विश्वास-प्रस्तुतिः - 27
- कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा
नान्या वेदेऽपि नीतिस्तत उपनिषदामूषरप्रायतैव।
नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने
सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह॥
३४-तमाहोबिल-यतिः - 27
- कार्ये व्युत्पत्तिरित्यादि । आद्या व्युत्पत्तिः — प्राथमिकः शक्तिग्रहः। कार्ये – कार्यार्थ एव। इति नियतम् – निश्चितमिदमव्यभिचरितम्। अतः सर्वा गिरः — सर्वेऽपि शब्दाः। तत्परा एव – कार्यपरा एव। वेदेऽपि अन्या नीतिर्न — लोकवेदानन्यत्वन्यायेन वेदेऽपि न्यायान्तरं नास्ति। किं तु सर्वशब्दानां कार्यपरत्वमेव। ततः— तस्मात्कारणात्। उपनिषदामूषरप्रायतैव – उपनिषदां चिरकालमध्ययनधारणादिभिर्गोपितानामपि वेदान्तभागानामूषरप्रायतव, ऊषरवन्नैष्फल्यमेव। अतः – कारणात्। तद्वेद्यमीमांसनं नोचितम् – तादृशोपनिषद्वेद्यब्रह्मविचारोऽनुचितः। इति प्रत्यवस्थीयमाने – एवं शास्त्रारम्भे प्रतिक्षिप्यमाणे सति। आद्या मेव व्युत्पत्तिं सिद्धे बहुमुखवयन् — प्राथमिकं शक्तिग्रहमेव सिद्धेऽर्थे बहुमुखतया निश्चिन्वन्। ब्रह्म जिज्ञास्यमाह — ब्रह्म विचार्यमिति जिज्ञासासूत्रेण सूत्रकार आह, तथैव भाष्यकारश्चेत्यर्थः॥
कुमार-वरदः - 27
- एवं कर्मविचारानन्तरमधिकर्तव्यस्य शारिकशास्त्रस्याधिकारिविशेषप्रतिपत्त्यर्थं शास्त्रोपोद्धातरूपप्रथमाधि- करणपूर्वपक्षोपन्यासप्रकारानुसारेण राद्धान्तप्रक्रियावैविध्यमुप्युपदर्शयन् सूत्रप्रधानभूतब्रह्मजिज्ञासां प्राधान्येन प्रदर्श- यति सूत्रकार इति प्रकटयति-कार्य इति। शारीरकशास्त्रोपोद्धातरूपमिदमधिकरणमित्युक्तम्। अधिकरमं च पञ्चाङ्गम्। यथाऽऽ– ‘विषयः संशयश्चैव विचारो निर्णस्था। प्रयोजनं च प्राञ्चोऽधिकरणं विदुः॥’ दशाङ्गमित्याहुराचार्याः। ‘संगतिर्विषयश्चैव संशयोत्थानाकरणम्। संशयस्य प्रकारश्च तदर्था च विचारणा॥ तस्यां फलफलित्वं च न्यायौ द्वौ पक्षयोर्द्वयोः" निर्णयस्तत्फलं चेति बोध्यान्यधिकृतौ दश॥‘इति। विषयोऽपि द्विविधः। अधिकरणप्रतिपाद्यार्थस्तादेवकः प्रधानः। तत्प्रतिपादकश्रुतिरवान्तरविषयः। तत्र प्रधान- विषयः। तत्र प्रधानविषयमाद्यस्याधिकरणस्य दर्शयति–ब्रह्म जिज्ञास्यमिति। सर्वाधिकरणसुखग्रहणाय संगत्यादि- कमप्येकत्र विव्रियते। शास्त्रकाण्डद्विकाध्यायपादपेटिकरणसूत्रभेदादष्टविधा संगतिर्वक्तव्या। अस्याधिकरणस्य वेदवाक्यार्थविचारात्मकत्वात् शास्त्रसंगातिः। वेदान्तवाक्यार्थविचारात्मकत्वात् काण्डसमगतिः। सिद्धविषय- निरूपणपरत्वात् प्रथमद्धिके। समन्वयप्रधानत्वात् प्रथमाध्याये। अयोगव्यवच्छेदप्रतिपादनरूपत्वात् प्रथमपादे। शास्त्रोपोद्धातरूपत्वात् प्रथमपेटिकायाम्। तत्रापि प्रतीति जननार्थत्वात् पेटिकापूर्वभागे समन्वयपप्रधाने। ‘अन्ते- हरौ तद्दर्शनात् स विष्णुराह हि तं ब्रह्मेत्याचक्षते’ इति देवाताकाण्डान्तिमाधिकरणप्रतिपन्नसर्वदेवतान्तर्यामिरूप- विष्णुपरत्वात् पूर्वाधिकरमेन संगतिः। तत्रापि ‘तं ब्रह्मेत्याचक्षते तं ब्रह्मेत्याचक्षते’ इति प्रधानतया द्विरुक्तब्रह्म- शब्दस्य साक्षादुपादानात् सूत्रसंगतिरपीति। विषयः प्रगेवोक्तः।संशयोत्थानकारणं तु समानधर्मादिष्वेकमेव ग्रह्यम्। ब्रह्मजिज्ञासापरं शास्त्रमारम्भणियं न वेति संशयप्रकारः। तदर्थविचारस्तु–वेदान्ता ब्रह्मणि प्रमाणं न वेति। तदर्थ- मपि विचार्यते-सिद्धे व्युत्पत्तिरस्ति न वेति। तदर्थं विचार्यते-कार्यपरवृद्धव्यवहारादन्यत्राद्यव्युत्पत्तिः संभवति न वेति। फलफलिभावस्तु प्रधानतयाऽभिमते परस्मिन्ब्रह्मणि व्युत्पत्त्यसंभवात् सत्यापि वा वृद्धव्यवहारादन्यत्राद्य- व्युत्पत्त्यभावाच्च सिद्धे ब्रह्मणि व्यत्पत्त्यभावेन वेदान्तानां ब्रह्मणि प्रामाण्यस्य शाङ्कितुमप्यशक्यत्वादप्रमाणभूत- वेदान्तवाक्यार्थविचाररूपब्रह्मविचारो न कर्तव्य इति पूर्वपक्षे। राद्धान्तेत्वेतद्विपर्येण फलफलिभावो वक्तव्यः। अत्र पूर्वपक्षन्यायो व्युत्पत्त्यभावः। राद्धान्तन्यायस्तु व्युत्पत्तिसद्भावः। निर्णयस्त्वारम्भणियत्वनिर्मयः। फलं शास्त्रारम्भः। एवमाद्याधिकरणप्रक्रिया। तत्र प्रथमाधिकरणे पूर्वपक्षसिद्धान्तावारचयति–कार्य इति। आद्या व्युत्पत्तिः कार्य एव- नियता। अतः वर्वे शब्दाः कार्यपरा एव। अस्तु लोके ताद्दशी नीतिः,वेदे त्वान्यथेत्याशङ्क्य प्रतिक्षिपति-नान्येति। लोकवेदाधिकरणन्यायेन वेदे न न्यायान्तरं कल्पनीयमित्यर्थः। फलितमाह–नात इति। ऊषरकल्पस्य वेदान्तस्य चिरकालोपार्जनेऽपि नैष्फलयमेवेति भावः। तेन वेदान्तवेद्यपरब्रह्मचिन्तनं न कार्यमिति प्रत्यवस्थीयमाने प्रति- क्षिप्यमाणे शास्त्रारम्भे सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् निश्चिन्वन् ब्रह्म जिज्ञास्यमाह सूत्रकारः। तदनुसारेण भाष्यकारोऽपीत्यर्थः॥27॥
मूलम् - 27
- कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा
नान्या वेदेऽपि नीतिस्तत उपनिषदामूषरप्रायतैव।
नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने
सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह॥
विश्वास-प्रस्तुतिः - 28
- अङ्गुल्या निर्दिशन्तः किमपिकिमपि तद्वाचकांशैः प्रयुक्तैः
बालान् व्युत्पादयन्ति क्रमभवमिलितज्ञापकत्वं विदन्तः।
सङ्घातास्ते पदानां विदधति च धियं क्वापि सिद्धे विशिष्टे
कर्तव्ये क्वापि चेति क्वचिदिह नियतिश्शब्दशक्तेर्न कल्प्या ॥
३४-तमाहोबिल-यतिः - 28
- अङ्गुल्येत्यादि । किमपि किमपि – शिशुपशुप्रभृति किमपि किमपि वस्तु। अङ्गुल्या निर्दिश्यन्तः – अङ्गुल्या प्रदर्शयन्तः। क्रमभवमिलितज्ञापकत्वं विदन्तः — चिरकालानुभवक्रमेण मिलितप्रयोगाच्च बालानां क्रमेण भाविनीं मिलितार्थव्युत्पत्तिमपि जानन्तो मातापित्रादयः। प्रयुक्तैस्तद्वाचकांशैः —‘अयं शिशुः ,अयं पशुः" ,अयं मातुलः,इति’स्वयमङ्गुलिनिर्देशसमकालमुच्चारितैस्तैस्तैः शब्दैः। बालान् — ग्रहणधारणपटून्। व्युत्पादयन्ति — शब्दानामर्थबोधनशक्तिं" ग्राहयन्ति। पदानां ते संघाताश्च –व्युत्पादकप्रयुक्ताः पदसंघाताश्च। क्वापि — क्वचित्।विशिष्टे सिद्धे धियं विदधति — जातिगुणक्रियादियुक्ते सिद्धेऽर्थे बुद्धिं संपादयन्ति। क्वापि – क्वचित्। कर्तव्ये विशिष्टे च — आनयनादिक्रियासंबन्धिन्यर्थे च बुद्धिं जनयन्ति। इति – हेतोः। शब्दशक्तेः — शब्दानां बोधनशक्तेः। इह क्वचित् नियति र्न कल्प्या — सिद्धरूपेऽर्थ एवेत वा कार्यरूपे़ऽर्थ एवेति वा निबन्धो न कल्पनीयः। यथादर्शनमुभयत्र शक्तिसंभवादिति भावः॥
कुमार-वरदः - 28
- सिद्धव्युत्पत्तिप्रकाराणां बहुमुखत्वमुक्तम््। तेष्वाबालगोपालं प्रसिद्धं परवादिभिरलङ्घनीयं तावदेकं प्रकारमाह–अङ्गुल्येति। इत्थं किल बालान् व्युत्पादयन्ति लौकिकाः। मातापित्रादयो ह्यग्रस्थितं किमपि किमपि वस्तु अङ्गुल्या निर्दिशन्तः, अङ्गुलिनिर्देशेन सह प्रयुक्तैरयं तात इयं माता मातुलोऽयमित्यादिभिर्वाक्यै र्बालान् व्युत्पादयन्ति। व्युत्पादकानामङ्गुलिनिर्देशस्तु बालानां तत्तदर्थाभिमुख्यार्थम्। ते बालाश्चानादिसंसारे संस्कारपाटवस्य बहुत्वात्, अङ्गुलिनिर्देशानां तत्तदर्थोपादेशाभिप्रायपूर्वकत्वं जानन्ति। एवं च सति सर्वेषां शब्दानामङ्गुलिनिर्देशमन्तरेणापि तत्तच्छब्दप्रयोगे चिरकालोत्पन्नसहोपदेशजनितसंस्कारसामर्थ्यात् तत्तदर्थप्रतीतिर्जायते। तत्र बाला निश्चिन्वन्ति’ एतच्छब्दप्रयोगे खल्वस्माकमेतदर्थप्रतिपत्तिः। सा च शब्दार्थयोः संबन्धनिबन्धना।संयोगादिसंबन्धानन्तरं च न दृश्यते। सङ्केतपरिक्लृप्तौ सङ्केतहेतुभूतपुरुषादिकल्पनागौरवम्। तस्माद् बोध्यबोधकभावसंबन्ध एवात्र संबन्धः’ इति। अस्त्वेकैकत्र तत्तच्छब्दप्रतिपत्तिः, तथापि वाक्यार्थरूपमिलिप्रमितिः कथमिति चेत्तत्राह-क्रमभवेति । चिरकालानुभवात् तत्तन्मिलितप्रयोगाच्च मिलितव्युत्पत्तिरपि बालानां भविष्यतीति व्युत्पादका जानन्त्येव। व्युत्पादनीयाश्च बासास्तथैव व्युत्पद्यन्ते। ननु कार्यव्युत्पत्तिं प्रतिक्षिपतस्तव प्रयोज्यप्रयोजकवृद्धव्यवहारविरोध इत्याशङ्क्याह– सङ्घाता इति। न वयं कार्य एव व्युत्पत्तिः सिद्ध एव व्युत्पत्तिरित्येकं पक्षं पक्षपातेनाचक्ष्महे।अपि तूभयमपि पक्षं कक्षीकुर्महे। यदि सिद्धे व्युत्पत्तौ विशिष्टरूपवाक्यार्थप्रतिपत्तिर्न स्यात्, तर्हि कार्ये व्युत्पत्तावपि वाक्यार्थप्रतिपत्तिर्न स्यात्। यद्यावापोद्वापसहितसमभिव्याहारसामर्थ्याद् वाक्यार्थप्रतिपत्तिमुपपादयसि कार्ये, सिद्धे वयमपि तथैवोपपादयाम इति समः समाधिः यद्यभिहितान्वयो न्यायसिद्धः, तदा ‘पदैरभिहिता’ इत्युक्तप्रक्रमेण प्रतिपदव्युत्पत्तिपूर्वकं वाक्यार्थप्रतिपत्तिः" सुलभा। यदिवाऽन्विताभिधानम्, तदानीमपि संसृष्टरूपवाक्यार्थद्योतकाभिनयेषु वाक्यार्थप्रतिपत्तिवत् पूर्वपूर्वानुभवजनितस्मरणसहकृतेन क्रमभवमिलितज्ञापकत्वानुसन्धानेन वाक्यार्थप्रतिपत्तिर्जायत इति साधारणोऽयं व्युत्पत्तिमार्गः। कार्यान्वितस्वार्थे व्युत्पत्तिरिति निश्चित्याचक्ष्मह इति भावः॥28॥
मूलम् - 28
- अङ्गुल्या निर्दिशन्तः किमपिकिमपि तद्वाचकांशैः प्रयुक्तैः
बालान् व्युत्पादयन्ति क्रमभवमिलितज्ञापकत्वं विदन्तः।
सङ्घातास्ते पदानां विदधति च धियं क्वापि सिद्धे विशिष्टे
कर्तव्ये क्वापि चेति क्वचिदिह नियतिश्शब्दशक्तेर्न कल्प्या ॥
विश्वास-प्रस्तुतिः - 29
- संसारेऽनादिसिद्धे मुहुरनुभवतस्सञ्चितास्संस्क्रियास्स्यु-
स्संस्कारोद्बोधकाश्च स्वयमुपनिपतन्त्यप्रकम्प्यात्प्रवाहात्।
तत्तज्जातीयभेदग्रहणसमुचिता वृत्तयस्तन्निदानाः
तद्वत्स्याच्छिक्षकादिव्यवहृतिषु शिशोरैदमर्थ्यादिबोधः॥
३४-तमाहोबिल-यतिः - 29
- संसार इत्यादि। अनादिसिद्धे संसारे – अनादितया संमते जननमरणप्रवाहे। मुहुरनुभवतः संस्क्रियाः सञ्चिताः स्युः — तत्तदर्थानां" पुनःपुनरनुभवेन संस्काराः स्मृतिहेतवो बुद्धिगुणविशेषाः संपादिता भवेयुः। अप्रकम्प्यात् – दुर्निवारात्। प्रवाहात् – नष्टवस्तुजातीयानामुत्तरकालेषु यावत्स्वप्नवृत्तिरूपात्प्रवाहात्। संस्काराणामुद्बोधकाः सन्धुक्षकाश्च पदार्थाः। स्वयम् – बोद्धृप्रयत्नं विना। उपनिपतन्ति – इन्द्रियसंयुक्ता भवन्ति। तत्तज्जातीयभेदग्रहणसमुचिताः – इष्टसाधनजातीयानां पूर्वजन्मपीतस्तनादिजातीयानामिदानीं रसनादिसंयुक्तानामतज्जातीयेभ्यो यो भेदो विशेष इष्टसाधनत्वानुमापकधर्मः, तस्य ग्रहणे ऽवसाने समुचिताः समर्थाः। वृत्तयः – बुद्धिवृत्तयः। तन्निदानाः – पूर्वोक्तसोद्बोधकसंस्कारमूलकाः" सिध्यन्ति। शिक्षकादिव्यवहृतिषु – शिक्षका उपाध्यायाः, आदिशब्देन हितपरा मातापित्रादयो ग्राह्याः। तेषां व्यवहृतिषु – अङ्गुलिनिर्देशपूर्वकतत्तच्छब्दप्रयोगेषु। शिशोरैदमर्थ्यादिबोधः — बालानामस्माकं शक्तिग्रहणार्थमियं चेष्टा। अयं शब्दप्रयोगश्चेत्याद्यवगतिः। तद्वत्स्यात् – सद्यः प्रसूतशिशूनां" स्तन्यपानादिप्रवृत्तिवद् भवेदेवेत्यर्थः॥
कुमार-वरदः - 29
- नन्वस्तु पूर्वसंस्कारप्राचुर्यात् शब्दव्युत्पत्तिः, तथापि प्रलयादौ कृत्स्नसंस्कारविच्छेदाद् आद्ये जन्मनि कथं व्युत्पत्तिः? तत्रापि यदि व्युत्पत्तिर्नस्यात् संस्कारेण कथं वा तदुत्तरस्मिन्नपि जन्मनि व्युत्पत्तिपिति, एवं जन्मनिजन्मनि कथं व्यवहारसिद्धिरिति बालकः कश्चिदाह।एवमादिशङ्कापरिहारार्थं पद्यान्तरमारभते– संसार इति। ’ वीतरागजन्मादर्शनात्’ इति सूत्रोक्तप्रक्रियया संसारस्यानादित्वात् नायं दोष इति दर्शयति– अनादिसिद्ध इति। कथं त्रिचतुरादिभिः संस्कारैरेतादृशी महती व्युत्पत्तिरिति पुनरप्याशङ्क्याह– मुहुरिति। सहस्रमपि संस्कारा भवन्तु नाम। कथं तदुद्बोधकाभावे कार्यसिद्धिरित्यत्रोत्तरमाचष्टे–संस्कारोद्बोधका इति। यथा संस्कारा बहवः" कारणप्रवाहवैचित्र्यबाहुल्यात् तथा तदुद्बोधकाश्च सहस्रशः संभवन्तीति भावः। अथाप्यनुमानमन्तरेण शयनासनभोजनव्यवहारादयः सर्वेऽपि न संभवन्ति, अनुमानं चेष्टसाधनजातीयत्वग्रहणं अन्तरेण न सेत्स्यति, तस्मादस्य ग्रहणपावाभावात् कथं व्युत्पत्तिरिति, तत्रोत्तरमाह– तत्तदिति। वृत्तयः– बुद्धिवृत्तयः। साजात्यग्रहणसमुचिता बुद्धिवृत्तिः संस्कारपाटवात्सिध्यति, लोकव्यवहारस्य दृष्टत्वात्। तच्च संस्कारपाटवमनतिलङ्घनीयमेव, अन्यथा भाषाव्यवहारोप्युच्छिद्येत, तदुच्छेदे मूकतैव शरणं स्यात्। अस्तु संस्कारपाटवात् प्रबुद्धानामियं" व्यवहारपरिज्ञानपरिपाटी। अप्रबुद्धानां बालकानां कथं व्युत्पत्तिरिति परिचोदनां परिहरति– तद्वदिति। सद्यस्संजातानामपि स्तन्याभिलाषादिदर्षशनेन संस्कारपारम्परी कल्प्यते न्यायवादिभिः। किं पुन पञ्चवर्षपरिमितानां बालकानाम्। तेषामपि भाषाव्युत्पत्तिर्मातापित्रादिव्यवहारबलात् प्रागेव सिद्धा।किमनेन संस्कृतव्युत्पत्तिविडम्बनेन। तत्रापि सिद्धव्युत्पत्तिविडम्बनवत् कार्यव्युत्पत्तिविडम्बनं स्वयमेव सिद्धमिति सिद्धं नः" समीहितम्। तद्वदिति कृत्स्नस्यापि लोकव्यवहारपरिज्ञानस्य दृष्टान्ततयोपादानम्। दार्ष्टान्तिकं तावद् द्रष्टव्यमिति नेह प्रदर्श्यते॥29॥
मूलम् - 29
- संसारेऽनादिसिद्धे मुहुरनुभवतस्सञ्चितास्संस्क्रियास्स्यु-
स्संस्कारोद्बोधकाश्च स्वयमुपनिपतन्त्यप्रकम्प्यात्प्रवाहात्।
तत्तज्जातीयभेदग्रहणसमुचिता वृत्तयस्तन्निदानाः
तद्वत्स्याच्छिक्षकादिव्यवहृतिषु शिशोरैदमर्थ्यादिबोधः॥
विश्वास-प्रस्तुतिः - 30
- दक्षैराधोरणाद्यैरनुमितविविधस्वप्रयासोपयोगैः
शिक्षाभेदा विचित्रा गजविहगमुखान् ग्राहयद्भिः प्रयुक्ताः।
तस्मात्सार्था मनुष्यप्रभृतिषु च तथाभूतशिक्षाविशेषः
कल्पो भाष्योदितो यन्न यदि कथमसौ कल्पते़ऽन्योऽपि मार्गः॥
३४-तमाहोबिल-यतिः - 30
- दक्षैरित्यादि। दक्षैः – शिक्ष्यगुणानुगुण्येन शिक्षाप्रयोगसमर्थैः। अनुमितविविधस्वप्रयासोपयोगैः— अनुमिताः भूयोदर्शनगृहीतव्याप्तिकैर्हेतुभिर्निश्चिताः, विविधस्वप्रयासोपयोगाः – नानाविधस्वकीयशिक्षासाफल्यानि यैस्ते तादृशैः। गंजविहगमुखान् ग्राहयद्भिः – गजविहगतुरगादीन् व्युत्पादयद्भिः। आधोरणाद्यैः — हस्तिकप्रभृतिभिः।प्रयुक्ताः — प्रयोजिताः। विचित्राः — नानाविधाः। शिक्षाभेदाः —- शब्दशक्तिग्रहणोपायविशेषाः। दृश्यन्ते इति शेषः। किमुत मनुष्येषु तादृशशब्दशक्तिशिक्षणसाफल्यस्येति भावः। तस्मात् – तमःप्रचुरेषु गजविहगादिष्वपि निरुक्तशब्दशक्तिशिक्षणसाफल्यदर्शनात्। मनुष्यप्रभृतिषु च तथाभूतशिक्षाविशेषः — तादृशशब्दशक्तिग्रहणोपायप्रयोगभेदः। सार्थः – सफल एव। भाष्योदितः – भाष्ये प्रतिपादितः। अयं कल्पः – लोके मातापित्रादभिर्बालेशउ प्रयुज्मानो ऽम्बातातमातुलचन्द्रशिशुपशुप्रभृतिशब्दार्थव्युत्पादनप्रकारः। न यदि – न संपद्यते यदि। असावन्यो मार्गोऽपि कथं कल्पते – भवद्भिः प्रतिपादितः कार्यार्थशक्तिव्युत्पादनप्रकारोऽपि वा कथं सिध्यति। अस्मदुक्तदूषणे युष्मदुक्तमपि तथैव दूष्येतेति भावः॥
कुमार-वरदः - 30
- ननु कथमयं व्युत्पत्तिप्रकारो बालमूकादिबहुले जगति सार्थो भविष्यतीत्याशङ्कमानस्यात्यन्तमूढस्य प्रबोधनार्थँ पुनरप्यत्यन्तप्रसिद्धदृष्टान्तोपादानेन प्रदर्शयितुमारभते–दक्षैरिति। प्रायेण सत्त्वप्रचुराः खलु मनुष्यप्रभृतयः, तमः प्रचुराः रजः प्रचुराश्च गजविहगतुरगादयः। तेषामाधारेणाद्या गजादिशिक्षकाः शिक्षां कुर्वन्ति। सा च शिक्षा सफलैव लोके दरीदृश्यते। शिक्षकाः शिक्षासाफल्यानुमित्यैव प्रवर्तन्ते। इत्थमत्यन्ताशक्यार्थसिद्धावत्यन्तसुग्रहमेव मनुष्यादिषु शिक्षासाफल्यमित्याह– तस्मादिति। एवं" भाष्यकारविरचितसिद्धव्युत्पत्तिप्राकारानङ्गीकारे भवत्कल्पितकार्यव्युत्पत्तिप्रकारोऽपि न सिध्यतीति प्रतिबन्दीं दर्शयति–कल्प इति। तत्र परोक्तापूर्वखण्डनं श्रीभाष्ये श्रीवत्याङ्गविरचितापूर्वभङ्गे च द्रष्टव्यम्॥30॥
मूलम् - 30
- दक्षैराधोरणाद्यैरनुमितविविधस्वप्रयासोपयोगैः
शिक्षाभेदा विचित्रा गजविहगमुखान् ग्राहयद्भिः प्रयुक्ताः।
तस्मात्सार्था मनुष्यप्रभृतिषु च तथाभूतशिक्षाविशेषः
कल्पो भाष्योदितो यन्न यदि कथमसौ कल्पते़ऽन्योऽपि मार्गः॥
विश्वास-प्रस्तुतिः - 31
- कस्मैचित्सिद्धमर्थं कमपि कथयितुं चेष्टया चोद्यमानः
तस्मै तं वक्ति तद्धीसमविषयतया शिक्षते तद्वचो़ऽन्यः।
आदिष्टो बोधनार्थं यदिह वितनुते तत्तदर्थं हि युक्तं
तद्वाक्यात्सिद्धवेदी प्रयतत इति चेदस्त्वनादेशिकन्तत्॥
३४-तमाहोबिल-यतिः - 31
- कस्मैचिदित्यादि। कस्मैचित्सिद्धं कमप्यर्थं कथयितुं चेष्टया चोद्यमानस्तस्मै तं वक्ति – देवदत्ताय पुत्रस्ते जात इतीममर्थँ" वक्तुमाचार्येण केनचित् हस्तचेष्टया नियुज्यमानः कश्चिच्छिष्यस्यस्मै तमर्थं वाचा वदति। अन्यस्तद्धीसमविषयतया तद्वचः शिक्षते – उभयत्र सहावस्थितोऽन्यो बालः कश्चित् चेष्टाविशेषज्ञो नियोजकचेष्टाजन्यनियोज्यबोधकशिष्यवृत्तिसमविषत्वेन शिष्येण देवदत्तायोच्यमानं वचः शिक्षते। शिष्येण देवदत्ताय वाक्ये प्रयुक्ते पुत्रजन्मबोधकमिदं वाक्यमिति प्रतिपाद्यत इत्यर्थः। बोधनार्थमादिष्टो यदिह वितनुते तत् तदर्थँ हि युक्तम् – पुत्रजन्मबोधनार्थं नियुक्तः शिष्यः यदेतदिह वाक्यं प्रयुनक्ति तद्वाक्यं" तदर्थकमित्येव हि युक्तम्। तद्वाक्यात् सिद्धवेदी प्रयतत इति चेत् – पुत्रजन्मवाक्यश्रवणानन्तरं सिद्धार्थवेदी देवदत्तो जातकर्मादिषु प्रवर्तते तदेव कार्यरूपं वाक्यार्थ इति चेत्। अस्तु तद् अनादेशिकम् —जातकर्मप्रवृत्त्यादिमस्तु, तद् वाक्योपदेशवाच्यं न भवति। किं तु स्वबुद्ध्या क्रियते। पुत्रजन्मनः प्राधान्यात् शब्दानामावापोद्धापादिसहकारिसामर्थ्याद् बालस्यापि तद्विशेषपरिज्ञानवैचक्षण्याच्च पुत्रजन्मैव वाक्यार्थ इति निश्चयो जायते। उत्तरोत्तरकार्यकरणं तु श्रोतुः स्वबुद्ध्यैव जायते। गृहमलङ्कुरुते बान्धवानाकारयति जातकर्मादिकं करोति गां ददाति भेर्यादिकमुद्धोषयति किमेतादृशं सकलमपि पुत्रजन्मवाक्यार्थ इति भवानपि वा संमनुत इति भावः॥
कुमार-वरदः - 31
- प्रकारान्तरेणापि सिद्धे व्युत्पत्तिः सुलभेति दर्शयति–कस्मैचिदिति। इत्थमिह प्रक्रिया, देशान्तरस्थितस्यान्यत्र पुत्रे संजाते तत्समीपस्थितो मौनी कश्चित् पुत्रस्ते जात इति देवदत्ताय बोधयेति स्वोपान्तस्थितमन्तेवासिनं चेष्टयाऽऽदिशति। स चान्तेवासी सहसैव गत्वा देवदत्ताय तथैवाचष्टे। उभयत्र सहावस्थितो बालकः कश्चिन्मूकवत् चेष्टाविशेषज्ञः पुत्रजननबोधनाय यातीति जानाति, तथा च तेन वाक्ये प्रयुक्ते पुत्रजन्मबोधकमिदं वाक्यमिति प्रतिपद्यते। तद्धीसमविषयतया- बोधकशिष्यधीसमविषयतया। तद्वचः शिक्षते- तद्वाक्यं" व्युत्पद्यत इत्यर्थः। अत्र प्रतिपदव्युत्पत्तिरप्यावापोद्वापाभ्यां सिध्यतीति सर्वेषामपि समानम्। न हि कार्ये व्युत्पत्तिरप्यावापोद्वापपरित्यागेन सिध्यति। अथाप्ययमेवानेन वाक्येनान्तेवासिना प्रोक्त इति कथमिव निश्चिनुते बालकः? इत्थमेव निश्चिनुत इत्याह– आदिष्ट इति । यो यदर्थमादिष्टः स तत्कुरुत इति लोकसिद्धमेतत्। तेन योग्यतावशाद् विशेषार्थसिद्धिरिति भावः। चोदयति– तद्वाक्यादिति। पुत्रजन्मवाक्य श्रवणानन्तरं देवदत्तो जातकर्मादिषु प्रवर्तते तदेव कार्यरूपं वाक्यार्थ इति, अत्राप्यन्ततः कार्यव्युत्पत्तिरेव स्यादिति, अत्रोत्तरम्–अस््त्विति। पुत्रजन्मनः प्राधान्यात् शब्दानामावापोद्वापादिसहकारिसामर्थ्याद् बालस्यापि तत्तद्विशेषपरिज्ञानवैचक्षण्याच्च पुत्रजन््मैव वाक्यार्थ इति निश्चयो जायते। उत्तरोत्तरकार्यकरणं तु श्रोतुः स्वबुद्ध्यैव जायते। गृहमलङ्कुरुते बान्धवानाकारयति जातकर्मादिकं करोति गां ददाति भेर्यादिकमुद्घोषयति किमेतादृशं सकलमपि पुत्रजन्मवाक्यार्थ इति प्रतिपद्यते भवानपि? तस्मादनेनापि प्रकारेण सिद्धे व्युत्पत्तिरपि सिध्यति॥31॥
मूलम् - 31
- कस्मैचित्सिद्धमर्थं कमपि कथयितुं चेष्टया चोद्यमानः
तस्मै तं वक्ति तद्धीसमविषयतया शिक्षते तद्वचो़ऽन्यः।
आदिष्टो बोधनार्थं यदिह वितनुते तत्तदर्थं हि युक्तं
तद्वाक्यात्सिद्धवेदी प्रयतत इति चेदस्त्वनादेशिकन्तत्॥
विश्वास-प्रस्तुतिः - 32
- पुत्रस्तेऽभून्न सर्पोऽयमिति वचनतः प्रीत्यभीत्यादिलिङ्गैः
तद्योग्यार्थन्तदूह्यं विषयनियतिरासक्तिपूर्वैः क्वचित्स्यात्।
आवापोद्वापभेदात् प्रतिपदनियता शक्तिरप्यत्र सिद्ध्येत्
भूयोदृष्ट्यादिसाहाय्यकमिह वचसः कार्यपक्षाविशिष्टम्॥
३४-तमाहोबिल-यतिः - 32
- पुत्रस्तेऽभूदित्यादि। पुत्रस्तेऽभूत्, न सर्पो ।यमितिवचनतः प्रीत्यभीत्यादिलिङ्गैः – देवदत्त पुत्रस्ते जात इत्युक्ते तस्य मुखप्रसादो जायते, सर्पभयात्पलायमानं सस्वेदवेपथुं पुरुषं प्रति, अयं न सर्प इत्युक्ते तावता तस्य पलायनस्वेदवेपथुनिवृत्तिर्जायते। अतः प्रीत्यभीत्यादहेतुभिः। तत् – पुत्रस्तेऽभूत् नायं सर्प इति वाक्यम्। तद्योग्यार्थमूह्मम् – तथाविधप्रीतिभयनिवृत्तिहेतुभूतपुत्रजन्मसर्पाभावप्रतिपादकमिति पार्श्वस्थेन बालेन निश्चेयमेव भवति। विषयनियतिः क्वचिदासत्तिपूर्वैः स्यात् – प्रयाशो विषयनियमः सिद्ध एव भवति, क्वचिदासत्तिपूर्वैर्विषयविशेषसंनिहितत्वतदन्यविषयासंनिहितत्वजातकर्मप्रवृत्यादिभिर्विषयाविशेषनियति र्भवति। अत्र—भवदभिमतकार्यार्थव्युत्पत्ताविवास्मदभिमतसिद्धार्थव्युत्पादनप्रकरणे।आवापोद्धापभेदात् – आवापः पदान्तरप्रक्षेपः, उद्धापः स्थितपदोद्धारः, तयोः र्भेदाद् विशेषात्। प्रतिपदनियता शक्तिरपि सिध्येत् – पुत्रस्ते जात इत्युक्ते मुखविकासः, एवं" पुत्रो मृत इत्युक्ते रोदनादिकं जायते। एवं शत्रुर्जातो मृत इति चोक्ते रोदनमुखविकासौ स्तः। तस्मादावापोद्धापावेव प्रतिपदव्युत्पत्तौ तन्त्रमिति। ननु कथं कतिपयव्यवहारदर्शिनां बालानां व्युत्पत्तिरित्यत्राह — भूयोदृष्ट्यादीति। इह वचसो भूयदृष् ट्यादिसाहायकं कार्यपक्षाविशिष्टम् —सिद्धार्थव्युत्पत्तावपि पदानामर्थव्युत्पत्तौ भूयोदर्शनादिसाहाय्यं कार्यार्थव्युत्पत्ताविव तुल्यमेव। अतो नास्मत्पक्षेऽधिकरापेक्षणमिति भावः॥
कुमार-वरदः - 32
- प्रकारान्तरेणापि लोकप्रसिद्धं परवादिकल्पनाप्रसिद्धं च सिद्धव्युत्पत्तिप्रकारमाचष्टे–पुत्र इति। लोके हि पितुः समीपमागत्य पुत्रस्ते जात इति कश्चिद्वदति। तस्य च तेन मुखप्रसादो जायते। तद्वाक्यं व्युत्पत्तिसुरपरः श्रृणोति। स चानुमिनोति– एतद्वाक्यश्रवणसमनन्तरमेतस्य मुखविकासो जातः, अयं मुखविकासस्तावदनुकूलार्थ - प्रतिपत्तिमन्तरेण न संभवति, इयमनुकूलार्थप्रतिपत्तिरेतद्वाक्यश्रवणसमनन्तरभाविनी स्वस्या स्तदेव कारणीकरोति, अत एतद्वाक्यं पुत्रजन्मप्रत्यायकमिति। एवं निश्चिन्वानः पुत्रस्तेजात इति वाक्यार्थं प्रतिपद्यते। एवं सर्पभयजनितपलायनस्य नायं सर्प इति वाक्यश्रवणसमनन्तरं पलायनान्निवृत्तस्येदं" वाक्यं सर्पाभावप्रतिपादकमिति निश्चिनोति बालकः। एवमन्यान्यप्येतादृशान्युदाहरणान्युदाहर्तव्यानीति। ननु तव गृहे निधिरस्ति, पिता ते सुखमास्व इत्यादिभिरपि वाक्यैरनुकूलीर्थप्रतिपादकैर्मुखविकासो जायते।व्याघ्रोनास्तीत्यादिप्रतिकूलार्थनिवृत्तिप्रतिपादकैः" पलायननिवृत्त्यादिकं जायते। कथं पुत्रस्ते जातो न सर्पोऽयमिति वचनयोरयमर्थ इति विषयनियमः स्यात्? स्यादेवेत्याह– विषयनियतिरिति। आसात्तिः–सन्निहि- तत्वम्। अत्र पूर्वशब्देन विषयान्तरानासत्तिर्गम्यते। अथवा पुत्रजन्मानुकूलजातकर्मादिप्रवृत्तिसंरम्भः। एवं" नायं सर्प इत्यत्राप्यासत्त्यादिभिर्विषयनियमो वक्तव्यः। नन्वत्र सामान्यव्युत्पत्तिरेव स्यात् , न पुनः प्रतिपदव्युत्पत्तिः। कथमत्र बालको व्युत्पद्यते? तत्राह-आवापेति। अयमर्थः। पुत्रस्ते जात इत्यक्ते मुखविकासः, एवं मृत इत्युक्ते रोदनादिकं जायते, एवं शत्रुर्जातो मृत इति चोक्ते रोदनमुखविकासौ स्तः। तस्मादावापोद्धापावेवे प्रतिपदव्युत्पत्तौ तन्त्रमिति तन्त्रज्ञाः। तस्मात् पुत्रजातादिशब्दानामत्र यथादर्शनं व्यपत्पत्तिरनुसर्तव्या विचक्षणैरिति। ननु कथं कतिपयव्यव- हारदर्शिनो व्यत्पद्यन्ते बालका इत्याशङ्क्य न तथा वयमाचक्ष्मह इत्याह–भूयोद्दष्टिति।उक्तार्थस्थेम्ने प्रतिबन्दि- मारचयति–कार्येति। कार्यवाक्यार्थवादिनोऽप्यावापोद्धापावेव प्रतिपदव्युत्पत्तौ तन्त्रमिति॥ 32॥
मूलम् - 32
- पुत्रस्तेऽभून्न सर्पोऽयमिति वचनतः प्रीत्यभीत्यादिलिङ्गैः
तद्योग्यार्थन्तदूह्यं विषयनियतिरासक्तिपूर्वैः क्वचित्स्यात्।
आवापोद्वापभेदात् प्रतिपदनियता शक्तिरप्यत्र सिद्ध्येत्
भूयोदृष्ट्यादिसाहाय्यकमिह वचसः कार्यपक्षाविशिष्टम्॥
विश्वास-प्रस्तुतिः - 33
- कार्ये व्युत्पत्तिराद्या भवतु तदपि किं शक्तितात्पर्यसिद्धेः
प्राग्व्युत्पत्तिः क्रियायां नृवचसि निगमे त्वन्यथेत्यभ्युपैषि।
स्थाप्याऽतोऽनन्यथासिद्ध्यनुगमनियतैस्सत्प्रयोगैर्हि शक्तिः
कोऽसौ पाञ्चाल इत्याद्युचितविरतिकं सिद्धमात्रेऽपि वाक्यम्॥
३४-तमाहोबिल-यतिः - 33
- कार्ये व्युत्पत्तिराद्येत्यादि। आद्या व्युत्पत्तिः – प्रथमः शक्तिग्रहः। कार्ये भवतु – कार्यार्थ एव भवतु। तदपि – तथापि। शक्तितात्पर्यसिद्धेः किम् – शक्तिपर्यवसानस्य किमायातम्। प्रथमं यस्मिन्नर्थे शक्तिग्रहः स एव शब्दार्थ इति चेत्, अयमुपायो लोकवेदयोः शक्तिग्रहप्रकारमन्यथाकल्पयता भवतैव भग्न इत्याह – प्राग्व्युत्पत्ति रित्यादि। प्राक् नृवचसि क्रियायां व्युत्पत्तिः, निगमे त्वन्यथेत्यभ्युपैषि – प्राभाकराः किल लिङादेः प्रथमं व्युत्पत्तिं क्रियायामेव प्रतिपेदिरे।पश्चात् पुनः कामिनियोज्यान्वयानुपपत्त्या क्रियातिरिक्ते क्वचिदपूर्वशब्दाभिधेये शब्दशक्तिं प्रचक्षते। अतः शक्तिग्रहस्य भिन्नभिन्नत्वाङ्गीकाराद् यावदनन्यथासिद्धप्रकारलाभं" नैकत्र प्रतितिष्ठतीति भावः। तर्हि कथं शक्तिनिमः शब्दानामित्यनुयुञ्जानस्य गलिताहङ्कारस्य शब्दशक्तिनियामकान् हेतून् अनुग्रहादेव दर्शयति — स्थाप्याऽत इत्यादिना। अतोऽनन्यथासिद्ध्यनुगमनियतैः सत्प्रयोगैर्हि शक्तिः स्थाप्या ।अतः — उक्तानुपपत्तितः। अनन्यथासिद्ध्यनुगमनियतैः — लक्षणादिवृत्त्यन्तरैः संभावितत्वमन्यथासिद्धिः। तदभावो ऽनन्यथासिद्धिः। सर्वप्रयोगसंबन्धो ऽनुगमः।एताभ्यां" नियतैः — युक्तैः। सत्प्रयोगैः – साधुप्रयोगैः। हि – प्रसिद्ध्यर्थः। शक्तिः – पदानामर्थोपस्थापनशक्तिः। स्थाप्या—- व्यवस्थाप्या। को ऽसौ पाञ्चाल इत्याद्युचितविरतिकं वाक्यमपि सिद्धमात्रे — दृश्यत इति शेषः। कोऽसावित्युक्ते पाञ्चाल इति व्यपदिशन्ति। इत्यादि — एवमादिरूपम्। उचितविरतिकम् — यथोचिताविरमयुक्तम्। तं पश्येत्यादिकार्यार्थकवाक्यशेषकल्पनानर्हमित्यर्थः। वाक्यम् — उक्तिप्रत्युक्तिरूपं वाक्यमपि। सिद्धमात्रे — सिद्धार्थमात्रे प्रयुज्मानं दृश्यत इत्यर्थः॥
कुमार-वरदः - 33
- परोक्तं कार्यव्युत्पत्तिमाद्यामङ्गीकृत्यापि कार्य एव शब्दशक्तिरिति परोक्तां प्रक्रियां निवार्य सिद्धे व्युत्पत्तिप्रकारान्तरमप्युपदिशति– कार्य इति । आद्या व्युत्पत्तिः कार्य एवेति तु भवतु नाम। अथापि कार्य एव सर्वषां शब्दानां शक्तिरिति नियन्तुं न शक्यते। उक्तार्थप्रतिपादनार्थँ" प्रतिबन्दीमाह– प्रागिति। प्राभाकराः किल प्रथमं व्युत्पत्तिं क्रियायामेव प्रतिपेदिरे लिङादेः। पश्चात् पुनः कामिनियोज्यान्वयानुपपत्त्या क्रियातिरिक्ते क्वचिदपूर्वशब्दाभिधेये शब्जदशक्तिं प्रचक्षते। तेनैवं वदतस्तव परगृहवह्निप्रक्षेपप्रवृत्त्या स्वगृहस्यापि दाहः" स्यात्। तर्हि कथं शक्तिनियमः शब्दनामित्यनुयुञ्जानस्य गलिताहङ्काररस्य शब्दशक्तिनियामकान् हेतूननुग्रहादुपदर्शयति — स्थाप्येति। अनन्यथासिद्धिः सुप्रसिद्धा। अनुगमोऽप्युक्तः। सत्प्रयोगोऽपि प्रसिद्धः। एतैस्त्रिभिरपि हेतुभिः" सिद्धे वा कार्ये वा शब्दशाक्तिरवगन्तव्येत्यर्थः। प्रकारान्तरेणापि सिद्ध व्युत्पत्तिमाह–कोऽसाविति। कोऽसा- वित्युक्ते पाञ्चाल इति व्यपदिसन्ति। कः पाञ्चालः इत्युक्ते,अयमिति तु स्वरूपविर्देशेनापि व्यपादिशन्ति।तस्मात् कार्य एव व्युत्पत्तिरिति विर्बन्धो निर्निबन्धनः॥33॥
मूलम् - 33
- कार्ये व्युत्पत्तिराद्या भवतु तदपि किं शक्तितात्पर्यसिद्धेः
प्राग्व्युत्पत्तिः क्रियायां नृवचसि निगमे त्वन्यथेत्यभ्युपैषि।
स्थाप्याऽतोऽनन्यथासिद्ध्यनुगमनियतैस्सत्प्रयोगैर्हि शक्तिः
कोऽसौ पाञ्चाल इत्याद्युचितविरतिकं सिद्धमात्रेऽपि वाक्यम्॥
विश्वास-प्रस्तुतिः - 34
- दुःखासंभिन्नदेशप्रभृतिफलतया चोदनास्वेव सिद्धं
श्रौतत्वादार्थवादिक्यपि भवतु फलं रात्रिसत्रे प्रतिष्ठा।
अङ्गीकुर्मो निषेधानुगुणमिति तथाऽनर्थकृत्त्वं निषेद्ध्ये
विद्ध्यर्थैरप्यतस्स्यादवितथविषया ब्रह्मधीरर्थवादैः॥
३४-तमाहोबिल-यतिः - 34
- दुःखासंभिन्नेत्यादि। चोदनास्वेव – विधिवाक्येष्वेव। दुःखासंभिन्नदेशप्रभृति – ‘यन्न दुःखेन संभिन्नम्’ इत्याद्यर्थवादवाक्यसिद्धं" दुःखासंभिन्नदेशरूपं स्वर्गादिकम्। फलतया – ‘स्वर्गकामो यजेत’ इति स्वर्गसाधनतया प्रतिपन्नकार्यान्वितफलतया। सिद्धम् – तान्त्रिकैरङ्गीकृतं प्रसिद्धम्। रात्रिसत्रे – ‘रात्रिरुपेयात्’ इति विहिते रात्रिशब्दवाच्ये यागविशेषे। आर्थवादिक्यपि – ‘प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्ति’ इत्याद्यर्थवादप्रतिपन्नाऽपि। प्रतिष्ठा – संपादादिस्थैर्यरूपा।श्रौतत्वात् –श्रुतिप्रतिपन्नत्वमात्रेण। फलं भवति — फलतया स्वीकृता भवति। तथा – एवमेव। निषिध्ये – ‘तस्माद्ब्रह्मणाय नापगुरेत। न निहन्यात् न लोहितं कुर्यात्’ इत्यादिनिषिद्धे ब्राह्मणोद्देश्यकप्रहारार्तायुद्योद्यमनरूपापगौरणादौ। निषेधानुगुणमिति —निषेधविध्यनुकूलमिति हेतोः। अनर्थकृत्त्वम् –‘यो ऽपगुरातै शतेन याताद्यो निहनत्सहस्रेण यातायाद्यो लोहितं करवद्यावतः प्रस्कन्द्य पांसून्संगृह्णात्तावतः" संवत्सरान् पितृलोकं न प्रजानात्’ इत्यर्थवादप्रतिपन्नं शतयानादिकं फलमङ्गीकुर्मः। अतः – उक्तोपपादनात्। विध्यर्थैरप्यर्थवादैः — विधिशेषभूतैरप्यर्थवादवाक्यैः ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिरूपैः। अवितथविषया –अबाधितसफलविषया। ब्रह्मधीः – ब्रह्मप्रतिपत्तिः। स्यात् – सिध्येदेवेत्यर्थः॥
कुमार-वरदः - 34
- एवं परमार्थैरेव प्रकारभेदैः सिद्धे व्युत्पत्तिमुक्त्वा परवाद्यङ्गीकृतप्रकारभेददृष्टान्तैरपि प्रधानार्थानुबन्धिन्यर्थेऽपि प्रतिपत्तिमुपपादयन् ’ ब्रह्मविद्प्नोति परम्’ इति विध्यर्थैः ‘तदेषाऽभ्युक्ता’ इत्युक्तमन्त्रार्थवादैर्ब्रह्मप्रतिपत्तिः स्यादित्यन्वारुह्यवादेनापि ब्रह्मज्ञानोत्पत्तिहेतुत्वमुपवनिषदामुपपादयति– दुःखासम्भिन्नेति। अत्र दृष्टान्तत्रयमुहादीयते कार्यार्थवादिभिरपि ’ स्वर्गकामो यजेत’ इति स्वर्गसाधनतया प्रतिपन्नकार्यान्वितसिद्धरूपस्वर्गप्रतिपत्तिः ’ यन्न दुःखेन संभिन्नम्’ इत्याद्यर्थवादवाक्यैर्विशेषो ज्ञायत इत्यङ्गीक्रियत इत्येको दृष्टान्तः। अपरस्तु विधिवाक्यप्रतिपन्नप्रतिष्ठादिफलमर्थववादवाक्यप्रतिपन्नमाकाङ्क्षा वशाद् रात्रिसत्रादौ स्वीक्रियत इति। तृतीयस्तु निषेधविध्यनुकूलं विपरीतफलमार्थवादिकं स्वीक्रियत इति। एवं" ‘परप्राप्तिकामो ब्रह्म विद्यात्’ इति ब्रह्मवेदनफलतया विधिवाक्यश्रुतमेव परब्रह्म मन्त्रार्थवादयोर्विशेषः प्रख्याप्यत,इति को विरोध इति श्लोकार्थः। अयमत्राधिकरणार्थसंग्रहः – व्युत्पत्त्यायत्तं शब्दस्य प्रामाण्यम्। आद्या च व्युत्पत्तिः कार्य एव। सिद्धप्रतिपादकानां" तु वेदान्तवाक्यानां न स्वार्थपरत्वमिति तद्विचाररूपं शास्त्रमनारम्भणीयमिति पूर्वपक्षः। सिद्धान्तस्तु - व्युत्पत्त्यायत्तमेव शब्दस्य प्रामाण्यम्। तथापि आद्या व्युत्पत्तिः सिद्धेऽपि संभवत्येव। तथा हि– अम्बातातमातुलेत्यादिभाष्योक्तवेदकः प्रकारः। संसारइत्यादिर्द्वितीयस्य चोपपादकः। दक्षैरित्यात्यादिकम्पि तदेवोपपादयति। परस्तु प्रकार उच्यते कस्मै चिदित्यादिना। पुत्रस्तेऽभूदित्याना विधिनिषेधाभ्यां प्रकारान्तरद्वयमपि दर्शितम्। कार्य इत्यादिना पारङ्गीकारप्रकारेण द्वितीयव्युत्पत्तिप्रकारमाह। कोऽसावित्यादिप्रकारान्तरमपि सुप्रसिद्धम्। दुःखासंभिन्नेत्यादिरन्वारुह्यवादो भाष्य एव सुव्यक्तमुक्तः। एवं भाष्योक्तैः प्रकारभेदैरनुक्तैरप्याभिप्रायकैः" सिद्धे व्युत्पत्तिः सिध्यति। प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीत्यादौ समभइव्याहारान्मधुकरशब्दव्युत्पत्तिमामनन्ति हि न्यायवादिनः। ‘स्वरव्ययम्’ इत्यादावभिधानपाठात् सिद्धे व्युत्पत्तिः सुप्रसिद्धा। प्रसिद्धा च ‘प्रणाय्योऽसंमतौ’ इत्यादिषु व्याकरणपरिचयात् सिद्धे व्युत्पत्तिः। काव्यपुराणादिश्रवणमपि सिद्धे कार्ये च द्वयोः पदानां साधारण्येन व्युत्पादकमेव। तेषु तेषु शास्त्रेषु साङ्केतिकी व्युत्पत्तिः सिद्धेऽपि सहस्रमुखी। तेन सिद्धेऽपि व्युत्पत्तिसंभवोपपादनात् सिद्धपरं शारीरकशास्त्रमारम्भणीयमिति । ’ अथातः’ इत्यस्मिन् सूत्रे विशिष्टो हेतुरुच्यते। स च कर्मफलास्थिरत्वनिर्णयपूर्वकानन्तस्थिरफलब्रह्मापातप्रतीतिः। तत्र विशेष्यापातप्रतीतिः" सिद्धे व्युत्पत्तिसाधनादेव सिध्यतीति सूत्रकारहृदयमेतत्॥34॥
मूलम् - 34
- दुःखासंभिन्नदेशप्रभृतिफलतया चोदनास्वेव सिद्धं
श्रौतत्वादार्थवादिक्यपि भवतु फलं रात्रिसत्रे प्रतिष्ठा।
अङ्गीकुर्मो निषेधानुगुणमिति तथाऽनर्थकृत्त्वं निषेद्ध्ये
विद्ध्यर्थैरप्यतस्स्यादवितथविषया ब्रह्मधीरर्थवादैः॥