[[TODO: परिष्कार्यम्]]
श्रीः
श्रीमद्-वेद-मार्ग-प्रतिष्ठापनाचार्य–
परमहंस-परिव्राजकाचार्य–
सर्व-तन्त्र-स्वतन्त्रोभय-वेदान्ताचार्य-
श्रीभगवद्रामानुज-सिद्धान्त-निर्धारण-सार्वभौम-
श्रीवण्-शठकोप–श्रीलक्ष्मी-नृसिंह–शठकोप-यतीन्द्र–महादेशिकैर् अनुगृहीता
सारावलीभूमिका ॥
श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः ।
श्रीमते वकुलभूषणमहादेशिकाय नमः ।
श्रीमते भाष्यकाराय महादेशिकाय नमः ।
श्रीमते निगमान्त महादेशिकाय नमः ।
श्रीमद्-आदि-वण्-शठ-कोपयतीन्द्र महादेशिकाय नमः ।
श्रीवण्शठकोप–श्रीशठकोपयतीन्द्र–महादेशिकाय नमः ।
श्रीलक्ष्मीनृसिंह-दिव्यपादुकासेवक–श्रीवण्-शठकोप–
श्री-शठ-कोप-रामानुज-यतीन्द्र–महादेशिकाय नमः ।
श्रीलक्ष्मीनृसिंह-दिव्य-पादुका-सेवक–
श्रीवण्-शठकोप-श्रीरङ्गनाथ-शठकोप-यतीन्द्रमहादेशिकाय नमः ॥
स्थूलातिसूक्ष्म-चिद्-अचिद्-
विशिष्टं कार्यकारणम् ।
दिव्यात्यद्भुत-रूपं
श्रीनृसिंहं प्रणमाम्यहम् ॥
ज्वालात-पत्र–वट–भार्गव-मा-विलोल-
कारञ्ज-योग-बिल-पावन-सूकराख्याः ।
श्री-तापनीय-महितोज्ज्वल–मा-नृसिंह-
मूर्तीश् शुभा नव-विधाश् शरणं प्रपद्ये ॥
श्रीमच्-छ्री-शठ-कोप-योगि–शठ-जिद्-रामानुजानुग्रह-
स्फारापाङ्ग-समेधमान-परमानन्द-प्रबन्धात्मना ।
श्रद्धाराद्धर-मा-नृसिंह-चरण-त्राणेन विन्यस्यते
श्रीलक्ष्मी-नरसिंह-योगि-मणिना सारावली-भूमिका ।
[[ii]]
इह खलु लोके
‘चेतनास् सर्व-संसारस्य दुःख-भूयिष्ठत्व-कथनम् । अनेकजन्मसाहस्र संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ॥
इत्युक्तरीत्या अविद्याकर्मवासनारुचिप्रकृतिसंबन्धरूप जन्मजरामरणादिविचित्रसंसारचके " संसारवागुरान्तस्थो लूनपक्ष इवाण्डजः । अपश्यन्निर्गमोपायमागामिष्वपि जन्मसु ॥ ’ इत्येवंप्रकारेण बम्भ्रम्यमाणाः ‘भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोम्यबुद्धेर्जननीम्’ इत्युक्तरीत्या दुर्निवारमहत्तरत्रिगुणात्मकप्रकृतिपिशाचिकायेशसंजाततत्वाज्ञानविपरीत- ज्ञानविषयप्रावण्यवन्तः " 6 — मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहेचेत् प्रीतिमान् मूढो भविता नरकेऽपि सः ॥ ’ • अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपनम् । चर्मावरुद्धं दुर्गन्धि पात्रं मूत्रपुरीषयोः ॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यंच भूतावासमिमं त्यजेत् ॥ ’ इत्यादिना अत्यन्त हेयत्वेनैवावगन्तव्य शरीरादिषु भोग्यताबुद्धिं कुर्वन्तः ‘त्वं मेऽहं मे कुतस्तत्’ इत्यभियुक्तोक्तरीत्या भ्रमरूपाहङ्कारममकारकलुषितहृदयाः ‘पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव कर्तुमारभते पुनः ॥ ’ इत्युपर्युपरि अपराधपरम्परया तत्फलान्यनुभुञ्जानाः ’ तद्यथा हिरण्यनिधि निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः एवमेवैताः प्रजा अहरह- र्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इति श्रुत्युक्तरीत्या यथावस्थितपरमात्मज्ञानरहिताः स्वरूपप्राप्तपरिपूर्ण- भगवदनुभवात्मककैक्र्यमलभमानाः पुनः पुनरावर्तन्ते ॥ संसारसन्ता रोपायभूतभक्तिप्रपत्तिस्वरूपनिरूपणम् । एतादृशसंसृतिसन्तारोपायश्च अधिकारानुगुण्येन भक्तिप्रपत्त्योरन्यतर एवेति श्रुतिस्मृत्यादिभिः प्रति- पाद्यते । तथा हि । iii ’ तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ’ ’ विज्ञाय प्रज्ञां कुर्वीत ’’ अनुविद्य विजानाति ’ ’ ओमित्यात्मानं ध्यायथ ’ ’ निचाय्य तं मृत्युमुखात् प्रमुच्यते ’ ’ आत्मानमेव लोक- मुपासीत ’ ’ द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ’ भवति ’ ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् ’ ’ नाहं वेदैर्न तपसा न दानेन न चेज्यया । भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन’ ॥ भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे । हस्तावलम्बनो को भक्तिक्रीतो जनार्दनः ’ ॥ भक्त्या परमया वापि ’ इत्यादीनि भक्तौ प्रमाणानि । मुमुक्षुर्वै शरणमहं प्रपद्ये ’ ’ तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः ’ ’ सकृदुच्चारस्संसारमोचनं 6 सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ’ ’ सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥ ’ ’ लोकविक्रान्तचरणौ शरणं तेऽवजं विभो ।’ ‘तस्यामन्यतमं जन्म संचिन्त्य शरणं व्रज ।’ ‘न्यासः पञ्चाङ्गसंयुतः । ’ ’ शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् ।’’ शरणं त्वां प्रपन्ना ये ध्यानयोगवि- वर्जिताः । ‘आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते । ’ ’ यावन्न याति शरणं त्वामशेषा- घनाशनम् । ’ 9 • उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥ ’ ’ सत्कर्मनिरताश्शुद्धास्सांख्ययोगविदस्तथा । नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥ ’ इत्यादीनि प्रपत्तौ प्रमाणानि । तत्र उपायभूतभक्तिस्तावत् — कर्म योगज्ञानयोग संस्कृतान्तःकरणसाध्या अष्टाङ्गयोगसंज्ञिता वर्णादि- नियताधिकारा वर्णाश्रमधर्मेतिकर्तव्यताका कृच्छ्रसाध्या तैलधारावद विच्छिन्नस्मृतिसन्ततिरूपा अहरह- 7 8 iv रभ्यासाचेयातिशया आपायणमनुवर्तनीया प्रारब्धेतरपुण्यपापनिवर्तिका स्वयत्नसाध्यान्तिमप्रत्ययविशेषा प्रपत्तिस्तावत्-महाविश्वासादिसंस्कृतान्तःकरणसाध्या षडङ्गयोगसंज्ञिता अनन्योपायसर्वाधिकारा प्रीतिरूपापन्ना आनुकूल्यसङ्कल्पादिमात्रपरिकरा सुकरा अभ्यासानाधेयातिशया आदेहपातम् आवृत्त्यादिक- व्यशेषरहिता प्रारब्धकर्म निवर्तनक्षमा स्वप्रयत्ननिरपेक्षान्तिमप्रत्यया प्रार्थनान्वित सकृद्भरन्यासरूपा चेति प्रीतिरूपापन्नदर्शनसमानाकारा परमपुरुषविषयिका चेति । एतदुभयमपि शास्त्रैकसमधिगम्ययथावस्थित तत्त्वत्रयज्ञानमन्तरेण न सेत्स्यति । तत्त्वत्रयनिरूपणम् । 1 शास्त्रोदितानि चेतनाचेतनेश्वरभेदेन तत्त्वानि त्रीणि । ‘एकमेवाद्वितीयम्’ इत्येकत्वव्यपदेशस्तु प्रकारप्रकारिभावेन विशिष्टैक्यविवक्षया संगच्छते । ’ अशेषचिदचित्प्रकारं ब्रह्मकमेव तत्त्वम् । तत्र प्रकार- प्रकारिणोः प्रकाराणाञ्च मिथोऽत्यन्तभेदेऽपि विशिष्टैक्यादिविवक्षया एकत्वव्यपदेशस्तदितरनिषेधश्च’ इतिन्यायसिद्धाञ्जने श्रीमदाचार्यसूक्तिः । ’ यथा प्रयोग्य आचरणे युक्त एवमेवास्मिन् शरीरे प्राणो युक्तः’ इति प्रथमं रथत्वेन निरूपितं देहं ज्ञात्वा ततस्तदन्तर्यामिणं जीवात्मानं विदित्वा ततः परं तदन्तर्यामी परमात्मा वेदितव्य इत्युक्तक्रमेण प्रथमं अचेतनतत्त्वं निरूप्यते । । ’ अचेतना परार्थाच नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते ’ ॥ इत्यचेतनतत्त्वं जडं नित्यं सततपरिणामशालि गुणत्रयमयं जीवकर्म फलोपभोगस्थानं च भवति । ’ देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ॥ ’ नायं देवो न मर्त्यो वा न तिर्यक्स्थावरोऽपि वा । ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः ॥ ’ दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः’ इत्यादिप्रमाणानुसारेण देहेन्द्रियादिविलक्षणः अणु- स्वरूपस्स्वयंप्रकाशो नित्योऽतिसूक्ष्मतया सर्वांचेतनान्तःप्रवेशयोग्यः प्रतिशरीरं भिन्नो ज्ञानानन्दस्वरूपः परशेष- तैकरसः पराधीनस्वरूपस्थितिप्रवृत्तिकः परिपूर्णभगवदनुभवयोग्यश्चेतनः । सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनाः , विधृते तिष्ठतः ’ ’ पतिं विश्वस्य ’ 9 , ’ एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ ’ अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा’ ‘एकमेवाद्वितीयम् ’ ’ तदैक्षत बहुस्यां प्रजायेयेति ’ ’ सत्यं ज्ञानमनन्तं ब्रह्म " ’ नित्यं विभुं सर्वगतं सुसूक्ष्मम्’ ’ अम्भस्य- पारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् ’ ’ य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ’ 6 " देवर्षिपितृसिद्धाद्यै स्त्वयापि जगतां हिते । निर्मितं भगवद्रूपमर्चा सा शुद्धचिन्मयी ॥ ’ • कलौ जगत्पतिं विष्णु सर्वस्रष्टारमीश्वरम् । 6 नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता जनाः ॥ ’ षाड्गुण्याद्वासुदेवः परइति स भवान् मुक्तभोग्यो बलाढयात् बोधात् संकर्षणस्त्वं हरसि वितनुषे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नस्सर्गधर्मौ नयसि च भगवन् शक्तितेजोऽनिरुद्धो बिभ्राणः पासि तत्त्वं गमयसि च तथाव्यूह्य रङ्गाधिराज ॥ ’ ‘संसृत्यक्षरवैष्णवाध्वसु ’ कृतादि ’ ऐश्वर्यमक्षरगतिं परमं पदं वा ’ यः पुनरेतं त्रिमात्रे- णोमित्यनेन’ इत्यादिना नियमेन सर्वाधारस्सर्वनियन्ता सर्वशेषी अत एव सर्वशरीरी सङ्कल्पादिरूप- व्यापारभेदेन सर्वकार्यं प्रति सर्वकारणभूतः भूतभविष्यद्वर्तमानकालत्रयेऽपि एकरूपस्वरूपरूपः परम- स्वयंव्यक्त दिव्यार्षाद्य च रूपेणावस्थितः पदादित्यमण्डलक्षीरव्धिरूपस्थानत्रय नित्यनिवासः युगत्रये विशेषतः प्रकाशमानः ज्ञानशक्त्यादिगुणषट्केन त्रियुगः सङ्कर्षणप्रद्युन्नानिरुद्धरूपव्यूहत्रयेण जगत्सं- हारशास्त्रप्रवर्तन सृष्टिधर्मप्रवर्तन जगद्रक्षणतत्वबोधनरूप षड्विधव्यापारवान् ऐश्वर्य कैवल्यमोक्षरूप- पुरुषार्थत्रय हेतुभूतः प्रत्यक्षानुमानशब्दरूपप्रमाणत्रयेणाप्रतिषेध्यः त्रिमात्रोङ्कारमुख्यार्थभूत ईश्वरः । अयमेव परब्रह्मेति वेदान्तेषु जोघुष्यते । एतादृशं ब्रह्म चिदचित्प्रकारविशिष्टवेषेण एकं तत्त्वम् । लोके शरीरस्य चेतनस्य चात्यन्तभेदेन वस्तुद्वित्वेऽपि देवदत्तोऽहमेक इति एकत्वव्यवहारवत् इहापि चेतनाचेतनशरीरकस्य ब्रह्मण ऐकत्वव्यपदेशो नानात्वव्यपदेशश्च संगच्छेते । सामाना- धिकरण्यश्रुतिस्वारस्यमस्मिन्नेवार्थेऽस्ति । ’ तत्त्वमसि’ इतिसामानाधिकरण्यश्रुतौ तच्छन्दस्य जगत्का - रणत्वादिकं प्रवृत्तिनिमित्तं त्वम्पदस्याचिद्विशिष्टजीवशरीरकत्वं प्रवृत्तिनिमित्तमिति भिन्नप्रवृत्ति- निमित्तयोश्शब्दयोरेकस्मिन् ब्रह्मणि वृत्तेः । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधि- करण्यम् इति च तल्लक्षणम् । एवं भेदाभेद घटककारणसगुण निर्गुणस्वरूपादिप्रतिपादकश्रुतीनां विशिष्टैक्य- पक्षएव मुख्यार्थत्वस्वारस्यात् सर्ववेदान्तवेद्यं ब्रह्म एकएव श्रीमन्नारायणस्सर्वशेषी सर्वशरीरीच मुक्तिप्रदो मुक्तभोग्यश्चेति सर्वोपनिषत्सार इतिसिद्धम् । तथा च सारावल्यां ’ त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमु- रूपोक्तिभिश्च श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः’ इत्यनुगृहीतम् । । ID " vi देवतान्तराणां जगत्कारणत्वशङ्कानिरासेन श्रीमन्नारायणस्यैव जगत्कारणत्व निरूपणम् श्रीमतो नारायणस्यैव जगत्कारणत्वसिद्धेः ब्रह्मरुद्रेन्द्रादीनां न कारणत्वशङ्कावकाशः तेषां कार्यत्व- कर्मवश्यत्वसृज्यत्वादिना जीवत्वसिद्धेः । तथाहि– स प्रजापतिरेकः पुष्करपर्णे समभवत् । ’ ’ ललाटात क्रोधजो रुद्रोऽजायत । ’ परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः । तस्मात् रुद्रोऽभवद्देवि ’ । ’ आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ ’ क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे सम्भूतौ तस्मात्केशवनामवान् ॥’ इत्यादि । अतो न चतुर्मुखादेः कारणत्वम् । 99 " " । " ’ ब्रह्मविष्णुरुदेन्द्रास्ते सर्वे संप्रसूयन्ते’ इति भगवतोऽप्युत्पत्तिश्श्रूयते तत्कथम् उच्यते । “ अजा- यमानो बहुधाविजायते इच्छागृहीताभिमतोरुदेहः ’ ‘न भूतसंघसंस्थानो देहोऽस्य परमात्मनः ’ — धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे’ इत्यादिप्रमाणैः कर्मकृतोत्पत्त्यभावावगमात् लीला जगद्रक्षणार्थाव- तारप्रतिपादकत्वेनोपपत्तेर्नविरोधः । ब्रह्मणस्सर्वशरीरकत्वेन सर्वशब्दानां तस्मिन्नेव मुख्यवृत्तेस्सर्वशब्दवाच्यत्वं सिद्धम् । उपासनादिवाक्यगतानां हिरण्यगर्भशम्भ्वादिशब्दानामनन्यथासिद्धजीवलिङ्गादर्शने केवलयोग- शक्त्या परमात्मपरत्वम् अनन्यथासिद्धजीव लिङ्गदर्शनेतु तद्विशिष्टपरमात्मपरत्वञ्च । आहुश्चाचार्याः- ’ परविद्यासु जीवोक्ति र्निरुक्त्यादेः पराश्रया । तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ॥’ इति ॥ अतस्सर्वशरीरिणश्श्रीमन्नारायणस्यैव सर्वशब्दवाच्यत्वं सर्वकर्मसमाराध्यत्वञ्च सम्भवति नतरामित - रेषामितिसिद्धान्तः । आभगवत्तश्शारीरकशास्त्रप्रवर्तन निरूपणम् इमं सिद्धान्तं श्रियःपतिर्भगवान् पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारामार्थ्यज्ञानवता श्रीविष्णु- पुराणनिर्मात्रा पराशरब्रह्मर्षिणा ‘कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महा- भारतकृद्भवेत्’ इति प्रख्यातवैभवेन पञ्चमाम्नायभूतमहाभारतब्रह्मसूत्रादिप्रणेत्रा पाराशर्यमहर्षिणा च सप्रपञ्च प्राचीकशत् । अनन्तरं भगवान् बोधायनो दशलक्षग्रन्थात्मक वृत्तिग्रन्थेन तमिमं सिद्धान्तं विशदीचकार । अथैनं भगवत्कृपालब्धसूक्ष्मार्थाष्टङ्कद्रमिङ गुहदेवादिपूर्वसूरय स्संचिक्षिपुः । ’ कलौ खलु भविष्यन्ति नारायणपरायणाः । कचित् कचिन्महाभागा द्रमिडेषु च भूरिशः । vii ताम्रपर्णी नदी यत्र ।’ इति सुप्रसिद्धमहीमण्डलमण्डनायमानताम्रपर्णी नदीतीरे मतान्तरोक्त वेदविरुद्धार्थ - निरसनपूर्वक सर्वोपनिषदादिप्रमाणसिद्धतत्त्वार्थस्थिरीकरणार्थे कुरुकाधीशत्वेनावतीर्णे भगवदनुगृहीत निरतिशय दिव्यज्ञानोऽतिमानुषदिव्यचेष्टितः पराङ्कुशमुनिवरो नानादिव्यदेशविराजमानस्वयंव्यक्ताद्य चवताररूपभगवदनु- भवप्रवृद्धपरभक्त्यमृतपरीवाहरूपैर्वेदान्तरहस्यवैशद्या तिशय हेतुभूतैस्सद्यः परमात्मनि चित्तरञ्जकतमै सर्वोपजोव्यै- रुपबृंहणैरागस्त्य भाषात्मक दिव्यप्रबन्धैरिममेव सिद्धान्तं पुनर्हढीचकार । ततो मधुरकविप्रभृतिसंप्रदायपरम्परया योगमहिना च वकुलभूषणमहादेशिकोपदिष्ट सर्वोपनिषत्सारः- सर्वशास्त्रवेता नाथाख्यो महामुनिर्योगशास्त्रविचक्षणो योगरहस्यन्यायतत्त्वग्रन्थमुखेन दर्शनमेतत्पुनः प्रवर्तया मास । तत्पौत्रश्च यामुनमुनिस्स्वपितामहानुग्रहेणाचार्य लब्धसार्वज्ञ्यः सिद्धित्रयादिग्रन्थमुखेन निरवग्रहमे तदु- पाचिनोत् । अथ भगवान् भाष्यकारो रामानुजार्यो यतिराजो बोधायनवृत्तिग्रन्थानुसारेण ब्रह्मसूत्रव्याख्यारूपं श्रीभाष्यं दीपं सारं गीताभाष्यनित्यवेदार्थसंग्रहादिश्च प्रणीय दशसु दिक्षु दुर्वादिनो विजित्य सर्वविजयी शारीरकशास्त्रमेतत् सम्यक्परिपालयामास । तदनु च तत्तद्दुर्वादिगर्वसर्वङ्कष समीचीन न्यायमार्गेण अखिलतमः कर्शनतया शारीरकदर्शनमेतत् सुष्ठुप्रतिष्ठापयामास भगवद्भण्टावतारश्श्रीमान् निगमान्तमहा देशिकः । श्रीशठकोप यतीन्द्र निगमान्तमहा- देशिकानाम् अतिमानुषवैभवं श्रीपादुकासहस्रयतिराजसप्ततिपिळ्ळैयन्तादि सप्ततिरत्नमालिकावैभवप्रकाशिका- दिषु सुप्रसिद्धमिति नेह प्रतन्यते । एवं देशिकेन्द्रानुगृहीतेषु प्रबन्धरत्नेषु वेदान्तकलशाम्बुधिमध्योद्धृत- श्रीभाष्यामृत परीवाहरूपत्वात् श्रीभाष्यार्थजिज्ञासूनां सुखावगाहहेतुतया अत्युत्कृष्टतमोऽयमधिकरणसारा- वल्याख्यो ग्रन्थः । सारावलीप्रतिपाद्यसारार्थ संग्रहः अस्मिन्सारावलीग्रन्थे प्रथमं सूत्राधिकरणसंख्या ‘सौत्री संख्या ’ इति श्लोकेन प्रकाश्यते । श्रीभाष्यचतुरध्याय्याम् उक्ताः समन्वयाविरोधसाधनफलरूपाश्चत्वारोऽर्थाः, पूर्वाध्यायद्वयात्मक प्रथमद्विकोक्तः परब्रह्मात्मक सिद्धरूपार्थः उत्तराध्यायद्वयात्मक द्वितीयद्विकोक्त उपायफलात्मक साध्यरू- पार्थश्च ’ शास्त्रत्वेतत्’ इतिश्लोकेन प्रतिपाद्यन्ते । अस्पष्टतरास्पष्टस्पष्टस्पष्टतरजीवलिङ्गकवाक्यार्थनिर्णयः सांख्यस्मृत्यादिभिर्वेदान्तवाक्यानामत्राधः परपक्ष- तर्काणां सतर्कानुगृहीतवाक्यैर्हतिः वियदादीनां कार्यत्वशोधनम् इन्द्रियादीनां कार्यत्वशोधनं क्षेत्रज्ञस्य दोषः ईश्वरस्यादोषः (उभयलिङ्गत्वं) भक्तियोगभेदास्तदङ्गानि ब्रह्मविद्या प्रवेशमाहात्म्यम् उत्क्रान्तिः अर्चिरादि- गतिः ब्रह्मानुभवरूपफलम् इत्येते षोडशपादार्थाः ‘तत्राद्येऽत्यन्तगूढाविशद ’ इति श्लोकेन वर्ण्यन्ते । CII 2 viii प्रथमाध्याये प्रथमपादे एकादशसु अधिकरणेषु प्रथमं चिन्तां प्रकृतसिद्धयर्थामुपोद्धातं विदुर्बुधाः’ इत्युक्तरीत्या उपोद्घातलक्षणवति सकलवेदान्तार्थचिन्तान्तरने प्राथमिकाधिकरणचतुष्टये द्वाभ्यामधि- करणाभ्यां व्युत्पत्तिलक्षणयोस्संभवात् सिद्धार्थे प्रतीतिजननं प्रतिपादितम् । तदनु द्वाभ्यामधिकरणाभ्यां ब्रह्मणो मानान्तरागोचरत्वस्य पुरुषार्थरूपत्वस्य च उपपादनात् शास्त्रस्य तज्जन्यबुद्धेश्च वैफल्यशङ्का परिहृता । इतरेष्वधिकरणेषु प्रतिपादिताः स्वसङ्कल्पमात्रेण सर्वकार्यकारणत्वं शुभगुणविभवानन्त निस्सीमानन्दवत्त्वम् इच्छागृहीतनित्यदिव्यमङ्गलविग्रहवत्त्वं निरुपाधिकप्रकाशमानस्वभाववत्त्वं चिदचिदात्मक जगत्प्राणनहेतुत्वं दिव्यदीप्तिमत्त्वं प्राणेन्द्रादिशब्दवाच्य जीवान्तर्यामित्वं चेत्यादिब्रह्मगुणाः ’ स्वेच्छातः ’ इत्यन्तेन प्रकाश्यन्ते । ’ कार्ये व्युत्पत्तिः’ इत्यारभ्य प्रथमाध्याये द्वितीयपादे षट्स्वधिकरणेषु सर्वात्मभावेनावस्थितत्वं सर्व संहर्तृत्वम् अक्ष्यन्त वैर्तित्वं जगच्छरीरकत्वं अन्याद्यवयवत्वं युमूर्धत्वादिवैश्वानरपदप्रतिपाद्यत्वम् एवंभूतगुणविशिष्टः श्रियःपतिः अत्रायोगान्ययोग’ इत्यारभ्य ’ स्वाधीन ’ इतिश्लोकावधि अभिधीयते । प्रथमाध्याये तृतीयपादे सर्वान्तर्यामित्वं अनन्तैश्वर्यवत्त्वं मुक्तोपभोग्यस्वभावत्वं स्वयंहृदयायतनत्वेन अल्पपरिमाणत्वेऽपि सर्वलोकाधारत्वम् अङ्गुष्ठप्रमितत्येन सर्वनियन्तृत्वं देवादीनामुपास्यत्वं वस्वादिदेयैः स्वात्मत्वेनोपास्यत्वं शूद्राद्यनुपास्यत्वं नामरूप योर्मुख्यव्याकर्तृत्वम् इत्येवंप्रकारक श्रीमन्नारायणः स्पष्टैः ’ इत्यादिकैः ’ विश्वात्मा’ इत्यवधिकै श्लोकैर्वण्यते । प्रथमाध्याये चतुर्थपादे अष्टभिरधिकरणैरभिहिताः सांख्यतत्त्व प्रक्रिया निरासः अब्रह्मात्मकप्रधानस्य जगत्सृष्टिनिरासः तदुक्ततत्त्वसंख्याकॢप्तिनिरासः अव्याकृतस्य एकस्यैव कारणत्वनिरासः कर्मशब्दस्य पुण्य- पापरूपजीवकर्मवाचित्वनिरासः पतिपुत्रादिरूपकर्म फलात्मक दोषासंयोगः निमित्तोपादानैक्यं द्रुहिणादिपरकारण वाक्यानां भगवत्परत्वम् इत्येतादृशाः परपक्षनिरासरूपार्थाः ’ निर्णीतं वाक्यजातम्’ इत्यारभ्य : आदौ जिज्ञास्यता’ इत्यन्तैर्वित्रियन्ते । द्वितीयाध्याये प्रथमपादे दशभिरधिकरणैः सांख्यमतस्य सामान्यतो निराकरणं हिरण्यगर्भ- योगनिरासः कारणात् कार्यस्य वैरूप्यनिरासः अणुकारणवादित्येन एकार्थाने कतन्त्रोक्तार्थ - विरोधनिरासो देहस्यभोगाविनाभावनिरासः कार्योपादानयोर्भेदनिरासः स्वाहितकरणनिरासः सहकारिजातस्य अभावनिरासः कृत्स्नैकदेशविकल्पेन बाधनिरासो जगत्सृष्टिवैफल्यनिरास इत्येतेऽर्थाः ’ ततादृक्तर्कतन्त्र इत्यादिभिः ‘सांख्यस्मृत्या’ इत्यन्तैः श्लोकैः प्रकटीक्रियन्ते । द्वितीयाध्याये द्वितीयपादे प्रतिपादिताः कापिलमतनिरासः काणादमतनिरासो वैभाषिकमतनि- रासो योगाचारमतनिरासो माध्यमिकमतनिरासः, आर्हतमतनिरासः पशुपतिमतनिरासः पाञ्चरात्रशास्त्रस्थ ix कृत्स्नस्य वेदाविरुद्धत्वेन प्रामाण्यसमर्थनम् इत्यधिकरणाष्टकार्थाः ’ बाधाभावात्’ इत्यारभ्य ‘पादेऽस्मिन् ’ इत्यन्तैः श्लोकैः प्रोच्यन्ते । द्वितीयाध्याये तृतीयपादे सप्तभिरधिकरणैर्दर्शिता व्योमादीनां कार्यत्वं तत्त्वोत्पत्तिविषये पूर्वपूर्व- तत्त्वविशिष्टात् परमात्मनस्तत्त्वानां सृष्टिः जीवस्य देहाद्युपाधिकृतसृष्टिप्रलयौ ज्ञानस्वरूपस्य जीवस्य ज्ञातृत्वं जीवस्यकर्तृत्वं तस्य परायत्तत्वं गुणगुणिदेह देहिन्यायेन परमात्मनः अपृथ सिद्धतया अंशत्वमित्येवं विरोधपरिहाररूपार्थाः ‘सर्वं सांख्यास्तु’ इत्यारभ्य ’ कॢप्तित्र्यमादिकेऽपि’ इत्यन्तश्लोकैः प्रपञ्चिताः । द्वितीयाध्याये चतुर्थपादे इन्द्रियोत्पत्तिः एकादशैवेतितत्संख्या अणुपरिमाणत्वं मुख्यप्राणस्वरूपं प्राणस्य सौक्ष्म्यम् अग्न्यादिदेवतानां तत्तज्जीवानाञ्च इन्द्रियप्राणयोः भगवदधीनाधिष्ठानत्वं मुख्यप्राणस्य अनिन्द्रियत्वं व्यष्टिसृष्टौ हिरण्यगर्भशरीरकपरमात्मव्याकर्तृके नामरूपे च इत्येवं विभज्य दर्शिताः अष्टाधिकर- णार्थाः ‘ अक्षाद्युत्पत्त्यनुक्तौ’ इत्यारभ्य ’ तर्कैरापात ’ इत्यन्तैः श्लोकैरुपवर्णिताः । तृतीयाध्याये प्रथमपादे षट्स्वधिकरणेषु दर्शिता उत्क्रान्तस्य भूतसूक्ष्मैस्सह गमनं भुक्तिशिष्टकर्म - सहितस्य मात्रयाभिन्नमार्गतया अवरोहः नरकमार्गजुषां चन्द्राप्राप्तिः आकाशादिभावस्तत्सादृश्यमेव नतु - तद्रूपेण जन्मेति आकाशादेरविलम्बेनावरोहः श्रोह्यादौ संश्लेषमात्रं नतु तच्छरीरत्वम् इत्येतेऽर्थाः ’ साध्या मुक्तिः’ इत्यादिभिः ’ पादेत्वर्थाः ’ इत्यन्तैः श्लोकैस्संगृह्यन्ते । तृतीयाध्याये द्वितीयपादे अधिकरणाष्टके स्वामपदार्थस्रष्टृत्वं सुषुप्त्याधारत्वं सुषुप्तरक्ष- कत्वं मूच्छितोद्बोधादिकर्तृत्वम् उभयलिङ्गत्वं स्वदेहभूताचिद्वस्तुभिरंशवत्त्वं स्वेतरपरवस्तुशून्यत्वं सर्वफल- प्रदत्वम् एवमादिगुणविशिष्टः परमपुरुषः ‘ब्रह्मैव स्वैः’ इतिप्रभृतिभिः ‘पादे स्वामार्थहेतुः’ इत्यन्तैः श्लोकैरुच्यते । तृतीयाध्याये तृतीयपादे षड्विशत्यधिकरणैर्निरूपिता वैश्वानरविद्याद्यैक्यम् उद्गीथविद्याद्वय- विभजनं प्राणविद्यैक्यं स्वरूपनिरूपकधर्मस्य आनन्दत्वादेस्स्वरूपवत् सर्वविद्यासु अनुवृत्तिः आचमनीयास्वप्सु प्राणवासस्त्वानुसन्धानं शाण्डिल्यविधैक्यम् अहरहमोर्नाम्नोर्विद्याभेदेन विभज्या- वस्थानं संभृत्यादिगुणजातस्य द्युव्याप्त्याद्युचितस्थानव्यवस्थितिः तैत्तिरीयच्छान्दोग्यस्थपुरुषविद्ययोर्विभेदः शन्नो- मित्रादिमन्त्राणामध्ययनशेषत्वं पुण्यपापहानोपायनयोरन्योन्यंयोगो हानोपायनयोः प्राप्तिकालो देवयाना- देस्सर्वविद्यासाधारण्यं सर्वविद्यासु अस्थूलत्वाद्यनुसन्धानं श्रुतानां गुणानामन्योन्यं व्यतिहृत्यानुसन्धानं दहरोपासनैक्यम् उद्गीथं क्रत्वङ्गमाश्रित्योपासने क्रतुफलात्फलान्तरविधानम् अपहतपाप्मत्वादिगुणोपासने गुण्यावृत्तिः निखिलपरतरोपासनेषु उपास्यनिर्णयः मनश्चिताद्यग्नीनां ज्ञानरूपकत्वनुप्रवेशित्वं क्षेत्रज्ञस्य शुद्धस्य अनुचिन्त्यत्वं क्रत्वङ्गभूत सर्वोद्गीथादिषुपासनं वैश्वानरात्मनस्सामस्त्येनोपासनं विद्यानां नानात्वसमर्थन मोक्षार्थोपासनानां फले विशेषाभावात् विकल्पः पूर्वमुक्तोऽप्युद्गीथानुष्ठानानियमः इहस्थिरीकृत्य पुनरुक्त 13 14 I इत्येते ऽर्थाः ’ तत्त्वज्ञानानुविद्धम्’ इतिप्रभृतिभिः ‘विद्यारूपा मनश्चित्’ इत्यन्तैः श्लोकः स्फुटतरम् उपपादिताः । नानां विद्याविधानार्थत्वम् ऊर्ध्वरेतस्स्वपि साङ्गविद्या गृहस्थे यज्ञदानाद्यपेक्षा विद्या गृहस्थस्य शान्त्या - तृतीयाध्याये चतुर्थपादे विद्यायाः कर्माङ्गकत्वम् उद्गीथादौ रसतमत्वादिदृष्टिः विद्यासमीपवर्त्याख्या- धत्वम् अविपदि विदुषोऽपि शुद्धान्नेनैव योगसिद्धिः एकस्यैव कर्मणो विद्यार्थत्वमाश्रमाच विधुरस्यापि विद्यायुतत्वं नैष्ठिकादिभ्रष्टस्य विद्यानधिकारः क्रत्वङ्गोद्गीथोपासनस्य ऋत्विक्कर्तृकत्वं मननादन्यत्वेन ध्यान सिद्ध्यै चोदिता अथमुनिरिति मुनिता बाल्यं स्वमाहात्म्याप्रकटनं स्वसामर्थ्यगो- पनम् ऐहिकफलकोपासनानां विघ्नाभावे शीघ्रफलप्रदत्वं मोक्षार्थविद्याया ब्रह्मविदपचारादिप्रतिबन्धे अनि- पत्तिरिति पञ्चदशस्वधिकरणेषूक्ता अर्थाः ‘कर्म प्राक्’ इतिश्लोकप्रभृति ‘सन्तत्यात्मा’ इत्येतदन्तम् अवर्ण्यन्त । चतुर्थाध्याये प्रथमपादे एकादशाधिकरणैः निरूपिता ब्रह्मविद्याया असकृदावृत्तत्वं सर्वत्रह्मविद्या- स्वहमित्यनुसन्धानं नामादिप्रतीकोपासनेऽहमित्यनुसन्धानाभावः कर्माङ्गोद्गीथादावादित्यादिदृष्टिः आसी- नस्यैव योगानुष्ठेयत्वं आप्रायणादनुवर्तनीयत्वं पापस्याश्लेषविनाशौ पुण्यस्याश्लेषविनाशौ तयोः प्रारब्ध- कार्योशेऽनुभाव्यत्वम् वर्णाश्रमधर्मावश्यकार्यत्वं प्रारब्त्रकर्मान्ते मोक्ष इत्येतेऽर्थाः ’ इत्युत्पत्ति’ इत्यादिभिः ‘आवर्त्या ब्रह्मविद्या’ इत्यन्तै श्लोकैः कथ्यन्ते । चतुर्थाध्याये द्वितीयपादे एकादशभिरधिकरणैः मनोभिन्नेन्द्रियाणां मनसि संयोगः इन्द्रियसंयुक्तमनसः प्राणवायुसंयोगः इन्द्रियमनस्संयुक्तस्य प्राणवायोजीवें संयोगः इन्द्रियमन प्राणवायुयुक्त जीवस्य सूक्ष्मभूतवर्गे संयोगो विद्वदविदुषोरुत्क्रान्तिसाम्यं परमात्मसंपत्तिस्संश्लेषमात्रं ब्रह्मनाढ्यादि निर्गमनं सूर्यकिरणैस्सह गमनं निशाकृष्णपक्षयो मृतस्यापि योगिनो मोक्षप्राप्तिः दक्षिणायनमृतस्यापि योगि- नो मोक्षप्राप्तिरित्येतेऽर्थाः ‘नित्यत्वज्ञत्वपूर्वैः’ इत्यादिभिः ‘संपद्येतान्यदक्षम्’ इत्यन्तैः श्लोकैः स्पष्टीकृताः । चतुर्थाध्याये तृतीयपादे पञ्चत्वधिकरणेषु परिदृश्यमानाः नानोपनिषत्पठितार्चिरादेरेकत्वं न्यूनाधिक- भावेनाधिगतैकत्वं च देवलोकवायुंशब्दयोरैकार्थ्यं वरुणेन्द्रप्रजापतीनां विद्युत उपरि निवेश: अमानवान्ता अर्चिरादयः परमपदगमने नेतारो ब्रह्मविदामेवार्चिरादिगमनम् इत्येतेऽर्थाः ‘शाखाभेदेषु ’ इत्यादिभिः ’ एक- त्वं ब्रह्मविद्या ‘इत्यन्तैश्श्लोकैः प्रकाश्यन्ते । चतुर्थाध्याये तुरीयपादे षड्भिरधिकरणैर्निरूपिता अपवर्गे स्वरूपाविर्भावो निरुपाधिकतया - स्वशरीरिपर्यन्तदृष्टिर्ज्ञानस्वरूपस्यैव जीवस्य ज्ञानस्वरूपत्ववत् वेदान्तोक्तस्वप्रकारैर्ज्ञानादिगुणैस्सह दृष्टिःxi संकल्पादेव स्वाभीष्टानां सृष्टिः अनियतशरीरवत्त्वं जगत्कारणत्ववर्ज ब्रह्मसाम्यम् इत्येते षडर्थाः ’ उक्तं पादैः ’ इत्यारभ्य ‘पारावर्यं विविच्य प्रथमम् ’ इत्यन्तैश्श्लोकैः प्रतिपाद्यन्ते । एवं षोडशपादात्मकाध्याय चतुष्टयेषु षट्पञ्चाशदधिकपञ्चशती संख्या कखग्धराश्लोकैः षट्पञ्चाशदुत्तर- शताधिकरणार्थाः, मृषावादगन्धस्य त्रिकाण्ड्यां क्वचिदप्यवकाशाभावः चतुरध्याय्यर्थानाम् अर्थान्तरेभ्यो वैलक्षण्यम् आचार्यसकाशादधीतचतुरध्याय्यर्थस्याधिकारिणोऽपवर्गप्राप्तिश्च इत्येते सारतमास्सर्वेऽर्थाश्च, अस्मदाचार्यवर्यैर्निगमान्तमहा देशिकैरधिकरणसारावलीप्रबन्धरत्ने सम्यक् प्रकटीकियन्ते । अस्यां सारावल्यां द्वात्रिंशद्ब्रह्मविद्यानां प्रतिपादनप्रकारो निरूप्यते 6 द्वात्रिंशद्ब्रह्मविद्या प्रतिपादन प्रकार निरूपणम् १. सद्विधा - इयं ’ सदेव सोम्येदमग्र आसीत्’ इति च्छान्दोग्यविचारिता प्रथमाध्यायप्रथमपादे गौणेक्षासाहचर्यात् ’ इत्यादिश्लोकत्रयेण वित्रियते । २. आनन्द विद्या - इयं ‘ब्रह्मविदाप्नोति परम्’ इति तैत्तिरीयोक्ता ’ मुख्येक्षा’ इत्यादिश्लोक- चतुष्टयेन आनन्दमयाधिकरणे प्रकाश्यते । ३. अन्तरादित्यविद्या - इयं ’ यएषोऽन्तरादित्ये हिरण्मयः पुरुषः’ इतिच्छान्दोग्योक्ता ‘भूयि- ष्ठानन्त’ इत्यादि लोकत्रयेण प्रकटीक्रियते । ४. आकाशविद्या - इयं ‘सर्वाणि हवा इमानि भूतानि ’ इतिच्छान्दोग्योक्ता ’ अत्राकाशस्त्वशेष’ इत्यादिश्लोकेनोच्यते । ५. प्राणविद्या - इयं सर्वाणि हवा इमानिभूतानि प्राणमेव’ इतिच्छान्दोग्यप्रतिपादिता ’ प्राणायत्तं हि ’ इत्यादिश्लोकद्वयेन प्रतिपाद्यते । ६. गायत्रीज्योतिर्विद्या - इयं ’ अथयदतः परोदिवोज्योतिः’ इतिच्छान्दोग्यप्रतिपादिता ‘कौक्षेय- ज्योतिषा’ इत्यादिज्योतिरधिकरणश्लोकेनोपपाद्यते । ७. इन्द्रप्राणविद्या - इयं ’ प्रतर्दनो हवै दैवोदासिः’ इति कौषीतकिश्रुतावभिहिता ‘विद्या प्रातर्दनी’ इत्यादिश्लोकैरुपवर्ण्यते । " ८. शाण्डिल्यविद्या - इयं ’ सर्वं खल्विदम्’ इतिच्छान्दोग्यप्रतिपादिता सर्वत्र प्रसिद्धाधिकरणे यस्य प्राणश्शरीरम्’ इत्यादिश्लोकत्रयेण प्रकाश्यते । ९. अत्तृविद्या - इयं ’ यस्य ब्रह्म च क्षत्रञ्च’ इति कठवल्लीप्रोक्ता ’ अत्ता खल्वोदनादेः’ इति श्लोकद्वयेनात्तधिकरणे समर्थ्यते । 15 16 xii १०. उपकोसलविद्या - इयं यएषोऽक्षिणि पुरुषो दृश्यते’ इति च्छान्दोग्ये स्पष्टा ‘यद्वृत्तादेः ’ इत्यादि श्लोकत्रयेणान्तराधिकरणे स्पष्टीक्रियते । ११. अन्तर्यामिविद्या - इयं ’ नान्योऽतोऽस्ति द्रष्टा’ इति च्छान्दोग्यविवृता ’ अन्तर्यामी जोवः’ इत्यादिश्लोकद्वयेनान्तर्याम्यधिकरणे विचारिता । १२. अक्षरपरविद्या- इयं ‘यत्तददेश्यमप्रायम्’ इति मुण्डकोपनिषदुक्ता अवश्यत्वाधिकरणे ’ दृश्यत्वादेर्निषेधः ’ इति श्लोकेनाभिवर्ण्यते । १३. वैश्वानरविद्या - इयम् ’ एषोऽमि वैश्वानरः’ इतिवाक्योक्ता ‘स्वर्लोकादित्य ’ - इत्यादि- श्लोकद्वयेन वैश्वानराधिकरणे प्रपञ्च्यते । १४. भूमविद्या - इयं ‘यत्र नान्यत्पश्यति नान्यच्छृणोति’ इत्यादिच्छान्दोग्ये स्पष्टा ‘आत्मज्ञाना- भिलाषात्’ इत्यादिश्लोकचतुष्टयेन भूमाधिकरणे प्रकाशिता । १५. गार्ग्यक्षरविद्या - इयं ’ एतदक्षरं गार्गि ’ इति बृहदारण्यकश्रुता अक्षराधिकरणे ’ प्रख्याता- काशपूर्व -’ इति श्लोकेन प्रपञ्च्यते । १६. प्रणवोपास्यपरमपुरुषविद्या – इयं ’ यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण ’ इति प्रश्नोपनि- षत्प्रसिद्धा ईक्षतिकर्मव्यपदेशाधिकरणे ’ लक्षीभूतोऽयमेकः’ इत्यादि श्लोकद्वयेनोपवर्णिता । १७. दहरविद्या- इयं ’ अथयदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकम्’ इत्यादिच्छान्दोग्यश्रुतिप्रसिद्धा दहराधिकरणे ‘दहं हृत्पुण्डरीके’ इत्यादिश्लोकपञ्चकेन प्रपञ्चिता । " १८. अङ्गुष्ठप्रमितबिया - इयम् अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति कठवली- विचारिता प्रमिताधिकरणे ‘प्राणेशोऽङ्गुष्ठमात्रः’ इत्यादिश्लोकद्वयेन वितन्यते । १९. देवोपास्यज्योतिर्विद्या - इयं ’ तं देवा ज्योतिषां ज्योतिः’ इति वाजसनेयविवृता एतद्गर्भे देवताधिकरणे ’ शब्दात्मा लौकिकार्थाकृतिः’ इत्यादिश्लोकषट् केन विस्तृता । २०. मधुविद्या - इयम् ’ असौ वाद आदित्यो देवमधु’ इतिच्छान्दोग्य विचारिता एतद्दर्भे मध्वधि- करणे ’ स्यादेवं देवमात्रे’ इति श्लोकेन बोध्यते । २१. संवर्गविद्या - इयं ‘जानश्रुतिः किल पौत्रायणः’ इत्यादिच्छान्दोग्यसिद्धा एतद्दर्भेऽपशूद्राधि- करणे ‘जैमिन्युक्तापशूद्र’ इत्यादिश्लोकत्रयेण समीर्यते । २२. अजाशरीरकब्रह्मविद्या- इयं ’ यस्मिन्पञ्चपञ्चजनाः’ इतिच्छान्दोग्यविराजिता संख्योपसंग्रहा- धिकरणे ’ यस्मिन्पञ्चतिमन्त्रे’ इत्यादिश्लोकद्वयेन प्रकाश्यते । xiii २३. बालाकिविद्या - इयं ‘क्वैष एतद्बाला के पुरुषोऽशयिष्ट ’ इत्यादिबृहदारण्यकोक्ता जगद्वाचि- त्वाधिकरणे ’ यस्यैतत्कर्म’ इति श्लोकद्वयेन प्रतिपाद्यते । २४. मैत्रेयीविद्या - इयं ’ नवा अरे पत्युः कामाय पतिः प्रियो भवति’ इति बृहदारण्यक संदर्शिता ‘पत्यादोनां प्रियत्वम्’ इत्यादि श्लोकत्रयेण कथ्यते । २५. द्रुहिणरुद्राद्विशरीरकब्रह्मविद्या - इयं ‘हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ’ इत्यादिश्रुत्युक्ता सर्वव्याख्यानाधिकरणे ’ अग्रे संवर्तनम्’ इत्यादिश्लोकद्वयेन पठ्यते । २६. पञ्चाग्निविद्या - इयं ’ वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति च्छान्योग्य- निरूपिता तदन्तरप्रतिपत्त्यधिकरणे ‘देहाद्यम्’ इत्यादिश्लोकत्रयेण प्रतिपाद्यते । " २७. आदित्यस्थाहर्नामक ब्रह्मविद्या - २८. अक्षिस्थाहन्नामक ब्रह्मविद्या - इदं विद्याद्वयमपि तद्यत्स- त्यमसौ स आदित्यो यएष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्’ इत्यादिवृहदारण्यकश्रुतिप्रपञ्चितं सम्बन्धाधिकरणे ’ अक्ष्यादित्योपलक्ष्ये’ इतिश्लोकेन प्रतिपाद्यते । २९. पुरुषविद्या - इयं तस्यैवं विदुषः’ इति तैत्तिरीये प्रतिपादिता तृतीयाध्याये पुरुषविद्याधि- करणे ’ आख्याद्यैक्यात्’ इत्यादिश्लोकत्रयेणोक्ता । ३०. ईशावास्यविद्या - इयं ’ कुर्वन्नेवेह कर्माणि ’ इतीशावास्योपदिष्टा पुरुषार्थाधिकरणे तृतीयस्य चतुर्थे ’ कुर्वन्नेव ’ इति श्लोकेन प्रतिपाद्यते । ३१. उषस्तिकहोलविद्या - इयं ’ उषस्तिर्ह चाक्रायणः’ इतिबृहदारण्यकोक्ता ’ आहारस्य व्यवस्था इतिश्लोकेन सर्वान्नानुमत्यधिकरणे प्रतिपादिता । ३२. व्याहृतिशरीरकब्रह्मविद्या - इयं यएषएतस्मिन्मण्डले भूरितिशिरः’ इति श्रुत्युक्ता । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः’ इतितैत्तिरीयोक्ता ’ नानाशब्दादिभेदात् ’ ’ विकल्पोऽ- विशिष्टफलत्वात्’ इतिसूत्रयोरभिप्रेता भाष्यकारैश्च शरणागतिगचे विशदतरं प्रतिपादिता सुदर्शन भट्टारकैश्च ’ विकल्पोऽविशिष्टफलत्वात्’ इति सूत्रव्याख्यानावसरे ’ न्यासविद्याभिप्रेता’ इत्यनुगृहीता द्वात्रिंशद्विद्या- समानस्थानापन्ना अकिञ्चनाधिकारिका परमगुह्यतमाच श्रीमती न्यासविद्या अस्यां सारावल्यां तृतीयाध्याय- तृतीयपादे शब्दादिभेदाधिकरणे विकल्पाधिकरणेच ’ यद्वा शब्दादिभेदात्’ इत्यारभ्य ’ रूपादीनां विशेषैः ’ इतिश्लोकपर्यन्तमुपवर्णिता । काम्यविद्याकथनम् एवं काम्यविद्याश्च निरूपिताः । यथा - ’ ओमित्येतदक्षरमुद्गीथमुपासीत ’ इतिश्रुत्युक्ता उद्गीथविद्या आदित्यादिमत्यधिकरणे ’ तादर्थ्या देवतानाम्’ इतिश्लोकेन प्रतिपाद्यते । ’ नामब्रह्मेत्युपासीत’ इत्युक्ता 17 xiv ’ नामादिप्रतीकविद्या नामादिब्रह्मदृष्टौ ’ इतिश्लोकेन प्रतिपाद्यते । अग्निरहस्ये ’ मनश्चितो वाक्चितः’ इति श्रुता मनश्चितादिविद्या ’ अङ्गं पूर्वप्रसक्त’ इत्यादिश्लोकद्वयेन प्रतिपाद्यते । स एष रसानां रसतमः ’ इति उद्गीथे रसतमत्वादिदृष्टिविद्या अङ्गावबद्धाधिकरणे ‘उद्गीथादेर्विशेषे ’ इतिश्लोकेन प्रतिपाद्यते । इति । अस्य निगमान्तगुरोः कुमारः स्वपितुरेव समधिगतसर्वशास्त्रार्थः कुमारवरदाचार्यः अधिकरणसारावली- ग्रन्थरत्नस्य यथावस्थितार्थप्रकाशकाधिकरणचिन्तामण्याख्यव्याख्यां निरमिमीत । श्रीमदादिवण शठकोप यतीन्द्रमहादेशिक वैभववर्णनम् आधुनिकाल्पश्रुतकल्पितदोष- अथ श्रीदेशिकप्रतिष्ठापितस्यास्य भगवद्रामानुजसिद्धान्तस्य निवृत्तिपूर्वकं स्थिरीकरणाय अतिप्रसिद्धे, प्रत्यग्देशालङ्कारभूते श्रीनारायण पुरे सिद्धान्तपवर्त क केशवा- चार्यस्य अशीतिचतुश्शतोत्तर चतुस्सहस्त्रीसंख्याककल्यन्दे सिद्धार्थसंवत्सरे कन्याघवलपञ्चम्यां चिणवासरे ज्येष्ठानक्षत्रयुते धनुर्ल कुमार एक आविर्बभूव । अस्य श्रीनिवासानुग्रहलब्धत्वात् श्रीनिवासनाम्ना तं कुमारम् अलञ्चकार । सोऽपि श्रीनिवासाचार्यः ब्रह्मचर्यव्रते मुख्यानुष्ठानपरः स्वपितुः केशवाचार्यात् लब्ध- पञ्चसंस्कारद्रामिडगाथासाङ्गचतुर्वेदो वरदगुरुपौत्रघटिकाश तवरदाचार्थसन्निधौ स्वपित्राज्ञयाधिगत श्रीभाष्याद्यध्यात्मशास्त्रसूक्ष्मार्थः उभयवेदान्ताध्यापनपरः श्रीस्वामी स्वमलब्धश्रो मदहोबिललक्ष्मी- नृसिंहदिव्यनियमनेनाहोबिलं गत्वा भवनाशिनीतीरे नृसिंहोपदिष्टप्रेषमन्त्रः साक्षात् नृसिंहदत्त तुर्याश्रमः, श्रीनृसिंहनियमनेन लक्ष्मीनृसिंह स्वाराध्यदैवत्वेन स्वीकृत्य गजतुरगशिचिकाद्यनेकबिरुदावलिसहितो नानादेशेषु सर्वेषां पञ्चसंस्कार शारीरकशास्त्राध्यापन भरन्यासादीन् निर्वहन् कुरुकानगरे आदिनाथ व कुला - भरणरामानुजनिगमान्तमहादेशिकादीन् पाषण्डिनिरासपूर्वकं पुनः प्रतिष्ठाप्य वकुलभूषणसन्निधेः पश्चिम भागे अध्य- यनोत्सवमण्डपं निर्माय अर्चकमुखानुगृहीतादिवण्शठकोपनामालङ्कृतो वकुलाभरणदत्तश्री मदहोबिलदिध्या- स्थानासाधारणश्रीशठकोपश्रीरितिमुद्रासहितां हंसमुद्राञ्च लब्ध्वा वकुलाभरणादिनाथदिव्यालय सर्व कार्य निर्वाहकः सिद्धान्तप्रवचनं कुर्वन् भगवत्कैङ्कर्यरसिकः कंचित्कालं तत्रैव सुसुखमवर्तत । ततउपरि आदिनाथवकुलाभरण नियमनेन तत्तद्दिव्यदेशमङ्गलाशासनं कृत्वा यादवाद्रौ गोपुर कैंकर्य देशिकप्रतिष्ठाञ्च वेङ्कटाद्रौ सोपान - कैर्यं वरदराजसन्निधौ शतस्तम्भमण्टपं श्रीरङ्गक्षेत्रे परकालप्रतिष्ठां देशिकप्रतिष्ठां गोपुरप्रतिष्ठां सप्तप्रा- कारजीर्णोद्धारणंच पुरुषोत्तमस्थले वकुलभूषणगुरुप्रतिष्ठां रामानुजगुरुप्रतिष्ठाञ्च विशेषतः कृत्वा श्रीभगवद्रामानुज- सिद्धान्तं स्थापयित्वा पुनरपि श्रीनारायणपुरे श्रीमदहोबिलमठे संप्रदायप्रवर्तकः अलमकार्षीदास्थानम् । पदयोजनाकारस्य महास्वामिनो वैभवसंग्रहः । एवं श्रीशठकोपश्रीरिति वकुलभूषणमहा देशि कानुगृहीतास्थानासाधारणमुद्राल हृतश्रीमदादिवशठकोप- XV यतीन्द्रमहा देशिकप्रभृत्यनुस्यूत परम्पराप्राप्तश्री मदहोबिलमठास्थाने चतुस्त्रिंशाः श्रीलक्ष्मीनृसिंहदिव्यपा- दुकासेवक श्रीवण्शठकोप श्रीशठकोपरामानुजयतीन्द्रमहादेशिकाः पूर्वाश्रमे अतिप्पट्टुनामकं वीक्षारण्यक्षेत्र- समीपवर्तिनं महनीयाग्रहारम् अध्युषिता भारद्वाजकुलतिलका आजानशुद्धा बाल्य एवं सम- धिगतश्रुतिस्मृतीतिहासपुराणन्यायतन्त्रव्याकरणवेदान्तादिविविधविद्याकलापाः श्रीमद्रङ्गनाथमुन्यनुगृहीत- दिव्याह्निकोक्तक्रमानुष्ठितपाञ्चकालिक नित्यनैमित्तिककृत्या ज्ञानशक्तिकृपावात्सल्यसौशील्यौदार्यवैराग्यशान्ति- क्षान्त्याद्यसंख्येयकल्याणगुणगणमहोदधयः अनेकवारं परिशीलिताध्यापितश्रीभाष्यगीताभाष्य सारशास्त्र भगवद्विषय न्यायपरिशुद्धि न्यायसिद्धान तत्त्वमुक्ताकलापाधिकरणसारावलिश तदूषण्यादिसांप्रदायिकदिव्य- सूक्तिकलापाः दुर्वादिवारणेन्द्रमस्तक भेदनकण्ठीरवाः परमै कान्तिशिखामणयः श्रीनिवासराघवाचार्या विख्या- तास्सर्वोपकाराय अधिकरणसारावलीव्याख्यानाधिकरण कल्पतरुनृसिंहषष्टिपादवर्णनन्यासविंशतिव्याख्यान सामान्यविशेषादिन्यायसङ्ग्रहैकशास्त्र्यसमर्थन कचिहृदय रजनीदेवराज सहस्रगणिदण्डकानन्त्यनिर्णय ब्रह्मसू- त्रार्थमञ्जरीमणिप्रवालरूपगीताव्याख्या सारदीपिका हृदय किंगृहेशस्तुतिद्रामि भाषात्मक नृसिंहप्रपत्त्यादीन् अनेकग्रन्थानन्वगृह्णन् । तेषु प्रबन्धेषु पदयोजनारूपाधिकरणकल्पतरुप्रबन्धः, सामान्यज्ञानवतामपि श्रीभाष्य- दुरूह ।सुखग्रहणहेतुत्वात् पदच्छेदः पदार्थोक्तिरितिन्यायेन पदशोऽर्थप्रकाशकत्वा चाध्यात्मशास्त्र जिज्ञासूना- मुपकार कतमोऽयम् । अधिकरणसारावलीतत्त्वमुक्ताकलापयोरिव ’ अन्योन्यहस्तप्रदमिदमुभयं धार्यमाचार्य- वद्भिः’ इत्याचार्योक्तन्यायेन चिन्तामणिकल्पतर्वोरपि अन्योन्यहस्तप्रदत्वं हृदयङ्गमम् । सारावलीत्रह्मणः सुदर्शनपाञ्चजन्यवत् इदमुभयमपि घार्यमाचार्यवद्भिः । ‘श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता’ इतिवत् सावधानं बहोः कालात्सुरक्षितेयं पदयोजना ’ गुरु प्रकाशयेद्धीमान्’ ’ यस्य देवे पराभक्तिः ’ ’ साक्षान्मुक्तेरुपायान्यो विद्याभेदानुपादिशत् । कथ्यते सर्वशास्त्रेषु सतु श्रेष्ठतमो गुरुः’ इत्याद्युक्तप्रकारेण साझादाचार्यप्रतिपत्तिविशेषप्रकाशकतया साधुलोकोप- काराय मुद्रणमनायि । अनेन मुद्रणकैर्येण प्रीयतां भगवान् लक्ष्मीनृसिंहः । एतन्मुद्रणशोधनकै कर्येनियुक्तस्य परुत्तिप्पट्टु वङ्गीपुरम् न्यायशिरोमणि [ देवनार्वलाहम् ] लक्ष्मीनृसिंहा- चार्यस्य, विदुषः केशवाचार्यस्य, व्याकरणविद्याप्रवीण - [पादूर् ] राघवाचार्यस्य, प्रकाशनकैर्येनियुक्तस्य कुरुच्चि लक्ष्मीनृसिंहाचार्यस्यच एतेषां लक्ष्मीनृसिंहविशेषकटाक्षा भूयासुरित्यखिलमतिशोभनम् । अहोबिलमठाधीशनृसिंहपदसंपदः । एतद्भूमिकया श्रीमान् प्रीयतां दिव्यकेसरी ॥ aroo Qatorne তঃ श्रीशठकोपश्रीः