00 उपोद्घातम्

३४-तमाहोबिल-यतिः - 0

श्रीमद्वीररघूद्वहश्रुतिशिरोरङ्गेशकार्यात्मज
श्रीवासश्रुतिमौलियोगिशठजिद्योगीशवीक्षास्पदम् ।
विख्यातं शमधीदमादिसुगुणैराढ्यं विपश्चित्तमं
वन्दे श्रीशठकोपलक्ष्मणमुनिं वैराग्यवाराकरम् ॥

श्रीमदहोमिलमठमहास्थान निर्वहणधुरन्धर (३४ पट्ट)
श्रीवण्शठकोपश्रीशठकोपरामानुजमहादेशिकानुगृहीता
अधिकरणसारावलीव्याख्या
अधिकरणकल्पतरुरिति प्रसिद्धा
॥ पदयोजना ॥

अस्तु स्वस्ति प्रसिद्ध्यै गरुडगिरिगुहागेहवासोद्विलासप्रत्यस्ताक्षुब्धदिव्यामितविमलचिदाकाशसाम्राज्यभूमा ।
वक्षोऽलंकारलक्ष्म्या स्वपरमसमतास्पाष्ट्यवाञ्छाञ्चिताङ्कः कल्याणैकान्तमूर्तिः करविलसदरिः कान्तया दिव्यसिंहः ॥
अस्तु लक्ष्मीनृसिंहाङ्घ्रिसपर्यौदार्यसंविदाम् । रङ्गभू रङ्गभूमीन्द्रशठारियतिराट् श्रियै ॥
सन्निधिः संनिधत्तां मे हृदये सदयोदयः । सर्वतन्त्रस्वतन्त्रः श्रीवेदान्तद्वयदेशिकः ॥
अधिकृतिसारावल्या व्याख्यां वरदगुरुनिर्मितां वीक्ष्य । पदयोजनां तदीयां लिखति रमावासराघवाचार्यः ॥
श्लोकानां केषांचित् पदयोगविधा व्यलेखि चाचार्यैः ।
यद्यपि तथाप्यनूना विलिख्यतेऽत्रेति मत्कृतिः सफला ॥

विश्वास-प्रस्तुतिः - 1
  1. स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै
    सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान् ।
    विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां
    वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥
३४-तमाहोबिल-यतिः - 1
  1. स्वस्ति - अन्वर्थयामि । स्वस्ति आशीः, अस्त्विति शेषः । यद्वा स्वस्ति क्षेमङ्करं शासनविशेषणम् । ‘स्वस्त्याशीः क्षेमपुण्यादौ’ इति कोशात् । किमपि - अनिर्वचनीयं विस्मयावहम् । भगवद्रामानुजसिद्धान्तधुरन्तरेषु वहुषु सत्स्वपि स्वस्मिन् विशेषतः प्रवृत्तत्वादाश्चर्यावहमिति भावः । भगवद्रामानुजसिद्धान्तमभिवर्धयेत्यादिस्वप्नवचनार्चकवचनादिरूपत्वाद्वा आश्चर्यावहत्वम् । रङ्गभर्तुः - परमव्योम्नि नित्यमुक्तपरिचरणादपि संसारिजनोद्दिधीर्षया श्रीरङ्गनगर्यां स्वसेवाभूरिदानं सर्वतोऽधिकं मत्वा तस्याः सर्वतोनिर्वाहे व्यापृतस्य श्रीरङ्गनाथस्य । शासनम् - आज्ञाम् । दधत् - शेषापटतुल्यं शिरसा सविनयमुद्वहन् । अहम् - अनन्यसाधारणसर्वतन्त्रस्वातन्त्र्यादिभिः सर्वजनसुविदितभगवद्घण्टावतारताकः, अत एव भगवच्छासितार्थनिर्वहणौपयिकज्ञानशक्तिनिर्भरोऽहम् । तत्प्रसत्त्यै - तत्प्रसादार्थम् । यतिपतिकथितम् - भगवद्रामानुजभाषितम् । सत्यैकालम्वि - उभयविभूतिविशिष्टस्यानन्तकल्यागुणाकरस्य ब्रह्मणः सत्यत्वमात्रप्रतिपादकम् । यद्वा सत्यभूतं ब्रह्म निखिलजगत्कारणभूतम्, सत्यमेव चेतनाचेतनात्मकोभयविभूतिवर्गम्, सत्यभूतमेव ब्रह्मणो हेयप्रतिभटत्वसमस्तकल्याणगुणाकरत्वरूपमसाधारणधर्मजातम्, सत्यभूतमेव व्यवस्थिततत्तद्गुणजातं उपासनवितानं तदङ्गञ्च, सत्यभूतमेव वर्णाश्रमधर्मसमुदायम्, सत्यभूतानेवोत्क्रमणार्चिरादिमार्गतद्गमनलोकविशेषगमनभगवत्प्राप्त्यनावृत्तिपर्यन्तांश्चार्थानवलम्ब्य प्रतिपाद्यतया स्वीकृत्य प्रवृत्तमित्यर्थः । तत्प्रतिपादकमिति यावत् । शंकरादिभाष्यं हि ब्रह्मैकमेव सत्यभूतं तद्व्यतिरिक्तं तदीयकल्याणगुणपर्यन्तं कृत्स्नमपि पूर्वोक्तमर्थजातं असत्यभूतमित्यवलम्ब्य प्रवृत्तम् । अतस्तद्व्यावृत्तमित्यर्थः । भाष्यम् - निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य लक्षणपूर्त्या सर्वसंमतम् । तद्वत् भाष्यलक्षणपूर्त्या भगवद्रामानुजभाष्यस्यैव भाष्यशब्दमुख्यार्थत्वमित्याशयेन केवलं भाष्यमित्युक्तम् । विशेषणाभावेऽपि केवलभाष्यशब्देन निर्देशार्हमिति यावत् । यतिपतिकथितमित्यादि तु निरूपितस्वरूपविशेषणम् । अखिलभुवनेत्यारभ्य प्रवृत्तं श्रीभाष्यमित्यर्थः । युक्तान् - शिष्यत्वौपयिकगुणसमुदायपरिपूर्णान् आस्तिकान् । शश्वत् - पुनःपुनः । ‘त्रिंशद्वारं श्रावितशारीरकभाष्यः’ इत्याद्युक्तरीत्या बहुवारमित्यर्थः । अध्याप्य - सम्यक् श्रावयित्वा । ते च यथान्येषामध्यापकाः स्युः, तथार्थज्ञानमुत्पाद्येत्यर्थः । विश्वस्मिन् - निखिलजगति । नामरूपाणि - जातिगुणक्रियाप्रवृत्तिनिमित्तकानि सर्वाणि नामानि, तद्वाच्यानि जातिगुणक्रियाश्रयभूतानि रूपाणि च । अनुविहितवता - ‘सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते’ (तै.आ. ३.१२) इत्युक्तरीत्या व्याकृतवता । तेन देवेन - तेनैव श्रीरङ्गनाथेन दत्ताम् - विरचिताम् । वेदान्ताचार्यसंज्ञाम् - वेदान्ताचार्य इत्याख्याम् । अवहितबहुवित्सार्थम् - सावधानीकृतविद्वत्सङ्घं यथा तथा । यद्वा - अवहितानां अपूर्वपद्यरूपप्रबन्धविशेषार्थजातश्रवणकुतूहलेनानन्यहृदयानां बहुविदां नानातन्त्रनिष्णातानां शिष्यसतीर्थ्यश्रेयोऽर्थिनां सार्थं समूहं प्रतीत्यर्थः ।अन्वर्थयामि - अनुगतार्थां करोमीत्यन्वयः । अधिकरणसारावल्याख्यापूर्वप्रबन्धनिर्माणं संप्रार्थ्य तच्छ्रवणकौतुहलेन सावधानान् बहुविदः शिष्यादीन् परितोषयितुं तादृशप्रबन्धनिर्माणेन भगवद्दत्तवेदान्ताचार्यसंज्ञाम् अयमेवार्हतीति ते सर्वे यथा वदेयुस्तथा सार्थक्यमापादयामीति भावः ॥
कुमार-वरदः - 1
  1. वेदान्ताचार्यसूनुः सकलगुणनिधिर्वादिदर्पोपहन्ता
    विश्वामित्रान्ववाये समुचितजनिमान् सर्वतन्त्रस्वतन्त्रः ।
    शास्त्रे ब्रह्मप्रधाने स्वगुरुविरचिताधिक्रियासारपङ्क्ते-
    श्चिन्तामण्याख्यटीकां वरदगुरुरयं सुग्रहामातनोति ॥१॥
    इह खलु श्रीमान्वेदान्ताचार्यः शारीरकशास्त्राधिकरणेषु सारतमार्थसंग्राहकपद्यावलीरूपप्रबन्धनिर्माणेन स्वस्य श्रीरङ्गराजदिव्याज्ञालब्धवेदान्ताचार्यसंज्ञामन्वर्थयितुमारिप्सितस्य प्रबन्धस्याविघ्नपरिसमाप्तिप्रचयगमनार्थमाशीर्वादरूपं मङ्गलमाचरति - स्वस्तीति । ‘स्वस्त्याशीः क्षेमपुण्यादौ’ (अमरकोशे ३.३.२४२) इति निघण्टुपाठात् स्वस्तिशब्दः आशीर्वादपरः । क्षेमप्राप्त्यादिः सर्वविधाप्याशीरस्त्वित्यर्थः । ननु श्रीभाष्यादिप्राचीनप्रबन्धस्य विद्यमानत्वात् किमपूर्वग्रन्थनिर्माणेनेत्यत्राह - श्रीरङ्गभर्तुरिति । अयमर्थः - श्रीरङ्गराजदिव्याज्ञारूपं (शासनं) दधदहं तत्प्रसादलब्धसर्वार्थज्ञानवान् । तत्प्रसत्त्यै - तत्प्रसादार्थम् । सत्यैकालम्बीति - सत्यैकालम्बि भाष्यम् । उभयविभूतिविशिष्टस्यानन्तकल्याणगुणाकरस्य ब्रह्मणः सत्यत्वमात्रप्रतिपादकं भाष्यम् । शश्वदध्याप्यानन्तरं पद्यावलीरूपप्रबन्धनिर्माणमिति न तत्परित्यागदोषः । ननु भगवदाज्ञापरिपालनस्य शश्वद्भाष्याध्यापनेनैव सिद्धत्वात् ग्रन्थारम्भो व्यर्थ इत्याशङ्कां परिहरति - विश्वस्मिन्निति । ‘तद्धेदं तर्ह्यव्याकृतमासीत्, तन्नामरूपाभ्यां व्याक्रियत’ इत्यत्र प्रसिद्धेन निखिलजगन्नामरूपनिर्वाहकेन जगत्सृष्ट्यादिरूपक्रियायुक्तेन भगवता दत्तां वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थं सावधानीकृतविद्वत्सङ्घं यथा तथाऽन्वर्थयामि । अयमर्थः - वेदान्तशास्त्रं सम्यगभिवर्धयेति श्रीरङ्गनाथस्य दिव्याज्ञां शिरसि निधाय तत्प्रसादार्थं यतिपतिप्रणीतं सत्यैकालम्बि भाष्यं युक्तानास्तिकान्सर्वान् शश्वदध्याप्य सकलजगन्नामरूपनिर्वाहकेन तेनैव श्रीरङ्गनाथेन विरचितां वेदान्ताचार्यसंज्ञां सकलविद्वज्जन………तुं शारीरकाधिकरणसारार्थसंग्राहकपद्यावलीरूप्रबन्धनिर्माणमिति । ……..प्रबन्धस्य निरतिशयभोग्यत्वेन शारीरकशास्त्राधिकरणानामुपकारकत्वविशेषेण? …॥१॥
मूलम् - 1
  1. स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै
    सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान् ।
    विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां
    वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥
विश्वास-प्रस्तुतिः - 2
  1. श्रीमद्भ्यां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां
    सम्यग्दृष्टेन सर्वंसहनिशितधिया वेङ्कटेशेन कॢप्तः ।
    सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा
    सिद्धश्शारीरकार्थे सहजबहुगुणः स्रग्धरादुग्धराशिः ॥
३४-तमाहोबिल-यतिः - 2
  1. श्रीमद्भ्यामित्यादि । श्रीमद्भ्याम् - ‘सा हि श्रीरमृता सताम्’ इत्युक्तरीत्या साङ्गसशिरस्कवेदत्रयार्थविज्ञानरूपनित्यसंपद्युक्ताभ्याम् । यद्वा भगवद्विभूतिसंवर्धनरूपकैङ्कर्यलक्ष्मीयुक्ताभ्यामित्यर्थः । ‘लक्ष्मणो लक्ष्मिसंपन्नः’ इति ह्युक्तम् । वरदाचार्यरामानुजाभ्याम् - आचार्यशब्दस्य मध्यमणिन्यायेनोभयत्रान्वयः । तथाच वरदाचार्याचार्यरामानुजाभ्यामिति संपन्नम् । वरदाख्यो यः आचार्यः, यश्च स्वाचार्यभूत आत्रेयरामानुजः, ताभ्यामित्यर्थः । अनुपधि - द्रव्यसमर्पणाद्युपाधिं विनैव स्वविभूतिविवर्धयिषु श्रीरङ्गनाथप्रेरणादन्यत् बाह्यनिमित्तं किमपि विनैवेत्यर्थः । असौ - कुमारः । स्यात् - भगवद्भाष्यकारसिद्धान्तसंवर्धनौपयिकप्रकृष्टविज्ञानसंपद्युक्तो भूयात् । इति - एवं मङ्गलाशासनेन हेतुना । सम्यक् - सद्यःप्रसूते तर्णके धेनोरिव प्रेमभरेण युक्ततया । दृष्टेन - कटाक्षविषयीकृतेन । अतएव सर्वंसहनिशितधिया - ‘न स्मरत्यपकाराणां शतमप्यात्मवत्तया’, ‘न क्रुध्यत्यभिशप्तोऽपि’ इत्याद्युक्तरीत्या स्तुतिनिन्दादिकं सर्वं सहत इति सर्वंसहः स्तुत्यापि नातिसंतुष्यति, निन्दया किञ्चिदपि विकृतचित्तो न भवतीत्यर्थः । निशिता - दुर्ग्रहार्थग्रहणौपयिकसोक्ष्म्यातिशययुक्ता, धीर्यस्य स तथा । सर्वंसहश्चासौ निशितधीश्च सर्वंसहनिशितधीः - तेन । यद्वा सर्वंसहा - सर्वविषयिणी, निशिता च धीर्यस्येति वा योजना । वेङ्कटेशेन - ‘वेङ्कटेशावतारोऽयम्’ इत्युक्तरीत्या श्रीवेङ्कटेशावतारतासूचकवेङ्कटेशनाम्ना स्वेन । कॢप्तः - शारीरकार्थनिरन्तरानुसन्धानसौकर्यौपयिकतया निबद्धः । शारीरकार्थे सिद्धः - जगच्छरीरः परमात्मा शारीरः । ‘तस्यैष एव शारीर आत्मा’ इति श्रुतेः । तमधिकृत्य कृतो ग्रन्थः शारीरकं, तस्यार्थे शारीरकमीमांसासारतमार्थविषये । सिद्धः - अनन्यपरः, तदेकप्रतिपादक इति यावत् । दुग्धराशिपरत्वे - शारीरं शरीरसंबन्धि यत् कं सुखं तद्रूपो योऽर्थः प्रयोजनं तत्र सिद्धः तदेकसाधनमित्यर्थः । अनुदिनं दुग्धं पिबतां शरीरसुखं प्रसिद्धं हि । सहजबहुगुणः - सहजाः कवयितृप्रयासं विना स्वयमेव संसिद्धाः बहवो गुणाः प्रसादौजःप्रभृतयो यस्य स तथा । दुग्धराशिपक्षे गुणा माधुर्यादयः । असौ - बुद्धिस्थः । स्रग्धरादुग्धराशिः - प्रथमं सर्वगुरुर्मगणः । ततो मध्यलघू रगणः । तत आदिगुरुर्भगणः । ततस्सर्वलघुर्नगणः । तत आदिलघवस्रयो यगणाः । आहत्य सप्त गणाः प्रतिपादं सम्पद्यन्ते । सप्तसु सप्तसु विश्रमः । एवं गणविन्यासयुक्तो वृत्तविशेषः स्रग्धरेत्युच्यते । अस्यामधिकरणसारावल्यां सर्वेऽपि श्लोकाः स्रग्धरारूपाः । अतः स्वस्तिश्रीत्यादिस्रग्धरारूपो दुग्धराशिः - दिव्यगव्यनव्यदुग्धधारापरम्परा । शान्तचित्तैः - विषयान्तरविमुखहृदयैः । अन्यत्र नीरोगैरित्यर्थः । शान्तिलाभार्थिभिर्वा - वेदान्तज्ञानविरोधिनिवृत्त्यपेक्षिभिर्वा । अन्यत्र रोगशान्त्यपेक्षिभिर्वेत्यर्थः । दुग्धं हि नीरोगैः सुखार्थं रोगिभी रोगशान्त्यर्थञ्च पीयते । श्रवणरसनया - श्रवणं श्रोत्रमेव रसना जिह्वा तया । सेव्यः संपेयः । श्रोत्रावसेयेयं स्रग्धरा सेव्यमाना सुखं जनयतीति भावः ॥
कुमार-वरदः - 2
  1. (श्रीमद्भ्यामिति) स्वाचार्ययोर्ज्ञानादिसमृद्धिः सूचिता । वरदाचार्यरामानुजाभ्यां सम्यग्दृष्टेनेत्यनेन - ‘ईश्वरस्य च सौहार्दं यदृच्छासुकृतं तथा । विष्णोः कटाक्षमद्वेषमाभिमुख्यं च सात्त्विकैः ॥ संभाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः ॥’ इत्याचार्यकटाक्षस्य भगवत्कटाक्ष हेतुत्वं ………….. स्वस्य तादृशत्वसिद्ध्यर्थं सम्यग्दृष्टत्वोक्तिः । द्रष्टृतुल्यगुणवत्त्वं तद्दृष्टिविषयस्य ‘जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥’ इत्यनेन सिद्धम् । सम्यग्दर्शनकार्यमाह - सर्वंसहनिशितधियेति । एतेन स्वस्य शान्तियुक्तत्वं धियः सूक्ष्मविषयत्वं चोक्तम् । सर्वं सहत इति सर्वंसहः । निशिता धीर्यस्य निशितधीः । सर्वंसहश्चासौ निशितधीश्चेति कर्मधारयः । यद्वा धियः सर्वंसहत्वं सर्वविषयत्वम् । प्रबन्धस्य परिग्राह्यत्वसिद्ध्यर्थमाह - वेङ्कटेशेनेति । क्लृप्तः - सारार्थनिष्कर्षेणोपकारविशेषार्थं परिक्लृप्तः । एवं च परिग्राह्यत्वे हेतुरुक्तः । अथ परिशीलनीयत्वमाह - सेव्य इति । असौ - सारार्थसंग्राहकपद्यावलीरूपः प्रबन्धः । शान्तचित्तैरिति - अनेन ‘सारासारविवेकज्ञा गरीयांसो विमत्सराः’ इत्युक्तं विमत्सरत्वं द्योत्यते । तेन मत्सरग्रस्तैः अपरिग्रहो न दोषायेत्युक्तं भवति । शान्तपित्तैरिति पाठान्तरे स्वप्रबन्धस्य स्वादुत्वं द्योत्यते । शान्तपित्तस्य (हि) क्षीरास्वाद्यताबुद्धिः । श्रवणमेव रसनेति रूपकम् । दुग्धराशिपक्षे रसनया । सेव्यत्वं हि तत्प्रबन्धपरिशीलनम् । ……..र्थिभिश्च सेव्यत्वमाह - शान्तिलाभार्थिभिर्वेति । अस्तु वक्तृवैलक्षण्यम्, तथाप्य(नुपा)देयत्वमेव स्यादित्यत्राह - सिद्धः शारीरकार्थ इति । जगच्छरीरः परमात्मा शारीरः । तत्प्रतिपादकं शास्त्रं शारीरकं, तस्य सारतमार्थसंग्राहकत्वेन सिद्धत्वान्नासदर्थप्रतिपादकत्वमित्यभिप्रायः । अस्तु वक्तृवैलक्ष्यण्यं प्रबन्धवैलक्ष्यञ्च, तथाप्यनपेक्षितार्थकथनपुनरुक्तत्वादिदोषदुष्टत्वे परित्याज्यत्वमेव स्यादितीमामाशङ्कां परिहरति - सहजबहुगुण इति । स्रग्धरापक्षे समीचीनगुणयुक्तत्वादयः सहजबहुगुणाः । दुग्धराशिपक्षे माधुर्यादयो गुणाः । अत्रापि स्रग्धरैव दुग्धराशिरिति रूपकम् । अयमत्र वाक्यार्थः - ज्ञानादिपरिपूर्णयो रामानुजवरदाचार्ययोर्दिव्यकटाक्षेण सम्यग्ज्ञानवता वेङ्कटेशेन शारीरकाधिकरणार्थसंग्राहकत्वेन प्रणीतोऽयं प्रबन्धः शान्तपित्तैः क्षीरमिव मुमुक्षया शारीरकशास्त्राधिकर्तृभिरुपकारकत्वविशेषेणान्वहं परिशीलनीय इति । स्रग्धरादुग्धराशिरिति - अत्र ‘म्रभ्नै’रिति लक्षणात् ॥२॥
मूलम् - 2
  1. श्रीमद्भ्यां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां
    सम्यग्दृष्टेन सर्वंसहनिशितधिया वेङ्कटेशेन कॢप्तः ।
    सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा
    सिद्धश्शारीरकार्थे सहजबहुगुणः स्रग्धरादुग्धराशिः ॥
विश्वास-प्रस्तुतिः - 3
  1. त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुक्त्योक्तबाधौ
    मन्दत्वासङ्गतत्वे विशयमफलतां मानबाधं च मन्तॄन् ।
    दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना
    हृद्या पद्यावलीयं हृदयमधिगता सावधानान्धिनोतु ॥
३४-तमाहोबिल-यतिः - 3
  1. त्रय्यन्तस्वान्तेत्यादि । त्रय्यन्तस्य अव्यवधानेन ब्रह्मप्रतिपादकवेदभागात्मकोपनिषत्समुदायस्य । स्वान्तं तात्पर्यार्थं वदति प्रतिपादयतीति त्रय्यन्तस्वान्तवादी, तस्मिन् । अधिकरणगणे - विषयसंशय पूर्वपक्षसिद्धान्तप्रयोजनरूपार्थपञ्चकप्रतिपादकान्यधिकरणानि, तेषां गणे समुदायात्मके, शारीरकशास्त्रे । पौनरुक्त्योक्तबाधौ - प्रयोजनमन्तरेण पुनरभिधानं पौनरुक्त्यम् । पूर्वकाण्डप्रतिपादितैरेव न्यायैः वेदान्तवाक्यानामपि निर्णीतार्थत्वात् पुनः शारीरकन्यायारम्भे फलं नास्तीत्येवंरूपम् । उक्तबाधः - पूर्वकाण्डोक्तार्थस्य शरीरके बाधः, यथा - ‘आम्नायस्य क्रियार्थत्वात्’ इत्यादौ पूर्वकाण्डेऽर्थवादानां विधिशेषत्वेनैव प्रामाण्यमूचे । अस्मिन् काण्डे तु समन्वयाधिकरणादौ स्वातन्त्र्येणापि प्रामाण्यमुपापादीत्युक्तबाधः । पौनरुक्त्यं चोक्तबाधश्च तौ । द्वितीयाद्विवचनम् । मन्दत्वम् - अप्रयोजकत्वं युक्तिदौर्बल्यञ्च । असंगतत्वम् - काण्डद्विकाध्यायपादपेटिकाधिकरणसूत्रसंगत्यभावः । मन्दत्वं चासंगतत्वं च मन्दत्वासंगतत्वे, वचनविभक्ती पूर्ववत् । विशयम् - तात्पर्यभेदकल्पनेन विरोधपरिहाराशक्तानां परस्परविरोधभ्रान्त्याऽन्यतराप्रामाणिकत्वादिसंशयम् । अफलताम् - निष्प्रयोजनत्वम् । अनपेक्षितप्रयोजनकत्वं वा । मानबाधम् - प्रत्यक्षादिप्रमाणान्तरबाधनं च । मन्तॄन् - अपन्यायत्वेनाशङ्कमानान् अल्पबुद्धीन् । दिङ्मोहक्षोभदीनान् - अन्धतमसावृते जगति दिङ्मोहक्षोभेण बम्भ्रम्यमाणान् जनान् प्रति । उज्जिहाना - उषसि समुज्जिहाना । दिनकरकिरणश्रेणिकेव । हृद्या - निर्दोषत्वगुणपूर्णत्वाभ्यां विद्वद्धृदयरञ्जनी । इयं पद्यावली हृदयमधिगता - पुस्तकनिरीक्षणं विना वेदवत् सार्थज्ञानतया हृदये विचिन्त्यमाना सती । सावधानान् - अवहितबुद्धीन् । धिनोतु - सन्तुष्टान् करोतु । पौनरुक्त्यमेवं परिहार्यम् - यद्यपि वेदान्तशास्त्रं पूर्वकाण्डप्रणीतन्यायोपजीवनेन तत्रतत्र प्रवर्तते, तथापि तत्तदधिकरणप्रसक्तपूर्वपक्षयुक्तिविशेषापनोदनमन्तरा वेदान्तार्थनिर्णयायोगात् तानितान्यधिकरणानि सफलानि । अन्यथा कर्मकाण्डेऽपि पूर्वषट्कोपजीवनादुत्तरषट्कं परित्याज्यं स्यादिति । उक्तबाधोपरोधप्रकारोऽयम् - अर्थवादाधिकरणेऽर्थवादसामान्यस्य विध्येकवाक्यत्वेन प्रामाण्यं समर्थितम् । अत्र तु अपूर्वार्थस्फुटप्रतिपत्तिमादधानानामर्थवादविशेषाणां स्वातन्त्र्येण प्रामाण्यमिति सामान्यविशेषभावान्न बाधप्रसंग इति । अन्यत् स्पष्टतया स्वयमूह्यम् ॥
कुमार-वरदः - 3
  1. कोऽयमस्य प्रबन्धस्य शारीरकशास्त्राधिकर्तॄणामुपकारकत्वप्रकारविशेष इत्याशङ्क्य तद्विशेषमेव दृष्टान्तविशेषोपादानेन विशदं प्रकाशयति - त्रय्यन्तेति । पौनरुक्त्यम् - प्रयोजनमन्तरेण पुनरभिधानम् । कश्चिन्मन्यते - पूर्वकाण्डप्रतिपादितैरेव न्यायैर्वेदान्तवाक्यानामपि निर्णीतार्थत्वात् किमनेन शारीरकशास्त्रेणेति । सोऽपि प्रतिक्षेप्य एव । यद्यपि वेदान्तशास्त्रं पूर्वकाण्डप्रणीतन्यायोपजीवनेन तत्रतत्र प्रवर्तते, तथापि तत्तदधिकरणप्रसक्तपूर्वपक्षयुक्तिविशेषापनोदनमन्तरेण वेदान्तार्थनिर्णयोऽपि न सेत्स्यतीति तानितान्यधिकरणानीह सफलानीति न पौनरुक्त्याशङ्कावकाशः । अन्यथा प्रकृतिषट्कोपात्तन्यायोपजीवनात् विकृतिषट्कमपि परित्याज्यं स्यात् । एवमध्यायपादपेटिकाधिकरणपौनरुक्त्यापादनप्रतिबन्द्या पौनरुक्त्यपरिहारो द्रष्टव्यः । एवमुक्तबाधादिशङ्कापि परिहर्तव्या । यथा - ‘आम्नायस्य क्रियार्थत्वात्’ इत्यत्रार्थवादानां विधिशेषत्वेनैव प्रामाण्यमभ्यधायि, समन्वयाधिकरणे स्वातन्त्र्येणापि, स तूक्तबाध एव कर्मब्रह्मकाण्डयोरेकशास्त्रत्वात् । अत्रोत्तरम् - अर्थवादाधिकरणे हि अर्थवादसामान्यस्य विध्येकवाक्यत्वेन शेषत्वेन प्रामाण्यं समर्थितम् । अत्र तु ब्रह्मविषयार्थवादानां स्वातन्त्र्येण प्रामाण्यमिति सामान्यविशेषभावान्न बाधप्रसंगोऽपि । विस्तरस्तु भाष्य एवानुसंधेयः । मन्दत्वम् - अल्पप्रयोजनत्वं युक्तिदौर्बल्यञ्च । असंगतत्वम् - काण्डद्विकाध्यायपादपेटिकाधिकरणसूत्रसंगत्यभावः । विशयः - काण्डविशेषसंशयानुच्छेदः । अफलता - नैष्फल्यम् । निष्प्रयोजनत्वं अनपेक्षितप्रयोजनत्वं वा । मानबाधः - प्रत्यक्षादिप्रमाणान्तरबाधनम् । एतादृशान् दोषानपन्यायमूलत्वेनाशङ्कमानान् अल्पबुद्धीन् अन्धतमसावृते जगति दिङ्मोहक्षोभेण बंभ्रम्यमाणान् प्रति, उषसि समुज्जिहाना दिनकरकिरणश्रेणिकेव हृद्येयं पद्यावली धिनोतु सन्तुष्टान् करोत्विति श्लोकार्थः । मानबाधं च मन्तॄनिति ‘कर्तृकर्मणोः कृति’ इति प्राप्तस्य षष्ठीप्रयोगस्य ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति तृन्प्रयोगेण प्रतिक्षेपात् प्रयुज्यते द्वितीयैव । अत्र तृनस्ताच्छील्यमेवार्थः परिगृह्यते, तामसबुद्धीनां हि तत्त्वाप्रतिपत्तेरेव विप्रतिपत्तेरेव वा स्वाभाव्यादिति भावः ॥3॥
मूलम् - 3
  1. त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुक्त्योक्तबाधौ
    मन्दत्वासङ्गतत्वे विशयमफलतां मानबाधं च मन्तॄन् ।
    दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना
    हृद्या पद्यावलीयं हृदयमधिगता सावधानान्धिनोतु ॥
विश्वास-प्रस्तुतिः - 4
  1. गम्भीरे ब्रह्मभागे गणयितुमखिलं कः प्रवीणः प्रमेयं
    दिङ्मात्रं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः ।
    मा भून्निश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरत्ने
    मध्येहारं निधेयम्महति जहति किम्मौक्तिकं लब्धमब्धौ ॥
३४-तमाहोबिल-यतिः - 4
  1. गम्भीर इत्यादि । गम्भीरे - अतिदुर्ग्रहाशये । ब्रह्मभागे - उपनिषदात्मके वेदभागविशेषे । अखिलम् - निश्शेषम् । प्रमेयम् - अर्थजातम् । गणयितुम् - उपपादयितुम् । कः प्रवीणः - कः ब्रह्मा, परब्रह्मसकाशात् श्रुतसकलवेदार्थो विधातैव समर्थः, नान्ये शक्नुयुः । यद्वा - कः प्रवीणः - न कोऽपीत्यर्थः । अतो दिङ्मात्रं दर्शयन्नहमपि - शारीरकसारार्थान् गुणतो गरीयसा ग्रन्थेनाल्पीयसा प्रदर्शयन्नहमपि । इह - अत्यलसाल्पज्ञजनभूयिष्ठे कलौ । निपुणैः - सारार्थानुसन्धानसौकर्यपरिज्ञातृभिः । प्राध्वमध्यक्षणीयः - ‘आनुकूल्यार्थकं प्राध्वम्’ इति कोशः । अयं महोपकारक इत्यानुकूल्येन समीक्षणीयः । निश्शेषसिद्धिर्मा भूत् - अपेक्षितं साकल्येन न सिध्यतु । तदपि - तथापि । गुणविदः - मण्युत्कर्षवेदिनः । अथवा मुक्ताहारगुणवेदिनः । स्फीतनिस्सीमरत्ने - निर्भरानन्तरत्नशालिनि । महति - परिच्छेदानर्हे । अब्धौ - समुद्रे । लब्धम् - स्वप्रयत्नानुसारेणाासादितम् । मध्येहारं निधेयम् - उत्तमहारमध्ये संघटनीयम् । मौक्तिकम् - मुक्ताफलम् । अब्धौ जहति किम् - अब्धावेव प्रक्षिपन्ति किमित्यन्वयः ॥
कुमार-वरदः - 4
  1. अत्र कश्चिदप्रतिपत्तिविप्रतिपत्तिनिवारणरूपप्रतिज्ञाहान्यादिनिग्रहस्थानानि पुनश्चोदयति । ‘तत्र खलु पञ्चाशदधिका पञ्चशती स्रग्धराणां खलु भवद्भिरारचिता, शारीरकशास्त्रं खलु भगवता बोधायनेन दशलक्षरूपेण वृत्तिग्रन्थेन विस्तृतम्, तद्द्विगुणेन कर्मभागोऽपि विस्तृतः, स एव भवतां शास्त्रप्रवर्तकः, तेनानेन कार्त्स्न्येन शास्त्रार्थो न विव्रियते, नाप्येकदेशेन - शिष्याणामाकाङ्क्षाप्रशमनाभावादि’ति । अत्रोत्तरमाचष्टे - गम्भीर इत्यादिना । अतिगम्भीरे ब्रह्मभागे निखिलमपि प्रमेयजातं गणयितुं साक्षात्परब्रह्मणः सकाशात् श्रुतसकलवेदार्थः कः पितामह एव शक्नोतीत्यर्थः । तेनैवं शङ्कमानस्य भवतः पितामहादवराणां व्यासादीनां शारीरकशास्त्रप्रवर्तनाधिकारो न स्यादिति प्रतितर्कबाधः । अथवा किं शब्दः प्रतिक्षेपे । कः प्रभुः प्रभुर्नास्ति, पितामहोऽपि न प्रभुरित्यर्थः । एवं सति पितामहादयोऽपि दिङ्मात्रं प्रदर्शयन्तीति भवतापि परिहर्तव्यम् । अहमपि शारीरकशास्त्रस्य प्रधानार्थमल्पीयसा ग्रन्थेन, गुणतो गरीयसा, प्रकाशयामीति निपुणैरध्यात्मशास्त्रप्रवर्तकैः शुश्रूषुभिः प्राध्वमानुकूल्येनाध्यक्षणीयः - ग्राह्य इत्यर्थः । अमुमर्थमनुकूलदृष्टान्तोपादानेन प्रकाशयति - मा भूदित्यादिना । दुग्धार्णवमथने लक्ष्मीमणिवरसुरभिसुधाकराद्युपलम्भनहेतौ कौस्तुभादयः कतिचन मणय एवोपलब्धाः । नतु सकलमपि रत्नजातम् । एवं अतिशयितप्रयासवद्भिः सांयात्रिकादिभिरशेषमपि रत्नजातं नोपलभ्यते । तथापि गुणविदः मण्याधिक्यवेदिनः, अथवा मुक्ताहारगुणवेदिनो हारमध्ये निधेयं लब्धं मौक्तिकं स्फीतनिस्सीमरत्ने किमब्धावेव जहति, न जहतीत्यर्थः । तेनायमर्थस्सम्पद्यते - परिमितग्रन्थत्वेऽपि सर्वार्थसिद्ध्यभावेऽपि प्रधानार्थपरिशोधनात् अयं ग्रन्थस्संग्राह्यतम इति । मध्येहारम् - ‘पारेमध्ये षष्ठ्या वा’ इति समासः ॥४॥
मूलम् - 4
  1. गम्भीरे ब्रह्मभागे गणयितुमखिलं कः प्रवीणः प्रमेयं
    दिङ्मात्रं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः ।
    मा भून्निश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरत्ने
    मध्येहारं निधेयम्महति जहति किम्मौक्तिकं लब्धमब्धौ ॥
विश्वास-प्रस्तुतिः - 5
  1. वेदार्थे न्यायचिन्त्ये प्रथममधिगतः कर्मवर्गः प्रमाणैः
    भेदैरङ्गैः प्रयुक्त्या क्रमविरचनयाऽथाधिकृत्याऽतिदिष्ट्या ।
    तत्राशेषैर्विशेषैस्तदनु तदनुवर्त्यूहतः प्राप्तबाधैः
    तन्त्रेणाथ प्रसक्त्या तत उपरि चतुर्लक्षणी देवतार्था ॥
३४-तमाहोबिल-यतिः - 5
  1. वेदार्थ इत्यादि । वेदार्थे । न्यायचिन्त्ये - न्यायकलापरूपमीमांसया विचार्यमाणे सति । प्रमाणैः - स्मृत्याचारोपबृंहितसार्थवादविधिवाक्यरूपैः प्रमाणैः, मीमांसायाः प्रथमाध्याये विध्यर्थवादस्मृत्याचाराणां विचारितत्वात् । भेदैः - शब्दान्तरादिभिः द्वितीयेऽध्याये प्रतिपादितैः कर्मभेदैः । अङ्गैः - तृतीयाध्याये श्रुतिलिङ्गादिभिः प्रतिपादितैरङ्गैः, तृतीये श्रुतिलिङ्गादिभिरङ्गाङ्गिभावविचारणात् । प्रयुक्त्या - अङ्गाङ्गिभावेनान्वितानां कर्मणां प्रयोज्यप्रयोजकभावेन । चतुर्थे किमिदं कर्म क्रतुप्रयुक्तमुत पुरुषप्रयुक्तमिति विचार्य अङ्गानि क्रतुप्रयुक्तानि अङ्गि तु पुरुषार्थत्वात् पुरुषप्रयुक्तमिति निर्णयात् । क्रमविरचनया - पञ्चमे श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तिरूपैः षड्भिः विचारितानां तत एव षड्विधानां क्रमाणां स्थापनया । अथ - तदुपरितने षष्ठाध्याये । अधिकृत्या - स्वर्गस्वाराज्यपशुपुत्रादिकामनारूपेण काम्यकर्माधिकारेण, नियतनिमित्तसम्बन्धरूपेण नित्यकर्माधिकारेण, अनियतनिमित्तसम्बन्धरूपेण नैमित्तिककर्माधिकारेण च । षष्ठे स्वर्गस्वाराज्यपशुपुत्रादिकामनाविशिष्टः काम्येऽधिकारी, नियतनिमित्तसंबन्धी अनियतनिमित्तसंबन्धी च क्रमेण नित्यनैमित्तिकयोरधिकारीति कर्मणामधिकारी हि विचारितः । अतिदिष्ट्या - सप्तमे विचारितेनैकत्र सिद्धस्यार्थस्यान्यत्राप्युपयोजनरूपेण तत्र च ‘प्रकृतिवद्विकृतिः कर्तव्या’ इति सामान्यरूपेणातिदेशेन ‘समानमितरच्छ्येनेन’ इत्यष्टमे विचारितेन च विशेषातिदेशेन । तत्र - अतिदेशे । अशेषैर्विशेषैः - श्रुत्यादिभेदभिन्नैरखिलैः कारणैः सह । तदनु - अष्टमादुपरि नवमे । तदनुवर्त्यूहतः - अतिदेशानुवर्तिना ‘अग्नये त्वा जुष्टं निर्वपामि’ इत्यादिनिर्वपणादिमन्त्रेषु तत्तत्कर्मानुगुण्येन ‘सूर्याय त्वा जुष्टं निर्वपामि’ इत्यादिपदान्तरानुसंधानरूपेणोहेन । प्राप्तबाधैः - दशमे विचारितैः ‘प्रकृतिवद्विकृतिः कर्तव्या’ इति चोदकप्राप्तानामवघातादीनामुपकाराभावेन कृष्णलादिषु बाधैः । अप्राप्तबाधस्तु - श्रुतिलिङ्गादिसमवाये प्रथमप्रवृत्तया श्रुत्या विलम्बितप्रतीतिकचरमप्रवृत्तलिङ्गादिसिद्धार्थानां बाधः । स तृतीयेऽनुसन्धेयः । तन्त्रेण - एकादशे विचारितेन देशकालकर्त्रैक्यादेकेनैवानुष्ठानेनोभयसिद्धिरूपेण । अथ - तदुपरि द्वादशे । प्रसक्त्या - एकस्यावश्यकर्तव्यास्यानुष्ठानान्नान्तरीयकेतरसिद्धिरूपेण प्रसङ्गेन च । कर्मवर्गः - अग्निहोत्रदर्शपूर्णमासादिकर्मसमुदायः । प्रथमम् - काण्डत्रयात्मकमीमांसाप्रथमकाण्डे । अधिगतः - विचारितः । तत उपरि - प्रमाणादिप्रधानद्वादशार्थपरद्वादशाध्यायात्मकप्रथमकाण्डादनन्तरम् । चतुर्लक्षणी - चतुरध्यायात्मको मध्यमकाण्डः । देवतार्था - देवतास्वरूपतद्भेदकतदुपासनतत्फलरूपदेवतानुबन्ध्यर्थप्रतिपादनपरा ॥
कुमार-वरदः - 5
  1. एवं स्वग्रन्थस्योपादेयत्वमुक्त्वा प्रारिप्सितग्रन्थप्रतिपाद्यस्य ब्रह्मकाण्डस्य त्रिकाण्डीरूपमीमांसाशास्त्रोपरितनभागरूपत्वात् तत्पूर्वकाण्डप्रतिपाद्ययोः कर्मदेवतयोः स्वरूपमेव तावत् अवान्तरविभागेन दर्शयति - वेदार्थ इति । अयमर्थः - त्रिकाण्डी खलु मीमांसा, तस्याश्च शास्त्रैक्यं विषयैक्यात् प्रयोजनैक्यात् प्रवृत्तिप्रकारैक्याच्चेति त्रय्यन्तविदां निर्णयः । तत्र विषयैक्यं वेदार्थस्यैकस्यैव मीमांसाशास्त्रेण चिन्तनीयत्वात्, तन्निर्णयस्यैव प्रयोजनत्वेन प्रयोजनैक्यमपि सिद्धं भवति । न्यायचिन्त्य इति - प्रवृत्तिप्रकार उच्यते । वेदवाक्यार्थनिर्णयफलकन्यायसमुदायो हि मीमांसा । यदाहुः - ‘धर्मे प्रमीयमाणे हि वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥’ इति । तत्र प्रथमकाण्डार्थं दर्शयति - प्रथममधिगत इत्यादिना प्रसक्त्येत्यन्तेन । तदुक्तमभियुक्तैः - ‘धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः । सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥’ इति । तत्र प्रमाणं ‘चोदनालक्षणोऽर्थो धर्मः’ इत्यादिभिः प्रतिपादितः स्मृत्याचारोपबृंहितो वेदः । कर्मणां भेदस्तु शब्दान्तरादिभिर्द्वितीयलक्षणे निर्णीयते । तत्रपुनर्भेदलक्षणे शास्त्रभेदश्चिन्त्यत इत्येकदेशिनः । तृतीये श्रुतिलिङ्गादिभिरङ्गाङ्गिभावचिन्तनं क्रियते । एतच्चाध्यायत्रितयप्रतिपादितन्यायजातमुत्तरत्र सर्वत्राप्युपकरोतीत्यध्यायत्रितय-विवरणरूपमेव सकलमपि शास्त्रमिति मन्तव्यमन्तेवासिभिः । एवमङ्गाङ्गिभावेनान्वितानां कर्मणां प्रयोज्यप्रयोजकभावचिन्तनं चतुर्थे क्रियते । किमिदं कर्म क्रतुप्रयुक्तमुत पुरुषप्रयुक्तम् । अङ्गानि क्रतुप्रयुक्तानि, अङ्गि तु पुरुषार्थत्वात् पुरुषप्रयुक्तमिति । लिङ्गादीनां स्वरूपं तदुपयोगश्च सेश्वरमीमांसायामाचार्यैरेव विस्तरेण प्रतिपादितमिति न विव्रियतेऽस्माभिः । क्रमस्तु अनुष्ठेयानां कर्मणामनुक्रमः । स च श्रुत्यर्थपाठकाण्डमुख्यप्रवृत्तिभेदेन षड्विधः प्रमाणगम्यः । यथाहुः ‘श्रुत्यर्थपठनस्थानमुख्यप्रावृत्तिकाः क्रमाः’ । इति । अथाधिकृत्येति - कर्मणामधिकार्यभिधीयते । अधिकारी च स्वर्गस्वाराज्यपशुपुत्रादिकामनाविशिष्टः काम्ये, नित्यनैमित्तिकयोस्तु तत्तन्निमित्तविशिष्टः । नियतनिमित्तं नित्यम्, अनियतनिमित्तं नैमित्तिकम्, इति विभागमाहुस्तन्त्रज्ञाः । अतिदिष्ट्येति - द्वौ खलु भागौ कर्मकाण्डस्य - उपदेशभागोऽतिदेशभागश्चेति । तेनोपदेशषट्कमतिदेशषट्कमिति कौमारिलानामालापः । उपदेशषट्कं कार्यषट्कमिति प्राभाकराः । तत्र कार्यमिति ‘कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते’ इत्यापादचूडम् अशेषमीमांसाप्रतिपाद्यतयाऽभिमतं कार्यं न भवति । अपितु अतिदिष्टार्थविषयोपकारमात्रमेव । तेनोत्तरषट्क एव तत्सिद्धिः । अतिदेशस्तु - एकत्र सिद्धार्थस्यान्यत्राप्युपयोजनम् । स चातिदेशो द्विविधः ‘प्रकृतिवद्विकृतिः कर्तव्या’ इति सामान्यातिदेशः, ‘समानमितरच्छ्येनेन’ इत्यादिभिर्विशेषातिदेशः । स पुनरष्टमलक्षणे द्रष्टव्यः । तदिदमाह - तत्राशेषैरिति । श्रुत्यादिभेदेनातिदेशकारणानां बहुत्वादशेषैरिति विशेषणं बहुवचनं च । तदन्वित्यष्टमादुपरितनत्वमुच्यते, नवमलक्षण इत्यर्थः । तदनुवर्त्यूहत इति - ऊहबाधादीनां विशेषातिदेशानुवर्तित्वम् आह । ऊहो नाम ‘अग्नये जुष्टं निर्वपामि’ इत्यादिमन्त्रस्य तत्तत्कर्मानुरूप्येण ‘सूर्याय जुष्टं निर्वपामि’ इत्यादिविपरिणामविशेषः । प्राप्तबाधैरिति - बाधो हि द्विविधः - अप्राप्तबाधः प्राप्तबाधश्चेति, अप्राप्तबाधस्तु - श्रुतिलिङ्गाधिकरणे सिद्धः ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ इति । अत्र हि प्रमाणप्रवृत्तिझाटित्यमेव प्राबल्यम् । तेन प्रथमप्रवृत्तया श्रुत्या चरमप्रवृत्तानामवघातादीनामर्थानां बाध उच्यते - प्रतीतिविलम्बात् । अतः पूर्वप्रवृत्तैः श्रुत्यादिभिस्तस्मिन् कालेऽप्राप्तानां लिङ्गादिसिद्धानामवघातादीनाम् अर्थानां बाधोऽप्राप्तबाधः । प्राप्तबाधस्तु दाशमः ‘प्रकृतिवद्विकृतिः कर्तव्या’ इति चोदकप्राप्तानामवघातादीनाम् उपकाराभावेन कृष्णलादिषु बाधात् । तन्त्रेणेति - देशकालकर्त्रैक्यादेकेनैवानुष्ठानेनोभयसिद्धिः । एतत्तु लोके वेदे च प्रसिद्धमेव । प्रसक्त्येति - एकस्यावश्यकर्तव्यस्यानुष्ठानात् नान्तरीयकेतरसिद्धिः । यथा - आमिक्षायागप्रसङ्गाद्वाजिनयागानुष्ठानम् । श्रूयते हि - ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्’ इति । अयमर्थः - आमिक्षार्थमेव दध्यानयनं नतु वाजिनार्थम्, तेन न वाजिनयागे दध्यानयनं क्रियत इति । एवं कर्मकाण्डद्वादशलक्षणीविभागो दर्शितः । समनन्तरं देवताकाण्डचतुर्लक्षणीविभाग उच्यते - तत उपरीति । स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकम् । फलं च देवताकाण्डे देवतानां तु कथ्यते ॥५॥
मूलम् - 5
  1. वेदार्थे न्यायचिन्त्ये प्रथममधिगतः कर्मवर्गः प्रमाणैः
    भेदैरङ्गैः प्रयुक्त्या क्रमविरचनयाऽथाधिकृत्याऽतिदिष्ट्या ।
    तत्राशेषैर्विशेषैस्तदनु तदनुवर्त्यूहतः प्राप्तबाधैः
    तन्त्रेणाथ प्रसक्त्या तत उपरि चतुर्लक्षणी देवतार्था ॥
विश्वास-प्रस्तुतिः - 6
  1. प्राग्धर्मेऽल्पास्थिरार्थे प्रशमितविशये तादृशाराध्ययुक्तेऽ-
    थातश्शारीरकांशे बहुविधमहिम ब्रह्म मीमांसितव्यम् ।
    कृत्स्नस्वाद्ध्यायसाङ्गाद्ध्ययनसमुदितापातबुद्ध्यैव कर्म
    त्यक्त्वाऽऽदौ ब्रह्मचिन्तां किमिति न कुरुतान्तन्न तुल्योक्त्यबाधात् ॥
३४-तमाहोबिल-यतिः - 6
  1. प्राग्धर्म इत्यादि । प्राक् - द्वादशाध्यायात्मकप्रथमकाण्डे । अल्पास्थिरार्थे - ‘अतोऽतो वा उत्तराणि श्रेयांसि भवन्ति’ इत्याद्युक्तरीत्या अल्पोऽस्थिरो नश्वरश्चार्थः फलं यस्य तस्मिन् । तादृशाराध्ययुक्ते - अल्पास्थिरवैभवयुक्तदेवताराधनरूपे । धर्मे - श्रेयस्साधनभूतेऽग्निहोत्रदर्शपूर्णमासादिकर्मसमुदाये । प्रशमितविशये - प्रशमितानन्तस्थिरफलत्वसंशयके सति । वेदाध्ययनानन्तरं साङ्गाध्ययनसामर्थ्यात् संस्कृतप्रायदेशवासाच्चापातप्रतीत्या सर्वत्र वेदार्थे संशयो जायते । तत्र कर्मकाण्डे ‘अपाम सोमममृता अभूम’ ‘अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति’ इत्यादिभिरनन्तस्थिरफलत्वमापाततः प्रतीयते । तस्यां चापातप्रतीतौ कर्मविचारानन्तरं न्यायसंस्कृतहृदयतयाऽऽवृत्तिविधानादिभिः ‘अतोऽतो वा उत्तराणि श्रेयांसि भवन्ति’ इत्यादिवाक्यैश्चाल्पास्थिरफलत्वनिश्चयजनननिवृत्तायां सत्यामित्यर्थः । अथ - कर्मविचारानन्तरम् । अतः - उक्तरीत्या उत्तरभागविचारप्रतिबन्धकपूर्वभागानन्तस्थिरफलत्वापातप्रतीतिनिवर्तकतदल्पास्थिरफलत्वनिश्चयजननद्वारा हेतुभूतात् कर्मविचारादेव हेतोः । शारीरकांशे - वेदोत्तरभागार्थनिर्णयौपयिकन्यायकलापात्मके शारीरकाख्यमीमांसोत्तरांशे । बहुविधमहिम - स्वरूपतो गुणतो विभूतितश्चानन्तं स्वज्ञानेनान्तस्थिरफललाभहेतुभूतम् । ब्रह्म - स्वरूपतो गुणतश्चानवधिकातिशयं वस्तु । मीमांसितव्यम् - न्यायकलापैर्विचारितव्यम् । कृत्स्नस्वाध्यायसाङ्गाध्ययनसमुदितापातबुद्ध्यैव - कृत्स्नस्य वेदस्य शिक्षाव्याकरणाद्यङ्गयुक्ततया यदध्ययनं स्वतन्त्रोच्चारणशक्तिफलकगुरुमुखोच्चारणानूच्चारणरूपं, तेन समुदितया सम्यगुत्पन्नया । आपातबुद्ध्यैव संशयविपर्ययानुरोध्यनन्तस्थिरफलापातबुद्ध्यैव । कर्म - पूर्वकाण्डप्रतिपाद्यं कर्मजातम् । त्यक्त्वा - स्वसमीहितसाधनं न भवतीति निश्चयेन तदनुष्ठानप्रवृत्तिं विहाय । आदौ - कर्मविचारात्पूर्वमेव । ब्रह्मचिन्ताम् - शारीरकाध्ययनरूपं ब्रह्मविचारम् । किमिति न कुरुताम् - कुतो न कुर्यात् । इति चेदिति शेषः । तन्न - तन्न युक्तम् । तुल्योक्त्यबाधात् - ‘एवं तर्हि शारीरकमीमांसायामपि न प्रवर्तताम् । साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यमापातप्रतीतिर्विद्यत एव । तथापि न्यायानुगृहीतवाक्यस्यैवार्थनिश्चायकत्वात् आपातप्रतीतोऽप्यर्थस्संशयविपर्ययौ नातिवर्तते । अतस्तन्निर्णयाय वेदान्तवाक्यविचारः कर्तव्य’ इति चेत्, तथैव धर्मविचारोऽपि कर्तव्य एवेति तुल्योक्तेरपरिहरणादित्यन्वयः ॥
कुमार-वरदः - 6
  1. एवं काण्डद्वयार्थप्रक्रियामुक्त्वा तदनन्तरं तृतीयकाण्डप्रवृत्तिप्रक्रियां सहेतुकमभिधाय शारीरकशास्त्रप्रवर्तकप्रधानार्थं प्रदर्शयन् भाष्यकारोक्तक्रमेण कर्मकाण्डश्रवणात् प्रागेव वेदान्तश्रवणप्रवृत्तिमाशङ्क्य प्रतिबन्द्या परिहरति - प्राग्धर्म इति । वेदाध्ययनानन्तरं साङ्गाध्ययनसामर्थ्यात् संस्कृतप्रायदेशवासाच्च आपातप्रतीत्या सर्वत्र वेदार्थे संशयो जायते - कर्मकाण्डे ‘अपाम सोमममृता अभूम’, ‘अक्षय्यं हवै चातुर्मास्ययाजिनस्सुकृतं भवति’ इत्यादिभिरनन्तस्थिरफलत्वमापाततः प्रतीयते । सा चापातप्रतीतिरावृत्तिविधानादिभिः ‘अतोऽतो वा उत्तराणि श्रेयांसि भवन्ति’ इत्यादिश्रुत्या च सम्यक्कर्मनिरूपणानन्तरं निवर्तते । ‘ब्रह्मविदाप्नोति परम्’, ‘ब्रह्म वेद ब्रह्मैव भवति’ ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ इत्याद्यौपनिषदवाक्यजनितापातप्रतीतिरनुवर्तते । एवं च सति प्रतिबन्धकरूपकर्मफलानन्त्यापातप्रतीतौ निवृत्तायां ब्रह्मज्ञानानन्त्यापातप्रतीति रप्रतिबद्धशक्तिः शारीरकशास्त्रं प्रवर्तयतीति पूर्वार्धसंग्रहः । उत्तरार्धे तु वेदवेदान्तजनितकर्मफलापातप्रतीतिमात्रसन्तुष्टः क्वचित् ‘प्रथमत एव कर्मविचारं मुक्त्वा शारीरकशास्त्रमेव संचिन्त्यता’मित्याह, तस्योत्तरम् - आपातप्रतीतिमात्रेण ब्रह्मभागोऽपि न संचिन्तनीय इति । तत्प्रतिपन्नार्थो न्यायनिरूपणमन्तरेण संशयविपर्ययौ नातिवर्तत इति यदि वदसि - तर्हि संशयविपर्ययापनोदनार्थं कर्मभागोऽपि संचिन्त्यतामिति प्रतिबन्द्या परिह्रियत इति । अतः कर्मफलाल्पास्थिरत्व निर्णयपूर्वकब्रह्मज्ञानानन्तस्थिरफलापातप्रतीतेस्तुल्योक्त्यबाधात् - तुल्यमित्युक्तेरबाधादित्यर्थः ॥६॥
मूलम् - 6
  1. प्राग्धर्मेऽल्पास्थिरार्थे प्रशमितविशये तादृशाराध्ययुक्तेऽ-
    थातश्शारीरकांशे बहुविधमहिम ब्रह्म मीमांसितव्यम् ।
    कृत्स्नस्वाद्ध्यायसाङ्गाद्ध्ययनसमुदितापातबुद्ध्यैव कर्म
    त्यक्त्वाऽऽदौ ब्रह्मचिन्तां किमिति न कुरुतान्तन्न तुल्योक्त्यबाधात् ॥
विश्वास-प्रस्तुतिः - 7
  1. प्रावण्यं प्राक्त्रिवर्गे सफलयतनतोपासनाङ्गत्वतोऽपि
    व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरसौ स्याच्च मुख्यक्रमेण ।
    मानत्वादिर्विचार्यः पुरत इह तथा वाक्यवेद्यात्पदार्थो
    दृष्टान्तश्चोपमेयाद्यदि मधु सविधे यातु चाद्रिं किमर्थः ॥
३४-तमाहोबिल-यतिः - 7
  1. प्रावण्यमित्यादि । प्राक् - प्रथमतः । त्रिवर्गे - धर्मार्थकामरूपे त्रिवर्गे । प्रावण्यम् - प्रवृत्तिस्वरसता । दृश्यत इति शेषः । अनादौ खलु संसारे त्रिवर्गप्रवणा ह्यधिकारणोऽस्मिन्नपि जन्मनि अनादिवासनया प्रथमतस्त्रिवर्ग एव स्वरसप्रवृत्तहृदयाः पश्चात्तद्दोषदर्शनेन ह्यपवर्गे प्रवर्तन्ते, नतु प्रथमत एवापवर्गपरा भवन्तीत्यर्थक्रमादित्यर्थः । उपासनाङ्गत्वतोऽपि सफलयतनता - ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’ इत्यादिवचनेन कर्मणामुपासनाङ्गत्वावगमादनुष्ठेययोः कर्मज्ञानयोः पौर्वापर्यसिद्ध्या तदनुष्ठानौपयिकज्ञानद्वारेण तच्चिन्तनयोरपि पौर्वापर्यावश्यंभावात्, प्रागेव कर्मविचारस्य सफलव्यापारत्वमस्तीत्यर्थः । प्रागेव कर्मविचारस्यास्तीति पदानि पूरणीयानि । अयप्यर्थक्रम एवान्तर्भवति । व्याख्यारूपे - वेदाख्यैकव्याख्येयव्याख्यानात्मके । अत्र शास्त्रे - पूर्वोत्तरमीमांसाशास्त्रे । असौ क्रमनियतिः - प्रतिपद्यमानः पौर्वापर्यनियमः । मुख्यक्रमेण च स्यात् - मुख्ययोर्व्याख्येययोः कर्मब्रह्मपरवेदभागयोः पाठसिद्धेन पौर्वापर्यरूपक्रमेण च स्यात् । शेषिणोः क्रममनुसृत्य हि शेषयोः क्रमो युक्त इति भावः । किंच इह - मीमांसाशास्त्रे । मानत्वादिः - प्रमाणभेदादिरूप उत्तरकाण्डे़प्युपजीव्योऽर्थसमुदायः । पुरतो हि विचार्यः - उपजीवकविचारात्पूर्वमेव हि उपजीव्यो विचारणीयः । अयमप्यर्थक्रमः । तथा - तत्तुल्यतया । वाक्यवेद्यात् - वाक्यार्थात् । पुरतः पदार्थो विचार्यः । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’ इत्यादौ वाक्यार्थो वेदनं, पदार्थो यज्ञादिरिति वाक्यार्थभूतज्ञानविचारात् पूर्वमेव पदार्थभूतकर्मविचारो युक्तः । अयमप्यर्थक्रमः । उपमेयात् - दार्ष्टान्तिकात्पूर्वम् । दृष्टान्तश्च - उपमानभूतपदार्थश्च विचार्य इति सिद्धम् । ‘हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम्’ इत्यादौ दार्ष्टान्तिकतयोपात्ताद्विद्यानुबन्धिनो हानोपायनाद्यर्थजातात् पूर्वमेव हि कुशाच्छन्दस्तुत्युपगानादिदृष्टान्ततयोपात्तोऽर्थसमुदायो विचारणीयः । चन्द्रवन्मुखमित्यादिषूपमानस्यानन्तरं दार्ष्टान्तिकं दृश्यत इति भावः । अयमप्यर्थक्रमः । किंच सविधे - समीपे । मधु यदि - लभ्येत यदि । अद्रिम् - दूरवर्तिनं दुरारोहं पर्वतम् । किमर्थं यातु - विवेकी कुतो गच्छेत् । ‘अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायादिति भावः । अत्कमन्तिकम् । पूर्वकाण्डे हि ज्ञानं विनापि लघुना कर्मणैव तत्तत्फललाभ उच्यते । उत्तरकाण्डे तु कर्मपरिकर्मितादेव ज्ञानात् फलप्राप्तिः प्रत्यपादि । अतो लघूपायेन फललाभे सति गुरूपायप्रवृत्त्यसंभवात् प्रथमं कर्म विचार्यते, तत्र दोषदर्शनेन पश्चात् ब्रह्म विचार्येतेति अयमप्यर्थक्रम एव ॥
कुमार-वरदः - 7
  1. एवं मीमांसाशास्त्रस्य पूर्वोत्तरभागयोः पौर्वापर्यमभिधाय तत्प्रतिपादकहेतून् पञ्चमाध्यायप्रतिपादितान् अत्रापि नियामकत्वेन विशदं प्रकाशयति - प्रावण्यमिति । श्रुत्यर्थपाठकाण्डमुख्यप्रवृत्तिक्रमैर्हि तान्त्रिकाः कर्मणामानुपूर्वीमभिदधुः । ‘हदयस्याग्रेऽवद्यत्यथ जिह्वायाः, अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति’ इत्यादिषु श्रुत्यैव क्रमो विधीयते । समानकर्तृकयोः पूर्वाकाल एव हि त्वाप्रत्ययो विधीयते । अत्रापि ‘परीक्ष्य लोकान् कर्मचितान्’ इति विषयवाक्ये श्रौतक्रमः स्पष्टः । त्रिवर्गे प्रथमप्रावण्यमित्यर्थक्रमः । अनादौ खलु संसारे त्रिवर्गप्रवणानामधिकारिणामेतस्मिन्नपि जन्मनि अनादिवासनावशादादितस्त्रिवर्गप्रावण्यमेव योयुज्यते । तत्र दोषान् दृष्ट्वा पुनरपवर्गप्रावण्यमित्यर्थक्रमः । यथा - ‘अग्निहोत्रं जुहोति, यवागूं पचति’ इत्यर्थौचित्यानुसारेण यवागूपाकस्यैव प्राथम्यं परिकल्प्यते । सफलेत्यादि - कर्मणामुपासनाङ्गत्वात् प्रागेव कर्मविचारकाणां सफलव्यापारत्वमस्ति । अयमर्थः - उपासनस्य हि कर्माणि सन्निपत्योपकारकत्वेन विधीयन्त इति वेदार्थनिरूपकाणां निर्णयः । ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’ इति परमर्षिणा साक्षादेव संनिपत्योपकारकत्ववर्णनात् । तथा चानुष्ठेययोः कर्मज्ञानयोः पौर्वापर्ये सिद्धे तदनुष्ठानौपयिकज्ञानद्वारेण तच्चिन्तयोरपि पौर्वापर्यं सिद्धमिति । अयमप्यर्थक्रमादौ यथायोगमन्तर्भवतीति । व्याख्येति - व्याख्येयो वेदः । व्याख्यानं मीमांसा । तत्र ‘इषे त्वा’ इत्यारभ्य ‘ब्रह्मणो महिमानमाप्नोति’ इति व्याख्येयपौर्वापर्यस्य अध्ययनादिनियमसिद्धत्वात् तच्छेषस्य व्याख्यानस्यापि क्रम इति मुख्यक्रमः । पाठक्रमोऽपि वक्तुं शक्यते - यथापाठमेव वेदं विचारयन्ति विचारका इति । दृश्यते हि ‘समिधो यजति’ इत्यादौ पाठक्रमः । तत्र हि यथापाठमेव श्रुतार्थमनुतिष्ठन्त्यनुष्ठातारः । अत्र प्रवृत्तिक्रमोऽपि प्रदर्शयितुं शक्यते - वेदो हि धर्मप्रमितौ कारणम् । तस्य चेतिकर्तव्यता गुरोरन्ते वेदाध्ययनं तत्फलमक्षरराशिग्रहणमर्थविचारश्चेति । तथा च यत्क्रमेणाध्ययनं तत्क्रमेण तत्फलमक्षरराशिग्रहणम् । यत्क्रमेणाक्षरराशिग्रहणं तत्क्रमेणार्थचिन्तनमिति । उपदिष्टं हि कर्मकाण्डे उपाकरणनियोजनप्रोक्षणाभिघाराणां प्राप्तक्रमाणां ‘सप्तदश प्राजापत्यान् पशूनालभते’ इत्यादौ प्रथमानुष्ठानक्रमानतिलङ्घनेनोत्तरानुष्ठानमिति । इदं किल मुख्यक्रमोदाहरणं कर्मकाण्डे ‘सारस्वतौ होमौ भवतः’ इति युगपदुत्पन्नयोः सरस्वतीदेवताक सरस्वद्देवताकयोर्याज्यानुवाक्यापाठक्रमेण क्रमे सिद्धे तदङ्गानामन्येषां पुनर्मुख्यक्रमादेव क्रम इति । मानत्वादिरित्यादि - मानभेदाङ्गादिपरिशोधनं पूर्वकाण्डे कृतं तदुत्तरकाण्डोपजीव्यम् । उपजीव्यस्य पूर्वभावित्वं सर्वलोकसिद्धमेव । अयमप्यर्थक्रमः । वाक्येति - ‘यज्ञेन’ इत्यादिवाक्ये वेदनं वाक्यार्थत्वेन विधीयते यज्ञादिकं पदार्थत्वेन । अत्रान्विताभिधानम्, अभिहितान्वयो वा भवतु । उभयत्रापि वाक्यार्थप्रतीत्यपेक्षया पदार्थप्रतीतेः पूर्वभावित्वमुच्यते । पदैरभिहिता इत्यभिहितान्वयवादिनः । स्मारितानन्वितार्थकमित्यन्विताभिधानवादिनः । तथा च वाक्यार्थरूपोपासनाविचारात्पूर्वं कर्मविचारः कर्तव्य इति उक्तं भवति । अयमप्यर्थक्रमः उपजीव्योपजीवकभावापरित्यागात् । दृष्टान्त इति - ‘हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम्’ इत्यादौ कर्मकाण्डोक्तार्थदृष्टान्तेन ज्ञानकाण्डोक्तार्थप्रसाधनात् दार्ष्टान्तिकप्रतीतेः पूर्वमेव दृष्टान्तप्रतीतेरवश्यंभावाच्चायमप्यर्थक्रमः । ‘अत्के चेन्मधु विन्देत’ इति न्यायेनार्थक्रमान्तरमाह - यदीति । पूर्वकाण्डे हि ब्रह्मज्ञानमन्तरेण केवलकर्मानुष्ठानेनापरिमितफलप्राप्तिरुच्यते । उत्तरकाण्डे तु कर्मपरिकर्मितात् ज्ञानात् । ‘हतं ज्ञानं क्रियाहीनं हता चाज्ञानिनां क्रिया । दावाग्निनान्धको दग्धः पश्यन्नपि च पङ्गुकः ॥’ इति हि वदन्ति । तथाच लघूपायेन प्राप्ते फले गुरूपायस्य परित्याज्यत्वेन कर्मविचार एव प्रथमं क्रियते - तत्र दोषं दृष्ट्वा ब्रह्मविचार इति । अत्र स्थानक्रमोऽप्यनुसंधेयः । वेदाध्ययनान्तरकालस्य कर्मविचारकालत्वात् तेन स्वस्थानापन्नकर्मविचारं त्यक्त्वा ब्रह्मविचारः कथमिवानुष्ठेयः इति । यथा साद्यस्क्रे कर्मणि ‘सह पशूनालभेत’ बहूनां पशूनां सहालम्भने सवनीयस्य स्वस्थानत्वात् पूर्वमनुष्ठानं प्रतिपेदिरे तान्त्रिकाः ॥७॥
मूलम् - 7
  1. प्रावण्यं प्राक्त्रिवर्गे सफलयतनतोपासनाङ्गत्वतोऽपि
    व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरसौ स्याच्च मुख्यक्रमेण ।
    मानत्वादिर्विचार्यः पुरत इह तथा वाक्यवेद्यात्पदार्थो
    दृष्टान्तश्चोपमेयाद्यदि मधु सविधे यातु चाद्रिं किमर्थः ॥
विश्वास-प्रस्तुतिः - 8
  1. व्याचख्युः केऽपि तापत्रयहतिमितरे साधनानां चतुष्कं
    काण्डेऽस्मिन् पूर्ववृत्तं कथयति निगमः कर्मचिन्ताफलान्तत् ।
    साङ्गाधीतिर्हि सूते विशयमवसरः क्वात्र तन्त्रान्तरादे-
    रौचित्यस्थापितोऽयं क्रम इह न पुनश्चोदनासंप्रयुक्तः ॥
३४-तमाहोबिल-यतिः - 8
  1. व्याचख्युरित्यादि । केऽपि - यावदप्रकाशीयाः । तापत्रयहतिम् - ‘दुःखत्रयाभिघाताज्जिज्ञासा तदुपघातके’ इत्यत्र सांख्यतत्त्वकौमुद्युक्तरीत्याऽऽध्यात्मिकादितापत्रयाभिहतिम् । अस्मिन्काण्डे पूर्ववृत्तं व्याचख्युः - ब्रह्मकाण्डे ‘अथातो ब्रह्मजिज्ञासा’ इति हि सूत्रेऽथशब्दाऽर्थभूतानन्तर्यप्रतियोगित्वेनाभ्यधुः । इतरे शाङ्कराः । साधनानां चतुष्कम् - नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसंपत्, इहामुत्र फलभोगविरागः, मुमुक्षुत्वमित्येतत्साधनचतुष्टयम् । अस्मिन्काण्डे पूर्ववृत्तं व्याचख्युरिति पूर्ववत् । तत् - उभाभ्यामुक्तमप्यानन्तर्यप्रतियोगिद्वयम् । निगमः - ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्’ इत्यादिरूप आगमः । कर्मचिन्ताफलं कथयति - कर्मविचारमन्तरेण न सेत्स्यतीति कथयति । साङ्गाधीतिः - साङ्गवेदाध्ययनम् । विशयं हि सूते - नित्यानित्यवस्तुविवेकादिकं कथंचिज्जनयदपि संशयात्मकमेव जनयति । नतु निश्चयात्मकम् । न्यायासंवलितस्य केवलाध्ययनस्य निश्चयजननासामर्थ्यात् । अत्र - साङ्गाध्ययनजनितसंशये पुरुषे । तन्त्रान्तरादेः क्वावसरः - सांख्यादितन्त्रान्तरादेः कुत्रावकाशः । साङ्गाध्ययनानन्तरं न्यायप्राप्ते मीमांसाश्रवणे जाग्रति कथमप्राप्तसांख्यन्यायादिदर्शनावकाश इत्यर्थः । इह - मीमांसाभागद्वये । अयं क्रम औचित्यस्थापितः - योग्यतामात्रचिन्तनात् परिकल्प्यते, न पुनश्चोदनासंप्रयुक्तः - न पुनः श्रुत्या साक्षादेव विधीयते । ‘परीक्ष्य लोकान्’ इति श्रुतेर्न्यायप्राप्तक्रमानुवादपूर्वकमाचार्याभिगमननियमविधिपरत्वादिति भावः ॥
कुमार-वरदः - 8
  1. एवं कर्मब्रह्मविचारयोः पौर्वापर्यं कर्मकाण्डपञ्चमाध्यायप्रतिपादितश्रुत्यादिक्रमानुसारेणोक्त्वा परपक्षवादिभिरुक्तं क्रमान्तरं प्रतिक्षिपति - व्याचख्युरिति । तत्र यादवप्रकाशीयाः खलु तापत्रयाभिहतिमेव त्रय्यन्तात् पूर्ववृत्तत्वेनाचक्षते । यथाहुः सांख्याः - ‘दुःखत्रयाभिघाताज्जिज्ञासा’ इति । शाङ्करीयास्तु - साधनचतुष्टयं पूर्ववृत्तमिति, तच्च नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसंपत्, इहामुत्र फलभोगविरागो, मुमुक्षुत्वं चेत्याक्षते । तदिदमुभयमपि वार्तम् । तथाहि - किं तापत्रयोपहतिमात्रं तापत्रयाभिहतिः, किं वा स्वर्गादीनां नश्वरत्वादुपरि पर्वभिः खर्वितत्वादनर्थशतगर्भितत्वाच्च परित्याज्यत्वनिर्णयः, पूर्वत्र पामरपरीक्षकाविशेषेण सर्वसाधारण्यात् वेदान्तशास्त्रपूर्ववृत्तत्वानियमेन नियमेन तत्कथनं न संभवति । उत्तरत्र चोभयमीमांसाश्रवणसाध्यत्वात् परस्पराश्रयप्रसङ्गो दुर्वारः । सांख्यशास्त्रश्रवणात् तन्निर्णय इति च न घटते । वेदाध्ययनानन्तरं मीमांसाश्रवणस्य प्राप्तत्वात् सांख्यादीनामवकाश एव नास्ति । कुतस्तच्छ्रवणम्? कुतस्तरां तन्मूला स्वर्गादिषु वैराग्योत्पत्तिः? कुतस्तमां च तापत्रयाभिहतिपूर्वकं शारीरकशास्त्रश्रवणम् ? इति महदिदं सङ्कटमापद्यते । किंच सांख्यादिशास्त्रैः प्रकृतिरेव सर्वकर्त्री, पुरुषश्च निर्लेपः, ईश्वरो नास्तीत्यादिविपरीतबोधनादयथायथमेव वैराग्यं जायत इति न सम्यग्वैराग्यसिद्धिः । इदं च परस्पराश्रयादि मृषावादिनामपि तुल्यमेव । नित्यानित्यवस्तुविवेकादीनां चतुर्णामपि शारीरकशास्त्रश्रवणमन्तरेणासिद्धिः, तत्सिद्धौ तच्छ्रवणमिति परस्पराश्रयावकाशात् । न्यायादिशास्त्रश्रवणजनितनित्यानित्यवस्तुविवेकस्तु पूर्ववदेव निरसनीयः । अत्र शास्त्रान्तराणामवकाशाभावात् विपरीतबोधजनकत्वाच्चेति । यस्तु कश्चित् पण्डितम्मन्यः प्राह - नित्यमुपादेयमनित्यमनुपादेयमिति प्रतीतिमात्रमेव नित्यानित्यवस्तुविवेकः, इदं च वेदान्तशास्त्रश्रवणात् प्रागेव सिध्यतीति नान्योन्याश्रय इति, सोऽपि ग्राम्यजनविप्रलम्भकः । नित्यमुपादेयमनित्यमनुपादेयमिति साधारणप्रतीतेः सांख्यवैशेषिकादिसर्वशास्त्रसाधारण्येन वेदान्तशास्त्रनियतपूर्वभावित्वेनावक्तव्यत्वादिति । तदिदं सर्वमभिप्रेत्याह - कथयतीति । ‘परीक्ष्य लोकान्’ इत्यागमस्तापत्रयाभिहतिं नित्यानित्यवस्तुविवेकादिकं चोभाभ्यामपि वादिभ्यामुक्तं कर्मविचारमन्तरेण न सेत्स्यतीति कथयति । अयमर्थः - किं वेदान्तवाक्यश्रवणमात्रोपायत्वेन स्वर्गादिविषयवैराग्यैकदेशो विवक्षितो भवता, अथवा ‘शान्तो दान्तः’ इत्याद्युक्तपरमवैराग्यम् । पूर्वं तावत् कर्मविचारमन्तरेण न सेत्स्यति । परं तु कर्मविचारपूर्वकब्रह्मविचारमन्तरेण न सेत्स्यति शारीरकशास्त्रपूर्ववृत्तत्वेन वक्तुमेव न शक्यते । इदं च दूषणं मृषावादिनामपि तुल्यमेव । शारीरकशास्त्रश्रवणात्पूर्वं सम्यङ्नित्यानित्यवस्तुविवेकादीनामसिद्धेः, एकदेशेन नित्यानित्यवस्तुविवेकादीनां कर्मकाण्डचिन्ताफलत्वाच्चेति । ननु साङ्गाध्ययनसामर्थ्यात्पूर्वमेव प्रतीतमिति चेत् तत्रोत्तरम् - साङ्गाधीतिरिति । अध्ययनमात्रादापातप्रतीतिमात्रं जायते नतु नित्यानित्यवस्तुविवेकादिनिश्चय इति । तर्हि सांख्यवैशेषिकादितन्त्रान्तराभ्यासात् निश्चयो जायत इति चेत् तत्राप्युत्तरमाह - अवसर इति । अध्ययनानन्तरं न्यायप्राप्ते मीमांसाश्रवणे जाग्रति अप्राप्तानां न्यायादीनामवकाशो नास्तीत्यर्थः । एवं क्रमस्यावश्यकत्वेन क्रमेण कर्तव्यस्य मीमांसाश्रवणस्य विधिप्राप्तत्वं स्यादित्याशङ्क्याह - औचित्येति । औचित्यात् योग्यतामात्रचिन्तनात् अयं क्रमः परिकल्प्यते । न पुनः श्रुत्या साक्षादेव विधीयते । कथं तर्हि ‘परीक्ष्य लोकान्’ इत्यादिश्रुतिः कर्मब्रह्मविचारयोः पौर्वापर्यं विदधातीत्याशङ्क्याह - न पुनरिति । सापि श्रुतिः न्यायप्राप्तमेव प्रतिपत्तॄणामनुग्रहाय विशदमेवानुवदति । ‘गुरुमेवाभिगच्छेत्’ इति तु विधिः ‘अभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत्’ इतिवत् नियमविधिरति न सङ्कटं किञ्चिदिति । ‘स्वाध्यायोऽध्येतव्यः’ इति विधिस्त्वक्षरराशिग्रहणे विश्राम्यति । रागप्राप्ते तु मीमांसाश्रवणे क्रमपरिकॢप्तिरौचित्यात् एव सिध्यतीति ॥८॥
मूलम् - 8
  1. व्याचख्युः केऽपि तापत्रयहतिमितरे साधनानां चतुष्कं
    काण्डेऽस्मिन् पूर्ववृत्तं कथयति निगमः कर्मचिन्ताफलान्तत् ।
    साङ्गाधीतिर्हि सूते विशयमवसरः क्वात्र तन्त्रान्तरादे-
    रौचित्यस्थापितोऽयं क्रम इह न पुनश्चोदनासंप्रयुक्तः ॥
विश्वास-प्रस्तुतिः - 9
  1. नित्यप्राप्तस्य कण्ठस्थितकनकनयान्निर्विशेषस्य लब्धिः
    मिथ्याभूतं निवर्त्यं श्रुतिशकलभुवः प्रेक्षणात्तन्निवृत्तिः ।
    कर्मैवं क्वोपयुक्तं प्रतिभटमपि तद्वृत्ततोक्तिर्मदुक्ते
    प्राप्ताऽत्रेति प्रलापे प्रतिवचनगतिर्भाषिता विस्तरेण ॥
३४-तमाहोबिल-यतिः - 9
  1. नित्यप्राप्तस्येत्यादि । नित्यप्राप्तस्य - नित्योपलब्धस्य । निर्विशेषस्य - विशेषसामान्यशून्यस्यात्मतत्त्वस्य । कण्ठस्थितकनकनयात् - स्वकण्ठ एव स्थितं कण्ठाभरणरूपं कनकं केनचिदपहृतमिति ससम्भ्रमं मार्गमाणं प्रति त्वदीयं कण्ठाभरणरूपं कनकं त्वत्कण्ठ एव तिष्ठतीत्युपदिष्टे तदैव कनकं स साक्षात्कृत्य यथोपलभ्येत तन्न्यायादित्यर्थः । लब्धिः - उपलब्धिरूपा प्राप्तिः । न त्वप्राप्तस्य प्राप्तिरित्यर्थः । निवर्त्यम् - निवर्तनीयमविद्यारूपं बन्धनम् । मिथ्याभूतम् - नतु सत्यभूतं ब्रह्मव्यतिरिक्तत्वात् । ब्रह्मण एव सत्यत्वाच्चेति भावः । अतः श्रुतिशकलभुवः - कर्मादिनिरपेक्षात् ‘तत्त्वमसि’ इत्यादिश्रुतिवाक्यखण्डजनितात् । प्रेक्षणात् - शब्दजन्यापरोक्षज्ञानात् । तन्निवृत्तिः - मिथ्याभूताविद्यारूपबन्धनिवृत्तिः । भवतीति शेषः । कर्म - पूर्वकाण्डविचार्यं कर्म । एवम् - उक्तरीत्या मिथ्याभूतनिवर्त्यनिवर्तने । क्वोपयुक्तम् - कस्मिन्नंश उपयुज्यते । न कुत्रापीत्यर्थः । प्रतिभटमपि - न केवलमनुपयुक्तम्, कर्तृकरणाद्यनेकभेदात्मकत्वेन विरोधि च भवति । तत् - तस्मात् । वृत्ततोक्तिः - ब्रह्मजिज्ञासां प्रति पूर्ववृत्तत्वकथनम् । अत्र - निवृत्तिरूपतया ज्ञानोपयोगयोग्ये । मदुक्ते - अस्मदुक्ते नित्यानित्यवस्तुविवेकशमदमादिसाधनसंपदादौ । प्राप्ता - युक्ता । इति प्रलापे - एवमाद्यपन्यायमूलजल्पने । प्रतिवचनगतिः - प्रत्युत्तरदानप्रकारः । विस्तरेण भाषिता - भाष्य एव विस्तीर्णतया प्रतिपादिता । अतोऽत्र न विस्तीर्यत इति भावः ॥
कुमार-वरदः - 9
  1. नित्यानित्यवस्तुविवेकादिनिराकरणपूर्वकं कर्मविचारस्य पूर्ववृत्तत्वेऽभिहिते पूर्वपक्षवादिनां तत्तत्प्रतिक्षेपप्रकारमनूद्य तस्यापि प्रतिक्षेपप्रकारो भाष्य एव विस्तरेणाभिहित इति भाष्यमेव तत्रोत्तरयति - नित्येति । अयमभिप्रायः - वयं खलु शिष्याणां सुखप्रतिपत्त्यर्थं शारीरकशास्त्रशरीरसंग्रहे प्रवर्तामहे, न परपक्षप्रतिक्षेपे, विस्तररूपं प्रथमसूत्रभाष्यमेवान्तेवासिभिः पौनःपुन्येनानुसन्धेयमिति । शब्दार्थस्तु - नित्यप्राप्तस्य निर्विशेषस्य ब्रह्मणः कण्ठचामीकरन्यायेनोपदेशः क्रियते शारीरकशास्त्रेण । न संसारो व्यावर्त्यते । स च परमार्थः, निवर्तकञ्च तस्य कर्मपरिकर्मितब्रह्मोपासनमिति परपक्षमाशङ्क्य स्वपक्षपरिकल्पितान् निवर्त्योपायोपेयान् विशदं प्रकाशयति - मिथ्येति । श्रुतिशकलभुवः कर्मनिरपेक्षात् ‘तत्त्वमसि’ इत्यादिवाक्यजन्यात् प्रत्यक्षादेवाविद्यानिवृत्तिः । न केवलं कर्मणामनपेक्षितत्वमेव, अपितु प्रतिभटत्वमपीति प्रदर्शयति - प्रतिभटमपीति । कर्मणां भेदात्मकत्वात् ब्रह्मणो निर्विशेषत्वात् । तस्मात् पूर्ववृत्तत्वोक्तिर्मदुक्ते नित्यानित्यवस्तुविवेकादौ प्राप्तेति प्रलापे प्रतिवचनगतिर्भाष्य एव विस्तरेण प्रतिपादितेति न वयं विस्तृणीमहे । अयमत्रोत्तरग्रन्थाशयः - उभयविभूतिविशिष्टं परं ब्रह्म प्राप्यम्, प्रापकं चोपासनम्, तच्चानभिसंहितफलकर्मानुष्ठानसाध्यम्, अनुष्ठानं च कर्मणां परिज्ञानादेव, तच्च परिज्ञानं कर्ममीमांसाश्रवणादेवेति कर्मविचारस्यैव पूर्ववृत्तत्वकथनं सम्यगेव, अपन्यायमूलं परेषां पूर्ववृत्तत्वपरिकल्पनं प्रतिक्षिपाम इति ॥९॥
मूलम् - 9
  1. नित्यप्राप्तस्य कण्ठस्थितकनकनयान्निर्विशेषस्य लब्धिः
    मिथ्याभूतं निवर्त्यं श्रुतिशकलभुवः प्रेक्षणात्तन्निवृत्तिः ।
    कर्मैवं क्वोपयुक्तं प्रतिभटमपि तद्वृत्ततोक्तिर्मदुक्ते
    प्राप्ताऽत्रेति प्रलापे प्रतिवचनगतिर्भाषिता विस्तरेण ॥
विश्वास-प्रस्तुतिः - 10
  1. मीमांसायाः कबन्धं कतिचन जगृहू राहुकल्पं शिरोऽन्ये
    किन्तैरन्तर्विरोधप्रमुषितमतिभिः बाह्यकल्पैर्भ्रमद्भिः ।
    स्वाद्ध्यायाद्ध्यायकार्त्स्न्ये स्वविधिपरविधिप्रेरणा तावदास्तां
    कृत्स्नापातप्रतीतौ किमिति कृतधियः कृत्स्नचिन्तान्न कुर्युः ॥
३४-तमाहोबिल-यतिः - 10
  1. मीमांसाया इति । कतिचन - केचन निरीश्वरमीमांसकाः । मीमांसायाः - ‘अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः’, ‘पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः’ इत्यादिप्रमाणैश्चतुर्दशविद्यास्थानेष्वेकतमत्वेन परिगणिताया वेदाख्यैकव्याख्येयव्याख्यानरूपाया मीमांसायाः । कबन्धम् - शिरोरहिताधःकायमात्रस्थानापन्नं कर्ममीमांसाभागमात्रम् । जगृहुः - मीमांसात्वेन परिगृहीतवन्तः । अन्ये - शाङ्करादयः । राहुकल्पं शिरः - राहोः शिरोमात्रतया तत्तुल्यं मीमांसाशिरस्थानापन्नं ब्रह्ममीमांसाभागमात्रम् । जगृहुः - पर्यगृह्णन् । नतु भागद्वयात्मकं मीमांसाशास्त्रमधीतवेदक्रमेणाध्येयमित्यङ्गीचक्रुरित्यर्थः । भागद्वयस्य शास्त्रद्वयात्मकतत्वे चतुर्दशविद्यास्थानरूपपरिगणनविरोधादिकं भवतीत्यनुसन्धेयमिति भावः । अन्तर्विरोधप्रमुषितमतिभिः - निरीश्वरमीमांसकानां कर्मैव सकलफलसाधनम्; तदेव प्रधानमिति दुरभिमानेन कर्मकर्त्रतिरिक्तेश्वराङ्गीकारे कर्मप्राधान्यहानप्रसङ्गेन जीवातिरिक्तेश्वरपरब्रह्मकाण्डविषयेऽन्तर्विरोधः । शाङ्करादीनां जगन्मिथ्या, ब्रह्मैकमेव सत्यम्, ज्ञानमात्रेण बन्धनिवृत्तिः, नतु कर्मणा कश्चिदुपयोगः, अतस्तत् त्याज्यमेवेति दुरभिमानेन कर्तृकरणाद्यनेकभेदप्रतिष्ठापनेन कर्मकाण्डविषयेऽन्तर्विरोधः । एवं कर्मब्रह्मान्यतरविषयकान्तरप्रद्वेषेण प्रमुषिता निश्शेषविनाशिता मतिः प्रमाणस्वारस्यसद्युक्तिचिन्तनादिरूपा बुद्धिर्येषां तैस्तथाभूतैः । अत एव भ्रमद्भिः - सर्वमप्यर्थतत्त्वमन्यथा वैपरीत्येन मन्वानैः । बाह्यकल्पैः - उभयेषामप्यन्ततः सर्वशून्यत्वपर्यवसानादुभयेऽपि किश्चित्प्रच्छन्नवेदबाह्या एवेति तादृशैः । तैः - शाबरशाङ्करादिभिः । किम् - जगदानुकूल्यं किमस्ति । अत उपेक्षणीया इत्यर्थः । स्वाध्यायाध्यायकार्त्स्न्ये - स्वाध्यायस्य सशिरस्कवेदस्य । अध्यायः - अध्ययनम् । तस्य कार्त्स्न्ये - शिरःपर्यन्तयावद्वेदविषयत्वे । कृत्स्नस्यैव वेदस्याध्येयत्व इति यावत् । सिद्ध इति शेषः । ‘स्वाध्यायोऽध्येतव्य’ इति विधौ स्वाध्यायशब्दस्य सशिरस्कवेदपरत्वात् एकदेशाध्ययनस्य निष्प्रमाणकत्वात् यावद्वेदाध्ययनस्यैव सर्वैरपि प्रामाणिकैरङ्गीकरणीयत्वे सिद्ध इति भावः । स्वविधिपरविधिप्रेरणा तावदास्ताम् - ‘स्वाध्यायोऽध्येतव्य’ इत्यध्ययनविधिप्रयुक्तमध्ययनमिति कौमारिलाः । ‘अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयेत्’ इत्यध्यापनविधिप्रयुक्तमित्यन्ये । एवं मतभेदेनाध्ययनविषये स्वविधिना वा प्रेरणाऽस्तु । परविधिना वा प्रेरणाऽस्तु । पक्षद्वयेऽपि नास्मदभिमतहानिरिति भावः । स्वाभिमतमेवोच्यते - कृतधियः कृत्स्नापातप्रतीतौ कृत्स्नचिन्तां किमिति न कुर्युः - आपातप्रतीतार्थनिर्णयौपयिकविचारसमर्थाः, कृत्स्नस्य पूर्वोत्तरयावद्वेदभागार्थस्यापातेन संशयविपर्ययानिरासककेवलार्थावगाहनमात्रेण प्रतीतौ बुद्धौ, साङ्गाध्ययनसंस्कृतप्रायदेशवासादिभिर्हेतुभिः सत्यामिति शेषः । कृत्स्नस्यापाततः प्रतिपन्नस्य पूर्वोत्तरवेदभागार्थस्य चिन्तां पूर्वोत्तरमीमांसाध्ययनरूपां कुतो न कुर्युः । कण्डूलितानि सर्वाण्यपि ह्यङ्गानि विकर्ष्यन्ते, न तु कानिचित् । व्याख्येयव्याख्यानयोः कृत्स्नाध्ययनसंसिद्धौ कथं व्याख्यानयोः पौर्वापर्यं न सिध्यतीति हृदयम् ॥
कुमार-वरदः - 10
  1. ननु मीमांसाशास्त्रस्य पूर्वोत्तरभागयोरैक्ये सत्येव पौर्वापर्यकॢप्तिः समुचिता । तदेव न विद्यत इत्याशङ्क्य प्रतिक्षिपति - मीमांसाया इति । ‘अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः’ इति, ‘पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः’ इति च कर्मब्रह्मविचारयोमीमांसेति साधारण्येनोपादानात् सिद्धमेव द्वयोरपि भागयोरैक्यम् । कथं तर्हि कर्ममीमांसा ब्रह्ममीमांसेति विभागनिर्देश इति चेन्न; तस्यैवास्माकमनुकूलत्वात् । अत्र हि मीमांसेत्येकमेव शास्त्रम्, तत्र कर्मप्रधानो भागः कर्ममीमांसा, ब्रह्मप्रधानो भागो ब्रह्ममीमांसेति विभाग इति प्रतीयमानत्वात् । अन्यथा विद्यास्थानानां चतुर्दशत्वासंभवात् । तेन मीमांसाशास्त्रस्यैक्ये सत्यपि निरीश्वरमीमांसकास्तस्य शरीरमेव परिजगृहुः । अत एव तान्कबन्धमीमांसका इत्याचक्षते विचक्षणाः । अपरे तु राहुकल्पं तच्छिर एव परिजगृहुः । तानपि राहुमीमांसका इत्याचक्षते । तयोरितरेतरांशपरित्यागोऽन्तर्विरोधनिबन्धन इत्यधिक्षिपति - किं तैरित्यादिना । न केवलं पुराणादिप्रसिद्धिमात्रेण कर्मब्रह्मभागयोरैक्यम्, अपि तु न्यायानुसारेणापीत्याह - स्वाध्यायेति । अत्र स्वाध्यायशब्देन सशिरस्को वेद उच्यते । तेनाध्ययनं तावदुभयभागविषयमेव । तत्फलभूतमक्षरराशिग्रहणमपि तथैवोभयविषयम् । तदनन्तरं साङ्गाध्ययनादिजनितापातप्रतीतिरपि उभयविषयिणी । तथा तदन्तर्वर्तिवेदवाक्यार्थविचाररूपमीमांसा सार्वत्रिकी । तदिदमाह - कार्त्स्न्य इति । ननु स्वविधिप्रयुक्तं स्वाध्यायाध्ययनमिति कौमारिलाः । तच्चार्थज्ञानपर्यन्तम् । तन्मध्यभाविविचारोऽपि अध्ययनविधिप्रयुक्त एव । तथा च कथमापातप्रतीत्या प्रयुक्तिरुच्यते विचारस्य । एवमध्यापनविधिप्रयुक्तमध्ययनम् । तत्र दृष्टफलत्वेनार्थज्ञानमनुमन्यते नियोगेन । तदन्तर्वर्तिविचारोऽपि तदनुमत्यैव प्रवर्तते । किमापातप्रतीतिप्रेरणया मीमांसाशास्त्रस्येति । अत्रोत्तरमाह - स्वविधीति । स्वविधिप्रयुक्तत्वं परविधिप्रयुक्तत्वं वा भवतु नाम, उभयपक्षेऽपि कृत्स्नचिन्तनमपरित्याज्यमेव, अन्यथा कृत्स्नाध्ययनस्यापि परित्याज्यत्वप्रसङ्गात् । अस्मत्पक्षे तु आपातप्रतीतेः कृत्स्नविषयत्वात्तत्प्रयुक्तं मीमांसाशास्त्रश्रवणमपि कृत्स्नविषयमेवेति पूर्वोत्तरभागयोः क्रमपरिकल्पनं युक्तमेव ॥१०॥
मूलम् - 10
  1. मीमांसायाः कबन्धं कतिचन जगृहू राहुकल्पं शिरोऽन्ये
    किन्तैरन्तर्विरोधप्रमुषितमतिभिः बाह्यकल्पैर्भ्रमद्भिः ।
    स्वाद्ध्यायाद्ध्यायकार्त्स्न्ये स्वविधिपरविधिप्रेरणा तावदास्तां
    कृत्स्नापातप्रतीतौ किमिति कृतधियः कृत्स्नचिन्तान्न कुर्युः ॥
विश्वास-प्रस्तुतिः - 11
  1. प्राधीतस्यैकरूपप्रयतननियतादेकरूपोपकारा-
    द्विद्यास्थानैक्यसिद्धौ क्रमनियतियुताकाङ्क्षयैकप्रबन्ध्यम् ।
    अद्ध्यायादिष्विवावान्तरविषयफलाद्यन्यताऽत्राप्यभेत्त्री
    तत्तुल्यः कर्तृभेदः कलिबलकलुषैः कल्पितोऽर्थे विरोधः ॥
३४-तमाहोबिल-यतिः - 11
  1. प्राधीतस्येत्यादि । प्राधीतस्य - साङ्गसशिरस्कतयाऽधीतस्य वेदस्य । एकरूपप्रयतननियतात् - आपातप्रतिप्रन्नार्थनिर्णयौपयिकन्यायानुसन्धानार्थत्वेनैकरूपं यत्प्रयतनं प्रवृत्तिः, तन्नियतात् तदनुबद्धात् । एकरूपोपकारात् - संदिग्धवाक्यार्थव्यक्तीकरणरूपात् ‘धर्मे प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥’ इत्युक्तादुपकारविशेषात् । विद्यास्थानैक्यसिद्धौ - ‘मीमांसा न्यायविस्तरः’ इत्यादिभिश्चतुर्दशविद्यास्थानेष्वन्यतमत्वेन परिगणितस्य मीमांसाख्यस्य विद्यास्थानस्यैक्यसिद्धौ सत्याम् । क्रमनियतियुताकाङ्क्षया - क्रमविशेषनियतियुक्ताकाङ्क्षावशादेव । ऐकप्रबन्ध्यम् - प्रबन्धैक्यमपि परिकल्प्यते । अवान्तरविषयफलाद्यन्यता अध्ययादिष्विवात्राप्यभेत्त्री - अवान्तरार्थतन्निर्णयरूपफलभेदः, अध्यायषट्कद्विकपादपेटिकाधिकरणेषु विद्यमानोऽपि यथा प्रबन्धैक्यं न भिनत्ति, तथा ब्रह्मकाण्डेऽपि अवान्तरार्थादिभेदः प्रबन्धैक्यभेदको न भवतीत्यर्थः । नहि प्रमाणभेदादिद्वादशावान्तरार्थभेदः, तन्निर्णयरूपफलभेदो वा, उपदेशातिदेशरूपावान्तरार्थतन्निर्णयरूपफलभेदो वा, उत्तरकाण्डे सिद्धसाध्यरूपावान्तरार्थतन्निर्णयरूपफलभेदो वा, विंशतिलक्षण्यामपि प्रतिपादम् अवान्तरार्थादिभेदो वा, प्रतिपेटिकाधिकरणमवान्तरार्थादिभेदो वा, अध्यायानां षट्कयोर्द्विकयोः पादानां पेटिकानामधिकरणानां च प्रबन्धैक्यं भिनत्ति, तद्वत्कर्मब्रह्मरूपावान्तरार्थादिभेदो मीमांसारूपविद्यास्थानविभेदको न भवतीति भावः । कर्तृभेदस्तत्तुल्यः - एवमेकप्रबन्धेऽवान्तरभागयोः प्रणेतृभेदोऽपि अवान्तर्थादिभेदवदेव प्रबन्धैक्यभेदको न भवतीत्यर्थः । दृश्यते हि धूर्तस्वामिकपर्दिभ्यामेककल्पसूत्रवृत्तिभागप्रणयनम् । एवं भोजराजलक्ष्मणसूरिप्रणीते चम्पूरामायणेऽन्यत्र च द्रष्टव्यम् । अर्थे विरोधः कलिबलकलुषैः कल्पितः - पूर्वोत्तरमीमांसयोः शिष्याचार्यभूतजैमिनिव्यासप्रणीतयोर्वस्तुतोऽविरुद्धार्थयोरपि सतोः परस्परमर्थे विरोधः कलिबलकलुषितैर्महासाहसिकैरर्वाचीनैरारोपितो नतु वास्तव इति भावः ॥
कुमार-वरदः - 11
  1. विषयैक्यात्प्रयोजनैक्यात् प्रवृत्तिप्रकारैक्याच्च शास्त्रैक्यमस्तु नाम । अथापि क्रमो न विवक्ष्यते । नहि सूत्रभाष्यवृत्तिवार्त्तिकटीकानिबन्धनप्रकरणादीनां कश्चित्क्रमः । तत्कथं कर्मब्रह्मभागयोः क्रमपरिकॢप्तिं भवन्त आचक्षत इत्याशङ्क्याह - प्राधीतस्येति । एकरूपप्रयतननियतादेकरूपोपकाराद्विद्यास्थानैक्यसिद्धौ - क्रमविशेषयुक्ताकाङ्क्षावशादेव प्रबन्धैक्यमपि परिकल्प्यते । प्रबन्धैक्ये च क्रमपरिकॢप्तिरुपपद्यते । अयमर्थः - एको वेदराशिः, आपादचूडं तद्व्याख्यानरूपं मीमांसाशास्त्रमप्येकमेव निबन्धनम् । तत्र पौर्वापर्यमन्तरेण निबन्धनैक्यस्य वक्तुमशक्यत्वात् तत्रोपयुज्यते क्रमकॢप्तिः । सूत्रभाष्यवार्त्तिकटीकानामन्योन्यसाकाङ्क्षस्वरूपत्वेऽपि वाक्यैकवाक्यत्वेन तदर्थप्रतिपादनरूपत्वेऽपि परस्पराकाङ्क्षया भागविशेषार्थप्रतिपादकत्वाभावात् क्रमावश्यम्भावो न विवक्ष्यत इति युक्तमेवैतदिति । तत्र भेदकारणमाशङ्क्य परिहरति - अध्यायादिष्विवेति । योऽयं कर्मचिन्तनं ब्रह्मचिन्तनमित्यवान्तरार्थभेद उच्यते । स तु शास्त्रभेदक एव न भवति । साधारणार्थैक्ये सति अवान्तरार्थभेदानां सर्वत्राभेदकत्वात् । अन्यथा षट्कद्विकाध्यायपादपेटिकाधिकरणानामप्यर्थभेदभिन्नानां पृथक्शास्त्रत्वं प्रसज्येत । अत्र, आदिशब्देन कारणभेदो विवक्ष्यते । ‘अथातः शेषलक्षणम्’ इत्यादावथातः शब्दार्थानां भिन्नत्वात् । यत्पुनरुच्यते - कर्मकाण्डे जैमिनिः कर्ता, देवताकाण्डे काशकृत्स्नः, शारीरके बादरायण इति कर्तृभेदात् शास्त्रभेदोऽस्त्विति, तदप्यसारमित्याह - तत्तुल्य इति । नह्येकस्य कार्यस्यैक एव कर्तेति नियमोऽस्ति; बहुकालसाध्यरथगोपुरादौ पूर्वकर्तृकृतशेषे कर्त्रन्तरस्यापि दृष्टत्वात् । न च भिन्नानां कार्याणां भिन्ना एव कर्तार इति निर्बन्धः । एकेनैव कर्त्रा बहूनां कार्याणां कर्तुं शक्यत्वात् । तेन शास्त्रकर्तृभेदाभेदौ शास्त्रभेदाभेदप्रयोजकौ न भवतः । दृश्यते हि पूर्वोत्तरवृत्त्योः एकनिबन्धनत्वम् आपस्तम्बीयसूत्रव्याख्यानयोः धूर्तस्वामिकपर्दिनिबन्धनयोरपि । एवं पूर्वोत्तरकाण्डयोर्द्विकमप्युदाहर्तव्यम् । नन्वन्यत्सर्वं भेदकारणमास्ताम् । महदिदं भेदकारणमस्ति, यत्पुनरर्थविरोध इत्याशङ्क्य तच्च प्रतिक्षिपति - कलिबलेति । शिष्याचार्यौ हि जैमिनिबादरायणौ । उभावपि सम्यङ्न्यायनिरूपणेन वेदार्थप्रकाशनप्रवृत्तौ । तयोः परस्परविरोधकथनं कथमिव संघटते । ततः कलिबलकलुषा महासाहसिकाः परस्परविरोधं च कथयन्तीति तानेवाधिक्षिपामः । अत्रायं विभागः प्रवावदूकानां प्रवादेषु - उपनयनमध्यायनाङ्गम् । तच्चाध्ययनं ‘स्वाध्यायोऽध्येतव्यः’ इति स्वविधिप्रयुक्तम्; अध्ययनं च स्वाध्यायसंस्कारः । स च विधिर्नियमविधिरेव । अध्ययनगृहीतेनैव स्वाध्यायेन ज्ञानं संपादयेदिति कृत्स्नयुक्तिविशेषपरिज्ञानार्थं तन्मतपरिश्रमशालिभिर्भवितव्यम् । अपरे पुनरित्थमाचक्षते - ‘उपनीय तु यः शिष्यं वेदमध्यापयेत्’ इत्यापनाङ्गमुपनयनम्, तच्चाध्ययनं परविधिप्रयुक्तं साक्षात्तच्छेषत्वश्रवणात्, अध्ययनं च नियोगार्थत्वेन प्रधानकर्म । तद्विधिरप्यप्राप्तविधिः । अध्यापनं पुनराचार्यकनियोगार्थं वृत्त्यर्थाध्यापनादन्यदेव विधीयते । नियोगानुमत्यैव मध्येऽधिकारसिद्धयर्थं विषयफलत्वेनार्थज्ञानमपि स्वीक्रियते; दृष्टफलस्यापरित्याज्यत्वात् । अत उभयोरपि पक्षयोरर्थज्ञानार्थं विचारो वैध एव । वेदान्तवादिनस्तु भट्टपरिकॢप्तिमनुमन्यन्ते । अयमत्र विशेषः - यदक्षरराशिग्रहणमात्रफलमेवाध्ययनमामनन्ति । अत्र न्यायानपि ब्रुवते । अक्षरराशिग्रहणस्याव्यवहितफलत्वात्, हुंफडादिष्वप्यनुगतत्वात्, अर्थज्ञानवादिभिरप्यपरित्याज्यत्वात् । अधीतवेदानामनधिगतवेदान्तशास्त्राणामर्थज्ञानाभावेनाश्रोत्रियत्वप्रसङ्गात्, अक्षरराशिवदर्थज्ञानस्यापि पारम्पर्येण पुरुषार्थत्वादित्यादयोऽपि हेतवो दरीदृश्यन्ते । यत्पुनरूचुः अधीत्य स्नायात् इति स्नानविधिनैव रागप्राप्तमीमांसाश्रवणस्य बाधात् युष्मत्पक्षे श्रवणमेव न जाघटीतीति । तन्न - विधिनापि स्वापेक्षितबाधस्य वक्तुमशक्यत्वात् । यथा स्नानविधिर्गुरुदक्षिणाप्रदानार्थमर्थार्जनमनुमनुते । एवं स्नानोद्वाहाग्न्याधानयागदानहोमादिसर्वविधीनां साद्गुण्येनानुष्ठानानसिद्ध्यर्थं मध्ये मीमांसाश्रवणमनुमन्वीतेति न विस्तृणीमहे । विस्तरत्वस्माभिरारचितायां मीमांसापादुकाटीकायां द्रष्टव्यः । ‘उपनयीत’ इत्यात्मनेपदवादस्तु विस्तरभयादत्र न लिख्यते ॥11॥
मूलम् - 11
  1. प्राधीतस्यैकरूपप्रयतननियतादेकरूपोपकारा-
    द्विद्यास्थानैक्यसिद्धौ क्रमनियतियुताकाङ्क्षयैकप्रबन्ध्यम् ।
    अद्ध्यायादिष्विवावान्तरविषयफलाद्यन्यताऽत्राप्यभेत्त्री
    तत्तुल्यः कर्तृभेदः कलिबलकलुषैः कल्पितोऽर्थे विरोधः ॥
विश्वास-प्रस्तुतिः - 12
  1. तत्तद्वैशिष्ट्यभेदाद्यदगणि भिदुरा देवता पूर्वभागे
    संज्ञावैषम्यमात्रादपि कथमियताऽधीतयष्टव्यभङ्गः ।
    उद्देश्याकारभेदोऽस्त्य(ह्य)यमिह हविषामुक्तिभिन्ने प्रयोगे
    दौर्बल्यं त्वक्षवेद्यान्मितिचरमतया द्रव्यतो देवतायाः ॥
३४-तमाहोबिल-यतिः - 12
  1. तत्तद्वैशिष्ट्यभेदादित्यादि । पूर्वभागे - पूर्वकाण्डे । तत्तद्वैशिष्ट्यभेदात् - ‘इन्द्राय राज्ञे’, ‘इन्द्रायाधिराजाय’ इत्यादिषु वैशिष्ट्यं विशिष्टस्य भावो, विशेषणं राजत्वाधिराजत्वादिरूपं, तस्य भेदात् । देवता - उद्देश्यदेवता । भिदुरा अगणि इति यत् - भिन्ना निर्णीतेति यत् । किंच । संज्ञावैषम्यमात्रादपि - इन्द्रमहेन्द्रादिशब्दभेदमात्रादपि । देवता भिदुरा अगणीति यत् । इयता - एतावद्वचनमात्रेण । अधीतयष्टव्यभङ्गः कथम् - विधिवाक्याधीतहविरुद्देश्यदेवतानिरासोऽस्तीति कथमुच्यते । हविषां प्रयोगे - हविःप्रदाने । उक्तिभिन्ने - विशेषणभेदनामधेयभेदोक्तिभ्यां विभक्ते सति । इहायमुद्देश्याकारभेदो हि - उद्देश्याकारभेद एव ह्यत्र प्रतिपाद्यते । न पुनः स्वरूपभेद इत्यर्थः । ‘द्रव्यदेवतासाम्ये द्रव्यं बलीयः’ इति जैमिनिसूत्रे प्रतिपादितं देवताया दौर्बल्यं तु अक्षवेद्यात् द्रव्यतः - विलम्बितशास्त्रगम्यहविष्ट्वकादपि, अविलम्बितप्रत्यक्षगम्यस्वरूपात् द्रव्यात् । मितिचरमतया - विलम्बितशास्त्रगम्यस्वरूपश्रेयस्साधनत्वादिधर्मोभयकत्वेन चरमबुद्धिविषयतया दृश्यते । प्रातीतिकमेव दौर्बल्यं, न तु स्वरूपाभावनिबन्धनमिति भावः ॥
कुमार-वरदः - 12
  1. अत्र शास्त्रैक्यप्रसिद्ध्यर्थं पूर्वोतरकाण्डयोर्विरोधो नास्तीत्युक्तम् । अथ मन्दप्रतिबोधनार्थं विरोधाभासानाशङ्क्य परिहरति - तत्तदिति । ‘इन्द्राय वज्रिणे’ इत्यादौ वज्रित्वाधिराजत्वादिविशेषणभेदाद्देवताभेदमामनन्ति तान्त्रिकाः । न केवलं विशेषणभेदादेव, इन्द्रमहेन्द्रशब्दभेदादपि भेदमाचक्षते । अतो देवतात्वमिति किञ्चिन्नियतं पारमार्थिकं नास्तीति जैमिनेर्मतम् । बादरायणस्य पुनरास्तिकाग्रेसरत्वं सर्वसंमतम् । तत्कथमविरोध इति कश्चिन्मन्यते, तत्रोत्तरमाह - कथमिति । अयमर्थः - शयनासनभोजनादितत्तदवस्थाविशिष्ट एक एव राजा नियताधिकारिभिः सिध्यत्तत्तदधिकारानुरूपनियतव्यवहारभाग्भवति । नैतावता राजा भिद्यते - स्वरूपत एकस्यापि तत्तत्कालोचित- विशेषणव्यवहाराभ्यां वैशिष्ट्यभेदस्यावर्जनीयत्वात् । एतदेव विशदं प्रकाशयति - उद्देश्येति । हविषां प्रयोगे विशेषणनामधेयाभ्यां उक्तिभिन्ने सति उद्देश्याकारभेद एवात्र प्रतिपाद्यते, न पुनः स्वरूपभेद इति । अनेन ‘अग्निवैश्वानरादिशब्दमात्रमेव देवता, अथवा तत्तल्लौकिकाग्न्याद्यर्थविशिष्टः शब्द एव देवता, न पुनरग्न्यादित्येन्द्रचन्द्राकारविशेषविशिष्टार्थविशेषो देवतात्वेन स्वीकर्तव्यः’ इति वदन्तः प्रत्युक्ताः । स्यादेतत् । ‘द्रव्यदेवतासाम्ये द्रव्यं बलीयः’ इति साक्षाज्जैमिनिनैव द्रव्यबलीयस्त्वाभिधानात् देवता न विद्यत इति, तदभावे ह्यनुष्ठानविरोधः स्यादिति, इत्थं वदन् स्वव्याघातमेव न जानाति । देवतास्वरूपाभावे कथं तस्या दौर्बल्यमुच्यते ? सति धर्मिणि धर्माश्चिन्यन्त इति न्यायवादिनः । तर्हि किमत्रोच्यते । इदमत्रोच्यते । सावधान एव शृणु । दर्शपूर्णमासाविष्टीनां प्रकृतिरित्यादिवाक्यप्रसिद्धः प्रकृतिविकृतिभावस्तावत्सिद्धः । तत्र द्रव्यसाम्याद् देवतासाम्याच्च प्रकृतिविकृतिभावः परिकल्प्यते तान्त्रिकैः । इत्थं सति कस्य कर्मणः का प्रकृतिः, का विकृतिरिति चिन्तायां क्कचिद् द्रव्यसाम्यं दृष्टम्, अन्यत्र देवतासाम्यम्, एवं च सति द्रव्यसाम्याद् देवतासाम्याद्वा प्रकृतिविकृतिभावेनानुष्ठानमिति विशये देवताया उद्देश्यत्वेन प्राधान्यात् तत्साम्यादनुष्ठानमिति पूर्वपक्षः । राद्धान्तस्तु द्रव्यस्य प्रत्यक्षत्वात् देवताया आगमैकसमधिगम्यत्वात् प्रथमप्रमाणप्रतिपन्नद्रव्यस्य प्रतीतिप्राबल्यात् तत्साम्येनैवानुष्ठानमिति । एवं स्वरूपं प्रत्यक्षं, फलसाधनत्वमेवाप्रत्यक्षं द्रव्यस्य । देवतायाः पुनः स्वरूपं देवतात्वं चाप्रत्यक्षमिति प्रातीतिकमेवेदं दौर्बल्यं न स्वरूपभावनिबन्धनमिति, तदिदमाह - दौर्बल्यमिति ॥12॥
मूलम् - 12
  1. तत्तद्वैशिष्ट्यभेदाद्यदगणि भिदुरा देवता पूर्वभागे
    संज्ञावैषम्यमात्रादपि कथमियताऽधीतयष्टव्यभङ्गः ।
    उद्देश्याकारभेदोऽस्त्य(ह्य)यमिह हविषामुक्तिभिन्ने प्रयोगे
    दौर्बल्यं त्वक्षवेद्यान्मितिचरमतया द्रव्यतो देवतायाः ॥
विश्वास-प्रस्तुतिः - 13
  1. जैमिन्युक्तं विरुद्धं यदिह बहुविधन्दर्शितं सूत्रकारै-
    स्तस्मादत्रैकशास्त्र्यं हठकृतमिति, न, ब्रह्मसंवाददार्ढ्यात् ।
    तत्तत्तात्पर्यभेदैर्विहतिपरिहृतिः काण्डवत्काण्डयोस्स्यात्
    बाह्यक्षेपार्थगूढाशयवचनभवद्भ्रान्तिशान्त्यादिसिद्धेः ॥
३४-तमाहोबिल-यतिः - 13
  1. जैमिन्युक्तमित्यादि । इह - शारीरकशास्त्रे । सूत्रकारैः - साक्षात्सूत्रप्रणेतृभिरेव । जैमिन्युक्तं बहुविधं विरुद्धं दर्शितम् - ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’, ‘भावं जैमिनिर्विकल्पामननात्’, ‘शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः’, ‘धर्मं जैमिनिरत एव’ इत्यादिषु जैमिन्युक्तं बहुविधमर्थजातं विरुद्धमिति प्रदर्शितम् । तस्मात् - कारणात् । अत्र - भागद्वये । ऐकशास्त्र्यम् - एकशास्त्रात्मकत्वम् । हठकृतम् - हठात्कृतम्, निरस्तमित्यर्थः । इति न - एवं वक्तुं न युक्तम् । ब्रह्मसंवाददार्ढ्यात् - तैरेव सूत्रकारैः ‘परं जैमिनिर्मुख्यत्वात्’ इति सूत्रेण जैमिनेरपि शारीरकशास्त्रप्रधानार्थभूतब्रह्माभ्युपगमदार्ढ्यस्य प्रदर्शितत्वादित्यर्थः । तर्हि विरोधाभासप्रतिपत्तेः का गतिरिति चेत् तत्राह - तत्तत्तात्पर्यभेदैर्विहतिपरिहृतिः काण्डवत्काण्डयोः स्यात् - तत्तद्विषयसमुचिततात्पर्यभेदकल्पनैरापातप्रतीतिविरोधपरिहारो यथैकस्मिन्नेव काण्डे क्रियते, तथा द्वयोरपि काण्डयोर्विरोधाभासपरिहारः संभाव्यते । न तावता शास्त्रैक्यं भेत्तुं प्रयतितव्यम् । अतिस्फुटविरोधे देवताधिकरणादौ कथं परिहार इत्यत्राह - बाह्यक्षेपार्थगूढाशयवचनभवद्भ्रान्तिशान्त्यादिसिद्धेः - प्रत्यक्षैकप्रमाणका हि बाह्याः स्वदर्शनरीत्याऽप्रामाणिकदेवताराधनरूपतया तत्प्रधानकं वेदविहितं कर्म हेयमिति वदन्ति । एवं वदतां वेदब्राह्यानां क्षेपो निरासः, अर्थः प्रयोजनं यस्य तादृशम्, अत एव गूढाशयं छादिताकूतं यत् जैमिनेर्देवताधिकरणे ‘अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्यात्’ इति देवतापेक्षया कर्मप्राधान्यपरं वचनं, तेन भवन्त्याः - उत्पद्यमानायाः । भ्रान्त्याः - जैमिनिनैव देवतानिरासात् देवता नास्तीत्येवंरूपमूढजनभ्रमस्य । शान्त्यादिसिद्ध्यर्थत्वाद् बादरायणेन जैमिनिमतनिरासस्येत्यर्थः । ‘मध्वादिष्वसम्भवादनधिकारं जैमिनिः’ इत्यादिना स्फुटदेवताङ्गीकार एव जैमिनिर्बाह्यनिरासाय कर्मप्राधान्यं प्रतिपादयाञ्चकार । बादरायणस्तु जैमिन्याशयमविजानतामन्यपरजैमिनिवचनेन देवतानिरासबुद्धिर्मा भूदिति शारीरके देवताधिकरणे जैमिनिपक्षं निराचकार । न चैतावता तयोरान्तरविरोधसंभव इति ॥
कुमार-वरदः - 13
  1. एवं विरोधाभासं निराकृत्य स्फुटमपि किञ्चिद्विरोधान्तरमाशङ्क्य परिहरति - जैमिन्युक्तमिति । बादरिजैमिनिकाशकृत्स्नप्रभृतयो बहवो हि शिष्या बादरायणस्य । तत्रतत्र स्वाभिप्रायविरुद्धान् शिष्याभिप्रायान् प्रतिक्षिपन् जैमिनीयमपि पक्षं प्रतिक्षिपति भगवान् बादरायणः । कथं जैमिनिबादरायणयोरविरोधः ? तस्मात् हठकृतमेवैकशास्त्र्यमिति, तत्प्रतिक्षिपति - नेति । तत्र हेतुमाह - ब्रह्मेति । ‘परं जैमिनिर्मुख्यत्वात्’ इत्यादौ हि जैमिनेः शारीरकाशास्त्रप्रधानभूतब्रह्मसंवादं दृढमेव प्राचीकशदाचार्यः । तस्मात् विरोधाभासप्रतिपत्त्या न शास्त्रभेदः शङ्कनीयः । का गतिस्तर्हि विरोधाभासप्रतिपत्तेरिति चेत् तत्रोत्तरमाह - तदित्यादिना । तात्पर्ये हि शब्दः प्रमाणम् । तेन तत्रतत्र सूत्रेषु तात्पर्यविशेषेण तद्विरोधः परिहरणीयः । अत्र प्रदिबन्दीमाह - काण्डवदिति । यथा - एकस्मिन्काण्डे षट्कयोरध्याययोः पादयोर्वा परस्परविरोधाभासप्रतिपत्तौ पण्डितास्तात्पर्यभेदाद्विरोधं परिहरन्ति, एवमत्रापीति । अस्तु तत्रापि विरोधपरिहारः, अथाप्यत्यन्तविरोधे सिद्धे देवताधिकरणादौ कः परिहार इत्याशङ्क्योक्तमेव तात्पर्यविशेषं तत्रापि योजयति - बाह्येति । एवं किलाहुर्बाह्याः - ‘वाक्यत्वात्सकर्तृको वेदः, कर्तॄणां च भ्रमविप्रलम्भप्रमादाशक्त्यादिकं भवत्येव, तस्माद्वेदस्याप्रामाण्यम्, न च देवता नास्तीति वक्तुं शक्यते, ‘वायव्यं श्वेतमालभेत’ इत्यादौ कर्माराध्याया देवतायाः एवातिथिवत्प्राधान्येन कथनात्’ इति, तत्प्रतिक्षेपार्थं कर्मप्राधान्यमाह देवताधिकरणे, न पुनर्देवतास्वरूपं प्रतिसञ्चष्टे । इयं किल देवताधिकरणे पञ्चसूत्री - ‘देवता वा प्रयोजयेदतिथिवत् । भोजनस्य तदर्थत्वात् । अर्थवत्त्वाच्च ततश्च तेन सम्बन्धः’ इति पूर्वपक्षसूत्रत्रयम् । ‘अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्यात् । गुणत्वे देवताश्रुतिः’ इति सिद्धान्तसूत्रयुगलमपि । तत्रेदं तात्पर्यम् - अर्थप्राधान्यस्य देवतायां विद्यमानत्वेऽपि शब्दप्राधान्यं यज्ञकर्मण्येवेति श्रुतिमूलानुष्ठानं यज्ञकर्म प्राधान्येनैव कर्तव्यमिति । अत्र देवताप्रतिक्षेपमेव मन्दः कश्चिन्मनुते, तत्प्रतिक्षेपार्थं तत्र तत्र जैमिनिपक्षं प्रतिक्षिपति भगवान् बादरायणः । तदुक्तं वेदार्थसंग्रहे - ‘अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणेऽतिवादाः कृताः ।’ इति । अतिवादाः - अन्यपरोक्तयः । न जैमिनिर्देवतां निराचकार, नापि बादरायणस्तं प्रतिक्षिपतीति भावः ॥13॥
मूलम् - 13
  1. जैमिन्युक्तं विरुद्धं यदिह बहुविधन्दर्शितं सूत्रकारै-
    स्तस्मादत्रैकशास्त्र्यं हठकृतमिति, न, ब्रह्मसंवाददार्ढ्यात् ।
    तत्तत्तात्पर्यभेदैर्विहतिपरिहृतिः काण्डवत्काण्डयोस्स्यात्
    बाह्यक्षेपार्थगूढाशयवचनभवद्भ्रान्तिशान्त्यादिसिद्धेः ॥
विश्वास-प्रस्तुतिः - 14
  1. आक्षिप्य स्थापनीयाः कतिचिदिह नयाः पूर्वकाण्डप्रणीताः
    केचिद्व्युत्पादनीयाः क्वचिदपवदनं ख्याप्यमौत्सर्गिकस्य ।
    इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य मध्यस्थदृष्ट्या
    शास्त्रैक्ये पौनरुक्त्यप्रभृतिपरिहृतिस्सावधानैर्विभाव्या ॥
३४-तमाहोबिल-यतिः - 14
  1. आक्षिप्येत्यादि । इह - शारीरककाण्डे । पूर्वकाण्डप्रणीताः कतिचिन्नयाः - कर्मकाण्डे स्मृत्यधिकरणादिव्युत्पादिताः श्रुतिविरुद्धार्थस्मृत्यनादरणीयतादयो न्यायाः । आक्षिप्य स्थापनीयाः - ‘स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’ इत्याद्यधिकरणेषु कुतश्चित्कारणविशेषादाक्षिप्य स्थापनीयाः । केचित् - केचन तत्क्रतुन्यायादयः । व्युत्पादनीयाः - अत्रैव समर्थनीयाः । क्वचित् - समन्वयाधिकरणादौ । औत्सर्गिकस्य - सामान्येन प्रवृत्तस्य पूर्वकाण्डार्थवादाधिकरणसिद्धार्थवादानां विध्येकवाक्यत्वेन प्रामाण्यमित्यस्यार्थस्य । अपवदनं ख्याप्यम् - निरतिशयानन्दरूपब्रह्मविषयार्थवादानां स्वतःपुरुषार्थभूतब्रह्मप्रतिपादनसामर्थ्याद् विध्येकवाक्यत्वमन्तरेणापि पुरुषार्थपर्यवसायित्वमिति विशेषधर्मपुरस्कारेण निषेधरूपोऽपवादः प्रतिपाद्यः । इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य - एवमेवैककाण्डाध्यायेष्वपि न्यायप्रवृत्तिप्रकार इति तद्रीतेर्भिन्नकाण्डयोरपि तुल्यतां प्रसमीक्ष्य । मध्यस्थदृष्ट्या - क्वचित् पक्षपातं विना । शास्त्रैक्ये - त्रिकाण्ड्या मीमांसाया एकशास्त्रात्मकत्वे विषये । पौनरुक्त्यप्रभृतिपरिहृतिः - आपातप्रतीतपौनरुक्त्यादिदोषपरिहारः । सावधानैर्विभाव्या - अवहितबुद्धिभिर्विचिन्त्यतामिति ॥
कुमार-वरदः - 14
  1. अत्रान्यः प्राह ‘जैमिनिबादरायणयोर्विरुद्धभाषणं मा भूत् शिष्याचार्यभावात्, तथापि पौनरुक्त्यं दृश्यते । यथा पूर्वकाण्डे श्रुतिविरोधे स्मृतिरनपेक्षणीयेत्युच्यते । तथा ब्रह्मकाण्डेऽपि ‘स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’ इति । अपुनरुक्तमेव हि वाक्यजातं शास्त्रमित्युच्यते । तस्मात् कथमिव शास्त्रैक्यम् । एवं निबन्धनैक्यमपि निर्निबन्धनमेव । तदभावे कुतः क्रमः । कुतो वा कर्मविचारस्य पूर्ववृत्तत्वम्’ इति । एतत् सर्वं परिहरति - आक्षिप्येति । कर्मकाण्डस्मृत्यधिकरणेन श्रुतिविरोधात् स्मृतिरनपेक्षणीयेति सिद्धेऽपि ब्रह्मकाण्डे पुनस्तदेव कुतश्चित्कारणविशेषादाक्षिप्य समाधीयत इति न पौनरुक्त्यम् । अस्त्वपौनरुक्त्यम्, तथाप्यपूर्वार्थत्वाभावादनपेक्षणीयत्वमुत्तरकाण्डस्येत्याशङ्क्याह - केचिदिति । ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति’ इति तत्क्रतुन्यायो ह्यत्र व्युत्पाद्यते । एवमन्यदपि यथोचितं द्रष्टव्यम् । एवं तर्हि पूर्वकाण्डोक्तार्थस्य प्रधानभूतस्य प्रतिक्षेप एवोत्तरकाण्डे प्राधान्येन क्रियते । अर्थवादाधिकरणार्थ एव हि कर्ममीमांसासारार्थः । एवं समन्वयाधिकरणार्थ एव हि ब्रह्ममीमांसासारार्थः । तयोः परस्परविरोधे सति कथमिव युष्माभिर्विरोधो नास्तीति भण्यत इत्याशङ्क्याह - क्वचिदपवदनं ख्याप्यमौत्सर्गिकस्येति । उत्सर्गापवादन्यायेनापि शास्त्रे प्रायेण विरोधं परिहरन्ति तान्त्रिकाः । अत्राप्यर्थवादसामान्यस्य विधिशेषतया पुरुषार्थपर्यवसायित्वमित्युत्सर्गः । निरतिशयानन्दरूपब्रह्मविषयार्थवादानां स्वतः पुरुषार्थरूपब्रह्मप्रतिपादकत्वाद् विध्येकवाक्यत्वमन्तरेणापि पुरुषार्थपर्यवसायित्वमित्यपवादः । एवं सर्वत्रापि शास्त्रे पौनरुक्त्यादिपरिहारचिन्ताक्रम इति । एककाण्डान्तर्गतेषु बहुष्वधिकरणेषु विरोधः परिह्रियत इति तद्भिन्नयोरपि काण्डयोः पौनरुक्त्यादिपरिहृतिस्तुल्यन्यायत्वानुसन्धानेन पक्षपातं विहाय मध्यस्थदृष्ट्या सावधानेन सञ्चिन्तनीयेति ॥14॥
मूलम् - 14
  1. आक्षिप्य स्थापनीयाः कतिचिदिह नयाः पूर्वकाण्डप्रणीताः
    केचिद्व्युत्पादनीयाः क्वचिदपवदनं ख्याप्यमौत्सर्गिकस्य ।
    इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य मध्यस्थदृष्ट्या
    शास्त्रैक्ये पौनरुक्त्यप्रभृतिपरिहृतिस्सावधानैर्विभाव्या ॥
विश्वास-प्रस्तुतिः - 15
  1. वृत्तिग्रन्थे तु जैमिन्युपरचिततया षोडशाध्याय्युपात्ता
    सङ्कर्षः काशकृत्स्नप्रभव इति कथं तत्वरत्नाकरोक्तिः ।
    अत्र ब्रूमस्सदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हाः
    निर्वाहस्तूपचारात् क्वचिदिति घटते ह्येकतात्पर्ययोगः ॥
३४-तमाहोबिल-यतिः - 15
  1. वृत्तिग्रन्थे त्विति । वृत्तिग्रन्थे तु - बोधायनप्रणीतब्रह्मकाण्डवृत्तिग्रन्थे । षोडशाध्यायी - कर्मकाण्डस्था द्वादशाध्यायाः सङ्कर्षकाण्डस्थाश्चत्वारोऽध्यायाश्चेति षोडशाध्यायात्मा ग्रन्थः । जैमिन्युपरचिततयोपात्ता - ‘संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः’ इत्यादौ जैमिनीयेनेत्युक्त्या जैमिनिप्रणीततयोपात्ता । सङ्कर्षः काशकृत्स्नप्रभव इति तत्त्वरत्नाकरोक्तिः कथम् - ‘षोडशाध्यायात्मके शास्त्रे द्वादशाध्यायेभ्य उपरि चत्वारोऽध्यायाः सङ्कर्षसंज्ञाः । सोऽयं सङ्कर्षाख्यः प्रबन्धः काशकृत्स्नाख्यमहर्षिप्रणीतः’ इति भट्टपराशरोक्ततत्त्वरत्नाकराख्यग्रन्थस्थं वचनं कथमुपपद्यते । एकस्यैव सङ्कर्षाख्यस्य ग्रन्थस्य जैमिनीयत्वं काशकृत्स्नप्रणीतत्वञ्च कथमुपपन्नमिति शङ्का । अत्र ब्रूमः - अस्मिन्नाक्षेपे प्रत्युत्तरं वदामः । इह - सङ्कर्षाख्यग्रन्थविषये । वयम् - उभयोरपि विश्वासशालिनो वयम् । सदुक्तौ - सतोः प्रामाणिकतमयोर्बोधायनभट्टपराशरयोर्वचने । किञ्चित् - बोधायनवचनं वा भट्टपराशरवचनं वा किमपि । मुधा - निर्वाहसंभवेऽपि दुराग्रहान्निरर्थकतयैव । बाधितुम् - अन्यतरवचनेनान्यतरवचनं वा विरोद्धुम् । नार्हाः - न योग्याः । निर्वाहस्तु - द्वयोरपि वचनयोः सार्थक्यसम्पादनप्रकारस्तु । क्वचिदुपचारादेकतात्पर्ययोग इति घटते हि - जैमिनीयपदे वा काशकृत्स्नप्रभवपदे वा एकस्मिन्पदे प्रवक्तृपरत्वेनोपचारवृत्त्या तदितरपदे प्रणेतृपरत्वेन मुख्यवृत्त्या चाविरुद्धतात्पर्यसंभव इति युज्यते हि । जैमिनीयपदस्य जैमिनिप्रणेतृक इत्यर्थं परिकल्प्य काशकृत्स्नप्रभवपदस्य काशकृत्स्नप्रवक्तृपरत्वं परिकल्प्य पदद्वयस्य सङ्कर्षे योजनायां जैमिनिप्रणेतृकः काशकृत्स्नप्रवक्तृकः सङ्कर्षः इत्यविरुद्धतात्पर्यसंभवः । यद्वा जैमिनीयपदस्य जैमिनिप्रवक्तृक इत्यौपचारिकार्थकत्वे काशकृत्स्नप्रभवपदस्य प्रणेतृपरतया मुख्यार्थत्वयोगेन सङ्कर्षः काशकृत्स्नप्रणेतृको जैमिनिप्रणेतृकद्वादशाध्यायसंबन्धाज्जैमिनिप्रणीतप्राय इत्यविरुद्धार्थतात्पर्यसंभवः । अत उभयथापि निर्वाहो घटत इति भावः ॥
कुमार-वरदः - 15
  1. एवं जैमिनिबादरायणवाक्ययोर्विरोधं परिहृत्य तत्प्रसङ्गाद् व्याख्यातृवाक्ययोरपि प्रमाणभूतयोर्विरोधाभासमवश्यं समाधेयत्वात् समाधत्ते - वृत्तीति । शङ्कते कश्चिद्विरोधम् । वृत्तिग्रन्थे हि जैमिन्युपरचिततया षोडषाध्याय्युपात्ता । सङ्कर्षः - सङ्कर्षकाण्डः, भट्टपराशरास्तु तत्त्वरत्नाकराख्ये शारीरकशास्त्रप्रकरणे काशकृत्स्नप्रभव इत्युक्तवन्तः । तत्कथमिदं संघटेतेति । अत्रोतरमाह - अत्रेति । द्वयोरपि ग्रन्थकर्त्रोर्विश्वसनीयत्वात् एकस्यापि वाक्ये न वयमप्रामाण्यं ब्रूमः, अपितु तात्पर्यभेदेनोभयत्रापि प्रामाण्यम् । तथा हि तत्त्वरत्नाकरवाक्यस्य मुख्यत्वेन सङ्कर्षकाण्डस्य काशकृत्स्नप्रभवत्वे सिद्धे वृत्तिकारवाक्यं जैमिनेर्द्वादशलक्षणीकर्तृत्वात् प्राचुर्यादौपचारिकम् । वृत्तिकारवाक्यानुसारेण जैमिनेः षोडशलक्षणीकर्तृत्वे प्रामाणिके तत्त्वरत्नाकरवाक्यं काशकृत्स्नस्य देवताकाण्डे विशेषेण प्रवर्तकत्वपरमिति सिद्ध एव समाधिरिति ॥15॥
मूलम् - 15
  1. वृत्तिग्रन्थे तु जैमिन्युपरचिततया षोडशाध्याय्युपात्ता
    सङ्कर्षः काशकृत्स्नप्रभव इति कथं तत्वरत्नाकरोक्तिः ।
    अत्र ब्रूमस्सदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हाः
    निर्वाहस्तूपचारात् क्वचिदिति घटते ह्येकतात्पर्ययोगः ॥
विश्वास-प्रस्तुतिः - 16
  1. सौत्री सङ्ख्या शुभाशीरधिकृतिगणना चिन्मयी ब्रह्मकाण्डे
    तादर्थ्येऽनन्तरत्वेऽप्यधिकरणभिदा नाल्पसारैः प्रकल्प्या ।
    अक्षोर्म्याशाहिकाष्ठाद्विरदमुनिवसूर्म्यद्रितत्त्वातिशक्वर्य-
    क्षैरक्षैः प्रयाजैरिह भवति रसैः पादनीतिप्रबन्धः ॥
३४-तमाहोबिल-यतिः - 16
  1. सौत्रीत्यादि । ब्रह्मकाण्डे सौत्री - ब्रह्मकाण्डसूत्रसंबन्धिनी । संख्या शुभाशीः - कादयो नव, टादयो नव; पादयः पञ्च, यादयोऽष्टाविति संख्यानप्रकारः । एकस्थानं प्रथमम्, दशस्थानं द्वितीयम्, शतस्थानं तृतीयम् । एवं च यादिषु शकारस्य पञ्चमत्वादेकस्थाने शतस्थाने च पञ्चत्वसंख्यानिवेशः । पादिषु भकारस्य चतुर्थतया दशस्थाने चतुष्ट्वसंख्यानिवेशः । तथा च पञ्चचत्वारिंशदुत्तरपञ्चशतरूपा सूत्रसंख्येत्यर्थः । शुभाशीरित्यानुपूर्वी मङ्गलार्था । अधिकृतिगणना - ब्रह्मकाण्डस्थाधिकरणसंख्या । चिन्मयी - कादिषु चकारः षष्ठः । अत एकस्थाने षट्त्वसंख्यानिवेशः । मकारस्तु पादिषु पञ्चमः, एवं च दशस्थाने पञ्चत्वसंख्यानिवेशः । यकारस्तु यादिषु प्रथम इति शतस्थाने एकत्वसंख्यानिवेशः । तथा च षट्पञ्चाशदुत्तरशतरूपाऽधिकरणसंख्येत्यर्थः । अत्रापि चिन्मयीत्यभ्यर्हितार्थत्वायानुपूर्वीविशेषः । तादर्थ्ये - पूर्वाधिकरणशेषत्वे । अनन्तरत्वेऽपि - समनन्तरत्वे सत्यपि । अल्पसारैः - पृथगधिकरणनिमित्तप्रयोजनाल्पत्वे सति अधिकरणभिदा पूर्वाधिकरणादुत्तरसूत्रस्याधिकरणान्तरता । न प्रकल्प्या - न कल्पनीया । एतेन ‘अत्ता चराचरग्रहणात्’ इत्यधिकरणे ‘गुहां प्रविष्टौ’ इत्यादिसूत्रस्य परपक्षिभिः पृथगधिकरणत्वकल्पना उपरितनसूत्रेषु च तथाकल्पनाऽपन्यायमूलेति भावः । अक्षोर्म्याशाहिकाष्ठाद्विरदमुनिवसूर्म्यद्रितत्त्वातिशक्वर्यक्षैरक्षैः प्रयाजै रसैरिह पादनीतिप्रबन्धो भवति - अक्षाण्येकादश, इन्द्रियाणामेकादशत्वात् । ऊर्मयः - कामक्रोधलोभमोहमदमात्सर्यरूपाः षट् । आशाः - प्राच्यादयोऽष्टावधश्चोर्ध्वञ्चेति दश । अहयः - तक्षकगुलिकादयो महासर्पा अष्टौ । काष्ठा दिशः, ताः पूर्ववद्दश । द्विरदाश्चाष्टावैरावतादयः सुप्रतीकान्ता दिग्गजाः । मुनयः - ऋषयोऽत्र्यादयः प्रसिद्धाः सप्त । वसवश्चाष्टौ वसव इत्यादिप्रसिद्धा अष्टौ । ऊर्मयः पूर्ववत् षट् । अद्रयो हिमवदादयो मेरुणा सहाष्टौ । तत्त्वानि ‘अष्टौ प्रकृतयः षोडश विकाराः पञ्चविंश आत्मा भवति’, ‘तं षड्विंशकम्’ इत्यादिषु प्रसिद्धानि अचिच्चिदीश्वररूपाणि तत्त्वानि षड्विंशतिसंख्याकानि । अतिशक्वरी ‘उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका’ इत्यादिच्छन्दस्सु पञ्चदशस्थाननिवेशात् अतिशक्वरीति पञ्चदशसंख्योच्यते । अक्षाणि इन्द्रियाणि पूर्ववदेवैकादश । पुनरप्यक्षाणि - इन्द्रियाण्येकादश । प्रयाजाः पञ्च । रसा मधुरादयः षट् । एकैकपादाधिकरणानामेकैकसंख्यानिवेशक्रमेणाक्षादिरसान्तसंख्याभिः शारीरकस्थषोडशपादानामधिकरणनिबन्धनं कृतमित्यर्थः ॥
कुमार-वरदः - 16
  1. एवं ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रानुसारेण कर्मविचारानन्तरं ब्रह्मविचारस्य कर्तव्यत्वे परिपन्थितया प्रसक्तानर्थान् दिङ्मात्रेण प्रतिक्षिप्य क्रियमाणशास्त्रसूत्राधिकरणपादविभागेषु न्यूनाधिकभावं शिष्यानुग्रहार्थं प्रतिक्षिपति - सौत्रीति । शुभाशीः सूत्राणां कटपयादिक्रमात् संख्यापरिकल्पना । पञ्चचत्वारिंशदधिका पञ्चशतीति सूत्राणां संख्याप्रमाणम् । अधिकरणसंख्या तु चिन्मयी षट्पञ्चाशदधिकं शतमित्यर्थः । एतत्तु परपक्षवादिभिः परिकल्पितापन्यायमूलाधिकसङ्ख्यानिराकरणार्थमुच्यते । तेषां परिकल्पनाया अपन्यायमूलत्वमेव प्रकटयति - तादर्थ्य इत्यादिना । उत्तरसूत्रस्य पूर्वाधिकरणशेषत्वे समनन्तरभावित्वेऽपि अधिकरणनिमित्तप्रयोजनाल्पत्वे सति, अधिकरणभेदो न कल्पनीय इति तान्त्रिकाः प्राहुः । तेन गुहाधिकरणमित्यादिकं परवादिकल्पितमपहसितं भवति । अथ संख्यातानामधिकरणानां प्रतिपादं विभागं दर्शयति - अक्षेत्यादिना । अत्र लोकप्रसिद्धानुक्रमात् संख्यानिर्देशः । अक्षाण्येकादश, ऊर्मयः षट्, आशा दश, अहयः पुनरष्टौ, काष्ठा दश, द्विरदाश्चाष्टौ, मुनयः सप्त, वसवोऽप्यष्टौ, षडूर्मयः, अद्रयोऽष्टौ, तत्त्वानि षड्विंशतिसंख्याकानि, अतिशक्वरी पञ्चदश, अक्षाण्येकादश, पुनरप्यक्षाण्येकादश, पञ्च प्रयाजाः, रसाः षट् इति सुप्रसिद्धमेतत् । अनया प्रक्रियया पादनीतिप्रबन्धः - पादानां नीतयः प्रतिपादमधिकरणानि निबध्यन्त इति ॥16॥
मूलम् - 16
  1. सौत्री सङ्ख्या शुभाशीरधिकृतिगणना चिन्मयी ब्रह्मकाण्डे
    तादर्थ्येऽनन्तरत्वेऽप्यधिकरणभिदा नाल्पसारैः प्रकल्प्या ।
    अक्षोर्म्याशाहिकाष्ठाद्विरदमुनिवसूर्म्यद्रितत्त्वातिशक्वर्य-
    क्षैरक्षैः प्रयाजैरिह भवति रसैः पादनीतिप्रबन्धः ॥
विश्वास-प्रस्तुतिः - 17
  1. शास्त्रं त्वेतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानै-
    रद्ध्यायैष्षोडशाङ्घ्रि द्विकयुगभिदुरं षट्कभेदादिनीत्या ।
    तत्राद्यं वक्ति सिद्धं विषयमपि परन्तत्प्रतिद्वन्द्वियुग्मं
    स्वप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम् ॥
३४-तमाहोबिल-यतिः - 17
  1. शास्त्रं त्वेतदित्यादि । एतत् शास्त्रम् - शारीरकाख्यं शास्त्रम् । तुः पादपूरणे । समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानैः - समन्वयाविरोधसाधनफलविचारप्रधानैः । अध्यायैः - चतुर्भिरध्यायैः । षोडशाङ्घ्रि - षोडशाङ्घ्रयः पादा यस्य तत् षोडशाङ्घ्रि । प्रत्यध्यायं चत्वारः पादा इत्यध्यायचतुष्टयात्मकस्य शास्त्रस्य षोडश पादा इत्यर्थः । षट्कभेदादिनीत्या - कर्मकाण्ड उपदेशषट्कमतिदेशषट्कमिति पूर्वोत्तरषट्कयोर्यथा भेदः, तथेत्यर्थः । आदिशब्देन काण्डद्वयसिद्धपादाध्यायादिभेदो विवक्षितः । द्विकयुगभिदुरम् - विषयद्विकं विषयिद्विकं (सिद्धद्विकं) साध्यद्विकमित्युक्तयोः पूर्वोत्तरद्विकयोर्युगं तेन च भिदुरम् - अवान्तरभेदवद् भवति, द्विकद्वयं च वर्तत इत्यर्थः । तत्र - द्विकद्वये । आद्यम् - प्राथमिकं द्विकम् । सिद्धं विषयं वक्ति - सिद्धरूपं विषयरूपं च ब्रह्म प्राधान्येन प्रतिपादयति । परमपि - उत्तरद्विकमपि । तत्प्रतिद्वन्द्वियुग्मम् - तयोः सिद्धविषययोर्यौ प्रतिद्वन्द्विनौ प्रतिकोटिभूतावुपासनप्राप्तिरूपौ साध्यविषयिणौ तयोर्युग्मं द्वयम् । वक्तीत्यनुकर्षः । प्राधान्येन प्रतिपादयतीत्यर्थः । तथा च पूर्वद्विकं सिद्धविषयपरम्, उत्तरद्विकं साध्यविषयिपरमित्यर्थः । तत्रापि - उत्तरद्विकेऽपि । स्वप्राप्तेः साधनं च स्वयमिति - स्वप्राप्तिरूपमोक्षस्य स्वयमेव साधनमिति, उपासनाविषयत्वेन सिद्धप्रापकतया, प्राप्तिरूपानुभवविषयत्वेन सिद्धप्राप्यतया चेत्यर्थः । परं ब्रह्म - पूर्वद्विकप्रधानप्रकतिपाद्यं परं ब्रह्मैव । अप्राधान्येन चिन्त्यं हि - विचार्यम् । तथा च उत्तरद्विकस्योपासनप्राप्तिप्रधानत्वेऽपि, अप्राधान्येन ब्रह्मप्रतिपादनाप्रहाणात् सर्वस्यापि शास्त्रस्य ब्रह्मविचारात्मकत्वं नापैतीति भावः ॥
कुमार-वरदः - 17
  1. एवं पादाधिकरणविभागमुक्त्वाऽध्यायानां द्विकयोरपि विभागमर्थविभागेन प्रदर्शयन् उत्तरस्यापि द्विकस्य सिद्धोपायोपेयरूपब्रह्मप्रतिपादनपरत्वाद् ब्रह्मजिज्ञासारूपत्वं सिद्धमित्याह - शास्त्रमिति । अनेन शारीरकशास्त्रेण समन्वयाविरोधसाधनफलरूपाश्चतुर्ष्वध्यायेषु चत्वारोऽर्थाः प्रधानतया प्रतिपाद्यन्ते, एकैकस्याध्यायस्य पादचतुष्टयात्मकत्वात् षोडशाङ्घ्रित्वसिद्धिः । न केवलमध्यायभेदात्पादभेदाच्च भेदः, द्विकभेदादपि भेदोऽस्तीत्याह - द्विकेति । तत्र दृष्टान्तमाह - षट्केति । कर्मकाण्डे पूर्वोत्तरषट्कभेदः सुप्रसिद्धः । आदिशब्देन प्रथमकाण्डत्रिपादीव्यूहनपूर्वकाण्डप्रसिद्धभेदोऽप्युपादीयते । एवं सर्वत्रापि शास्त्रे तत्रतत्रोक्तविभागो दृष्टान्तीकरणीयः । अत्र द्विकभेदनिमित्तमर्थभेदमाह - तत्रेति । पूर्वद्विकं सिद्धविषयनिरूपणपरम् - ब्रह्मणः सिद्धत्वात्, उत्तरद्विकप्रतिपाद्योपासनप्राप्त्योर्विषयत्वाच्च ब्रह्मणः । उत्तरद्विकं साध्यविषयनिरूपणपरम् - उपासनप्राप्त्योः पुरुषसाध्यत्वात्, परब्रह्मविषयत्वेन विषयित्वाच्च । ननु कथमुपासनप्राप्तिप्रतिपादनपरस्योत्तरद्विकस्य ब्रह्मजिज्ञसारूपत्वम्? कथं वा ब्रह्मजिज्ञासारूपशास्त्रे सङ्गतिरित्याशङ्क्याह - स्वप्राप्तेरिति । द्विविधं हि साधनं प्रधानाप्रधानभावेन, ब्रह्म तदुपासनं चेति । एवं साध्यमपि द्विविधं ब्रह्म तत्प्राप्तिश्चेति । तथाच ब्रह्मणः प्राधान्येन प्राप्यप्रापकभावात् तच्चिन्तनरूपम् उत्तरद्विकमपि तज्जिज्ञासायामेव प्राधान्येन निविशत इति न सङ्कटं किञ्चित् । उक्तं हि तान्त्रिकैरपि ‘स स्वेनैव फलप्रदः फलमपि स्वेनैव नारायणः’ इति ॥17॥
मूलम् - 17
  1. शास्त्रं त्वेतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानै-
    रद्ध्यायैष्षोडशाङ्घ्रि द्विकयुगभिदुरं षट्कभेदादिनीत्या ।
    तत्राद्यं वक्ति सिद्धं विषयमपि परन्तत्प्रतिद्वन्द्वियुग्मं
    स्वप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम् ॥
विश्वास-प्रस्तुतिः - 18
  1. तत्राद्येऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः
    पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः ।
    दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथो-
    पासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥
३४-तमाहोबिल-यतिः - 18
  1. तत्राद्य इत्यादि । तत्र - शारीरकशास्त्रे । आद्ये - प्रथमाध्याये । अत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः - पादचतुष्टये क्रमेणास्पष्टतरजीवादिलिङ्गकश्रुतिवाचः, अस्पष्टजीवादिलिङ्गकश्रुतिवाचः, स्पष्टजीवादिलिङ्गकश्रुतिवाचः, स्पष्टतरजीवादिलिङ्गश्रुतिवाचश्च । चिन्तितानीत्यन्ते श्रूयमाणस्य पदस्य लिङ्गविपरिणामेन चिन्तिता इति लाभः । पश्चात् - तदनन्तरं द्वितीयाध्याये । स्मृत्यादिकैरक्षतिः, अहितहतिः, अभ्रेन्द्रियादेः कार्यता च - प्रथमाध्यायप्रतिपादितस्य श्रुतीनां ब्रह्मणि समन्वयस्य कपिलयोगस्मृत्यादिभिर्विरुद्धार्थैरभिभवपरिहारः प्रथमपादे । अहितानां सांख्यवैशेषिकादीनां हतिर्निरासो द्वितीयपादे । अभ्रस्य - आकाशस्य, इन्द्रियादेरिन्द्रियाणां मुख्यप्राणादीनां च कार्यता ब्रह्मकार्यताप्रकारस्तृतीये चतुर्थे च । इतीमेऽर्थाश्चिन्तिता इत्यनुकृष्टेन पूर्ववद्योजना । तृतीये भवभृदितरयोर्दोषादोषौ भक्तिरङ्गानि च - तृतीयेऽध्याये भवभृदितरयोः संसारिजीवेश्वरयोः क्रमेण दुःखानुभवतदभावरूपौ दोषादोषौ प्रथमद्वितीयपादयोः, तृतीयपादे भक्तिशब्दवाच्योपासना, चतुर्थपादे कर्माद्यङ्गानि च चिन्तितानीत्यनुकर्षः । अथ - तदुपरि । अन्तिमे - चतुर्थाध्याये । उपासाऽऽरोहप्रभावोत्क्रमसरणिफलानि चिन्तितानि - उत्तरपूर्वपापाश्लेषविनाशरूप उपासनानुष्ठानप्रभावः प्रथमपादे, देहादुत्क्रान्तिर्द्वितीये, अर्चिरादिसरणिस्तृतीये, परज्योतिरुपसम्पत्तिप्रकाररूपं फलं चतुर्थपाद इतीमानि क्रमेण विचारितानीत्यन्वयः ॥
कुमार-वरदः - 18
  1. एवमध्यायद्विकयोरर्थविभागमुक्त्वा पादानामर्थभेदमाह - तत्रेति । शारीरकाद्यपादे तावत् अस्पष्टतरजीवादिलिङ्गकवाचश्चिन्त्यन्ते । अस्पष्टजीवादिलिङ्गकवाचो द्वितीये । स्पष्टजीवादिलिङ्गकवाचस्तृतीये । स्पष्टतरजीवादिलिङ्गकवाचश्चतुर्थे । उक्तं च सेनेश्वराचार्यैः ‘अस्पष्टपरमस्पष्टं स्पष्टं छायानुसारि च’ इति । तत्र जीवप्रधानप्रतिपादकवाक्ययोश्छायानुसारित्वं हि सिद्धान्तप्रतिपाद्यार्थानुसारेण प्रतीयमानत्वम् । एवमविरोधाध्यायेऽपि क्रममाह - पश्चात्स्मृत्यादिकैरिति । स्मृतिपुराणेतिहासादिभिरधिकत्वेनाभिमन्यमानैर्वेदान्तवाक्यानां बाधः परिह्रियते । अक्षतिः - अबाध इत्यर्थः । तर्कपादे तु वेदान्ततुल्यत्वेनाभिमन्यमानानां तर्काणामेव बाध उच्यते । अहितानां परपक्षतर्काणां सत्तर्कानुग्रहशालिभिर्वेदान्तवाक्यैर्हननमित्यर्थः । तथा च न प्रतिरोधेऽपि, तुल्यबलेनैव प्रतिरोधो न पुनर्दुर्बलेन । तेन प्रथमपादे वेदान्तानां बाधपरिहारः क्रियते । द्वितीयपादे प्रतिरोधपरिहार इति विभागः । तत्र द्वितीयाध्याये द्वाभ्यां पादाभ्यां कारणद्वारकबाह्यविरोधपरिहारः कृतः । उत्तराभ्यां वियत्प्राणपादाभ्यां कार्यद्वारकान्तरविरोधपरिहारः क्रियते । तत्रापि वियत्पादे वियदादीनां कार्यत्वपरिशोधनम् । प्राणपादे तु जीवोपकरणभूतानां प्राणादीनामिति विभागः । तत्र विरोधस्यानन्तरत्वं वेदवाक्यानामन्योन्यविरोधरूपत्वादिति भाव्यम् । तृतीयाध्यायं पादभेदेन विभजतेऽधिकाराधिकर्तव्यभेदेन च - दोषादोषाविति । तृतीये साधिकारसाङ्गोपायविभागः । तत्र द्वाभ्यां पादाभ्यामधिकारः परिशोध्यते । अधिकारो हि सांसारिकसकलपुरुषार्थवैराग्यपूर्विका परब्रह्मप्रेप्सा । तत्र वैराग्यपादे वैराग्यं सिध्यति जाग्रदाद्यवस्थासु जीवानां सदोषत्वकथनात् । परब्रह्मप्रेप्सा तु उभयलिङ्गपादश्रवणफलमेव । एवं द्वाभ्यां पादाभ्यामधिकारसिद्धिरुक्ता । उत्तराभ्यां पादाभ्यां साङ्गोपासनमधिकर्तव्यमुच्यते । तत्रापि तृतीयपादे प्रधानभूतोपासननिर्णयः । चतुर्थे पुनरितिकर्तव्यतानिर्णयः । इत्थं प्रतिपादितोपायफलचिन्तनं चतुर्थाध्याय इत्याह - अथेति । उपासाऽऽरोहप्रभावो हि उत्तरपूर्वाघयोरश्लेषविनाशौ तदिदं प्रथमपादे, देहादुत्क्रमणं द्वितीये, अर्चिरादिमार्गेण गमनं तृतीये, ‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ इति वैकुण्ठवासिनो वासुदेवस्यासङ्कुचितानुभवश्चतुर्थ इत्येषा फलाध्यायपरिपाटीति दिक् ॥
मूलम् - 18
  1. तत्राद्येऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः
    पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः ।
    दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथो-
    पासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥
विश्वास-प्रस्तुतिः - 19
  1. स्रष्टा देही स्वनिष्ठो निरवधिमहिमाऽपास्तबाधः श्रिताप्तः
    खात्मादेरिन्द्रियादेरुचितजननकृत्संसृतौ तन्त्रवाही ।
    निर्दोषत्वादिरम्यो बहुभजनपदं स्वार्हकर्मप्रसाद्यः
    पापच्छिद्ब्रह्मनाडीगतिकृदतिवहन् साम्यदश्चात्र वेद्यः ॥
३४-तमाहोबिल-यतिः - 19
  1. स्रष्टेत्यादि । स्रष्टा - जन्माद्यधिकरणविषयवाक्ये ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिना, ईक्षत्यानन्दमयाधिकरणयोः ‘बहु स्याम्’ इत्यारभ्य ‘इदं सर्वमसृजत’ इति च जगत्स्रष्टृत्वप्रतिपादनात् प्रथमपादे जगत्स्रष्टृत्वेन परमात्मा वेद्यः । देही - अन्तर्याम्यधिदैवेत्याद्यधिकरणेषु सर्वशरीरत्वप्रतिपादनाद् द्वितीये पादे सर्वदेहित्वेन वेद्यः । स्वनिष्ठः - भूमाधिकरणविषयवाक्ये ‘स भगवः कस्मिन्प्रतिष्ठितः’ इति, ‘स्वे महिम्नि’ इत्यादिप्रतिपादनात् अनन्याधारत्वेन तृतीये वेद्यः । निरवधिमहिमा - आनुमानिकाधिकरणे ‘पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः’ इत्यादिना, वदतीति चेदिति सूत्रविषयवाक्ये ‘अनाद्यनन्तं महतः परं ध्रुवम्’ इत्यादिना च भगवन्माहात्म्यप्रतिपादनाज्जगन्निमित्तोपादानत्वप्रतिपादनेन प्रकृत्यधिकरणे सर्वज्ञत्वसर्वशक्तित्वादिप्रतिपत्तेश्च चतुर्थपादे निरवधिमहिमत्वेन वेद्यः । अपास्तवाधः - स्मृतिपादे कापिलादिविरुद्धार्थस्मृतिविरोधानां युक्त्याभासमूलकविरोधानां च निरसनादपास्तबाधत्वेन पञ्चमे पादे वेद्यः । श्रिताप्तः - तर्कपादे बुद्धादिरूपेण तामसानामनाप्तोऽपि पाञ्चरात्राधिकरणे पाञ्चकालिकवृत्तीनामाप्त इति वक्ष्यमाणत्वात् श्रिताप्तत्वेन षष्ठे वेद्यः । खात्मादेरिन्द्रियादेरुचितजननकृत् - वियत्पादे वियदादेः स्वरूपविकाररूपजननप्रतिपादनाज्जीवात्मनः स्वभावविकाररूपजननप्रतिपादनाच्च वियदात्माद्युचितजननकृत्त्वेन सप्तमे वेद्यः । खात्मादेरुचितजननकृदिति योजना । इन्द्रियादेरुचितजननकृत् - तथा प्राणा इति पादे इन्द्रियाणां मुख्यप्राणस्य च जननप्रतिपादनादिन्द्रियाद्युचितजननकृत्त्वेनाष्टमे वेद्यः । संसृतौ तन्त्रवाही - जाग्रत्स्वप्नसुषुप्तिमूर्छामरणेषु भगवानेव निर्वाहकत्वेनोच्यत इति संसारतन्त्रनिर्वाहकत्वेन नवमे वेद्यः ।
    निर्दोषत्वादिरम्यः - ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इत्याद्यधिकरणेषु निर्दोषत्वकल्याणगुणाकरत्वप्रतिपादनात् निर्दोषत्वादिरम्यत्वेन दशमे वेद्यः । बहुभजनपदम् - गुणोपसंहारपादे नानाविधोपासनविचारणाद् बहुभजनपदत्वेनैकादशे वेद्यः । स्वार्हकर्मप्रसाद्यः - गृहस्थादिषु चतुर्ष्वप्याश्रमिषु स्वस्वाश्रमधर्माङ्गिका विद्येति पुरुषार्थपादे प्रतिपादनात् स्वार्हकर्मप्रसाद्यत्वेन द्वादशे वेद्यः । पापच्छित् - आवृत्तिपादे ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ इत्यधिकरणे विद्यानिष्ठस्योत्तरपूर्वाघाश्लेषविनाशप्रतिपादनात् पापच्छित्त्वेन त्रयोदशे वेद्यः । ब्रह्मनाडीगतिकृत् - ‘वाङ्मनसि’ इत्यादिपादे उत्क्रान्तस्य चेतनस्य ‘तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया’ इति सूत्रेण हार्दानुग्रहेण ब्रह्मनाडीप्रवेशवचनात् ब्रह्मनाडीगतिकृत्त्वेन चतुर्दशे वेद्यः । अतिवहन् - अर्चिरादिपादे भगवन्नियुक्तैरर्चिरादिभिरतिवहनप्रतिपादनादतिवोढृत्वेन पञ्चदशे वेद्यः । साम्यदः - ‘संपद्याविर्भावः’ इत्यादिपादे मुक्ताय भगवता परमसाम्यप्रतिपादनोपपादनात् साम्यदत्वेन षोडशे वेद्यः । एवमत्र शास्त्रे सर्वेष्वपि पादेषु स्रष्टृत्वादिरूपैः परमात्मैव वेद्य इति निखिलमपीदं शास्त्रं ब्रह्मपरमेवेति भावः ॥
कुमार-वरदः - 19
  1. एवं पादभेदादर्थभेदकथने सर्वेषामपि पादानां ब्रह्मजिज्ञासारूपत्वं कथमित्याशङ्क्य परिहरति - स्रष्टेति । तत्तत्पादोक्तानामर्थविशेषाणामेकस्मिन्नेव ब्रह्मणि पर्यवसानादिति परिहारः । तत्र स्रष्टेत्यादिषोडशभिः पदैस्तत्तत्पादप्रतिपाद्यषोडशविशेषविशिष्टो भगवानेवाभिधीयते । प्रथमपादः स्रष्टृत्वप्रधानः । द्वितीयस्तु देहित्वप्रधान इत्यादि स्वयमेव भाव्यम् । स्वनिष्ठः - स भगवान् स्वस्मिन् प्रतिष्ठितः । ‘स्वे महिम्नि’ इत्यादि श्रुतिसिद्धमनन्याधारत्वमुच्यते । श्रिताप्तः - तर्कपादे हि अनाश्रितानां दुस्तर्कवादिनामनाप्तः, आश्रितानां पुनः पञ्चरात्रतन्त्रनिष्णातानां पाञ्चकालिकवृत्तीनामाप्त इत्युच्यते । संसृतौ तन्त्रवाही - जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणेषु भगवानेव निर्वाहकत्वेनोच्यते । शेषं सुगमम् ॥19॥
मूलम् - 19
  1. स्रष्टा देही स्वनिष्ठो निरवधिमहिमाऽपास्तबाधः श्रिताप्तः
    खात्मादेरिन्द्रियादेरुचितजननकृत्संसृतौ तन्त्रवाही ।
    निर्दोषत्वादिरम्यो बहुभजनपदं स्वार्हकर्मप्रसाद्यः
    पापच्छिद्ब्रह्मनाडीगतिकृदतिवहन् साम्यदश्चात्र वेद्यः ॥
विश्वास-प्रस्तुतिः - 20
  1. विध्युक्त्याऽधीत्य वेदान् विधिबल-विरताव् अन्यजादेव रागात्
    कृत्स्नं मीमांसमानाः क्रमश इति परब्रह्मचिन्तान् तरन्ति ।
    प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्ट्या
    कालक्षेपाक्षमत्वात् कतिचन कृतिनश् शीघ्रमन्ते रमन्ते ॥+++(५)+++
३४-तमाहोबिल-यतिः - 20
  1. विध्युक्त्येत्यादि । इहास्मिन्लोके केचन विचक्षणाः विध्युक्त्या - ‘आप्तस्य हितकामस्य नियोगं केचिदूचिरे । भाष्यकारोऽपि भगवानेतमेवान्वमन्यत ॥’ इत्युक्तरीत्या हितकामाप्तनियोगरूपस्य विधेः - संबन्धिन्या, उक्त्या - स्वाध्यायोऽध्येतव्य इत्यादिरूपया । प्रेरिताः सन्त इति शेषः । वेदान् - चतुरोऽपि वेदान् । शाखाभेदबहुत्वपरं वा बहुवचनम् । अधीत्य - स्वतन्त्रोच्चारणयोग्यतयाऽक्षरराशिं गृहीत्वा । विधिबलविरतौ - अध्ययनविधेरक्षरराशिग्रहणपर्यन्तत्वात् तावताऽध्ययनविधिप्रेरणस्य विरामेऽपि । अन्यजाद्रागादेव - साङ्गाध्ययनादिजन्यापातप्रतीतिमूलकसंदेहसंभूतान् निर्णयाभिलाषादेव हेतोः । कृत्स्नं मीमांसमानाः - कृत्स्नमपि वेदार्थं विचारयितुं प्रवृत्ताः । क्रमशः - अधीतक्रमेण कर्मकाण्डं विचार्य । परह्मचिन्तां तरन्ति - ब्रह्मविचाररूपवेदान्तशास्त्राध्ययनं प्राप्नुवन्ति । अस्मिन् तुर्ये युगे प्राप्ते - प्राणिनामायुःप्रज्ञाशक्त्यादिसंकोचके चतुर्थे कलौ युगे प्राप्ते सति । कतिचन कृतिनः - केचिदुचितकारिणः । परिमितबलधीप्राणतद्विघ्नदृष्ट्या - परिमितानामल्पीयसां बलधीप्राणानां शक्तिबुद्ध्यायुषां तद्विघ्नानां रोगदारिद्र्यादीनां च दृष्ट्या पर्यालोचनया । कालक्षेपाक्षमत्वात् - दीर्घकालविलम्बासहिष्णुत्वेन । शीघ्रं - कर्मकाण्डाध्ययनविलम्बाभावेन शीघ्रमेव व्युत्क्रमेण । अन्ते - मुख्यभूते वेदान्तविचाररूपे मीमांसाचरमभागे । रमन्ते - आसज्जन्ते । अनुक्रमानुपपत्तिशङ्काभावे न्यायानुसारादनुक्रमेणैव श्रोतव्यम् । तच्छङ्कायां पुनः प्रधानविरोधपरिहाराय व्युत्क्रमेणापि श्रवणमस्त्येवेति न विरोध इति भावः ॥
कुमार-वरदः - 20
  1. अत्र केचिच्चोदयन्ति ‘भवतामुपपादनमन्यत्, अनुष्ठानमन्यत् । कर्मविचारस्य पूर्ववृत्तत्वमुपपाद्यते । अनुतिष्ठन्ति च कर्मविचारमन्तरेणापि ब्रह्मविचारमाचार्याः, कथमेतत् सङ्घटते? इति । अत्रोत्तरमालिख्यते - विध्युक्त्येति । अत्र विधिः कार्यमेकेषाम्, शब्दभावना पुनरन्येषाम् । इष्टसाधनत्वं मण्डनस्य । इष्टस्य कृत्यधीनत्वलक्षणमाचार्यैकदेशिनः । धात्वर्थभावनेति केचिदूचुः । आप्तस्य हितकामस्य नियोग इति न्यायवादिनः । तमेव पक्षमनुमन्यन्ते त्रय्यन्तवादिनोऽपि । यथाहुः - ‘आप्तस्य हितकामस्य नियोगं केचिदूचिरे । भाष्यकारोऽपि भगवानेतमेवान्वमन्यत ॥’ इति । यो वा को वा विधिर्भवतु तस्य विधेरुक्तिः । अयमर्थः - कृतादिपुण्ययुगेषु अधिकारिणोऽपरिमितबलधीप्राणयोगाद् वेदानधीत्याविघ्नेन फलवदापातप्रतीतिजनितां त्रिकाण्डीं मीमांसामनुक्रमेण विचारयन्ति । अयमेव न्यायमार्गः । अधुना पुनरन्तिमयुगे संप्राप्ते बलधीप्राणानां परिमितत्वेन मध्ये विच्छेदसंभवात् ब्रह्मविचाररूपमुख्यार्थानुष्ठानानुग्रहाय कर्मविचारात्मकमङ्गविचारानुष्ठानं कंचित्कालं परित्यज्य शीघ्रमेवान्ते वेदान्तश्रवणे रमन्ते कतिचन कृतिनः कृतकृत्याधिकारिणो भाग्यवन्त इत्यर्थः । आहुश्च ‘मुख्यामुख्यविरोधे मुख्यानुग्रहो न्याय्यः’ इति । अयमर्थः ‘गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः’ इत्यत्रोच्यते । अयमत्र निर्णयः - अनुक्रमानुपपत्तिशङ्काभावे न्यायानुसारादनुक्रमेणैव श्रोतव्यम् । तच्छङ्कायां पुनः प्रधानविरोधपरिहाराय व्युत्क्रमेणापि श्रवणमस्त्येवेति न विरोधः । नन्वपरिज्ञातशब्दान्तरादिभिः कथमिव शाण्डिल्यविद्यादीनां भेदाभेदचिन्ता, कथं चापरिज्ञातश्रुतिलिङ्गादिभिश्च कर्मज्ञानयोरङ्गाङ्गिभावपरिकल्पनम्, कथं चापरिज्ञातश्रुत्यर्थपाठादिभिरर्चिरादिषु क्रमपरिकल्पनम्, एवमन्यत्रापि न्यायान्तरोपजीवनं कथमिव जाघटीतीति, घटत एव तत्त्वविद्विरचितैः प्रकरणादिभिः कर्मकाण्डार्थं संक्षेपतः श्रुत्वा श्रूयतां शारीरकमिति । अथवा अप्रतिहतप्रतिभैरन्तेवासिभिराचार्यसकाशादेव कर्मकाण्डार्थं संक्षेपतः श्रुत्वा श्रूयतां शारीरकमिति वाऽविरोधः । यद्वा शारीरकश्रवणवेलायामेवातिशयितप्रतिभावन्तस्तत्तदपेक्षितमर्थजातं सहसैवावधारयन्तु नाम, तस्मादविरोध इति । क्रमश इति - अत्र हि द्वयी गतिः । केचिदक्षरराशिं गृहीत्वा स्नानात्प्रागेव त्रिकाण्डीमपि मीमांसां शृण्वन्तीत्येका प्रक्रिया । अपरा पुनरधीत्य स्नायादिति वाक्यानुसारेण सहसैव स्नात्वा पश्चादनाश्रमी न तिष्ठेदिति ब्राह्मणानुसारेण प्रागेव परिणयनमपि कृत्वा कालेकाले मीमांसामपि शृण्वन्तीति । ननु कथं गृहस्थस्य यजनाद्यावश्यककर्मभिरुत्तरकालस्यावरुद्धत्वात् ज्ञानार्जनावकाशः? उच्यते । यथा श्रुत्यर्थानामुत्तरकर्मानुष्ठानौपयिकद्रव्यार्जनरूपाणां याजनाध्यापनप्रतिग्रहाणां यजनाध्ययनविधिभिरवकाशो दीयते, एवं यावज्जीवानुष्ठेयकृत्स्नकर्मानुष्ठानौपयिकज्ञानार्जनरूपस्य मीमांसाश्रवणस्याप्यवकाशो दीयतामिति महानयं घण्टापथः ॥20॥
मूलम् - 20
  1. विध्युक्त्याऽधीत्य वेदान्विधिबलविरतावन्यजादेव रागात्
    कृत्स्नं मीमांसमानाः क्रमश इति परब्रह्मचिन्तान्तरन्ति ।
    प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्ट्या
    कालक्षेपाक्षमत्वात् कतिचन कृतिनश्शीघ्रमन्ते रमन्ते ॥
विश्वास-प्रस्तुतिः - 21
  1. रागान्मीमांसते चेत् स्वयमिह यततां किं गुरूक्त्येति चेन्न
    ब्रह्मज्ञानाप्तये गुर्वभिगमनविधेस्तेन तत्त्वोपदेशात् ।
    सद्विद्याचार्यवत्त्वे प्रथयति च परब्रह्मवित्तिन्तथान्या-
    प्याचार्यादित्यधीते नियमविधिरसौ निश्चितो नीतिविद्भिः ॥
३४-तमाहोबिल-यतिः - 21
  1. रागादित्यादि । रागान्मीमांसते चेत् - आपातप्रतीतिमूलकान्निर्णयरागादेव विचारे प्रवर्तते चेत् । इह - विचारे । स्वयं यतताम् - धृष्टानां पण्डितंमन्यानां पुस्तकावलोकनाद्युपायेन कर्मब्रह्मचिन्ताया विलोकनात् तथैव पुस्तकावलोकनाद्युपायेन मीमांसापरिज्ञानमात्मनः संपादयतु । गुरूक्त्या किम् - गुरूक्त्या गुरूपदेशेन । किम् - किं फलं लभ्यते । इति चेन्न - इत्युच्यते चेन्नैतद्युक्तम् । ब्रह्मज्ञानाप्तये गुर्वभिगमनविधेः - ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति ब्रह्मज्ञानार्थं गुर्वभिगमनविधानात् । तेन तत्त्वोपदेशात् - गुरुणैव तत्त्वोपदेशदर्शनाच्च हेतोरित्यर्थः । किं च सद्विद्याऽऽचार्यवत्त्वे परब्रह्मवित्तिं प्रथयति - सद्विद्या पुनः ‘आचार्यवान्पुरुषो वेद’ इति वचनेनाचार्योपदेशवत्त्वे सत्येव परब्रह्मज्ञानं संभावितं प्रकाशयति । मतुपा सम्यगुपासनं विवक्ष्यत इति चिन्तामणिः । तथा - उक्तश्रुतितुल्यतया । अन्यापि - अन्या श्रुतिरपि । आचार्यादित्यधीते - ‘आचार्याद्धैव विदिता विद्या साधिष्ठं प्रापत्’ इत्यधीते । आचार्योपदेशादेव विदिता विद्या साधुतमत्वं प्रापयेदिति प्रतिपादयतीत्यर्थः । असौ - ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति श्रुत्यक्षरराशिः । नीतिविद्भिः - न्यायवेदिभिः । नियमविधिर्निश्चितः - अप्राप्तार्थत्वाभावात् नापूर्वविधिः, न च परिसंख्या, अपितु नियमविधिरेवेति निर्णीत इत्यर्थः ॥
कुमार-वरदः - 21
  1. अत्रान्यः कश्चिदचूचुदत् ‘रागप्राप्तं मीमांसाश्रवणमित्यक्षरराशिग्रहणमात्रफलकाध्ययनविधिवादिनो भवन्तः प्रतिपेदिरे । तर्हि आचार्यसकाशादेव श्रोतव्यमिति निर्बन्धो निर्निबन्धनः । स्वयमेव शारीरकशास्त्रपुस्तकावलोकनेन कर्मब्रह्ममीमांसापरिज्ञानमात्मनः करोतु प्राज्ञः । मुधैवाचार्यानुसरणप्रयासः’ इति । तदिदमाह - रागादित्यादिना । तत्प्रतिक्षिपति - नेति । तत्र हेतुमाह - ब्रह्मेति । ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति ब्रह्मज्ञानार्थं गुर्वभिगमनविधेः । न केवलं विधिमात्रमुपदेशदर्शनमप्यस्तीति दर्शयति तेनेति । नपुनरिदं हेतुद्वयमेव, सद्विद्या पुनः ‘आचार्यवान्पुरुषो वेद’ इत्याचार्योपदेशादेव सम्यग्ज्ञानमुपजायत इति विशदमेव प्रकाशयतीत्याह - सद्धिद्येति । अत्र मतुपा सम्यगुपासनं विवक्ष्यते । न केवलं सद्विद्यैवामुमर्थमुपदर्शयति, विद्यान्तरमपि विद्यायास्साधुत्वमुपदेशादेव सिध्यतीति प्रकटयतीत्याचष्टे - तथेति । ‘आचार्याद्धैव विदिता विद्या साधिष्ठं प्रापत्’ इति हि श्रुतिः । साधिष्ठं साधुतमत्वम् । प्रापत् - प्राप्नुयादित्यर्थः । ‘छन्दसि लुङ्लङ्लिटः’ इति व्यत्ययस्य सौत्रत्वात् । ननु रागप्राप्तं मीमांसाश्रवणमिति भवद्भिरङ्गीक्रियते, कथमधुना बहुश्रुत्युपपादनेन विधिप्राप्तत्वमुच्यते? तथा च हृद्यन्यद् वाच्यन्यदिति वैयाकुलीमेवातनोति, नेत्याह - नियमविधिरिति । त्रिविधः खलु विधिः - अप्राप्तविधिः, नियमविधिः, परिसंख्याविधिश्चेति । अत्र मा भूदप्राप्तविधिः मा च भूत्परिसंख्याविधिः, नियमविधिमेव परिगृह्णीमहि ‘अभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत्’ इतिवत् श्रोत्रियं ब्रह्मनिष्ठमेव गुरुमभिगच्छेदिति । तेनायमर्थः - अत्र न श्रवणं विधीयते । नापि श्रवणार्थं गुर्वभिगमनम् । तस्यापि श्रवणार्थिभिः स्वयमेवाचरणात् । अपितु शिष्याचार्ययोर्गुणावेव विधीयेते । तेन विधिप्राप्तत्वरागप्राप्तत्वविरोधचोदनं मन्दमिति ॥21॥
मूलम् - 21
  1. रागान्मीमांसते चेत् स्वयमिह यततां किं गुरूक्त्येति चेन्न
    ब्रह्मज्ञानाप्तये गुर्वभिगमनविधेस्तेन तत्त्वोपदेशात् ।
    सद्विद्याचार्यवत्त्वे प्रथयति च परब्रह्मवित्तिन्तथान्या-
    प्याचार्यादित्यधीते नियमविधिरसौ निश्चितो नीतिविद्भिः ॥
विश्वास-प्रस्तुतिः - 22
  1. सिद्धे व्युत्पत्तिराद्या न भवति न च धीर्लक्षणाद्युज्यते़ऽस्मिन्
    किं शास्त्रेणान्यसिद्धे न च निशमयितुस्सिद्धबोधे फलं स्यात् ।
    ब्रह्मण्येवन्न मानान्युपनिषद इति स्तम्भिते तद्विचारे
    शास्त्रारम्भं चतुस्सूत्र्यघटयदुचितैर्न्यायभेदैश्चतुर्भिः ॥
३४-तमाहोबिल-यतिः - 22
  1. सिद्धे व्युत्पत्तिरित्यादि । आद्या व्युत्पत्तिः - प्राथमिकः शक्तिग्रहः । सिद्धे न भवति - वृद्धव्यवहारादन्यत्र व्युत्पत्त्यसंभवात् तस्य च कार्यार्थैकपरत्वात्, सिद्धेऽर्थे न सिध्यतीत्यर्थः । अस्मिन् - ब्रह्मणि विषये । लक्षणाद् धीः - गन्धवती पृथिवीत्यादिष्विव विशिष्य व्युत्पत्तिः । न च युज्यते - न संभाव्यते । जगत्कारणत्वादिलक्षणस्यासंभवादिति भावः । अन्यसिद्धे किं शास्त्रेण - अनुमानप्रमाणसिद्धे शास्त्रेण किं कार्यम्? अप्राप्ते हि शास्त्रमर्थवदित्यर्थः । निशमयितुः - श्रोतुः । सिद्धबोधे - सिद्धार्थबोधे । फलं च न स्यात् - किमपि फलं च न स्यात् । पुरुषप्रवृत्तिसाध्यस्य श्रवणे हि पुरुषस्य फलम् । एवम् - उक्तप्रकारेण विरोधदर्शनात् । उपनिषदो ब्रह्मणि विषये न मानानि - न प्रमाणानि । इति तद्विचारे स्तम्भिते - एवमाक्षेपेण ब्रह्मविचारप्रवृत्तौ प्रतिबद्धायाम् । चतुःसूत्री - ‘अथातः’ इत्यादिसूत्रचतुष्टयी । उचितैः - तत्तदाक्षेपनिरसनयोग्यैः । चतुर्भिर्न्यायभेदैः - शिशूनामम्बातातमातुलचन्द्रादिशब्दार्थशक्तिग्रहन्यायेन सिद्धार्थेऽप्याद्यव्युत्पत्तिः संभाव्यत एवेति प्रथमो न्यायः, जगज्जन्मादीनामुपलक्षणविधया विशेषणविधया वा लक्षणत्वसंभवाद् युगपज्जगत्प्रलयसृष्ट्यादीनां श्रुतिपुराणादिसिद्धत्वेन जगत्कारणत्वस्य ब्रह्मलक्षणत्वसंभवाच्च गन्धवती पृथिवी, सास्नादिमान्गौरित्यादाविव लक्षणतो विशिष्य व्युत्पत्तिर्योयुज्यत इति द्वितीयः, अङ्कुरादिकं सकर्तृकं कार्यत्वादित्यनुमानप्रयोगे कार्यत्वहेतोः सर्वज्ञत्वसर्वशक्तित्वादिविशिष्टकर्तृकत्वव्याप्त्यभावेन सिसाधयिषितेश्वरासाधनेन मानान्तरागम्यत्वादीश्वरस्य शास्त्रैकगम्यत्वं सिद्धमिति तृतीयः, वेदान्तवाक्यार्थज्ञानस्य तव गृहे निधिरस्तीत्यादिवाक्यार्थज्ञानतुल्यतया निरतिशयानन्दब्रह्मविषयकत्वेन स्वयमेव पुरुषार्थस्वरूपत्वात् नाफलत्वमिति चतुर्थः, एवं चतुर्भिर्न्यायविशेषैः । शास्त्रारम्भमघटयत् - प्रतिबद्धां वेदान्तशास्त्रश्रवणप्रवृत्तिं तत्प्रतिबन्धकपूर्वोक्तशङ्काचतुष्टयनिराकरणेन पुनः प्रावर्तयदित्यर्थः ॥
कुमार-वरदः - 22
  1. एवमध्ययनानन्तरमथातो धर्मजिज्ञासेत्यारभ्यानावृत्तिः शब्दादनावृत्तिः शब्दादित्येवमन्तमनुक्रमेण कर्तव्यं मीमांसाशास्त्रशरीरमिति प्रमाणतर्काभ्यां प्रकटमेवोपपादितम् । अतःपरं मीमांसाशास्त्रैकदेशभूतस्य शारीरकशास्त्रस्यानारम्भणीयत्वशङ्कां शारीरकाद्यभूतचतुरधिकरणी चतुर्भिर्न्यायविशेषैः प्रशमयतीति शास्त्रोपक्रमप्रतिपादनायोपक्रमते - सिद्ध इति । उक्तञ्च पूर्वाचार्यैः - ‘व्युत्पत्त्यभावात्प्रतिपत्तिदौस्स्थ्यादन्येन सिद्धेरफलत्वतश्च । अमात्वमाशङ्क्य निराचकार न्यायैश्चतुर्भिः प्रतिपाद्य तत्तत् ॥’ इति । उक्तमन्यैरपि शारीरकशास्त्रन्यायनिबन्धनग्रन्थकर्तृभिर्धन्यबुद्धिभिः - ‘व्युत्पत्त्यभावः प्रतिपत्तिदौस्स्थ्यमन्येन सिद्धत्वमथाफलत्वम् । एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि ॥’ इति । इयं केवलचतुःसूत्री तावदेका पेटिका शास्त्रारम्भसमर्थनरूपार्थैक्यात्, तत्परिपन्थिपरोक्तन्यायनिराकरणरूपप्रयोजनैक्याच्च । तदवान्तरपेटिके द्वे द्वे सूत्रे । तत्र पूर्वसूत्रद्वितयं सिद्धप्रतिपादकस्य शब्दस्य व्युत्पत्तिसमर्थनेन वेदान्तवाक्यप्रामाण्यसमर्थनार्थम् । उत्तरं च तात्पर्यलिङ्गसमर्थनेन तदर्थमेवेति पेटिकाविभागः । तत्रापि पूर्वपेटिकायां सिद्धपरस्य शब्दसामान्यस्य व्युत्पत्तिः समर्थ्यते प्राथमिकेन सूत्रेण । द्वितीयेन तु सिद्धविशेषपरस्य ब्रह्मशब्दस्य व्युत्पत्तिसमर्थनमित्यवान्तरविभागः । उत्तरपेटिकायां तु तात्पर्यलिङ्गसमर्थनं ब्रह्मणि वेदान्तवाक्यानाम् । तात्पर्यलिङ्गानि च - ‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥’ इति षोढा विभज्यन्ते । तत्र मानान्तरागोचरतारूपमपूर्वत्वलक्षणं तात्पर्यलिङ्गं शास्त्रयोन्यधिकरणे सिध्यति । साफल्यलक्षणं समन्वयाधिकरणे । तत्रापि शास्त्रसाफल्यं पूर्वत्र, तज्जन्यज्ञानसाफल्यमुत्तरत्रेति पेटिकाधिकरणविभागः प्रसिध्यति । एतत्सर्वमनुक्रमेण तावदुपपादयामः । आद्या व्युत्पत्तिः सिद्धेऽर्थे न सिध्यतीति प्रथमाधिकरणपूर्वपक्षः । द्वितीयाधिकरणे पूर्वपक्षं दर्शयति - नचेति । लक्षणतो हि विशेषव्युत्पत्तिः शब्दानां, गन्धवती पृथिवी, सास्नादिमान्गौरित्यादौ । आहुश्च ‘व्यावृत्तिर्व्यवहारो वा लक्षणस्यार्थः’ इति । अस्मिंस्तु ब्रह्मणि जगत्कारणत्वलक्षणं न जाघटीति, तेन न योयुज्यते विवक्षितब्रह्मशब्दस्य व्युत्पत्तिरिति । तृतीयाधिकरणपूर्वपक्षमाह - किमिति । अनुमानसिद्धे किं शास्त्रेणेत्यर्थः । चतुर्थस्याधिकरणस्य पूर्वपक्षमाह - नचेति । निशमयितुः - श्रोतुरित्यर्थः । एवं ब्रह्मण्युपनिषदो न मानानीति ब्रह्मविचारे स्तम्भिते शारीरकशास्त्रारम्भं चतुस्सूत्री चतुर्भिर्न्यायविशेषैः समजीघटत् । सिद्धे व्युत्पत्तिसद्भावात् ब्रह्मलक्षणताप्रतिपत्तिसौष्ठवात् मानान्तरागम्यत्वसाधनाद् वेदान्तवाक्यजनितज्ञानानां तव गृहे निधिरस्तीत्यादिन्यायेन निरतिशयानन्दब्रह्मविषयत्वेन स्वयमेव पुरुषार्थरूपत्वादिति चत्वारो न्यायाश्चतुरधिकरणीनिर्णेयाः ॥22॥
मूलम् - 22
  1. सिद्धे व्युत्पत्तिराद्या न भवति न च धीर्लक्षणाद्युज्यते़ऽस्मिन्
    किं शास्त्रेणान्यसिद्धे न च निशमयितुस्सिद्धबोधे फलं स्यात् ।
    ब्रह्मण्येवन्न मानान्युपनिषद इति स्तम्भिते तद्विचारे
    शास्त्रारम्भं चतुस्सूत्र्यघटयदुचितैर्न्यायभेदैश्चतुर्भिः ॥
विश्वास-प्रस्तुतिः - 23
  1. सिद्धे व्युत्पत्त्यलाभे स्वरिव फलतया लक्ष्मभङ्गे च लभ्यं
    ब्रह्मान्योक्त्या़ऽनुमानप्रमितमपि भवत्वंशतश्शास्त्रवेद्यम् ।
    विध्यर्थत्वेऽप्यबाधात् परविषयवचस्स्वार्थमानं भवेदि-
    त्यन्वारुह्योक्तिदैन्यन्न हि सहत ऋजुस्सूत्रकृद्वावदूकः ॥
३४-तमाहोबिल-यतिः - 23
  1. सिद्धे व्युत्पत्त्यलाभ इत्यादि । सिद्धे व्युत्पत्त्यलाभे ब्रह्म स्वरिव फलतया लभ्यम् - अस्तु नामाद्यव्युत्पत्तिः कार्यार्थ एव न सिद्धे, तथापि ब्रह्मस्वरूपं यागादिफलभूतस्वर्गादिस्वरूपवत् ‘ब्रह्मविदाप्नोति परम्’ इति वाक्यविहितवेदनफलतया लभ्यत एव । लक्ष्मभङ्गे च ब्रह्मान्योक्त्या लभ्यम् - लक्षणासंभवेऽपि ब्रह्म आधुनिकानां पुराणप्रसिद्धरावणयुधिष्ठिरसुयोधनादिवदन्येषां पुराविदामुक्तिपरम्परया लभ्यताम् । अनुमानप्रमितमपि, अंशतः शास्त्रवेद्यं भवतु - अस्त्वनुमानप्रसिद्धं ब्रह्म । तथापि निरतिशयानन्दरूपत्वाद्यनन्तगुणविशिष्टतारूपांशतः शास्त्रवेद्यमपि भवत्येव । विध्यर्थत्वेऽप्यबाधात्परविषयवचः स्वार्थमानं भवेत् - विधिशेषत्वेऽप्यबाधितार्थकत्वाद् ब्रह्मविषयकं वेदान्तवाक्यं स्वार्थप्रमाणं भवतु । इत्यन्वारुह्योक्तिदैन्यम् - एवंरूपमन्वारुह्य परपक्षमङ्गीकृत्य सान्त्वेन समाधानरूपं दीनकृत्यम् । ऋजुः - आर्जवं मनोवाक्कायानामैकरूप्यं, तद्वान् । वावदूको महावाग्मी । सूत्रकृत् - सूत्रकारः । न सहते हि - न मर्षयेदित्यर्थः । तथा च प्रतिपक्षप्रतिक्षेपकपरमार्थदूषणे सति वावदूकः सूत्रकारो हृद्यन्यद्वाच्यन्यदिति द्विरूपां प्रक्रियां नानुसरतीत्यर्थः ॥
कुमार-वरदः - 23
  1. अत्र केचिद्वदन्ति ‘चतुरधिकरणीपूर्वपक्षः खल्वन्वारुह्यवादेनापि परिहर्तुं शक्यते । तत्किमस्मिन्नाङ्गीक्रियते’ इति । तत्परिहारमन्वारुह्योक्तिवादस्वरूपोपन्यासपूर्वकमाह - सिद्ध इति । इयं किल तस्य स्वरूपोपन्यासप्रक्रिया - मास्तु नामाद्या व्युत्पत्तिः सिद्धे । तथापि यागादिफलभूतस्वर्गादिस्वरूपवत् ‘ब्रह्मविदाप्नोति परम्’ इति वाक्यविहितवेदनफलतया परं ब्रह्मापि सिध्यतु । लक्षणभङ्गेऽपि पुराणादिप्रसिद्धरावणयुधिष्ठिरसुयोधनादिवत् तत्तदौपनिषदसूक्तप्रसिद्ध्या, ब्रह्मापि सिध्यतु । नहि काव्येतिहासपुराणादिषु सर्वत्रापि लक्षणं लक्ष्यते । नच तावता तत्तदर्थासिद्धिरनुवर्ण्यते । अस्त्वनुमानप्रसिद्धमपि ब्रह्म तथापि निरतिशयानन्दरूपत्वाद्यनन्तगुणविशिष्टतया शास्त्रवेद्यमपि भवत्येव । विधिशेषत्वेऽपि वेदान्तवाक्यानामबाधितानां ‘अग्निर्हिमस्य भेषजम्’ इत्यादिवत् स्वार्थप्रमाण्ये को विरोध इत्यन्वारुह्यवादः । तथाच परमार्थदूषणे सति किमिति नाम दीनकृत्यमन्वारुह्यवादमाचरामीति भगवान् बादरायणो नारायणपरं शास्त्रं साक्षाद् युक्तिभिरेवासाधयदिति । ऋजुः - आर्जवं मनोवाक्कायानामैकरूप्यम् । तथाच सूत्रकारः हृद्यन्यद्वाच्यन्यदिति द्विरूपां प्रक्रियां नानुसरतीत्यर्थः ॥23॥
मूलम् - 23
  1. सिद्धे व्युत्पत्त्यलाभे स्वरिव फलतया लक्ष्मभङ्गे च लभ्यं
    ब्रह्मान्योक्त्या़ऽनुमानप्रमितमपि भवत्वंशतश्शास्त्रवेद्यम् ।
    विध्यर्थत्वेऽप्यबाधात् परविषयवचस्स्वार्थमानं भवेदि-
    त्यन्वारुह्योक्तिदैन्यन्न हि सहत ऋजुस्सूत्रकृद्वावदूकः ॥
विश्वास-प्रस्तुतिः - 24
  1. द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन्
    द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतज्जन्यबुद्ध्योः ।
    औचित्यानेकभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयं
    शास्त्रारम्भार्थमेकं त्रितय(मिह)मपि परं शास्त्रमित्याहुरेके ॥
३४-तमाहोबिल-यतिः - 24
  1. द्वाभ्यामित्यादि । आदौ - शारीरकशास्त्रारम्भे प्रथमतः । द्वाभ्याम् - ‘अथातो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः’ इति जिज्ञासाधिकरणजन्माद्यधिकरणाभ्याम् । सिद्धरूपे परस्मिन् - सिद्धे ब्रह्मणि । प्रतीतिप्रजननमुदितम् - प्रतीत्युत्पत्तिरुक्ता । तदनु - ततः परम् । द्वाभ्याम् - ‘शास्त्रयोनित्वात् । तत्तु समन्वयात्’ इत्यधिकरणाभ्याम् । शास्त्रतज्जन्यबुद्ध्योः - प्रतीतिकारणभूतस्य शास्त्रस्य तज्जन्याया ब्रह्मप्रतीतेश्च । वैफल्यशङ्का परिहृता - विफलत्वशङ्कापरिहारेण साफल्यं समर्थितम् । औचित्यानेकभाष्यस्वरसगतिमती - औचित्यम् - प्रधानभूतसकलवेदान्तचिन्तार्थचिन्तान्तरत्वरूपोपोद्धातलक्षणतौल्यम् । अनेकेषु भाष्येषु स्वरसा हृद्या या गतिः - चतुस्सूत्र्या उपोद्धातत्वेनैवावगतिस्तच्छालिनी । इयं वर्तनी - चतुःसूत्र्या उपोद्धातत्वनिर्वाहरूपा एकपदी । प्राक्तनी - श्रीभाष्यकारतच्छिष्यपरम्परानुगततया चिरकालानुवृत्ता । एके - मेघनाथ(दारि)सूरिप्रभृतयस्तु । इह - शारीरकशास्त्रे । एकम् - जिज्ञासाधिकरणमेकमेव । शास्त्रारम्भार्थम् - शास्त्रोपोद्घातरूपम् । परम् - ततः परम् । त्रितयम् - अधिकरणत्रयम् । शास्त्रमित्याहुः - शास्त्रोपोद्धातो न भवति, किन्तु शास्त्रात्मकमेवेत्यभ्यधुः ॥
कुमार-वरदः - 24
  1. चतुरधिकरण्यां पूर्वोत्तरपेटिकयोः प्रकारान्तरेणाप्यर्थविभागं दर्शयन् चतुर्णामधिकरणानामुपोद्घातत्वं स्वपक्षेण प्रदर्श्य ‘एकमेवाधिकरणमुपोद्घातः’ इत्येकदेशिनां मतमपि प्रधानार्थविरोधाभावेन प्रौढिप्रकर्षादनुवदति - द्वाभ्यामिति । अयमर्थविभागः - द्वाभ्यामधिकरणाभ्यां सिद्धे ब्रह्मणि प्रतीत्युत्पत्तिरुक्ता, तस्याः प्रतीतेस्तत्कारणभूतस्य शास्त्रस्य च साफल्यं द्वाभ्यामधिकरणाभ्यामुच्यते । इत्थं चतुरधिकरणी शास्त्रोपोद्घातः । उपोद्घातलक्षणस्य प्रधानभूतसकलवेदान्तचिन्तार्थचिन्तान्तररूपेषु चतुर्ष्वधिकरणेषु साधारणत्वात् । इममवार्थं सहेतुकमुपपादयति - औचित्येति । औचित्यम् - अर्थौचित्यमुपोद्धातत्वोपपादकलक्षणतौल्यमित्यर्थः । अनेकेषु भाष्येषु चतुस्सूत्र्युपोद्घातत्वेन प्रतीयते । प्राक्तनी चेयं वर्तनी - श्रीमद्भाष्यकारशिष्यधुरन्धरैरात्रेयाचार्यश्रीविष्णुचित्तवरदाचार्यवादिहंसनवाम्बुदप्रभृतिभिस्तत्तद्ग्रन्थेषूपपादनात् । मेघनाथ(दारि)सूरिप्रभृतयस्तु ‘अथातो धर्मजिज्ञासेति सूत्रवदेकमेव वेदान्तसूत्रं शास्त्रोपोद्घातः’ इति प्रतिपेदिरे, तदपि वैभववादत्वादुपन्यस्याम इत्याह - शास्त्रेति ॥ 24॥
मूलम् - 24
  1. द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन्
    द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतज्जन्यबुद्ध्योः ।
    औचित्यानेकभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयं
    शास्त्रारम्भार्थमेकं त्रितय(मिह)मपि परं शास्त्रमित्याहुरेके ॥
विश्वास-प्रस्तुतिः - 25
  1. यत्तत्सेनेश्वरार्यैरगणि वकुलभृत्किङ्करैरङ्ग्यकारि
    व्यासार्यैर्न्यासि च(तत्) द्विश्श्रुतमिति विशदं विष्णुचित्तैर्विवव्रे ।
    अश्रौषं शेषकल्पादहमपि (यदिदं) विदुषो वादिहंसाम्बुवाहात्
    अद्धा निर्द्धार्यते़ऽतश्चतुरधिकरणी ब्रह्मचिन्तोपयुक्ता ॥
३४-तमाहोबिल-यतिः - 25
  1. यत्तदित्यादि । यत् - यस्मात्कारणात् । तत् - चतुःसूत्र्याः साकल्येन शास्त्रोपोद्धातरूपत्वम् । सेनेश्वरार्यैः - श्रीरङ्गराजान्तरङ्गपरिकरतल्लजैः शारीरकाधिकरणार्थसंग्राहकपद्यनिर्मातृभिः सेनेश्वरार्यैः । अगणि - स्वकृतग्रन्थे निरणायि । वकुलभृत्किंकरैः - वरदनारायणभट्टारकाख्यैर्न्यायसुदर्शनकारैः । अङ्ग्यकारि - स्वप्रबन्धेऽङ्गीकृतम् । व्यासार्यैः - सुदर्शनगुरुभिः । तत् - चतुःसूत्र्याः शास्त्रोपोद्धातरूपत्वम् । श्रुतमिति - आचार्यसकाशादेवमेव श्रुतमिति । द्विः - श्रुतप्रदीपिकाश्रुतप्रकाशिकाभ्यां वारद्वयम् । न्यासि - व्याख्यातम् । तत्, विष्णुचित्तैः - शठमर्षणगोत्रप्रभवैः प्रमेयसंग्रहादिग्रन्थकर्तृभिः श्रीविष्णुचित्तार्यैः । विशदम् - विस्पष्टतया । विवव्रे - विवृतम् । अहमपि - आचार्यानुग्रहविशेषेण वेदान्तद्वयप्रतिष्ठापनधुरन्धरोऽहमपि । शेषकल्पात् - प्रकृष्टविज्ञानभूम्ना फणिराजतुल्यात् । वादिहंसाम्बुवाहात् - न्यायकुलिशादिग्रन्थनिर्मातुरात्रेयरामानुजदेशिकेन्द्रात् । यत् - यतः । इदम् - चतुस्सूत्र्याः साकल्येन शास्त्रोपोद्धातरूपत्वम् । अश्रौषम् - श्रुतवानस्मि । अतः - तस्मात्कारणात्, अनेकाचार्यनिरूढत्वात् मयाप्याचार्यसकाशे तथा श्रुतत्वाच्च । चतुरधिकरणी - जिज्ञासाधिकरणजन्माद्यधिकरणशास्त्रयोनित्वाधिकरणसमन्वयाधिकरणात्मिकाऽधिकरणचतुष्टयी सकलाऽपि । ब्रह्मचिन्तोद्यमार्था - ब्रह्मविचारारम्भनिर्वाहकतया शास्त्रोपोद्धातरूपेति । अद्धा - तत्वेन । निर्धार्यते - निश्चीयते । अस्माभिरिति शेषः । यद्वा ‘यत्तत्कृत्यं श्रुतीनाम्’ इत्यादाविव यत्तदिति पदद्वयं यत्पदार्थे वर्तते । तथा च यत्तदगणि, अङ्ग्यकारि न्यासि विवव्रे च तदिदमहमप्यश्रौषम्, अतश्चतुरधिकरणी ब्रह्मचिन्तोद्यमार्था निर्धार्यत इत्यन्वयः ॥
कुमार-वरदः - 25
  1. तस्य पक्षस्य वैभववादत्वमेव प्रदर्शयितुं सर्वलोकसंप्रतिपन्नबह्वाचार्यग्रन्थसंवादनात् चतुर्णामधिकरणानाम् उपोद्घातत्वमेव प्रकटयति - यत्तदित्यादिना । सेनेश्वरार्याः - श्रीरङ्गराजान्तरङ्गपरिकरतल्लजाः शारीरकाधिकरणार्थसंग्राहकपद्यनिर्मातारः । वकुलभृत्किंकराः - वरदनारायणभट्टारका न्यायसुदर्शनकर्तारः । व्यासार्याः - श्रुतप्रकाशिकाश्रुतप्रदीपिकानिर्मातारो हारीतकुलाचार्याः । द्विरिति - द्वयोरपि ग्रन्थयोरुपात्तत्वमुच्यते । श्रीविष्णुचित्ताः - शठमर्षणगोत्रप्रभवाः प्रमेयसंग्रहादिग्रन्थकर्तारः । सकलाचार्यसंभाव्या वादिहंसाम्बुवाहा आत्रेयवंशजा न्यायकुलिशादिग्रन्थनिर्मातारः । इत्थं कति कति आत्रेयवरदाचार्यप्रभृतयो वेदान्तशास्त्रसंरक्षकग्रन्थान् व्यरीरचन् । तेन बह्वाचार्यग्रन्थसंवादाद् वयमपि चतुरधिकरण्युपोद्घातत्वपक्षमेवाचक्ष्मह इति निर्धार्य कथयति - अद्धेति ॥25॥
मूलम् - 25
  1. यत्तत्सेनेश्वरार्यैरगणि वकुलभृत्किङ्करैरङ्ग्यकारि
    व्यासार्यैर्न्यासि च(तत्) द्विश्श्रुतमिति विशदं विष्णुचित्तैर्विवव्रे ।
    अश्रौषं शेषकल्पादहमपि (यदिदं) विदुषो वादिहंसाम्बुवाहात्
    अद्धा निर्द्धार्यते़ऽतश्चतुरधिकरणी ब्रह्मचिन्तोपयुक्ता ॥
विश्वास-प्रस्तुतिः - 26
  1. व्युत्क्रम्यात्राद्यतुर्यावभिदधति नयौ केचिदप्राप्तमेतत्
    बोधासिद्धौ कथं तत्फलमिह विमृशेत् सिद्धवत्कारमान्द्यात् ।
    मध्यौ द्वौ रूपनामप्रजननविषयौ यद्विदुस्तच्च मन्दं
    सत्युक्तेऽपेक्षितेऽर्थे विफलविभजनं नोचितं नीतिसूत्रे ॥
३४-तमाहोबिल-यतिः - 26
  1. व्युत्क्रम्येत्यादि । केचित् - दर्शनान्तरस्थाः केचन । अत्र - ब्रह्ममीमांसाशास्त्रे । आद्यतुर्यौ नयौ व्युत्क्रम्याभिदधति - आद्यसूत्रे प्रतीतिसाफल्यकथनम्, प्रतीत्युत्पत्तिकथनं तु समन्वयसूत्र इत्यर्थक्रमेण समन्वयसूत्रं प्रथमं विन्यस्य जिज्ञासासूत्रमनन्तरं विन्यस्याभिदधति । एतत् - एवं कल्पनम् । अप्राप्तम् - अयुक्तम् । बोधासिद्धौ - हेतुभूतस्य ब्रह्मबोधस्य पूर्वमसिद्धौ । तत्फलम् - ब्रह्मबोधफलं विचारम् । इह - प्रथमविन्यस्ते जिज्ञासासूत्रे । कथं विमृशेत् - कुतः प्रतिपादयेत् । सिद्धवत्कारमान्द्यात् - अनागतावेक्षणन्यायेन सिद्धं कृत्वा । चिन्तनस्य मान्द्यात् - मन्दगतित्वादयुक्ततैवेत्यर्थः । मध्यौ - जिज्ञासाधिकरणसमन्वयाधिकरणमध्यनिविष्टौ । द्वौ - जन्मादिनयशास्त्रयोनित्वनयौ । रूपनामप्रजननविषयौ यद्विदुस्तच्च मन्दम् - तत्र जन्मादिनयो रूपप्रपञ्चनिर्माणविषयः, शास्त्रयोनित्वनयो नामप्रपञ्चनिर्माणविषय इति विभक्तविषयौ यदवेदिषुस्तच्च मन्दमनुचितम् । अर्थे - रूपनामप्रपञ्चयोः साधारण्येन जन्मरूपेऽर्थे । सत्युक्ते - उक्ते सति । श्रुत्यैव साक्षादुक्ते भवद्भिरपि तथैवोक्ते सति । अपेक्षिते - तस्मिन्नपेक्षिते च सति । नीतिसूत्रे - काव्यपुराणादिवद्विफलोक्तिपुनरुक्त्याद्यनर्हे न्यायकलापरूपे सूत्रे । विफलविभजनं नोचितम् - विभज्योक्तेः फलाभावेऽपि विभज्यार्थकथनमनुचितमेवेत्यर्थः ॥
कुमार-वरदः - 26
  1. अत्र स्वपक्षेण चतुस्सूत्र्युपोद्घातत्वमुक्त्वा व्यत्ययेन चतुस्सूत्र्यां परवाद्युक्तां प्रक्रियामन्यायमूलतयाऽनुभाष्य प्रतिक्षिपति - व्युत्क्रम्येति । इत्थं किलाहुरन्ये ‘शारीरकाद्यसूत्रे प्रतीतिसाफल्यकथनम् । प्रतीत्युत्पत्तिकथनं तु समन्वयसूत्रे’ इति । एतदप्राप्तमेव । कथमप्राप्तत्वमित्याशङ्क्य तत्र हेतुमाह - बोधासिद्धाविति । सति धर्मिणि धर्माश्चिन्त्यन्त इति हि न्यायः । तेन सिद्धे बोधे साफल्यासाफल्यचिन्तनं न्याय्यम् । न पुनः प्रागेव साफल्यादिचिन्तनं क्रियते । अनागतावेक्षणन्यायेन सिद्धं कृत्वा चिन्त्यत इति चेत् तदपि न, तस्य न्यायस्य मन्दगतित्वात् । तदिदमाह - सिद्धवत्कारमान्द्यादिति । परपरिकल्पितं प्रक्रियान्तरमपि प्रतिक्षिपति - मध्याविति । रूपप्रपञ्चनिर्माणकथनं जन्माद्यधिकरणे, नामप्रपञ्चनिर्माणकथनं शास्त्रयोन्यधिकरण इति तैरुच्यते । तद्वार्तम्, ‘इमानि भूतानि’ इति रूपनामप्रपञ्चयोर्जन्मनि साधारण्येन श्रुत्यैव साक्षादुक्ते भवद्भिरपि तथैवोक्ते तस्मिन्नपेक्षिते च सति, विफलविभजनममनुचितमेवेति भावः । पुराणादिषु साधारण्येनैकवारमुच्यते, पुनर्विभज्याप्युच्यते, तद्वदस्मिन्निर्वाह इति चेत् तत्राह - नीतिसूत्र इति । काव्यपुराणादिषु यथाकथंचित्कथनमस्तु । न्यायनिबन्धनात्मके शास्त्रे सफलमेव सकलं सर्वदा वक्तव्यमिति नीतिविदां निर्णयः । निष्फलं च भवत्कथितं विभजनमित्याचक्ष्महे ॥26॥
मूलम् - 26
  1. व्युत्क्रम्यात्राद्यतुर्यावभिदधति नयौ केचिदप्राप्तमेतत्
    बोधासिद्धौ कथं तत्फलमिह विमृशेत् सिद्धवत्कारमान्द्यात् ।
    मध्यौ द्वौ रूपनामप्रजननविषयौ यद्विदुस्तच्च मन्दं
    सत्युक्तेऽपेक्षितेऽर्थे विफलविभजनं नोचितं नीतिसूत्रे ॥