये।
    ब्रह्मत्वं ब्रह्मशब्दान्वितिरपि विदितेऽन्यत्र नोचेन्न शङ्का
    मैवन्नानागमोद्यद्विशयशमनतः श्रीमति ब्रह्मतोक्तेः॥
विश्वास-प्रस्तुतिः - 39
  1. यावल्लक्ष्यावबोधं यदवगतिरतो लक्षणात्तद्विशेष्यं
    यस्याबोधेऽपि पश्चाद्यदवगतिरिदं स्यात्कुतो नोपलक्ष्यम्।
    तस्माद्द्वेधापि भाष्येऽनुमतिरनुचितेत्याशयाज्ञस्य चोद्यं
    मोक्षार्थोपास्यभेदे ह्युभयमपि समन्वेति विद्याविकल्पात्॥
३४-तमाहोबिल-यतिः - 39
  1. यावल्लक्ष्यावबोधमित्यादि। यावल्लक्ष्यावबोधं यदवगतिरतो लक्षणात्तद्विशेष्यम् — लोके यावल्लक्ष्यावबोधं यस्यावगतिस्तेन विशेषणेन तद्विशेष्यमित्युच्यते। प्रकृष्टप्रकाशत्वं हि चन्द्रेण सह नित्यमेव प्रतीयते। यस्याबोधेऽपि पश्चाद्यदवगतिस्तेनेदमुपलक्ष्यं" स्यात् — यस्याबोधेऽपि पश्चात् .यदवगतिर्भवति तत्तेनोपलक्ष्यम् भवेत्। यथा शाखाग्रे चन्द्र इत्यत्र शाखाग्रप्रतीतिमन्तरेणापि चन्द्रस्तत्र प्रतीयत एव। तस्मात् — उपलक्षणत्वविशेषणत्वयोः परस्परविरुद्धलक्षणोपेतत्वात्। भाष्ये – जन्मादिसूत्रभाष्ये। द्वेधा ऽप्यनुमतिः — जगज्जन्मादीनामुपलक्षणत्वेन विशेषणत्वेनोभयमपि ब्रह्मलक्षणत्वाङ्गीकारः। अनुचितेति — अयुक्त इति। शआशयाज्ञस्य चोद्यम् —भाष्यकारहृदयमविजानानस्येदं शङ्कनम्। विद्याविकल्पात् मोक्षार्थोपास्यभेदे उभयमपि समन्वेति हि — सदक्षरदहरादिविद्याविकल्पनिबन्घनोपास्यभेदे कारणत्वादीनां" ब्रह्मप्रतिपत्तिवेलामात्रान्वितत्वप्रतिपत्तिप्रभृतियावदुपासननिष्पत्तिनियतानुवर्तनीयत्वाभ्यामुपलणत्वविशेषणत्वोभयमप सम्यगुपपद्यते हि॥
कुमार-वरदः - 39
  1. अत्र भाष्योक्तमुपलक्षणविशेषणात्मकपक्षद्वयं परस्परविरुद्धमेव लक्षणविरोधादित्याशङ्क्य विरोधाभावमाचष्टे–यावदित्यादिना। लोके हि यावल्लक्ष्यावबोधं यस्यावगतिस्तेन विशेषणेन तद्विशेष्यमित्युच्यते। प्रकृष्टप्रकाशत्वं" चन्द्रेण सह नित्यमेव प्रतीयते। यस्याबोधेऽपि पश्चाद्यदवगति स्तत् तेनोपलक्ष्यम्।यथा शाखाग्रे चन्द्र इत्यत्र शाखाग्रप्रतीतिमन्तरेणापि चन्द्रस्तत्र प्रतीयत एव। एवं च सति परस्परविरुद्धलक्षणोपेतत्वादुपलक्षणत्वेन विशेषणत्वेनोभयथापि भाष्यानुमतिरनुचितेति कश्चिदाह, तद् भाष्यकाराभिप्रायापरिज्ञाननिबन्धनमित्याह– आशयेति। कोऽयमाशय इत्यत्र भाष्यकाराभिप्रायं विवृणोति– मोक्षार्थेति। अयमर्थः" –’ ब्रह्मविदाप्नोति परम्’ इत्यादिना मोक्षार्थं ब्रह्मोपास्यमिच्यते। तच्च ब्रह्म किमिति विशेषजिज्ञासायां ’ यतो वा इमानि भूतानि’ इत्यादिवाक्ये कारणत्वादिकं यथायोगं विशेषणत्वेनोपलक्षणत्वेन वा ब्रह्मणो लक्षणमभिधीयते। ब्रह्मगुणाश्चानन्ताः। तत्र विद्याभेदनिबन्धनोपास्यभेदे सति यस्मिन् ब्रह्मोपासने ये गुणा नियतमेवानुवर्तन्ते तानि विशेषणानि। ये पुनर्ब्रह्मप्रतिपत्तिवेलायामेवान्विता उपासनवेलायां" तु नियतं नानुवर्तन्ते तान्युपलक्षणानि। उपासनान्तरोपास्यानां स्वरूपैक्येऽपि गुणभेदेन भिन्नानां बहुत्वात् क्वचित् कस्यचित् उपलक्षणत्वं विशेषणत्वं" वा भवत्यन्यत्रान्येषाम्। एतदुक्तं भवति ‘कारणं तु ध्येयः’ इति जगत्कारणत्वादिकं ध्येयमात्रानुवृत्ततयोच्यते। एवं ’ आनन्दादयः" प्रधानस्य’ इति सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वानि स्वरूपनिरूपधर्मत्वात् सर्वास्वपि विद्यासु सर्वदाऽप्यनुवर्तन्ते। तेन तानि विशेषणानि। ये पुनर्धर्मास्तत्रतत्र तदातदा प्रतीयन्ते व्यावर्तकाशअच ब्रह्मणि भवन्ति तान्युपलक्षणानि। चन्द्रशाखाग्रवद् ब्रह्मस्वरूपप्रतिपत्त्यनुवत्त्य भावात् श्रियः पतित्वमपि नित्यानुसंधेयमिति। उपलक्ष्याकारत्वात् श्रीनिवासे ब्रह्मणि मम भक्तिर्भवत्विति भाष्यकारैरेव सर्वोपासनविषयत्वेनाभिधानाच्च॥39॥
मूलम् - 39
  1. यावल्लक्ष्यावबोधं यदवगतिरतो लक्षणात्तद्विशेष्यं
    यस्याबोधेऽपि पश्चाद्यदवगतिरिदं स्यात्कुतो नोपलक्ष्यम्।
    तस्माद्द्वेधापि भाष्येऽनुमतिरनुचितेत्याशयाज्ञस्य चोद्यं
    मोक्षार्थोपास्यभेदे ह्युभयमपि समन्वेति विद्याविकल्पात्॥
विश्वास-प्रस्तुतिः - 40
  1. चन्द्रे शाखेव शान्ते महसि तटगतं लक्षणं कारणत्वं
    सत्यज्ञानादिवाक्यैरपमृदितगुणं तद्विभातीति डिम्भाः ।
    एकत्रार्थे विशेष्ये प्रतिपदनियतावर्ज्यतत्तन्निमित्त-
    द्वारा वृत्तिं पदानामिह विदुररुणाद्युक्तिवन्न्यायवृद्धाः ॥
३४-तमाहोबिल-यतिः - 40
  1. चन्द्र इत्यादि । चन्द्रे शाखेव - शाखाग्रे चन्द्र इति शाखाग्रोपलक्ष्ये चन्द्रे तदुपलक्षणभूता शाखेव । शान्ते - सर्वविशेषशून्ये । महसि - स्वयम्प्रकाशे ब्रह्मणि । कारणत्वं तटगतं लक्षणम् - जगत्कारणत्वं तटस्थलक्षणमेव द्वारस्थमेव प्रतिबोधकमित्यर्थः । तत् - ब्रह्म । सत्यज्ञानादिवाक्यैः - ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिभिः स्वरूपलक्षणवाक्यैः । अपमृदितगुणं विभाति - विध्वस्तसमस्तगुणं स्वरूपमात्रमेव प्रकाशते । इति डिम्भाः - एवं बालाः । प्रलपन्तीति शेषः । इह - सत्यादिवाक्ये । न्यायवृद्धाः - न्यायसंस्कृतचेतसः सेश्वरमीमांसकास्तु । अरुणाद्युक्तिवत् - ‘अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति’ इत्यारुण्यादिगुणविशिष्टैकहायनीकरणकसोमक्रयणवाचिश्रुतिवाक्य इव । पदानाम् - सत्यादिपदानाम् । प्रतिपदनियतावर्ज्यतत्तन्निमित्तद्वारा - प्रतिपदं नियतमवर्ज्यानि पर्यायत्वापत्तिभयेनावश्यमत्याज्यानि यानि तानि तानि सत्यत्वज्ञानत्वानन्तत्वरूपाणि स्वरूपविकारराहित्यस्वभावविकारराहित्यज्ञानात्मकत्वज्ञानगुणकत्वत्रिविधपरिच्छेदराहित्यानवधिककल्याणगुणकत्वात्मकानि निमित्तानि तद्द्वारा - तत्समर्पणपुरस्कारेण । एकत्र विशेष्येऽर्थे - एकस्मिन्विशेष्यभूते ब्रह्मरूपे बोध्ये । वृत्तिम् - बोधनम् । विदुः - निश्चितवन्त इत्यर्थः ॥ ४० ॥
कुमार-वरदः - 40
  1. अत्र परोक्तां प्रक्रियामत्यन्तन्यायविरुद्धत्वेऽपि बालानां प्रतिपत्तिर्विप्रतिपत्तिहेतुर्माभूदित्यनुभाष्य पदवाक्यप्रमाणादिविरुद्धत्वात् प्रलाप एवायमिति प्रतिक्षिपति - चन्द्र इति । इयं किल परेषां प्रक्रिया - यथा - चन्द्रे शाखा तद्वज्जगत्कारणत्वादिकं ब्रह्मणि तटस्थमेव लक्षणं द्वारस्थमेव प्रतिबोधकमित्यर्थः । तेन विशेषणत्वपक्षः प्रतिक्षिप्यते । ननु चन्द्रस्य शाखाग्रेणोपलक्षितस्य स्वरूपगतं प्रकृष्टप्रकाशत्वादिकमनुवर्तते तद्वद् ब्रह्मण्यपि कारणत्वाद्युपलक्षिते विशेषणभूतं सर्वज्ञत्वादिकमनुवर्ततामित्याशङ्क्य परिहरति - सत्येति । अत्र विषमो दृष्टान्तः । चन्द्रे प्रकृष्टप्रकाशत्वादिकं प्रमाणसिद्धत्वादबाधितत्वाच्च स्वीक्रियते । इह तु निर्विशेषे परस्मिन् ब्रह्मणि सर्वप्रमाणागोचरत्वात् ‘सत्यं ज्ञानम्’ इत्यादिश्रुतेर्निर्विशेषप्रतिपादकत्वात्, अरुणाधिकरणन्यायविरुद्धत्वाच्च सर्वज्ञत्वादिकं न स्वीक्रियत इति । डिम्भाः - बालाः । प्रलपन्तीति शेषः । उक्तमर्थं प्रतिक्षिपति - एकत्रेति । द्विविधं हि वाक्यम् । तत्र ‘यतो वा इमानि’ इत्यादि व्यधिकरणवाक्यं सर्वैरपि वादिभिर्भेदपरत्वेन निर्णीतार्थत्वात् । तत्परित्यज्य तावत् समानधिकरणवाक्यमेव परिशोधयामः । ‘भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्’ इति पदविदः । पाणिनीयस्य सर्वविद्यास्थानौपयिकत्वाद्वेदान्तवादिभिरपि तदेवानुसर्तव्यम् । तच्च न्यायसिद्धम् । सदसद्वा समानाधिकरणं विशेषणमिति न्यायवादिनः । न केवलं पदविदो न्यायविदश्च वयमनुसरामः, अपि तु वाक्यविदोऽपीत्याह - अरुणाद्युक्तिवदिति । अत्र न्यायवृद्धा इति तान्त्रिकाः परिगृह्यन्ते, अथवा पदवाक्यप्रमाणज्ञाः सर्वेऽपि । ‘अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति’ इत्येकहायनीपिङ्गाक्षीशब्दाभ्यां सामानाधिकरण्येन गुणोऽभिधीयते । द्विविधं हि सामानाधिकरण्यम् - अर्थसामानाधिकरण्यं शब्दसामानाधिकरणयं चेति । अत्रार्थसामानाधिकरण्यं भिन्नानामर्थानामेकस्मिन्नर्थे वृत्तिः । यथा नीलत्वोत्पलत्वादीनाम् । शब्दसामानाधिकरण्यं तु भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन् विशेष्ये पर्यवसानम् अभिधानमित्यर्थः । अत्र भिन्नप्रवृत्तिनिमित्तानामिति लक्षणानुसारेण श्लोकस्थपदानामर्थो वर्णनीयः । अत्र न्यायवृद्धा इति सेश्वरमीमांसकानां स्वपक्षस्थानामेवोपादानात् निरीश्वरमीमांसकोक्तमारुण्यादिगुणानामर्थान्वयं प्रतिक्षिपति । तत्प्रतिक्षेप्रकारश्च श्रीमति भाष्ये [आनन्दमयाधिकरणे] तद्व्याख्यानादिषु विस्तरेणोक्त इति नास्माभिरिह विव्रियते । वयमिहास्मिन् पद्ये तटस्थलक्षणवादिनं मृषावादिनमेव प्रतिक्षिपामः । तत्प्रतिक्षेपविस्तरोऽपि प्रथमसूत्रादिषु द्रष्टव्यः ॥ 40 ॥
मूलम् - 40
  1. चन्द्रे शाखेव शान्ते महसि तटगतं लक्षणं कारणत्वं
    सत्यज्ञानादिवाक्यैरपमृदितगुणं तद्विभातीति डिम्भाः ।
    एकत्रार्थे विशेष्ये प्रतिपदनियतावर्ज्यतत्तन्निमित्त-
    द्वारा वृत्तिं पदानामिह विदुररुणाद्युक्तिवन्न्यायवृद्धाः ॥