source: TW
[[TODO: अपरिष्कृतम्]]
मङ्गलम्
…
आदिशब्देन सृष्ट्याद्यौपयिकमन्तःप्रवेशनियमनाद्वि गृह्यते । तथा च भाष्ये स्वयमेव वक्ष्यति, “जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिलीलम् " इति । जन्मस्थेमभक्तोक्तयैवान्तःप्रवेशनियमनादेरर्थसिद्धत्वाश्रयणमयुक्तम् । अध्यासपरिणामपक्षयोस्तस्याऽऽर्थत्वाभावेन तद्यावृत्यर्थं स्वमते पृथग्वक्तव्यत्वात् ; शाब्दत्वे संभवति आर्थत्वकल्पनाऽयोगात्, विस्तरेणोक्तस्यार्थस्य संक्षेपोक्तौ विवक्षितत्वोपपत्तेश्च । वि लीलाशब्देन भगवतः परिपूर्णत्वानन्य प्रेर्यत्वस्वच्छन्द चेष्टितत्वादिकमभिप्रेतम् । यथोक्तं महाभारते, “अप्रमेयोऽनियोज्यश्च यत्रकामगमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव” इति । अप्रमेयत्वं परिपूर्णत्वम् । अनियोज्यत्व मनितरचतनप्रेर्यत्वम् । यत्रकामगम इत्यनेन वायूदकादिप्रेरणाधीनाबुद्धिपूर्वपरिस्पन्दादिचेष्टा व्यावृत्तिः; स्वेच्छाकृत प्रवृत्तिविधातव्युदासो वा । स्वाधीन लीलोपकरणत्वं वशिशब्दार्थ; विश्व वशे यस्य स वशी । इन्द्रियपरा (इन्द्रियव्यापाराधीन चेष्टाव्यावृत्त्यर्थो वा वंशिशब्दः, बालदृष्टान्तेन लीलायाः प्रयोजनान्तरनैरपेक्ष्यमभिप्रेतम् । अनेन राज्ञां पणबन्धपूर्वकद्यूतादिव्यावृत्तिः । कार्यवर्गापेक्षया भगवन्महिम्नो विपुलतरत्वं क्रीडनकैरित्यनन फलितम् ॥ ननु प्रयोजकव्यापारो हि लीला ।
भङ्गस्य’ प्रथमाध्याये प्रथमपादे लीलात्वे युक्तेऽपि कथं प्रयोज्यव्यापारभूतयोर्जन्मस्थित्योर्लीलावम्! ॥ उच्यते । " बहु स्यां प्रजायेय" इति हि श्रुतिः । अतः प्रयोजकव्यापारवत् प्रयोज्यव्यापारस्य च लीलात्वकथनेनेोपादानत्वं फलितम् । लीलाशब्देन निमित्तत्वं च । भङ्गादीत्यन्तेन प्रथमाध्यायार्थः संक्षिप्तः । अवाप्तसमस्त कामस्य व्यापारानुपपत्तिं परिहरता लीलाशब्देन विरोधपरिहारपरद्वितीयलक्षणार्थः सूचितः । । 1
एवं पूर्वद्विकोक्तं कारणत्वरूपं परत्वं संक्षिप्तम् । तस्यैत्र ( परस्य ब्रह्मणः) समाश्रयणीयताप्रतिपत्यर्थमुत्तरद्विकोक्तमभिगम्यत्व-मोक्षप्रदत्वलक्षणं सौलभ्यं सङ्क्षिप्यते - विनतेत्यादिपदेन । केवलं पर (प्रकृष्ट) त्वं केवलं सौलभ्यं च कनकाचललोष्टशकलयोरिव न समाश्रणीयत्वाय कल्पत इति तदुभयव्यावृत्यर्थमिदं पदद्वयम् । विशेषेण नताः प्रह्वीभूताः विनताः । न्यासोपासनात्मकाशेषविद्याविशेषनिष्ठाः सर्वे विवक्षिताः । वैविध्यं च, " तदुपर्यपि बादरायणः “, " ऊर्ध्वरेतःसु च " इत्यादिना वक्ष्यमाणदेवत्व मनुष्यत्ववर्णाश्रम [मादि]भेदेन वक्ष्यमाणदेवत्वमनुष्यत्ववर्णाश्रम जन्मवृत्तगुणैश्च(जन्मगुणवृत्तभेदेन च ) अभिप्रेतम् । भगवज्ज्ञानेन लब्धसत्ताकत्वं भूतशब्दार्थः । " अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः " इति हि श्रुतिः । लब्धस्वरूपाणाश्च, " तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थः “, " ददामि बुद्धियोगं तम् “, " अहं स्मरामि मद्भक्तम् " इत्याद्युक्तप्रकारेण साक्षात्कारविरोधिनिवर्तनादिकं हि भगवत एव भर इति, न स्वरूपप्रच्युतिसम्भवः । भूतसंबन्धी व्रातो भूतव्रातः । संश्रितसंबन्धिनोऽपि तत एव कारणाद् भगवता रक्ष्या इत्यभिप्रायः । यथा, आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवो नः कुले जातः स नः संतारयिष्यति " इति, “पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् " इति च ॥ ननु षष्ठ्यन्तनिर्दिष्टानतिरिक्तविषयः समुदायशब्दः, यथा ‘ब्राह्मणसमाजः’ इति ॥ नैवम् ; राजपरिषदित्यादिष्वतिरिक्तस्यापि दर्शनात् ; समासान्तर्गतायाः षष्ठ्याः सम्बन्धमात्रविषयत्वात्; षष्ठ्यन्त निर्दिष्टानतिरिक्तत्वनियमस्यानुशासनाभावाच्च । समुदायशब्दे श्रुते, ’ समुदायिनः के ’ इत्यपेक्षायां संनिहितशब्दवाच्यनिष्ठः समुदायः शीघ्रं प्रतीयत इति, ब्राह्मणसमूह (मुदाय) इत्यादिष्वनतिरेकप्रतीतिः । राजपरिषदित्यादिष्वतिरिक्तस्यापि दर्शनात् तत्तत्समुदाय [य] ग्राहकप्रमाणानुरोधेनार्थवर्णनं युक्तम् - इति यथोक्त एवार्थः । एवं च सति व्रातशब्दप्रयोगस्यार्थवस्वं स्यात् ॥ इष्टप्रापणपर्यन्तानिष्टनिवारणलक्षणा रक्षा । तस्यामेकदीक्षः प्रधानदीक्षः । दीक्षा सङ्कल्पः । स्वसत्ताया अपि संश्रितरक्षासङ्कल्प निर्वर्तनस्यात्यन्ताभिमतत्वं प्राधान्यम् । " अप्यहं जीवितं जह्याम् 99 इति ह्युक्तम् । “ काममात्मानं भार्यां पुत्रं वोपरुन्ध्यात् ; ल स्वेव दासकर्मकरम्” इति चाऽऽपस्तम्बः । ईदृशीयं स्मृतिर्यस्याऽऽज्ञा, तस्यापि तथानुष्ठानस्याभिमततरत्वम्, " अप्यहं जीवितं जह्याम् " इत्यनेनावगम्यते । दीक्षायाः प्राधान्येन रक्षाप्राधान्यं फलितम् । दीक्षाशब्देनाश्रित संरक्षणस्य स्वप्रयोजनत्वं दर्शितम् । व्रतभ्रंशसमाप्त्योरनर्थ - अभ्युदय फलत्वं हि व्रतिन एव । संश्रितरक्षणं च तदूव्रतम् ; यथा, " ददाम्येतद् व्रतं मम " इति । विनत-रक्षाशब्दाभ्यां तृतीयचतुर्थाध्यायार्थी संक्षिप्तौ । 1 भङ्गस्येति । भञ्जो आमर्दने । भङ्गो नाशनं प्रयोजकव्यापार एव । भङ्गो लय इत्युक्तिस्तु फलमात्रविवक्षया ।
६ प्रथमश्लोकार्थः एवं जगत्कारणत्वमोक्षप्रदत्वे कथिते । एते हि राज्ञः छत्रचामरवद् ब्रह्मणोऽसाधारणं चिह्नम् । परत्वसौलभ्ये च संश्रयणीयतानिमित्ततयाऽवगते, यथा “य एनं विदुरमृतास्ते भवन्ति” इत्युपक्रम्य, “सं बाहुभ्यां नमति से पतत्रैर्यावापृथिवी जनयन् देव एकः " इति, “सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति” इति च ॥ 9 प्रमेयशरीरं साधीयः, यदि प्रमाणमुपलभामहे इत्यपेक्षायां द्विकद्वयशेष भूतचतुःसूत्र्यर्थं वदन् प्रमेयानुरूपं प्रमाणं दर्शयति - श्रुतिशिरसि विदीप्ते इति । श्रूयते नित्यमिति श्रुतिः । अनेनापौरुषेयस्वान्निर्दोषत्वं विवक्षितम् । अत एव पूर्वमीमांसान्यायानां प्रामाण्याद्युपयोगिनामत्रोपजीव्यत्वं सूचितम्, शिरः शब्देनानन्यपरत्वं विवक्षितम् । परतस्वप्रधानाः मन्त्रब्राह्मणभागा ह्युपनिषदः । विदीप्ते । पूर्वभागेऽपि अग्नीन्द्रादिरूपतया ब्रह्मण एव प्रतिपाद्यत्वम्, “तदेवाग्निस्तद्वायुः” इत्यादिनोपनिषद्वाक्येनैव ज्ञायत इति विशेषेण दीप्तं विदीप्तम् । यद्वा क्षुद्रसुखसाधन भूतदुःखात्मक प्रवृत्तिनिवृत्तिरूपं प्रयोजनं पूर्वभागे दीप्तम् ; ब्रह्म तु स्वयं निरतिशयानन्दरूपतया परमपुरुषार्थभूतमुपरितनभागे विशेषेण दीप्तमिति भावः । अनेन समन्वयाधिकरणार्थः सूचितः । तत्पूर्वाधिकरणत्रयार्थश्चात्र द्योतितो भवति ; व्युत्पत्ति - लक्षण सौष्ठवाभावे श्रुतिशिरोवेद्यत्वायोगात् श्रुतिशिरःशब्दस्य प्रमाणान्तरव्यावर्तकत्वाच्च । ब्रह्मणीति सामान्यपदमौपनिषदानां सहझात्मादिसामान्यशब्दानां प्रदर्शनार्थम् । श्रीनिवास इति विशेषपदं नारायणादिविशेषशब्दानां प्रदर्शनार्थम् । “पशुना यजेत”, “छागस्य वपाया मेदसः” इत्यत्र, “छागो वा मन्त्रवर्णात्” इति ( पू. मी. 6.8 31.) सूत्रोक्कन्यायेन पशुशब्दस्य छागशब्दपर्यवसायित्व निर्णयात् सामान्यवाचिपदानां विशेषपदे सति तत्पर्यवसायित्वात् सद्ब्रह्मादिसामान्यशब्दानां नारायण एव विशेषे पर्यवसानं सूचितम् श्रीनिवासशब्दस्यावयवशक्त्या निष्यविभूतिमत्वं सूचितम् । रूढिशक्त्या त्रिमूर्तिसाम्यं तदैक्यं, ब्रह्मणस्तदुत्तीर्णत्वं च निषिद्धम् ; ‘ईश्वर एव ब्रह्म ; स त्रिमूर्त्यतिरिक्तः सदाशिवः; ब्रह्मादयस्त्रयोऽप्यनीश्वराः ’ इति पक्षश्च व्युदस्तः । परस्मिन्निति “परमतः सतून्मान” इत्यधिकरणार्थः सूचितः । तेनैवोपेयान्तरव्यावृत्तिः । ‘ब्रह्मविदाप्नोति परम्’ इत्यत्र प्राप्यस्य परशब्देनाभिधानात् । यद्वा कारणत्वशङ्कितदोषव्युदासाय, “न स्थानतोऽपि परस्य " इत्यधिकरणसिद्धं शोध कवाक्योक्तमुभयलिङ्गतया बैलक्षण्यं सूचितम् । अथोपायोपेयात्मके प्रतिपाद्ये विनतपदसूचितमुपायस्वरूपं वदति-शेमुषीति । अयं सामान्यशब्दः, भक्तिरूपेति विशेषशब्दः । अत्रापि छागो वा मन्त्रवर्णादिति न्यायोऽभिप्रेतः । शेमुषी शब्दोपादानेन ज्ञानकर्मसमुच्चय [मत ] व्यावृत्तिः । भक्तिरूपेति वाक्यार्थज्ञानव्यावृत्तिः । “शुद्धभावं गतो भक्त्या शास्त्राद्वेषि जनार्दनम् “, " भक्तषा स्वनन्यया …….. ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च” इत्युक्तप्रकारेण ज्ञानदर्शनप्राप्तिसाधनभूता भक्तिरप्यत्र विवक्षिता; आवेशेषेण मक्तिरूपेत्युक्तत्वात् । “अहमस्म्यपराधानामालयः” इत्यायुक्तप्रकारेण स्वात्मानमनुसन्धायाह- 1 भक्तिरपीति । अपिशब्दः तत्तद्विषयभक्तिसमुच्चायकः । ज्ञानदर्शनप्राप्तिविषया मक्तिश्च स्नेहपूर्वकोत्तरोत्तरतत्तलिप्सातिशयः ।
प्रथमाध्याये प्रथमपादे पाराशर्यवचरसुधामुपनिषद् दुग्धाब्धिमध्योद्धृताम् संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम् । पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थितामानोतां तु निजाक्षरैः सुमनसो भौमाः पिबन्त्वम्वहम् ॥ ७ ममेति । भवत्विति भक्तेरेव स्वादुतमतया प्रार्थनीयता सूचिता । यद्वा न हि भक्तिः सर्वेभ्योपि स्वदते इत्यत्राह - ममेति । मम - प्रतिबन्धकपापरहितस्य । शान्तपित्तस्य हि क्षीरे (र) स्वादुतमताबुद्धिरिति भावः । रक्षैकदीक्षे परस्मिन्नित्यन्तैः सप्तम्यन्तैः पदैरुपेयभूत एव सिद्धोपाय उक्तः । भक्तिरूपेति साध्योपायः ॥ अत्र श्लोके शास्त्रप्रतिपाद्यैकदेशभूतः परपक्षप्रतिक्षेपश्चार्थतः (र्थात् ) सूचितो भवति । जन्मस्थेममङ्गादिशब्देन युगपत्सर्गादिकमनभ्युपगच्छन्तो भाट्टप्राभाकरा व्यावर्तिताः । लीलाशब्देन साक्षिमात्रेश्वरवादिहैरण्यगर्भव्युदासः । विनतेत्यादिपदेन जीवानां परस्परम् ब्रह्मणा च भेदमनभ्युपयन्तो ब्रह्माज्ञानवादिनोऽपास्ताः, श्रुतिशिरसीत्यनेन वेदबाह्यचार्वाक बौद्धार्हतनिरासः; तेनैव पदेनानुमानिकेश्वरवादिनो व्युदस्ताः । ब्रह्मणीत्यनेन ब्रह्मात्मकप्रधानपरमाणु कारणवादिसाङ्ख्यवैशेषिकादिव्युदासः । श्रीनिवासशब्देन पाशुपतादिव्युदासः । अनेनैवेश्वरोत्तीर्णब्रह्मवादिनो [भेदाभेदवादिनो] व्युदस्ताः । शेमुषीशब्देन ज्ञानकर्मसमुच्चयोपायवादिव्युदासः । भक्तिरूपेति वाक्यार्थज्ञानमात्रोपायवादिव्युदास इत्येवमनुसन्धेयम् ॥ श्रुतेरेवोपायोपेयाषगतौ सत्यां किं भवतो वक्तव्यमित्यत्राह - पाराशर्येति । प्रथमश्लोकेन स्वप्रबन्धस्य परमप्रयोजनतया सिद्धरूपः परमविषयो दर्शितः; साध्यरूपं च रक्षापदेनातिसंक्षिप्तम् । अथ द्वितीयेन श्लोकेन स्वप्रबन्धस्यावान्तरविषयः परम्परया ब्रह्मविषयत्वं स्वप्रबन्धं प्रति सम्यग्ज्ञानस्याव्यवहितावान्तरप्रयोजनत्वं परम्परया मुक्तेः परमप्रयोजनत्वं स्वव्याख्येयस्य प्रमाणमूलता कथनेन व्याख्येयान्तराणामप्रमाणमूलकता स्वव्याख्येयविषयभाष्यान्तरव्यावृत्यर्थं स्वोक्तार्थस्य (स्वप्रबन्धस्य) साम्प्रदायिकत्वमित्यादि श्रोतमुच्यते ; स्तुल्यात्मकगुरूपासनरूपमङ्गलाचाराचार्यतः क्रियते । “जायमानं हि पुरुषं यं पश्येन्मधुसूदनः” “तद्विद्धि प्रणिपातेन”, “ददामि बुद्धियोगं तम्” इत्यादिभिराचार्योपसत्तेरपि भगवत्कटाक्ष हेतुकत्वावगमात् परदेवतोपासनानन्तरभावित्वं गुरूपासनस्य युक्तम् । तथा च श्रुतिः, “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ” इति । पूर्वैरपि तथाऽऽचरितम् । यथा भगवता वैशम्पायनेन, “नमस्कृत्य हृषीकेशम् “, “नमो भगवते तस्मै व्यासाय” इति । यथा च द्रमिडाचार्यैः, । " नमः प्रवरगुणैकास्पदाय स्थिरत्रसकुलबीजकुम्भभूताय भुवनकोशस्य गोत्रे ब्रह्मणे । नमो जैमिनये वेदरहस्यसम्पुटनिगूढविष्कारयित्रे न्यायप्रज्वलितचेतसे । नमोऽस्त्वाचार्येभ्यः” इति । पाश्चात्यैश्च, “विशुद्धज्ञानदेहाय”, “अभिवन्द्य गुरूनादौ” इति, “प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः " इति च । 1 पाराशर्यशब्देन जन्मोत्कर्षः " स होवाच व्यासः पाराशर्यः” इति श्रुतिप्रसिद्धः, तस्यैव बादरायणसंज्ञत्वं च विवक्षितम् । यथोक्तम् महर्षिणैव, “द्वीपे बदरिकामिश्रे बादरायणमच्युतम् । पराशरात् सत्यवती पुत्रं लेभे परन्तपम् 2” इति । यद्यपि ऋभ्यन्तरेऽपि बादरायणशब्दप्रयोगः, तथापि सूत्रकृद्विषयो बादरायणशब्दः पाराशर्यगोचर एव । तथाच स्कान्दे व्यक्तमुक्तम्
1 नेदं द्रमिडाचार्यवाक्यमित्यस युवचनमर्वाचीनाशुद्धग्रन्थान्तरतालदर्शनादि मूलकमश्रद्धेयम् । 2 परंतपमिति । पितुः पराशरत्ववत् पुत्रस्य परंतपत्वमपि, सर्वमतनिरासात् ।
cc द्वितीयश्लोकार्थः ‘नारायणात् विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किंचित् तदन्यथा भू(जा)तं त्रेतायां द्वापरेऽखिलम् ॥ गौतमस्य ऋषेः शापात् ज्ञाने त्वज्ञानतां गते । सङ्कीर्णबुद्धयो देवाः ब्रह्मरुद्रपुरःसराः ॥ । शरण्यं शरणं जग्मुनारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥ अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदान् उज्जहार हरिः स्वयम् ॥ चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा ॥ कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥ अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः ॥ मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ॥ एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः । ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ॥ ज्ञानं संस्थाप्य भगवान् क्रीडते परमेश्वरः ॥” इत्यादिना । । । वचस्सुधाम् । वचशब्दस्य अर्थे तात्पर्यम्; यथा ‘वेदवित्’, ‘शास्त्रवित्’ इत्यादौ वेदादिशब्दानाम् । अर्थाभिधायकं हि वाक्यम् । वचसः सुधामिति केचिदाचार्याः । रूपकप्रकरणात्, सुधाशब्दलक्षणाभयाच्च सुधेव वच इति, “उपमितं व्याघ्रादिभिः” इत्यादि [ना] समासमपरे आचार्य आद्रियन्ते । सुधाशब्देन भोग्यत्वमभिप्रेतम् । एवमवान्तरविषय उक्तः । तर्हि कथं ब्रह्मणो विषयत्वमिति शङ्कायां सद्वारकं ब्रह्म [णो] - विषयत्वमित्याह - उपनिषदिति । ब्रह्मण्युपनिषण्णेति उपनिषत् । “उपनिषण्णत्वाद्वोपनिषत्” इति हि वाक्यम् । “गहने हीयं विद्या संनिविष्टा” इति तद्विषयं द्रमिडमाष्यम् । “गहने ब्रह्मण्युपनिषण्णा” इति भाष्यविषया वामनटीका । अद्वारकभगवत्प्रतिपादकत्वम् उपनिषण्णत्वम् । दुग्ध शब्देन पूर्व भागादप्युपनिषदः सारत्वं विवक्षितम् । यथा, “आरण्यकं च वेदेभ्यः ओषधीभ्यो यथाऽमृतम्” इति । अब्धिशब्देन आलोचितानामुपनिषदामानन्त्यादि सूचितम् । मध्यशब्देन सर्ववाक्यानां मुख्यार्थी परित्यागोऽभिप्रेतः; मध्यस्य सर्वपर्यन्तदेशापेक्षया तुझ्या ह्यासत्तिः । उद्धृतशब्देनातिनिम्नदेशनिमग्नोद्धर (दूग्रह) णमप्यभिदधता निश्शेषार्थग्रहणं सूच्यते । स्वप्रबन्धस्यावान्तरविषयः पाराशर्यसूत्रम्, तस्यावान्तरविषयः उपनिषत्, तद्विषयभूतं ब्रह्मेति परम्परया ब्रह्मणः प्रतिपाद्यत्वम् । बादरायणसूत्राणामुपनिषन्मूलकत्वकथनेन सांख्यादि ग्रन्थानामप्रमाणमूलत्वात् तदनादरेणैतव्याख्यानमिति सूचितम् । प्रणाच्या शास्त्रजन्यं परमप्रयोजनमाह-संसारेति । संसाराग्निशब्देन संसारस्य कार्त्स्न्येन तापत्रयरूपता विवक्षिता । यथा, “स्वर्गेपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः” इति । दीपनशब्देनासङ्कोचात् सदाभिज्वलनवाचिना, विद्यालब्धेः पूर्वं कदाचिदप्यनिर्वाप्यत्वमभिप्रतम् । वैविध्यम् आध्यात्मिकादिरूपेण, तेषु त्रिष्वेकैकस्यापि शारीरमानसादिरूपेण च । आत्मनां प्राणः परमात्मा । “सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति” “को ह्येवान्यात् कः प्राण्यात्” इत्यादिश्रुतेः । गतशब्देन तद्रलाभः, 1 रूपकेति । अत्र वक्तव्यं भावप्रकाशिका भूमिकायामप्यस्मदीयायां द्रष्टव्यम् ।
प्रथमाध्याये प्रथमपादे ९ भगवद्बोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृत्ति पूर्वाचार्याः संचिक्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते । उपसर्गाभ्यां तस्यानादित्वं विविधत्वं च विवक्षितम् । ज्ञानदर्शनप्राप्तिष्वन्यतमस्याप्यभावादलाभस्य वैविध्यम् । सञ्जीवनीमिति । जीवनमुज्जीवनम् - संसारोन्मोच (न्मूल) नम् । समिति कैवल्यव्यावृत्तिः 1 । " अथ सांप्रदायिकत्वमाह - पूर्वाचार्येति । पूर्वशब्देन शङ्कराद्यर्वाचीनव्यावृत्तिः । सुरक्षिताम् ; नोपदेशमात्रेण ; ग्रन्थरूपेण चेति भावः । 2 पूर्वाचार्यग्रन्थरर्थस्वरूपं प्रतिपन्नं चेत् किं भवतः कृत्यमित्यत्राह बहुमतीति । बह्वयो मतयः; बहूनां मतयो वा । तासां परस्परत्र्याघातेन, ताभिः समीचीनार्थव्याघातेन चावी चीन जनै दुखगम (गाह) स्वमाह - दूर स्थितामिति । न यथावदप्रतीतिमात्रम्, अन्यथा च प्रतिपत्तिरासीदिति भावः । सूत्राद्यवान्तरविषयस्य विषयी स्वग्रन्थ इति न पूर्वं कण्ठोक्तम् ; तदाह–आनीतामिति । सुधापक्षे निजाक्षरैः - गायत्रयवयवभूतैरमृताक्षरैरिति यावत् । अतो ममाक्षरैरित्यनुक्तिः । सुमनसः “सारासारविवेकज्ञाः” इत्युक्ताः । अनेनासदपरिग्रहो न दोषायेत्युक्तं भवति । देवादीनां वृत्तिकारग्रन्थादिभिः सुगमत्वात् भौमा इत्युक्तम् । पिबन्त्वन्वहमिति । रस्यतातिशयान्न तृप्तिकरीति भावः । फलान्तराद् भगवत्प्राप्त्युपाय एव हि स्वादुतमः । यथोक्तम्, “क्क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो वासुदेवेति मुक्तिबीजमनुत्तमम् " इति । यद्वा गभीरत्वादन्वहं शीलनीयेति भावः । तर्हि पुरातनग्रन्था एव वाचयितव्याः; किमपूर्वग्रन्थनिर्माण -तत्प्रवर्तनयत्न गौरवेणेति शङ्कायामाह भगवदिति । भगवच्छब्देन शङ्करादिवत् अनाप्तत्वं नास्तीत्यभिप्रेतम् । बोधायनशब्देन पूर्वाचार्यशब्दोऽप्यर्थाद्विवृतः । विस्तीर्णां…. सञ्चिक्षिपुरिति । अनेन वृत्त्यादीनामत्र त्येष्वद्यतनजनेष्व कार्यकरत्वं सूचितम् । बोधायनेन ह्यतिविस्तीर्णा वृत्तिः कृता; द्रमिडभाष्यकारादयो हि परपक्षप्रतिक्षेपाद्यनादरेणातिसंक्षिप्तान् ग्रन्थान् अरचयन् ; अतिविस्तीर्णार्तिसंकुचितग्रन्थानां साफल्यमायुष्मद्बुद्धिमज्जनप्रचुरेषु देशकालान्तरेष्वेव भवति ; न हीदानीन्तनपुरुषाणां सर्वेषां शतायुष्ट्वं यावज्जीवं ग्रन्थपरिश्रमः सहजधीविशेषाश्च सन्ति ;. तस्मात् परमतनिरासाद्यर्थम्, अनतिविस्तरतया सुग्रहत्वार्थं च सूत्रं व्याख्यातव्यमिति यावत् । तन्मतानुसारेण न तु स्वोत्प्रेक्षितमतान्तरेण । सूत्राक्षराणि । सूत्रपदानां प्रकृतिप्रत्ययविभागानुगुणं वदामः ; न तु स्वोत्प्रेक्षितार्थेषु सूत्राणि यथाकथश्चिद्योजयितव्यानीति भावः । व्याख्यास्यन्ते । व्यायामुपसर्गाभ्यामपेक्षितविस्तरानपेक्षितसंक्षेपौ द्योतितौ । ; 1 समितिकैवल्यव्यावृत्तिरिति । व्यपगतप्राणेत्यत्र विअपेत्युपसर्गद्वयविशिष्टगतशब्देन प्राणस्य प्राप्तिः दर्शनं ज्ञानमिति त्रयमप्यादितो नास्तीति बोध्यते । संसारो नाम वैषयिकभोगार्थोच्चनीचलोकसंचारः कर्म च । तत्कृतः प्राणव्यपगमश्च स्वात्मपरमात्मोभयानुभवराहित्यम् । प्राणौ परजीवौ । तत्रैकांश प्राप्तिरूपप्राणसंगमो जीवनम् । तत् कैवल्यम् । उभयप्राप्तिर्मोक्ष इति । प्राणशब्दस्य परमात्मपरत्वं प्रागुक्तम् । न तस्य जीवव्यवच्छेदे तात्पर्यम् ; किंतु प्राणवायुपरत्वव्युदास एव । भूमविद्यादौ प्राणशब्दो जीवपरतया प्रसिद्धः । तद्विशिष्ट परमात्मग्रहणमिह । यद्वा अननं वैषयिकभोगः ; प्राणनं कःप्राण्यादित्युक्तो जीवपरानुभवः । तत्प्रदत्वाकारेण पर इह प्राणशब्दविवक्षितः । संसारोन्मोकरूपश्चाभावः जीवपरमात्मान्यतरानुभवविशेष एव । कैवल्यनित्यत्वानित्यत्वचिन्ता तु प्रकृतग्रन्थबाह्या । 2 पूर्वाचार्याः श्रीभगवद्यामुनेयादिग्रन्थदर्शिताः इति तत्त्वटीका । 3 श्लोकस्थतुशब्दार्थो भाष्यार्थदर्पणे । श्रु० 2
१० (pg 126)
जिज्ञासासूत्रार्थः
…
अनेन वृत्ति-ग्रन्थ-गत-षोडशलक्षण-शब्दतात्पर्यं च दर्शितम् ।
पूर्वोत्तरमीमांसा-शब्देन जैमिनीय-शारीरक-शब्दौ च विवृतौ ।
प्रतिपिपादयिषित-शब्देनार्थ-विरोधः परिहृतः ।
प्रतिपादयितुम् इष्टं हि प्रतिपिपादयिषितम् ।
स च तात्पर्य-विषयोऽर्थः ।
विरुद्धतया प्रतीयमानेषु देवता-निरासादिषु
न तात्पर्यम् इत्य् अभिप्रायः ॥
श्रु० 4
२६
नन्वेवं कथमभिधीयते ? " आम्नायस्य क्रियार्थत्वात्” (पू, मी. १-२ ) इति सिद्धपरवाक्यानां तच्छेषत्वं हि सूत्रकारेण कण्ठोक्तम् । तच्च विरुद्धयत एव । अतः शास्त्रभेद इति ॥ नैवम् । " पदे जुहोति”, “आहवनीये जुहोति “, " न हिंस्यात् सर्वा भूतानि”, “पशुमालभेत " इतित्रत, शास्त्रान्तरे, “कर्मण्यण्” “आतोऽनुपसर्गे कः” इतिवच्च उत्सर्गापवादन्यायेन शास्त्रैक्याविरोधात् । सामान्येन सिद्धपरवाक्यानां क्रियाशेषत्त्रेऽमिहिते सिद्धपरवाक्यविशेषस्य किं विधिशेषत्वं न वेति विचार्य, ‘स्वयं पुरुषार्थविरहिणामेव सिद्धपराणां क्रियापत्यम् ; स्वयंपुरुषार्थपर्यवसायिनां तु सिद्धपरवाक्यानामतच्छेषत्वम्’ इति हि निर्णेतुं युक्तम्, यथा होमस्य सामान्येनाऽऽहवनीये प्राप्तत्वेऽपि होमविशेषस्य पदे कर्तव्यत्वनिश्चयः, यथा च सामान्यतो हिंसानिषेधेऽपि हिंसाविशेषस्य कर्तव्यतोक्तिः, यथा च सामान्येन कर्मण्युपपदे धातोरणि1 प्राप्तेऽपि आकारान्तात् धातोः कप्रत्ययविधिः । न च तत्र शास्त्रभेदः - तद्वत् ॥ देवतानिराकरणे च न तात्पर्यम् ; अश्रुतवेदान्तानां कर्मण्यश्रद्धानिराकरणाय कर्मप्राधान्यपरत्वात् तस्य । “न हि निन्दा निन्धं निन्दितुं प्रवर्तते, अपितु निन्दितादितरत् प्रशंसितुम्” इति हि न्यायविदः । यद्वा वेदप्रामाण्य कर्मावश्यकर्तव्यता तात्पर्यातिशयात् तत्प्रतिपक्षनिराचिकीर्षया अन्वारुह्यवादो देवतानिरासोक्तिः स्यात् । अभिमततरार्यानादरेणापि हि विपक्षव्युदासो दृश्यते ; यथा – “अभीष्टार्थव्ययेनापि जयति क्षेत्रहारिणम् । ब्त्रक्षेत्रैर्न दुष्प्रापः स्यादर्थ इति निश्चयात्” । एवमभिमततरेश्वरानादरेणापि वेदप्रामाण्यादिसमर्थने पश्चादभिमतसिद्विरयत्नलभ्येति जैमिनेरभिप्रायः । तत्सिद्धिप्रकारश्च तदुक्तरात्रिसन्यायाद्यधीन इत्युत्तरत्र व्यक्तीभविष्यति । न च तत्सिद्धिमभ्युपगच्छत तदनादरवादव्याघातः ; तस्यान्यारुह्यकृतत्वात् ॥ कथमन्वारुह्यत्रादत्वनिश्चयः । उच्यते । “सम्पत्तेरिति जैमिनिः “, " अन्यार्थ तु जैमिनिः”, “परं जैमिनिर्मुख्यत्वात् “, ब्राह्मण जैमिनिः” इत्यादिब्रह्मसूत्रैरेव जैमिनेब्रह्मस्वरूप तद्गुणतदुपासनतत्फलाद्यम्युपगमस्य प्रतिपन्नत्वात् ; महाभारते च हयशिरउपाख्यानादिपू, भगवद्या सोपदेश लब्ध परमात्मतत्त्वज्ञानत्वावगमाच्चेति । अतो विरुद्धेऽर्थे तात्पर्याभावान्नार्थविरोधः ॥ 1. 3 नन्धर्थविरोधो दुष्परिहरः । तथा हि विशेषातिदेशनिरूपणपरे अष्टमेऽध्याये - विकृतिषु प्रकृतिधर्मातिदेशे कर्तव्ये सति कस्मिन् कर्मणि कस्य कर्मणो धर्मातिदेशः प्राप्तः इत्यपेक्षायाम्, यस्य कर्मणो येन कर्मणा द्रव्यसाम्यं देवतासाम्यं वा भवति तस्मिन् तद्धर्मोऽतिदेष्टव्य इति स्थितम् । तत्र, ‘यस्य केनचिद् द्रव्यसाम्यं केनचित् देवतासाम्यं च भवति, तस्मिन् द्रव्यसाम्यवत एव कर्मणो धर्मातिदेशः कृतः, न तु देवताताम्यवतः इति द्रव्यप्राधान्यमुक्तं जैमिनिना, 4 द्रव्यदेवतासाम्ये द्रव्यं बलीयः इति । न च द्रव्यप्राधान्योक्तेरतिवादस्वम; अनुष्ठानविरोधात् द्रव्यप्राधान्येन ह्यनुष्ठानं दृश्यते । अतो द्रव्यप्राधान्यं वदतो जैमिनेर्देवतानिरासे तात्पर्यमस्तीति ॥ । 1 अणि कुम्भकार इति, कप्रत्यये गोद इति उदाहरणं द्रष्टव्यम् । 2 रात्रिसत्रन्यायादीति । इदमुपरि जिज्ञासाधिकरणरचनावसरे भाष्य एव व्यक्तम् । “ज्योतिगौरायुः ……य एता रात्रीरुपयन्ति” इति रात्रिसत्रवाक्यम् । 3 स्थितमिति । प्रथमाधिकरणादाविति भाव्यम् । 4 द्रव्यदेवतासाम्ये इत्यादिरर्थानुवादः । सूत्रं तु ‘विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात्’ इत्यादि (8-1-32-34 ) ।
मीमांसाशास्त्रम् - " अथातो धर्मजिज्ञासा” २७ इत्यारभ्य, “अनावृत्तिशब्दादनावृत्तिश्शब्दात्” इत्येवमन्तं अपि तु अत्रोच्यते । नात्र द्रव्यदेवतयोः सद्भावासद्भावाभ्यां प्राधान्याप्राधान्ये विवक्षिते ; बिलम्बिताविलम्बित प्रवृत्तिकप्रमाणविषयत्वाधीने । द्रव्यं ह्यविलम्बित प्रत्यक्षगम्यम्; देवता तु विलम्बितशास्त्रगम्या । बिलाम्बाविलम्बावेव हि श्रुतिलिङ्गादिषु प्रत्यक्षादि च पूर्वोत्तरप्राबल्यदौर्बल्य हेतू ॥
ननु हविष्ट्रवं, शास्त्रकगम्यमिति न द्रव्यस्यापि प्राधान्यमिति चेत् — नैवम् । चरुपुरोडाशादिकं द्रव्यं हि प्रत्यक्षम् । हविष्ट्वाख्यधर्ममात्रमेव तत्र शास्त्रगम्यम् । देवतायास्तु रु रूपं श्रेयःसाधनत्वादिधर्मश्चोभयमपि शास्त्रगम्यम् । अतः स्वरूपतो धर्मतश्च विलम्बितमानगम्यत्वाद् देवताया अप्राधान्यम् ; धर्ममात्रस्य शास्त्रगम्यत्वेऽपि धर्म्यंशेना(शस्या) विलम्बितमानगम्यत्वात् हविषः प्राधान्यम् । अतः प्राधान्याप्राधान्ययोः प्रमाणद्वारकत्वेन स्वरूपासद्भावे तात्पर्यं नास्तीति देवतानिरासोक्तिरन्यपरा । एवमर्थान्तराविरोधेन नेतुं शक्यानीति नार्थबिरोधः ॥
ननु ब्रह्मसूत्रैरेव जैमिनिपक्षमनूद्य प्रतिक्षेपादर्यविरोधो दुष्परिहरः । तथा हि – “फलमत उपपत्तेः " इत्यत्रेश्वरस्य फलप्रदत्वोक्त्या, “धर्म जैमिनिः” इति धर्मस्य फलप्रदत्यमन्यं प्रतिक्षिप्तम् ॥ नः श्रुतत्वोपपत्तिभ्यां कालान्तर माविफलसाधनमात्रे जैमिन्यभिहिते ताभ्यामेवात्र फलसाधनविशेषसिद्धेरुक्तत्वात् ॥
ननु, “शेषत्त्रात् पुरुषार्थवादो यथा अन्येष्विति जैमिनिः” इत्यत्र वेदान्तोदितात्मज्ञानस्य कर्मशेषतयाऽऽत्मनां कर्मशेषत्वोक्तिः, “अधिकोपदेशात्” इति सिद्धान्तेन विरुद्धयते । न च विकल्पेन निर्वाहः संभवति ; वस्तुनि विकल्पायोगात् । न च जैमिनिना परमतमुपन्यस्तमिति वाच्यम् - जैमिनिमतलेन सिद्धान्तिना प्रतिक्षेपायोगात् ॥ नैवम् । विपक्षनिरासार्थस्य जैमिनेरम्वारुह्यवादस्य तथोपन्यासप्रतिक्षेपोपपत्तेः । अन्यथा, “परं जैमिनिः” इत्यादिसूत्राणां मिथोविरोधः; भारतोक्तिविरोधश्च । जैमिनेरन्वारुह्यवादमजानतां तु तदुक्के तस्त्रबुद्धिः स्यादिति तन्निवारणाय ब्रह्मसूत्रे तदुपन्यासनिरासौ कृतौ । अत एव, “परामर्श जैमिनिः " इत्यत्र नैष्ठिकाद्याश्रमप्रतिक्षेपोपि परिहृतः । " तद्भूतस्य” इत्यत्र नैष्ठिकाद्याश्रमभ्रंशस्य जैमिन्यनभिमतत्वाभिधानात् । न ह्याश्रमानभिमतौ तद्भ्रंशानभिमति संभवः । अतो वीतरागव्यतिरिक्ता नामग्निहोत्रादिष्व श्रद्धानिवारणार्य. आश्रमान्तरप्रतिक्षेपः पूर्ववदन्वारुह्यवादः । स च पूर्वमीमांसायाम सूत्रितः । तथाप्यौडुलोम्यादिमतवदनूद्य निरस्तः न च मधुविद्यायां वस्त्राद्यनधिकारोक्तिरधिकारोक्त्या विरुध्यत इति वाच्यम् ; अनधिकारोक्तेर्वस्वादिदेवताभ्युपगमचिह्नत्वेन शास्त्रैक्याविरुद्धतया तदुद्घाटनवैयर्थ्यात् । “भावं जैमिनिः” इत्यादिसूत्रोक्ताश्च पक्षाः शास्त्रैक्याविरुद्धाः, कर्मविचारे तेषामसमर्थनादिति न तत्पर्यनुयोगावकाशः । तस्मान्नार्थविरोधः । कर्तृभेदपरिहारस्तु प्रसिद्धत्वान्न कण्ठोक्तः । अत एव चशब्दसूचितो वा । धूर्तस्वामिकपर्दिकर्तृकस्पाऽऽपस्तम्बसूत्रव्याख्यानस्य व्याख्येयैक्यादेकप्रबन्धत्वं हि दृष्टम् । पाणिनीयसूत्रपूर्वोत्तरवृत्त्योश्च वामनजयादित्य कर्तृकयोर्व्याख्येयैक्यादेकव्याख्यानत्वं दृष्टम् ; तस्मादुपपन्नमैकशस्त्र्यम् ॥ अस्त्यैकशास्त्र्यम् ; कथं पौर्वापर्यनियम इत्याशङ्कां परिहरन् वृत्तिग्रन्थस्थं संहितमिति पदं विवृणोति ‘मीमांसेति । क्रमविशेषान्वितमैकशास्त्र्यं संहितमित्यनेनाभिप्रेतम् । आरभ्य एवमन्तमिति पौर्वापर्यनियम उक्तः । 1
[[९८]]
सङ्गतिविशेषेण विशिष्टक्रमम् ।
तथाहि - प्रथमं तावत् “स्वाध्यायोऽध्येतव्यः”
इति अध्ययनेनैव
स्वाध्याय-सङ्गति-विशेषेणेति ।
अत्रामी सङ्गतिविशेषा अभिप्रेताः -पाठकमः, चेतनानां त्रिवर्गे प्रथम-प्रावण्य-संभव-रूपो ऽर्थ-स्वभावः, औपनिदेष्वङ्गाङ्गिभावप्रतिपादकवाक्येषु यज्ञादिकर्मणः पदार्थत्वेन सम्बन्धः, कासुचिद्विद्यासु यज्ञतदुपकरणादीनां दृष्टिविशेषणत्वोक्तिः, कर्मब्रह्मविद्ययोर्दृष्टान्तदाष्टन्तिकभावः, विद्याकर्मणोरुत्पाद्योत्पादकभावात् तच्छेषभूतविचारयोः तत्क्रमभाक्त्वोपपत्तिः, व्याख्यान भूतमीमांसायां च उत्तरभागस्य पूर्व भागोतन्यायसापेक्षत्वं चेति । एवं पौर्वापर्यनियामक सङ्गतिविशेषेण विशिष्टकमं क्रमविशेषवदित्यर्थः ॥
ननु भवतु वेदप्रामाण्यसिद्ध्ये प्रथमाध्यायस्य पूर्वभावित्वम् ; द्वितीयाध्यायात् पूर्वं ब्रह्मविचारः किं न स्यादिति चेत्-न, तत्रतत्रोक्तः सङ्गतिविशेषैः षोडशलक्षणानुपूर्वीसिद्धेस्तदनन्तर प्राप्तत्वात् ब्रह्मविचारस्येव्यभिप्रेत्य सङ्गतिविशेषेण विशिष्टक्रममित्युक्तम् । एवमत्रैकशास्त्र्यं पौर्वापर्यनियमः शास्त्रस्यारम्भणीयत्वं चेति त्रयं प्रतिज्ञातम् । पूर्वोक्तस्य साङ्गसशिरस्काध्ययनस्य प्रमाणं दर्शयन् साधनचतुष्टयसंपादनस्यानवसरग्रस्ततां च दर्शयन् प्रतिज्ञातार्थत्रयमुपपादयितुमाह तथाहीति । प्रतिज्ञातार्थत्रयोपपादनार्थमध्ययनविधिं निरूपयति प्रथममिति ।
ननु वेदप्रामाण्यसमर्थनमिव कर्मविचारसिद्धमध्ययनविधिनिरूपणं किं नोपजीव्यते इति चेत् — न ; अर्वाचीन व्याख्यातृभिरर्थज्ञानपर्यन्ततायास्तत्रोक्तत्वाद् । अक्षरराशिग्रहणपर्यन्तत्वं हि भगवद्बादरायणाभिमतम् । “अध्ययनमात्रवतः " इति हि वक्ष्यते । अतस्तत्र वक्ष्यमाणोऽर्थः शास्त्रारम्भणीयत्वायात्र प्रतिपाद्यते । अध्ययनविधेरक्षरराशिग्रहणमात्रपर्यन्तत्वे निरूपिते शास्त्रस्यारम्भणयित्वासिद्धिः ; कृत्स्नविषयत्वनिरूपणेन ऐकशास्त्र्यपौर्वापर्यनियमसिद्धिः ॥ कंथमक्षरग्रहणमात्रपरत्वे आरम्भणीयत्वम् ? ॥ इत्थम् । अध्ययनविधेरर्थज्ञानपर्यन्तत्वे सति, अर्थज्ञानस्य “अधीत्य स्नायात्”, “आचार्यकुलाद्वेदमधीत्याभिसमावृत्य” इति यज्ञाद्यनुष्ठान रोषत्वेन विनियोगादुपनिषत्सिद्धस्य - ब्रह्मज्ञानस्यापि कर्मशेषत्वापत्तेः तस्य च ज्ञानस्य, “आत्मा वा इदम्”, “अयमात्मा ब्रह्म” इति त्रय्यन्तस्थब्रह्मशब्दस्यात्मपर्यायत्वेनाऽऽत्मविषयत्वात् आत्मज्ञानस्य व्रीह्यादिद्वारा प्रोक्षणादेरिवात्मद्वारा कर्मशेषत्वे सति द्वारभूतव्रीह्यादेरिव द्वारभूतात्मनश्च कर्मशेषत्वं स्यात् । न च समुद्रध्यान ( पू. मी. ९-२-४७ सू.) वत् आत्मज्ञानस्यादृष्टद्वारा कर्मशेषत्वात् समुद्रवदात्मा न कर्मशेष इति वाच्यम् — कर्मशेषतया क्लृप्तस्याऽऽत्मनो द्वारभावे संभवत्यदृष्टकल्पनायोगात्, समुदस्य तु क्रतूपकारकत्वासंभवेन ह्यदृष्टकल्पनम् ॥
नन्वात्मनः फलप्रदतया शेषत्वमस्त्विति चेत् — न, संप्रतिपन्नेनाऽऽत्मना, आत्मज्ञानस्य कर्मशेषत्वे निरूढेऽप्यसंप्रतिपन्नात्म कल्पनाऽयोगात् । न हि जीवविलक्षण आत्मा संप्रतिपन्नः । अतोऽनुष्ठानशेषभूत आत्मा कर्मसु कर्तृभूतो जीव एवेति वेदान्तानां जीवपरत्वेन तदतिरिक्तेश्वरे प्रमाणाभावादप्रामाणिकेश्वरविचाररूपं शास्त्रमनारम्भणीयं स्यादिति प्राप्नुयात् । अक्षरराशिग्रहणमात्रपर्यन्तत्वे तु अर्थज्ञानस्यानुष्ठानशेषत्वाभावेन कर्मसु कर्तृभूतजीवातिरिक्तात्मप्रतिपादन संभवात् प्रामाणिकपरमात्मविचाररूपं शास्त्रमारम्भणीयं स्यादिति । अतोऽध्ययनविधिर्निरूप्यते ।
२९ शब्दवाच्यवेदाख्याक्षररराशेर्ग्रहणं विधीयते । तच्चाध्ययनं किंरूपम्, कथं च कर्त्तव्यम् इत्यपेक्षायाम्, “अष्टवर्ष ब्राह्मणमुपनयीत ; तमध्यापयेत्” इत्यनेन, । तत्राध्ययनस्य सक्तुहोमवत् प्रधानकर्मत्वं स्वरूपेण विधयत्वमध्यापन विधिप्रयुक्तत्वमुपनयनस्याध्यापनाङ्गत्वं च प्राभाकराभिमतमनादृत्य, अध्ययनस्यावघातवद् गुणकर्मत्वं नियमस्य विधेयत्वमध्ययनस्य स्वविधिप्रयुक्तत्वमुपनयनस्याध्ययनाङ्गत्वं चेति कौमारिलाभिमतमर्थचतुष्टयम्, उमयानभिमतमक्षरराशिग्रहणमात्रपर्यन्तत्वं च संप्रहेण प्रतिजानीते प्रथममिति । प्रथमं तावत् – प्रथमत एव । " यावत्तावच्च साकल्ये ऽवधौ मानेऽवधारणे” इति नैघण्टुकः । प्राथम्यं शास्त्रान्तरश्रवणयोग्यावस्थापेक्षया पूर्व भावित्वम् । । गर्भाष्टमोपनीतस्य ह्यध्ययनम् । ततः पूर्वं शास्त्रान्तरपरिश्रमानर्हत्वात्, अध्ययनविधिपरतन्त्रस्य साङ्गाध्ययनानन्तरं कर्मविचारावश्यम्भावस्य स्वरससिद्धत्वाच्च साधनचतुष्टयादिपूर्ववृत्तान्तरनिष्पादनस्यानवसरग्रस्तत्वं प्रथमं तावदित्यनेन फलितम् । लौकिकाक्षरराशिग्यावृत्त्यर्थे वेदाख्यशब्दः, । वेदाख्यशब्देन कृत्स्नाध्ययनं च सूचितम् । न हि वेदान्तभागमात्रं स्वाध्यायशब्दवाच्यम् । अध्ययनेनेति निर्देशेन गुणकर्मत्वं सूचितम् ; भावार्थस्यान्यनिष्ठत्वप्रतीतेः । यदि प्रधानकर्मत्वमविवक्षिष्यत्, तदा हि, स्वाध्यायेनाध्ययनं संपाद्यमिति वचनव्यक्तिरभविष्यत् । एवकारेण नियमविधित्वं द्योतितम् । न तु पुस्तकनिरीक्षणादिनेत्यर्थः । “स्वाध्यायोऽध्येतव्यः” इति अध्ययन विधिवाक्योपादानेन स्वविधिप्रयुक्तत्वं सूचितम् । न ह्नि, अध्यापयेदिति वाक्यमुपात्तम् । प्राथम्यवचनादध्ययनस्योपनयनाङ्गकस्थं च फलितम् । शास्त्रान्तरपरिश्रमायोग्यगर्भाष्टमवर्षाभिप्रायेण हि प्राथम्यमुक्तम् । अध्ययनस्य च प्राथम्यम्, “अष्टवर्षं ब्राह्मणमुपनयीत” इत्युपनयनविषयतयोक्तस्य कालस्य उपनयनद्वाराऽध्ययनशेषत्वे सत्येव ह्यपपद्यते । एवमर्थपञ्चकं संक्षेपेण प्रतिज्ञातं भवति । अस्मिन्नध्ययनविधिवाक्येऽध्ययनस्य प्राथम्यं साङ्गत्वमुपनयनाङ्गकत्वं च न प्रतीतम ; “उपनयीत; तमध्यापयेत्” इति वाक्यान्तरेणाध्ययनस्याध्यापन विधिप्रयुक्तत्वमध्यापनस्योपनयनाङ्गका न प्रतीयते इति शङ्कायामाह तच्चे ति । चः शङ्कानिवृत्तौ । तत् – “स्वाध्यायोऽध्येतव्यः” इति वाक्यप्रतिपादितमित्यर्थः । “आद्ये त्वध्ययने नैव काचिदस्ति फलश्रुतिः । धारणे जपयज्ञे च या साप्येवं निवारिता” इति जपादेरप्यध्ययन शब्दवाच्यत्वात् तेषु प्रस्तुताध्ययनस्य आद्याध्ययनत्वनिश्चयायाह किंरूपमिति । किं सकृदुच्चारणरूपमाहोस्विद सकृदुच्चारणरूपम्, किं वा स्वतन्त्रोच्चारणरूपमुत परतन्त्रोच्चारणरूपमित्यर्थः । परतन्त्रासकृदुच्चारणरूपत्वे ह्याद्याध्ययनत्वसिद्धिः । कथम् ; किमङ्गकमित्यर्थः । इत्यपेक्षायाम् अपेक्षितानि विधीयन्ते इत्यन्वयः । प्राथम्यं परतन्त्रोच्चारणरूपत्वमुपनयनाङ्गकत्वञ्च दर्शयितुमाह अष्टवर्षमिति । अष्टवर्षमित्यनेन प्राथम्यं सिद्धम् । उपनयनद्वाराऽध्ययनशेषत्वात् कालस्य ‘ब्राह्मणमुपनयीत’ इति द्वितीयाश्रुल्या माणवकशेषत्वावगमादुपनयनस्य उपनयनस्याकर्त्रभिप्रायसूत्रविहितत्वाच्च 1 तद्गताध्ययनाङ्गत्वसिद्धिः 1 ‘आधे त्वध्ययने’ इति न्यायरत्नमाला श्लोके चतुर्थः पादः ‘फलश्रुतिरियं यतः’ इत्याकारकः । तदर्थस्तु —– ग्रहणाध्ययनं धारणाध्ययनं जपाध्ययनमिति त्रिविधेऽध्ययने धारणाध्ययनगोचरं तपः फलप्राप्तिवचनम् । जपाध्ययनगोचरं क्रतु फलायुरादिप्राप्तिवचनम् । स्वाध्यायोऽध्येतव्य इति स्वीकरणाध्ययनस्य तु न फलं श्रुतमिति स्वर्गार्थता स्यादिति । अत्र, या साऽप्येवं निवारिता इति चतुर्थपादानुवादात् जपधारणाध्ययनविषयवाक्यगतफलश्रुतीनामपि फलश्रुतित्वासंभवमुपपाद्य स्वर्गार्थत्वदृढीकरणार्थ प्रवृत्तं पश्चाद्भावि ग्रन्थान्तरमिदमिति विमृश्यते ।
7 न्यायरत्नमाला- ३० १-१-१. अध्ययन-तदङ्गविधिनिरूपणम् “श्रावण्यां प्रोष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥” इत्यादित्रतनियमविशेषोपदेशैश्चापेक्षितानि विधीयन्ते । नाध्यापनाङ्गत्वसिद्धिः । " अध्यापयेत्” इत्यनेन परतन्त्रोच्चारणरूपत्वसिद्धिः । " द्वादशाहेन प्रजाकामं याजयेत्”, “अन्नाद्यकामं याजयेत्”, “निषादस्थपतिं याजयेत्” इति प्रतिपन्नस्य याजनस्येव, अर्थार्जनाद्यर्थतया रागप्राप्त ध्याध्यापनस्याविधेयत्वा दध्यापनेऽधिकारिविशेषाश्रवणाच्चाध्ययनस्याध्यापयितृपूर्वकत्वमुच्यते इति अयमध्ययनाङ्गविधिरिति भावः । उपाकर्मादिवननियमाङ्गकत्वं साङ्गत्वं च दर्शयितुमाह श्रावण्यामिति । अर्द्धपञ्चमान् मासानित्यादीत्यत्रादिशब्दोपात्तैः, “अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत्" इत्यादिवचनैरङ्गाध्ययनस्य कालो दर्शितः । व्रतम् - उपाकर्मकाण्डव्रतादि । नियमः “यु हं वा एतच्छ्मशानम्, यच्छूद्रः । तस्माच्छूदसमीपे नाध्येतव्यम्" इत्याद्युक्तदेश-कालभक्ष्यादिव्यवस्थारूपः । अध्यापयेदित्यनेन व्रतनियमविशेषोपदेशैश्व इति पृथनिर्देशः श्रुतित्वस्मृतिस्वविभागात् विप्रतिपन्नत्वसंप्रतिपन्नत्वविभागाच्च कृतः । उपाकर्मादिव्रतनियमवत् उपनयनमध्यध्ययनाङ्गमिति भावः । किंरूपम्, कथं कर्तव्यम् इत्यपेक्षायामेभिरङ्गविधायकवाक्यैरपेक्षितानि विधीयन्ते इत्यर्थः ॥
ननु अष्टवर्षं ब्राह्मणमित्यत्रोपनयनस्याध्ययनाङ्गत्वमवगम्यते इत्युक्तम् ; तदयुक्तम् । तस्योपनेयासत्तिद्वाराऽध्येतृ साकाङ्क्षाध्यापनाङ्गत्वं ह्यवगम्यते । " उपनीय तु यः शिष्यम्" इत्यादिस्मृतिवचनाच्च तदवगम्यते ॥ उच्यते । “ब्राह्मणमुपनयीत” इत्यत्र द्वितीयाश्रुत्या उपनयनस्य माणवकशेषत्वमवगम्यते । माणवकशेषमुपनयनम् ; अध्ययनं च तद्गतम् । तत्रान्तरङ्गबहिरङ्गन्यायादुपनयनमध्ययनाङ्गमेव ॥
ननु “उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते " इति वचने क्त्वा श्रुत्योपनयनस्याध्यापनाङ्गत्वं युक्तम् । अन्तरङ्गत्वं हि वस्तुसामर्थ्यरूपं लिङ्गम् । ततः कःवाश्रुतिर्बलीयसी
इति चेत्–न । अन्तरङ्गत्वं हि प्रत्यक्षश्रुतिसिद्धम् ;
क्त्वा श्रुतिस्तु स्मृतिगता अनुवादरूपवचनस्था च ।
अतोऽस्याः स्मृतिवचनस्पत्वान्मूलश्रुतिसापेक्षत्वम्,
अनुवादरूपवचनगतस्याद्विध्यन्तरसापेक्षत्वमिति विलम्बद्वयमस्ति श्रुतिलिङ्गादिषु विलम्बिनधीहेतुत्वं हि परदौर्बल्यहेतुः ।
अतो विलम्बद्वयोपहता क्त्वाश्रुतिर्न बलीयसी ।
क्रिश्च श्रोत्रियोपाध्यायगुर्वादिनामविधानवत् तत्प्रकरणस्थमिदं वचनम् उपनीयाध्यापयितुराचार्य नामविधानपरमिति क्त्वाश्रुतिरुपनयनस्याध्यापनाङ्गत्वे प्रमाणं भवितुमर्हति ।
…
…
अङ्गविध्युपेतेन प्रधानविधिनाऽङ्गस्वरूपमङ्गिस्वरूपं च कथं प्रतिपन्नमित्यत्राह एवमिति । एवम् - अङ्गविधिभिः सह प्रधानविधौ निरूपिते इत्यर्थः । सत्सन्तानेत्यादिना, तस्मिन्नभिजन विद्येत्यापस्तम्बवचनार्थोऽनुसंहितः । आत्मगुणा अक्रोधादयः । अनेन समाहितशब्दार्थ उक्तः । वेदविच्छब्देन विद्यासमुदेतशब्दार्थ उक्तः । वेदविदाचार्योपनीतस्येति आचार्यविशेषणमुपनयनद्वारा माणत्रकार्थम् यथा उपनयनस्याध्यापनाङ्गत्वे माणवकविशेषणमाचार्यार्थम्, तद्वदिति भावः । व्रतनियमविशेषयुक्तस्य । • व्रत नियमविशेषवत् आचार्यविशेषणमपि माणवकार्थमिति भावः । आचार्योच्चारणानूच्चारणमिति परतन्त्रोच्चारणरूपता दर्शिता । अक्षरराशिग्रहणफलमिति पदम् असकृदावृत्तिरूपत्वस्याऽऽक्षेपकं दर्शयति । यथा “श्रीहीनवहन्ति” इत्यत्र दृष्टफललवस्याप्यपरित्याज्यत्वे नावहननस्य वैतुष्यपर्यन्तत्वाद् अश्रुताऽप्यावृत्तिः सिद्धा । दृष्टप्रयोजनापरित्यागेनैव नियमस्य विधेयत्वात् । आचार्योच्चारणानूच्चारणमित्यनेन वेदविदाचार्योपनीतस्येत्यनेन च अध्ययनस्याध्यापयितृसापेक्षत्वेन परतन्त्रोच्चारणरूपत्वं स्वविविप्रयुक्तत्वमुपनयनाङ्गकत्वं चोकम् । आचार्योच्चारणानूच्चारणमक्षरराशिग्रहणफलमित्यनेन किंरूपमित्याकाङ्क्षा शमिता । वेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्येत्यनेन कथं च कर्तव्यमित्यपेक्षा पूरिता । अक्षरराशिग्रहणफलमित्यनेन स्वाध्यायग्रहणकामत्वमध्ययनाधिकारिविशेषणमित्यपि सूचितम् । सक्तून् जुहोतीत्यत्र पुरुषस्य सक्तु होमजन्यादृष्ट भाक्त्वात् सक्तुहोमो यथा पुरुष संस्कारः, तद्वत् अध्ययनस्य पुरुषसंस्कारस्येऽस्याक्षरराशिग्रहणफलत्वं न स्यात्; अपूर्वसिध्यर्थतया स्वाध्यायसिद्ध्यर्थत्वाभावात् । ततश्चाक्षररशिग्रहणफलत्वाभावेनावृत्त्य सिद्धेः सकृदुच्चारणरूपमेत्राध्ययनं स्यादित्याह अध्ययनं चेति । उपनयनाङ्गकत्ववत् स्वविधिप्रयुक्तत्ववत् इदं चोपपादनीयमिति चार्थः । स्वाध्यायसंस्कारः । न तु सक्तुहोमवत् अपूर्वविषयतया पुरुषसंस्कार इत्यर्थः । कुत इत्यत्राह स्वाध्याय इति । तव्यप्रत्ययात् कर्मत्वावगमः । स्वाध्यायस्य .हि कर्मत्वावगमः ; न पुरुषस्य । कर्तुः क्रिययाऽऽप्तुमिष्टतमत्वं हि कर्मत्वम् । अतोऽध्ययनं स्वाध्यायसंस्कारः ; न तु पुरुषस्येत्यर्थः ॥
ननु निर्वर्त्यादेरपि साधारणं कर्मत्वं कथं संस्कारत्वे हेतुतयोच्यत इत्यत्र निवेश्यत्वविकार्यत्वानुपपत्तिममिप्रेत्य स्वाध्यायस्येति पुनः कीतनम् । वस्तुसामर्थ्य सचिवकर्मत्वावगमः संस्कार्यस्वे हेतुरिति भावः । फलान्तरे 1 । 1 यथा पुरुषसंस्कार इति । अदृष्टार्थसन्निपत्योपकारककर्मण एव संस्कारजनकत्वात् सक्तुहोमस्य पुरुषोद्देशेनाविहिततया न पुरुषसंस्कारकता - तथापि अपूर्वसामान्यस्य संस्कारपदेन व्यवहारः, “संस्कारः पुंस एवेष्टः” इत्यत्र ताकिकाभिमत इति तदनुसारेणेदम् । तदिदं भाक्त्वादित्यन्तेन ज्ञापितमेव । 2 फलान्तरे इत्यादि । पुरुषस्य स्वाध्यायप्राप्तिरेवाध्ययनफलम् ; प्राप्तिफलं तु स्वर्ग इति न युक्तम्-स्वाध्यायस्य संस्काररूपफलभाक्त्वस्वीकारे तस्य पारा यणार्थज्ञानादावुपयोगसत्त्वेन दृष्टपरम्परारूपफलान्तरसंभवात् तत्त्यागायोगादित्यर्थः ।
३३ संस्कारो हि नाम कार्यान्तर योग्यताकरणम् । संस्कार्यत्वञ्च स्वाध्यायस्य युक्तम् ; धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्साधनत्वाच्च । एवमध्ययनविधिर्मन्त्रवन्नियमवदक्षरराशि- / संभवति प्राप्यत्वमात्रपर्यवसानं चायुक्तम् ॥
ननु न कर्मत्वावगममात्रात् संस्कार्यत्वम्; ‘सक्तून् जुहोति’ ‘सुवर्ण भार्यम् ” ( पू. मी. 3. 4.12.) इत्यत्र सक्तुसुवर्णयोः संस्कार्यत्वाभावादिति सङ्कायां संस्कारस्वरूपं शोधयति संस्कारोही ति । हिनाम (मा) म्यां प्रसिद्धिः प्रतियोग्यभ्युपगमश्च सूच्यते । अपिचेतिवत् अनेकान्यय तुल्यरूप एकशब्दो वा । यद्यपि सत उत्कर्षाधानं संस्कार इति भूतभाव्युपयोगिसंस्कारानुगतलक्षणम् – तथापि स्वाध्यायस्य भूतोपयोगित्वासंभवात् भाव्युपयोगिसंस्कारलक्षणमत्रोक्तम् । संस्कारलक्षणानुपपत्या “सक्तून् जुहोति” इत्यादिषु प्रत्ययस्वारस्यावगतमपि कर्मत्वं भग्नमिति भावः । अत्र तु न तथाऽनुपपन्नमित्याह संस्कार्यत्वं चेति । चः शङ्कानिवृत्तौ । कुत इत्यत्राह धर्मार्थेति । पुरुषार्थं चतुष्टयतत्साधनेत्यनेन पूर्वोक्तव्याख्येयैकत्वाय प्रयोजनवदर्थावबोधनमनुगतमिति दर्शितं भवति । पुरुषार्थपरत्वञ्चानुगतम् । धर्मादिषु हि पुरुषार्थत्वमनुगतम् ; इष्टतत्साधनयोरुभयोरपि पुरुषार्थत्वात् । यद्यप्यर्थकामतदुपायेषु के चिल्लोक सिद्धाः - तथापि धनेशसुरेशादिविभूतिरूपातिशयितार्थकामतत्साधनानाम्, लोकसिद्धस्य पशुपुत्रा देश्चित्रादिसाध्यत्वस्य च लौकिकप्रमाणागोचरत्वात् पुरुषार्थचतुष्टयस्य बेदवेद्यत्वोक्तिर्युक्ता । अवबोधित्वात् -अनुष्ठानौपयिकबोधजनकत्वादिति भावः । अर्थावबोधकत्वस्य उमादावव्याप्तत्वादाह जपादिनेति । स्वरूपेणापि । अर्थज्ञानानुष्ठानाभ्यामृते जप्यमानेनाक्षरमात्रेणापीत्यर्थः । आदिशब्दादध्यापनग्रहणम् । अनुष्ठानानुगुणं ज्ञानं जपादि चाध्ययन संस्कृतेन स्वाध्यायेनैवेत्युक्तं भवति । यद्वा पुरुषार्थतत्साधनाववोधित्वेन सह तत्साधनत्वं चशब्देन समुच्चीयते । तत्साधनत्वं द्विधा –जपादिना, ध्रियमाणेन स्वरूपेण चेति । अतोऽवान्तरसमुच्चेतव्यसमुच्चयपरोऽपिशब्दः । एवं नियमविधिस्त्वं चोपपादितं भवति । अर्थज्ञानपर्यन्तस्थं किं शब्दस्वारस्यादभ्युपगम्यते, उताथांनुपपत्येति विकल्पमभिप्रेत्य तत्र शब्दस्वारस्यं प्रतिवदन् अध्ययनविधिनिरूपणमुपसंहरति एवमिति । मन्त्रवदिति । पृथनिर्देशो व्रतान्तर्भावेन तदनन्तर्भावेन वाऽध्ययनोपकारकमन्त्राभिप्रायः । अस्ति हि शन्नोमित्रादिमन्त्राणां व्रता
ननुप्रवेशेनापि जपमात्रेणोपकारकत्वम् । नियमाः पूर्वोक्ताः । यद्वा — यथा बालस्य उपनयनकाले सन्ध्योपासनादिकाले च विधीयमानमुच्चारणं नियमवदक्षरपठनमेव, नार्थधीसंपादनम् ; न हि बालानां मन्त्रार्थावबोधसंभवः —तद्वदिति । अक्षरराशिग्रहणेति । सनियमकोच्चारणमध्ययन शब्दस्य मुख्योऽर्थः ; वेदानां किंचिदधीत्य ब्राह्मणः, एकां शाखामधीत्य श्रोत्रियः, अङ्गाध्यायी अनूचानः, कल्पाध्यायी 1 शंकायामिति । इदमुपलक्षणम् । मीमांसकैरदृष्टमात्ररूपातिशयं एव संस्कारपदप्रयोगात् अत्र तदभावात् कथं संस्कार्यत्वोक्तिरिति शंकायां शोधयतीत्यपि ध्येयम् । एवञ्च कार्यान्तरमिष्टं दर्शयति संस्कार्यत्वचेति वाक्येन । 2 चित्रेष्टिः चित्रया यजेत पशुकामः इति विहिता । 3 हुमादौ - हुम्, फट् इत्यादिषु स्तोभेषु । 4 समुच्चीयते हुमाद्यन्यसार्थक वाक्यगतमेवाभिसंधीयते । जपादिना स्वरूपेणापि = = अर्थाबोधकेनापि रूपेण । अर्थज्ञानमर्थसंबन्धि ; जपादिकं तु स्वसंबन्धीति स्वरूपमित्येकोऽर्थः । जपाध्यापनाभ्यां धारणात्मकस्वरूपेण चेत्यपरोऽर्थः । 5 यद्वेति । पूर्वव्याख्याने मन्त्रवदिति मतुपू । मन्त्रविशिष्टं ग्रहणमिति, नियमवदितिवत् । द्वितीये वतिप्रत्ययः मन्त्रे इवेत्यर्थः ।
३४ १-१-१. विचारस्य विध्यभावेऽपि संभवः ग्रहणमात्रे पर्यवस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात् गृहीतात् ऋषिः, कल्पसूत्रप्रवचनाध्यायी भ्रूण इत्यादिप्रयोगात् । न हि स्त्रश। खैकदेशाध्यायिनोऽर्थज्ञानसंभत्रः ; अङ्गाध्ययनस्य पृथगुपादानेन तद्विरहे अर्थज्ञानप्रसङ्गाभावात् । स्वाध्यायशब्दश्च नार्थज्ञानवाची, अपि तु स्वशाखामात्रवाचीति तत्कर्मत्वं स्वाध्यायस्यैव युक्तम् ; न स्वर्थज्ञानस्य । अध्ययनस्य प्रयोजनाकाङ्क्षायां दृष्टे संभवत्यदृष्टकल्पनाऽयोगात् । अक्षरग्रहणस्याऽऽसन्नत्वात् धर्मादिष्वनुगतत्वाच्च तत्स्वीकारो युक्तः । व्यवहितत्वाद सार्वत्रिकत्वाच्च नार्थज्ञान (?) मिव्यभिप्रायः / सकृदुच्चारणावधिकत्वव्यावृत्यर्थमक्षरग्रहणे पर्यवसानमुक्तम् । मात्रचा विधिव्यापारस्यार्थज्ञानपर्यन्तत्वव्युदासः । पर्यवस्यतीति । यथा अग्नीनादधीतेति वाक्यमाधानमात्रपरम् ; न तूत्तरऋतुविनियोगपरम्, यथा च “काय वृष्टिकामो यजेत” इति वाक्यं दृष्टिसिद्धिपर्यन्तकर्मविशेषपरम् ; न तु वृष्ट्युपरितनोपयोगपरम्, तथेति भावः । 1 " एवं शब्दस्वारस्यादर्थज्ञानपर्यन्तत्वं निरस्तम् । अथार्थानुपपत्ति परिहरति । त्रिधा चाऽनुपपत्तिशङ्का - विधेरक्षरणग्रहणमात्रपरत्वे ग्रहणशेषतया विनियुक्तस्य स्वाध्यायस्यार्थपरत्वे प्रमाणाभावादविवक्षितार्थत्वं स्यात् ; मीमांसायाः प्रवर्तकाभावादनारम्भणीयत्वं स्यात्; अक्षरराशिग्रहणमात्रस्य दुःखरूपतया विधेः प्रयोजनपर्यवसानं न स्यादिति । एतच्छङ्कात्रयनिराकरणमुखेनाध्ययनविधेरर्थज्ञानपर्यन्ततां, तन्निमित्तां ब्रह्मविचारानारम्भशङ्कां च व्युदस्यन् वेदाख्यैकप्रबन्धव्याख्यानरूपतया धर्मब्रह्मविचारयोरैकशास्त्र्यमपि दर्शयति अध्ययनगृहीतस्येति । इद्द साङ्गाध्ययनं विवक्षितम् ; ‘अधीत साङ्ग सशिरस्क वेदस्य’, '
ननु च साङ्गवेदाध्ययनात्’ इति पूर्वापरानुगुण्यात् । तेन हि प्रयोजनवदर्थापातप्रतीतिसिद्धिः । अर्था यज्ञोपासनादयः । ते स्वर्गमोक्षादिप्रयोजनवन्तः । प्रयोजनवदर्थशब्देन काकदन्तवदपरीक्ष्यत्वशङ्काव्युदासः । प्रयोजनवदर्थाववोधित्वदर्शनादित्यनेन विधेः परम्परया पुरुषार्थपर्यवसायित्वमुक्तं भवति । अध्ययनस्य साक्षात्प्रयोजनमक्षरर शिग्रहणमित्युक्तम् अध्ययनगृहीतस्येति पदेन । अयमर्थः किं साक्षात् पुरुषार्थपर्यर्वसायित्वं विधेर्विवक्षितम्, उत परम्परया ? साक्षाप्रयोजनपर्यवसायित्वं विधेरर्थज्ञानपर्यन्तत्वेऽपि नोपपद्यते ; अनुष्ठानापूर्वद्वारा स्वर्गस्यैव प्रयोजनत्वात् । अध्ययनविधेः स्वर्गपर्यन्तत्वानभ्युपगमाच्च । परम्परया चेत्अस्मत्पक्षेऽपि संभवतीति । स्वभावत इति । शब्दस्य बोधकत्वशक्तिस्वाभाव्यादित्यर्थः । व्युत्पन्नपदपदार्थं प्रति शब्दस्यार्थावबोधकत्वं स्वाभाविकमिति लोकसिद्धम् । एवकारो विधिनैरपेक्ष्यपरः । अन्यत्र विनियोगस्तु न स्वाभाविकं शब्दस्यार्थपरत्वं निरुणद्धि; जपविधिवत् । “याजयित्वा प्रतिगृल वाऽनश्नन् त्रिः स्वाध्यायं वेदमधीयीत ‘त्रिरात्रं वा सावित्रीमू”, “वेदमेव जपेन्नित्यम्” इत्यादिविधानं हि न वेदस्यार्थपरत्वं निवारयति ॥ स्वाध्यायः स्वतोऽर्थबोधकश्चेत्, किं मीमांसयेत्यत्राह गृहीतादिति । गृहीतात्-गृहीतमात्रात्; अध्ययनगृहीतस्येत्युक्तेः । तेन मीमांसाख्येतिकर्तव्यताराहित्यं विवक्षितम् । आपातप्रतीतेः संशयविपर्यय सहत्वात् तन्निराकरणाय मीमसिति भावः । अध्ययनगृहीतस्येत्यादिना वेदस्य बोधकत्वस्वभावत्वमुक्तम् । प्रयोजनवदर्थशब्दः परम्परया पुरुषार्थपर्यवसानज्ञापनाय । उपरि तन्निमित्तापातप्रतीतिजनकतायाः निर्णय सहकारिवैकल्यनिबन्धनस्व[मुक्त]]मिति अपौनरुक्त्यम् । न हि वेदस्यापातप्रतीतिजनकत्वं स्वभावः, प्रमितिजनकत्वस्वभावत्वात् । मीमांसा-
३५ स्वाध्यायात् अवगम्यमानान् प्रयोजनवतोऽर्थान् आपाततो दृष्ट्रा तत्स्वरूप प्रकार विशेषनिर्णयफलवेदवाक्य विचाररूपमीमांसाश्रवणेऽधीतवेदः पुरुषः स्वयमेव प्रवर्तते । 1 ख्यपरिकरशून्यस्य तदभावो न श्रुतेः प्रमितिजनकत्वस्वभावविरोधी । यथा आलोकादिसहकारिविरहे रूपाधनुपलम्भश्चक्षुरादीनां रूपादिसाक्षात्कारजनकत्वस्य स्वाभाविकत्वं न विहन्ति, तद्वत् । आपातप्रतीतावपि प्रयोजनवखेन प्रतीतिरस्तीति दर्शयितुं पुनः प्रयोजनवदर्थशब्दः । प्रयोजनवदर्थापातप्रतीतिर्हि तन्निर्णयरागं जनयति । न हि निष्प्रयोजनकाकदन्ताद्या पातप्रतीतिस्तन्निर्णयरागं जनयति । आपाततोऽवगम्यमानान् दृष्ट्वेत्यन्वयः । अर्थानामवगम्यमानत्वं दृष्ट्वेत्यर्थः । “स्वात्मनो बुदूयुत्पत्ति दृष्ट्वा " ( जिज्ञा. मा. अधिकरणरचनायाम् ) इतिवत् । प्रयोजनवदर्थापातप्रतीतेः स्वानुभवसिद्धत्वान्न तदपह्रत्रः शक्य इति भावः । व्याकरणादिफलस्वरूप विलक्षणे मीमांसा फलस्वरूपे दर्शयति तत्स्वरूपेति । स्वरूपविशेषाः - अङ्गिनः; प्रकारविशेषाः अङ्गानि ; पूर्वपक्षेोक्तस्वरूपप्रकारतः सिद्धान्तितस्वरूपप्रकारयोर्वैषम्यं विशेषशब्देन विवक्षितम् । प्रयोजनवदर्थस्वाध्याय - वेद-मीमांसाशब्दाः पूर्वोत्तरभागसाधारणाः । स्वयमेव । न तु विधिना । तदुपपादकमधी - तवेदः पुरुष इति पदद्वयम् । अधीतवेद इति अध्ययन विधिव्यापारस्यानुष्ठितांश पर्यवसितत्वान्मीमांसायां तस्याप्रवर्तकत्त्वं द्योतितम् । चेतनत्वात् फलवदर्थापातप्रतीत्या स्वयं प्रवर्तत इति पुरुषशब्दस्याभिप्रायः । 66 नन्वक्षरराशिग्रहणपर्यन्तत्वपक्षे रागतः प्रवृत्तिर्नोपपद्यते ; " वेदाङ्गानि समस्तानि कृष्णपक्षेषु संपठेत्”, “निष्कारणः षडङ्गो वेदोऽध्येयः”, “ वेदमध्यापयेद्विजः “, “सकल्पं सरहस्यं च” इस्यादिविहिताङ्गाध्ययनस्याप्यक्षरग्रहणपर्यन्ततया व्याकरणादेरर्थावबोधाभावात् प्रकृतिप्रत्ययादिज्ञानाभावेनापात प्रतीत्यभावात् - मैवम् 2; व्याकरणादीनां वेदाङ्गत्वादकिंचित्करस्याङ्गत्वायोगात् दृष्टकिंचित्कारे संभवति तत्प्रहाणेन चादृष्टपरिकल्पनायोगात् पदाद्यवबोधरूपदृष्टकिंचित्कार एव स्वीकार्य इति अङ्गत्वान्यथानुपपत्यैव व्याकरणाद्यर्थावगमसिद्धेः प्रयोजनवदर्थापात प्रतीतिसिद्ध्या मीमांसारम्भोपपत्तेः । ’ अधीतवेदः पुरुषः स्वयमेत्र प्रवर्तत’ इत्यनेन, “अथातो धर्मजिज्ञासा” इति सूत्रमप्यर्थाद् व्याख्यातं भवति । विधेरक्षरराशिग्रहणपर्यन्तत्वे प्रवर्तकाभावात् स्वाध्यायस्यार्थपरत्वे प्रमाणाभावाच्च मीमांसा नारम्भणीयेति 1 पूर्वः पक्षः । साङ्गाध्ययनानन्तरं शब्दस्य स्वतोऽर्थावबोधित्वदर्शनात् प्रवर्तकान्तराभावेऽपि रागात्प्रवृत्युपपत्तेरारम्भणीयेति सिद्धान्त इति ॥
ननु कर्मविचारस्य रागप्राप्तत्वे, “अधीत्य स्नायात्” इति समावर्तनस्मृतिर्वाधिका J 1 अवगम्यमानान् दृष्टेति । प्रयोजनवतो दृष्टुति योजनान्तरं भावप्रकाशिकायाम् । यथाश्रुतान्वयोऽपि युक्तः । अवगम्यमानानिति पदं प्रमितिजनकत्वस्वाभाव्यमुक्तमनुवदति । वस्तुतः श्रुतिप्रमेयानेव प्रयोजनवतोऽर्थान् आपाततः पश्यति प्राय इति । 2 मैवमिति । अङ्गत्वानुपपत्तिवत् संपठेदिति प्रयोगोऽप्यङ्गानां सार्थग्रहणगमकः । अपिचोपनयनात् प्रागपि संस्कृतपठनमार्यकुलेषु नियतम । संस्कृतव्यवहारपरेष्वार्यकुलेषु सुतरां प्रागेव व्युत्पत्तिः । अतोऽप्यापातप्रतीतिः सुलभा । हितैषिवचनादेवाध्ययने प्रवृत्तावपि क्रमेणाध्ययन गृहीतेन वेदेन किं कार्यमिति जिज्ञासाऽभ्येतुर्भवत्येवेति तदा जपार्थमर्थानुष्ठानाय चेति हितैषिमुखादेव जानन् तदर्थे व्युत्पत्तिलाभाय संस्कृतमभ्यस्येदिति अङ्गेष्वप्यर्थग्रहणप्रवृत्तिसिद्धिः ।
३६ ; १-१-१. स्नानविध्यविरोधः स्यात् । वैधत्वे स्मृतेरपि श्रुतेर्वलीयत्वात् स्मृतिरवकाशप्रदा स्यात् ॥ नैवम् । अध्ययनविधेरक्षरराशिग्रहणपर्यन्तत्वार्थज्ञानपर्यन्तस्त्वयोः किमभिप्रेत्यैतदुक्तम् ? यद्यर्थज्ञानपर्यन्तत्वम्, तर्हि अधीत्य स्नायादिति स्मृतिगताध्ययनशब्दस्य तत्तुल्यार्थत्वान्न विरोधः । यद्यश्वररशिग्रहणपर्यन्तत्वम्, ततोऽपि तुल्यार्थत्वान्न विरोधः । किंचविरोधे सत्यपि प्रत्यक्षश्रुतिरप्यस्ति यथा छान्दोग्ये, “आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे” इत्यादिः । ततश्च स्मृतिवचनोपेता स्नानश्रुतिर्बलीयसी । तस्मात् श्रुतिस्मृतिवचनयोः प्राबल्यदौर्बल्यकथनं निरर्थकम् ॥
नन्वेवं श्रुत्यापि रागतः प्रवृत्तिर्बाध्यत इति चेत् न ; समावृत्तस्यापि रागतः श्रवणोपपत्तेः ॥
नन्वध्ययनानन्तरमाविश्वे समावर्तनस्य तत्पूर्वक गृहस्थकर्मानुष्ठानानवरुद्धश्रवणावसर।लाभान्मीमांसानारम्भः प्रसज्यते ॥ नैवम्; समावृत्तस्यापि श्रोतुः श्रावयितुरिवावसरसंभवात् ॥ आचार्यस्य ह्यध्यापनं विहितम् ; न तु गृहस्थस्य श्रवणमिति चेन्न ; अध्यापनस्य याजनप्रतिग्रहवत् रागप्राप्तत्वात् ॥ रागप्राप्तमपि, “प्रतिग्रहादिना धनमर्जयेत्” इत्यादिशास्त्रानुमतमध्यापनमिति चेत्श्रवणमपि शास्त्रानुमतम् ; अनिषिद्धत्वात् यज्ञानुष्ठानोपयक्तत्वाच्च ।
ननु “संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेत् भूयः श्रुतिमिच्छन् इति श्वेतकेतुः” इत्यारभ्य, “तच्छास्त्रैर्विप्रतिषिद्धम् । निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते अग्निहोत्रमतिश्रयः " इत्यादिना श्रवणं गृहस्थस्य निषिद्धमिति चेन्न -साकल्येन मासद्वयं गुरुकुलवासस्यानुष्ठानोपरोधित्वेन तस्यैव निषिद्धत्वात् । “निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते, अग्निहोत्रमतिथयः” इति ह्युच्यते । आचार्यस्याप्यनुष्ठानानुपरोधेन श्रावणस्य हि शास्त्रानुमतस्वम् । अतोऽनुष्ठानानुपरोधोपरोधप्रयुक्तानुमत्य
ननुमतिविषयत्वं श्रावणस्य श्रवणस्य च तुल्यम् । अत एव हि युधिष्ठिरादीनां गार्हस्थ्यनिष्ठानामपि भीष्मादिभ्यः श्रवणं भारतादिषु प्रतिपाद्यते ॥ यद्यपि श्रावणकाल एव श्रवणकालः, तथापि श्रोतुरुदकाहरणकाष्ठसंपादनादि - भिरनुष्ठानोपरोध इति चेन्न अध्ययनविधिप्रयुक्तस्योदकाहरणादेस्तन्निवृत्त्या निवृत्तत्वात् । वित्तख्यात्यादिप्रयोजनान्तरस्पृहया, शिष्यस्नेहेन च गुरोः, श्रावणमुपपद्यते ॥ श्रावयितुर्ज्ञातार्थत्वादनुष्ठानमुपपद्यते ; श्रोतुरज्ञातार्थत्वान्नेति चेन्नउपनयनप्रभृत्यनुष्ठानवत् हितैषिवचनादनुष्ठानोपपत्तेः ॥ तर्हि हितैषिवाक्यमेव स्यात् किमर्थं मीमांसाश्रवणमिति चेत्-हितैषिवत्रनस्य प्रमाणमूलत्वनिश्चयार्थम्, प्रष्टृणामपरेषां स्वयमुपपादनार्थं च ॥ "
हितैषिवचनादनुष्ठानसंभवे शूद्रादीनामप्यनुष्ठानप्रसङ्गः इति चेन्न - “न शूद्राय मतिं दद्यात् “, “न चास्योप्रदिशेद्धर्मं न चास्य व्रतमादिशेत्” इत्यादिनिषेधवचनसद्भावात् । न हि यज्ञादिकं ब्राह्मणाः शूद्रायोपदिशन्ति । न च शुश्रूषादिरहितशूद्रविशेषविषयत्वे नेदृश निषेधवचनानां सङ्कोचः कार्यः ; संकोचकाभावात् । न हि शूद्रस्य यज्ञाद्यर्हत्वविषयं वचनान्तरं दृश्यते । किंच यजमानेन कृत्स्नवेदस्य मन्त्रविशेषाणां च जप्यतावचनम् तेषामध्ययनलभ्यत्वात् । अध्ययनस्योपनयनसापेक्षत्वादुपनयनस्य त्रैवर्णिकाधिकारत्वान्न शूद्राद्यधिकारप्रसङ्गः ॥ ननूपनयनविधिः त्रैवर्णिकाध्ययनविषयतया नेतुं शक्यते । अतः शूद्रस्याध्ययन मुपनयन निरपेक्षमिति तस्य याजमानाद्युच्चारणसम्भव इति चेत् न । “तस्माच्छूद्रसमीपे नाध्येतव्यम्” इति, “अय हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्, उदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः” इत्यादिना शूद्रस्य
३७ वेदश्रवणादेर्निषिद्धत्वात् । अध्ययनं चेदुपनयनाङ्गकम्, तत् त्रैवर्णिकाधिकारमेवेति न तत्र शूद्रावधिकार इति मन्त्रविशेषोच्चारणानुपपत्तेः न हितैषिवचनाच्छूद्रादेः क्रत्वनुष्ठानप्रसङ्ग इति नापशूद्राधिकरण विरोधः । किंच यथा, “यावज्जीवमग्निहोत्रं जुहोति” इत्यादिविधिः, “न स्वाङ्गं स्वव्यवधायकम् " इति न्यायात् खोपयोगिनोऽर्थार्जनादेः रागप्राप्तस्याप्यवसर प्रदः – तथाऽनुष्ठानोपयोगिमीमांसाश्रवणस्य समावर्तनविधिरवकाशप्रदः स्यात् । क्त्वाप्रत्ययस्य च समानकर्तृकत्त्रपूर्वकालीनत्वमात्रमर्थः ; न त्वानन्तर्यम् ॥
नन्वानन्तर्यमेव विधेयम् । न चेत्, विधिवैयर्थ्यम् ; दुःखात्मक गुरुकुलवासनिवृत्तेः स्वतः प्राप्तत्वादिति चेत् — न । आनन्तर्यपरत्वेऽपि विधिवैयर्थ्यात् । तच गुरुकुलवासस्य दुःखात्मकत्वादेव । अतः सनियमसंस्कारविशेष एव स्नानमिति तत् विधेयम् ; न त्वानन्तर्यम् । तस्मात् अधीत्येति क्त्वाश्रुतेर्न विरोधः । तस्मात् स्वयमेव प्रवर्तते ॥ ;
ननु “यो ह वा अविदितार्षेयच्छन्दोदैवतेन मन्त्रेण यजति याजयति वाऽध्यापयति वा, स्थाणुं वर्च्छति गर्तं वाऽऽपद्यते प्र वा मीयते । पापीयान् भवति । यातयामान्यस्यच्छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद, स सर्वमायुरेति ; श्रेयांश्च भवति ; अयातयामान्यस्यच्छन्दांसि भवन्ति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात् " इति श्रुत्या, “अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः” इति स्मृत्युपबृंहितयाऽर्थज्ञानविधानं फलितम् । मन्त्रप्रतिपाद्यदेवताज्ञानस्यात्र विहितत्वात् तुल्यन्यायतया, दैवतशब्दस्य मन्त्रप्रकाश्यानुष्ठेयार्थप्रकाशनार्थतया च विध्यादिभागार्थज्ञानस्यापि विधेयत्वापत्तेः । योगो मन्त्राणां विनियोगः ; तज्ज्ञानस्य ब्राह्मणभागार्थज्ञानसापेक्षत्वाच्चेति चेत्–न; प्रतिग्रहर्तु संवेशनादेखि रागप्राप्तत्वानिवृत्तेः । न हि “ब्राह्मणः प्रतिग्रहादिना धनमर्जयेत्”, “ऋतावुपेयात्” इति वचनं रागतः प्राप्तिं प्रतिग्रहा - देर्निरुणद्धि । किंचानेनैव वाक्येनार्थज्ञानं विहितमित्यध्ययनविधेरज्ञानपर्यन्तत्वं नाश्रयणीयम् । यथा ऋतूनां विध्यन्तरसिद्धत्वादाधानविधेरुत्तरक्रतुविधिपर्यन्तत्वं नाऽऽश्रीयते, तद्वत् ॥ न चेदं वेदवाक्यमध्ययनस्यार्थधी पर्यन्तत्वमवगमयति न च स्वयमर्थज्ञानं विधत्ते; अर्थज्ञानस्यान्यतः सिद्धत्वात् । अत्र मन्त्रमात्रस्य ऋष्यादिविज्ञानविधानप्रतीतेश्च 1 ततश्व वेदस्य साङ्गतयाऽध्येतव्यत्वं सिध्येत्; न त्वर्थज्ञानम् । छन्दोदेवतादिज्ञानस्य छन्दः कल्पव्याकरण निरुक्तादिसापेक्षत्वात् मीमांसानपेक्षत्वाच्च ॥ विनियोगविषयसंदेहे सति मीमांसापेक्षा स्यादिति चेत् -तर्हि संदेहापाकरणाय रागतः प्रवृत्तिः स्यात् । “यदधीतमविज्ञातं निगदेनैव शब्दयते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्” इतीदमपि वचनं नार्थज्ञानपर्यन्तस्वमध्ययनविधेरनगमयति ; “अधीतमविज्ञातम् " इति अत्रैवाध्ययनार्थज्ञानयोः पृथनिर्देशात् ; रागप्राप्तस्य विधातुमशक्यत्वाच्च । “वेदानां किंचिदधीत्य ब्राह्मणः, एकां शाखामधीत्य श्रोत्रियः, अङ्गाध्यायी अनूचानः” इत्यादयः कल्पसूत्रप्रयोगाश्च अध्ययनादर्थज्ञानं पृथग्भूतमवगमयन्ति । अतः श्रवणस्य दुःखरूपत्वेन तन्द्रालुतया वा, अर्थार्जनाद्यन्यपरतया वा यो न शृणोति, तत्प्ररोचनार्थमिदम्, यदधीतमित्यादिवचनम् । यथा, “अक्षैर्मा दीव्यः कृषिमुत्कृषस्व वित्ते रमस्व बहु ‘मन्यमानः” इति वाक्यं तन्द्रालुप्ररोचनार्थम् । प्ररोचनया हि प्रवृत्तिरुत्कटा स्यात् । न ह्येतावता कृषेरर्थार्जनस्य च रागप्राप्तत्वभङ्गेन सर्वत्र वैधत्वमेव स्यात् । तद्वदिदमपि वचनं श्रवणस्य रागप्राप्तत्वं न विहन्ति ।
३८ १-१-१. विचार प्रवर्तक श्रुतिवाक्यानि तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिर फलत्वं दृष्ट्रा अध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापात प्रतीतेः तन्निर्णयफलवेदान्तविचाररूपशारीरकमीमांसायामधिकरोति । तथा च वेदान्तवाक्यानि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति, " तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते,” “अन्तवदेवास्य तद्भवति”, तस्माद्रागत एव प्रवर्तते । एवमन्यतः प्रवृत्तौ संभवन्त्यां शब्दशक्त्युल्लङ्घनेन मीमांसाश्रवणस्य विधेयत्वकल्पनमयुक्तम् ॥ ऐकशास्त्र्यं रागतः प्रवृत्तिश्चास्तु ; कथं पौर्वापर्यनियमः ! तत्राह तत्रेति । तत्र - - वेदे । कर्मविधिस्वरूपे निरूपित इति । कर्मभागस्य वेदोपक्रमत्वादधीतक्रमेणैव निरूपणं प्राप्तमिति कर्मविचारस्य पूर्व भावित्वमिति भावः ।
ननु न हि कर्मणामल्पास्थिर फलत्वमनन्तस्थिर फलत्वश्च पूर्वपक्षसिद्धान्तरूपेण कचिन्निरूपितम् । तत् कथमल्पास्थिरफलत्वावगतिरित्यत्राह स्वरूपे निरूपिते इति । केवलं कर्मविधिस्वरूपमेव निरूपितम् । अल्पास्थिरफलल्यज्ञानमावृत्तिविधानादिना फलितमिति भावः । यद्वा कर्मविधिस्वरूपं निरूपितम् ; न त्वाराध्यपरदेवतेति भावः । तदाराधनत्वेन कृते ह्यनन्तस्थिरफलत्वसिद्धिः । अध्ययनगृहीतस्वाध्यायेति । अध्ययनस्य कृत्स्नस्वाध्यायविषयत्वादुपनिषदश्च स्वाध्यायशब्दान्तर्गतत्वादिति भावः । एकदेशशब्देनैकप्रवन्धांशत्वं सूचितम् । साधारणत्रेदशब्दनिर्दिष्टे शब्दराशौ अनन्यपरं प्रदेशं पृथङ्निर्दिशत्युपनिषच्छब्देन । वेदान्तशब्देन विचारपौर्वापर्यनियमहेतुर्दर्शितः । मीमांसाशब्दोक्ते व्याख्याने प्रदेशभेदं विशिनष्टि शारीरकशब्देन । “अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन” इत्याद्युक्तानुषङ्गिकाल्पा स्थिर फलव्यावृत्यर्थममृतत्व रूपशब्दः । आनुषङ्गिकाणामल्पास्थिरत्वेऽपि प्रधानफलस्यानन्तस्थिर फलत्वेनापातप्रतीतिरस्तीत्यर्थः । कर्ममीमांसा संस्कृतमनस्कत्वादत्राप्यानुषङ्गिकं प्रधानफलं च संभवतीति श्रोतुः प्रतीयत एव ॥
ननु फलत्वादिदमप्यनित्यमिति बुद्धिः स्यात् ॥ नैवम्, विपचे बाधकाभावात्, यथा भौमसुखात् स्वर्गादिसुखं विलक्षणं प्रतिपन्नम् ; तत्रापि परस्परवैलक्षण्यं देशकालस्वरूपभेदात् प्रतिपन्नम् — तथैव तस्मादपि विलक्षणं सुखं संभवतीति । अतीत्र रागजननायास्यापि प्रतीतिः स्यात् । अधिकरोति अधिकारी भवति । एवं कर्मविचारकृदेव - धिकारी भवति ; न तु साधनचतुष्टयत्रानित्यभिप्रायः ॥ 1 एवमैकशास्त्र्य - क्रमनियम - आरम्भणीयत्वान्युपपादितानि । कैर्वेदान्तवाक्यैरारम्भणीयत्वापयिकापातप्रतीतिरित्यत्राह तथाचेति । यथा सूत्रं व्याख्यातम्, तथेत्यर्थः । चश्शङ्कानिवृत्तौ ; प्रसिद्धौ वा । केवलशब्देन ज्ञानाङ्गकर्मव्यावृत्तिः ॥
ननु कर्मविचारेण निर्णीतेऽपि कर्मफलक्षयिष्णुले पुनश्चाल्पास्थिरफलत्वप्रतीति जनकवाक्यानि किमर्थमुदाह्रियन्ते ? अनन्तस्थिरफलापातप्रतीतिजनकान्येव’ वाक्यान्युदाहर्तव्यानि ॥ उच्यते । अधिगतकर्मणः पुरुषस्य हि निर्णीतार्थसंवादिवाक्यदर्शनात् कर्मफलास्थिरत्ववद् ब्रह्मज्ञानफलाक्षयित्वस्य प्रामाणिकत्वं संभवतीति श्रद्धास्थिरीकरणार्थम् । तद्यथेति । लोक्यत इति लोकः फलम् । “अन्तवदेवास्य तद्भवति” इत्यनेन ज्ञानविधुरकर्मणोऽनेककालानुष्ठितस्य बहुविधस्यापि क्षयित्वमुक्तं भवति । “यो ह वा एतदक्षरं गार्ग्यविदित्वाऽस्मि लोके. जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि” इत्येतद्वाक्य-
श्रुतंप्रकाशिकोपेते श्रीभाष्ये ३९ “न ह्यध्रुवैः प्राप्यते,” “प्लवा ह्येते अहढा यज्ञरूपाः” “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्यानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥”, " ब्रह्मविदाप्नोति परम् “, " न पुनर्मृत्यवे तदेकं पश्यति”, 1 पूर्वकत्वात् तस्य वाक्यस्य । अन्तवदित्युक्त क्रियास्वरूपस्यान्तवत्वं लोकसिद्धतयाऽनुपदेश्यमिति फलस्यैवान्तवस्वमर्थसिद्धं स्फुटीकर्तुं पूर्वं तद्यथेति वाक्योपादानम् । सांसारिक फलस्याघ्रवत्वं स्यात् ; कर्मभिरेव ध्रुवं फलं संपाद्यतामिति शङ्काव्युदासाय उपादत्ते न ह्यध्रुवैः प्राप्यत इति । “ध्रुवं तत्” इति वाक्यखण्डः । तदुपपादकत्वेन प्रतीयमानं वाक्यान्तरमुदाहरति प्लवा ह्येते अदृढा यज्ञरूपाः” इति । संसारपारं तारयितुं नालं मध्ये भंगुरत्वादित्यर्थः । सूत्रयोजनानुगुणतरं कर्मणामल्पास्थिरफलस्वं ब्रह्मोपासनस्यानन्ताक्षयफलत्वं च दर्शयद्वाक्यमुपादत्ते परीक्ष्य लोकानिति । अस्मिन् वाक्ये न्यायसिद्धार्थानुवादेन गुरूपसत्तिर्विधीयते । कर्मचितान् कर्मसञ्चितान्, कर्मसंपाद्यान् । परीक्ष्य मीमांसान्यायैर्निरूप्य । ब्राह्मणः अधीतसाङ्ग सशिरस्कवेदः । य इत्यध्याहार्यम् ; स इत्युत्तरत्र श्रवणात् । अकृतः नित्यः । अत्र पुरुषो विशेष्यः; लिङ्गवशात्; अक्षर पुरुषमित्यनन्तरोक्तेश्च । कृतेन कर्मणा । नास्ति न सिध्यति । इतिकरणं द्रष्टव्यम् । इति यो निर्वेदमायात्, सः तद्विज्ञानार्थं गुरुमेवाभिगच्छेत् । एवकारेण नियमविधित्वं गम्यते । समित्पाणिः न रिक्तपाणिः । “रिक्तपाणिस्तु नोपेयात् राजानं दैवतं गुरुम्” इति हि स्मर्यते । श्रोत्रियं श्रुतवेदान्तम् । ब्रह्मनिष्ठं ब्रह्मसाक्षात्कारवन्तम् । श्रुतवेदान्तोऽपि रुचिभेदादब्रह्मनिष्ठो नोपगन्तव्य इति भावः । अभिगच्छेदित्यन्वयः । शमः बाह्येन्द्रियनियमन - रूपः ; प्रशान्तचित्तायेत्यन्तःकरणनियमनस्योक्ततया पारिशेष्यात् एतेन श्रवणेोपयुक्तमवधानं विवक्षितम् ; न तृपासनेोपयुक्तात्यन्तेन्द्रियजयादिः । तस्मै स विद्वान् प्रोवाचेत्यन्वयः । येनेति निर्देशो विज्ञानाभिप्रायः । तद्विज्ञानार्थमिति हि प्रकृतम् । सामान्यतः कारणाभिप्रायो वा । लिङ्गव्यत्ययो वा ; अक्षरं स्वरूपेणाविकारम् ; सत्यं-गुणतोऽप्यविकारम् । अभ्यामचिज्जीवव्यावृत्तिः । “तां ब्रह्मविद्याम् प्रोवाच प्रब्रूयादित्यर्थः” इति वेदान्तसारे व्याख्यातम् । “छन्दसि लुललिटः” इति लिट् ।
ननु प्रशान्तचित्ताय शमान्विताय इति शमादेः पूर्ववृत्तत्वं प्रतीयते ॥ न ; श्रवणोपयोग्यवधानमात्रस्य विवक्षितत्वात् । नात्रोपासनाङ्ग भूतात्यन्त विषयवैतृष्ण्यं विवक्षितम् । तद्धि " शमदमाद्युपेतः स्यात्” इति निरूपयिष्यते । अतो निरूप्यसंपाद्यैस्तैः निरूपणात्प्रागेव विशिष्टत्वमनुपपन्नम् । श्रुतिश्च शास्त्रजन्यज्ञानवतः पुरुषस्य तदुत्तरभाविशमाद्यङ्गकमुपासनं दर्शयति, “तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्” इति । अत्र हि एवंविदिति शास्त्रजन्यज्ञानवत्त्वमुक्तम् । भूत्वा पश्येदित्युपासनस्य शमाद्यङ्गकत्वं स्था (ज्ञा )पितम् । केवयानन्तस्थिर फलपरवाक्यान्युदाहरति ब्रह्मविदिति । अत्रानुवाके “यतो वाचो निवर्तन्ते” इति श्रवणादनन्त स्थिर फलस्वसिद्धिः । } प्राप्यस्य ब्रह्मणोऽनन्तस्थिरत्वऽपि प्राप्तेः कादाचित्कत्वशङ्काव्यावृत्त्यर्थमपुनर्निवृत्तिमाह न पुनरिति । यद्वा विद्ययाऽनन्तस्थिरफलरूप ब्रह्मप्राप्तिमाह ब्रह्मविदिति । विद्यया ब्रह्मप्राप्तेः प्रतिबन्धनिवृत्तिपूर्वकस्वमाह न पुनरिति । मृत्युः मोहो वः । “मोहो मृत्युः संमतो यः कवीनाम्”, “प्रमादं वै मृत्युमहं ब्रवीमि” इत्युभयत्र प्रमादः, CC-0, Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham ४० ११ - १. मीमांसयैवापात प्रतीतिनिरासः “न पश्यो मृत्युं पश्यति”, “स स्वराड् भवति”; “तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते”, “पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति” इत्यादीनि ॥
ननु च साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वं स्वर्गादीनां च क्षयित्वं ब्रह्मोपासनस्यामृतत्व फलत्वञ्च ज्ञायत एव । अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्तताम् ; किमर्था धर्मविचारापेक्षा ? ॥ एवं तर्हि शारीरकमीमांसायामपि न प्रवर्तताम् ; साङ्गाध्ययन। देव कृत्स्नस्य ज्ञातत्वात् ॥ सत्यम; आपात प्रतीतिर्विद्यत एव । तथापि न्यायानुगृहीतस्य वाक्यस्यार्थनिश्चायकत्वात् आपातप्रतीतोऽप्यर्थः संशयविपर्ययौ नातिवर्तते । अतस्तन्निर्णयाय वेदान्तवाक्यविचारः कर्तव्य इति चेत् — तथैव धर्मविचारोऽपि कर्तव्य इति पश्यतु भवान् ॥ मृत्युशब्दव्यपदेशात् । प्रमादो यथावस्थितात्मस्वरूपस्याज्ञानम् ; मोहः भ्रान्तिज्ञानम् ; दिङ्मोह इत्यादिव्यपदेशात् । न मृत्युनिवृत्तिमात्रमेव ; तत्कार्यमपि निवर्तत इत्याह न पश्यो मृत्युं पश्यतीति । अस्य वाक्यस्योपरि, “न रोगं नोत दुःखताम्” इति हि श्रूयते । न पुनरित्यादिवाक्यं ब्रह्मणि दृष्टे मृत्युप्रमुखनिवृत्तिरिति ज्ञापनार्थम् । न पश्यो मृत्युमित्यत्रापि पश्यशब्दस्य ब्रह्मदर्शीत्यर्थः ; तदेकं पश्यतीत्यनन्तरोदाहृतवाक्ये विषयस्य दर्शितत्वात् । स स्वराड् भवतीति । कर्मवश्यो न भवतीत्यर्थः । “स्वराट् स्वतन्त्रो विज्ञेयः” इति नैघण्टुकाः । तमेवंविद्वानिति वाक्येन निर्विशेषचिन्मात्रज्ञान - देवतान्तरोपासनाद्युपायान्तरख्यावृत्तिसिद्धिः; पुरुषोत्तमोपासनस्यैवोपायतयोक्तत्वात् । तदुपासनरूपज्ञानं च नाऽऽत्मैक्यविषयम्; अपितु पृथक्त्वविषयमिति दर्शयति पृथगात्मानमिति । मत्वा — ज्ञात्वा । ततः पृथक्त्वज्ञानात् तेन जुष्टः प्रीतिविषयीकृतः, अनुगृहीतोऽमृतत्वमेतीत्यर्थः । इत्यादीनि वेदान्तवाक्यानीति पूर्वेणान्वयः ।
। उदाहृतस्पष्टार्थवाक्यमात्रतृप्तः कश्चिच्चोदयति
ननुचे ति । पूर्वत्र चोद्यान्तराणां कण्ठोक्त्यभावेऽपि परिहारकण्ठोक्त्या तान्यभिप्रेतानि । अतः चशब्देन तैरर्थसिद्धैः सह समुच्चयो युक्तः । साङ्केति । कर्मज्ञानपूर्ववृत्तत्ववादिनाऽपि साङ्गाध्ययनस्यापेक्षितत्वं स्वीकृतमिति तदधिकव्युदासार्थ एवकारः अध्ययनस्य साङ्गत्वादङ्गानां चार्थज्ञानहेतुत्वान्मीमांसानिरपेक्षं स्वर्गादेरेव केवलकर्मफललं स्वर्गादेश्च क्षयित्वं ब्रह्मेषासनस्याक्षयफलत्वश्च ज्ञायत इत्यर्थः । ब्रह्मोपासनस्येत्यादिग्रन्थो दृष्टान्ताभिप्रायः । ज्ञायत एवेत्येवकारो ज्ञातृत्वसंप्रतिपत्तिसूचकः । ज्ञानसामग्री हि सिद्धेति भावः । ततः किमित्यत्राह अनन्तरमिति । कर्मणोऽल्पास्थिर फलत्वज्ञानेन मुमुक्षासिद्ध्यर्थं हि कर्मविचारः । तन्निरपेक्षमेवाल्पास्थिर फलत्वज्ञानान्मुमुक्षासिद्धेः ब्रह्मजिज्ञासैव कर्तव्या; धर्मविचारे प्रयोजनाभावादित्यर्थः । परिहरति एवमिति । एवं तर्हि उदाहृतवाक्यमात्रतृप्तोऽसि चेत् । कृत्स्नस्येति । ब्रह्मणोऽपीति भावः । वेदान्तवाक्यान्यपि स्फुटार्थानि ह्यस्माभिरुदाहृतानि तेषामर्थोऽपि मीमांसानपेक्षं ज्ञायते । अतोऽनन्तस्थिरफलज्ञानाय न ब्रह्मविचारः कर्तव्य इत्यर्थः । सत्यमित्यर्घाङ्गीकारे; आपातप्रतीताव म्युपगमः; ब्रह्मविचारनैरपेक्ष्येऽनभ्युपगमः । आपातेति । आपातप्रतीतिः-अज्ञाननिवृत्तिमात्रेण संशयविपर्ययसहज्ञानम् । संशयविपर्ययौ च - कारणवाक्यगत स ब्रह्मात्माकाशप्राणवैश्वानरादिशब्दैरर्थतस्वस्य दुर्निश्चयत्वात्, “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति”, “असद्वा इदमग्र आसीत् " इत्यादिभिरात्मानित्यत्वादेः प्रतीतेः, “अन्नवानन्नादो भवति प्रजया पशुभिर्ब्रह्मवर्चसेन” इत्यादिनाऽल्पास्थिरफलत्वावगमाच्च स्याताम् ; । अतः साङ्गाध्ययनमात्रेण तयोरन तिवृत्तेस्तद्वबुदासस्य न्यायानुगृहीतवाक्यफलत्वाच्च ब्रह्मविचारः कर्तव्य इति चेदित्यर्थः । भवान् -अनुदाहृतवाक्यान्तरपर्या- ।
लघुपूर्वपक्षः ४१
ननु च ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम् । न धर्मविचारापेक्षा ब्रह्मजिज्ञासायाः ; अधीतवेदान्तस्यानधिगतकर्मणोऽपि वेदान्तवाक्यार्थविचारोपपत्तेः ॥ कर्माङ्गाश्रयाण्युद्गीथाद्युपासनान्यत्रैव चिन्त्यन्ते । तत् अनधिगतकर्मणो न शक्यं कर्तुमिति चेत्-अनभिज्ञो भवान शारीरकशास्त्रविज्ञानस्य । अस्मिन् शास्त्रे अनाद्यविद्याकृतविविधभेद दर्शननिमित्तजन्मजरामरणादिसांसारिकदुःख- लोचनायामपि प्रवृत्तस्त्वमिति भावः । तथैव एतया दृष्ट्या अत्रापि संशयविपर्ययनिरातस्यापेक्षितत्वं जानन्
ननुदाहृतवाक्यानि पश्ये[ दि] त्यर्थः । " अक्षय्य ह वै चातुर्मास्ययाजिनः सुकृतं भवति”, “पूर्णाहुत्या सर्वान् कामानवाप्नोति”, “सर्वान् लोकान् पशुबन्धयाज्यभिजयति”, “अपाम सोमममृता अभूम.” “अनन्तं ह वा अपारमक्षथ्यं लोकं जयति, योऽग्निं नाचिकेतं चिनुते”, “नास्येष्टापूर्ते क्षीयेते ! योऽग्निं नाचिकेतं चिनुते” इस्पादीनि हि, ‘अमृतत्वं भजन्ते, ‘सोऽश्नुते सर्वान् कामान्’, ‘इमान् लोकान् कामान्नी कामरूप्यनुसंचरन्’ इत्यादिब्रह्मवेदनफलवाक्यैस्तुल्यानि वाक्यानि दृश्यन्ते । अत औपनिषदवाक्येष्विवानुदाहृतवाक्येषु संशयविपर्ययबाहुल्यात् तन्निरासाय कर्मविचारः कर्तव्य इत्यर्थः ॥ एवं फलद्वारा हानाय कर्मज्ञानापेक्षा दर्शिता । अथ स्वरूपेणोपादानाय च नियमेन कर्मज्ञानापेक्षाऽस्तीति दर्शयितुं मुमुक्षोः कर्मणो नियमेनानपेक्षितत्वलक्षणं परपक्षमुपक्षिपति
ननु चेति । नियमेनापेक्षितत्वस्य विवक्षितेतरगामित्वव्युदासार्थः प्रथम एवकारः; द्वितीयस्तु नियमेनानपेक्षितस्य पूर्ववृत्तत्वनिवृत्यर्थः । ततः किमित्यत्राह न धर्मेति । कुत इत्यत्राह अधीतेति । ये ब्रह्मविद्याधिकारिणः, तेषां सर्वेषामवश्यापेक्षितं हि नियमेनापेक्षितम् । वेदान्तमात्राध्यायिनस्तु तत्रैवापातप्रतीतिर्बुभुत्सा च स्यात् तस्य कर्मविषयापान प्रतीत्यभावात् न कर्मविचारस्य नियमेनापेक्षेत्यर्थः । यद्वा अधीत कृत्स्नवेदस्यापि जन्मान्तरसुकृतवशादेदान्तवाक्य एव बुभुत्सा जायते चेत्, तस्य न कर्मविचारापेक्षेति । तदा अधीतवेदान्तस्येति पदमयोगव्यवच्छेदपरम् ; नान्ययोगव्यत्रच्छेदपरम् । कृत्स्नवेदाध्ययनादपेक्षि वेदान्तमागोऽप्यधीत एवेत्यथः । एवं हानार्थमपि कर्मणो ज्ञातव्यत्वं निषिद्धम् ; उपादानार्थमपि न ज्ञातव्यत्वमित्युपपादयितुं वेदान्नमात्रमुत्सादेरपि कर्मविचारापेक्ष शङ्कते कर्माङ्गेति । एकस्य साम्नः पञ्च भागाः सन्ति । ते प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्याः । एते भागाः भक्तिशब्दाभिधेयाः । तासु पञ्चसु भक्ति प्रस्तावो हिङ्कारपूर्वं गीयते ; उद्गीथः प्रणवपूर्वं गीयते । तत्र पश्चविधसामोपासनं क्वचिद्विधीयते, “लोकेषु पञ्चविधं सामोपासीत” इनि । कचित्सामावयवषु पञ्चस्बे के कावयवोपासनं विधीयते । तत्रोद्गीथावयत्र भूतप्रणवोपासनं विधीयते, “ओमित्येतदक्षरमुद्गीथमुपासीत” इति । कर्माङ्गाश्रयाणि कर्माङ्ग भूतोद्गीथादिविषयाणि 1 अनधिगतकर्मण उद्गीथाद्युपासनचिन्तनं न शक्यं कर्तुमिति प्रतिज्ञा । कर्माङ्गाश्रयाणीति हेतुगर्भविशेषणम् । कर्माङ्गोद्गीयाद्या श्रया० उपासनानीत्युक्ते सति हेतावुद्गीथशब्दस्य वैयथ्यं स्यात् ;. उपासनमात्रस्य च पक्षीकारः प्रतीयेत । अतो यथोक्तैव वचनव्यक्तिर्युक्ता । अनधिगते कर्मण्यमुद्गीयादिविषयोपासन चिन्ताया अशक्यत्वात् कर्मविचारोऽपक्षितइति चेदित्यर्थः । सोपालम्भं परिहरति । अनभिज्ञ इति । शास्त्रे प्रधाननया प्रतिपाद्यं ज्ञानमिदमिति त्वया न ज्ञातमित्यर्थः / अन किं प्रवानप्रतिपाद्यं ज्ञामित्यत्राह अस्मिन्निति । श्रु० 6
४२ १-१-१. लघुपूर्वपक्षः सागरनिमनस्य निखिलदुःखमूलमिथ्याज्ञाननिबर्हणायात्मैकत्वविज्ञानं प्रतिपिपादयिषितम् । अस्य हि भेदावलम्बिकर्मज्ञानं कोपयुज्यते ? प्रत्युत विरुद्धमेव । उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वाविशेषादिहैव क्रियते । स तु न साक्षात्सङ्गतः । अतो यत्प्रधानं शास्त्रम्, तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् ॥ बाढम ; तदपेक्षितं च कर्मविज्ञानमेव ; कर्मसमुच्चितात् ज्ञानादपवर्गश्रुतेः ।
वैविध्यम् - तदवान्तरमिदाबाहुल्यम् ; 1 एवं विभेवदर्शनस्य भेदः — ज्ञातृज्ञेयज्ञानरूपः हेतुरविद्या । तस्याः को हेतुरित्यनवस्थापरिहारार्थमनादिशब्दः । एवमविद्याकृतभेददर्शन निमित्तकं जन्मजरामरणादिकमेव सांसारिकदुःखम् । आदिशब्देन नरकगर्भवासादिग्रहणम् । संसारः -प्रकृतिसंबन्धः । तत्प्रभवं सांसारिकम्, तन्निरसनीयत्वाय दुःखरूपत्योक्तिः । सागरशब्दस्तदानन्त्यपरः । निमग्नस्येति दुःखनिवृत्युपायापेक्षाहेतुतयोक्तम् । अधिकारिस्वरूपमुक्तम् प्रयोजनमाह निखिलेति । मिथ्याज्ञानं भ्रान्तिज्ञानम् ; “दुःखजन्मप्रवृत्तिदोष मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायात् " इति प्रयोगात् । भ्रान्तिज्ञानं च भेददर्शनम् । यद्वा मिथ्याभूतमज्ञानं मिथ्याऽज्ञानम् । ज्ञाननिवर्त्यत्वाय मिध्याशब्दः । तस्य निबर्हणाय । तन्निबर्हणमेव मोक्ष इत्यभिप्रायः । तत्साधनं किमित्यत्राह आत्मैकत्वविज्ञानमिति । संर्पभ्रमस्य रज्जुयाथात्म्यज्ञानं हि निवर्तकम; न तु कर्मविशेषः । एवं भेददर्शनस्याविद्याकृतत्वादैक्यज्ञानमेव तन्निवर्तकमिति तत्रैत्र तात्पर्यं वेदान्तवाक्यानामित्यर्थः । ततः किमित्यत्राह अस्य हीति कोपयुज्यते । न कुत्रचित् । ज्ञानस्य स्वरूपोत्पत्तौ तत्फलोत्पत्तौ, ज्ञानोत्पत्तिसाधनानुग्रहे वा नोपयुज्यत इत्यर्थः । न केवलमुपयोगाभावः, प्रतिकूल फलत्वमप्या (पीत्या ?)इ प्रत्युतेति । द्वैतवासनाजनकत्वादित्यभिप्रायः । तथाप्युपनिषत्स्वधीतत्त्राद् ब्रह्ममीमांसायां निरूप्यमाणत्वाच्चोद्गीयाद्युपासनं ब्रह्मविद्यापेक्षितमित्युद्गीथादिविचारः साक्षात्सङ्गत इत्यत्राइ उद्गीथादीति । तर्हि कथमुपनिषत्स्वध्ययनं ब्रह्मविचारे तद्विचारश्चेत्यत्राह ज्ञानरूपत्वाविशेषादिति । ज्ञानस्वरूपत्वसाम्यात् बुद्धिस्थतया कृतः, न तु प्रधानार्थोपयोगित्वादित्यर्थः । ततः किमित्यत्राह सत्विति । तुशब्दद्वयं शङ्काद्वयव्यावर्तकम् । प्रधानप्रतिपाद्योपयुक्तस्यैव पूर्ववृत्तत्वं निगमयति इति । किमपि कर्मविचारादन्यदिति भावः । प्रधानार्थोपयोगित्वेन सङ्गतिः साक्ष त्सङ्गतिः । येन केनाप्याकारेण साम्यादूबुद्धिस्थत्वं प्रसङ्गात्सङ्गतिः । अतः प्रासङ्गिकोद्गीथाद्युपासन चिन्तापेक्षितस्य प्रधानार्थविरुद्धस्य कर्मविचारस्य न पूर्ववृत्तता युक्ता ; अपि तु प्रधानप्रतिपाद्यात्मैकत्वविज्ञानापेचितमेव किमपि पूर्ववृत्तं वक्तुं युक्तमित्युक्तं भवति ॥ / अत अत्र भास्करीयाः प्रत्यवतिष्ठन्ते बाढमिति । बाढमित्यर्धाङ्गीकारे । यत्प्रधानं शास्त्रम , तदपेक्षितमेव पूर्ववृत्तमित्येतावन्मात्रविषयोऽङ्गीकारः । तदपेक्षितं चेति प्रतिज्ञा । त्वया यदनपोक्षतमित्युक्तम, तदेवापेक्षितमित्येव काराभिप्रायः । कुत इत्यत्राह कर्मसमुचितादिति । समुच्चितशब्दः साहित्यमात्रपरः; न समुच्चयपरः । “अस्मद्विद्या च आत्मविद्या चेति समुच्चित्योपदेशात् " (1-2-15.मा.) इत्यत्र समुच्चित्यशब्दवत् । कर्मज्ञानाभ्यामिति न निर्दिष्टम; अपि तु कर्मसमुचितज्ज्ञानादिति विशेषण 1 तुशब्दद्वयम् - विचारस्तु, स तु इति तुशब्दद्वयम् ।
४३ वक्ष्यति च, “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्” इति । अपेक्षिते च कर्मण्यज्ञाते ‘केन समुच्चयः ; केन न’ इति विभागो न शक्यते ज्ञातुम् । अतस्तदेव पूर्ववृत्तम् ॥. विशेष्यभावेन निर्दिष्टम । अतो ज्ञानप्राधान्यमवगम्यते । कर्माङ्गकात् ज्ञानादित्यर्थः । श्रुतिश्च, “यज्ञेन दानेन " इत्यादिर्विवक्षिता । कर्मणो विद्याङ्गत्वे सूत्रकाराभिमतिं दर्शयतिं वक्ष्यति चेति । चः प्रतिपादकसमुच्चये । अङ्गतया कर्मणोऽनुष्ठानमपेक्षितमस्तु ; तज्ज्ञानस्य कथं पूर्वभाविश्वम् — कर्मज्ञानं ब्रह्मविचारपाश्चात्यं किं न स्यादित्यत्राह अपेक्षिते चेति । प्रयाजादिवन्निष्पन्नस्य करणस्य फलोत्पत्तिदशायामनुग्राहकत्वेनाङ्गतयाऽपेक्षा विवक्षिता । तृतीयस्य चतुर्थपादे समावृत्ताकृतदार मृतदारादीनाम् आश्रमविशेषवर्तिनां च ब्रह्मविद्यानिष्ठानां कर्मस्वनुष्ठेया
ननुष्ठेयविभागस्य निरूपयिष्यमाणत्वमभिप्रेत्योक्तं केन समुच्चयः केन नेतीति 1 यद्वा नित्यनैमित्तिकयोः समुच्चयः, न तु काम्यनिषिद्धयोरिति विभागो न ज्ञायत इत्यर्थः । अयमर्थःपदार्थज्ञानपूर्वकं हि वाक्यार्थज्ञानम् । “यज्ञेन दानेन” इत्यादिवाक्ये यज्ञादिकर्मणां पदार्थभूतत्वात् वाक्यार्थज्ञानस्य च पदार्थज्ञानपूर्वकत्वात् यज्ञादिकर्मविचारस्य पूर्वभावित्वम् । न हि “श्रीहीनवहन्ति” इत्यादिवाक्यार्थज्ञानं व्रीह्यादिपदार्थज्ञानेन विनोपपद्यते ; पदार्थसंसर्गरूपत्वाद्वाक्यार्थस्य ॥
ननु गामानयेत्यादिवाक्यात् व्युत्पत्तौ गवानयनादिरूपं वाक्यायं पूर्वं प्रतिपद्य आवापोद्वापमुखेन पश्चात् पदार्थप्रतिपत्तेः न पदार्थधीपूर्वकत्वनियमो वाक्यार्थज्ञानस्य ॥ उच्यते । व्युत्पन्नाच्छन्दादर्थप्रतिपत्तौ सर्वत्र पदार्थज्ञानपूर्वकमेव वाक्यार्थज्ञानम् । व्युत्पत्तिदशायां तु प्रमाणान्तरेण शब्दान्तरेण वा वाक्यार्थावगमः पूर्वं स्यात् । न तु तस्मादेव शब्दात् ; तस्यागृहीत सम्बन्धत्वेन बोधकत्वायोगात् । व्युत्पत्तावपि न वाक्यार्थधियः पूर्वभावनियमः ; अम्बातातमातुलादिपदानां पदान्तरासंसृष्टानामेव प्रथमव्युत्पत्तिदर्शनात् । अस्य शब्दस्यायमर्थ इति व्युत्पत्तौ वाक्यार्थज्ञानस्य पूर्वभावाभावाच्च । न चास्मिन्नेव वाक्ये यज्ञादिशब्दव्युत्पत्ति संभवः ; विविदिषानिष्पत्तिरूपवाक्यार्थस्यापत्यक्षत्वेन गवानयनादाविव व्युत्पत्यनुपपत्तेः । अतः पदार्थज्ञानपूर्वकं वाक्यार्यज्ञान मियुक्तम् । १ बाढमित्यादिकं सिद्धान्तिनश्चोद्यपरमिति च व्याख्यातृभिर्व्याख्यातम् । तदानीमपि पदार्थवाक्यार्थभावः क्रमविशेषहेतुतया विवक्षितः । किञ्च अपेक्षिते चेत्यङ्गतयाऽपेक्षितत्वस्य विवक्षितत्वात् कर्मणां च ज्ञानोत्पादकतया तदङ्गत्वात् उत्पादकोत्पाद्ययोः पौर्वापर्यनियमात् विचारविषययोः कर्मज्ञानयोः पूर्वापरभावेन तच्छेष भूतयोर्विचारयोरपि तत्क्रमभाकत्वं न्याय्यमिति चाभिप्रायः । शेषभूतस्य शेषिक्रमानुरोधित्वं हि न्यायसिद्धम, यथा – “सारस्वतौ होमौ भवतः” इति युगपदुत्पन्नयोरपि सारस्वतहोमयोः याज्यापुरोनुवाक्यामन्त्रानुसारेण सरस्वतीयागस्य पूर्वभावे सरस्वद्यागस्य च पश्चाद्भावे च (?) प्राप्ते तदङ्गानामपि तेनैव क्रमेणानुष्ठानं निर्णीतम् (पू.मी. 51.14) दृष्टान्ते दाष्टन्तिके च शेषिणोः क्रमनिश्चायक हेतुवैषम्यमेव । तयोः क्रमे निश्चिते शेषस्य शेषिक्रमानुरोधित्वं तत्र चात्र च तुल्यम् । एवश्वोपासनस्यैव विचारं प्रति शेषित्वात तृतीयलक्षणे कृतस्योपासनचिन्तनस्यैव कर्मविचारापेक्षया पश्चाद्भाव इति न वाच्यम् –विद्याविषयतत्फलचिन्तनस्यापि तदपेक्षिकत्वेन कृत्स्नाया अपि ब्रह्ममीमांसायाः कर्मविचारपश्चाद्भावप्राप्तेः !! निगमयति अत इति । बाढमित्यादेः सिद्धान्तचोद्यपरत्वादपि भास्करमतपरत्वमुचितम् ; “कर्मसमुच्चिताज्ज्ञानादपवर्गश्रुतेः” इत्यस्य ग्रन्थस्य भास्करीयभाष्ये श्रवाण स्वात, अङ्गभावस्य तदभ्युपगतत्वेन तद्विषयसूत्रोपादानाविरोधाच्च शब्दतोऽर्थतश्च भास्करमतप्रत्यविज्ञानात् ।
४४ १-१-१. कर्मापेक्षत्वनिरासः नैतद्युक्तम् ; सकलविशेष प्रत्यनीकचिन्मात्र त्रह्मविज्ञानादेवाविद्यानिवृत्तेः । । मिद्धान्तिचःद्यस्यापि तदन्तर्भावाच्च । भास्करपक्ष यादवप्रकाशेपक्षं चोपजीव्य बाढमित्यादिना पार्श्वस्थश्चोदयतीति च निर्वाहः साम्प्रदायिकः । तत्रेयं योजना — कर्मसमुच्चितादिति समसमुच्चयो विवक्षितः । कर्मसमुच्चिज्ज्ञानादिति विशेषणविशेष्यभावेन निर्देशो निर्देशो ज्ञानस्य मोक्षोपायत्वप्रसिद्धिप्राचुर्यनिबन्धनः । श्रुतिश्च, “विद्यां चाविद्यां च” इत्यादिः । अस्मिन् वाक्ये मृत्युशब्दः उपेयप्राप्तिविराधकर्मवाची । प्रतिबन्धनिवृत्तिर्ब्रह्म प्राप्तिश्चेति साध्यद्वयम, क्रमेण कर्म ज्ञानं चेति साधनद्वयमपि हि यादवप्रकाशैरभ्युपगतम् । अतः “विद्यां चाविद्यांच” इति वाक्ये पूर्वखण्डः साधनद्वित्वपरः, उत्तरखण्डस्तु साध्यद्वित्वपर इति तेषां निर्वाहः । वक्ष्यति चेति चशब्दः प्रतिपाद्यसमुच्चये । अङ्गभावं च वक्ष्यतीत्यर्थः । ज्ञानोत्पत्तेः पश्चात् कर्मणो ब्रह्मप्राप्तिप्रतिबन्ध निवर्तकस्यम्, ज्ञानोत्पत्तेः पूर्वं कर्मगो ज्ञानोत्पादकतया तदङ्गस्वमपि हि तदभ्युपगतम् । अङ्गभावपरसूत्रमुपादत्ते सर्वापेक्षेति । ‘सर्वापेक्षेति सूत्रमङ्गाङ्गिभावपरम् ; सहकारिखेन चेति सूत्रं समसमुच्चयप्रतिपादकम् ’ इति हि तेषां प्रक्रिया । अङ्गभात्रे समुच्चये च श्रुतिवाक्ये सूत्रे चोदाहर्तव्येऽपि ग्रन्थलाघत्रार्थं समुच्चये श्रुतिः अङ्गभावे सूत्रं चोदाहृतम् । अङ्गभावप्रतिपादकवाक्यविषयसूत्रोपादानेन भास्करमतञ्चावलम्बितं भवति । एवमुभयथा कर्मणोऽपेक्षा दर्शिता । ततः किमित्यत्राह अपेक्षिते चेति । समप्रधानतया अङ्गतया चापेक्षिते इत्यर्थः । अन्यत् सर्वं पूर्ववत् । यद्यपि यादवप्रकाशमते कर्मविचारस्य पूर्ववृत्तत्वमनभिमतम्, तथापि समुच्चयेनाङ्गतया च कर्मणोऽपेक्षितत्वस्य तदुपपादितत्वात् तावन्मात्रमुपजीव्य पार्श्वस्थेन मतट्टयावलम्बिना चोदयित्रा पूर्ववृत्तत्वापादनमुखेन चोदितमिति न निगमनग्रन्थविरोधः समुच्चयशब्दस्य प्रधानतयोऽन्वये स्वारस्यात् अङ्गत्वपरसूत्रोपावानात् तदनन्तरं साध्यद्वित्वस्य साधनद्वित्वस्य च निराकरिष्यमाणत्वाच्च मतद्वयावलम्बनेन चोदितमिति पूर्वाचार्यैर्निर्वाहः कृतः ॥ अत्र प्रतिवदति नैतद्यक्तमिति । हानार्थं कर्मणां ज्ञात नागेव प्रतिक्षिप्तम् ; वेदान्तमात्राध्यायिनः कर्मविषयापातप्रतीत्यभावेन कर्मनैरपेक्ष्यवचनात् सुकृतवशाद्वेदान्तमात्रबुभुत्सावतः कर्मज्ञानानपेक्षावचनाच्च । अत्रोपादानार्थं कर्मणो ज्ञातव्यस्त्रं निराचिकीर्षुः समसमुच्चयेनाङ्गभावेन च द्विविधेऽप्युपादाने समसमुच्चयार्थ - मुपादानं प्रथमं निराकर्तुं साधनद्वित्वं साध्यद्वित्वं च वाक्यद्वयेन प्रतिक्षिपति सकलविशेषेल्यादिना । यदा बाढमित्यादिग्रन्थो भास्करमतेन सिद्धन्तिमतेन वा चोद्यपरः, तदानीं पूर्वपक्षे सम्भावित समस्तप्रकारेण कर्मगोऽपेक्षां प्रतिक्षेप्तुकामः, ‘किं स्वया समसमुच्चयां विवक्षितः उताङ्गभावः’ इति विकल्पमभिप्रेत्य प्रथम समुच्चयपक्षं प्रतिक्षिपतीति निर्वाह्यम् । सकलविशेषाः सजातीयविजातीय स्वगतव्यावृत्त्यन्वयरूपविशेषाः ; तेषां प्रत्यनीकम । सर्पाद्याकाराणां रज्जुत्वमिव तेषां निवर्तकमिति भावः । विन्मात्रमिति मात्रचा ज्ञातृत्वज्ञेयत्वव्यावृत्तिः । यद्वा सकलविशेषप्रत्यनीकशब्देन विजातीय सजातीय भेदप्रत्यनीकत्वं चिन्मात्रमिति मात्रचा स्वगतभेदशून्यत्वं च विवक्षितः । प्रत्यनीकशब्देन नित्यानर्हत्वं विवक्षितम् । न हि शुक्तिशकलं कदाचिद्रजतत्वसम्बन्धार्हम् । नित्यान हत्यादेव हि शुक्तिज्ञानस्य रजतत्वनिवर्तकत्वम् । ब्रह्मविज्ञानादेवाविद्यानिवृत्तेरिति । रज्जुत्यज्ञानादेव हि सर्पस्वनिवृत्तिः न तु कर्मणेति भावः । ;; 1 CC-0ः Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham ४५ अविद्यानिवृत्तिरेव हि मोक्षः । वर्णाश्रमविशेषसाध्यसाधनेतिकर्तव्यताद्यनन्तविकल्पारपदं कर्म सकलभेददर्शननिवृत्तिरूपाज्ञाननिवृत्तेः कथमिव साधनं भवेन ? श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं ज्ञानस्यैव मोक्षसाधनत्वं च दर्शयन्ति, “अन्तत्र देवास्य तद्भवति”, “तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते”, “ब्रह्म वेद ब्रह्मेव भवति”, “तमेव विदित्वाऽति मृत्युमेति” इत्याद्याः ॥ यदपि चेदमुक्तम् एवं साधनद्वित्वं निरस्तम् । कथं साधन द्वित्वव्युदासः; साध्यद्वित्वं हि विद्यत इति शङ्कायां साध्यद्वित्वं व्युदस्यति अविद्यानिवृत्तिरेव हि मोक्ष इति । ब्रह्मणो नित्यप्राप्तत्वात् प्रतिबन्धनिवृत्तिरेव साध्या; न तत्प्राप्तिः । हिशब्दस्यायमभिप्रायः -या प्रतिबन्धनिवृत्तिः कर्मसाध्यत्वेन त्वयोक्ता, सैव ज्ञानसाध्या श्रुतिस्मृतिसूत्रैरभिहिता, “तमेव विदित्वाऽति मृत्युमेति”, ज्ञात्वा देवं मुच्यते सर्वपाशैः,” “निचाय्य तं मृत्युमुखात् प्रमुच्यते”, “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे”, “एवमेवंविदि पापं कर्म न श्लिष्यते”, “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा”, “तदधिगम उत्तरपूर्वाघयोः” इत्यादिभिः । तस्माद्वाक्यद्वयेन, ‘न सध्यसाधन द्वित्वमस्ती’ व्यक्तं भवति ः अविद्यानिवृत्तिरेव मोक्षोऽस्तु ; ततः किं कर्मनैरपेक्ष्यस्येत्यत्राह वर्णाश्रमेति । अनेन पदेन पूर्वोक्तं कर्मणो भेदावलम्बित्वं विवृतं भवति । आदिशब्देन निषिद्धानि, प्रायश्चित्तकर्माणि च विवक्ष्यन्ते । अनन्तशब्देन वर्णादीनां बाहुल्यम् । विकल्पो भेदः । सकलभेददर्शननिवृत्तिरूपाज्ञाननिवृत्तेरिति । मूल ज्ञाननिवृत्तेः फलं हि भेददर्शननिवृत्तिः । अतो भेददर्शन निवृत्तिरज्ञाननिवृत्त्यन्तर्गतेत्यर्थः । कथमिव साधनम् । न कथञ्चिदपीति यावत् । “न हि वचनविरोधे न्यायः प्रभवति” इति नियमात् श्रुतिसिद्धं कर्मणोऽपेक्षितत्वं न बाध्यमिति शङ्कायामुक्तोपपत्तेः श्रुत्यानुकूल्यं दर्शयति श्रुतयश्चेति । न केवलोपपत्तिः, तदनुप्राह्यमप्यस्तीति चशब्दस्य भावः । पूर्वं भेदावलम्बितया विरोध उक्तः । अत्र तु फलानित्यतया विरोधश्च युवत्यन्तरत्वेन दर्शितः । अनित्यफलत्वेनेति । नित्य फलस्य मोक्षस्य कथमनित्यफलदं कर्म साधनमित्यर्थः । श्रुतय इति एकस्मादनेकवाक्यानां प्राबल्यं विवक्षितम; दर्शयन्तीत्यनेनास्फुटार्थात् स्फुटार्थानाम् । अन्तवदेवास्येति । कर्मसाध्यत्वे मोक्षस्यानित्यत्वम्, नित्यत्वे कर्मणस्तत्साधनत्वं वा न स्यात् ; कर्मणोऽन्तवत्फलत्वनियमादिति भावः । अनेन वाक्येन कर्मणामनित्यत्वमुक्तम् । तद्यथेत्यनेन कर्मक्षयस्य फलद्वारकत्वमुक्तम् । पूर्ववाक्यमनेककालानुष्ठितसकलकर्मणामन्तवखज्ञापनार्थम् । “अस्मिन् लोके जुहोति यजने तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति” इति हि श्रूयते । तत एव कर्मनैरपेक्ष्यवादे अस्य वाक्यस्य प्रथमत उपादानम् । ब्रह्मविदाप्नोतीति ज्ञानस्य मोक्षसाधनत्वमुक्तम् । माध्यमातृभेदनिषेधार्थं ब्रह्म वेद ब्रह्मैव भवतीत्युपात्तम् । तमेवेति प्रतिबन्धनिवृत्तेर्ज्ञानफलत्वं ज्ञापितम् । ज्ञानव्यतिरिक्तस्य कर्मादेरुपायत्वनिषेधश्चानेन सिद्धः । “नान्यः पन्था” इति ह्यनन्तरवाक्यम् । एवं ज्ञानस्यैव " मोक्षोपायस्त्र परत कानुगृहीतस्पष्टार्थाने कवाक्योपादानेन, “विद्यां चावियां च” इति समसमुच्चयपरत्वेन परोक्ता श्रुतिश्वातदर्थेत्युक्तं भवति । तस्या एकत्वादस्फुटार्थत्यादत कोंपेतत्वाच्च श्रुत्यन्तराविरोधेन वर्णनीयत्वात् । एवं ज्ञानस्यैव मोक्षोपायत्वे प्रमाणतया श्रुतय उपपत्तयश्च दर्शिताः । अथ यज्ञादिश्रुतेः कर्मापेक्षितत्वपरत व्युदस्यति यदपिचेत्यादिना । सिद्धान्ति मास्कर यादवप्रकाशानां त्रयाणामपि कर्मभिमतमितीदृशं
४६ १-१-१. वेदनेकर्मापेक्षत्वायोगः यज्ञादिकर्मापेक्षा विद्येति, तत् वस्तुविरोधाच्छ्रत्यक्षरपर्यालोचनया च अन्तःकरणनैर्मत्यद्वारेण विविदिषोत्पत्तावुपयुज्यते ; न फलोत्पत्तौ ; विविदिषन्तीति श्रवणात् । विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरङ्गोपायतां श्रुतिरेवाह. “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्ये वाऽऽत्मानं पश्येत्” इति ॥ प्राधान्य सूचयत्यपिशब्दः । समुच्चयपरवाक्यस्य श्रुत्यन्तरानुगुण्येन निर्वाहे सति यज्ञादिश्रुतिश्च निर्भह्येति समुच्चयाभिप्रायश्चशब्दः, अविचत्यखण्डोऽयं शब्दो वा । तदानीमप्युक्तप्रकारेण समुच्चयपरः । यदुक्तम् = ‘यज्ञादिकर्मापेक्षा विद्या’ इत्यनया वचनब्यक्त्या समुच्चयेन विद्यापेक्षितं यत् कर्मोक्तमित्यर्थः । वस्तुविरोधः द्वैतवासनाजनकत्वमनित्यफल स्वच । श्रुत्यक्षरपर्यालोचना – सन्प्रत्ययार्थनिरूपणम् । चः समुच्चये । विविदिषोत्पत्तावुपयोगप्रकार माह अन्तःकरणेति । न फलोत्पत्तौ न मोक्षोत्पत्तौ । “यज्ञेन दानेन तपसाऽनाशकेन ब्राह्मणा विविदिषन्ति” इति हि श्रुतिः, न तु मुच्यन्त इतीति भावः । अक्षरपर्यालोचना कथमित्यत्राह विविदिषन्तीति श्रवणादिति । एवं च यज्ञादिश्रुतिपर्यालोचनया च ज्ञानकर्मणोः ः समुच्चयः प्रत्युक्तः । न फलोत्पत्ताविति फलशब्दस्य मोक्षे स्वारस्यादेवं योजना कृता । यद्वा-यज्ञादिकर्मापेक्षा विद्येति वचोभङ्गाऽङ्गतयाऽपेक्षितं यत्कर्मोक्तमित्यर्थः । न फलोत्पत्तौ -न वेदनोत्पत्तावित्यर्थः । विविदिषापेक्षया हि फलं वेदनम् । अन्यत् सर्वं पूर्ववत् । अस्यां योजनायां यज्ञादिकर्मापेक्षा विद्येति निर्देशस्वारस्य मस्ति; अङ्गाङ्गिभावसूत्र स्मारकत्वादस्य निर्देशस्य । अथवा – यज्ञादीति प्रयाजादिवन्निष्पन्नस्य करणस्य फलोत्पत्तिदशायामनुग्राहकतयाऽङ्गं यत्कर्मोक्तम्, तन्नोपयुक्तमित्यर्थः । न फलोत्पत्तौ - न मोक्षोत्पत्तौ; करणभूतविद्यानुग्राहकत्वेन नोपयुक्तमित्यर्थः । अस्यां योजनांयामङ्गाङ्गिभाव - सूत्रस्मारक निर्देशस्य फलोत्पत्ताविति निर्देशस्य च स्वारस्यमस्ति । विविदिषन्तीत्युक्तिः, असिना जिघांसतीतिवदिति यज्ञादेर्वेदनोपयोगित्वं स्यादिति शङ्कायां वेदनोत्पत्तौ हेतुत्वं कर्मणः इतिकर्तव्यतात्वं करणत्वं चानुपपन्नमित्याह विविदिषायामित्यादिना वाक्यद्वयेन 1 तत्र शम दिभिः सह समुच्चयेन विकल्पेन चेतिकर्तव्यतात्वं प्रथमं व्युदस्यति विविदिषायामित्यादिवाक्येन । एत्रकारद्वयेन कर्मणः समुच्चयो विकल्पश्च व्युदस्यते । शमादीनामिन्द्रियव्यापारोपरतिरूपत्वेन यज्ञादिकर्मणस्तत्प्रवृत्तिरूपत्वेनान्योन्यविरोधित्वान्न समुच्चय उपपद्यत इत्यभिप्रायेण शमादीनामेवेत्युक्तम् । तुल्यबलयोर्हि विकल्पः ; “भूत्वाऽऽत्मानं पश्येत्” इति शमादीनामात्मदर्शनं प्रति साक्षात्साधनत्वस्य न्यायनैरपेक्ष्येण शीघ्रं प्रतिपन्नतया बलीयस्त्वात्, विविदिषन्तीति यज्ञादरिच्छासाधनत्वेन स्वरसतः प्रतिपन्नत्वेऽपि स्वारस्यभङ्गेन, अमिना जिघांसतीत्यादिदृष्टान्तपर्यालोचनरूपन्याय सापेक्षतया कर्मणो विद्यासाधनत्वस्य विलम्बेन प्रतिपन्नतया दुर्बलत्वाच्च न विकल्प इत्यभिप्रायेणाह श्रुनिरेवाहेति । तथापि विविदिषापेक्षितत्वात् कर्म च ज्ञानोपयोगि, तत् कथम् एत् स्वज्यते, शमादिरुपादीयते इति शङ्कायां कर्मणः शमादिवैषम्यमाह अन्तरङ्गोपायतामिति । ‘भूत्या पश्येत्’ इत्यन्तरङ्गत्वं स्पष्टम् । विविदिषायाः पूर्व हि कर्मोपयोगः, शमादि तु पश्चादप्युपयुज्यत इत्यभिप्रेत्य जातायामित्युक्तम् ॥
४७ तदेवं जन्मान्तरशतानुष्ठितानभिसंहित फलविशेषकर्ममृदितकषायस्य विविदिषोत्लत्तौ सत्याम, “सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्”, “सत्यं ज्ञानमनन्तं ब्रह्म”, “निष्कलं निष्क्रियं शान्तम्”, “अयमात्मा ब्रह्म”, “तत्त्वमसि’ इत्यादिवाक्यजन्यज्ञानादविद्या निवर्तते । वाक्यार्थज्ञानोपयोगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नाम - वेदान्तवाक्यानि आत्मैकत्वविद्याप्रतिपादकानीति तत्त्वदर्शिन आचार्यात् न्याययुक्तार्थग्रहणम् । एवमाचार्योपदिष्टस्यार्थस्य स्वात्मनि, एवमेव युक्तमिति हेतुतः प्रतिष्ठापनं मननम् । एतद्विरोध्यनादिभेदवासनानिरसनायास्यैवार्थस्यानवरतभावना निदिध्यासनम 1 श्रवणादिभिर्निरस्त समस्त भेदवासनस्य वाक्यार्थज्ञानमविद्यां निवर्तयतीति एवंरूपस्य श्रवणस्यावश्यापेक्षितमेव पूर्ववृत्तं वक्तव्यम । तच्च नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसंपत्, इहामुत्रफलभोगविरागः, मुमुक्षुत्वं चेत्येतत्साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेः अर्थस्वभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ॥ ज्ञानं प्रति कर्मणः करणत्वमपि नास्तीत्याह तदेवमिति । करणत्वं संभवतीत्याशङ्कय निरस्यते ; न त्वभ्युपगतत्वात् । विशुद्धं मनो हि करणम् ; “मनसा तु विशुद्धेन” इति श्रुतेः । तत्-उक्तेभ्यो हेतुभ्यः । एवम् — समुच्चयेन विकल्येन चेतिकर्तव्यतात्वेऽनुपपन्ने । स्वर्गादिसाधनस्य कर्मणो विविदिषासाधनत्वानुपपत्तिपरिहारायानभिसंहितफलशब्दः । विविदिषाया अपि तत्साध्यत्वेन फलत्वात् तस्या अनभिसंहितस्वव्यावृत्यर्थं फलविशेषेत्युक्तम् । विविदिषा सिद्ध्यर्थमिदानीमप्यनुष्ठानाय कर्मज्ञानापेक्षाशङ्काव्यावृत्त्यर्थं जन्मान्तरशब्दः । ‘अनेकजन्मसंसिद्धः’ इति वचनादिदानीमप्यनुष्ठेयमित्याशङ्कापरिहारार्थः शतशब्दः । कार्यकल्प्यं हि कारणम् । इदानीं विविदिषोत्पत्तिदर्शनेन जन्मान्तरशतानुष्ठानं कल्पनीयमिति भावः । तेन कर्मणा मृदितकषायस्य नष्टपापस्य । “कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः”, “कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते” इति हि स्मृतिः । एवं विविदिषोत्पत्तौ सत्यां ज्ञानोत्पत्तिक रणमाह सदेवेति । सदेवेत्यादि कारणवाक्यम् । सत्यं ज्ञानमिति शोधकवाक्यम् । सत्यज्ञानादिवाक्यफलितव्यावृत्तिविशदीकरणाय निष्कलमित्यादिवाक्यमुपात्तम । अयमात्मा ब्रह्म इत्यैक्यवाक्यम् । उपक्रमादिषड्विधतात्पर्यलिङ्गोपेत मैक्यवाक्यं दर्शयति तत्त्वमसीति । अस्मिन् वाक्ये ब्रह्मणा जीवविशेषस्यैक्यं श्रुतम् । श्रुतमैक्यं सर्वात्मनामिति ज्ञापनार्थम् अयमात्मा ब्रह्मेति वाक्यम् । इत्यादिवाक्यं ज्ञानोत्पत्तौ करणम् ; न कर्मेत्यर्थः । वाक्यजन्यज्ञानमविद्यानिवर्तकं चेत्, श्रवणादिपूर्वकध्यानविधिवैयर्थ्यमित्याशङ्कयाह वाक्यार्थेति । चः शङ्काव्यावर्तकः तेषां स्वरूपमाह श्रवणं नामेति । प्रतिपादकानि - निष्पादनक्षमाणि ; वाक्यजन्यज्ञाना दिति युक्तम् । एतद्विरोधि आत्मैकस्व विद्याविरोधि । श्रवणादीन्येवंरूपाणि [ यानि ] स्युः, कथमेषां वाक्यार्थज्ञानोपयोगः इत्यत आह श्रवणादिभिरिति । वाक्यार्थज्ञानोत्पत्तिविरोधि निरसनमुपयोगः इत्यर्थः । इति — उक्तहेतोः; ज्ञानकर्मसमुच्चयाङ्गाङ्गिभावानुपपत्तिहेतुभ्य इत्यर्थः । एवंरूपस्य बन्धनिवृत्तौ कर्मनिरपेक्षवाक्यार्थज्ञानोपक्रम भूतस्य; न तु प्रासङ्गिकार्थस्य । अवश्यापेक्षितम् नियमेनापेक्षितम् । अपेक्षितं च किमित्यत आह तच्चेति । कुत एतदपेक्षितमित्यत्राह अनेन विनेति । जिज्ञासानुपपत्तेः - विचारानुपपत्तेः । अनुपपत्तिमुपपादयति अर्थस्वभावादिति । कथमर्थस्वभावः ? इत्थम् - नित्यानित्यवस्तुविवेकादनित्य सांसारिकफलभोगविरागो नित्यपुरुषार्थेच्छा चं स्यात् । ततः श्रवणादौ प्रवृत्तिः । मनोवधानहेतुतया तदुपयोगिनी शमादिसम्पत्तिरिति । अर्थस्वभावादेव । पूर्वप्रकृतादेवेत्येवकाराभिप्रायः । ज्ञानस्यैवोपायत्वं कर्मणोऽनपेक्षितत्वं ।
४८ १-१-१. शाङ्कराशयोपपादनम एतदुक्तं भवति — ब्रह्मस्वरूपाच्छादि (द) काविद्यामूलमपारमार्थिक भेददर्शनमेव बन्धमूलम् । बन्धश्चापारमार्थिकः स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवर्त्यते । निवर्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । च अर्थस्वभावाद्धि पूर्वमुक्तम् । यद्वा अनेन विना जिज्ञासानुपपत्तेरिति । शमाद्यर्थस्वभावादित्यर्थः । शमादि पूर्ववृत्तमस्तु; कर्म च पूर्ववृत्तं स्यादित्यत आह अर्थस्वभावादेवेति । येनार्थस्वभावेन शमादेः पूर्ववृत्तत्वम्, तेनैवार्थस्वभावेनान्यस्य पूर्ववृत्तत्वनिषेध इति प्रथमस्यैवकारस्य भावः । पूर्ववृत्तान्तरस्य व्यावृत्त्यर्थं द्वितीय एवकारः । अत्रार्थस्वभावशब्देन शमाद्यर्थस्वभाव उक्तः; ज्ञानार्थस्वभावः कर्मार्थस्वभावश्चाभिप्रेतः । ज्ञानस्य कर्मनिरपेक्षोपायत्वस्वभावात्, कर्मणो भेदावलम्बित्वेन विरुद्धस्वभावत्वाच्च, शमादेर्निवृत्तिरूपत्वेन प्रवृत्तिरूपकर्मविरोधिस्वभावत्वाच्च साधनचतुष्टयमेव पूर्ववृत्तम् ; न त्वन्यदित्युक्तं भवति । इदमेव पूर्ववृत्तमिति ज्ञायते इति । इदमेवशब्दावयोगान्ययोगव्यवच्छेदपरौ । इदंशब्दो हि साधनचतुष्टयपूर्ववृत्तत्वपरः, एवकारः कर्मव्युदासपरः शमाद्यर्थस्वभावात् तदयोगव्यवच्छेदः । तस्मात् ज्ञानकर्मणोरर्थस्वभावाच्चान्ययोगव्यवच्छेदः । सकलविशेषप्रत्यनीकं ब्रह्म चेत्, कथं संसारप्रवृत्तिः, कथं वाक्यार्थज्ञत्नादेवाविद्यानिवृत्ति, अन्तःकरणस्य केन वा मालिन्यम्, कथं कर्मणा नैर्मल्यम्, ते चायोगान्ययोगव्यवच्छेदहेतुभूता अर्थस्वभावाः कथमिति शङ्कायामुक्तार्थ सङ्कलय्य दर्शयन् शङ्काश्च परिहरति एतदुक्तमिति । ब्रह्मस्वरूपाच्छादिका’ शब्देन सकलविशेषप्रत्यनीकत्वेऽपि स्वरूपतिरोधानादु भेददर्शनं संभवतीत्युक्तम् । भेदः - ज्ञातृज्ञेयादिः । अपारमार्थिकं मेददर्शनमेव बन्धमूलम् । न कर्मेत्यर्थः । कर्मापि भ्रान्तिमूलक मिमि भावः । यद्वा अपारमार्थिकं भेददर्शनमेव; न सत्यभूतं किंचिदपीति भावः । तथा सति कर्मापेक्षा । बन्धः -जन्मजरामरणादिः । बन्धश्चापारमार्थिक इति । अविद्यामूलापारमार्थिकभेद दर्शन कार्यत्वादिति भावः । ततः किं कर्मनैरपेक्ष्यस्येत्यत्राह स चेति । अपारमार्थिकत्वादेवेति । पूर्वोक्तादेवापारमार्थ्यात् कर्मनैरपेक्ष्यसिद्धिरित्येवकाराभिप्रायः । ज्ञानेनैव । न कर्मणेत्यर्थः । न ह्यपरमार्थसर्पनिवृत्तेः रज्जुज्ञानेन विना वैनतेयोपासनकर्मापक्षा । एवं समसमुच्चयः प्रत्युक्तः । ज्ञानं प्रत्यपि कर्मणो न साघनत्वमित्याह निवर्तकं चेति । निवर्तकबोधः प्रमाणजन्य इति यावत् । प्रमाणजन्यशुक्तिज्ञानं हि रजतनिवर्तकम् । अत्र शमादेरितिकर्तव्यतात्खेन कर्मण इतिकर्तव्यतात्वमपि विरोधान्नेत्यभिप्रेतम् । ततः किमित्यत्राह तस्येति । तस्य कर्मनिरपेक्षस्य, एतस्य अद्वैतविषयस्य । तदेतच्छब्दयोः प्रस्तुतवाचित्वाविशेषेऽपि दूरस्थान्तिकस्थविशेषणविशिष्टपरामर्शित्यं ह्यचितम् । अद्वैतविषयत्वे 1 अनुपपत्तेरिति शमादीति । पूर्वमनुपपत्तेरित्यन्तं पृथग्वाक्यम् । इदानीमनुपपत्तिरूपार्थस्वभावादित्येकान्वयः । अर्थस्वभावपदप्रयोगः कर्मार्थस्वभाव - ज्ञानार्थस्वभावसूचनार्थ इति उपरि, ‘अत्रार्थ— अभिप्रेतः’ इति वाक्यात् ज्ञायते । साधनचतुष्कगतस्वभावान तत्पूर्ववृत्तत्वं ज्ञायते । कर्मगतस्वभावात् तन्न पूर्ववृत्तमिति ज्ञायते । आत्मैकत्वज्ञानगतस्वभावान कर्म न पूर्ववृत्तम ; किं तु साधनचतुष्टयमिति ज्ञायत इति ॥ 2 आच्छादिकाशब्दस्यैव विग्रहकाले साधुत्वात् तथाऽनुवादः । मूले तु आच्छादकशब्द एव । अन्यथा तत्समर्थनविचारः टीकायां कृत एव स्यात् । तत्त्वटीकायामपि न विचारः कृतः । प्रत्युत ‘आच्छादकत्वोक्त्या’ इति पदमेव लक्ष्यते । परं यथाश्रुतटीकां तात्पर्यदीपिकाश्र्वानुरुध्येव आच्छादिकापदमेव मूले रोचयन्ते, समर्थयन्ते च । साधुत्वेऽपि व्यवहारपरिपाटयपि अनुसर्तव्या ।
४९ तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्तौ कार्ये वा कर्मणो नोपयोगः, विविदिषायामेव तु कर्मणामुपयोगः । स च पापमूलरजस्तमोनिबर्हणद्वारेण सत्त्वविवृद्धया भवतीति इममुपयोगमभिप्रेत्य, “ब्राह्मणा विविदिषन्ति " इत्युक्तमिति । अतः कर्मज्ञानस्यानुपयोगादुक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् ॥ अत्रोच्यते - यदुक्तम् - अविद्यानिवृत्तिरेव मोक्षः, सा च ब्रह्मविज्ञानादेव भवति इति, तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यैर्विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम् - किं वाक्याद्वाक्यार्थज्ञानमात्रम, उत तन्मूलमुपासनात्मकं ज्ञानम् इति । न तावत् वाक्यजन्यं ज्ञानम्; तस्य विधानमन्तरेणापि 1 हेतुमाह वाक्यजन्यस्येति । तस्वमस्यादिवाक्यजन्यत्वादद्वैत विषयत्वमित्यर्थः । कार्ये मोक्षे । तर्हि कुत्रोपयोग इत्यत्राह विविदिषायामिति । तुशब्देन करणेतिकर्तव्यतास्त्र व्युदासः । उपयोगः कथमित्यत्राह स चेति । पापमूलेत्यादिना अन्तःकरणनैर्मल्यद्वारेणेति पूर्वोक्तं विवृतं भवति । रजस्तमोनिबर्हणादिकं नास्मिन् वाक्ये श्रुतमित्यत्राह इतीममिति । अभिप्रेत्यशब्देन शङ्कापरिहारः । इतिर्हेती । वस्तुविरोधादितिकर्तव्यतात्व करणस्वाद्यनुपपत्तिहेतुभ्य इत्यर्थः । इमम् उपयोगम् - रजस्तमोनिबर्हण सत्वविवर्धनरूपं परम्परयोपयोगमित्यर्थः । विविदिषन्तीत्युक्तमित्येतदुक्तं भवतीत्यन्वयः । प्रकृतमुपसंहरति अतः कर्मज्ञानस्येति । अतः - हानार्थमुपादानार्थं च कर्मज्ञानस्यानपेक्षितत्वादित्यर्थः । अत्र व्याख्यातृभिरुक्तौ सङ्ग्रह श्लोकौ — (तूलिका) “विरोधादप्रमाणत्वाश्चित्तशुद्धघुपयोजनात् । ज्ञानमात्रस्य हेतुत्वश्रुतेः सामर्थ्यतोऽपि च ॥ शमाद्यङ्गकताम्नानान्न धीकर्मसमुच्चयः । श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका” ॥ इति ॥ विरोधादिति कर्मणामनित्यफलतया भेदवासनाजनकतया च विरोधो विवक्षितः । सामर्थ्यत इति ज्ञानस्य मिथ्यार्थनिवर्तकत्वे कर्मनिरपेक्षत्वरूपं वस्तुसामर्थ्यं विवक्षितम् ॥ प राद्धान्तमारभते अत्रोच्यत इति । अस्मिन् पूर्वपक्षे सिद्धान्त उच्यत इत्यर्थः । पूर्वपक्षेोकेष्वर्थेष्वविरुद्धांशमभ्युपगमेन प्रतिबदति यदुक्तमिति । अविद्यानिवृत्तिः - प्रतिबन्धनिवृत्तिः । साध्यसाधन द्वित्वनिरासोऽभिमत इत्यर्थः । यः प्रतिबन्धनिरासः कर्मसाध्य उक्तः, तस्य " तमेव विदित्वाऽति मृत्युमेति” इत्यादिषु ज्ञानसाध्यत्वमुक्तम् । ब्रह्मप्राप्तिस्तु स्वतः सिद्धा । एवकाराभ्यां साध्यान्तरं साधनान्तरं च व्यावर्त्यते । यद्यप्यनिष्टनिवृत्तिरिष्टप्राप्तिश्च द्वयमस्ति, तथापीष्टतमब्रह्मप्राप्तेः स्वतः सिद्धायाः पृथगुपायसाध्यत्वाभावात् प्रतिबन्धनिवृत्तिरेव साध्या । स्वत एव सर्वसाक्षात्कारक्षमं ज्ञानं प्रतिबन्धके निवृत्ते सति ब्रह्मस्वरूपरूपगुणविभवादिकं सर्वं साक्षात्करोति । यथा सेतौ भग्ने जलं स्वयमेव गच्छति न केनचिन्नेतव्यम्, तद्वत् ; यथा अश्मानयने मार्गसमीकरणतत्प्रापणे उभे अपि पृथग्यत्नसाध्ये, न, तथेत्यर्थः । यद्वा भावान्तरस्यैवाभावत्वादविद्यानिवृत्तिरेव ब्रह्मप्राप्तिरित्यर्थः । साध्यसाधन द्वित्वनिरासोऽभ्युपेतश्चेत्, विप्रतिपत्तिविषयः क इत्यन्नाह अविद्येति । साधनस्वरूपविशेषे विप्रतिपत्तिरित्यर्थः । किंरूपम् । किं कर्माङ्गकत्वानहं भवदुक्तं ज्ञानम्, उत कर्माङ्गकत्वाहमस्मदुक्तं ज्ञानमित्यर्थः । किंरूपमित्यभिप्रेतं विवृणोति किमिति । किं वाक्यादिव्यादिना परमतं स्वमतं च वदति; न तु परमतविकल्पः । प्रथमं परपक्षप्रतिक्षेपः क्रियते, स्वपक्षस्थापनं तु पश्चादित्यभिप्रेत्याह न तावदिति । न तु दूष्यशिरसोरन्यतरदूषणं क्रियते । कुत इत्यत्राह तस्येति । विधानमन्तरेणापीति । प्रमाणज्ञानं वस्तुतन्त्रम्, न पुरुषतन्त्रम्, 1 श्रु० 7
1 ५० १-१-१. लघुसिद्धान्ते वाक्यार्थज्ञानानुपायत्वोपपादनम् वाक्यादेव सिद्धेः; तावन्मात्रेणाविंद्यानिवृत्त्यनुपलब्धेश्च । न च वाच्यम् - भदवासनायामनिरस्तायां वाक्यमविद्यानिवर्तकं ज्ञानं न जनयति ; जातेऽपि सर्वस्य । सहसैव भेदज्ञानानिवृत्तिर्न दोषाय ; चन्द्रैकत्वे ज्ञातेऽपि द्विचन्द्रज्ञानानिवृत्तिवत् । कर्तुमकर्तुमन्यथाकर्तुं चाशक्यत्वात् । अतः पुरुषतन्त्रत्वाभावान्न तत् विधेयमिति तैरेवोक्तमिति भावः । वाक्यादेव ब्रह्मस्त्ररूपपरवाक्यादेव । व्युत्पत्तिमन्तं पुरुषं प्रति न्यायानुगृहीतस्य वाक्यस्यार्थबोधकत्वं स्वतःसिद्धम् ; न तु विध्यधीनम् । तच्छ्रवणे पुरुषस्य प्रवृत्तिश्च रागादेवेत्युपपादितम् ः यद्यपि न रागात्, तथाप्यध्ययन विधिरेवाधीत कृत्स्नवेदवाक्यविचारे प्रवर्तक इति, “प्रज्ञां कुर्वीत” इत्यादिविधिर्निरर्थक एव । न च प्रमाणज्ञानस्य श्रेयःसाधनत्वमलौकिकमिति ताद्रूष्येण तस्य त्रिधेयत्वम् ; शुक्तिरूप्यादिभ्रमनिवर्तकज्ञानस्येव बन्धनिवर्तकज्ञानस्य दृष्टार्थत्वाभ्युपगमात् । अतो विधिवैयर्थ्यम् । तेनासकृदावृत्त साक्षात्कार भक्तिरूपत्वयावज्जीवानुष्ठेयत्वपराणाम्, “यावन्न विमोक्ष्ये अथ संपत्स्ये” इत्यादीनां मुक्तेः शरीरपातानन्तरभात्रित्वपराणाम्, नाडी विशेष निष्क्रमणवादिनीनाम्, मार्गपराणां चानेकश्रुतानां नैरर्थक्यं प्रसज्येतेत्येवम् अनेकश्रुतिविरोधस्य प्रदर्शनार्थं तस्य विधानमन्तरेणापीत्युक्तम् । अथ प्रत्यक्षविरोधं दर्शयति तावन्मात्रेणेति । तावदंशस्ततोऽधिकेऽप्यस्तीति तद्वयावृत्त्यर्थं तावन्मात्रेणेत्युक्तम् । बहुशास्त्रविरोध-प्रत्यक्षविरोधरूपमिदं दूषणद्वयं वदता भगवता आपस्तम्बेनापि वाक्यार्थज्ञानमात्रस्य मोक्षसाधनत्वं निरस्तम्, यथा, “बुद्धे क्षेमप्रापणम् ; तच्छास्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणम्, इहैव न दुःखमुपलभेत । एतेन परं व्याख्यातम्” इति । शास्त्रैरिति बहुवचनेन पूर्वोदाहृतानेकश्रुतिविरोधोऽभिप्रेतः । विप्रतिषेधः अधिकवलेन प्रतिषेधः; न तु प्रकरणसमवत् तुल्यबलेन प्रतिषे(रो)धः । बहुशास्त्रविरोधः प्रबलतरः ; “भूयसां स्यात् बलीयस्त्वम्” इति न्यायादित्यभिप्रायेण विप्रतिषिद्धमित्युक्तम् । यत्तु परैरस्य दूषणस्य प्रतिवचनं द्वेधा कृतम्, तदनुभाष्य दूषयति न च वाच्य।मति । वाक्यं ज्ञानोत्पत्तिमिदानीं न जनयतीति कश्चिन्निर्वाहः ; तमाह भेदेति । इदानीं ज्ञानोत्पत्तिर्दृश्यत इति चेंत्, तत्परिहारायाह अविद्यानिवर्तकमिति । पश्चादपि वाक्यादेवाविद्या निवर्तकविशदज्ञानोत्पत्तिश्चेत्, इदानीमेव जनयत्वित्यत्राह भेदवासनायामिति । प्रतिबन्धकाभावश्च सामग्र्यन्तर्भूतः । अतः सामग्रीवैकल्यात् ज्ञानमनुत्पन्नम् । ध्यानादिविधयः प्रतिबन्धकनिरासौपयिका इति भावः । अनेन शास्त्रप्रत्यक्षविरोधौ परिहृतौ भवतः । सनकादीनां ज्ञानाधिकत्वेन श्रुतिस्मृतिप्रसिद्धानामपि ज्ञानानुदयोऽनुपपन्न इति शङ्कायां निर्वाहान्तरमाह जातेऽपीति । ‘अविद्याया एकत्वात् प्रपञ्चप्रतिभासस्यैकस्य ब्रह्मणः स्वमरूपत्वाच्च सर्वस्येत्युक्तम् । न दोषाय । अनिवर्तकत्वं दोषाय न भवति । ज्ञानोदयेऽपि भ्रमानिवृत्ती दृष्टान्तं दर्शयति चन्द्रैकत्वे इति । 1 सर्वस्येत्यनेन, परोक्षरूपाद्वैतज्ञानवत इव साक्षात्कारवतः सनकादेरपि अविद्या न निवर्तते भेदज्ञानसत्त्वादिति न मन्तव्यम् - अविद्यानिवृत्तावपि तदंशसत्त्वाद्वा, तत्संस्कारानुवृत्त्या वा भेदज्ञानसंभवादिति बोध्यते । एवं नानाजीववादे समन्वितमेव भाष्यमेकजीववादेऽपि घटयितुमाह अविद्याया एकत्वादिति । तत्त्वज्ञानमविद्यानिवर्तकं जातमेव चेत् सर्वजीवनिवृत्तिरवश्यम्भाविनी । तत् कथं सर्वजीवानिवृत्तिः, तदीयभेदज्ञानानिवृत्तिश्चेति शंका । अविद्याया एकत्वात् सर्वस्यैकजीवस्वमरूपत्वाच्च सर्वस्य भेदज्ञाननिवृत्तिर्भवेदिति न ; मूलच्छेदेऽपि ज्ञानानिवृत्तिसंभवादिति परिहारः ।
५१ अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवति - इति । सत्यां सामग्रयां ज्ञानानुत्पत्त्यनुपपत्तेः । सत्यामपि विपरीतवासनायामाप्तोपदेशलिङ्गादिभिर्बाधकज्ञानोत्पत्तिदर्शनात् । सत्यपि वाक्यार्थज्ञाने अनादिवासनया मात्रया भेदज्ञानमनुवर्तत इति भवता न शक्यते वक्तुम्; भेदज्ञानसामग्र्या अपि वासनाया मिथ्यारूपत्वेन ज्ञानोत्पत्त्यैव निवृत्तत्वात् । ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्तकान्तराभावात् कदाचिदपि नास्या वासनाया निवृत्तिः । ’ वासनाकार्यं भेदज्ञानं छिन्नमूलम्, अथ चानुवर्तते’ इति बालिशभाषितम् । ।
अनिवृत्तं चेत्, भेददर्शनं बन्धकं स्यात् इत्यत आह अनिवृत्तमपीति । छिन्नमूलत्वेन छिन्नाविद्याख्यमूलत्वेन अकार्यकरम् । यथा दग्धः पटः पूर्वसंनिवेशेन प्रतीयमानोऽप्याच्छादनादिकार्ययोग्यः क्रमेण विनश्येत्, यथा कुलालभ्रमितं चक्रं भ्रामयितृव्यापारोपरमेऽपि पूर्ववेगवशात् कश्चित् कालं स्वयमेव भ्रमत् क्रमेणोपरमते, तद्वदिति भावः । अत्र इतिकरणस्य न वाच्यमित्यनेनान्वयः । प्रथमं ज्ञानानुत्पत्तिं दूषयति सत्यामिति । न्यायानुगृहीतवाक्यमेव सामग्री । प्रतिबन्धिका भदवासनाऽस्तीति चेत्, तत्राह सत्यामपीति । निवर्त्यी वासना निवर्तकोत्पत्तिप्रतिबन्धिका न भवतीत्यर्थः । आदिशब्दादिन्द्रियं गृह्यते । यथा चिरतरतिमिरवासितगुहायाँ प्रदीपो न नोत्पद्यते ; तस्मिन् दीपिते सद्य एव तमो विनश्येत् — यथा क्वचिदेशे सर्प इति वाक्याचिरं भ्रमितोपि पुरुषः, न तत्र सर्प इत्याप्तोपदेशाज्जानाति — यथा च वनं न दग्धमिति श्रुत्वा चिरं श्रान्तत्व पश्चात्तत्र गत्वाऽङ्गारादिलिङ्गदर्शनेन दग्धमिति ज्ञानं जायते यथा चिरं सर्पत्वेन वासिते वस्तुनि समीपगमनानन्तरमिन्द्रियव्यापारेण रज्जुज्ञानं सहसैव जायते तद्वदित्यभिप्रायेणाप्तोपदेशलिङ्गादिभिर्बाधकज्ञानोत्पत्तिदर्शनादित्युक्तम् । वेदान्तवाक्यं हि दाष्टन्तिकम् अत आप्तोपदेशस्य प्रथमोपादानम् । अथ द्वितीयनिर्वाहमनूद्य निरस्यति सत्यपीति । मात्रया अल्पमित्यर्थः । भवता ब्रह्मव्यतिरिक्त कृत्स्नमिथ्यात्ववादिनेति भावः । भवतेति सूचितमर्थं विवृणोति भेदेति । वासनाया अपि मिथ्यात्वाविशेषात् तस्या अपि ज्ञानेनैव निवृत्तत्वमवश्याश्रयणीयमिति भावः । किं ज्ञानोत्पत्तावपि वासना न निवृत्तेत्युच्यते, उत तन्निवृत्तावपि निर्हेतुकं भेददर्शनं भवति इति शङ्काद्वयं हृदि निधाय प्रथमां परिहरति ज्ञानोत्पत्तावपीति । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्यात्वात् वासनापि ज्ञानैकनिवर्त्या । नो चेत्, निवर्तकान्तरमपि ज्ञानत्वाविशेषान्न निवर्तयेदित्यर्थः । स्वयमेव वासना नश्यतीति चेत् — तदयुक्तम् । स्वयमेवेति बाधकज्ञाननैरपेक्ष्यस्य विवक्षितत्वे, वासनाया नश्यन्त्या अपि सत्यत्वप्रसङ्गात् । स्वयमेव नश्यतीति स्वेनैव स्वविनाशकरणं विवक्षितं चेत् — व्याघातः । ‘फलउपान्त्यकारणनाशादिनाश्यत्वेऽपि सत्यत्वप्रसङ्गोऽवर्जनीय एव; कर्म-शब्दादिषु तथैव वैशेषिकैर्वर्णितत्वात् ; तेषां च पारमार्थ्यदर्शनात् । किंच स्वप्नार्थोत्पत्यादिवत् वासनाया मिथ्यात्वेन तदुत्पत्तिस्थिती अपि मिथ्याभूते इति तद्विनाशोऽपि मिथ्याभूतः । अतो विनाशविषयभ्रमः पुनस्तिष्ठतीति निश्शेषभ्रमनिवृत्तिर्न स्यात् । अथ द्वितीयां शङ्कां परिहरति वासनेति । छिन्नमूलम् — छिन्नवासन ।ख्यमूलम् । बालिशभाषितमिति । अकारण कार्योत्पत्तिप्रसङ्ग इत्यर्थः । यथकारणं भेददर्शनं भवति, तर्हि मुक्तिरपि ज्ञाननिरपेक्षा स्याद;
1 फलोपान्त्येत्येतद्विवृणोति कर्मशब्देति । क्रियाजन्योत्तरदेशसंयोगात् क्रियानाश इति फलस्य नाशकता । वीचीतरङ्गन्यायानुवृत्तशब्दसंततौ उत्तरोत्तरस्य पूर्वपूर्वनाशकत्वेऽपि अन्त्यस्योपान्त्यशब्दनाश्यत्वमिति वैशेषिकमतम् । 2 वासनाख्येति अविद्योपलक्षणम् ; पूर्वानुसारात् ।
५२ १-१-१. उपासनस्योपायत्वसमर्थनम् द्विचन्द्रज्ञानादौ तु बाधकसन्निधावपि मिथ्याज्ञानहेतोः परमार्थतिमिरादिदोषस्य ज्ञानबाध्यत्वाभावेनाविनष्टत्वात् मिथ्याज्ञानानिवृत्तिरविरुद्धा । प्रबलप्रमाणबाधितत्वेन भयादि कार्यं तु निवर्तते । अपिच भेदवासनानिरसनद्वारेण ज्ञानोत्पत्तिमभ्युपगच्छतां कदाचिदपि ज्ञानोत्पत्तिर्न सेत्स्यति ; भेदवासनाया अनादिकालोपचितत्वेनापरिमितत्वात्, तद्विरोधिभावनायाश्चाल्पत्वादनया तन्निरासानुपपत्तेः । अतो. वाक्यार्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यैर्विधित्सितम् । तथा श्रवणादिभिर्विना वाक्यार्थज्ञानं स्यात्; अविद्यया विना जगद्भ्रमश्च स्यात्; अधिष्ठानेन विना अविद्याऽपि कार्यकरी स्यादिति भावः ।
ननु तर्हि कथं सत्यपि बाधकज्ञाने चन्द्रद्वित्वानिवृत्तिरित्यत्राह द्विचन्द्रेति । तुशब्दो विवक्षितार्थवैषम्यपरः । बाधकसन्निधावपि - तज्ज्ञानसंनिधावपि । तिमिरादिदोषस्य पारमार्थ्यात् ज्ञानावाध्यत्वादिति भावः । तत्परमार्थ्यश्च व्यावहारिकतयापि परेणाभ्युपगन्तव्यम्; अन्यथा आप्तोपदेशानन्तरं रज्जुसर्पव्यवहारोच्छेदवत् दोषो मिथ्येति वचनानन्तरं दोषनिवृत्या चन्द्रद्वित्वादिव्यवहारोच्छेदप्रसङ्गात् । अतो दोषस्य विद्यमानत्वाद् भेदभ्रमस्य समूलत्वम् । अनेन बाधकसंनिधौ बाध्यसद्भावः अकारणकार्योत्पत्तिश्चेति दूषणद्वयं दृष्टान्ते परिहृतं भवति । परमते तु दूषणद्वयं तिष्ठत्येव । तह्यप्तोपदेशादिवैयर्थ्यमित्यत्राह प्रबलेति । ‘रज्जुसर्पेभ्रान्तिमत्पुरुषापेक्षया भयादिकार्यनिवृत्तिः फलखेनोक्ता । आदिशब्दात् पलायनादि गृह्यते । द्विचन्द्रज्ञाने च स्वस्यादुष्टकरणत्वधीनिवृत्तिरौषधादिप्रवृत्तिश्च फलम् । ऐन्द्रजालिकभ्रमादिषु भ्रमहेतोः प्रावल्यात् वस्तुतो भ्रमत्वेऽप्य सत्यविषयत्वनिश्चयप्रतिबन्धः स्यादिति तद्व्यावृत्त्यर्थः प्रबलप्रमाणशब्दः । निवर्तत इति । प्रतिभासे विद्यमानेऽपि विषयसत्यत्वाभावनिश्चयद्वारा भयादिनिवृत्तिहेतुराप्तोपदेशादिरित्यर्थः । यद्वा यथावदर्थस्वरूपापरोक्ष्यप्रवृत्तिद्वारा भयादिनिवृत्तिहेतुरित्यर्थः । तुशब्दः शङ्काव्यावर्तकः । ज्ञानानुत्पत्तिपक्षस्य बह्वभिमतत्वात् सिंहावलोकित केन तं दूषयति अपिचेति । नायं सर्पो रज्जुरितिवत् दृष्टद्वारा हि भेदनिरासः ; अदृष्टमुखेन चेत्, भेदसत्यत्वप्रसङ्गात् । अतो भूयस्या भदवासनाया अल्पीयस्याऽद्वैतवासनया निरासोऽनुपपन्न इत्यर्थः ॥
नन्वदृष्टद्वारा निवर्त्यत्वे (ऽपि ) निवर्त्यस्य सत्यत्वं नानिष्टम्, । ध्याननिवर्त्यसर्पवत् व्यवहारदशायां वासनायाः सत्यत्वाभ्युपगमात् ; उत्पन्ने तु ज्ञाने तदुत्पत्तिस्थितिविनाशाश्च बाधिताः स्युरिति ॥ नैवम् ध्यान निवर्त्य सर्पस्यानित्यत्वमेत्र, न कदाचिदपि बाध्यत्वं सिद्धमिति तद्वदेव दृष्टनिवर्त्यवासनाया अपि वास्तव सत्यत्वप्रसङ्गात् ॥
नन्वैक्यभावनारूपं निदिध्यासनं प्रतिबन्धनिवर्तकं चेत्, उक्तदोषः स्यात् । तत्तु न प्रतिबन्धनिवृत्यै; किन्तु वाक्यार्थज्ञानोदय सहकारीति ॥ नैवम्; स्मृतिरूपस्य निदिध्यासनस्यानुभव सापेक्षतया तस्य वाक्यार्थज्ञानजनन सहकारित्वायोगात् ॥
ननु यद्यपि परोक्षानुभवस्य ध्यानमनुपकारकम् - तथापि निदिध्यासन सहकृतं वाक्यमपरोक्षधीहेतुः स्यात् ॥ नैवम्; निदिध्यासन सहकृतत्वेऽपि शब्दत्वादेवापरोक्षधीहेतुस्वायोगात् ज्योतिष्टोमवाक्यवत् । ; ; एवं शास्त्रप्रत्यक्षविरोधात् तदविरोध निर्वाह्नानुपपत्त्या च वाक्यार्थज्ञानमात्रस्य निवर्तकत्वासंभवात् पारिशेष्याद् वाक्यार्थज्ञानादन्यदेव मुक्त्युपायज्ञानं विधिसितमित्याह अत इति । न केवलं पारिशेष्यम् तदनुग्राह्याः श्रुतयश्च सन्तीत्याह तथाचेति । विज्ञायेत्यादिवाक्यद्वये ज्ञानसाधान्यशब्दः । वाक्यद्वयोपादानं च 1 द्विचन्द्रभ्रान्तिमति भयं दुर्वचमित्यत्राह रज्जुसर्पति ।
५३ च श्रुतयः, “विज्ञाय प्रज्ञां कुर्वीत”, “ओमित्येवात्मानं ध्यायथ”, “निचाय्य तं मृत्युमुखात्प्रमुच्यते”, “आत्मानमेव लोकमुपासीत”, “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”, “सोऽन्वेष्टव्यः स विजिज्ञासितव्यः” इत्येवमाद्याः । अत्र निदिध्यासितव्यः इत्यादिनैकार्थ्यात, “अनुविद्य विजानाति”, विज्ञाय प्रज्ञां कुर्वीत” इत्येवमादिभिः वाक्यार्थज्ञानस्य ध्यानोपकारकत्वात ‘अनुविद्य’ ‘विज्ञाय’ इत्यनूद्य, ‘प्रज्ञां कुर्वीत’ ‘विजानाति’ इति ध्यानं विधीयते । श्रोतव्य इति चानुवादः - स्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात् तन्निर्णयाय स्वयमेव श्रवणे प्रवर्तते इति श्रवणस्य प्राप्तत्वात् । श्रवणप्रतिष्ठार्थत्वान्मननस्य ’ मन्तव्य’ इति चानुवादः, तस्मात् ध्यानमेव विधीयते । उपसर्गभेदेऽपि विधिप्रत्ययान्तत्व तद्राहित्ययो श्वार्थभेदो नास्तीति ज्ञापनार्थम् । ध्यायथेति विशेषशब्दः । विधिप्रत्ययान्तत्वतद्राहित्ययोश्चार्थभेदो निचाय्येति ध्यानस्य प्रत्यक्षसमानाकारता दर्शिता । चाय ‘दर्शने इति हि धातुः । उपासीतेत्यनेन ज्ञा(ध्या)नस्योपासनशब्दवाच्यत्वं सिद्धम् । अन्वेष्टव्य इति मननशिरस्कश्रवणोक्तिः । निदिध्यासितव्यः विजिज्ञासितव्य इत्युपादानेन सन (न्न )न्तत्वेऽपीष्यमाणज्ञानपरं वाक्यमिति दर्शितम् । सन्नन्तपदद्वयस्योपादानं सामान्यविशेषशब्दत्वात् । इत्येवमाद्या इति । इतिशब्द उपात्तश्रुतिवाक्यस्वरूपमात्रपरः ; एवं शब्दः सन्नन्तस्यविधिप्रत्ययान्तत्व तद्राहित्योपसर्गभेदादिप्रकारपरः । उदाहृतवाक्येषु ज्ञानसामान्यवाचिपदानां विशेषाकाङ्क्षायां वाक्यार्थज्ञानस्वरूपो विशेषः पर्यवसानभूमिः स्यादिति शङ्कानिवृत्यर्थमाह अत्रेति । अत्र - उपात्तेषु । इत्येवमादिभिर्ध्यानं विधीयत इत्यन्त्रयः । निदिध्यासितव्य इत्यादिनेति आदिशब्देन सन्हितज्ञानविशेषत्राचिवाक्यान्तरं विवक्षितम् । ऐकाध्यं च सर्वशाखाप्रत्ययन्यायात् । स ह्यनुक्ताकांक्षितस्वीकारफलः । तत्र “छागो वा मन्त्रवर्णात्” इति न्यायात् सामान्यवाचिशब्दानां विशेषपर्यवसानम् । अनुविद्य विजानाति, विज्ञाय प्रज्ञां कुर्वीत इत्यत्र केन पदेन वाक्यार्थज्ञानमनूद्यते, केन वा ध्यानं विधीयते इत्यपेक्षायामाह अनुविद्य विज्ञायेत्यनूद्येति । अनुवादः किमर्थः इत्यत्राह ध्यानोपकारकत्वादिति । प्रज्ञां कुर्वीत विजानातीति वाक्यद्वयोपादानस्य पूर्वोक्तमेव फलम् । एवं स्मृतिष्वपि सामान्यशब्दः सति विशेषोपस्थापके तत्पर्यवसितो दृष्टः । “निषिद्धभक्षणं जैायमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ॥” इत्यत्र निषिद्धसामान्यस्य भक्षणसामान्यं पातित्य हेतुरवगतम् । “छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः " निषिद्धविशेषस्य भक्षणविशेषः पातित्यहेतुदृष्टः । अत्र पूर्वग्रन्थः चरमग्रन्थार्थे पर्यवस्यति । भवतु सामान्यशब्दो विशेषपर्यवसायी; अत्र तु ज्ञानसामान्यत्राचिशब्दः श्रोतव्य इति श्रवणरूपज्ञानविशेषे पर्यवस्यत्वित्यत्राह श्रोतव्य इति चेति । चः शङ्कानिवृत्तौ, समुच्चये वा । विज्ञाय अनुविद्येतिवत् अयं चानुवाद इत्यर्थः । तत् सङ्क्षेपेणोपपादयति स्वाध्यायस्येति । आपातप्रतीत्या स्वतः प्राप्तिः श्रश्णस्य स्यात; मननस्य तादृसहेत्वभावात् तत्र पर्यवसानमस्त्वित्यत्राह श्रवणप्रतिष्ठार्थत्वादिति । चः पूर्ववत् । तस्मात् ध्यानमेवेति । न तु वाक्यार्थज्ञानमित्यर्थः ॥
ननु श्रोतत्र्य इति पुस्तकनिरीक्षणादिव्यावृत्यर्थो विधिः किं न स्यात् ॥ नैवम् — वेदान्तवाक्यानामपि पुस्तकनिरीक्षणादिव्युदासस्याध्ययनविविसिद्धत्वात् ; 2 चाय इति । चायृ पूजानिशामनयोरिति धातुपाठः । तदेकदेशानुवादोऽयम् । । इत्यत्र
५४ १-१-१. उपासनस्य शारीरकशास्त्रविज्ञानत्वम् वक्ष्यति च, “आवृत्तिरसकृदुपदेशात् " इति । तदिदमपवर्गोपायतया विधित्सितं वेदनमुपासनमित्यवगम्यते ; विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात्"मनो ब्रह्मेत्युपासीत” इत्यत्र “भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद”, “न स वेद अकृत्स्नो ह्येषः… आत्मेत्येवोपासीत”, “यस्तद्वेद यत्स वेद स ब्रह्ममीमांसायाः विलेखनपठनादेरप्रतिषिद्धत्वात् ; गुरूपसत्तौ श्रवणशब्दस्य मुख्यार्थत्वाभावात्; तस्याश्चात्राविहितत्वेपि, “गुरुमेवाभिगच्छेत् " इति वाक्यान्तरसिद्धत्वाच्च ॥
ननु न्यायोपेतवाक्यमात्रानवगम्य केवलोपदेशगम्यार्थविशेषश्रवणं श्रोतव्य इति विधेयमिति चेन्न – मननपूर्वभावितयाऽस्य श्रवणस्य न्यायानुगृहीतवाक्यजन्यज्ञानरूपत्वावगमात् ; शब्दस्वारस्याच्च । न च मन्तव्य इत्यालम्बन संशीलनरूपेमननविधिरिति वाच्यम् — श्रवणशब्दस्य न्यायोपेतवाक्यजन्यज्ञान इव मन्तव्यशब्दस्य तत्प्रतिष्ठापने प्रसिद्धिप्राचुर्यात् तस्य चापवादाभावात् । उभयोरप्राप्तार्थद्वयविधायित्वे वाक्यभेदप्रसङ्गात् । सति गत्यन्तरे विशिष्टविधानाश्रयणस्यान्याय्यत्वाच्च । विधिर्हि पदावगतेष्वर्थेष्वेकत्रोपक्षीणशक्तिलाघवाय तदितरेषु स्वतोऽनुवादमपेक्षमाणः प्रापकाभावाद्विशिष्टे तात्पर्यं भजते । अत्र स्वनुवादसंभवान्न विशिष्टविषयत्वकल्पनं युक्तम् । तस्मादनुवादः । अनेन श्रवणशब्दस्य 2 यादव मिश्रोक्तनिर्वाहो निरस्तः । अत्र द्रष्टव्यशब्द उपायोपयदशा साधारणत्वात् उपरि नियामकस्फुटार्थत्राक्यान्तरेण सह व्याख्यास्यते ॥
ननु न साधारणत्वम् ; द्रष्टव्य इति तव्यता दर्शनस्य विधेयत्वप्रतीतेः ; फलस्य चात्रिधेयत्वात् ॥ उच्यते । निदिध्यासनवत् दर्शनस्य च विधाने वाक्यभेद प्रसङ्गात् निश्चितानुवादश्रवणमनन साहचर्याच्च विधित्वनिश्चयप्रतिबन्धात् । उपायस्य दर्शनरूपत्वविषयप्रमाणादर्शने विशिष्टविधित्वाश्रयणायोगात् “मनसैतान् कामान् पश्यन् रमते, य एते ब्रह्मलोके”, “परात्परं पुरुषमीक्षते " इत्यादिभिः फलदशायां दर्शनस्य प्रामाणिकत्वाच्च श्रोतव्य इतिवत् तव्यदर्थमनाहृस्य फलसमर्पकत्वं द्रष्टव्यशब्दस्य शङ्कितुं युक्तमित्यत उपरिष्टा व्याख्येयत्वम् । अथोपासनस्य विधिसितत्वद्रढिम्ने सूत्रकारोक्तिं दर्शयति वक्ष्यति चेति । तादृश सूत्रासंभवन्युदासाय सूत्रमुपादत्ते आवृत्तिरिति । उपासनशब्दाश्रवणात् सूत्रस्य तत्परत्वमस्फुटमिति तस्यार्थमाह तदिदमिति । आवृत्तिद्वयत्रयव्यावृत्त्यर्थमसकृदिति सौत्रं पदम् । कस्याऽऽवृत्तिरित्यपेक्षायामाह तदिदं वेदनमिति । तदिदं तृतीयाध्यायावसाने, “एवं मुक्तिफला नियमस्तदवस्थावधृतेस्तदवस्थावधृतेः” इति प्रस्तुतं मोक्षफलं ज्ञानमित्यर्थः । । यद्वा प्रज्ञां कुर्वीतेत्यादिसामान्यशब्दोक्तं वेदनमसकृदावृत्ति (त्त) रूपमुपासनमित्यर्थः । इत्यवगम्यत इत्यन्तेन आवृत्तिरसकृदिति सूत्रांशो व्याख्यातः ; उपदेशादिति पदं व्याचष्टे विद्युपास्योरिति । स्थलत्रयमुदाहरति मन इति । " । 1 श्रोतव्य इति उपदेशैकगम्यार्थविशेषश्रवणं मन्तव्य इति आलम्बनसंशीलनश्च क्रमभावि विधीयताम् । एबच विधिश्रुतिसार्थक्यमित्याशंकापरिहारौ
नन्वित्यादिना । पुनर्वक्ष्यति चेदं 57 पुटे । 2 यादवमिश्रेति । ‘आहुः केचित् सांख्ययोगोपदेशश्रवणादिकमिति’ इति तत्त्वटीका । शब्दादिभेदाधिकरणटीका च द्रष्टव्या । 3 ‘अथोपासनस्येति । उपायभूतं ज्ञानं वेदनं न वाक्यार्थज्ञानम् किंतु ध्यानोपासनादिशब्दवाच्यमिति प्राक् भाषितं हि । तत्र ध्यानशब्दवाच्यत्वमुपपादितम् । अथ तस्य वेदनस्योपासनशब्दवाच्यत्वोपपादनायारभत इत्यप्यत्राशयो भाव्यः ।
मयैतदुक्तः” इत्यत्र—“अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से” इति ॥ ध्यानं च ५५ मनो ब्रह्मेति वाक्यम्, ‘रात्रीरुपेयात् ’ ‘इतिवत् ; ‘प्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्ति’ इत्यत्र य एता रात्रीरिति सत्रानुवादवत् य एवं वेदेति पूर्वविहितोपासनस्य फलार्थमनुवादः । वितरणविक्रमादिहेतुभेदात् कीर्तियशसोर्भेदः । मनो ब्रह्मेत्युपासीतेत्यादिप्रकरणे, यस्तद्वेदेत्यादिप्रकरणे च वेदनोपासनवाचिशब्दयोर्विप्रकर्षात् प्रकरणैकत्वज्ञापनाय अत्रेत्युक्तम् । अनु म इति । यां देवतामुपास्से, एतां देवतामनुशाधि । अनुपूर्व ः शासि र्विविष्य ज्ञापनार्थः । विविश्व ज्ञापयेत्यर्थः । “व्यवहिताश्च” इति सूत्रेण छन्दस्युपसर्गाणां व्यवहितप्रयोगः । न स वेदेत्यत्र’ संनिकर्षादत्रशब्दाप्रयोगः । न स वेदेत्यस्य “स योऽत एकैक मुपास्ते” इत्येतद्वाक्यपूर्वकत्वादुपक्रमोपसंहारयोरुपासनशब्दः ; मध्ये वेदनशब्दः । इदं च पूर्वस्मिन् वाक्ये उपक्रमोपसंहारदर्शनादित्येतेनाभिप्रेतम् । यस्तद्वेद – तस्य ब्रह्मणो वेदिता यो रैक्कः, यत् स वेद – तस्य रैक्कस्य वेद्यं यद्ब्रह्म, स वेदिता रैक्कः एतत् वेद्यं च उभयं तव मयोक्तमित्यर्थः । सामान्यविशेषन्यायेन प्रकरणान्तरोक्तज्ञान सामान्यवाचिशब्दानां प्रकरणान्तरोक्तविशेषपर्यवसायित्वं पूर्वमेव स्त्रयमेव हि भाष्यकारेण दर्शितम् । सूत्रव्याख्याने स्वेकैकप्रकरणे व्यतिकरेणोपक्रमोपसंहारदर्शनमुपदेशादिति पदस्यार्थत्वेनोक्तम् । उभयत्रोभयं हेतुत्वेन वाच्यम् । तथाप्यविस्तरार्थमेकैकमुक्तम् । अत एव हि चतुर्थाध्याये (4-1.1.) उभयमपि हेतुत्वेन वक्ष्यते ।
तदिदमित्यादिकं सूत्रव्याख्यानम् । अन्यथा तदिदमपवर्गोपायतया विधित्सितं वेदनमिति नोध्येत ; किन्तु ध्यानमुपासनमित्येवोच्येत । इतरथा शृङ्खलितोक्तिप्रकरणानौचित्यात् । पश्चादपि ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपमिति पूर्वप्रकृतध्यानशब्देन निर्देशात् । पूर्वग्रन्थे ध्यानस्योपासनरूपत्वं विवक्षितं चेत् पश्चादुपासनमविच्छिन्नस्मृति सन्तान रूपमित्युपासनशब्देनोच्येत । एवं प्रकृतसूत्रार्थेऽवधृते पूर्वप्रकृतस्य ध्यानस्य ध्रुवानुस्मृतित्वमुपपादयति ध्यानं चेतिं । वेदनस्यासकृदावृत्तिं वदतः सूत्रकारस्यायं भावः - यथा ज्ञानसामान्यवाचिनां शब्दानां विशेषपर्यवसायित्वेनासंकृदावृत्तिरूपज्ञानपरत्वं सिद्धम्, एवं विशेषान्तरोपस्थापकेषु सत्सु तद्विशेषपर्यवसायित्वं न्याय्यमिति । तस्मात् सूत्रकारेण कण्ठोतां ज्ञानस्यासकृदावृत्तिरूपतामुपपाद्य तेनाभिप्रेतं श्रुत्यन्तरोपस्थापितं विशेषान्तरमाह ध्यानं चेति । अनेन ग्रन्थेनासकृदावृत्तेर्व्यवहितत्वशङ्कानिरासार्थं विजातीयप्रत्ययान्तरा- 1 उपेयादिति । रात्नीरुपेयुरित्यर्थकज्योतिगौर। युरितिवाक्यवदित्यर्थः । एकत्वमविवक्षितम्, बहुयजमानकत्वात् सत्तस्य । 2 संनिकर्षादिति । न स वेद; अकृत्स्नो ह्येष इत्यस्य, आत्मेत्येवोपासीत इत्यस्य च मध्ये तद्वाक्यान्तर्गत पदत्रयमेवानुपात्तमस्तीति संनिकर्षः ; अन्यत्र तु वाक्यव्यवधानान्न तथेति । उपरिटीकायां तालकोशपाठः उपनिषद्भाष्यादृतः, ‘सयोतएकैकमुपास्ते’ इत्येव । अन्यत्र मुद्रितस्तु, ‘योऽन्यदेवतामुपास्ते’ इति पाठः भावप्रकाशिकादृष्टोऽपि तथाश्रुत्यभावादुपनिषद्भाष्यानुसाराच्चाशुद्धः । 3 उक्तमिति । उक्त इति श्रुतौ पुंलिङ्गश्रवणेपि एतदित्यानुगुण्याय उक्तमिति विपरिणमनीयम् । अत्र उक्तिक्रियाविशेषणम् एतदिति । स इत्येकमेवोक्तिकर्म । पूर्ववाक्ये तदिति पदं यदित्यस्य प्रतिसंबन्धि । तथा च यत् स रैंको वेद, तत् यो वेद…… स मयैवमुक्त इत्यर्थ इति तत्त्वटीकादिविस्तर उपनिषद्भाष्यपरिष्कारे।
६६ १-१-१. ध्यानदर्शनैक्यम् तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम् । “ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः " इति ध्रुवायाः स्मृतेरपवर्गोपायत्वश्रवणात् । सा च स्मृतिर्दर्शनसमानाकारा ; “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” इत्यनेनैकार्थ्यात् । एवं च सति, “आत्मा वा अरे द्रष्टव्यः” इत्यनेन निदिध्यासनस्य दर्शनसमानाकारता विधीयते । व्यवहितत्वमुक्तम् अत्र विच्छिन्नाविच्छिन्नस्मृति सन्ततिसाधारणो ध्यानशब्दश्चेत्, ध्यानं चेत्यादिना विशेषान्तरे पर्यवसानमुक्तं भवति ; ध्यानशब्दस्याविच्छिन्नस्मृति सन्तत्य साधारणत्वे ध्यानशब्दो व्याख्यातो भवति । अविच्छिन्नस्मृतिसन्तति वचनमाह ध्रुवेति । स्मृते ध्रुवत्वं नाम विजातीयप्रत्ययान्तराव्यवहितसन्ततित्वम; स्मृतिव्यक्तीनां क्षणिकत्वात् । अपवर्गोपायत्वश्रवणादिति । तत्रापवर्गेपायभूतवेदनस्यासकृदावृत्तिरुक्ता । अत्रापि तदुपायत्वप्रत्यभिज्ञानात् तस्यैत्राविच्छिन्नसन्ततिरूपत्वं विवक्षित मिति भावः । तस्याः । तस्याः अपित्वादर्शनरूपत्वमुच्यते सा चेति । न केवलं त्रिषयैक्यतः साम्यम्, परोक्ष्येणापीति आकारशब्दस्य भावः । हृदयस्य मनसः ग्रन्थयो रागादयः । यद्वा, मञ्चाः क्रोशन्तीतिवत् हृदयशब्दस्तत्स्थजीवपरः ; हृत्स्थानमयतीति व्युत्पत्तेर्वा । तस्य ग्रन्थिः -प्रकृतिसंबन्धः ; हृदयशब्दोपलक्षितं वा शरीरं ग्रन्थिः । संशयशब्दो विपर्ययस्यापि प्रदर्शनार्थः । देहात्माभिमानादिरूपाविद्येत्यर्थः । कर्माणि – पुण्यपापरूपाणि । अविद्यासश्चितकर्मकृतप्रकृति सम्बन्ध निवृत्तिर्दर्शनसमानाकारोपासनेनेत्यर्थः । एवं च सतीति । उपायदशायां (पन्न ) ज्ञानस्य दर्शनरूपत्ये स्फुटार्थवाक्यान्तरसिद्धे सतीत्यर्थः । चशब्दो द्रष्टव्यशब्दस्य फलदशाभिप्रायत्वशङ्कानिवृत्यर्थः । दर्शनशब्दस्य ज्ञानसामान्यपरत्वसंभवेऽपि " द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः “, “आत्मनि खल्बरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् " इति श्रवणादीनां पृथगुक्तत्वाद्रष्टव्य इति पदं साक्षात्काररूपत्वपरम् । दृष्टशब्दश्च तत्तुल्यार्थः । स चोपायदशाभिप्रायः ; तस्मिन् दृष्टे हृदयग्रन्थिर्निद्यते इत्युक्तत्वात् ; “येनाहं नामृता “अमृतत्वस्य तु नाशाऽस्ति वित्तेन”, स्याम् “, " एतावदेव खल्बरेऽमृतत्वम्” इति पूर्वपरवाक्येषु फलस्य निर्दिष्टत्वात्; प्रकरणान्तरोक्तस्य साक्षात्कारत्वस्येहापि अपेक्षितविधेः अनपेक्षितविधान दौर्बल्याच्च ॥
ननु ध्रुवानुस्मृतेरेव दर्शन रूपत्वविधिरयुक्तः ; वक्तुमपेक्षितत्वात् धवानुस्मृतिदर्शनयोर्मिन प्रकरणानातयोर्द- हरशाण्डिल्यादिवेदनानामिव परस्परनिरपेक्षोपायत्वं हि प्रतीयते ॥ नैवम् । द्रष्टव्यो निदिध्यासितव्यः इत्येकवाक्यविहितत्वात् । न च तत्रापि विद्याद्वयविधानं शक्यम्; रूपभेदाभावात् । तत एव वाक्यैकस्वे संभवति वाक्यभेदाश्रयणायोगात् । विद्यान्तराणामिव तयोर्विकल्पप्रसङ्गाच्च ॥ तयोर्निरपेक्षोपायत्ववादिनो विकल्प दृष्ट इति चेन्न; तस्याष्टदोषदुष्टस्य सति गत्यन्तरेऽभ्युपगन्तुमयुक्तत्वात् । दृश्यते हि त्रीहियवशास्त्र्योस्तस्याष्टदोषदुष्टत्वम् - व्रीह्मनुष्ठाने यत्रशास्त्रस्य प्रामाण्यत्यागः अविद्यमानाप्रामाण्यकल्पनम् यवानुष्ठाने तस्य स्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यत्यागश्चेति यवशास्त्रे चत्वारो दोषाः; यवानुष्ठानवेलायामेव प्रथमप्रयोगे स्वीकृतत्रीहिशास्त्रप्रामाण्यत्यागः, तदप्रामाण्यकल्पनं च ; तृतीयप्रयोगे व्रीहिषूपादीयमानेषु द्वितीयप्रयोग स्वीकृतत्री हिशास्त्राप्रामाण्यत्यागः त्यक्तप्रामाण्यस्वीकारश्चेति त्रीहिशास्त्रे चत्वारो दोषाः । इहापि
१५७ यथासम्भवं’ दोषप्राप्तिः । यद्वा प्रतिपत्तिबाधोऽनुष्ठान वाघोऽपूर्वबाधः फलवाध चेति एकैकशिरसि दोषचतुष्टयादष्टदोषदुष्टत्वम् । अतः, गत्यन्तरे सति विकल्पायोगाच्च न ध्रुवानुस्मृतिदर्शनयोः पृथगुपायत्वम् । !!
; नापि समुच्चयः; चशब्दाश्रवणात् ; दर्शपूर्णमासोत्रि द्वन्द्वनिर्देशाभावाच्च । परमात्मनोऽतीन्द्रियत्वात् तत्साक्षात्कारस्य चक्षुषा शब्दग्रहणस्येव प्रक्रान्तयोगं प्रति अशक्यविधानत्वाच्च शब्दविषययोः स्मरणचाक्षुषज्ञानयोरिव समुच्चयोऽनुपपन्नः ॥
ननु परमात्मनो योगपरिशुद्ध मनोग्राह्यत्वान्न तद्दर्शनस्य चक्षुषा शब्दज्ञानतुल्यतेति दर्शनोपायभूतस्य व्यापारस्य विधेयत्वोपपत्तेः समुच्चयः संभवतीति ॥ सत्यम् कस्तद्दर्शनोपायः ? ! “ततस्तु तं पश्यते निष्कलं ध्यायमानः” इति श्रुतेर्ध्यानमेवेति चेत् तर्हि द्रष्टव्यनिदिध्यासितव्यपदयोः पुनरुक्तिः स्यात् ; उभयोरपि दर्शनोपायध्यान विधिपरत्वाविशेषात् ॥ द्रष्टव्य इति दर्शनोपाये विहिते, क उपायः इत्यपेक्षायां निदिध्यासनं विधीयते ; द्रष्टव्यपदाभावे निदिध्यासनस्य तदुपायत्वं न ज्ञायत इति तज्ज्ञापनार्थत्वान्न पुनरुक्तिरिति चेन्न – द्रष्टव्यपद श्रवणेऽपि दर्शनस्य ध्यानसाध्यत्वाप्रतीतेः । न हि दर्शनकामनेति श्रूयते ; तथा सति हि स्वर्गयागयोरिव साध्यसाधनभावावगमः स्यात् । न च ध्यानं प्रति श्रवणमननयोरिव दर्शनं प्रति ध्यानस्य दृष्टकिञ्चित्कारः । अतो न मानान्तरेण तयोः साध्यसाधनभावावगम इति वैयर्थ्यम् । किंच ध्यानसाध्यं ध्यानसाध्यं दर्शनं चेत्, ध्यानदर्शनयोः समुच्चयश्च न संभवति । दर्शनं प्रति समुच्चये, दर्शनस्य दर्शनं साधनमित्यात्माश्रयप्रसङ्गात् । न च मोक्षं प्रति समुच्चयसंभवः ; ध्यानस्य स्वसाध्यदर्शन व्यवहितस्य मोक्षं प्रति दर्शनेन सहान्यवहितकिंचित्कारायोगात् । न हि यागनिष्पत्यर्थानां प्रोक्षणात्रघातादीनामपूर्वनिष्पत्तौ यागेन सह समुच्चयः । यदि साक्षात्कारं प्रति ध्यानेन सह अव्यवहितकिंचित्कारोपपत्तये दर्शन समानाकारं ज्ञानान्तरं विधेयमित्युच्यते तदयुक्तम् ; स्वर्गं प्रति ज्योतिष्टोमस्येव निदिध्यासनस्य साध्यं प्रति निरपेक्षोपायता प्रतीतिस्वारस्य भङ्गप्रसङ्गात् । न हि “ज्योतिष्टोमेन स्वर्गकामो यजेत” इति वाक्यप्रतिपन्नज्योतिष्टोमस्य स्वर्गसाधनत्वं कर्मान्तरसापेक्षमवगम्यते । न चात्र चशब्दो द्वन्द्वसमासो वा । अतः - ‘दर्शनसमानाकारतारूपविशेषणस्य किं विशेष्यमित्याकाङ्गायाम्, विशेष्यान्तरं च न दृश्यते ; निदिध्यासनं च संनिहितम ; अतस्तदेव दर्शनसमानाकारतय। विधित्सितम् ’ इति युक्तमभ्यपगन्तुम् । ततश्च वाक्यभेदोऽपि न स्यात् । निदिध्यासनस्य निरपेक्षोपायताप्रतीतिस्वारस्यं च न बाध्येत ॥ 1
ननु .
ननु विशिष्टविध्याश्रयणं चेत्उपदेश कगम्यार्थश्रवण - शुभाश्रयमननदर्शन रूपताविशिष्टनिदिध्यासनविधिः किं न स्यात् ॥ नैवम् ; चतुष्वंशेषु तात्पर्यकल्पनादपि द्वयोस्तत्कल्पनस्य लघुत्वात् ; लघुपक्षसंभवे गुरु- ब्रीहियवयोरिवोपायद्वयस्यैकपुरुषकर्तृका व्यवस्थितानुष्ठानविषयत्वाभावात् कथमिहाष्टदोषस्वमित्यत्राह यथासंभवमिति । एकोपायस्वीकारिणा अन्योपायशास्त्रस्यानुष्ठापकत्वरूपप्रामाण्यस्य त्यागात् अ
ननुष्ठापकत्वरूपाप्रामाण्यस्वीकारात् प्रतिशास्त्रं पुरुषभेदेन दोषद्वयमवर्जनीयम् । तथा च शास्त्रद्वये दोषचतुष्टयमित्येवं भाव्यम् । प्रतिपत्तिबाध इति । अपूर्वमनुग्रहः । एकोपायग्राहिणा उपायान्तरशास्त्रम्य स्वविषयकत्वबाधात्, तदुपाया
ननुष्ठानात्, तन्मूलकानुग्रहस्य, तन्मूलकतया फललाभस्य च बाधात् दोषचतुष्वमिति । 2 दृष्टकिचित्कार इति । योगिनामतीतानागतादिविज्ञानं देवतानुग्रहरूपादृष्टद्वार कम्, वाल्मीकेरिव चतुर्मुखानुग्रहादिति भावः । 3 न बाध्येतेति । एवं ध्यानातिरिक्तस्य दर्शनस्योपायत्वप्रतिषेधात् तथावादिमाध्वमतमपि प्रत्युक्तम् । श्रु० 8
५८. १-१-१. स्मृतेर्दर्शनरूपत्वपर्यवसानावश्यकता भवति च स्मृतेर्भावनाप्रकर्षात् दर्शनरूपता । पक्षाश्रयणायोगाच्च । न चास्मिन् वाक्ये विधानाभावादौपदेशिकार्थाधिगम-आलम्बन संशीलनयोरसिद्धिः शङ्कनीया ; “तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यञ्च निर्विद्याथ मुनिः” इत्यनन्यथासिद्धवाक्यान्तरसिद्धत्वात् । तद्धि निरूपयिष्यते, “सहकार्यन्तरविधिः” इति सूत्रेण । तस्मात् दर्शनसमानाकारत्वगुणविशिष्टनिदिध्यासनविधिः ॥ नन्वेवमपि सर्वोपासनानां न दर्शनसमानाकारनिदिध्यासनरूपतासिद्धिः ; ‘दृष्टव्यो निदिध्यासितव्यः’ इति वाक्यस्य मैत्रेयीब्राह्मणे सत्वात् । अतस्तत्र प्रतिपाद्यस्यैवोपासनविशेषस्य तादृप्रपता प्रतिपाद्या स्यात् ॥ नवम् ; “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् " इति तत्रत्येनैव वाक्येन जगत्कारणविषयसर्वोपासनानां दर्शनसमानाकारनिदिध्यासनरूपतावगमात् । न हीदं वाक्यं विद्याविशेषविधायकम् ; कारणज्ञानेन सर्वज्ञातताप्रतिज्ञानपरत्वात् । कारणमेव हि सर्वविद्योपास्यम् ; “कश्च ध्येयः” इत्युपक्रम्य, “कारणं तु ध्येयः” इति कारणस्यैव ध्येयत्वविधानात् । कारणविषयं चोपासनमत्र दर्शनसमानाकारनिदिध्यासन रूपमवगम्यते । अस्मिन् वाक्ये विज्ञातशब्दो हि निदिध्यासनपरः ; " द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः “, " दृष्टे श्रुते मते विज्ञाते” इति स्थानप्रमाणात् । अतोऽस्य वाक्यस्य सर्वविद्यासाधारणकारणमात्रविषयत्वात्, जगत्कारणो(णविषयो) पासनं चेत् 2, दर्शन समानाका रनिदिध्यासनरूपम (पमित्य) वगम्यते । किञ्च नानाविद्यानां विकल्पस्य वक्ष्यमाणत्वात्, गुरुपक्षविषयशास्त्र वैयर्थ्यप्रसङ्गेन गुरुलघुयत्न विकल्पायोगात् 4 वस्तुसामर्थ्यस्य प्रकरणाद् बलीयस्तया च ध्रुवानुस्मृतिरूपत्वं दर्शनरूपत्वं वक्ष्यमाणभक्तिरूपत्वञ्च सर्वविद्यासाधारणाकारा भवितुमर्हन्ति ॥ नन्विन्द्रियजन्मनोऽनुभवस्य ह्यपरोक्षरूपत्वम् । तत् कथं स्मृतेः संभवतीत्यत्राह भवति चेति । भावना वासना । दर्शनरूपता’ दर्शनसमानाकारता । ‘वृक्षे वृक्षे च पश्यामि’ इत्यादिष्वपि दर्शनसमानाकारत्वं स्मृतेश्व दृष्टमिति भावः । तच्च विशदतरावभासरूपत्वम् । न चैतदनुभवासाधारणम् ; स्मृतेरपि तत्सद्भा (संभ) वस्य प्रामाणिकस्यात् ॥
ननु दर्शनसमानाकारत्वविधानमयुक्तम् ; दर्शनवाचिशब्देन तत्समानाकारोपस्थापनस्यामुख्यत्वात् । “न विधौ परः शब्दार्थः” इति हि न्यायविद इति चेन्न तैरेव, “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यत्र दर्शपूर्णमासशब्दयोर्लक्षणया (2-2-3), श्येनादिवाक्येषु श्येनादिशब्दानां गौण्या वृत्या ( 1-4-5) च कर्मनामधेयत्वाभ्युपगमात् ; “अर्धमन्तर्वेदि मिनुयादर्धं बहिर्वेदि” इत्यत्रापि (3-7-6) मध्यदेशलक्षणाया अङ्गीकृतत्वाच्च ॥ विशदतरत्वस्य [च[ फलरूपत्वादपुरुषतन्त्रस्य कथं विधानमिति चेन्न ; आज्यावेक्षणस्येव विधानोपपत्तेः ॥ तत्राऽऽज्य साक्षात्कारहेतु भूतव्यापारविषयो विधिरिति चेत्-इहापि विशदतरत्वा वहस्मृतिसंततिविषयमनोव्यापारविधिरित्युपपन्नम् ॥ 1 कारणमेव हीति । कारणत्वमुपास्याकारो भवतु, मा वा । विद्यानुष्ठानात् प्राक तन्मुखेन ज्ञानमावश्यकमिति । 2 उपासनं चेदिति । उपासनं सर्वमिति यावत् । 3
ननु लघुत्वेऽपि अप्राप्तत्वात् ते द्वे अपि विधेये इत्यत्राह गुरुपक्षेति । 4 वस्तुसामर्थ्यस्येति । लिङ्गप्रमाणस्येत्यर्थः । 5 दर्शनरूपतेति । समानाकारतेत्याकारशब्दप्रयोगे समानविषयकत्वमित्यप्यर्थः स्यात् । वैशद्यरूपधर्मविवक्षावैशद्याय रूपपदप्रयोगः । एतदाशयेनाह तच्चेति ।
५९ वाक्यकारेणैतत् सर्वं प्रपचितम् - ः ““वेदनमुपासनं स्यात् तद्विषये श्रवणात्” इति, सर्वासूपनिषत्सु मोक्षसाधनतया विहितं वेदनमुपासनमित्युक्तम् । “सकृत्प्रत्ययं कुर्याच्छन्दार्थस्य कृतत्वात् प्रयाजादिवत् " इति पूर्वपक्षं कृत्वा, “सिद्धं तूपासनशब्दात्” इति वेदनमसकृदावृत्तं मोक्षसाधनमिति निर्णीतम् । “उपासनं स्यात् ध्रुवानुस्मृतिर्दर्शनान्निर्वचनाच” इति तस्यैव वेदनस्योपासनरूपस्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम् ॥ सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्तिः । एवं प्रत्यक्षतापन्नामपवर्गसाधनभूतां अथ सूत्रकाराभिप्रायविदां वचनं दर्शयति वाक्यकारेणेति । एतत्सर्वमिति । सूत्रकारेण कण्ठोक्तमभिप्रेतं चेत्यर्थः । प्रपञ्चितमिति । पूर्वपक्ष सिद्धान्तरूपेणोक्तमित्यर्थः । प्रपश्चनं च वेदनमुपासनं स्यादित्यादिना वाक्यचतुष्टयेन । वाक्यमेकैकं व्याचष्टे सर्वासूपनिषत्स्विति । न केवलं छान्दोग्य इत्यर्थः । मोक्षसाधनतया विहितं वेदनमिति घटादिज्ञानव्यावृत्तिः । विहितमिति अनूदितश्रवणादिव्यावृत्तिः । अस्यार्थस्य पूर्वपक्षसिद्धान्तरूपेण स्फुटीकरणार्थम्, सकृत्प्रत्ययं कुर्यादिति वाक्यश्रवणेन वेदनमुपासनं स्यादिति वाक्यस्य पूर्वपक्षपरत्वशङ्काव्यावृत्त्यर्थं च सकृदित्यादिकं व्याचष्टे सकृदिति । सकृदिव्यादिवाक्यमेव पूर्वपक्षपरम् ; न तु वेदनमुपासनं स्यादिति वाक्यम् ; अनन्तरमेवोपासनरूपत्वस्य सिद्धान्तितत्वादिति भावः । तथा सिद्धान्तितत्वं दर्शयति सिद्धं स्थिति । सिद्धंतु सिद्धान्तस्त्वित्यर्थः । यद्वा वेदनमुपासनं सिद्धमित्यर्थः । उपासनशब्दादित्येतव्याचष्ट वेदनमसकृदावृत्तमिति । अस्याविच्छिन्नस्मृतिसन्ततिरूपत्वं सूत्रकाराभिप्रेतं वाक्यकारेण कण्ठोकश्च दर्शयति उपासनं स्यादिति । दर्शनात् लोके दर्शनात् । निर्वचनात् श्रुतिवाक्यात् । तस्यैवेति । मोक्षसाधनतया विहितस्येत्यर्थः । उपासनरूपस्येति हेतुगर्भम् ; उपासनरूपःखात् - उपास नशब्दवाच्यत्वाद सकृदावृत्तस्येत्यर्थः । असकृदावृत्तं ज्ञानं ह्युपासनम् । एवमविच्छिन्नस्मृतिसन्ततिरूपस्त्रमुपपादितम् ॥ । सूत्र कारकण्ठोक्तमसकृद।वृत्तिरूपत्वं तदभिप्रेतं ध्रुत्रानुस्मृतित्वं च वदतो वाक्यकारस्यायं भावःएतत्तुल्यन्यायतया विशेषान्तरोपस्थापकवाक्ये सति वेदनादिशब्दाः तत्पर्यन्ताः स्युरिति । तस्मात् पूर्वोक्तं 2 दर्शनसमानाकारत्वमपि वाक्यकाराभिप्रेतमित्यभिप्रयन्नाह सेयमिति । सेयम् - असकृदावृत्तिरूपा ध्रुवानुस्मृतिरूपा चेत्यर्थः । दर्शनशब्दस्य, अर्थदर्शी तस्त्रदर्शीत्यादिप्रयोगात् परोक्षापरोक्षसाधारण्यमाशङ्कयाह दर्शनरूपता च प्रत्यक्षतापत्तिरिति । प्रत्यक्षसमानाकारतापत्तिरित्यर्थः । “आत्मनि खल्बरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्”, “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति श्रवणादिपरोक्षज्ञानपर्वसु उक्तेष्वपि पृथनिर्देशादिति भावः । सूत्रकारवाक्यकारयोः कतिपयविशेषं वदतोः सति विशेषान्तरोपस्थापके तत्पर्यवसायित्वस्याभिप्रेतत्वाच्छ्रुत्यन्तरसिद्धं विशेषान्तरमस्तीत्याह एवमिति । अनेन श्रवणादीनां मुक्त्युपायत्वनिषेधात् नोपासनस्य मोक्षोपायत्वमिति शङ्कान्युदासश्च भवति । एवम् उक्तेन प्रकारेण सामान्यविशेषन्यायेन 1 न केवलं छान्दोग्ये इति । वाक्यनाम्नो ग्रन्थस्य ब्रह्मनन्दिकृतस्य छान्दोग्यव्याख्यानरूपत्वात् तत्रैव वेदनमुपासनं विवक्षितमिति न मन्तव्यम्; गुरुलघुविकल्पायोगात् ; सूत्रकारेणाऽऽवृत्त्याद्युक्तेश्वेत्याशयः । 2 पूर्वोक्तमिति । अत्र दर्पणदर्शितं बृहदारण्यक (3-4-15) वाक्यमपि द्रष्टव्यम् । 3 विशेषान्तरमिति । पूर्वोक्तसर्वाकारमात्रेणोपास्योपासक भेदस्यास्फुटत्वात् तन्निर्णयरूपविशेषोऽप्यत्र भवतीति ध्येयम् ।
६० १-१-१. स्मृतेर्भक्तिरूपत्वम् ध्रुवानुस्मृति (स्मृतिं) विशिनष्टि - " नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्” इति । अनेन केवलश्रवणमनननिदिध्यासनानामात्मप्राप्त्यनुपायत्वमुक्त्वा, ‘यमेवैष आत्मा वृणुते तेनैव लभ्यः’ इत्युक्तम् । प्रियतम एव हि वरणीयो भवति । यस्यायं निरतिशय प्रियः स एवास्य प्रियतमो भवति । यथाऽयं प्रियतम आत्मानं प्राप्नोति, तथा स्वयमेव भगवान् प्रयतत इति भगवतैवोक्तम्, “तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते” इति, “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” इति च । अतः साक्षात्काररूपा स्मृतिः स्मर्यमाणात्यर्थ प्रियत्वेन स्वयमप्यत्यर्थप्रिया यस्य, स एव परेणात्मना वरणीयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति । एवंरूपा प्रत्यक्षतापन्नामित्यर्थः । अपवर्गसाधनभूतामिति प्रतीकोपासनव्यवच्छेदः । नायमात्मेति । प्रवचनशब्देन मननं लक्षयति, मननफलत्वात् प्रवचनस्य ः मननस्याचार्यप्रवचनफलत्वाद्वा ; प्रोच्यतेऽनेनेति करणव्युत्पत्त्या वा प्रवचनं मननम् । मेधा निदिध्यासनम् ; परिशेषात् । अस्मिन् वाक्ये श्रवणादीनामनुपायत्वं प्रतीतम् ; ध्रुवानुस्मृतिविशेषणत्वेन न किंचित्प्रतिपन्नम् ; अतस्तव्याचष्टे अनेनेति । केवलश्रवणमनननिदिध्यासनानां वक्ष्यमाणविशेष [ण]विरहितानामित्यर्थः । यथा “न पृथिव्यामग्निश्चेतव्यः” इत्यत्र हिरण्योपधानरहित पृथिव्यां चयनं निषिध्यते ; न तु पृथ्वीमात्रे - तद्वदिति भावः । विवक्षितं विशेषं वाक्यतात्पर्यनिरूपणेन दर्शयिष्यन् वाक्यस्यार्थान्वयं दर्शयति यमेवैष आत्मा वृणुते तेनैव लभ्य इत्युक्तमिति । वरणीयेन लम्योऽस्तु ; ततः कथं ध्रुवानुस्मृतेर्विशेषितत्वमिति शङ्कायां तद्दर्शयितुं लोकसिद्धप्रतीतिमाह प्रियतम एव हीति । प्रीतिविषयमात्रस्य न वरणीयत्वम; किन्तु स्वयमुपस्थितस्य स्वीकार एव । अतस्तद्व्यावृत्त्यर्थं प्रियतम इत्युक्तम् । ततः किमित्यत्राह यस्येति । यस्योपासकस्यायं परमात्मा निरतिशयप्रीतिविषयः, स एवास्य परमात्मनः निरतिशयप्रीतिविषयो भवति । चेतनत्वे सति भगवता वरणीयत्वं भगवति निरतिशयप्रीतिमत एव । यद्वा स्वतःप्रियत्वं वरणीयत्वं च स्वस्मिन् प्रीतिमत एव । पुण्यक्षेत्रादिषु भगवतः प्रीतिः स्वस्मिन् प्रीतिमत्पु रुषवरणार्थी । पत्रपुष्पफलादिषु [तु] तत्संबन्धनिबन्धना । स एवेत्येवकारेण केवलश्रवणादिमध्यावृत्तिः । भगवति प्रीतिमत एव भगवत्प्रीतिविषयत्वमिति कथमिदमवगम्यते इत्यपेक्षायाम्, अत्र प्रमाणतया स्मृतिवचनमर्थोपन्यासपूर्वकं दर्शयन् वरणप्रकारमपि विवृणोति यथेति । अयम् भगवति निरतिशयप्रीतिमान् । प्रियतमः निरतिशयभगवत्प्रीतिविषयो भवन्नित्यर्थः । ददामि बुद्धियोगं तमित्यस्यार्थविवक्षया स्वयमेव भगवान् प्रयतत इत्युक्तम् । अनेन वरणप्रकारो दर्शितः । भगवतैवोक्तमित्येवकारेण भगवदाप्यतिशयः सूचितः । तेषामिति । सततयुक्तानां सततयोगं काङ्क्षमाणानाम् । “आशंसायां भूतवच्च” इति कर्तरि क्तः । प्रीतिपूर्वकं ददामीत्यन्वयः । अनेन परस्परत्रिषयप्रीतिरुपास्योपासकयोर्दर्शिता । सततयुक्तशब्दार्थरफुटी करणायाह प्रियो हीति । अत्यर्थम् अ । 3 1 वरणप्रकार इति । “अत्र वरणं मामयं प्राप्नुयादित्यमोघः संकल्पः” इति तत्त्वटीका । एतदमोघत्वविवरणाय गीता-8. 14. भाष्योक्तं सर्वमनुसंधेयम् । 2. आप्त्यतिशयः - आप्ततमत्वम् । 3. अत्यर्थम – अर्थमतिक्रम्य इत्युक्तौ, वस्तुनि यावत् प्रियत्वं युक्तम्, तावतोऽधिकं प्रियत्वमित्यर्थः स्यात् । स न युक्तः—संभावित सर्व प्रकार प्रियत्वस्यापि अनवधिकानन्दे ब्रह्मणि अपर्याप्तत्वात् । अतोऽर्थशब्दप्रवृत्तिनिमित्ताभिधेयतातिक्रमपर्थव सानायाहअनिक्रान्ताभिधेयमिति ।
1 ६१ “या ध्रुवानुस्मृतिरेव भक्तिशब्देनाभिधीयते, उपासनपर्यायत्वाद्भक्तिशब्दस्य । अत एव श्रुतिरमृतिभिरेवमभिधीयतें, “ तमेव विदित्वाऽति मृत्युमेति”, “तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते”, “नाहं वेदैर्न अतिक्रान्ताभिधेयम् ; प्रियत्वं वाचामगोचरमित्यर्थः । ध्रुवानुस्मृतिं विशिनष्टिीति हि पूर्वमुक्तम् । अत्र यो भगवति प्रीतिमान् भवति, तस्मिन्नुपासके भगवतः प्रीतिमत्त्वमुक्तम् ; तत् कथं ध्रुवानुस्मृतेर्विशेषितत्वमित्यत आहअत इति । अतः उक्तार्थस्य लोकस्मृतिभ्यां सिद्धत्वादित्यर्थः । यद्वा, धुत्रानुस्मृतिवचनात् वरणीयत्ववचनात् वरणीयस्य च भगवति निरतिशयप्रीतिमत्त्ववचनाच्चेत्यर्थः । साक्षात्काररूपा स्मृतिरित्यनेन पूर्वोक्ताकार विशिष्टाया एव विशेषान्तरमिति दर्शितम् । स्मर्यमाणात्यर्थ प्रियत्वेन स्वयमप्यत्यर्थप्रियेति । अर्थेनैव विशेषो हि निराकारतया धियाम् ’ इति भावः । स्वयमप्यत्यर्थप्रिया । अनुभूयमानोऽनुभव इतिवदयं निर्देश औपचारिकः ; अत्यर्थप्रीतिरूपेत्यर्थः । यद्वा, अत्यर्थप्रिया – अत्यर्थानुकूलरूपा । स्वर्यमाणस्य भगवद्विषयस्य निरवधिकनिरुपाधि कानुकूलत्वेन तद्विषयानुस्मृतिरांपे हि निरतिशयानुकूला भवति । यद्वा ध्रुवानुस्मृतिः स्वयमत्यन्तानुकूलत्वादयुक्तावस्थायामपि प्रीतिरूपज्ञानेन प्रतिसन्धीयत इति प्रिया । अत एव दि, प्रीतिरविवेकानाम्” इत्यादिना सा प्रार्थ्यते ॥ प्रीतिरूपध्रुवानुस्मृतेरपवर्गोपायत्वमुक्तम्; अन्यत्र भक्तेरुपायत्वं दृश्यते ; कथमनयोरैकार्थ्यमित्यत्राह एवंरूपेति । यद्वा “शेमुषी भक्तिरूपा” इति भक्तिरूपज्ञानस्योपायत्वं प्रागुक्तम्, कथमिदानीं प्रीतिरूपधुत्रानुस्मृतेरुपायत्वं प्रतिपाद्यते इत्यत्राह एवंरूपेति । एवंरूपासाक्षात्कारत्व प्रीतिरूपत्व पर्यन्ता ध्रुवानुस्मृतिरेव भक्तिशब्दवाच्येत्यर्थः । कुत इत्यत्राह उपासनपर्यायत्वादिति । उपासनादिशब्दानां भक्तिशब्दस्य चैकार्थवृत्तित्वं विवक्षितम् ; न तु घटकुम्भशब्दयोरिव पर्यायत्वम् । एकार्थवृत्तित्वञ्च “सेवा भक्तिरुपास्तिः” इति नैघण्टुको केरवगम्यते, “स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते । भज इत्येष धातुर्वै सेवायां परिकीर्तितः । तस्मात् सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी” इत्यादि चानुसन्धेयम् । ‘यद्यपि साक्षात्काररूपत्वभक्तिरूपत्वादिपराणां वाक्यानां विद्याविशेषविषयप्रकरणपरिगृहीतत्वेऽपि सर्वोपासनसाधारणत्वं लघुगुरुयत्नविकल्पानुपपत्तेः प्राप्तम् -तथाऽपि प्रपदने तु लघुगुरुयत्नविकल्पानुपपत्तिरूपन्यायो वचनबलप्रतिक्षिप्तः । न हि वचनविरोधे न्यायः प्रभवति । वचनविरोधाभावादुपासनेषु तस्य प्रवृत्तिः !! 2 वेदान्तेषूपासन पराणां वाक्यानामैकार्थ्यसिद्ध्यर्थं भक्तिदशापन्नस्योपासनस्यैवापवर्गोपाय वेदनस्वमुक्तम् ; स्मृतिवचनप्रदर्शनं च श्रुत्यर्थवैशद्याय कृतम् । इदानीं तु श्रुतिस्मृत्योरेकार्थ्येन मुक्त्युपायवेदनस्य भक्तिरूपोपासनत्वमुपपाद्यते भत एवेति । अत एव - अपवर्गोपायंवेदनस्य भक्तिरूपोपासनत्वादेवेत्यर्थः । तमेव विदिश्वेति वाक्यं श्वेताश्वतरोपनिषदि श्रूयते । तत्र, “तस्मात् सर्वगतः शिवः” इति शिवशब्दग्रहणात् शिवस्य परमात्मत्वविषयत्वभ्रमः कस्यचिन्मन्दधियः स्यादिति तन्निवृत्त्यर्थम्, “वेदाहमेतं पुरुषं महान्तम् “, " महान् प्रभुर्वै पुरुषः सस्वस्यैष प्रवर्तकः” इत्युपक्रमोपसंहारयोरवगतपरमपुरुषपरैव सोपनिषदिति पुरुषसूक्तैकायं दर्शयितुं तमेवं विद्वानिति वाक्यमुपात्तम् । तमेवं विद्वानिति वाक्ये, नान्यः पन्था इति, 1
ननु सामान्यविशेषन्यायेन सेवाभक्त्युपारतीनामेकत्वे प्रपदनं पृथक् लघु न सिद्ध्येदित्यत्राह यद्य पीत्यादि । ‘सकृदेव हि शास्त्रार्थः कृतोऽयं तारयिष्यति’ इत्यादि बलात् प्रपदनस्य सकृत्त्वाशक्तविषयत्वाद्यवगमात् न तत्र साक्षात्कारत्वादिकल्पनावकाश इति भावः । 2 अत एवेति भाष्यमवतारयति वेदान्तेष्विति ।
६२ १-१-१. उक्तस्योपायस्य कर्मसाध्यत्वम् तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥”, “पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया” इति । एवंरूपाया ध्रुवानुस्मृतेः साधनानि यज्ञादीनि कर्माणीति, “यज्ञादिश्रुतेरश्ववत्” इत्यभिधास्यते । परमपुरुषवेदनव्यतिरिक्तोपायनिषेधः कृतः ; नाई वेदैरित्यादिना तद्भक्तिव्यतिरिक्तोपायनिषेध उक्तः; उभयोरप्युपबृंहणोपबृंहणीयवचनयोः प्रमाणतमत्वेन सर्वाविगीतयोरैकायं वेदनादिशब्दानां भक्तिपर्यन्तत्वे सिद्धपतीति भावः । उपायान्तरनिषेधकण्ठोक्त्या ज्ञानदर्शनप्राप्तीनां भक्तिसाध्यत्वकण्ठोक्त्या च, नाहं वेदैरिति वचनमुपात्तम् ॥
ननु “भक्त्या मामभिजानाति ततो मां तत्स्त्रतो ज्ञात्वा विशते तदनन्तरम्” इति भक्तिजन्यज्ञानस्यैवाव्यवहितोपायत्वमत्रगम्यते, न तु भक्तेरिति शङ्का च, नाहं वेदैरित्यनेन परिहृता भवति ; अत्र ज्ञानदर्शनयोरिव प्राप्तेरपि भक्तिसाध्यत्वावगमात् । भक्त्या प्रवेष्टुं च शक्य इति ह्यन्वयः । भक्त्या मामिति वचनेऽपि, ततो मां विशत इति तच्छब्दपरामृष्टाया भक्तेरेव प्राप्त्युपायत्वमवगम्यते । तत इति भक्तिपरामर्शाभावे तदनन्तरमित्यनेन पौनरुक्त्यप्रसङ्गात् । अतश्च भक्तिरेवाव्यवहितोपायः । “पुरुषः स परः पार्थ” इत्यत्र च भक्त्या लभ्य इति भक्तेः प्राप्तिसाधनत्वं स्वरसतोऽवगम्यते । अनेन पुरुषशब्दप्रत्यभिज्ञापितपुरुषसूक्तप्रतिपाद्यव स्वैक्यवत् तत्प्रतिपन्नो (पाद्यो) पायैक्यं न्याय्यमिति सूचितम् । अस्त्वेवं, वेदनस्य भक्तिरूपोपासनत्वसिद्धिः ; ततः प्रकृतस्य कर्मापेक्षितत्वस्य किमायातमित्यत्राह एवमिति । एवंरूपायाः आपक्ष्य-प्रीतिरूपत्वविशेषणविशिष्टायाः । वाक्यकारसूत्रकाराभ्यामभिप्रेताः कण्ठेोक्ताश्च मोक्षोपायज्ञानावस्थाविशेषाः कर्मसाध्या इति भावः । ध्रुवानुस्मृतेः साधनानीति । यथा असिना जिघांसतीत्यत्रासेर्हंननसाधनत्वम्, न विच्छासाधनत्वम् -तथा यज्ञेन विविदिषन्तीत्यत्रापि विद्यासाधनस्वमेवोक्तम्, न तु तदिच्छासाधनत्वम् ; यज्ञादेर्वेदनेच्छासाधनत्वेन विनियोगा योगादिति भावः । तथा हि-सर्वेषां पुरुषाणामवान्तरसाध्योपाये प्रवृत्तिः परमसाध्येच्छया विना नोपपद्यते । यथा यागाद्युपायभूतद्रव्यार्जनादौ प्रवृत्तिः यागादिसाध्यापूर्वादिविषयेच्छया विना नोपपद्यते—तथा इच्छासिद्ध्यर्थमनुष्ठानमिच्छा संपाद्य वेदनेच्छया विना नोपपद्यते । अतो वेदनेच्छायां जातायां वेदनोपायभूतेच्छा सिद्ध्यर्थानुष्ठानम् । तस्यां जाताय च तदर्थमनुष्ठानमनपेक्षितमिति तदनुष्ठानविधिवैयर्थ्यं स्यात् । किंच स्वसिद्धिसापेक्षा स्वसिद्धिरित्यात्माश्रयः ; वेदनेच्छ्या इच्छासिव्यर्थकर्मानुष्ठानम् इच्छासिद्यर्थकर्मानुष्ठानात् वेदनेच्छा सिद्धिरित्यन्योन्याश्रयणं वा । अतो विविदिषासाधनत्वं कर्मणां न युक्तम् ॥
नन्विच्छासिद्ध्यर्थकर्मानुष्ठानस्याऽऽत्माश्रयादिप्रस्तत्वे कचिदपीच्छा न संभवेत् ; इच्छा हेतु भूतकर्मानुष्ठानायोगात् । न चेच्छाया विषयत्रैलक्षण्यज्ञानमात्राधीनत्वम् ; वैलक्षण्यज्ञानेपि कस्यचिदिच्छानुत्पत्तिदर्शनात् । अतः कस्यचिदिच्छोत्पत्तेः कर्महेतुकत्वमाश्रयणीयम् । तच्च तवानुपपन्नम् ॥ नैवम् — मोगादृष्टोद्बोधितपूर्ववासनासचित्रात् विषयवैलक्षण्यज्ञानादिच्छोरपश्युपपत्तेः । म चाज्ञातसुकृतवशात् धर्मरुचिवत् यज्ञादिना वेदनेच्छासिद्धिरिति वाच्यम्; बह्वर्थव्ययायाससाध्यानां यज्ञादीनामज्ञातसुकृतरूपत्वासंभवात् । यज्ञेन विविदिषन्तीति वाक्यस्य ह्यर्थश्चिन्यते । अतो बुद्धिपूर्वकमेव यज्ञाद्यनुष्ठानम् । तत्र मोक्षोपायवेदनेच्छाया.
।
६३ यद्यपि विविदिषन्तीति यज्ञादयो विविदिषोत्पत्तौ विनियुज्यन्ते - तथापि तस्यैव वेदनस्य ध्यानरूपस्याहरहर.नुष्ठीयमानस्याभ्यासाधेयातिशयस्य आप्रयाणादनुवर्तमानस्य ब्रह्मप्राप्तिसाधनत्वात्, तदुत्पत्तये सर्वण्याश्रमकर्माणि यावज्जीवमनुष्ठेयानि । वक्ष्यति च, “आप्रयाणात्, तत्रापि हि दृष्टम्”, “अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् " “सहकारित्वेन च” इत्यादिपु । वाक्यकारश्च ध्रुवानुस्मृतेर्विवेकादिभ्य एव निष्पत्तिमाह – “तल्लब्धिर्विवे- अभावे बह्वर्थव्यययत्नसाध्य कर्मणां फलान्तराभिसंधिपूर्वकत्वनियमान्न विविदिषां साधयति ;’ फलान्तराभिसंधिविधुरं तु यज्ञादिकं वेदनेच्छया विना नोपपद्यते ; प्रयोजनानुद्देशेन प्रेक्षावतः प्रवृत्त्ययोगात्; प्रकृष्टप्रयोजनतदुपायेच्छाविरहे क्षुद्रप्रयोजनपरित्यागायोगाच्च ः अतोऽवान्तरसाध्येच्छा सिद्ध्यर्थमनुष्ठानं परमसाध्यवेदनेच्छया विना नोपपद्यत इति स्वसिद्ध्यर्थकर्मानुष्ठानस्य स्वसिद्धि सापेक्षत्वादात्माश्रयादिदोषः स्यादेव ॥ अभिधास्यत इति । तत्रोपपादयिष्याम इत्यर्थः ।
1 विविदिषासाधनत्वे यज्ञादेरात्माश्रयादिदोषाभावमभ्युपगम्याह यद्यपीति । तस्यैव इच्छाविषयभूतस्य । ध्यानरूपस्येति वाक्यार्थज्ञानत्र्युदासः 1 ध्यानस्याप्येकदिनानुष्ठेयत्वव्युदासार्थमाह् अहरहरिति । अहरहरनुष्ठानफलमाह अभ्यासेति । अहरहरनुष्ठानेऽपि मासर्तुसंवत्सराद्यवधित्त्रन्यावृत्यर्थमाह आप्रयाणादिति । आप्रयाणादनुवर्तमानस्येऽपि एकद्वित्रिदिनान्तरितव्यावृत्यर्थम हरहरनुष्ठीयमानस्येत्युक्तम् । तत्रापि स्मृतिविच्छेदव्युदासार्थं ध्यानरूपस्येत्युक्तम् । तदुत्पत्तये विविदिषोत्पत्तये । वेदनस्याव्यवहितत्र कृतत्वेऽप्यर्थवशात् तच्छन्दो विविदिषापरः । विविदिषासाधनत्वं ह्यभ्युपगम्योच्यते । आप्रयाणादहरहरुपासनानुवृत्तौ यावज्जीवं कर्मणोऽपेक्षितस्थे च किं प्रमाणमित्यत्राह वक्ष्यति चेति । चः शङ्कानिवृत्तौ । सूत्रसंदर्शनेन तद्विषयभूतश्रुतिवाक्यमपि दर्शितं भवतीत्यभिप्रायेणोपासनानुवृत्तिपरं सूत्रं दर्शितम् आप्रयाणादिति । “स खल्येवं वर्तयन् यावदायुषम्” इति श्रुतिः । यावच्छन्दस्य साकल्यार्थस्यात् अहरहरनुष्ठानसिद्धिः । तावत्कर्मापेक्षामाह अग्निहोत्रेति । आश्रमधर्माणामाश्रमशेषत्वेऽपि विद्याङ्गत्वमप्यस्तीत्याह सहकारित्वेन चेति । इत्यादिषु सूत्रेषु इममर्थं वक्ष्यतीत्यर्थः । उक्तं कर्मणो विद्याङ्गत्वमुपासनस्य रामाद्यङ्गकत्वविरोधान्नोपपद्यत इत्याशङ्कय विरोधं परिजिहीर्षुः, तद्विषयश्रुतिवाक्यप्रदर्शनेनाप्रमाणतां च निराचिकी राह वाक्येति । सूत्रकाराभिप्रायज्ञैरप्येवमुक्तमिति भावः । ध्रुवानुस्मृतिशब्देन तल्लब्धिरित्यत्र तच्छन्दो व्याख्यातः । विवेकादिभ्य एव । न तु केवलकर्मणा केवलशमादिना वेत्यर्थः । वाक्यकारग्रन्थ उपादीयते तलब्धिरिति । उपासनं स्याद् धवानुस्मृतिरिति हि प्रकृतम् । अतो ध्रुवानुस्मृतिलब्धिरित्यर्थः । विवेकविमोकाभ्यासक्रिया कल्याणानवसादानुद्धर्षेभ्य इति द्वन्द्वसमासः । स चेतरेतरयोगार्थे । एष्वन्यतमेन तल्लब्धेर्दुष्करत्यात् । समुच्चये संभवति पाक्षिकबाघ गर्भविकल्पो ह्ययुक्तः । तस्याष्टदोषदुष्टत्वात् । समुच्चयस्य चात्र संभवात् । एवं विवेकादिविधायिनां वाक्यानां समुच्चये तात्पर्यमिति दर्शयितुमितरेतरयोगद्वंद्वेन वाक्यकार निर्देशः ॥
ननु समुच्चयादर्थान्तरमितरेतरयोगः; तत् कथमितरेतरयोगद्वन्द्वेन समुच्चयलाभः ॥ उच्यते ; -अन्वाचयसहपठितात् समुच्चयाद् विकल्पप्रतिसंबन्धि समुच्चयोऽर्थान्तरम् । एकस्मिन्नेव कार्ये मिथो निरपेक्षसाधकानामन्वयोऽन्वाचयसहप ठेत ः 2 । विकल्पसमभिव्याहृन समुच्चयस्त्वेकस्मिन् 1 1 साधयतीति । यज्ञादिकं वक्ष्यमाणं कर्तृ । अत्र ‘साधयति यज्ञादिकम् ; फलाभिसंधिविधुरं तु’ इति पाठः शुद्धः स्यात् । 2 तत्र न द्वन्द्वः । यथा ईश्वरस्य गुरोश्च भजनमिति ।
/ ६४ १-१-१. विवेकादिविवरणम प्रवृत्तिरूपयज्ञादेश्व विरोधान्न समुच्चय इति चेन्न ; कविमोकाभ्यास क्रिया कल्याणानव सादानुद्धर्षेभ्यः संभवान्निर्वचनाच्च” इति । विवेकादीनां स्वरूपं चाह, “जात्याश्रयनिमित्तादुष्टादन्नात् कायशुद्धिर्विवेकः” इति । अत्र निर्वचनम् — “आहारशुद्ध सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” इति । “विमोकः कामानभिष्वङ्गः” इति । शान्त उपासीतेति निर्वचनम् । “आरम्भणसंशीलनं पुनः पुनरभ्यासः” इति । निर्वचनश्च स्मार्तमुदाहृतं भाष्यकारेण, “सदा तद्भावभावितः” इति । “पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिया” इति । निर्वचनम् ; “क्रियावानेष ब्रह्मविदां वरिष्ठः”, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति च । “सत्यार्जवदद्यादानाहिंसानभिध्याः कल्याणानि " इति । कार्ये मिथःसापेक्षाणामन्वयः 1 स एव इतरेतरयोग इत्यविरोध इति ॥ निवृत्तिरूपशमादेः भिन्नविषयत्वेन विरोधाभावात् 1 अविदिताप्रतिषिद्ध-निषिद्ध-काम्यविषया हि शमादयः । संभवात् उपपन्नत्वात् । निर्वचनाच्चश्रुतिवचनाश्च । प्रमाणोपपत्तिम्यामित्यर्थः । विवेकादयः किंरूपाः, कथं वा शमादेः कर्मणश्वाविरोधः इत्यत्राह विवेकादीनां स्वरूपं चाहेति । न केवलं परिगणनामात्रम्, तत्स्वरूपं च वाक्यकार एवाहेत्यर्थः । प्रथमं विवेकस्वरूपविषयं वाक्यमुदाहरति जात्याश्रयेति । आहारविषयविवेचनं विवेकशब्देन विवक्षितं भवति । दुष्टाहारात् सास्त्रिकाहाराणां विवेचनं विवेकः । जातिदुष्टाः कलञ्जगृञ्जनादयः । आश्रयः - द्रव्यस्वामी पुरुषः । अभिशस्तपतित चण्डालादिद्रव्यमाश्रयदुष्टम् । उच्छिष्ट केशाद्युपहतं निमित्तदुष्टम् । एतन्त्रिविधदोषरहिताहारविवेचनफलभूत कायशुद्धौ विवेकशब्द उपचरितः । यद्वा विविक्ताहारसेवया राजसतामसाहाराप्यायितदेहात् स्वदेहस्य विवेचनं विवेकः । अशुद्धेभ्यो विवेचनं हि शुद्धिः । इतिशब्दो भाष्यकारीयः । अत्र निर्वचनमिति भाष्यग्रन्थः । निर्वचनम् - निष्कृष्टवचनम् ; अप्रमाणेभ्यो निष्कृष्टं प्रमाणभूतं वचनमित्यर्थः । महारशुद्धावित्यादि निर्वचनम् । विमोकः कामानभिष्वङ्गः । विषयमभुक्त्वा स्थातुं न शक्नोति येन, स विकारोऽभिष्वङ्गः । “कामात् क्रोधोऽभिजायते” इत्यादिवचनात् क्रोधाद्यभावश्चात्र फलितः । " शान्त उपासीत” इति निर्वचने शान्तशब्देन रागद्वेषाद्यभावो विवक्षितः । आरम्भणम् - आलम्बनं - शुभाश्रयः; तस्य संशीलनम् ॥ कथमेतत् साधनम् ? साध्यं हीदम् ॥ न । “शुचौ देशे प्रतिष्ठाप्य” इत्याद्युक्तदेशकालविशेषाभ्यसनीय योगशब्दवाच्या ध्रुवानुस्मृतिर्हि साध्या इदं तु योगकाल कर्तव्यध्यानानुप्राहकं सदा संशीलनम् । “सदा तद्भावभावितः” इति हि वक्ष्यति । सदा भगवत्संशीलनाभावे योगकालेषु कालान्तरसंशीलितं विषयान्तरं बुद्धिस्थं स्यात् अतो न सांध्याविशिष्टत्वमारम्भणसंशीलनस्य । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेणेत्यनेन पूर्वोपात्तनिर्वचनान्यपि द्रमिडभाष्यो क्तानीति ज्ञायते । “अथ मुनिः” इति श्रौतं निर्वचनम् । तस्य न्यायोपन्याससापेक्षत्वेन, “सहकार्यन्तरविधिः” इष्यधिकरणे व्याख्येयत्वात् स्मार्तनिर्वचनस्य स्पष्टार्थत्वाच्च स्मार्तनिर्वचनमुदाहृतम् । “तस्मात् सर्वेषु कालेषु मामनुस्मर” इत्येवमन्तं वचनजातमिहाभिप्रेतम् । पञ्चमहायज्ञेति । शक्तितः । न हि शास्त्रमशक्यं विदधाति । क्रियावानेष इति सन्ररहितवाक्यम् । ब्रह्मविदां वरिष्ठः ब्रह्मविदां मध्ये वरिष्ठः । न हि ब्रह्मविविदिषूणामित्युक्तम् । क्रियाशब्दार्थविशदीकरणायाह तमेतमिति । सत्यं भूतहितम् । आर्जवं मनोवाक्कायानामैकरूप्यम् । दया स्वार्थनिरपेक्षपरदुःखासहिष्णुत्वम् । अहिंसा करणत्रयेणापि परपीडानिवृत्तिः । 1
६५ निर्वचनम्, “सत्येन लभ्यः”, “तेषामेवैष…. विरजो ब्रह्मलोकः” इत्यादि । “देशकालवैगुण्याच्छोकवस्त्वाद्यनुस्मृतेश्व तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः’ इति । तद्विपर्ययोऽनवसादः । निर्वचनम्, “नायमात्मा बलहीनेन लभ्यः” इति । " तद्विपर्ययजा तुष्टिरुद्धर्षः” इति । तद्विपर्ययोऽनुद्धर्षः । अतिसन्तोषश्च विरोधीत्यर्थः । निर्वचनमपि, “शान्तो दान्तः” इति । एवं नियमयुक्तस्याऽऽश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति । दानं लोभराहित्यम् । अभिध्या परकीये स्वत्वबुद्धिः ; यद्वा निष्फलचिन्ता ; अथवा ’ परकृतापकारचिन्ता । तद्राहित्यमनमिध्या । सत्येनेति । इत्यादीत्यादिशब्देन आर्जवादिप्रतिशदकवाक्यजातं क्रोडीकृतम् । देशेत्यादि । अनवसादानुद्धर्षयोरवसादोद्धर्षविपर्ययरूपत्वात् अवसादोद्वर्पलक्षणमात्रमुक्तं वाक्यकारेण । तद्विपर्ययरूपो नञर्थोऽर्यात्सिध्यतीति वाक्यकाराभिप्रायः । शोकवस्तु — शोकनिमित्तं वस्तु अतीतपुत्रमरणादि । आदिशब्देन भयनिमित्तमागामि विवक्षितम् । अनीतविषयो हि शोकः; आगामित्रिप्रयं च भयम् । अभास्वरत्वमिति दैन्यशब्दविवरणम् । अभीष्टकार्यप्रवृत्त्यक्ष मत्वरूपं दैन्यमित्युक्तं भवति । भास्वरत्वविरोधीति वा दैन्यविशेषणम् । चशब्दो भिन्नक्रमः; तज्जं च – दैन्यजदैन्यं चेत्यर्थ । बन्धुजनदैन्ये दृष्टेपि हि दैन्यं स्यात् । देशकालवैगुण्यशोकवस्त्वाद्यनुस्मृतिहेतुकं मनसो भास्वत्त्वाभावरूपं भास्वरत्वविरोधि वा दैन्यं, दैन्यजदैन्यं च मनसोऽवसाद इत्यर्थः । यद्वा भिन्नवाक्यतया योजनीयम् - देशकालवैगुण्यशोकवस्त्वाद्यनुस्मृतिजनितं मनसोऽभास्वरत्वमत्रसादः । किमुक्तं भवतीत्यत्राह तज्जं दैन्यमिति । तच्चाभास्वरत्वं तज्जम् - उक्तहेतुजं दैन्यमिति व्याख्येयव्याख्यानरूपं वाक्यद्वयमिति । तद्विपर्यय इत्यादिर्भाष्यग्रन्थः । बलहीनेन – मनोबलहीनेन । तद्विपर्ययजा -देशकालसाद्गुण्यप्रियवत्त्वाद्यनुस्मृतिजा । तुष्टिरुद्धर्ष इत्येतावदेव वाक्यम् । तद्विपर्ययोऽनुद्धर्ष इत्यर्थसिद्धम् । कथं “स्वाध्यायशौच सतोषतपांसि नियतात्मवान् ” इत्यपेक्षितस्य संतोषस्य त्याज्यत्वमिल्यत्राह अतिसन्तोषश्च विरोधीत्यर्थ इति । न केवलमसन्तोष एव विरोधी; अतिसन्तोषश्च विरोधीति चार्थः । यथाऽन्यविषयेष्वेव प्रवृत्तिः स्यात, तथा सन्तोषोऽतिसन्तोषः ; स व्याज्य इत्युक्तं भवति । निर्वचनमपीत्यपिशब्दः सर्वनिर्वचनसमुच्चये । एवं पदार्थ व्याख्याताः । तल्लब्धिरित्यादेर्वाक्य कारग्रन्थस्य वाक्यार्थमाह एवमिति । एवं नियमयुक्तस्य आश्रमविहित कर्मानुष्ठानेनेति पृथङ्निर्देशेन प्रवृत्तिनिवृत्तिरूपकोटिद्वयविभागो दर्शितः । एतेन पदद्वयेन केवलशमादि केवलकर्म च व्यावर्तितम् । शमदि कर्म च समुचित्याङ्गमित्यर्थः । यत् विविदिषासाधनमिति त्वयोक्तम, तेनैव विद्य निष्पत्तिरिति एवकाराभिप्रायः । इत्युक्तंभवति इति वाक्यार्थे भवतीत्यर्थः । ‘विद्यां चाविद्यां चे ‘ति श्रुतेः शङ्करयादवप्रकाशाभिमत योजनाव्युदासार्थं तां व्याचिख्यासुरुपादत्ते / 1 अभिध्या । अभिचारादिशब्दे अभेरुपसर्गस्य प्रातिकूल्यमर्थो दृष्ट इति तत्त्वटीका । 2 आर्जवादीति पढ़े अतद्गुणसंविज्ञानो बहुव्रीहिः । सत्येनेति श्रुत्या सत्यस्य, विरजो ब्रह्मलोक इति श्रुत्या आर्जवस्य च निरुक्तत्वात् दयादिविषय एवोदाहार्यत्वात् । अत्र उपरितनमूलवाक्यार्थे च तत्त्वटीकादर्पणौ द्रष्टव्यौ । 3 एवेति । विषयान्तरेष्वपि प्रवर्तकतया विरोधीत्यर्थ इति तत्त्वटीका । ऐश्वर्यमदमत्तो हीति चोदाहृतम् । शङ्कर…. मतयोजनेति । साक्षादुक्तयोजनाया एकत्वेऽपि अन्या अपि योजना अन्यप्रदर्या अप्यनुकूलत्वादभिमता एव भवेयुरिति भावेनेदम् । अतः मृत्युं प्राप्य वर्तमानस्त्वमिति शाङ्करव्याख्यानाभावेऽपि न दोषः । अत एव, “शङ्कराभिमतयोजना स्यात्” इति उपरि स्यात्पदप्रयोगः । तस्य स्यात्पदस्य तत्पूर्ववाक्यस्थे योजनापदेऽप्यपकर्षः । 4 श्रु० 9
६६ १-१-१. विद्याञ्चेति श्रुतिवास्तवार्थः
;
तथाच श्रुत्यन्तरम्, “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते " इति । अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अविद्यया कर्मणा मृत्युं - ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म तीर्त्वा - अपोह्य विद्यया - ज्ञानेन अमृतं - ब्रह्म अश्नुते - प्राप्नोतीत्यर्थः तथा चेति । अनेन कर्मणोऽपेक्षितत्वे सन्रहितश्रुत्यन्तरं च दर्शितं भवति । तथा च श्रुत्यन्तरम् । यदन्यथा भवद्भिर्व्याख्यातम्, तच्चास्मदुक्तार्थानुगुणमिति तथाशब्दमन्तरशब्दं च प्रयुञ्जानस्य भावः । सनूरहितततया यज्ञादिवाक्यवैलक्षण्यश्चान्तरशब्दाभिप्रेतम् । अस्मिन् वाक्ये न कर्मवाचिशब्दः श्रूयत इत्यत्राह अत्रेति । अत्र - श्रुतिवाक्ये । न तु, “अनात्मन्यात्मबुद्धिर्या” इत्यादिषु । अविद्याशब्दा मिहितं वर्णाश्रमविहितं कर्मास्तु ; ततः किमुक्तं भवतीत्याशङ्कायां पदान्तराण्यपि विवृण्वन् वाक्यार्थमाह अविद्ययेति । अविद्यया - कर्मणा विद्यया - ज्ञानेनेत्यत्र च कर्मज्ञानशब्दाभ्याम्, “कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते” इति स्मृतिः स्वोपजीव्यार्था स्मारिता भवति । कर्माणि कषायपक्तिः कषायपक्तिनिमित्तानि । कषायशब्दः पापपरः ; ‘धर्मेण पापमपनुदति’ इत्यनेनैकार्थ्यात् । कषायशब्दस्य रागादिपरत्वेपि तत्पत्तिहेतुत्वं पापनिर्हरणद्वारा । ज्ञानं परमा गतिः — परमगत्युपायः । उभयत्र कारणे कार्योपचारः । कर्मभिः कषाये पक्के ततो ज्ञान प्रवर्तते प्रसरतीत्यर्थः । अत्रोपायविरोधिनिरासकत्वं कर्मणः स्पष्टम् । न हि विविदिषा प्रवर्तते, मोक्षः प्रवर्तत इति घोक्तम्, अपितु ज्ञानं प्रवर्तत इत्येवोक्तम् । अस्य वाक्यस्यार्थमुपजीव्याह मृत्युं - ज्ञानोत्पत्तिविरोधीति । न तु ब्रह्मप्राप्तिविरोधि, न च विविदिषाविरीधीत्यर्थः । उपेयविरोधिकर्मणो ज्ञाननिवर्त्यत्वं श्रुतिस्मृतिशत सिद्धम् । यथा “तमेव विदित्वाऽति मृत्युमेति नान्यः पन्थाः”, “एत्रमेवंविदि पापं कर्म न श्लिष्यते”, “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” “निचाय्य तं मृत्युमुखात् प्रमुच्यते”, “ ज्ञात्वा देवं मुच्यते सर्वपापै”, “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा” इति । एवमुपेयविरोधिनो ज्ञान निवर्त्यत्व श्रवणेन परिशेषात्, नान्यः पन्था इत्युपेयविरोधिनिरासे उपायान्तरनिषेधस्वारस्यात्, समसमुच्चयपक्षे कर्मणोप्युपायतया वेदनव्यतिरिक्तकृत्स्नगोचर - अन्यशब्दस्य सङ्कोचप्रसङ्गात्, यज्ञेन विविदिषन्तीति कर्मण उपायहेतुत्वस्य कण्ठोक्त्या, “कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते” इति स्मृत्यानुगुण्याच्च सामान्येन मृत्युशब्देन प्रतिपन्नमपि निरसनीयमुपायविरोधिकर्मरूने विशेषे पर्यवस्यति । तथा विविदिषासाधनत्वस्य प्रागुक्तान्योन्याश्रयणादिनिरस्तत्वेन परिशेषात् विविदिषन्तीत्यत्र च प्रकृतिप्रत्ययार्थयोर्वेदन त दिच्छयारे विशेषेण यज्ञादीनां साधनत्वे प्रतीतेऽपि, “ततो ज्ञानं प्रवर्तते” इति स्मृत्याद्यानुगुण्यात्, इष्यमाणप्रकृत्यर्थप्राधान्यस्य नीतिविद्भिर्निर्णीतत्वाच प्रकृत्यर्थ भूतवेदन साधनत्वं तस्मादुपायविरोधिकर्मैवात्र मृत्युशब्दवाच्यम विद्यानिवर्त्यमित्यभिप्रायः । उपासनरूपं न्यासरूपं चांपेयविरोधिनिरासकं ज्ञानम् उत्तरपूर्वाघयो रुभयोरपि निरासकं स्यादिति तद्व्यावृत्यर्थं प्राचीनमित्युक्तम् । उपायविरोधिनिरासककर्म प्राचीनमेव पाप शमयति, न तूत्तराघमित्यर्थः । तीर्खेति पदं व्याचष्टे अपोह्येति । न तु, ‘एतं सेतुं तीर्त्वा’ इतिवत् प्राप्तित्रचन इत्यर्थः । अविद्यया तीर्खेति पदद्वयव्याख्यानेन शङ्करमतयोजनाव्यावृत्तिः । ’ अज्ञानेन संसारं प्राप्य स्थित इति हि तद्योजना । तन्मते अविद्यायाः ज्ञातव्यत्वं च हेयत्वेन । अविद्याशब्दो विविदिषाविरोधिनिवर्तककर्मवाचीति वा शङ्कराभिमतयोजना स्यात् । अविद्याशब्द उपेयविरोधिनिवर्तककर्मवाचीति सिद्धम्
। ६७ मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरत् विहितं कर्मैत्र । यथोक्तम–“इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय ततुं मृत्युमविद्यया” इति । ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानोत्पत्तिविरोधित्वेनानिष्टफलतयोभयोरपि पापशब्दाभिधेयत्वम् । 1 । यादवप्रकाशाभिमतयोजना । ज्ञानोत्पत्तिविरोधीति मृत्युशब्द व्याख्यानेन तदुभयव्युदासः । अयमविद्याशब्दः संसारहेतुभूताज्ञानपरः किं न स्यात्, कथं च तस्य कर्मवाचित्वमित्यत्राह मृत्युतरणेति । तरतेरुत्तरणवचित्वं स्वरससिद्धम् ; प्राप्तिवाचित्वे तु स्वारस्यभङ्ग इत्यभिप्रेतम् । अविद्याशब्दस्य कर्मवाचित्वं दर्शयति विद्येतरदिति । तदन्यार्थे नमिति भावः । विहितं कर्मैवेत्येवकारेणाज्ञानमविहितं कर्म च व्यावर्त्यते । अत्र “विद्यां चाविद्यां च” इति चशब्दावनुक्तसमुच्चयपरौ । विद्यानुबन्धि कर्मानुमन्धि च यदनुक्तम्, तत् समुच्चतेयम् । विद्यानुबन्धि शमदमादिकम् । कर्मानुबन्धि फलाभिसन्धि-कर्तृत्वाभिमान राहित्यादिकम् । तदुभयं चशब्दसमुच्चेतव्यम् । यद्वा, “धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ’ इत्यत्र चशब्दवदत्राप्युक्तार्थविरोधिसमुच्चयपरौ चशब्दौ स्याताम् विद्याविरोधि कर्मविरोधि च चशब्दाभ्यां हानार्थं ज्ञातव्यतया समुच्चिते भवतः, विद्या ब्रह्मविद्या; तद्विरोधि – तदितरविषयज्ञानतद्विषयरागद्वेषादिकम् । अविद्या विद्याङ्गं कर्म; तद्विरोधि संसरणहेतुभूतं फलाभिसन्ध्यादिसहितं कर्म, पापश्च । तदुभयं हानार्थं ज्ञातव्यमिति चशब्दयोरभिप्रायः । यद्वा प्रतिपदद्योतकौ चशब्दौ स्याताम् । यथा धर्मे चार्थे च कामे चेति प्रतिपदं यत् अभिधेयम्, तस्य समुच्चयद्योतकत्वं प्रतिपदद्योतकल्यम्; तदत्रापि स्यात् । अस्मिन् वाक्ये अविद्यातरणशब्दयोरुक्तार्थपरत्व स्थापनायोपबृंहणवचनं च दर्शयति यथोक्तमिति । ज्ञानव्यपाश्रयःआगमोत्थज्ञानवान् । ब्रह्मविद्यामधिष्ठाय - उपासनात्मक ज्ञानं साध्यत्वेनावलम्ब्येत्यर्थः । ज्ञानविद्याशब्दयोरर्थभेदबुभुत्सायामागमोत्थविषेकादिजन्यज्ञानयोः प्रकृतत्वात् तत्परत्वाश्रयणं हि युक्तम् । तर्तुं मृत्युमित्यनेन तरतेः प्राप्तिवाचित्वशङ्का व्युदस्ता । न हि संसारं प्राप्तुं ब्रह्मविदा के शिध्वजेन नृपेण यज्ञादिकर्मानुष्ठीयते । मृत्युशब्दस्य विविदिषाविरोधि कर्मपरत्वमपि न शङ्कनीयम्; ज्ञानव्यपाश्रय इत्यनेन शास्त्रजन्यज्ञानवत्ताया अभिहितत्वात् ; ब्रह्मविद्यामधिष्ठायेत्युक्तत्वाच्च । न हि ब्रह्मविद्येच्छामधिष्ठायेत्युक्तम् ॥ कथं ज्ञानोत्पत्तिविरोधि प्राचीनं कर्मेति पुण्यपापसाधारण कर्मशब्देन कर्ममात्रं निरसनीयमुक्तम ; श्रुतिर्हि, ’ ‘धर्मेण पापमपनुदति” इति पापरूपकर्मविशेषस्य निरसनीयत्वमाहेति शङ्कायां तत्रापि पापशब्दस्य पुण्यपापपरत्वं दर्शयितुं पुण्यपापयोरुभयोरपि पापशब्दवाच्यत्वोपपादनाय तयोर्ज्ञानोत्पत्तिविरोधित्वमाह ज्ञानविरोधि चेति । चः शङ्कानिवृत्तौ । पुण्यपापे उभे अपि ज्ञानविरोधिनी चेत्, कथं तयोरन्यतरस्य पापस्य निरसनीयत्वमन्यतरस्य पुण्यस्य निरासकत्वं च श्रूयते इत्यत्राह उभयोरपीति । तयोर्द्वयोरपि निवर्त्यत्वम्, फलाभिसन्ध्यादिरहितस्य धर्मान्तरस्यैव निवर्तकस्वश्च विवक्षितमिति भावः । कथमुभयोः पापशब्दवाच्यत्त्रमित्यत्राह ब्रह्मज्ञानोत्पत्तीति । अनिष्टफलतयेति प्रवृत्तिनिमित्तसूचनम् । अलोकिकत्वे सति अनिष्टफलसाधारणकारणत्वं पापत्वमिति भावः । अत एव शस्त्रादावीश्वरे च नातिव्याप्तिः । “वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ।”, “एते वै निरयास्तात स्थानस्य परमात्मनः” इत्यादिभिः पुण्यस्यापि मुमुक्षं प्रति अनिष्टफलप्रदस्वं सिद्धम् । श्रुतिश्च दुष्कृतेन सह पूर्वनिर्दिष्टं सुकृतमपि पाप्मशब्देन निर्दिशन्ती निगमयति,
. ६८ १ - १ - १. पापस्य ज्ञानविरोधित्वप्रकारः अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वविरोधिरजस्तमो विवृद्धिद्वारेण । पापस्य च ज्ञानोदयविरोधित्वम - " एष एवासाधु कर्म कारयति तम यमधो निनीषति” इति श्रुत्याऽवगम्यते । । 2 " नैतं सेतुमहोरात्रे तरतः, न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम् ; सर्वे पाप्मानोऽतो निवर्तन्ते " इति । न चानुक्तपापान्तरविषयः पात्मशब्दः ; दुष्कृतशब्दस्य संप्रतिपन्नसमस्त पाप साधारणतया अनुक्तपापान्तरासंभवेन तद्विषयत्वायोगात् । संभवेऽपि न तन्मात्रपापान्तरविषयः पाप्मशब्दः, उक्तसर्वहेयनिवृत्ति संत्रादितयोपात्ते, " अपहतपाप्मा ह्येष ब्रह्मलोकः” इत्यनन्तरवाक्ये पाप्मशब्दस्य सर्वयविषयत्वदर्शनात् । न ह्यनुक्तकतिपपपापनिवृत्त्युक्तौ उक्तसर्वहेयनिवृत्तिसंवादसिद्धिः । शोकादिषु पाप्मशब्दस्यामुख्यत्वेपि सुकृतदुष्कृतयोः प्रवृत्तिनिमित्तसंम्भवान्न मुख्यत्वं त्याज्यम् । क्वचिदमुख्पस्य सर्वत्रामुख्यत्वनियमाभावात् । अतः, ‘सर्वे पाप्मानः ’ इत्यत्राजहल्लक्षणा छत्रिन्यायात् । “धर्मेण प्रापम्” इत्यत्र तु मुख्यत्वमेव ॥ कथं पापस्य ज्ञानविरोधित्वम् । रजस्तमसाहि तदवगम्यत इति शङ्कायां द्वारद्वारिभावादविरोधमाह अस्येति । पापस्य रजस्तमसोश्च ज्ञानविरोधित्वे प्रामाणिके सति द्वारद्वारिभावः कल्प्यत इ ( कल्प्येते ?) त्यत्राह पापस्य चेति ॥
नन्वियं श्रुतिर्निरयनिनीषाविषया किं न स्यात् ॥ उन्नयनप्रत्यनीकत्वादधोनयस्येति ब्रूमः । अत्र विवक्षितमुन्नयन हेतुत्वमुपासननिष्पादनरूपम् । न चोन्नयनमपि नाकादिनयनमिति शङ्कनीयम्; “यमेभ्यो लोकेभ्य उन्निनीषति” इत्यवगतस्य समस्तलोकेभ्य उन्नयनस्यापवर्गप्रापणरूपत्वात् ॥ तर्हि गर्भजन्मजरामरणादिसंसारप्रापणमघोनयनं स्यात्, न तृपासनविरोध इति चेन्न - उन्नयनस्य ज्ञानोत्पादनद्वारकत्वावगमात् । “यं त्वं मनुष्याय हिततमं मन्यसे” इत्युपक्रमवाक्येन मामुपास्त्वेति विधित्सितस्य उपासनस्य व्यवहितोपायत्वमवगतम् । " नान्यः पन्थाः” इत्यादीनि च श्रुत्यन्तराणि तथाऽवगमयन्ति । तच्च कर्मणामपवर्गं प्रति अव्यवहितोपायत्ये विरुध्येत । अन उपक्रमाद्यविरोधात् साधुकर्मणामपवर्गं प्रत्युपायत्वमुपासनद्वारकमवसीयते अतः कर्मणामुन्नयनहेतुत्वनुपासननिष्पादनरूपमिति तद्विपरीतमधोनयनमुपासनप्रति - बन्धरूपमिति स्फुटतरमत्रगम्यते । किञ्च यद्यप्युन्नयनाधोनयने स्वर्गनरकप्रापणरूपे, तथाप्यसाधुकर्मणां ज्ञानविरोधित्वं सिद्ध्यति । तथा हि-उन्निनीपाधोनिनीष योर्निर्हेतुकल्ले परमात्मनो वैषम्यनैर्घृण्यप्रसङ्गात् नेतव्यचेतनगोचरं यद्वृत्तद्वयं गतिद्वयनिनीषानिमित्त भूतातिप्रभूतपुण्यपापकर्तृविषयं विज्ञायते । तत्र च गतिद्वयपर्याप्तोत्तरोत्तरसाध्य साधुकर्म कारयितृत्व मीश्वरस्य न मूतावेशादिवत् जीवबुध्यनपेक्षितं भवति ; तथा सति ज्ञानचिकीर्षाद्यभावात् वायूदकादिनुन्नतृणादेखि संसारिणां शास्त्रवश्यत्वाभावेन कर्मफलभोगानुपपत्तेः । एवं संसारिणां कर्मफलमोक्तृत्वान्यथानुपपत्तिरूपन्यायानुगृहीतम् एव एवेत्यादिकं वाक्यद्वयं ज्ञानप्रदानद्वारककारयिनृत्यविषयमवसीयते । तथा सति स्मृत्यनुग्रहश्च मवति ; “न देवा यष्टिमादाय रक्षन्ति पशुपालवत् यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् । यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यावकर्षन्ति सोऽपनीतो विनश्यति” इति ह्युच्यते । तथा, “पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनःपुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारमते जरः । पापं प्रज्ञां नाशयति क्रियमाणं पुनःपुनः । 1 यद्वृत्तद्वयम् - यमिति यत्पदद्वयम् ।
६९ रजस्तमसोर्यथार्थज्ञानावरणत्वं सत्त्वस्य च यथार्थज्ञानहेतुत्वं भगवतैव प्रतिपादितम्, “सत्त्वात् सञ्जायते” ज्ञानम्” इत्यादिना । अतश्च ज्ञानोत्पत्तये पापं कर्म निरसनीयम् । तन्निरसनञ्च अनभिसंहित फलेनानुष्ठितेन धर्मेण । तथा च श्रुतिः, “धर्मेण पापमपनुदति” इति । नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥” इति च । तत्र बुद्धिमवकर्षन्ति, प्रज्ञां नाशयतीति च सम्यग्ज्ञानहानि पूर्व कतद्विपरीतज्ञाननिष्पत्तिरिह विवक्षिता; अन्यथा कर्मान्तरप्रारम्भानुपपत्ते । यद्यपीदं बचनजात सर्वकर्मदेवता सामान्यविषयम्; तथापि भगवज्ज्ञानस्य सम्यग्ज्ञानसामान्यावहिर्भावादसाधुकर्मणस्तद्विरोधित्वसिद्धिः । तथा विशेषतश्चोच्यते, “ददामि बुद्धियोगं तं येन मामुपयान्ति ते “, “आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि ॥ मामाप्राप्यैव कौन्तेय ततो यान्त्वधमां गतिम् " इति [च] । एवं म्यायस्मृत्युपर्बुहितयाऽनया श्रुत्या सामान्येन ज्ञानविरोधित्वमसाधुकर्मणां सिद्धम् । अस्मादपि निर्वाहात् पूर्वोक उपपन्नः; प्रकरणानुगुण्यात् । एव पापस्य ज्ञानविरोधित्वे प्रमाणं दर्शितम् ; अथ रजस्तमसोर्ज्ञानविरोधित्त्रे, सत्त्वस्य ज्ञानहेतुत्वे च प्रेमाणं दर्शयति रजस्तमसोरिति । ततः किं प्रस्तुतस्य कर्मापेक्षितत्वस्येत्यत्राह अतश्चेति । अतः - पापस्य ज्ञानविरोधित्ववचनात् । ततोऽपि किमित्यत्राह तन्निरसनञ्चेति पापशब्दाभिधेययोः पुण्यपापयोरुभयोरपि निरसनीयविन पापनिरासककर्मासंभवमाशङ्कयोक्तम् अनभिसंहितफलेनेति । अनेन स्वर्गादिफलप्रद - कर्मव्यावृत्तिः । अनुष्ठितेन । न तु ज्ञातमात्रेणेति भावः । तत्र किं प्रमाणमित्यत्राह तथा च श्रुतिरिति । इदानीं निरासकविशेषे प्रमाणतयोदाहृतस्य वाक्यस्यार्थनिर्णयोपयोगितयैतद्वाक्यस्थ निरसनीयवाचिपदस्यार्थः पूर्वमेव शिक्षितः; निरासकवाचिपदस्यार्थोऽनन्तरमुक्तः ॥
नन्वयं धर्मशब्दः कृच्छ्रचान्द्रायणादिप्रायश्चित्तरूपधर्ममात्रविषयः किं न स्यात् ; अनभिसंहिफलवर्मविषय इति कुतो निर्णीयते ॥ उच्यते । “यज्ञेन दानेन तपसाऽनाशकेन”, “शाजे दान्त उपरतस्तितिक्षुः “, " कषाये कर्मभिः पत्रे ततो ज्ञानं प्रवर्तते”, “यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्”, “यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्”, “शमो दमरतपा शौचम्” इत्यादिश्रुतिस्मृतिभिर्मुमुक्षोरपेश्चितत्येनोक्तानां यज्ञदानतपः शमादीनामत्र श्रूयमाणत्वात्; “विज्ञानादानन्दो ब्रह्मयोनिः” इत्यादिनाऽस्य प्रकरणस्य ब्रह्मविद्याविषयत्वावगमाञ्चायं धर्मशब्दो मुमुक्ष्वपेक्षितानमसहित फलधर्मविषय इत्यवगम्यते । अत्र यज्ञदानादिपर्यायेषु, “दानेन द्विषन्तो मित्रा भवन्ति” इत्यादिना सांसारिक फलकीर्तनम, “अन्नवानन्नादो भवति” इत्यादिवत् ब्रह्मवेदनानुगुणानुषङ्गिकफलविषयं मन्तव्यम् ; ‘भूयो न मृत्युमुपयाहि विद्वान्” इति प्रधानफलश्रवणात् । किश्व यद्यपीदं वाक्यं न मुमुक्षुमात्रविषयम्, तथाप्यमुमुक्षुमात्रविषयं च न भवेत्; प्रवृत्तिनिमित्तसाधारण्यात् न हि काम्य फलप्रदत्वं धर्मशब्दार्थः, अलौकिकेष्टा साधारण साधनेना लौकिकानिष्टासाधारणकारणमपनुदेदिति ह्यर्थः स्यात् 1 ततश्च मुमुक्षं प्रति काम्यकर्मणोऽनिष्टफलत्वेन धर्मशब्दवाच्यत्वायोगात् पापशब्दवाच्यान्तर्भावाच पक्षधर्मताबलादनभिसंहितफलेन धर्मेण पुण्यपापयोरुभयोरपनोद्यत्वमुक्तं स्यात् ।
1 पक्षधर्मताबलात् प्रकृतविषयसंबन्धार्हाशचिन्तनवशादिति यावत् । यथा विश्वमभिज्ञकर्तृकमित्युक्तौ कर्तृसार्वत्यसिद्धिः ।
६८ १-१-१. पापस्य ज्ञानविरोधित्वप्रकारः अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वं विरोधिरजस्तमोविवृद्धिद्वारेण । पापस्य च ज्ञानोदयविरोधित्वम - " एष एवासाधु कर्म कारयति तम, यमधो निनीषति” इति श्रुत्याऽवगम्यते । " नैतं सेतुमहोरात्रे तरतः, न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम् ; सर्वे पाप्मानोऽतो निवर्तन्ते” इति । न चानुक्तपापान्तरविषयः पात्मशब्दः ; दुष्कृतशब्दस्य संप्रतिपन्न समस्तपापसाधारणतया अनुक्तपापान्तरासंभवेन तद्विषयत्वायोगात् । संभवेऽपि न तन्मात्रपापान्तरविषयः पाप्मशब्दः, उक्त सर्व हेयनिवृत्ति संत्रा दितयोपात्ते, “अपहतपाप्मा ह्येष ब्रह्मलोकः” इत्यनन्तरवाक्ये पामशब्दस्य सर्वयविषयत्वदर्शनात् । न ह्यनुक्तकतिपयपापनिवृत्युक्तौ उक्त सर्वज्ञेय निवृत्ति संवादसिद्धिः । शोकादिषु पाप्मशब्दस्यामुख्यत्वेपि सुकृतदुष्कृतयोः प्रवृत्तिनिमित्तसंम्भवान्न मुख्यत्वं त्याज्यम् । कचिदमुख्पस्य सर्वत्रामुख्यत्वनियमाभावात् । अतः, ‘सर्वे पाप्मानः ’ इत्यत्राजहल्लक्षणा छत्रिन्यायात् । “धर्मेण प्रायम्” इत्यत्र तु मुख्यत्वमेव ॥ कथं पापस्य ज्ञानविरोधित्वम् । रजस्तमसाहि तदवगम्यत इति शङ्कायां द्वारद्वारिभावादविरोधमाह अस्येति । पापस्य रजस्तमसोश्च ज्ञानविरोधित्वे प्रामाणिके सति द्वारद्वारिभावः कल्प्यत इ ( कल्प्येते ?) त्यत्राह पापस्य चेति ॥
नन्वियं श्रुतिर्निरयनिनीषाविषया किं न स्यात् ॥ उन्नयनप्रत्यनीकत्वादधोनयस्येति ब्रूमः । अत्र विवक्षितमुन्नयन हेतुत्वमुपासननिष्पादनरूपम् । न चोन्नयनमपि नाकादिनयनमिति शङ्कनीयम्; “यमेभ्यो लोकेभ्य उन्निनीषति” इत्यवगतस्य समस्तलोकेभ्य उन्नयनस्यापवर्गप्रापणरूपत्वात् ॥ तर्हि गर्भजन्मजरामरणादिसंसारप्रापणमधोनयनं स्यात्, न तूपासनविरोध इति चेन्न - उन्नयनस्य ज्ञानोत्पादनद्वारकत्वावगमात् । “यं त्वं मनुष्याय हिततमं मन्यसे” इत्युपक्रमवाक्येन मामुपास्त्वेति विधित्सितस्य उपासनस्य ह्यव्यवहितोपायत्वमवगतम् । “नान्यः पन्थाः” इत्यादीनि च श्रुत्यन्तराणि तथाऽवगमयन्ति । तच्च कर्मणामपवर्ग प्रति अव्यवहितोपायत्वे विरुद्ध्येत । अन उपक्रमाद्यविरोधात् साधुकर्मणामपवर्गं प्रत्युपायत्वमुपासनद्वारकमवसीयते 1 अतः कर्मणामुन्नयन हेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमघोनयनमुपासनप्रतिबन्धरूपमिति स्फुटतरमवगम्यते । किञ्च यद्यप्युन्नयनाधोनयने स्वर्गनरकप्रापणरूपे, तथाप्यसाधुकर्मणां ज्ञानविरोधित्वं सिद्ध्यति । तथा हि-उन्निनीपाधोनिनीष योर्निर्हेतुकत्वे परमात्मनो वैषम्यनैर्घृण्यप्रसङ्गात् नेतव्य चेतनगोचरं यद् वृत्तद्वयं गतिद्वयनिनीषानिमित्त भूतातिप्रभूतपुण्यपापकर्तृविषयं विज्ञायते । तत्र च गतिद्वयपर्याप्तोत्तरोत्तरसाध्य साधुकर्म कारयितृत्व मीश्वरस्य न मूतावेशादिवत् जीवबुद्ध्धनपेक्षितं भवति ; तथा सति ज्ञानचिकीर्षाद्यभावात् वायूदकादिनुन्नतृणादेखि संसारिणां शास्त्रवश्यत्वाभावेन कर्मफलभोगानुपपत्तेः । एवं संसारिणां कर्मफलमोक्तृत्वान्यथानुपपत्तिरूपन्यायानुगृहीनम् एष एवेत्यादिकं वाक्यद्वयं ज्ञानप्रदानद्वारककार थितृत्वविषयमवसीयते । तथा सति स्मृत्यनुग्रहश्च मवति ; “न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् । यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यावकर्षन्ति सोऽपनीतो विनश्यति” इति ह्युच्यते । तथा, “पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनःपुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारमते नरः । पापं प्रज्ञां नाशयति क्रियमाणं पुनःपुनः । 1 यद्वृत्तद्वयम् - यमिति यत्पदद्वयम् । ·
६९ रजस्तमसोर्यथार्थज्ञानावर णत्वं सत्त्वस्य च यथार्थज्ञानहेतुत्वं भगवतैव प्रतिपादितम्, “सत्त्वात् सञ्जायते” ज्ञानम्” इत्यादिना । अतश्च ज्ञानोत्पत्तये पापं कर्म निरसनीयम । तन्निरसनन्न अनभिसंहितफलेनानुष्ठितेन धर्मेण । तथा च श्रुतिः, “धर्मेण पापमपनुदति” इति । तथाच नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥” इति च । तत्र वुद्धिमवकर्षन्ति, प्रज्ञां नाशयतीति च सम्यग्ज्ञानहानि पूर्व कतद्विपरीतज्ञाननिष्पत्तिरिह विवक्षिता; अन्यथा कर्मान्तरप्रारम्भानुपपत्ते । यद्यपीदं बचनजात सर्वकर्मदेवता सामान्यविषयम्; तथापि भगवज्ज्ञानस्य सम्यग्ज्ञानसामान्याबहिर्भावादसाधुकर्मणस्तद्विरोधित्वसिद्धिः । तथा विशेषतश्चोच्यते, “ददामि बुद्धियोगं तं येन मामुपयान्ति ते “, “आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि ॥ मामाप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् " इति [च] । एवं न्यायस्मृत्युपहितयाऽनया श्रुत्या सामान्येन ज्ञानविरोधित्वमसाधुकर्मणा सिद्धम् । अस्मादपि निर्वाहात् पूर्वोक्त उपपन्नः ; प्रकरणानुगुण्यात् । า एव पापस्य ज्ञानविरोधित्वे प्रमाणं दर्शितम् ; अथ रजस्तमसोर्ज्ञानविरोधित्ये, सत्त्वस्य ज्ञानहेतुत्वे च प्रमाणं दर्शयति रजस्तमसोरिति । ततः किं प्रस्तुतस्य कर्मापेक्षितत्वस्येत्यत्राह अतश्चेति । अतः - पापस्य ज्ञानविरोधित्ववचनात् । ततोऽपि किमित्यत्राह तन्निरसनञ्चेति पापशब्दाभिधेययोः पुण्यपापयोरुभयोरपि निरसनीयत्वेन पापनिरासक कर्मा संभवमाशङ्कषोक्तम् अनभिसंहितफलेनेति । अनेन स्वर्गादिफलप्रद - कर्मव्यावृत्तिः । अनुष्ठितेन । न तु ज्ञातमात्रेणेति भावः । तत्र किं प्रमाणमित्यत्राह तथा च श्रुतिरिति । इदानीं निरासकविशेषे प्रमाणत योदाहृतस्य वाक्यस्यार्थनिर्णयोपयोगितयैतद्वाक्यस्थ निरसनीयवाचिपदस्यार्थः पूर्वमेव शिक्षितः ; निरासकवाचिपदस्यार्थोऽनन्तरमुक्तः ॥
नन्वयं धर्मशब्दः कृच्छ्रचान्द्रायणादिप्रायश्चित्तरूपधर्ममात्रविषयः किं न स्यात् ; अनभिसंहि फलवर्मविषय इति कुतो निर्णीयते ॥ उच्यते । “यज्ञेन दानेन तपसाऽनाशकेन”, “शान्तो दान्त उपरतस्तितिक्षुः “, " कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते”, “यज्ञदानतपःकर्म न त्याज्यं कार्यमेत्र तत्”, “यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् “, “शमो दमस्तपा शौचम्” इत्यादिश्रुतिस्मृतिभिर्मुमुक्षोरपेक्षितस्येनोक्तानां यज्ञदानतपःशमादीनामत्र श्रूयमाणत्वात् ; “विज्ञानादानन्दो ब्रह्मयोनि ः” इत्यादिनाऽस्य प्रकरणस्य ब्रह्मविद्याविषयत्वावगमाच्चायं धर्मशब्दो मुमुक्ष्वपेक्षितान मिसहित फलधर्मविषय इत्यवगम्यते । अत्र यज्ञदानादिपर्यायेषु, “दानेन द्विषन्तो मित्रा भवन्ति” इत्यादिना सांसारिक फलकीर्तनम, “अन्नवानन्नादो भवति” इत्यादिवत् ब्रह्मवेदनानुगुणानुषङ्गिकफलविषयं मन्तव्यम् ; ‘भूयो न मृत्युमुपयाहि विद्वान्” इति प्रधानफलश्रवणात् । किञ्च यद्यपीदं वाक्यं न मुमुक्षुमात्रविषयम्, तथाप्यमुमुक्षुमात्रविषयं च न भवेत्; प्रवृत्तिनिमित्तसाधारण्यात् न हि काम्य फलप्रदत्वं धर्मशब्दार्थः, अलौकिकेष्टा साधारण साधनेना लौकिकानिष्टासाधारणकारणमपनुदेदिति ह्यर्थः स्यात् । ततश्च मुमुक्षं प्रति काम्यकर्मणोऽनिष्टफलत्वेन धर्मशब्दवाच्यत्वायोगात् पापशब्दवाच्यान्तर्भावाच्च ‘पक्षधर्मताबलादनभिसंहितफलेन धर्मेण पुण्यपापयोरुभयोरपनोद्यत्वमुक्तं स्यात् । 1 पक्षधर्मताबलात् प्रकृतविषयसंबन्धार्हाशचिन्तनवशादिति यावत् । यथा विश्वमभिज्ञकर्तृकमित्युक्तौ कर्तृसार्वत्यसिद्धिः ।
७० १-१-१. लघुसिद्धान्तोपसंहारः तदेवं ब्रह्मप्राप्तिसाधनं ज्ञानं सर्वाश्रमकर्मापेक्षम् । अतोऽपेक्षितकर्मस्वरूपज्ञानं केवलकर्मणामल्पास्थिर फलत्वज्ञानञ्च कर्ममीमांसावसेयमिति-सैवापेक्षिता ब्रह्मजिज्ञासायाः पूर्ववृत्ता वक्तव्या ॥ अपि च नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते, फलकरणेतिकर्तव्यताधिकारिविशेषनिश्चयात् ऋते कर्मस्वरूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनां दुरवबोधत्वात् ।
ज्ञानस्य कर्मसापेक्षत्वं निगमयति तदेवमिति । तत् श्रुतिस्मृतितदनुग्राहकोपपत्तिसूत्रवाक्यकारवचनेभ्यः । एवम् उपायप्रतिबन्धनिरासार्थम् । सर्वाश्रमिणां तत्तदाश्रमधर्माङ्गकोपासनाधिकारस्य वक्ष्यमाणत्वं हृदि निधाय सर्वाश्रमकर्मापेक्षमित्युक्तम् । ततः किं कर्मविचारस्य ब्रह्मविचारपूर्ववृत्तत्वे इत्यपेक्षाया
ननुष्ठानस्य ज्ञानसापेक्षत्वात, ज्ञानस्य मीमांसाधीनत्वाच्च तदधिगमः पूर्ववृत्त इत्याह अत इति । अतः—ब्रह्मज्ञानस्य फलाभिसन्धिरहिताश्रमकर्मसापेक्षत्वात् कर्मज्ञानं हि हानार्थमुपादानार्थं वा; अत्र तूभयार्थमित्याह अपेक्षितेति । फलद्वारकं हानम्, स्वरूपेणोपादानम् । मीमांसाशब्दस्य पूर्वोत्तरसाधारणत्वात् कर्ममीमांसावसेयमित्युक्तम् । सैव । या त्वया विरुद्धेति निरस्ता, सैवेत्यर्थः । , यत् अनपेक्षितं परेणोक्तम्, तदेवापेक्षितमित्युक्तम्; यत्तु परेणापक्षितमित्युक्तम, तस्यानपेक्षितत्वमुच्यते अपि चेत्यादिना । नित्यानित्यवस्तुविवेकादयश्चेति चस्त्वर्थः । प्रत्युतेति यावत् । मीमांसाश्रवणमन्तरेण कर्मब्रह्ममीमांसाश्रवणमन्तरेणेत्यर्थः । न संपत्स्यन्त इत्यनेन पश्चाद्भावित्वमुक्तम् । कुत इत्यत्राह फलेति । फलविशेषः – भोगमोक्षरूप; करणविशेषः – यज्ञोपासनादिः ; इतिकर्तव्यताविशेषः —प्रयाजादिः साधनसप्तकं च ; अधिकारिविशेषः बुमुक्षुर्मुमुक्षुश्च; एषां निश्चयादृते । कर्मस्वरूपम् - साङ्गं यज्ञात्मकमुपासनात्मकञ्च । भाष्यकारश्च, यागात्मकमुपासनात्मकं च कर्मेति हि वक्ष्यति ; “प्रकाशश्च कर्मण्यभ्यासात् " इति च सूत्रम् ; “उपासनात्मके कर्मणि” इति च तस्य भाष्यम् । उपासनस्य कर्मत्वं स्मृतिसन्ततिरूपतया तस्य प्रयत्नसाध्यत्वात् । “वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” इत्यत्र मनुश्च, “मानसैः कर्मदोषैः” इत्युक्तवान् । फलं चोभयं भोगो मोक्षश्च । [तत्स्थिरत्वास्थिरत्व ] आत्मनित्यत्वादीनामिति । आदिशब्देन आत्मनाम, “निर्वाणमय एवायम्” इत्युक्तज्ञानानन्दस्वरूपत्यादिकं विवक्षितम् ॥ अत्र साध्याविशिष्टत्वं हेतोः प्रतीयत इति चेत् — मैत्रम् । मीमांसायां फलकरणेतिकर्तव्यतादीनां प्रत्यधिकरणं तत्तन्न्यायैर्यो निर्णयः क्रियते स हेतुः ; एवं तत्तदधिकरणन्यायानुगृहीतश्रुतिवाक्यसमुदायजन्या या प्रमितिरुपायोपेयविषया, सा साध्या । तत्तदवान्तरवाक् पार्थनिश्वयैस्तत्समुदायरूप महावाक्यार्थनिश्चयः साध्य इत्यर्थः । यथां पदार्थनिश्चयैर्वाक्यार्थनिश्चय इत्युक्ते सति न साध्याविशिष्टता, तद्वत् । अत एव हि करणेतिकर्तव्यतादिशब्दैः पूर्वं पृथगुक्त्वा पश्चात् कर्मस्वरूपशब्देनोक्तम् । फलकरणेत्यादिभाष्यस्य कर्ममीमांसामात्रविषयत्वे तत्फल स्थिरत्वास्थिरत्वात्मनित्यत्वादीनामिति वक्तुमयुक्तम् । निरुपपदमीमांसाशब्दस्य मीमांसाशास्त्रमित्यादिभाष्ये भागद्वयविषयतया प्रयुक्तत्वाच्च यथोक्त एवार्थः । तस्मात् कर्मब्रह्मविचारानन्तरभावी नित्यानित्यवस्तुविवेक ; ततः इहामुत्रफलभोगविरागः, मुमुक्षुत्वं च शमादमादिसाधनसंपच्च; ‘शमदमाद्यपेतः स्यात्’ इति ब्रह्ममीमांसायां हि शमदमादिस्वरूपं निरूप्यते । अस्मिन् चतुष्टये सिद्धे ब्रह्मविचारः, ब्रह्मविचारात् तत्सिद्धिरित्यन्योन्याश्रयः स्यात् । अतः पश्चाद्भाविनः पूर्ववृत्तत्वमनुपपन्नम् ॥ "
श्रुतंप्रकाशिकोपेते श्रीभाष्ये ७१ साङ्गाध्ययनजापातप्रतीतिरेव नित्यानित्यवस्तुविवेक इति चेत् तदयुक्तम् । न ह्यापातप्रतीतिः इहामुत्रफलभोगविरागमुमुक्षुत्वयोर्हेतुः; नित्यानित्य विपर्ययप्रतीतेः । किञ्च आपातप्रतीतिरुभयभागविचारसाधारणी । नत्र प्रथमं कर्मविचार एव प्रवृत्तिर्युक्ता ; उभयत्र बुभुत्साया अविशिष्टत्वात् प्रथमातिक्रमे कारणाभावाच्च । शास्त्रान्तरेणापि नित्यानित्य विवेकादिर्नोपपद्यते ; प्रथममेवाध्ययनविधिवश्यतया पुरुषस्य शास्त्रान्तरानवकाशात् । किञ्च शास्त्रान्तरे परमाणु कारणत्वाब्रह्मात्मकप्रधानकारणत्वगगनादिनित्यत्वनिमित्तमात्रेश्वरत्वादयो वेदान्तविरुद्धा एवार्थी बहब उपलभ्यन्ते । अतः शास्त्रान्तरजन्यो नित्यानित्यवस्तुविवेको वेदान्तविरुद्धत्वान्न तद्विचारं प्रति पूर्ववृत्तो भवितुमर्हति । किञ्च शास्त्रान्तरे षट्पदार्थषोडशपदार्थज्ञानादीनां मोक्षसाधनत्वप्रतिपादनेन वेदान्तश्रवणनैरपेक्ष्याच्च न तज्जन्यवित्रेकस्य पूर्ववृत्तत्वं युक्तम । “यतोऽभ्युदयनिश्श्रेयससिद्धिः स धर्मः”, “छलजातिनिग्रहस्थानानां तत्त्वज्ञानात् निःश्रेयसाधिगमः” इति हिं तत्र तत्रोच्यते । किञ्च “तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्” इति श्रुतिः एवंविच्छब्देन शास्त्रजन्यज्ञानमनूद्य, पश्येदिति प्रतिपन्नस्योपासनस्याङ्गतया शमादीनुपदिशति । अतः शमादीनां श्रवणपूर्ववृत्तत्वं श्रुतिविरुद्धम् । प्रशान्तचित्तायेत्यादिश्रुतिस्तु श्रवणौपयिकावधाननिष्पादनार्थेत्युक्तम् ॥ इतिहासपुराणश्रवणान्नित्यानित्यविवेक इति चेत् तर्हि तत एव ब्रह्मस्वरूपावगमात् ब्रह्मविचारस्यानारम्भणीयत्वं स्यात् ॥ इतिहासपुराणयोरपि संशयविपर्ययबाहुल्यात् तन्निरासाय ब्रह्मविचारोऽपेक्षित इति चेत् - संशयविपर्ययवाहुल्यादेव नित्यानित्य विवेकोऽपि तत्र दुस्संपाद इति न साधनचतुष्टयस्य पूर्ववृतत्वं युक्तम् ॥
यत्तु — ‘नित्यनित्ययोर्वसन्तीति नित्यानित्यवस्तूनि तद्धर्माः’ इत्यारभ्य वाचस्पतिनोक्तम्, ‘निध्यस्य धर्मिणो नित्यत्वं सत्यत्वं तत एवोपादेयत्वम् ; अनित्यस्य धर्मिणोऽनित्यत्वम् असत्यत्वं तत एव हेयत्वमित्येवं नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः’ इति - अत्र ब्रूमः । अनित्यस्य तावत् असत्यत्वं वक्ष्यमाणप्रकारेण निरस्तं वेदितव्यम् । यन्नित्यं तत् उपादेयम्, यदनित्यं तत् हेयमित्युभयमप्यनुपपन्नम् ; सुखदुःखनिवृत्ति-तत्साधन-तदुपयोगिनामेवोपादेयत्वबुद्धिदर्शनात् तद्व्यतिरिक्तस्यैवानुपादेयता बुद्धिदर्शनाच्च । नित्यमपि दुःखरूपं दुःखनिमित्तं वा यदि स्यात्, हेयमित्येव प्रतीयेत । अनुमयं चेत्, उपेक्ष्येत । अनित्यमपि सुखरूपं वा सुखनिमित्तं वा भवति चेत्, तदुपादीयते ॥ निरूपकस्य तु हेयमिति चेन्न ; प्रकृष्टसुखान्तरदर्शन - अत्यन्तदुःखसाध्यत्व - दुःखोदर्कत्वविरहे सति निरूपकस्यापि तत्रोपादेयता बुद्धिदर्शनात् । क्षीरोदनलाभात् कणस्त्यज्यते ; अन्धकूपपतिता वराटिका तदुद्धरणक्लेशस्य तल्लामसुखादतिशायित्वात् त्यज्यते ; विषमिश्रमन्नं मरणभयात् त्यज्यते ; नक्चन्दनादि तु ततः प्रकृष्टसुखालाभात् आद्यन्तयोस्तीव्र दुःखानुबन्धाभावाच्च परिमितमप्युपादीयते । तस्मादनित्यस्य हेयत्वं नानित्यत्वमात्रप्रयुक्तम् ॥ 1 यद्यच्येत - नित्यस्य दुःखासंभिन्न सुखरूपत्वादुपादेयत्वम् ; तदसंभवादनित्यस्य च हेत्वमिति ॥ उच्यते । नित्यस्य दुःखासं भिन्नसुखरूपत्वं किं व्याप्य्याऽवगम्यते, उत शास्त्रात् ? न प्रथमः, -नित्यस्य कालादेः सुखरूपत्वादर्शनात् ; नित्यस्यात्मनो दुःखासंभिन्नसुखरूपत्वादर्शनाच्च । आत्मनो हि दुःखमुपलभ्यते, अहं दुःखीति ॥ शास्त्रतश्चेत्, यदि वेदात् वेदजन्यं च किमापातज्ञानम्, उत प्रमितिरूपम् ? प्रथमे कर्मब्रह्मभाग साधा-
७२ ११ - १. नित्यानित्यविवे कशब्दविवक्षित निरासः रण्यात् कर्मविचारातिक्रमेण ब्रह्मविचारं प्रति तस्य पूर्ववृत्तत्वानुपपत्तिः । निश्चयरूपं चेत् — मीमांसाइयफलं स्यात् । आगमान्तरमूलत्वे विरुद्धतयाऽनुपयोगात् तस्यैतन्नैरपेक्ष्याच्च पूर्ववृत्तत्वानुपपत्तिः ॥
अयोध्येत – यन्नित्यम्, तदुपादेयमिति नैवं प्रतीतिः; किन्तु ‘नित्यं सुखं संभवति चेत्, तदुपादेयम् सति तस्मिन् अनित्यमनुपादेयम्’ इति – तत्र तावत् नित्यसुखसंभवज्ञानस्य ब्रह्मविचारोपयोगो नियफलो पादित्साद्वारेणेति वक्तव्यम् । शास्त्रान्तरेषु कर्मकाण्डे च नित्यफल संभावनाया निवारकाभावान्नित्यानित्यविवेकानन्तरं तेषामप्यारम्भणीयता स्यात् । तेषु हि नित्यं फलं प्रतीयते ॥ तदसदिति चेत्-तमप्रामाण्यात् अन्यपरत्वाद्वा भवेत्, तदुभयं कर्ममीमांसया विना न सिद्ध्यतीति तस्याः पूर्ववृत्तत्वमभ्युपेतव्यम् ॥ आद्यसूत्रं तज्ज्ञापनपरमिति चेन्न - तस्य स्वशास्त्रारम्भौपयिक विषयप्रयोजनपरत्वेन शास्त्रान्तराप्रामाप्रमादिप्रतिपादनपरत्वाभावात् ॥ स्वार्थोपयोगित्वात् तदप्रामाण्यादिकमभिप्रेतमिति चेत् तर्हि तस्य स्वोपजीव्यज्ञापनमपेक्षितमिति कर्मविचारस्य तर्कपादस्य च पूर्ववृतत्वमापद्येत । शास्त्रान्तराप्रामाण्यं हि कर्ममीमासाप्रथमपादावसेयम् । अन्यपरत्वं वाक्यान्तरविरोधादिभिः । नित्यफलाविवक्षाध्यवसायश्च तत्रत्यन्यायाधीनः । शास्त्रान्तरप्रमेयदौस्थ्यश्च तर्कपादे दर्शयिष्यते । किञ्च आद्यसूत्रादेव शास्त्रान्तरगत नित्यफलासत्त्वाचगम क्षेत् अन्योन्याश्रयः–ब्रह्मविचारे प्रवृत्तस्यान्यत्र नित्यफलासत्वावगमः, तदवगमाद्बह्मविचारे प्रवृत्तिरिति न चैत्रंसति धर्मजिज्ञासासूत्रे ऽप्यन्योन्याश्रयः शङ्कनीयः ; पित्रादिप्रेरणया कृतसाङ्गाध्ययनस्य पुरुषस्य प्रयोजनवदर्थापातप्रतीत्यैव प्रवृत्त्युपपत्तेः । येषां धर्मविचारो वैधः, तेषामेवान्योन्याश्रयः -वैधत्वज्ञानाविचार, विचारात् वैधत्वज्ञानमिति । । 9 किञ्च - अनित्यफल हेयताज्ञानस्य स्वर्गादिफलजिहासाद्वारेण ब्रह्मविचारोपयोगो वक्तव्य । स्वर्गादिफलस्यानित्यस्वं दुःखसंभिन्नत्वं च कथमवगम्यते ! शास्त्रान्तरेण चेत्, तत्रैव नित्यपुरुषार्थसिद्धे नेराकाङ्क्ष्येण ब्रह्मविचारप्रवृत्ययेागात् तत्पूर्ववृत्तत्वानुपपत्तिः ॥ यत् सुखम्, तदनित्यमिति स्त्रोत्प्रक्षिततर्कमात्रेश चेत्, तेनैव निरस्तनित्यपुरुषार्थसंभावनतया ब्रह्मविचारः प्रतिबध्येत ॥ दुःखनिवृत्तेरन्तराहित्यात् स्वाभाविक सुखस्यानादिभावत्वादन्तविरहोपपत्तेश्च न नित्यपुंरुषार्थासंभावनेति चेत्-न; ‘दुःखनिवृत्तिश्चेत् दुःखानुबन्धिनी दुःखनिवृत्तित्वात् संप्रतिपन्नवत् सुखं चेत्, सुखत्वादेव कृतकम्’ इत्येवंरूपकृत कत्प्रेक्षा संभवेन. केवलल केशरणानां नित्यपुरुषार्थ संभावनाया दुरुपपादत्वात् ॥ शास्त्रसिद्धनित्येतरविषयो व्याप्तिनिश्चय " वेदान्तश्रवणपूर्वको व्याप्तिनिश्चयः, तत्पूर्वकं वेदान्त श्रवणमित्यन्योन्याश्रयप्रसङ्गात् । अतो ब्रह्मविचारं प्रति नित्यानित्यगतधर्मविवेकोपयोगाय नित्यानित्यविभागे प्रत्यक्षाप्रवृत्तेः तर्कस्यातिप्रसक्तेः, शास्त्रान्तराणां ब्रह्मविचारनैराकाङ्क्यापादकत्वात्, तद्विरोधेनानुपयोगाच्च वेद एव प्रमाणीक तत्रापात प्रतीतेरु भयभाग साधाण्यात्, नित्यानित्यनिश्चयस्य मीमांसाद्वयफलखेनान्योन्याश्रयस्य दुस्तरंगाच नित्यानित्यगत हयोपादेयत्वज्ञानं नित्यानित्यवस्तुविवेक इत्ययुक्तम् ॥
ननु शास्त्रान्तरेषु नित्यफलभावनाय नित्यानित्यगतहयोपादेयत्वज्ञानं निवारकाभावान्नित्यानित्यविवेकादिमतः तत्रापि प्रवृत्तिप्रसङ्ग इति यदुक्तम् ; तन्न; शास्त्रान्तरनिवारकाष हायसूत्रस्य । ब्रह्मैव जिज्ञास्यं न प्रकृतिपुरुषाविति हि सूत्रार्थ इति – तदयुक्तम्; साधनचतुष्टय पूर्वा
एषां साधनत्वं च विनियोगावसेयम् । विनियोगश्च श्रुतिलिङ्गादिभ्यः । स च तार्तीयः ।
७३ वादिभिरस्यार्थस्यानङ्गीकृतत्वात् । तापत्रयामिहतत्वज्ञानपूर्ववृत्तत्ववादिनि ‘रयमर्थ उक्तः । न चायमर्थ उपपन्नः । तथाहि - न तावदयमर्थः सूत्रकृतोपदिश्यते, न वाज्ञाप्यते, किन्तूपपाद्यत इति वक्तव्यम्, न्यायनिबन्धनत्वात सूत्राणाम् । उपपत्तिश्च शास्त्रान्तरदौर्बल्यमेव वा, स्वशास्त्रप्राबल्यमेव वा, समुच्चितमुभयं वा । न प्रथमः ; स्वशास्त्रस्य± दौर्बल्ये ब्रह्मणोऽप्यजिज्ञास्यत्वात् । न द्वितीयः ; शास्त्रान्तरस्य प्राबल्ये ब्रह्मण एव जिज्ञास्यत्वासिद्धेः । तृतीये सूत्रवैयर्थ्यम्; पूर्वमीमांसायामेव चोदनासूत्रप्रभृतिभिस्तदुभयसिद्धेः । तत एव तस्याः पूर्ववृत्तत्वापत्तिश्च ; अवश्यापेक्षितत्वात् ॥ वेदप्रामाण्यमात्रे सिद्धेऽपि ब्रह्मणि प्रामाण्यं न तावता सिद्ध्यतीति चेत् तर्हि यैर्हेतुभिर्ब्रह्मणि प्रामाण्यासंभवशङ्का, ते परिहर्तव्याः स्युः । ते च सिद्धेव्युत्पत्यनुपपस्यादय इति तत्परिहारेण ब्रह्मणि वेदान्तप्रामाण्यसमर्थनपरत्वे अस्मदीय एव पक्षः परिगृहीतः स्यात् । अत एव दुःखत्रयाभिघातज्ञानस्य पूर्ववृत्तत्वमपि निरस्तम् । तथाहि - किमैहिक दु ः खज्ञानं पूर्ववृत्तम्, उत नारकदुःखज्ञानम्, उत स्वर्गादेरप्यल्पास्थिरतया तापत्रयान्तर्गतत्वज्ञानम् ? न प्रथमः; आयुर्वेदादिभिस्तन्निरसनोपायावगमात् वेदान्तविचारनैरपेक्ष्यात् । न द्वितीयः ; निरयदुःखहेतु भूतपापापनोदन करबतनियमविधायकशास्त्रबाहु ‘ल्याद्वेदान्तनैरपेक्ष्यात् । तृतीये तु कर्मविचारापेक्षा स्यादेव ; प्रथमत एवाध्ययनविधिवश्यस्य शास्त्रान्तरावगमात्र सर विधुरत्वात ; सत्यव्यवसरे स्वर्गद्यल्पास्थिरत्वज्ञापकैस्तैरेव शास्त्रैर्मुक्त्युपायस्यावगतत्वेन वेदान्तनरपेक्ष्यात्; वेदान्तविरुद्धार्थाभिधायिनां तेषामवगमस्य वेदान्तज्ञानपूर्ववृत्तत्वायोगात; आपातप्रतीतेरितिहासपुराणयोश्चाल्पास्थिरत्वानन्त स्थिरत्वविपर्ययप्रतीतिहेतुत्वाच्च । पूर्वं 4 व्याख्येयस्वभावात् क्रमनियम उक्तः ; व्याख्यानस्वभावादपि तत्सिद्धिरिदानीमुच्यते एषामिति । एषाम् शमादीनाम् । साधनत्वञ्च । चः समुच्चये । विनियोगावसेयम् । विनियोगः अङ्गत्वज्ञापनम् । ततः किमित्यत्राह विनियोगश्चेति । ततोपि किमित्यत्राह स च तातीय इति । तृतीयाध्यायोक्त इत्यर्थः । इदं प्रदर्शनार्थमुक्तम् ; कर्मवि चारोक्त कृत्स्रन्याय सापेक्षत्वा दुब्रह्मविचारस्य । एतानि हि कर्ममीमांसाध्यायानां प्रमेयाणि -प्रथमेऽध्याये प्रमाणलक्षणं वृत्तम् । द्वितीयेऽध्याये शास्त्रभेदः कर्मभेदो वा ; भेदहेतवश्व शब्दान्तराभ्याससङ्ख्यागुणप्रक्रियानामधेयानि । तृतीयेऽङ्गनिरूपणम् अङ्गत्वज्ञापकानि प्रमाणानि श्रुतिलिङ्ग वाक्यप्रकरणस्थानसमाख्यानानि । चतुर्थे त्यर्थपुरुषार्थमेदनिरूपणेन पुरुषार्थः क्रत्वर्थानां प्रयुक्तिनिरूपणम् । पञ्चमे क्रमः ; क्रमप्रमाणानि श्रुत्यर्थ पाठप्रवृत्ति मुख्य काण्डानि । षष्ठेऽधिकारिनिरूपणम् । सप्तमे सामान्यातिदेशो निरूपितः । अष्टमे विशेषातिदेशः । नवमे ऊहः । दशमे बाधः । एकादशद्वादशयोस्तन्त्रप्रसङ्गौ । यथोक्तम् – “धर्मधीमान मेदाङ्गप्रयुक्तिक्रम कर्तृनिः । सातिदेशविशेषोह बाधतन्त्रप्रसक्तिभिः” इति । एतन्न्याय सापेक्षत्वं सङ्कर्ष सापेक्षत्वञ्च ब्रह्मविचारे तत्र तत्र द्रष्टव्यम् । तस्मात् स च तातय इति प्रदर्शनार्थमुक्तम् । ; 1 वादिभिरयमिति । यादवप्रकाशैरिति विशेष्यम् । 2. स्वशास्त्रस्य दौर्बल्ये इति । प्रथमविकल्पे एवकारप्रयोगात् शास्त्रान्तरदौर्बल्यमात्रस्योपपत्तित्वमिष्टम्, न स्वशास्त्रप्राबल्यस्य । एवश्व स्वशास्त्रदौर्वल्येऽपि तस्योपपतित्वं वक्तव्यम् । तन्न घटत इति भावः । ॐ शास्त्रबाहुल्यात् बहुशास्त्रसत्त्वात् । 4. व्याख्येयेत्यादि । उपासनमेवोपायः, तदपेक्षितञ्च कर्मेति वेदद्वारा व्याख्येय कर्मोपासनस्वरूपरिशीलनेन वक्तव्यमुक्तम् । व्याख्यानभूत पूर्वोत्तरमीमांसागतिमनुरुध्याप्युच्यत इति भावप्रकाशिका । २०
७४ १-१-१. उद्गीथाद्युपासनस्याप्यत्रैव संगतत्वम् उद्गीथाद्युपासनानि कर्मसमृद्धयर्थान्यपि ब्रह्मज्ञानापेक्षाणीति इहैव चिन्तनीयानि । तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्वसंमता ॥ 1 अथ कर्मविचारापेक्षत्वे अभ्युच्चययुक्तिरुच्यते उद्गीथादीति । परेण प्रसङ्गात् सङ्गतिरुक्ता; अत्र तु साक्षात्सङ्गतिरुपपाद्यते । कर्मसमृद्ध्यर्थान्यपीति, “कर्मसमृद्धयर्थत्वे तत्प्रयोजनं तन्निर्वचनात् " इति वाक्यकारवचनं स्मारितम् । ब्रह्मदृष्टिरूपाणीति । अब्रह्मणि ब्रह्मत्वेन दृष्टिः ब्रह्मदृष्टिः । ब्रह्मदृष्टिरूपत्वात् ब्रह्मज्ञानसापेक्षाणीत्यर्थः । इतिर्हेतौ । इहैव चिन्तनीयानि न तु कर्मविचारे । तान्यपि कर्माणि । यत्समृद्ध्यर्थानि उद्गीथाद्युपासनानि तान्यपीत्यर्थः । अनभिसंहितफलानि - अनभिसंहितफलत्वात् ब्रह्मविद्योत्पादकानीत्यर्थः । इति र्हेतौ । तत्साद्गुण्यापादनानि । साद्गुण्यं प्रबलप्रतिबन्धके सत्यपि शीघ्रफलप्रदत्वम् ; तदापादनानि । ब्रह्मविद्यां शीघ्रं संपादयन्तीत्यर्थः । एतानि उद्गीथाद्युपासनानि अत इहैव सुतरां सङ्गतानि । प्रधानानुपयोगित्वेन सादृश्यादिना धीस्थत्वं प्रसङ्गात् सङ्गतिः । अन्यतरापेक्षया उभयापेक्षया वा सङ्गतिः साक्षात्सङ्गतिः । अत्र तुभयोरपेक्षितत्वं प्रतिपादितम् ; ब्रह्मदृष्टिरूपाणीति – उद्गीथाद्युपासनस्य ब्रह्मज्ञानापेक्षाऽभिहिता । ब्रह्मविद्योत्पादकानीति ब्रह्मज्ञानस्य उद्गीथाद्युपासनापेक्षाऽभिहिता । एतदभिप्रायेण सुतरामिहैवेत्युक्तम् । इहैवेति । उभयापेक्षायाः अत्रैव विद्यमानत्वात् सुतरां सङ्गतिरिव; न तु कर्मविचार इत्यर्थः ॥
ननु कथमुद्गीथादिविचारस्य ब्रह्मविचार एव सुतरां सङ्गतिः कर्मविचारेऽपि सुतरां सङ्गतिरस्ति, उभयापेक्षया सङ्गतिर्हि सुतरां सङ्गतिः; कर्माङ्गाश्रयत्वादुद्गीथादिधियां तद्विचारस्य कर्मापेक्षाऽस्ति, कर्मणामपि स्वसमृद्धयर्थोद्गीथाद्युपासनापेक्षाऽस्तीत्युभयापेक्षाया विद्यमानत्वात् ॥ उच्यते । कर्मसमृद्धयर्थोद्गीथाद्युपासनापेक्षा केवलकर्मणां विद्याङ्गकर्मणां च तुल्या 1 अतः कर्मसमृद्ध्यर्थत्वहेतुः साधारणः । कर्माङ्गाश्रयत्वं पूर्वभागविचारसङ्गतेरसाधारणंहेतुः । ब्रह्मज्ञान सापेक्षत्यमुत्तरभागविचारसङ्गतेरसाधारणहेतुः । एवं साधारणासाधारण हेतुद्वयवत्तासाम्येपि, ब्रह्मदृष्टिरूपोद्गीथाद्युपासनानां ब्रह्मज्ञानसापेक्षत्वात् तेन विना तच्चिन्तनमशक्य पूर्वभागविचारे । न हि कर्मविचारात् पूर्वं ब्रह्मविचार उपपद्यते ; प्रागुक्तसङ्गतिविशेषविशिष्टत्वात तयोः ! उत्तरभागे तु ब्रह्मज्ञानस्य सुलभत्वात् निर्वृत्तकर्मविचारस्योद्गीथाद्युपासनचिन्तनं कर्तुं शक्यम् । अत एव शक्यत्वादुद्गीथाद्युपासनानि उपनिषद्भागे विहितानि । अत एव ब्रह्ममीमांसायां निरूपितानि च । एवं वेदान्तभागविहितत्वब्रह्ममीमांसाविचारितत्व शक्यत्वरूप वैषम्यत्रय विशेषिताया उभयापेक्षाया उत्तरभाग एव विद्यमानत्वात् तन्निबन्धना सुतरां सङ्गतिस्तत्रैवेत्यभिप्रायेण, सुतरामिहैव सङ्गतानीत्युक्तम् । अयं चाभ्युच्चयहेतुः, यत् अप्रधानस्यार्थस्यापि साक्षात्सङ्गतत्वात् तस्याप्यवश्यापेक्षितः कर्मविचार इति प्रधान प्रतिपाद्यस्य नियमेनापेक्षितत्वरूपः प्रधानहेतुः पूर्वमेवोक्तः ॥ ततः किं प्रकृतानन्तर्यस्येत्यत्राह तेषां चेति । तेषाम् उद्गीथाद्युगसनानाम् । सर्वसंमता । तत्साक्षात्सङ्गतत्वे हि विगानम् । उद्गीथायुपासने चिन्त्ये सति तस्य कर्मज्ञानापेक्षा सर्वाविगीता । यत्तु अधीतवेदान्तस्य कर्माधिगमापेक्षा नास्तीत्युक्तम् ; तदयुक्तम् - वेदान्तेष्वपि उपायपरमुक्तिपरवाक्य-
यदप्याहुः - अशेषविशेषप्रत्यनीकं
(महापूर्वपक्षः) ७५ मात्राध्यायिनः पुरुषस्य ब्रह्मविचारेऽपि तृतीयचतुर्थाध्यायमात्र श्रवणप्रसङ्गात् ॥ तृतीयचतुर्थयोः प्रथमद्वितीयोक्तन्यायसापेक्षत्वमस्तीति चेत् -तर्हि कृत्स्नस्य ब्रह्मविचारस्य कर्मविचारन्याय सापेक्षत्वात् तस्यैव पूर्ववृत्तत्वम् ॥ जन्मान्तरसुकृतविशेषेण कस्यचिद् ब्रह्मविचारमात्रापेक्षेति चेत् — तस्य सुकृतविशेषेण तृतीयचतुर्थमात्रापेक्षा किं न स्यात् ? अथवा सुकृतातिशयात् कृत्स्नब्रह्मविचारनिरपेक्षता किं न स्यात् ? । किञ्च वेदान्तेषु उपायफलपरवाक्यमात्राध्ययनमशास्त्रीयमिति त्वयाऽपि वक्तव्यम् ; तत् वेदान्तमात्राध्ययनस्यापि तुल्यम् ; कृत्स्नस्त्राध्यायाध्ययनस्य विहितत्वात् । अतो विध्यतिलङ्घिनां यत् अपेक्षितम्, तदेव पूर्ववृत्तमित्यसङ्गतम् । कृत्स्नस्वाध्यायाध्यायिनोऽपि सुकृतवशात् काचित्कश्रवणापेक्षायां पूर्वमेव दत्तमुत्तरम् । “विरोधादप्रमाणत्वात्” इत्यादिग्रन्थ संगृहीतानि दूषणानि अत्रोच्यत इत्यादिना सिद्धान्तभाष्येण परिहृतानि । तथा हि — कर्मणामनित्यफलत्वेन विरोधः अनभिसंहितफलत्वात् परिहृतः । भेदवासनाजनकत्वेनैक्यज्ञान विरोधस्तु, पृथगात्मानमिति पृथक्त्वज्ञानस्य मोक्षोपायत्वश्रुत्या परिहृतः । अयं विरोधो वक्ष्यमाणवस्तुसामर्थ्यान्तर्भूतश्च; मोक्षस्य सकलभेददर्शन निवृत्तिरूपतायाः प्रपञ्च मिथ्यात्वोपपादन सापेक्षत्वात् । ऐक्यज्ञानस्योपायत्वेऽपि कर्मणामदृष्टद्वारेणोपयोगादविरोधः । अप्रमाणत्वम्, ‘क्रियाबानेष ब्रह्मविदां वरिष्ठः ’ इत्यादिसन्रहितविनियोजकप्रमाणप्रदर्शनात् परिहृतम् । विविदिषार्थचित्तशुद्धयुपयोगस्तु वेदनोत्पत्त्युपयुक्तमनोनैर्मल्यहेतुत्वोपपादनेन, विविदिषार्थत्वेऽपि तस्याहरहरुत्पत्यपेक्षोपपादनेन च प्रत्युक्तः । ज्ञानमात्रस्य हेतुत्वश्रवणं च साधनद्वित्वानभ्युपगमाद् दत्तोत्तरम् । सामर्थ्यं नाम मिथ्याभूतबन्धस्य ज्ञानैकनिवर्त्यत्वरूपं वस्तुसामर्थ्यम् । तत्तु प्रपश्चमिथ्यात्त्रदूषणेन प्रतिवक्ष्यते । शमाद्यङ्गकता म्नानकृतो विरोधश्च प्रवृत्तिरूपयज्ञादेर्निवृत्तिरूपशमादेश्च भिन्नविषयत्वेनाविरोधात् परिहृतः । शमादयो ह्यविहिताप्रतिषिद्धनिषिद्धकाम्यविषया इत्युक्तम् । वाक्यार्थज्ञानस्यैव मोक्षोपायत्वं प्रत्यक्षविरोध - शास्त्रविरोधाभ्यां निरस्तम् । तत्र निवर्त्यवासनायाः निवर्तकोत्पत्तिप्रतिबन्धकत्वाभावेन श्रवणादर्भेदवासनानिरासार्थमनपेक्षितस्वात् तद्वैयर्थ्य परिहारस्यानुपपन्नत्वात्, ‘श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका’ इत्येतदपि परास्तम् ॥ (इति लघुसिद्धान्तः ॥ ) साधनचतुष्टयस्य पूर्ववृत्तत्वे वस्तुसामर्थ्यं नाम हेतुरुक्तः । स पूर्वं ब्रह्मस्वरूपाच्छादिकेत्यादिना प्रतिज्ञातः । तदुपपादनदूषणयोर्बहुग्रन्थकार्यत्वात् तदुभयं पूर्वं न कृतम् । अथ तदुपपादनायोपक्रमते । पूर्वमुपायोपदेशपरवाक्यपर्यालोचनया वस्तुसामर्थ्यव्यतिरिक्तहेतव उपन्यस्ताः, निरस्ताश्च । विधित्सितं ज्ञानमिति ह्युक्तम् । वस्तुसामर्थ्यं तु सिद्धपरवाक्यसिद्धम् । वस्तुस्त्ररूपोपदेशपरैरिति हि वक्ष्यते । अतः स्वरूपपरवाक्यपर्यालोचनामुखेन तदुपपादयितुमारभते यदप्याहुरिति । अपिना उपपादयिष्यमाणस्यार्थस्य प्राधान्यं सूच्यते । आहुरिति ग्रन्थकार बहुत्वम् । अनेन अस्य ग्रन्थस्य तत्तत्प्रबन्धोक्तसकलार्थगर्भितश्वश्च दर्शितम् । सर्वे वेदान्ता आरभ्यन्त इति यदप्याहुः, तदनादरणीयमित्युपर्यन्वयः । प्रथनं ब्रह्मैकमेव सत्यमिति प्रतिजानीते अशेषेति । अशेषविशेषाः - वक्ष्यमाणज्ञात्रादयः, विजातीयसजातीयस्वगता वा । स्वगतेष्वप्यन्वयिनो व्यावृत्तिरूपाश्च विशेषाः अशेषशब्देन विवक्षिताः; तत्प्रत्यनीकम्-स्वज्ञानेन निवर्तकं शुक्तिरिव रजनस्येत्यर्थः । निर्विशेषत्वे
७४ १-१-१. उद्गीथाद्युपासनस्याप्यत्रैव संगतत्वम् । उद्गीथाद्युपासनानि कर्मसमृद्धधर्थान्यपि ब्रह्मज्ञानापेक्षाणीति इहैव चिन्तनीयानि । तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्वसंमता ॥
अथ कर्मविचार पेक्षत्वे अभ्युच्चययुक्तिरुच्यते उद्गीथादीति । परेण प्रसङ्गात् सङ्गतिरुक्ता; अत्र तु साक्षात्सङ्गतिरुपपाद्यते । कर्मसमृद्ध्यर्थान्यपीति, “कर्मसमृद्धयर्थत्वे तत्प्रयोजनं तन्निर्वचनात् " इति वाक्यकारवचनं स्मारितम् । ब्रह्मदृष्टिरूपाणीति । अब्रह्मणि ब्रह्मत्वेन दृष्टिः ब्रह्मदृष्टिः । ब्रह्मदृष्टिरूपत्वात् ब्रह्मज्ञानसापेक्षाणीत्यर्थः । इतिर्हेतौ । इहैव चिन्तनीयानि न तु कर्मविचारे । तान्यपि कर्माणि । यत्समृद्ध्यर्थानि उद्गीथाद्युपासनानि तान्यपीत्यर्थः । अनभिसंहितफलानि - अनभिसंहितफलत्वात् ब्रह्मविद्योत्पादकानीत्यर्थः । इति र्हेतौ । तत्साद्गुण्यापादनानि । साद्गुण्यं प्रबलप्रतिबन्धके सत्यपि शीघ्रफलप्रदत्वम् ; तदापादनानि । ब्रह्मविद्यां शीघ्रं संपादयन्तीत्यर्थः । एतानि उद्गीथाद्युपासनानि अत इहैव सुतरां सङ्गतानि । प्रधानानुपयोगित्वेन सादृश्यादिना धीस्थत्वं प्रसङ्गात् सङ्गतिः । अन्यतरापेक्षया उभयापेक्षया वा सङ्गतिः साक्षात्सङ्गतिः । अत्र तुभयोरपेक्षितस्त्वं प्रतिपादितम् ; ब्रह्मदृष्टिरूपाणीति – उद्गीथाद्युपासनस्य ब्रह्मज्ञानापेक्षाऽभिहिता । ब्रह्मविद्योत्पादकानीति ब्रह्मज्ञानस्य उद्गीथाद्युपासनापेक्षाऽभिहिता । एतदभिप्रायेण सुतरामिहैवेत्युक्तम् । इहैवेति । उभयापेक्षायाः अत्रैव विद्यमानस्यात् सुतरां सङ्गतिरिदैव; न तु कर्मविचार इत्यर्थः ॥
ननु कथमुद्द्रीयादिविचारस्य ब्रह्मविचार एव सुतरां सङ्गतिः कर्मविचारेऽपि सुतरां सङ्गतिरस्ति, उभयापेक्षया सङ्गतिर्हि सुतरां सङ्गतिः; कर्माङ्गाश्रयत्वादुद्गीथादिधियां तद्विचारस्य कर्मापेक्षाऽस्ति, कर्मणामपि स्वसमृद्धयर्थोद्गीथाद्युपासनापेक्षाऽस्तीत्यु मयापेक्षाया विद्यमानत्वात् ॥ उच्यते । कर्मसमृद्धयर्थोद्गीथाद्युपासनापेक्षा केवलकर्मणां विद्याङ्गकर्मणां च तुल्या । अतः कर्मसमृद्धयर्थत्वहेतुः साधारणः । कर्माङ्गाश्रयत्वं पूर्वभाग विचारसङ्गतेरसाधारणहेतुः ब्रह्मज्ञानसापेक्षत्त्रमुत्तरभागविचारसङ्गतेरसाधारणहेतुः । एवं साधारणासाधारणहेतुद्वयवत्तासाम्येपि ब्रह्मदृष्टिरूपोद्गीथाद्युपासनानां ब्रह्मज्ञानसापेक्षत्वात् तेन विना तश्चिन्तनमशक्य पूर्वभागविचारे । न हि कर्मविचारात् पूर्वं ब्रह्मविचार उपपद्यते ; प्रागुक्तसङ्गतिविशेषविशिष्टत्वात तयोः ! उत्तरभागे तु ब्रह्मज्ञानस्य सुलभत्त्रात् निर्वृत्तकर्मविचारस्योद्गीथाद्युपासन चिन्तनं कर्तुं शक्यम् । अत एव शक्यत्वादुद्गीथाद्युपासनानि उपनिषद्भागे विहितानि । अत एव ब्रह्ममीमांसायां निरूपितानि च । एवं वेदान्तभागविहितत्वब्रह्ममीमांसाविचारितम्ब शक्यत्वरूप वैषम्यत्रयविशेषिताया उभयापेक्षाया उत्तरभाग एव विद्यमानत्वात् तन्निबन्धना सुतरां सङ्गतिस्तत्रैत्रेत्यभिप्रायेण, सुतरामिदैव सङ्गतानीत्युक्तम् । अयं चाम्युच्चयहेतुः, यत् अप्रधानस्यार्थस्यापि साक्षात्सङ्गतत्वात् तस्याप्यवश्यापेक्षितः कर्मविचार इति प्रधान प्रतिपाद्यस्य नियमेनापेक्षित स्वरूपः प्रधानहेतुः पूर्वमेवोक्तः ॥ ततः किं प्रकृतानन्तर्यस्येत्यत्राह तेषां चेति । तेषाम् उद्गीथाद्युगसनानाम् । सर्वसंमता । तत्साक्षात्सङ्गतत्वे हि विगानम् । उद्गीथाद्युपासने चिन्त्ये सति तस्य कर्मज्ञानापेक्षा सर्वाविगीता । यत्तु अधीतवेदान्तस्य कर्माधिगमापेक्षा नास्तीत्युक्तम् ; तदयुक्तम् - वेदान्तेष्वपि उपायपर मुक्तिपरवाक्य-
(महापूर्वपक्षः) ७५ यदस्याहुः - अशेषविशेषप्रत्यनीकं Kan मात्राध्यायिनः पुरुषस्य ब्रह्मविचारेऽपि तृतीयचतुर्थाध्यायमात्र श्रवणप्रसङ्गात् ॥ तृतीयचतुर्थयोः प्रथमद्वितीयोक्तन्यायसापेक्षत्वमस्तीति चेत् -तर्हि कृत्स्नस्य ब्रह्मविचारस्य कर्मविचारन्यायसापेक्षत्वात् तस्यैव पूर्ववृत्तत्वम् ॥ जन्मान्तरसुकृतविशेषेण कस्यचिद् ब्रह्मविचारमात्रापेक्षेति चेत् — तस्य सुकृतविशेषेण तृतीयचतुर्थमात्रापेक्षा किं न स्यात् ? अथवा सुकृतातिशयात् कृत्स्नब्रह्मविचारनिरपेक्षता किं न स्यात् ? । किञ्च वेदान्तेषु उपायफलपरवाक्यमात्राध्ययनमशास्त्रीयमिति त्वयाऽपि वक्तव्यम् ; तत् वेदान्तमात्राध्ययनस्यापि तुल्यम् ; कृत्स्नस्त्राध्यायाध्ययनस्य विहितत्वात् । अतो विध्यतिलङ्घिनां यत् अपेक्षितम्, तदेव पूर्ववृत्तमित्यसङ्गतम् । कृत्स्नस्वाध्यायाध्यायिनोऽपि सुकृतवशात् काचित्कश्रवणापेक्षायां पूर्वमेव दत्तमुत्तरम् ।
1 “विरोधादप्रमाणत्वात्” इत्यादिग्रन्थ संगृहीतानि दूषणानि अत्रोच्यत इत्यादिना सिद्धान्तभाष्येण परिहृतानि । तथा हि — कर्मणामनिव्य फलत्वेन विरोधः अनभिसंहितफलत्वात् परिहृतः । मेदवासनाजनकत्वेनैक्यज्ञानविरोधस्तु, पृथगात्मानमिति पृथक्त्वज्ञानस्य मोक्षोपायत्वश्रुत्या परिहृतः । अयं विरोधो वक्ष्यमाणवस्तुसामर्थ्यान्तर्भूतश्च; मोक्षस्य सकलभेददर्शन निवृत्तिरूपतायाः प्रपश्च मिध्यात्वोपपादन सापेक्षत्वात् । ऐक्यज्ञानस्योपायत्वेऽपि कर्मणामदृष्टद्वारेणोपयोगादविरोधः । अप्रमाणत्वम्, ‘क्रियावानेष ब्रह्मविदां वरिष्ठः ’ इत्यादिसनूरहितविनियोजकप्रमाणप्रदर्शनात् परिहृतम् । विविदिषार्थचित्तशुद्धयुपयोगस्तु वेदनोत्पत्युपयुक्तमनोनैर्मल्यहेतुत्वोपपादनेन, विविदिषार्थत्वेऽपि तस्याहरहरुत्पत्यपेक्षोपपादनेन च प्रत्युक्तः । ज्ञानमात्रस्य हेतुत्वश्रवणं च साधनद्विस्वानभ्युपगमाद् दत्तोत्तरम् । सामर्थ्य नाम मिथ्याभूतबन्धस्य ज्ञानैकनिवर्त्यत्वरूपं वस्तुसामर्थ्यम् । तत्तु प्रपश्चमिध्यात्त्रदूषणेन प्रतिवक्ष्यते । शमाधङ्गकता नानकृतो विरोधश्च प्रवृत्तिरूपयज्ञादेर्निवृत्तिरूपशमादेश्च भिन्नविषयत्वेनाविरोधात् परिहृतः । शमादयो ह्यविहिताप्रतिषिद्धनिषिद्धकाम्यविषया इत्युक्तम् । वाक्यार्थज्ञानस्यैव मोक्षोपायत्वं प्रत्यक्षविरोधशास्त्रविरोधाभ्यां निरस्तम् । तत्र निवर्त्यवासनायाः निवर्तकोत्पत्तिप्रतिबन्धकत्वाभावेन श्रवणादेर्भेदवासनानिरासार्थमनपेक्षितत्वात् तद्वैयर्थ्यपरिहारस्यानुपपन्नत्वात्, ‘श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका’ इत्येतदपि परास्तम् ॥ (इति लघुसिद्धान्तः ॥ ) साधनचतुष्टयस्य पूर्ववृत्तत्वे वस्तुसामध्ये नाम हेतुरुक्तः । स पूर्वं ब्रह्मस्वरूपाच्छादिकेत्यादिना प्रतिज्ञातः । तदुपपादनदूषणयोर्बहुग्रन्थकार्यत्वात् तदुभयं पूर्वं न कृतम् । अथ तदुपपादनायोपक्रमते । पूर्वमुपायोपदेशपरवाक्यपर्यालोचनया वस्तुसामर्थ्यव्यतिरिक्तहेतव उपन्यस्ताः, निरस्ताश्च । विधित्सितं ज्ञानमिति ह्युक्तम् । वस्तुसामर्थ्यं तु सिद्धपरवाक्यसिद्धम् । वस्तुस्वरूपोपदेशपरैरिति हि वक्ष्यते । अनः स्वरूपपरवाक्यपर्यालोचनामुखेन तदुपपादयितुमारभते यदप्याहुरिति । अपिना उपपादयिष्यमाणस्यार्थस्य प्राधान्यं सूच्यते । आहुरिति ग्रन्थकार बहुत्वम् । अनेन अस्य ग्रन्थस्य तत्तत्प्रबन्धोक्तसकलार्थगर्मितत्वञ्च दर्शितम । सर्वे वेदान्ता आरभ्यन्त इति यदप्याहुः, तदनादरणीयमित्युपर्यन्वयः । प्रथनं ब्रह्मैकमेव सत्यमिति प्रतिजानीते अशेषेति । अशेषविशेषाःवक्ष्यमाणज्ञात्रादयः, विजातीयसजातीयस्वगता वा । स्वगतेष्वप्यन्वयिनो व्यावृत्तिरूपाश्च विशेषाः अशेषशब्देन विवक्षिताः; तत्प्रत्यनीकम्-स्वज्ञानेन निवर्तकं शुक्तिरिव रजनस्येत्यर्थः । निर्विशेषत्वे
७६ १-१-१. ब्रह्ममात्रपारमार्थ्ये श्रुतिप्रमाणम् चिन्मात्रं ब्रह्मैव परमार्थः, तदतिरेकि नानाविधज्ञातृज्ञेयतत्कृतज्ञानभेदादि सर्वं तस्मिन्नेव परिकल्पितं मिथ्याभूतम् ; “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम “, " अथ परा यया तदक्षरमधिगम्यते, यत्तददेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’, ‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘निष्कलं भावः शून्यता स्यादित्यत्राह चिन्मात्रमिति । चिच्छब्देन तुच्छत्यव्यावृत्तिः । स्वयंप्रकाशत्वं हि चित्वम् । मात्रचा ज्ञेयत्वव्यावृत्तिः । यद्वा प्रत्यनीकलरूपमपि मात्रचा व्यावर्त्यते । यद्वा मात्रचा वस्तुतः समस्तविशेषविरहो विवक्षितः । ब्रह्मैवेत्येवकारेण सगुणब्रह्मन्यावृत्तिः । परमार्थःतत्त्वावेदकप्रमाणविषयः । सगुणवाक्यानां न तत्परत्वम् ; फलविशेषार्थमुपासनेऽन्यपरत्यादिति भावः । ‘कथं ब्रह्मण एव सत्यत्वम्; अन्यदपि हि प्रतीयते’ इति शङ्कायाम् ब्रह्मण एव परमार्थत्वसिद्ध्ये, तद्यतिरिक्तस्य तज्ज्ञाननिवर्त्यत्वाय च विश्वस्य मिथ्यात्वं प्रतिजानीते तदिति । “अथात आदेशो नेति नेति” इत्यादौ प्रकृतैतावत्त्वमिति सूत्रविषये कृत्स्नस्य मिथ्यात्वेन ब्रह्मणोऽपि मिथ्यात्वं परैः पूर्वपक्षीकृत्य निरस्तमिति तदभिप्रायेणोक्तम् तदतिरेकीति । ‘नेह नानास्ति’ इत्यादिनिषेधवाक्यस्य ब्रह्मव्यतिरेकेऽपि निषेध्यनानात्वं सिद्ध्यतीति दर्शितम् । नानाविधेति । पूर्वमशेषविशेषशब्दोक्त विशेषविवरणार्थम्, ‘नेह नानास्ति’ इत्यादिवाक्यगतनानाशब्दविवरणार्थं च नानाविधशब्दवाच्यनेदो विवृतः ज्ञातृज्ञेयेति । तत्कृतज्ञानभेदः - ज्ञातृज्ञे यावच्छिन्नवृत्तिज्ञानभेदः । 1 अनेन वृत्तिस्फुरितचैतन्यभेदस्य स्वरूपप्रयुक्तताव्यावृत्तिः । भेदशब्देने के ककोटिषु अवान्तरभेदा विवचिताः । आदिशब्देन निरसनीयदुःखरूपजन्मजरामरणान्युच्यन्ते । सर्वमिति । वक्ष्यमाणश्रुतिगत सर्वशब्दस्यायमर्थ इति । तस्मिन्निति निरधिष्ठानभ्रमपक्षन्युदासः । एवकारेणाधिष्ठान बहुत्वनिषेधः । तथा सति हि प्रपश्ञ्चस्य तज्ज्ञाननिवर्त्यत्वसिद्धिः । यद्वा तस्मिन्नित्येकवचनेनाधिष्ठान कत्वसिद्धिः । नानाध्यासाः नानाधिष्ठान का दृष्टाः, तत् कथमेकाधिष्ठान कत्वमिति विरोधं स्वयंप्रकाशव स्तुनोऽधिष्ठानत्व विरोधं च स्फारयत्येवकारः । मिथ्याभूतम् मिध्याभाववत्; वक्ष्यमाणमिथ्यात्वलक्षणवदित्यर्थः । ब्रह्मग एव सत्यत्वे, व्यतिरिक्तमिथ्यात्वे च किं प्रमाणमित्यत्राह सदेवेति । सदेवेति विजातीयमेदो व्यावर्त्यते ; एकमेवेति सजातीयभेदः ; अद्वितीयमिति स्वगतभावरूपभेदः । षडिधतात्पर्यलिङ्गोपेत सद्विद्यागतत्वादिदं वाक्यं प्रथममुपात्तम । अथैवकारफलितनिषेत्रकण्ठोक्तिमत् परविद्या वाक्यमुपादत्ते अथेति । इदश्च कारणत्वशङ्कितदोषव्युदासोपक्रमक कारणवाक्यम् । भूतयोनिमित्युक्त्या अनत्तरं तस्यैव प्रपञ्चनात् । अदेश्यमग्राह्यम्प्रत्यक्षागोचरोऽनुमानागोचरः; अथवा चक्षुरगोचर इन्द्रियान्तरागोचरः । अगोत्रम् - अनामकम । अवर्णम्-अनैल्यादिकम् । अचक्षुः श्रोत्रमपाणिपादम् - ज्ञानकर्मेन्द्रियरहितम् । नित्यं विभुम् - कालदेशाभ्यामपरिच्छिन्नम् । सर्वगतम् - सर्वेण जगताऽधिष्ठानतया गतम् - आश्रितम ; वस्तुपरिच्छेदरहितमित्यर्थः । सुसूक्ष्मम् । अश्यत्वं न तुच्छत्वातिदूरत्वादिना, किन्तु सुसूक्ष्मत्वादित्यभिप्रायः । वाक्यभेदादनेकुयत्तच्छदान्त्रयोपपत्तिः । अथ शोधकवाक्यमुपादत्ते सत्यमिति । अनृतजढपरिच्छिन्नञ्यावृत्तनिर्विशेषवस्तुपरमिदं वाक्यम., कारणवाक्यैकार्थ्यात् शोधकवाक्यान्तरैकार्थ्यात् सामानाधिकरण्यान्यथानुपपत्या चेति वक्ष्यते । निष्कलम् । कला अवयवाः; निरवयवमित्यर्थः । तत्र लिङ्गं निष्क्रियध्वम् । शान्तम्ऊर्मिषट्कर हिनम् ; अशनायापिपासे शोकमोहौ जरामृत्यू च ऊर्मयः । निरवद्यं
७७ ‘निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’, ‘यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्’, ‘न दृष्टेर्द्रष्टारं पश्ये ःन मतेर्मन्तारं मन्वीथाः’, ‘आनन्दो ब्रह्म’, ‘इदं सर्व यदयमात्मा’, ‘नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’, ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति — यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् तत्केन कं विजानीयात्’, ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’, ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति’ ‘न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि’, ‘मायामात्रं तु कात्स्न्र्त्स्न्येनानभिव्यक्तस्वरूपत्वान् ‘प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम, निरञ्जनम् - कर्मसंबन्ध-तत्फलरहितम् । अनेन सत्यज्ञानादिवाक्यगर्भितव्यावृतिः स्फुटी (स्पष्टीकृता । अथ चिन्मात्र शब्दाभिप्रेतां ज्ञेयत्वव्यावृतिमाह यस्येति । अमतमविज्ञातमिति श्रवणमननादिरूपज्ञानाविषयत्वोक्तिः अथ ज्ञातृत्वनिषेधपर वाक्यमाह न दृष्टेरिति । अत्रापि पूर्वोक्तज्ञानावस्थाभेदो विवक्षितः । अस्य पुरुषार्थत्वाय असुखाद्व्यावृत्तिरुच्यते आनन्दो ब्रह्मेति । आनन्दशब्दोऽसुखाद्यावृत्तिमात्रपरः । अत एव हि आनन्दीत्यनुक्तिः । इत्थं ब्रह्मणो निर्विशेषचिन्मात्रत्वे श्रुतिवाक्यजातमुपन्यस्तम् ; अथ व्यतिरिक्तमिथ्यात् प्रमाणमुपन्यस्यते । तत्र प्रथमं मिथ्याभूतस्य जगतो ब्रह्मण्यधिष्ठानेऽध्यस्तत्वं दर्शयति इदं सर्वं यदयमात्मेति सामानाधिकरण्येन । अधिष्ठानेनाध्यस्तसामानाधिकरण्यं हि बाधार्थं दृष्टम्, यथा रज्जुः सर्प इति । पूर्वं सर्वं तस्मिन्नेवेति प्रतिज्ञातं ब्रह्मणः सर्वाभ्यासाधिष्ठानत्वं चानेन वाक्येन दर्शितम् । व्यतिरिक्तनिषेधकण्ठोक्तिं दर्शयति नेह नानास्ति किञ्चनेति । नाना पश्यन् अत्यन्ताज्ञ इति दर्शयति मृत्योरिति । अत्र मृत्युः अविद्या । “तमसो वा एष तमः प्रविशति” इतिवत् । इवशब्देन नानात्वस्यापारमार्थ्यं दर्शितम् । मिथ्याभूतं चेत्, कदाचिन्निवृत्तिः स्यादित्यत्राह यत्र हीति । यत्र यदा द्वैतमिव भवति । इवशब्दः पूर्ववत् । तत् तदा इतर इतरम् इतरेण पश्यतीत्यर्थः । केनेति वक्ष्यमाणत्वात् इतरेणेत्यध्याहारः । यत्र विति । यत्र यदा अस्य सर्वमात्मैवाभूत्, तत्-तदा केन कं पश्येत् ? क इत्यध्याहार्यम् ; इतर इत्युक्तत्वात् । पश्येत् विजानीयादिति ज्ञानपर्वभेदोक्तिः । इदं कृत्स्नमिथ्यात्वं दृष्टान्तेनोपपादयन्तीं श्रुतिमुदाहरति वाचेति । विकारः घटादिसंस्थानम्, नामधेयं च वाचारम्भणं वागालम्बनम् - व्यावहारिकमित्यर्थः । तस्मान्मृत्तिकेत्येव सत्यम् । ब्रह्मणि नानात्वं पश्यतः पूर्वोक्तमृत्युशब्दाभिहिताज्ञानकार्यं भयञ्च दर्शयति यदा हीति । उदरम् । उ अवधारणे; “तदेवर्तं तदु सत्यमाहुम्तदेव ब्रह्म परमं कवीनाम्” इतिवत् । दरम्-अल्पम् । यद्वा -उत् अरम् । उदित्यस्य भवतीत्यनेनान्वयः; “व्यत्रहिताश्च” इति सूत्रात् । अरम्–शीघ्रम् । यदा ह्येवेयादेः पश्चादुपादानं सिद्धान्ते परिहारसौकर्यार्थम् । तच्च पूर्वोक्तवाक्यानामेकवाक्यन्यायपरिहार्यत्वात् । ब्रह्मणो निर्विशेषचिन्मात्रत्वे व्यतिरिक्तमिथ्यात्त्रे च श्रुतिर्दर्शिता ; तत्र निर्विशेषत्ये सूत्रं प्रदश्र्यते न स्थानत इति । उभयलिङ्गं साकारत्वं साकारनिराकारत्वश्च सर्वत्र स्थितस्यापि ब्रह्मणो नास्ति ; निराकारमित्यर्थः । अन्यमिध्यात्वे सूत्रमाह मायेति । स्वानमर्थजानं कात्स्न्र्त्स्न्येन मायामात्रम् ; कुत इति चेत, अनभिव्यक्तस्वरूपत्वात् दुर्निरूपत्वात्; बांधितत्वादित्यर्थः । स्वप्नार्थमिथ्यात्वं जगन्मिथ्यात्वे दृष्टान्ततया दर्शितम् । अस्मिन्नर्थद्वये उपबृंहणवचनानि दर्शयति प्रत्यस्तमितेति । प्रत्यस्तमितभेदम्–सजातीयविजातीयभेदरहितम् । सत्तामात्रम् – स्वगतभेदरहितम् । अत एव वचसामगोचरम् । तर्हि तुच्छत्वं स्यात् ;
७८ १-१-१. अद्वैते पुराणादिप्रमाणम् ‘ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्’, ‘परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते ।’, ‘यदेतद्द्द्दश्यते मूर्तमेतजज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रपमयोगिनः ॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रपं परमेश्वर’, ‘तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थो हि द्वैतिनोऽतथ्यदर्शितः ॥’, ‘यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम । तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥’, ‘वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः ॥’, ‘सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । . इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ॥ ’ ‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’, ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’, ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’, ‘न तदस्ति विना यत् स्यान्मया भूतं चराचरम इत्यादिभिर्वस्तुस्वरूपोपदेशपरैः शास्त्रैः - निर्विशेषचिन्मात्रं ब्रह्मैव सत्यम्, अन्यत् सर्वं मिथ्या - इत्यभिधानात् ॥ न सत्तेत्यत्राह आत्मसंवेद्यमिति । स्वयंप्रकाशमित्यर्थः । ब्रह्मसंज्ञितमिति । ब्रह्मेति संज्ञामात्रमेव ; न तु बृहत्वादिगुणयोग इति भावः । निर्विशेषं चेत्, कथं जगदवभास इत्याकाङ्क्षायामुपादत्ते ज्ञानस्वरूपमिति । प्रपश्चमिध्यात्वमनेन श्लोकेनोच्यते । अत्यन्तनिर्मलम् — सकलविशेषरहितम् । अर्थस्वरूपेण - जडस्वरू- •पॆण । अर्थनानात्वस्य भ्रान्तिसिद्धत्वादेक एव परमार्थ इति दर्शयति परमार्थस्त्वमिति । एतद्विवृणोति श्लोकद्वयेन यदेतदित्यादिना । भ्रान्तिश्चेत्, कस्यचिन्निवर्तेतेत्याकाङ्क्षा (व्यपेक्षा) यां केषाश्चित् तन्निवृत्तिं दर्शयति ये तु ज्ञानविद इति । ज्ञानसत्यत्वं जडमिथ्यात्वञ्चोक्तम् ; अथ ज्ञानाकाराणामात्मनामैक्योक्तिं दर्शयति तस्येति । एकमयम् — एकम् । आत्मपर निर्देशकृतभेदशङ्कामपि व्युदस्यति यद्यन्योस्तीति । अत्र दृष्टान्तमाह वेणुरन्ध्रेति अस्योपपादितस्यार्थस्योपदेशं दर्शयति सोऽहमिनि । यथोपदिष्टमकरोदित्याह तत्याजेति । अथात्मनां ब्रह्मणैक्योकिं दर्शयति विभेदजनक इति । अथ भगवद्गीतायां सर्वात्मना परस्परं ब्रह्मणा च सहैक्योक्तिमुदाहरति अहमात्मेति । सर्वभूतशब्देन शरीराण्युच्यन्ते । एतत् स्फुटयति क्षेत्रज्ञञ्चेति । सर्वक्षेत्रेष्वित्यनेन मृतशब्दस्य शरीरपरत्वं स्फुटीकृतम् । तत्रैव व्यतिरिक्त मिथ्यात्वोक्तिं दर्शयति न तदस्तीति । वस्तुस्वरूपोपदेशपरैः; न तूपायपरैः ; अनन्यपरैरिति भावः । निर्विशेषचिन्मात्रमिति । पूर्ववदर्थः । अभिधानादित्यस्य अशेषेत्यादिपूर्वप्रतिज्ञावाक्येन सहान्वयः ।
ननु किम् अन्यत्र सतोऽन्यत्र ख्यातत्त्रं मिध्यात्वम्, उतात्यन्तासत्वम् ? पूर्वस्मिन् कल्पे कचित् पारमार्थ्यमभ्युपगतं स्यात् । द्वितीये तु निवर्त्यमेव नास्तीति शास्त्रत्रैयर्थ्यम् । अत्यन्तासस्त्रं चानुपपन्नम् ; ख्यातेः । स्वयंप्रकाशस्य वस्तुनो भ्रमाधिष्ठानत्वं नोपपद्यते । स्वयाथात्म्याप्रकाशमूलो ह्यध्यासः । पराधीनप्रकाशस्य जडस्यैव तत्सम्भवः । अतः प्राक् प्रतिज्ञातं प्रपञ्चस्य मिथ्यास्वं ब्रह्मणो भ्रमाधिष्ठानत्वं चायुक्तमित्यस्मिन् चौधद्वये 1 तमेवेत्यस्य विष्णुं प्रणम्य कथयामीत्युपर्यन्वयः ।
मिथ्यात्वं नाम - प्रतीयमानत्व पूर्व कयथावस्थितवस्तुज्ञाननिवर्त्यत्वम, । ७९ यथा-रज्ज्वाद्यधिष्ठान- प्रथमं परिहर्तुं मिथ्यात्वलक्षणमाह मिथ्यात्वं नामेति । निवर्त्यत्वमित्युक्ते मुद्गरादिनिवर्त्यघटादावतिव्याप्तिः तत्परिहाराय ज्ञानशब्दः । ताबताऽपि शक्तिमदीश्वरादिसङ्कल्परूपज्ञाननिवर्ये वस्तुन्यतिव्याप्तिः । साऽपि ļ यथावस्थितवरतुज्ञानमात्रनिवर्त्यत्वस्य विवक्षितत्वात् परिहृता भवति । प्रबलभ्रान्तिज्ञान निवर्त्य सत्यरजतादिष्वतिव्याप्तिपरिहाराय यथावस्थितशब्दः । यथावस्थितज्ञाननिवर्त्यत्वमित्युक्ते समानाधिकरणधीर्जायेत ; तदा भ्रान्तिज्ञाननिवत्यै व्यभिचारस्तदवस्थः ; तत्र ज्ञानस्वरूपं हि यथावस्थितम् ; । विषयस्यैव ह्ययथार्थत्वम् ; अतो यथावस्थितं ज्ञानमिति सामानाधिकरण्यशङ्काव्यावृत्त्यर्थं यथावस्थितवस्तुज्ञाननिवत्यैस्वमित्युक्तम् । ज्ञानप्रागभावे व्यभिचार इति तद्वद्युदासार्थं प्रतीयमानत्व पूर्वेकपदम् ॥ ज्ञानप्रागभावोऽपि कदाचित् तीयमानयपूर्वको निवर्त्यत इति चेन्न - नियमस्य विवक्षितत्वात् । यथा ‘सिद्धे शब्दार्थसंबन्धे’ इत्यत्र सिद्ध एवेत्यवधारणस्य विवक्षितत्वान्नित्यत्वसिद्धिः, यथा ‘अबूमक्षः, वायुभक्षः’ इत्यादौ अप एव भक्षयतीत्यवधारणसिद्धिः - तद्वत् !! भूदलनज्ञाननिवृत्तस्य रज्जुसर्पस्य यथावस्थितवस्तुज्ञाननिवर्त्यत्वाभावादव्याप्तिरिति चेत्-न; तस्यापि यथावस्थित वस्तुज्ञानेन निवर्तयितुं योग्यत्वात् । अत एव हि निवर्त्यत्वमित्युक्तम, न तु निवृत्तत्वमिति । न च सर्पभ्रमजनिते रज्जुधीनि परमार्थभूते भयेऽतिव्याप्तिरिति वाच्यम्, - मयस्य क्षणिकतया स्वयमेव निवृत्तस्य रज्जुज्ञाननिवर्त्यस्याभावात् । रज्जुज्ञानं ह्युत्तरभयोत्पत्ति प्रतिबध्नाति । अतः प्रतीयमानस्य नियमपूर्वक - यथावस्थितवस्तुगोचरज्ञानमात्रनिवर्तनीयत्वं मिथ्यात्वमित्यर्थः । 1 सत्यरजतेति ।
ननु भ्रान्तिज्ञानेन सत्यरजतस्य निवृत्तिः कथम् । अन्यथा ब्रह्मणोऽपि नास्तीति भ्रान्तिनिवर्त्यत्वात् मिथ्यात्वापत्तेरिति चेत् —न; वास्तवस्य निवर्त्यत्वस्याभावेऽपि तत्सत्त्वाभिमानेनाऽऽशङ्कायां निवर्तकज्ञानस्य यथावस्थितवस्तुविषयकत्वाभावात् आभिमानिकमेव निवर्त्यत्वं तत्र, न तु वास्तवमिति ज्ञापन एव तात्पर्यात् । रज्जुसर्पस्य भूदलनभ्रान्त्याऽपि निवर्त्यत्वात् निवर्तकज्ञानस्य यथावस्थितवस्तुविषयकत्वनियमाभावेऽपि, अन्ततो यथावस्थितवस्त्वेवानिवर्त्य भवति, अन्यत् सर्वं निवर्त्यमिति परमार्थाधिष्ठानसद्भावस्य स्वेष्टस्य ज्ञापनं यथावस्थितपद कृत्यम् । अन्यथा वस्तुज्ञाननिवर्त्यनिवर्त्यत्वे, निवर्त्यनिवृत्तौ पूर्वनिवृत्तपुनरुन्मज्जनस्यापि शंकया मिध्यात्वस्थैर्यविरहात् । एतेन - निवर्त्यत्वे वास्तवत्वमेव विशेषणं निवेश्यताम् ; किमिति वस्तुनि यथावस्थितत्वम् । अथवा यथावस्थितत्वस्य निवेश्यत्वे अयथावस्थितत्वं मिध्यात्वमित्येवालम् । किं नाम च यथावस्थितत्वम् । यदि अबाधितत्वम्, तर्हि बाधितत्वमित्येव विशेष्यदलं पर्याप्तमितिशंका निरस्ता ।
ननु संकल्प निवर्त्यवस्तुवारणार्थमेव यथावस्थितपदम् । संकल्पो हि इदं मा भूदिति भविष्यद्भावांशविषयकतया निवर्तकः ; न तु यर्थास्थितवस्तुमात्रविषयकतया । स्थितवस्तुविषयकताप्रयुक्तं च निवर्त्यत्वमत्र विवक्षितमिति चेन्न ; - एवमपि वस्तुपदेनैव तावल्लाभात् यथावस्थितपदस्यानावश्यकत्वात् । यथापदप्रयोजनाभावाच्च असतः शशविषाणादेः नास्तीति निषेधविषयत्वरूपनिवर्त्यत्वसत्त्वेऽपि तद्विलक्षणनाशतुल्य - निवृत्तिरूपधर्माश्रयत्वाभावात् तत एव तद्वारणेऽपि प्रतीयमानत्वदलकृत्यं प्रागुक्तं प्राह्यम् । रज्जुज्ञाननिवर्त्यत्वस्य रज्जुसर्प इवं रज्ज्वज्ञानेऽपि सत्त्वात् तन्मिथ्यात्ववारणायापि प्रतीयमानत्वपूर्वति । तस्य च न नियमेन प्रतीयमानत्वम् । एवं प्रतीयमानताप्रयुक्तनिवर्त्यताविवक्षणादपि । निषेधज्ञाने प्रतियोगिज्ञानस्येव भ्रान्तिविषयतायाः अपरमार्थीयनिवृत्तिंप्रयोजकत्वमिष्यते, त्वज्ञानादिगत प्रतीयमानतायाः । अज्ञानाभाने तन्निवृत्तिर्न भवतीत्यस्य दुर्वचत्वात् । अत एव पूर्वकेत्युक्तमिति । तद्वारणम
न ८० १-१-१. जगन्मिथ्यात्वसाधकदोषसद्भावः सर्पादेः । दोषवशाद्धि तत्र तत्कल्पनम् । एवं चिन्मात्रवपुषि परे ब्रह्मणि दोषपरिकल्पितमिदं देव तिर्यङ्मनुष्यस्थावरादिभेदं सर्वं जगत् यथावस्थितब्रह्मस्वरूपावबोधबाध्यं मिथ्यारूपम् । दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्वचनीया अनाद्यविद्या । अनेन लक्षणेन सदसद्वैलक्षण्यं फलितम् । तत्र प्रतीयमानत्वपूर्वकेति असद्व्यावृत्तिः; शेषेण सद्व्यावृत्तिः । अस्य मिथ्यात्वलक्षणस्य संप्रतिपन्न मिथ्याभूतेष्वनुगतत्वं दर्शयति यथेति अथोक्तलक्षणस्य पक्षेऽतिदेशे कर्तुमुचितेऽपि स्वप्रकाशे वस्तुन्यध्यासानुपपत्तिरूपं द्वितीयं चोद्यं परिहर्तुमाह दोषवशाद्धि तत्र तत्कल्पनमिति । ‘अजडत्ववत् जडत्वमपि नाध्यासप्रयोजकम ; जडेऽपि दोषाभावे सति अध्यासादर्शनात् । अतो दोष एव हि सर्वत्र कल्पकः । कल्पने दोषाधीने, स्वतो वा परतो वा प्रकाशो भ्रमाधिष्ठानत्योपयोगी ; पुरोवर्तिनि भासमाने हि रजतभ्रमः’ इति दाष्टन्तिके परिहर्तुं दृष्टान्ते कल्पनस्य दोषाधीनत्वमुक्तम् । इत्थं प्रतीयमानत्वपूर्वकयथावस्थित वस्तुज्ञाननिवर्त्यत्वं मिथ्यात्वम्, मिध्याभूतार्थकल्पनश्च दोषवशादिति दृष्टान्ते शिक्षितमर्थद्वयं दाष्टन्तिकेऽतिदिशन् शङ्काद्वयश्वार्थान्निराकरोति एवमिति । अत्यन्तवैसादृश्यरहितकतिपयाध्यासः एकाधिष्ठाने दृष्टः; यथा सर्पभूदलनाम्बुधाराद्यध्यासो रज्जुमात्रे; कथमेकस्मिन्नधिष्ठाने युगपन्मिथोत्यन्तविसदृशानन्तप्रपञ्चाध्यास इत्येका । “यः सर्वज्ञः” इत्यादिषु सर्वज्ञतादिगुणकत्वेन प्रतीते ब्रह्मणि कथं वाऽध्यास इति द्वितीया । चिन्मात्रवपुषीत्यनेन पूर्वोक्तां स्वयंप्रकाशत्वकृतामध्यासानुपपत्ति स्फोस्यति । परे ब्रह्मणीति शङ्काद्वयं परिहृतं भवति; विलक्षणाधिष्ठानत्वात् कृत्स्नाभ्यास उपपन्न इति । बैलक्षण्यं च सर्वसाधारणसन्मात्ररूपत्वम् । सर्वज्ञत्वादिगुणा अपरे ब्रह्मणि; परे ब्रह्मणि तु चिन्मात्रतया सर्वज्ञत्वादिगुणानन्वयादध्यास उपपन्न इति चाभिप्रायः । इदमिति प्रतीयमानताकारपरामर्शिना पदेन, यथावस्थितब्रह्मस्वरूपावबोधबाध्यमिति पदेन च पूर्वोक्तमिथ्यात्वलक्षणमनूदितं भवति । दोषपरिकल्पितमित्यनेन दोषत्रशादित्यादिनोक्तमतिदिष्टम् । विविध कृत्स्नाध्यासं दर्शयति देवेति मिथ्यारूपम् । मिथ्यात्वलक्षणोपेतत्वात् रज्जुसर्पवन्मिथ्येत्युक्तं भवति ॥ 1 दोषः कः ? स किं परमार्थः, उतापरमार्थः ! परमार्थत्वे ज्ञाननिवर्त्यत्वं न स्यात् । अपरमार्थत्वे प्रपञ्चवत् कल्पकान्तरापेक्षयाऽ(क्षायाम) नवस्था । स किं ब्रह्मण्यतिरोहिते कल्पयति, उत तिरोहिते ? अतिरोहिते चेत्, अनुपपन्नम् ; रज्जुत्वे प्रकाशमान इवाध्यासोदयविरोधात् । अविरोधे, पश्चादप्यनिवृत्तिः (त्तेः) । तिरोहिते चेत्, तिरोधानं किं स्वतः, किं वा परतः ? यदि स्वतः, अनिवर्त्यत्वम् ; निवृत्तौ स्वरूपोच्छेदो वा । यदि परतः, तत् परं वाच्यम् । किञ्च नानाध्यासानां नानादोषमूलत्वं दृष्टम्, अतोऽनेकदोषा अभ्युपगन्तव्या इर्तामाः शङ्काः परिहर्तुमाह दोषश्चेति । चः शङ्कानिवर्तकः । को दोष इत्यस्य प्रतिवचनम् अविद्येति । तस्याः पारमार्थ्यापारमार्थ्यविकल्पे सदसदनिर्वचनीयेति अपारमार्थ्याभ्युपगमः । अनवस्थापरिहारोऽनादीति । तिरोहितातिरोहितविकल्पस्य प्रतिवचनं स्वरूपतिरोधानशब्देन । तच्च किं स्वतः परत इत्यत्र परत इत्यङ्गीकृतम् ; तिरोध नस्य हेतुनिर्देशात् । नानाध्यासस्यैकदोषमूलत्वमुक्तं विविधेत्यादिना । विक्षेपःअध्यासः । आच्छादिकाऽविद्या, विक्षेपिकाऽविद्येति अविद्याया एकस्या एवावस्थाद्वयं तदभिमतं तिरोधानविक्षेपहतुत्ववचनात्
९१ विशेषणभेदेन पदानामर्थभेदोऽवर्जनीयः । ततश्चैकार्थत्वं न सिद्ध्यति । एवं तर्हि सर्वपदानां पर्यायता स्यात, अविशिष्टार्थाभिधायित्वात् ॥ एकार्थाभिधायित्वेऽपि अपर्यायत्वमवहितमनाः शृणु - एकत्वतात्पर्यनिश्चयादेकस्यैवार्थस्य तत्तत्पदार्थविरोधिप्रत्यनीकत्वपरत्वेन सर्वपदानामर्थवत्त्वमेकार्थत्वमपर्यायता च । एतदुक्तं भवतिलक्षणतः प्रतिपत्तव्यं ब्रह्म सकलेतरपदार्थविरोधिरूपम् । तद्विरोधिरूपं सर्वमनेन पदत्रयेण फलतो व्युदस्यते । प्रधानार्थान्वयादर्थैकत्वं व्यधिकरणवाक्य एव; समानाधिकरणवाक्ये तु पदानामेवैकार्थपर्यव मायित्वमित्युक्त भवति ॥ ततः किमित्यपेक्षायाम्, समानाधिकरणपदानां विशेषणमात्रपरस्ये विशिष्टपरत्वे च दूषणमेकग्रन्थेनाह विशिष्टेति । विशिष्टेत्यादिना कृत्स्नवाक्येन विशिष्टपक्षे दूषणमुक्तम् । विशेषण भेदेन विशेषणानामन्योन्यतो विशेष्याच्च भेदेन । विशेषणैर्विशेष्येण चानेकार्थत्वं स्यादित्यर्थः । किञ्च अर्थशब्दो विशेष्यपरतया च विवक्षितः । तेन विशेषणभेदेन विशेष्यभेदः स्यादिति दूषणान्तरमुक्तं भवति । किञ्च विशेषणभेदेन विशेष्यभेद इत्युक्ते व्यतिरेकवशात् विशेष्याभेदे विशेषणाभेदश्च स्यादित्युक्तं भवति । विशिष्टैक्यप्रतिपादिका समानविभक्तिर्हि अविशेषेण विशेष्यैक्यवत् विशेषणैक्यमपि प्रतिपादयतीत्यभिप्रायः । एवं विशिष्टपरले युगपदभिधानपक्षे दूषणमुक्तं भवति । उद्देश्योपादेयविभागहानिप्रसङ्गश्चार्थसिद्धः । क्रमेणाभिधाने अन्योन्यसमवायः आनन्दमयाधिकरणे वक्ष्यते । विशेषणभेदेनार्थभेद इत्येतावता अंशेन विशेषणमात्रपरत्वे च दूषणमुक्तं भवति ; विशेषणानामनेकत्वादेकार्थत्वहानिरित्यर्थः । एवं पदानां प्रतिपाद्यभेदः प्रसञ्जितः । ततः किमित्यत्राह -ततचैकार्थत्वं न सिद्ध्यतीति । सामानाधिकरण्यलक्षणासिद्धिरित्यर्थः । अतो वस्तुमात्रपरमिति परिशेषसिद्धम् ; तदनुवादेन चोदयति एवमिति । एवं तर्हि - वस्तुमात्रपरत्वे । कुत इत्यत्राह अविशिष्टार्थाभिधायित्वादिति । अनेन ततश्चैकार्थत्वं न सिद्ध्यतीत्यत्र फलितोऽर्यो विवृतः । अत्र पर्यायस्वचोद्ये प्रवृत्तिनिमित्तभेदाभावात् सामानाधिकरण्यलक्षणहानिः, एकतरपदवैयर्थ्यं चेति चोद्यद्वयमभिप्रेतम् ; परिहरिष्यमाणत्वात् । उक्तं चोद्यत्रयं परिहर्तुमाह एकार्थेति । अवहितमनाः शृणु । प्रतिवचनस्यानेकवाक्यसाध्यत्वात् मध्ये न चोदनीयम् ; किन्त्वर्थस्य गहनत्वादवधातव्यमिति भावः ः अनुपपत्तित्रयं परिहरति एकत्वेत्यादिना । एकवतात्पर्यनिश्चयः समानविभक्त्या । अर्थवत्त्वम् — प्रयोजनवस्वम् । व्यावर्त्यभेदकृतव्यावृत्तिभेदादपर्यायत्वम्; व्यावृत्तिरूपप्रवृत्तिनिमित्तभेदलाभात् सामानाधिकरण्यसिद्धिः; व्यावर्त्यबहुस्त्रात् पदानां तत्तद्यावृत्तिरूपप्रयोजनवत्त्वं चेत्यर्थः ॥ 1
ननु तत्वमस्यादिवाक्यवत् अन्वयमुखेनोपलक्षणं स्यात् ; किमर्था व्यावृत्तिः । व्यावृत्तिबहुत्वादनेकार्थत्वमापतितम् । व्यावर्त्याकारानन्त्यात् कतिपयपदैर्न तव्यावृत्तिः शक्यते कर्तुम् । ब्रह्मणो येभ्यो व्यावृत्तिः, कानि तानि वस्तूनि ? ब्रह्मणोऽने काव्यावृत्तिमत्त्वात् सधर्मकत्वम् । व्यावृत्तीनां धर्मत्वानभ्युपगमे, पदानां पर्यायस्वमित्याद्यनेकशङ्कापरिहारार्थमाह एतदुक्तं भवतीति । लक्षणतः स्वरूपलक्षणतः ; न तु तटस्थलक्षणतः । अनेन जगत्कारणत्वशङ्कितदोषव्यावृत्तये ब्रह्मणः सकलेतरविरोधिलं प्रतिपादयदिदं शोधकवाक्यं व्यावृत्तिपरं भवितुं युक्तमित्युक्तं भवति । बहुन्यावृत्तिभिरनेकार्थत्वप्रसङ्गं परिहरति सकलेतरत्रदार्थविरोधि रूपमिति । तद्विरोधिरूपमिति । फलतो व्युदस्यत इति । इदं वाक्यं स्वरूपमात्रपरमेव । अत ऐकार्थ्यम् । व्युदासस्तु फलित इति भावः । ज्यावर्त्यकार बहुत्वात् कतिपयपदैर्व्यावृत्तिर्न शक्येत्येतत् परिहरति सर्वमनेन पदत्रयेण फलतो व्युदस्यत इति प्रयोजकरूपेण व्युदासे सर्वमपि व्युदस्तं भवतीत्यर्थः ।
९२ ११ - १. परमतः पर्यायत्वादिदोष परिहारः तत्र सत्यपदं विकारास्पदत्वेनासत्यात् वस्तुनो व्यावृत्तब्रह्मपरम्, ज्ञानपदं चान्याधीनप्रकाशजडरूपाद्वतुनो व्यावृत्तपरम् । अनन्तपदं च देशतः कालतो वस्तुतश्च परिच्छिन्न व्यावृत्तपरम् । न च व्यावृत्तिर्भावरूपोऽभावरूपो वा धर्मः; अपि तु सकलेतरविरोधि ब्रह्मैव; यथा शौक्ल्यादेः कार्यादिव्यावृत्तिः तत्पदार्थस्वरूपमेव ; न धर्मान्तरम् । एवमेकस्यैव वस्तुनः सकलेतरविरोध्याकारतामवगमयत् अर्थवत्तरमेकार्थमपर्यायच पदत्रयम् ॥ तस्मादेकमेव ब्रह्म स्वयंज्योतिर्निर्धूत निखिलविशेषमित्युक्तं भवति । एवं वाक्यार्थप्रतिपादने सत्येव, ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इत्यादिभिरैकार्थ्यम् । विरोधीनि कानीत्यत्राह तत्रेति । जगत्कारणत्वेन तुच्छता व्यावृत्ता; किमर्थमसत्यव्यावृत्तिरित्यत्रोक्तम् विकारास्पदत्वेनासत्यादिति । स्तब्धशीतादिसाधारणजड शब्द विवरणार्थ मन्याधीनप्रकाश शब्दः । यद्यपि सत्यादिष्वेकैकपदेन समस्तव्यावृत्तिसिद्धिः, तथाऽपि ब्रह्मणि शङ्कितस्वेतर पदार्थगतविरोध्याकारस्यैकपदेनानिवर्तनात् पदत्रयसाफल्यम् । व्यावृत्तिभिः सधर्मकत्वं परिहरति नचेति । प्राभाकरपक्षे सिद्धान्तिमते च भावरूपधर्मः ; वैशेषिकादिमते तु अभावरूपधर्मः । तत्माद्भावरूपोऽभावरूपो वेत्युक्तम् । व्यावृत्तिर्धर्मो न चेत्, किं स्यादित्यत्राह अपि त्विति । शुक्त्यादौ हि धर्मस्य व्यावृत्तित्वं रजतादिविरोधित्वादभ्युपगम्यते, एवं ब्रह्म च सकलेतरविरोधित्वात् स्वयमेव व्यावृत्तिरित्यर्थः । स्वरूपस्यैव व्यावृत्तित्वे दृष्टान्तमाह यथेति । शौक्ल्यादेः कार्य्यादित्र्यावृत्तिर्न धर्मान्तरम्, अनुपलम्भात् ; धर्मान्तरत्वेऽनवस्थानाच्चेत्यभिप्रायः । तर्हि पदानां पर्यायत्वं स्यादित्याशङ्कय कार्ण्यव्यावृत्तं पीतिमन्यावृत्तं रक्तिमव्यावृत्तं शौक्ल्यमिति दृष्टान्तवाक्याभिप्रायेण परिहरति एवमेकस्येति । व्युदसनीयव्युदासभेदेन पदानां प्रयोजनवत्वम् तत एवापर्यायत्वमित्यर्थः । प्रतियोग्यवच्छिन्नवेषेण प्रवृत्तिनिमित्तभेदलाभात् सामानाधिकरण्यलक्षणसिद्धिश्चेत्यभिप्रेतम् । पर्यायत्यादिप्रसङ्ग परिहारः ऐकार्थ्याविरोधेन कृत इत्यभिप्रायेणोक्तम् एकार्थमिति । स्वरूपमात्रपरत्वादेकार्थ्यं हि र (विव ) क्षितम् । अर्थवत्तरमिति । तरप्प्रत्ययेन दृष्टान्तात् शौक्ल्यात् भेदवाद्यभिमतसगुणपरत्वाच्च प्रयोजनाधिक्यमभिप्रेतम् ; अपरोक्षभूतो हि शौक्ल्यादिर्दृष्टान्तः, तत्र स्पष्टयार्थं कार्ण्यव्यावृत्तमित्यादिपदप्रयोगः प्रत्यक्षागोचरे तु परे ब्रह्मणि सकलेतरव्यावृत्तिवचनमधिकप्रयोजनमिति दृष्टान्तात् प्रयोजनाधिक्यम् । जगत्कारणभूतस्य ब्रह्मणः शङ्कितदोषव्यावृत्तिरेवापेक्षिता, न तु गुणान्तरमिति भेदवादिपक्षात् प्रयोजनाधिक्यम् । एवं सत्यज्ञानादिवाक्यस्यानुग्राहकस्तर्क उक्तः । तर्कानुगृहीतेन वाक्येन कोऽर्थः प्रतिपन्न इत्यत्राह तस्मादिति । तस्मात् — उक्तन्यायानुगृहीतत्वादस्य वाक्यस्येत्यर्थः । एकमिति समानविभक्तिनिर्देशफलितमै - क्यमुक्तम् । एवकारेण स्वरूपत ऐक्यं गुणतो भेद इत्यंशतोऽनेकार्थस्वव्यावृत्तिः । एतद्विशदयति निर्धूतनिखिलविशेषमिति । निर्विशेषस्य तुच्छताव्यावृत्यर्थम् - स्वयं ज्योतिरितिपदम् । इत्युक्तमिति । सत्यज्ञानादिवाक्येनेति शेषः इत्थं सामानाधिकरण्यान्यथानुपपत्या सत्यज्ञानादिवाक्यस्य वस्तु मात्र परस्वमुपपादितम् ॥ अथ कारणवाक्यैकार्थेन शोधकवाक्यान्तरैकार्थ्येन च हेतुद्वयेन वस्तुमात्रपरत्वमुपपाद्यते एवमित्यादिना । तत्र प्रथमं कारणवाक्यैकार्थ्यं हेतुरुच्यते एवमिति । एवम् निर्विशेषपरत्वेन निर्वाहे सत्येव
सजातीयविजातीयव्यावृत्तमद्वितीयं ९३ 1 ‘यतो वा इमानि भूतानि जायन्ते’, ‘सदेव सोम्येदमग्र आसीत्’, ‘आत्मा वा इदमेक इवात्र आसीत् इत्यादिभिर्जगत्कारणतयोपलक्षितस्य ब्रह्मणः स्वरूपमिदमुच्यते - सत्यं ज्ञानमनन्तं ब्रह्मेति । तत्र वैशाखाप्रत्ययन्यायेन कारणवाक्येषु सर्वेषु ब्रह्म अवगतम्. जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपिपादयिषितं स्वरूपं तदविरोधेन वक्तव्यम् । अद्वितीयत्वः श्रुतिर्गुणतोऽपि सद्वितीयतां न सहते । अन्यथा ‘निरञ्जनम्’ ‘निर्गुणम’ इत्यादिभिश्च विरोधः । अतश्चैतल्लक्षणवाक्यमखण्डैकरसमेव प्रतिपादयति ॥ 1 अस्तु ।
ननु च - सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधिव्यावृत्तवस्तुस्वरूपोपस्थापनपरत्वे लक्षणा स्यात् ॥ कारणवाक्यैकार्थ्यमित्यर्थः । कारणवाक्यैकार्थ्यं कुतोऽपेक्षितम्, ऐकार्थ्य सति कथं वा निर्विशेषपरत्वमित्यत्राह यत इत्यादि । यतो वा इमानीत्यादि लक्षणवाक्यम् । एतस्य कारणत्वानुत्रादेन लक्षणपरत्वात् कारणत्वप्रापकं वाक्यमाह सदेवेति । उपलक्षितस्य / उपलक्षणं नाम चन्द्रस्य शाखेव तटस्थं ज्ञापकम् । सत्यं ज्ञानमनन्तं ब्रह्मेतीति । अनेन वाक्येनेत्यर्थः । कारणवस्तुनः स्वरूपशोधकत्वात् कारणवाक्यैकार्थ्यमस्यापेक्षितमित्युक्तं भवति कारणवाक्यैकार्थ्यम् । तत्तु सगुणब्रह्मकारणत्वादिभिः, “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते”, “तमीश्वराणां परमं महेश्वरम्…स कारणं करणाधिपाधिपः” इत्यादिवाक्यैरेव स्यादित्यत्राह तत्रेति । तत्र — कारणवाक्यैकार्थ्येऽपेक्षिते । सर्वशाखाप्रत्ययन्यायो ह्यनुक्तार्थस्वीकारफलः । तेन अत्रानुक्तस्य उपनिषदन्तरोक्तस्यार्थस्य स्वीकर्तव्यत्वे सति, सगुणमात्रपरासूपनिषत्सु निर्गुणमपि ब्रह्मोक्तं भवति । तत्रापच्छेदन्यायेन निर्गुणवाक्यानां बलीयस्त्वात् सर्वत्र सजातीयविजातीयव्यावृत्तमद्वितीयं ब्रह्मैष प्रतिपादितं भवतीत्यभिप्रायः । ततः किमित्यत्राह जगदिति । जगत्कारणेत्यादिपदैः कारणवाक्योक्तमर्थ - मनुवदति । प्रतिपिपादयिषितम् — तात्पर्यभूमिः । वस्तुमात्र एव तात्पर्यमित्यर्थः । तदविरोधेन वक्तव्यम् -कारणवाक्यप्रतिपन्नब्रह्मस्वरूपशोधकत्वात् तदविरोधेनानेन तदविरोधेनानेन वाक्येन वक्तव्यमित्यर्थः । नरपतिरद्वितीय इत्यादिवत् समाभ्यधिकराहित्ये ऽद्वितीयत्वमुपपन्नमिति तदैकार्थेऽपि न निर्गुणपरत्वासिद्धिरित्यत्राह अद्वितीयत्वश्रुतिरिति । सदेव, एकमेवेति विजातीय सजातीयव्यावर्तकावधारणद्वयसमभिव्याहृतत्वादिदमद्वितीयपदं गुणतोऽपि सद्वितीयतां न सहत इत्यभिप्रायः । एवं कारणवाक्यैकार्थ्यात् सत्यज्ञानादिवाक्यस्य वस्तुमात्रपरत्वमुपपादितम् ; अथ शोधकवाक्यान्तरैकार्थ्यं हेतुरुच्यते अन्यथेति । अन्यथा - - सत्यज्ञानादि - वाक्यस्य विशिष्टपरत्वे, निरञ्जनं निर्गुणमित्यादिभिर्विरोधः स्यात् । अतस्तदविरोधायेदं वाक्यं निर्विशेषवस्तुमात्रपरमित्यर्थः । अन्यथा निरञ्जनं निर्गुणमित्यादिभिर्विरोधश्चेत्यनेनाद्वितीयत्वश्रुतेर्गुणतोऽपि सद्वितीयतानिषेधपरत्वं च अर्थादुपपादितं भवति । हेतुत्रयेणोपपादितमर्थं निगमयति अतश्चेति । अतः पूर्वोकसामानाधिकरण्यान्यथानुपपत्या, पश्चादुक्तकारणवाक्यशोधक त्र । क्यान्तरैकार्थ्यरूपहेतुद्वयेन चेत्यर्थः एतल्लक्षणवाक्यम्—स्वरूप लक्षणवाक्यम् । अखण्डैकरसम् - निर्विशेषतैकस्वभावमेव प्रतिपादयतीत्यर्थः । अथ मुख्यार्थ परित्यागेन लक्षणास्वीकारे दोषमुद्घाटयति
ननु चेत्यादिना । स्वार्थप्रहाणेन । स्वार्थो हि विशेषणद्वारकं विशेष्यम्; तस्प्रहाणेनेत्यर्थः । लक्षणास्वमभ्युपगम्यादोषनां प्रतिजानीते नैष दोष इति ।
९४ १-१-१. सति तात्पर्ये सर्वपदलक्षणापि नैष दोषः, अभिधानवृत्तेरपि तात्पर्यवृत्तेर्बलीयस्त्वात् । सामानाधिकरण्यस्य यैक्य एव तात्पर्यमिति सर्वसमतम ॥
ननु च स पदानां लक्षणा न दृष्टचरी ॥ ततः किम् ? वाक्यतात्पर्याविरोधे सति एकस्यापि न दृष्टा । समभिव्याहृतपदसमुदायस्यैतत्तात्पर्यमिति निश्चिते सति, द्वयोस्त्रयाणां सर्वेषां वा तदविरोधाय एकस्येव लक्षणा न दोषाय । तथा च शास्त्रस्थैरभ्युपगम्यते । कार्यवाक्यार्थवादिभिलौकिकवाक्येषु सर्वेषां पदानां लक्षणा समाश्रीयते । अपूर्वकार्य एव लिङादेर्मुख्यवृत्तत्वात् लिङादिभिः क्रियाकार्यं लक्षणया प्रतिपाद्यते । कार्यान्वितस्वार्थाभिधायिनाश्वेतरेषां पदानामपूर्वकार्यान्वित एव मुख्यार्थ इति क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकमेव । / 1
मुख्यार्थत्वमुत्तरत्राभिधास्यते । हेतुमाह अभिधानवृत्तेरपीति । ‘तात्पर्यवृत्तिर्नाम — तात्पर्यादागता वृत्तिः, तत्परत्वरूपा वा । सा चात्र लक्षणः वृत्तिर्विवक्षिता । वाक्यतात्पर्यविरोधिमुख्यवृत्तेरपि वाक्यतात्पर्यानुगुणलक्षणावृत्तेर्बलीयस्त्वादित्यर्थः । कस्मिन्नर्थे तात्पर्यम्, यदनुरोधाय लक्षणास्त्रीकार इत्यत्राह सामानाधिकरण्यस्येति । ऐक्य एव तात्पर्यमिति । तात्पर्यनिश्चायिका समानविभक्तिरिति भावः । आनन्दमयाधिकरणे सिद्धान्तिना ह्येतत् वक्ष्यते । सर्वसम्मतम् । विशिष्टैक्यवादिभिरन्यैश्व सम्मतमित्यर्थः । गङ्गायां घोष इत्यादिषु सर्वपदलक्षणा न दृष्टेति चोदयति
ननु चेति । तात्पर्यनिश्चायककतिपय मुख्यवृत्या तदनुगुणमन्येषां पदानां लाक्षणिकत्वमाश्रयणीयम्, सर्वपदलक्षणायां तु तन्न संभवतीत्यभिप्रायः । तात्पर्याविरुद्धपदमुख्यार्थस्वीकारः तात्पर्यविरुद्धपदलक्षणास्वीकारस्याविरुद्ध इत्याशयेनाह ततः किमिति । ततः किमित्यभिप्रेतं विवृण्वन् प्रतिबन्दिमुखेन विवक्षितार्थं (विपक्षेबाधं ) दर्शयित्वा परिहर्तुं विपक्षेबाघ गर्भा प्रतिबन्दीमाह वाक्यतात्पर्येति । यदि अविरुद्धपदमुख्यार्थत्वं विरुद्धपदलक्षणाविरोधि, तर्हि गङ्गायां मत्स्याः प्रतिवसन्तीत्यादिषु अविरोधेन एकस्यापि पदस्य लक्षणानङ्गीकारात् गङ्गायां घोष इत्यादिष्वेकस्यापि पदस्य लक्षणा न स्यादित्यभिप्रायः । गङ्गायां मत्स्या इति वाक्ये विरोधामावालक्षणानङ्गीकारः; गङ्गायां घोष गङ्गायां घोष इत्यत्र विरोधात् लक्षणा न दोष इति चेत् — तदत्रापि तुल्यमित्याह समभिव्याहृतेति । सर्वपदलक्षणा च विषं मुङ्क्ष्वेत्यादिषु दृष्टेत्यभिप्रायः । एतत्तात्पर्यमिति निश्चिते सतीति । अपवादकरहित समानविभक्तिनिर्देशो निश्चायक इति भावः । द्वयोस्त्रयाणामित्यादि । अविरोधविरोधात्रेव मुख्यलक्षणावृत्तिस्वीकारप्रयोजकौ; न तु पदानामेकत्व द्वित्वादिकमित्यर्थः । न केवलं विषं मुङ्क्ष्वेत्यादिषु लौकिकप्रयोगेष्वेव सर्वपदलक्षणाऽगत्याऽऽश्रिता; अन्यैरपि परीक्षकैराश्रितेत्याह तथा चेति 1 तथा - सर्वपदलक्षणाया अदोषत्वम् । अभ्युपगम्यते । अम्युपगमहेतुसद्भावादभ्युपगमः फलित इति भावः । कैः परीक्षकैः केषु वाक्येषु सर्वपदलक्षणाऽऽश्रितेत्यत्राह कार्यवाक्यार्थेति । लौकिकवाक्येषु सर्वपदलाक्षणिकत्वमुपपादयति अपूर्वकार्य एवेति । क्रियाकार्य लाक्षणिकमस्तु ; तत् कथं सर्वपदलक्षणेत्यत्राह कार्यान्वितेति । पदानामन्विताभिधायित्वेन कारकपदानामपूर्वकार्यान्विताभिधायिनां तदन्वित एव मुख्यार्थ इति तदन्वयपरित्यागे लक्षणैवेत्यर्थः । .1 तात्पर्यवृत्तिपदं सत्पुरुषेण कर्मधारयेण वा यौगिकं गौण्यादिसाधारणमिह लक्षणापरमिति । 2 तात्पयोविरुद्धेति । तात्पर्याविरोधस्थलीयेत्यर्थः । तात्पर्यविरुद्धेति । तात्पर्यविरोधस्थलीयेत्यर्थः
? ः ९५ 1
ननु गङ्गायां घोषः प्रतिवसतीत्यादिषु गङ्गापदस्य लाक्षणिकार्थयेऽपि तदन्विताभिधायिनां पदान्तराणाममुख्यत्वं न दृष्टमिति चेन्न – गङ्गापदलश्चितस्य कूलस्य वाक्यार्थत्वाभावात्; इह तु वाक्यस्य प्रधानप्रतिपाद्य भूत कार्यार्थ समर्पकपदस्य लाक्षणिकत्वात् तदन्त्रिताभिधायिनां पदानां लक्षणा स्यादेव । अन एव कार्यवाक्यार्थवादिभिरित्युक्तम् ।
ननु “कमलानि निमीलन्ति कुमुदान्युन्मिषन्ति च” इति वाक्यार्थभूतनिमीलनादेल क्षणिकत्वेऽपि तदन्विनामिवायिनां कमलादिपदानां न लाक्षणिकत्वं दृष्टमिति चेत्-अनभिप्रायज्ञश्चोदयति भवान् । सर्वपदानां निमीलनरूपवाक्याथपरत्यस्य कैश्चिद्यत्रस्थापितत्वाभावात् निमीलनोपस्थापकपदलक्षणायामपि न तदन्विताभिधायिनां लाक्षणिकतापत्तिः; त्वया तु सर्वपदानां कार्यपरत्वाभ्युपगमात् तत्कार्यसमर्पकपदलाक्षणिकत्वे तदन्वितस्वार्थाभिधायिनां लक्षणा प्राप्नोति । तथा हि — कार्यवाक्यार्थवादिना पदानां किं विशिष्ट कार्येकदेशे पदशक्तिर्निश्चीयते, उत विशिष्ट स्थायि कार्यैकदेशे ? प्रथमे विशिष्ट कार्येकदेशत्वाविशेषात् स्वार्थेषु कारकपदानामिव लिङादेः क्रियाकार्ये मुख्यत्वप्रसङ्गः । द्वितीये विशिष्ट स्थायि कार्यैकदेशपरत्वप्रहाणस्य सर्वपदानामविशिष्टत्वात् लिङादेः क्रियाकार्य इव क्रियाकार्यान्वितपरत्वे लक्षणा स्यात् ॥ पदानां विशिष्टकायैकदेशपरत्वे तुल्येऽपि लिङादेः क्रियाकार्ये लाक्षणिकत्वम्, कार्यान्वितमात्रे कारकपदानां मुख्यत्वमिति चेत् -यदि कार्यान्वितमात्रे कारकपदानां मुख्यत्वमिष्टम्, क्रियाकार्ये लिङादेर्लाक्षणिकत्वं कथम् ! । स्थायिकार्यपरथेन वेदप्रयुक्तत्वनिश्चयाल्लक्षणयाऽपि क्रियाकार्यबोधनसंभवादिति चेत - कारक पदानामपि स्थायिकार्यान्वितपरत्वेन वेदप्रयोगदर्शनात् लक्षणयांऽपि क्रियाकार्यान्वितबोधनोपपत्तेः क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकं स्यात् ॥ सास्नादिमन्मात्र मुख्यत्वेऽपि प्रमाणान्तरेण खण्डादिसिद्धिवत् लिङादेः कार्यमात्रपरस्त्रे कार्यविशेषस्य प्रमाणान्तरेण सिद्ध्यभावादुभयत्रैकशक्तिकल्पनाऽयोगात् शक्तिद्वयकल्पने गौरवाच्च लिङादेरपूर्वकार्ये मुख्यत्वमिति क्रियाकार्यप्रतिपादनं लाक्षणिकम्; अन्यथा अन्यथा शब्दशक्तेः कार्यमात्रविषयत्वात् प्रत्यक्षाद्यविषयत्वाच्च कार्यविशेषो निष्प्रमाणकः स्यादिति चेन्न -कार्यविशेषस्य प्रामाणिकत्वे तत्र शक्तिकल्पनम्, शक्तिकल्पने तस्य प्रामाणिकत्वमित्यन्योन्याश्रयप्रसङ्गात् । किञ्च यदि कार्यविशेषस्याप्रामाणिकत्वपरिहाराय तत्र शक्तिकल्पनम् तर्हि कारकपदानां कार्यान्वितमात्रपरत्वे कार्यविशेषान्वयस्य प्रमाणान्तरागोचरत्वादुभयत्र शक्तिकल्पने गौरवाच कार्यविशेषान्वये प्रमाणं न स्यादिति तत्परिहाराय कार्यविशेषान्वये कारकपदानां मुख्यत्वमिति क्रियाकार्यान्वितपरत्वं लाक्षणिकं स्यात् ॥ लिङादिसमभिव्याहारबलात् कारकपदानां कार्यविशेषान्वयपरत्वसिद्धिरिति चेत्, तर्हि स्वर्गकामपदसमभिव्याहार बलात् लिङादेः कार्यविशेषान्वयपरत्वसिद्धिरिति ङिादिः कार्यमात्रपरः स्यात् । तस्मालिङादेरपूर्वकार्य एव मुख्यवृत्तत्वेन क्रियाकार्यस्यामुख्यत्वे कारकपदानामपि क्रियाकार्यान्वितपरत्वं लाक्षणिक मित्येवाभ्युपगन्तव्यम् ॥ कारकपदानामन्वयांशे लक्षणा ; न सर्वत्रेति चेत्–समानाधिकरणवाक्येऽपि पदानां प्रातिपदिकांश एव लक्षणा न समानविभक्ताविति तुल्यम् ।
1 अभ्युपगमः फलित इत्युक्तम् । कथमस्मन्मते सर्वलक्षणाभ्युपगमः फलित इति कार्यवाक्यार्थवादी पृच्छति
नन्विति । 2 त्वया कार्यवाक्यार्थवादिना । 3 अन्वयांश इति । विभक्तिमात्रस्य लाक्षणिकत्वम् । न प्रातिपदिकस्येत्यर्थः ।
९६ १-१-१. शांस्त्रबलीयस्त्वपक्षः अतो वाक्यतात्पर्याविरोधाय सर्वपदानां लक्षणाऽपि न दोषः । अत इदमेवार्थजातं प्रतिपादयन्तो वेदान्ताः प्रमाणम् ॥ प्रत्यक्षादिविरोधे च शास्त्रस्य बलीयस्त्वमुक्तम् । सति च विरोधे बलीयस्त्वं वक्तव्यम् ; विरोध एव न दृश्यते ; निर्विशेषसन्सात्रब्रह्मग्राहित्वात् प्रत्यक्षस्य ॥
ननु च घटोऽस्ति पटोऽस्तीति नानाकार वस्तुविषसं प्रत्यक्षं कथमिव सन्मात्राहीत्युच्यते । विलक्षणग्रहणाभावे सति सर्वेषां ज्ञानानामेकविषयत्वेन धारावाहिकविज्ञानवदेकव्यवहारहेतुतैव स्यात् ॥ सत्यम् ; तथैवात्र विविच्यते ॥ सर्वपदलक्षणानुपपत्तिपरिहारमुपसंहरति अत इति । अतः - सर्वपदलक्षणाया उपपत्तिसिद्धत्वात् लौकिकैः परीक्षकैश्चाङ्गीकृतत्वाचेत्यर्थः । यदप्याहुरियारम् शास्त्रेण स्वाभिमतार्थसिद्धिमुपसंहरति अत इदमेवेति । अतः - निर्विशेषे वस्तुनि तस्यैव पारमार्थ्ये, व्यतिरिक्तस्य मिथ्यात्वे, तस्य दोषपरिकल्पितत्वे, दोषस्य च सदसद निर्वचनीयत्वे, ज्ञानमात्रनिवर्त्यत्वे च 1 उक्तैरुपपत्तिसहितैः श्रुतिवाक्यैरित्यर्थः । इदमेवार्थजातम् — पूर्वोद्दिष्टमेवार्थजातम् ; न तु सगुणवस्त्वादिकम् । प्रतिपादयन्तो वेदान्ताः प्रमाणमिति । वाक्यान्तराणां काल्पनिकार्यपरत्वेन तस्वाऽऽवेदकत्वाभावादुक्तार्थविषयमेव वाक्यजातं तखे प्रमाणमित्यर्थः ॥ पूर्वं प्रत्यक्षविरोधे शास्त्रप्राबल्यम्, शास्त्रे च भेदावलम्बिनां बाध्यत्वं चोक्तम् । अथ प्रत्यक्षविरोधो नास्तीत्युपपादयितुं प्रक्रमते प्रत्यक्षादीति प्रत्यक्षविरोधे शास्त्रप्राबल्यप्रतिपादकग्रन्थेन वक्ष्यमाणार्थसङ्गतिरिति भावः । चः समुच्चये । अविरोधपक्षस्य [च] बुद्धिस्थत्वात् तस्य चान्वारुह्योक्तस्य च समुच्चयः । विरोधाभ्युपगमेऽपीत्यर्थः± । सति चेति । अत्र चशब्दो चराब्दो हिशब्दार्थः । अविरोधं प्रतिजानीते विरोध एव न दृश्यत इति । हेतुमाह निर्विशेषेति । विषयविषयिभावरूप भेदव्यावृत्यर्थं " सन्मात्र ब्रह्मेत्युक्तम् । प्रतीतिविरोधेन चोदयति ।
ननु चेति । विरोधमुपपादयति घटोऽस्तीत्यादिना । न हि केवलम्, अस्तीति प्रतीतिः, अपि तु ‘घटोऽस्ति’, ‘पटोऽस्ति’ इत्येव हि प्रतीतिरित्यर्थः । प्रतीतेर्भ्रान्तिरूपत्वसंभवात् तद्व्युदासार्थं व्यवहारविरोधमाह विलक्षणेति । परिहरति सत्यमिति । घटोऽस्ति, पटोऽस्तीत्यत्रास्तित्वव्यवहारस्यैकरूपत्वात् तावन्मात्रे मैदावभासमात्रे चाङ्गीकारः, भेदव्यवहारस्य प्रत्यक्षमूलत्वे भेदावभासस्य प्रत्यक्षत्वे चानङ्गीकारश्च सूच्यते सत्यमित्यर्घाङ्गीकारेण । तथैव । यथा सन्मात्रस्यैव प्रत्यक्षत्वमेकव्यवहारहेतुतैव च स्यात्, तथैवेत्यर्थः । अत्र घटादिविषयस्वरूपविषयव्यवहारसमुदाये । विविच्यते । यथा इदं रजमित्यत्र इदंव्यवहारस्य प्रत्यक्षमूलत्वं रजतव्यवहारस्य भ्रान्तिमूलत्वम्, तथा विविच्यत इत्यर्थः । तत्रेदमंशरजतांशव्यवहारयोरवाधितत्वबाधितत्वाभ्यां विवेकः ; अत्र स्वरूपविषयभेदविषयव्यवहारयोरुभयोरप्य-
- उक्तैरिति । निर्विशेषवस्त्वादिविषयकतया दर्शितैरित्यर्थः । श्रुतिवाक्यैरिति । तथा च अत इत्यस्य श्रुतिवाक्यानामुपपत्तिबलात् प्रत्यक्षादिविरुद्धार्थ नातप्रतिपादकत्वसंभवस्योक्तत्वादित्यर्थः पर्यवस्यति । पूर्वोद्दिष्टमेव । प्रत्यक्षादिविरुद्धमेवेति यावत् । 2 विरोधाविरोधरूपपक्षद्वयेपि शास्त्रबलीयत्वस्य दुरुपपादत्वात् विरोधपक्षे इत्यर्थं परिशेषयति विरोधाभ्युपगमेपीत्यर्थ इति । तथा च चोऽन्वारोहपर्यवसायीति भावः ।
९७ कथम् ? ॥ घटोऽस्तीत्यत्रास्तित्वं तद्भेदश्च व्यवह्नियते । न च द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं संभवति, तयोर्भिन्नकालज्ञानफलत्वात् ; प्रत्यक्षज्ञानस्य चैकक्षणवर्तित्वात् । तत्र स्वरूपं वा भेदो वा प्रत्यक्षस्य विषय इति विवेचनीयम् । भेदग्रहणस्य स्वरूपग्रहणतत्प्रतियोगिस्मरणसव्यपेक्षत्वादेव स्वरूपविषयत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते । अतो भ्रान्तिमूल एव भेदव्यवहारः ॥
किञ्च भेदो नाम कश्चित् पदार्थो न्यायविद्भिर्निरूपयितुं न शक्यते । भेदस्तावन्न वस्तुस्वरूपम् ; वस्तुस्वरूपे गृहीते स्वरूपव्यवहारवत् सर्वस्माद्भेदव्यवहारप्रसक्तेः । न च वाच्यम् - स्वरूपे गृहीतेऽपि भिन्न इति व्यवहारस्य प्रतियोगिरमरणसव्यपेक्षत्वात्, तत्स्मरणाभावेन तदानीमेव न भेदव्यवहारः - इति । बाधितत्वाविशेषे कथं विवेकः इत्यभिप्रायेणाह कथमिति । यौतिकवाधोऽस्तीत्याशयेनाह घटोऽस्तीति । किमस्तित्वं तद्भेदश्चैकः पदार्थः, उत द्वो ? द्वित्वे च किं तदुभयव्यवहारयोः प्रत्यक्षमूलखन, उतान्य सस्य द्वयोरपि प्रत्यक्षमूलत्वे, प्रत्यक्ष किं युगपदुभयग्राहि उन क्रमेण इति विकल्पान् हृदि निवाय, ‘अस्तिलक्षणस्वरूपतद्भेदयोरैक्यं न संभवति, भेदग्रहणस्य स्वरूपग्रहणप्रतियोगिस्मरण सापेक्षत्वात्, सम्मान ग्रहणस्त्र तन्निरपेक्षत्वाच्च’ इत्यभिप्रयन्नाह अस्तित्वं तद्भेदश्चेति । भिन्न इति व्यवहार इव घट इत्यसाधारण वहारेऽपि घटस्य पटाद्व्यावृत्ततया प्रतीत प्रतियोगिसापेक्षत्वात् घटव्यवहार एव भेदव्यवहार इत्युच्यते । द्विये 1 च द्वयोरपि प्रत्यक्षमूलत्वं नेत्याह न च द्वयोरपीति । द्वयोरपि व्यवहारयोः - स्वरूपविषयभेदविषकन्यवारयोः । प्रत्यक्षं युगपद्वा क्रमेण वा मूलं स्यादिति विकल्पमभिप्रेत्य यौगपद्यं दूषयति तयोरिति । प्रतियोग्यपेक्षानपेक्षारूपवैषम्यादित्यभिप्रतम् । क्रमपक्षं प्रतिक्षिपति प्रत्यक्षज्ञानस्येति । चः समुच्चये । एवं युगपत् क्रमेण चोभयव्यवहारस्य प्रत्यक्ष मूलत्वमनुपपन्नमिति तयोरन्यतरस्य प्रत्यक्षविषयत्वमाह तत्रेति । भेदः प्रत्यक्षविषयः स्यादित्यत्राह भेदेति । अस्तित्त्रभेदयोरैक्यायोगे तद्व्यवहारयोर्मिन्नकालज्ञानफलत्वे च य एव हेतुः, तेनैवेत्येवकाराभिप्रायः । प्रत्यक्षस्य स्वरूपमात्रविषयत्वे कथं मेदव्यवहारसंभव इत्यत्राह - अतो भ्रान्तीति । तथा च संवित्सिद्धौ, “यौगपद्यक्रमायोगाद्यवच्छेदवित्रानयोः । ऐक्यायोगाच्च मेदो न प्रत्यक्ष इति यो भ्रमः ॥” इति । व्यवच्छेदः भेदग्रहणम् । विधानम् स्वरूपग्रहणम् ॥ F एवं भेदे प्रमाणानुपपत्तिरुक्ता ; अथ प्रमेयानुपपतिमाह किश्चेति । किञ्चेत्यादिना प्रमाणानुग्राहकतकभावोऽप्युपपादितो भवति । दुर्निरूपत्वं प्रतिजानीते भेदो नामेति । विकल्पासहत्वादिति भात्रः । न्यायविद्भिः । न त्वापातप्रतीनिमात्रतृतैरिति भावः । स्वरूपधर्मविकल्पं हृदि निधाय स्वरूपपक्षं दूषयति भेदस्तावदिति । कुतः इत्यत्राह वस्तुस्वरूप इति । स्वरूपव्यवहारवत् सर्वस्माद्भेदव्यवहारप्रसक्तेरिति । प्रतियोगिनिरपेक्षभेदव्यवहारप्रसक्तेरित्यर्थः । स्वरूपग्रहणस्य शब्दव्युत्पत्तिव्युत्पन्न शब्द स्मरणनिरपेक्षत्वेऽपि भिन्न इति व्यवहारस्तु तत्सापेक्षा तत्सापेक्षो यथा भवति, तथा प्रतियोगिस्मरणमपि भेदव्यवहार सामय्यन्तर्भूतम् ; अतस्तत्स्मरणाभावात् तदानीनेव भेदव्यवहारामावः, न तु भेदाग्रहणादिति परमतमाशङ्कयाह न देति । ।
- द्वित्वे चेति । द्वित्वस्य सिद्धत्वे चेत्यर्थः । 2. यो भ्रम इति । स भेदेतरेतराभावाविवेकमूल इत्युत्तरश्लोकावगम्यं दूषणम् । 3. प्रमेयानुपपत्तिमिति । भ्रान्ति मूलत्वोपपादनार्थमिति शेषः । श्रु० 13
९८ १-१-१. भेदस्य दुर्निरूपत्वम् स्वरूपमात्र भेदवादिनो हि प्रतियोग्यपेक्षा च नोत्प्रेक्षितुं क्षमा; स्वरूपभेदयोः स्वरूपत्वाविशेषात् । यथा स्वरूपव्यवहारो न प्रतियोग्यपेक्षः, भेदव्यवहारोऽपि तथैव स्यात् । हस्तः, करः इतिवत् घटः, भिन्न इति पर्यायत्वञ्च स्यात् । नापि धर्मः । धर्मत्वे सति तस्य स्वरूपाद्भेदोऽवश्याश्रयणीयः । अन्यथा स्वरूपमेव स्यात् । भेदे च, तस्यापि भेदस्तद्धर्मः, तस्यापीत्यनवस्था । किञ्च - जात्यादिविशिष्टवस्तुग्रहणे सति भेदग्रहणम्, भेदग्रहणे सति जात्यादिविशिष्टवस्तुग्रहणमिति - अन्योन्याश्रयणम् । अतो भेदस्य दुर्निरूपत्वात् सन्मात्रस्यैव प्रकाशकं प्रत्यक्षम् ॥ } कुत इत्यत्राह स्वरूपेति । यथा न स्वरूपग्रहणे प्रतियोग्यपेक्षा, तथा भेदव्यवहारे चेति चशब्दार्थः । हिशब्दों हेतौ । स्वरूपग्रहण इव भेदव्यवहारे प्रतियाग्यपेक्षाया असम्भवादित्यर्थः । असंभवः कुत इत्यत्राह स्वरूपेति । स्वरूपभेदयोः स्वरूपत्वमविशिष्टमस्तु ततः किं प्रतियोगिनिरपेक्षभेदव्यवहारप्रसक्तेः इति शङ्कायां तद्विवृणोति यथेति । स्वरूपपक्षे दूषणान्तरमप्याह हस्तः कर इति । पर्यायत्वे सति सहप्रयोगस्त्याज्यः स्यादिति भावः । स्वरूपपक्षे मृषावादिभिर्दूषणान्तराण्यप्युक्तानि; उदाहृतदूषणपरिहारेण तान्यपि प्रत्युक्तानि भवन्तीति भाष्ये न कण्ठेोक्तानि । तान्युच्यन्ते – स्वरूपपक्षे भिन्न इति व्यवहर्तुं न युक्तम्, भिन्नो हि भेदयोगी । एतद्व्यवहारसिद्ध्ये यदि स्वरूपभूतं भेदान्तरं स्वीक्रियते, तत्रापि भिन्न इति व्यवहारस्यायुक्तत्वात् तत्स्वरूपभूतभेदान्तरमाश्रयणीयमित्यनवस्था । किञ्च – भेदः किमनुवृत्तः, उत व्यावृत्तः ? व्यावृत्तश्चेत्, स किं स्वरूपम्, उत धर्मः ? प्रथमे घटस्य भेदव्यवहारे कृते पटविषयभेदव्यवहारो न स्यात्, व्यावृत्तत्वात् । धर्मश्चेत्, पूर्वोक्तदोषो धर्मत्वप्रयुक्तदूषणानि च स्युः । यद्यनुवृत्तः, स च स्वरूपं चेत्शब्दान्तरेण सम्मात्रमङ्गीकृतं स्यात् । धर्मपक्षे पूर्ववत् । किञ्च – मिदिधातोर्हि विदारणमर्थः, एकस्य वस्तुनो भेदो नाम द्विधाभावः, तत्खण्डस्यापि तथा स्यात् 1 अतो वस्तुनि भेदाभ्युपगमे विदारणपरम्परया नाश एव स्यादित्येवमादीनि ।
अथ धर्मपक्षं दूषयति नापीति । कुतः इत्यत्राह धर्मत्व इति । स्वरूपाद्धर्मस्य भेदाभावेऽनिष्टमाह अन्यथेति । स्वरूपधर्मयोर्भेदोऽस्तु ; ततः किमित्यत्राह भेदे चेति । तस्यापि भेदस्तद्धर्मः – तस्य धर्मतया स्वीकृतस्यापि भेदस्य स्वरूपापेक्षया यो भेदः, सोऽपि तस्य धर्मतया स्वीकृतस्य भेदस्य धर्मः । यद्वा – स्वरूपाद्धर्मस्य यो भेदः स्वीकृतः, तस्य धर्मिभूताद्धर्मात् भेदोऽपि धर्मः । अन्यथा स्वरूपमेव स्यात् । तदा(था) च स्वरूपपक्षदूषणानि स्युः; सोऽपि भेदो धर्मः, तस्यापि स्वरूपाद्भेदः इत्यनवस्थेत्यर्थः । एवं धर्मपक्षेऽनवस्थामुक्त्वाऽन्योन्याश्रयणमाह किश्चेत्यादिना । त्रेधा च तत् - धर्मिणि प्रतियोगिनि च गृहीते भेदग्रहणम्, भेदे गृहीते धर्मिप्रतियोगिग्रहणमिति; धर्मे धर्मिणि च गृहीते भेदग्रहणम्, भेदे गृहीते धर्मधर्मिग्रहणमिति; अयं घट इत्यत्रेदंशब्दनिर्दिष्टस्य घटजातीयत्वविशिष्टग्रहणं पटजातीयाद्भेदग्रहणपूर्वकम्, अन्यथा घटजातीयत्वविरोधात् ; पटाद्भेदग्रहणमिदंशब्दनिर्दिष्टस्य घटजातीयत्यग्रहणपूर्वकम्, अन्यथा पटत्वप्रसङ्गादिति ; एवं धर्मधर्मिग्रहणे, धर्मितया प्रतियोगितया च ग्रहणे, तत्तज्जातीयस्त्रग्रहणे च त्रिधाऽन्योन्याश्रयणमुक्तम् । साधकप्रमाणाभावमुपसंहरति अत इति । अतः - स्वरूपधर्मपक्षोकैर्दूषणैः, दुर्निरूपत्वादित्यर्थः । । 1. भेदान्तरम् । भेदयोगिशब्दान्तर्भूतभेदपदार्थात् भेदः योगिशब्दवाच्येधर्मिणि । 2. सोपीति । अत इति आदिः । 1
९९ किश्व - घटोऽस्ति पटोऽस्ति, घटोऽनुभूयते पटोऽनुभूयत इति सर्वे पदार्थाः सत्तानुभूतिघटिता एव दृश्यन्ते । अत्र सर्वासु प्रतिपत्तिषु सन्मात्रमनुवर्तमानं दृश्यत इति तदेव परमार्थः । विशेषास्तु व्यावर्तमानतया अपरमार्थाः, रज्जुसर्पादिवत् । यथा रज्जुरधिष्ठानतयाऽनुवर्तमाना परमार्थसती; व्यावर्तमानाः सर्पभूदलनाम्बुधारादयोऽपरमार्थाः ॥
ननु च-रज्जुसर्पादौ रज्जुरियं न सर्प इत्यादि रज्ज्वाद्यधिष्ठानयाथार्थ्यज्ञानेन बाधितत्वात् सर्पादेरपारमार्थ्यम् ; न व्यावर्तमानत्वात् । रज्ज्वादेरपि पारमार्थ्यं नानुवर्तमानतया, किन्त्वबाधितत्वात् । अत्र तु घटादीनामबाधितानां कथमपारमार्थ्यम् ? उच्यते । घटादौ दृष्टा व्यावृत्तिः । सा किंरूपेति विवेचनीयम् । किं घटोऽस्तीत्यत्र पटाद्यभावः ? सिद्धं तर्हि घटोस्तीत्यनेन पटादीनां बाधिनत्वम् । अतो बांधफलभूता विषयनिवृत्तिर्व्यावृत्तिः । सा व्यावर्तमानानामपारमार्थ्यं साधयति । रज्जुवत् सन्मात्रमबाधितमनुवर्तते । तस्मात् सन्मात्रातिरेकि सर्वमपरमार्थः । प्रयोगश्च भवति - सत् परमार्थः, अनुवर्तमानत्वात्, रज्जुसर्पादौ रज्ज्वादिवत् ; घटादयोऽपरमार्थाः व्यावर्तमानत्वात्, रज्ज्वाद्यधिष्ठान सर्पादिवदिति ।
इत्थं साधकप्रमाणाभाव उक्तः । प्रमेयानुपपत्तिरूपस्तर्कश्च तच्छेषभूतः ; सामग्रीविषयेणार्थस्वभावविषयेण वा निरूपणेन विषयविशेषे प्रमाणव्यवस्थापनं हि तर्ककृत्यम् । अथ बाधकप्रमाणमुपन्यस्यति किञ्चेति । तत्रानुमानं विवक्षुर्व्याप्तिं शिक्षयति घटोऽस्तीत्यादिना । “वैधर्म्याच्च न स्वप्नादिवत् " इत्यत्र सूत्रकारेणैव दृश्यत्वानुमानस्य निराकरिष्यमाणत्वात् तन्निरासस्य मिथ्यात्वानुमानानां सर्वेषां दूष्यत्वप्रदर्शनार्थत्वात् पूर्वपक्षे व्यावर्तमानत्वहेतुरुपन्यस्यते । अनुवृत्तत्वप्रदर्शनाय घटोऽस्ति पटोऽस्तीत्युक्तम् । सदनुभूत्योरेकस्वं वक्ष्यमाणं हृदि निधायानुभूतेरनुवृत्तिं दर्शयति घटोऽनुभूयते पटोऽनुभूयत इति । ततः किमित्यत्राह अत्रेति । व्यावर्तमानतया – उत्तरोत्तर प्रतिपत्तिविषयेष्व विद्यमानतया । रज्जुसर्पादिवत् रज्ज्वादिवत् सर्पादिवच्चेत्यर्थः । तद्विवृणोति यथेत्यादिना । बाधितत्वाधितत्वाभ्यां द्वयोरपि हेत्वोः सोपाधिकत्वं दर्शयंश्चोदयति
ननु चेति । उपाधिनिवृत्त्या पक्षे साध्यनिवृत्तिमाह अत्र त्विति । विपरीतोपाधिसद्भावाच्च व्याघात इति चाभिप्रायः । परिहरति उच्यत इत्यादिना । प्रथमं सम्प्रतिपन्नांशमाह घटादौ दृष्टा व्यावृत्तिरिति । सपक्षेषु सर्वेषु विद्यमानः पक्षे अविद्यमानो ह्युपाधिः । तत्र परेणोपाधित्वेनोक्तस्य धर्मस्य पक्षे विद्यमानत्वकथनेन व्यावर्तमानत्वहेतोः सोपधिकत्वं दूषयिष्यन् तदुपयोगित्वेन, घटादिषु दृष्टा व्यावृत्तिः किं संवादफलभूता 1 उत बाधफलभूतेति त्रिवेचनीयमित्याह सार्किरूपेति । बाधफल भूतत्वं दर्शयितुं व्यावृत्तिस्वरूपमाह घटोऽस्तीत्यत्रेति । घटोऽस्तीति प्रतीने विषये पटाभाव इत्यर्थः । सिद्धं तर्हीति । रज्जौ भूदलनादीनामभावो हि बाधितत्वमिति भावः । तस्मात् बाधफलभूतैवेत्याह अत इति । बाधो नामअदुष्टकारणजा निषेधबुद्धिः । तेन’ पुरोवर्तिन्यभावो व्यावृत्तिः । एवं निरुपाधिकत्वाद्यावर्तमानत्वमपारमार्थ्य साधकमित्याह सेति । अबाधितत्वफलभूतानुवृतेः परमार्थत्वप्रयोजकत्वादनुवर्तमाने पारमार्थ्यं दर्शयति रज्जुवदिति । अबाधो नाम अविरोधित्वम् ; अनुवृत्तिर्नाम तत्कृतो विषयतयाऽन्वयः ; पुरोवर्तिनि सद्भावो वा । इत्थं व्याप्तिः शिक्षिता । न केवलं तर्कः ; अनुग्राह्यमप्यस्तीत्याह प्रयोगश्च भवतीति । मायावेदान्तिनो हि ज्ञानमात्र-
- संवादफलभूता - पटादिसत्ताग्राहक प्रतीतिगोचरभूता । बाधफलभूता-पटो नास्तीत्यादिधीग्राह्या । 2. फलशब्दार्थज्ञापनाय तेनेत्युक्तम् । तेन-तदधीनप्रकाशेत्यर्थः ।
१०० १-१-१. अनुभूति सन्मात्रैक्यम् एवं सति अनुवर्तमानाऽनुभूतिरेव परमार्थः, सैव सती ॥
ननु च - सन्मात्रमनुभूतेर्विषयतया ततो भिन्नम् ॥ नैवम् । भेदो हि प्रत्यक्षाविषयत्वात् दुर्निरूपत्वाच्च पुरस्तादेव निरस्तः । अत एव सतोऽनुभूतिविषयभावोऽपि न प्रमाणपदवीमनुसरति ; तस्मात् सत् अनुभूतिरेव । सा च स्वतः सिद्धा ; अनुभूतित्वात् । अन्यतः सिद्धौ घटादिवद
ननुभूतित्वप्रसङ्गः । किञ्च अनुभवापेक्षा चानुभूतेर्न शक्या कल्पयितुम्, सत्तयैव प्रकाशमानत्वात् । नह्यनुभूतिर्वर्तमाना घटादिवदप्रकाशा दृश्यते, येन परायत्त प्रकाशाऽभ्युपगम्येत ॥ अथैवं मनुषे - उत्पन्नायामप्यनु मृतौ विषयमात्रमवभासते, घटोऽनुभूयत इति, न हि कश्चित्, घटोऽयमिति पारमार्थ्यवादिनः तत् कथं सतः पारमार्थ्य साधनमित्यत्राह एवं सतीति । व्यावर्तमानत्वानुवर्तमानत्वयोरपारमायै पारमार्थ्ये च प्रयोजकत्वे सिद्ध इत्यर्थः । तर्हि परमार्थद्वयं स्यादित्यत्राह सैव सतीति । अथ सदनुभूत्योर्विषयविषयिभावरूपं भेदमुद्घाटयंश्चोदयति नतु चेति । भिन्नत्वं साध्यम् ; विषयतयेति हेतुः । परिहरति नैवमिति । तंत्र साध्यांशं दूषयति मेरो हीति । पुरस्तादेव - ज्ञेयभेदनिषेधादेव ज्ञानभेदोऽपि निरस्त इत्यर्थः । त्वंशं दूषयति अत इति । न प्रमाणपदवीमनुसरतीति । विषयविषयिभावो भ्रान्तिसिद्ध इत्यर्थः । भेदस्य भ्रान्तिसिद्धत्वमपिना समुच्चीयते । श्रुतिप्रतिपाद्यान् अर्थान् तर्केणापि साधयन् विषयविषयिभावे निरस्ते ग्राहकाभावाच्छून्यत्वशङ्कञ्च व्यावर्तयन् स्वप्रकाशत्वमुपपादयति सा चेति । चः शङ्काया निवृत्तौ । तत्र व्यतिरेकिणं हेतुमाह अनुभूतित्वादिति । विपक्षे बाधं दर्शयति अन्यतः सिद्धाविति । यत् अन्यतः सिद्धम्, तत् अ
ननुभूतिर्दृष्टम् ; यथा घट इति व्याप्तिरर्थाद्दर्शिता । अस्य व्यतिरेकिणः पराभिमतं प्रत्यनुमानं सोपाधिकमिति दर्शयन् अर्थादनुमानान्तरमप्याह किञ्चेत्यादिना । अनुमानान्तर कण्ठोक्तम्, आर्थः प्रत्यनुमाननिरासो वा स्यात् । अनुमानान्तरस्य कण्ठोक्तत् किञ्चशब्दः स्वरसः । प्रत्यनुमानस्य कण्ठोक्तत्वे न शक्या कल्पयितुमिति निर्देशः स्वरसः । किञ्चेति । न केवलं स्वमतोपपत्तिः, परपतानुपपत्तिश्वे यर्थ । अनुमानान्तरं चेति वाऽर्थः । अनुभवापेक्षा चेति । पूर्वोकसमुच्चेतव्यद्वये किञ्च शब्दसमुच्चिनादन्यस्य समुच्चय परश्चशब्दः । न शक्या कल्पयितुम् । ज्ञानं परप्रकाशम्, वस्तुत्वात् भासमानत्वाद्वा, घटादिवदिति प्रत्यनुमानम् । एवमादिभिः परप्रकाशत्वं न वक्तुं शक्यमित्यर्थः । कुत इत्यत्राह सत्तयैवेति । सत्तयैव प्रकाशनानत्वादिति हेतोरसिद्धिशङ्का निवृत्तये तं विवृणोति न हीति । विद्यमानदशायां कदाचिदप्रकाशमानत्वं पराधीन नकाशत्वे प्रयोज हम् ; अतः प्रत्यनुमानं सोपाधिकमित्यर्थः । विद्यमानदशायां सर्वदा भासमानत्वादिति व्यतिरेक्यनुमानान्तरमिति स्फुटतरम् । यथा संविलिद्धौ, “यद्यप्रकाशमाना धीः कदाचिदवतिष्ठने” इत्यारभ्य - “घटादाविव तत्रापि कल्पनीयं प्रकाशनम्” इति । अनेन ग्रन्थेन स्वतत्तथैव प्रकाशमानत्वादिति हेतोरसिद्धङ्का परिहृता ॥ विद्यमानत्वे सर्वदा प्रकाशमानत्वं सुखादावप्यस्तीत्यनैकान्त्यमिति चेन्न – सुखादिव्यतिरिक्तत्वे सतीति विशेषणस्याभिप्रेतत्वात् । सिद्धान्तिमते सुखादेरापे ज्ञानविशेषत्येन पक्षेऽन्तर्भावान्नानै कान्त्यम् । एवमनुमानान्तरमुक्तम् । शङ्कितप्रत्यनुमानस्य सोपाधिकत्वञ्च दर्शितम् ॥ अथ प्राकट्यानुमेयपक्षं निराचिकीर्षुरनुवदति अथैवं मनुत्र इत्यादिना । प्रथमं स्वसत्तयैव प्रकाशमानस्वादिति हेतोरसिद्धिमुपपादयति उत्पन्नायामिति । अनेन स्वोक्तस्य, ‘वस्तुत्वत्’ ‘मासमानत्वात्’ इत्यादिप्रत्यनुमानस्य सोपाधिकत्वन्युदासः सेत्स्यतीति भावः । उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासत इत्यत्र
पृथुधुनोद राकारद्रव्यं — १०१ जानन् तदानीमेवाविषयभूतामनिदम्भावामनुभूतिमप्यनुभवति । तस्माद्घटादिप्रकाशनिष्पत्तौ चक्षुरादिकरणसंनिकर्षवत् अनुभूतेः सद्भाव एव हेतुः । तदनन्तरमर्थगत कादाचित्कप्रकाशातिशयलिङ्गनानुभूतिरनुमीयते ॥ एवं तर्ह्यनुभूतेरजडाया अर्थवत् जडत्वमापद्यत इति चेत् किमिदमजडत्वं नाम ? न तावत् स्वसत्तायाः घटाऽयमितीत्यध्याहार्यम् । घटाऽयमिति विषयमात्र विभासत इत्यर्थः । घटोऽयमिति जनन्निति हि वक्ष्यते । यया संवित्सिद्धौ, “घटोऽयमिति विज्ञाने घटमात्र प्रकाशने न वित्तिरिति युष्माकं गोष्ठीषु
ननु घुष्यते ॥ " इति । घटोऽनुभूयत इतीत्यस्योत्तरत्रान्वयः । पूर्वत्रान्वयश्चेत्, ‘विषयमात्रमवभासत’ इत्यनेन विरोधः स्यात् । कथं विवयमात्रस्यावभासः ; घटेोऽनुभूयत इति अनुभवोऽपि प्रकाशत इति शङ्कायां विषयमात्रस्यैवावभासमुपपादयति “घटे। ऽनुभूयत इत्यादिना । यदा घटोऽयमिति जानाति, न हि तदानीमेव घटोऽनुभूयत इति जानाति । कुत इत्यत्राह अविषयभूतामनिदम्मावामिति । अविषयभूताम् — घटशब्दार्थव्यतिरिक्ताम् । अनिदम्भावाम् - अर्थशब्दार्थव्यतिरिक्ताम् । घटस्य विशिष्टं घटशब्दार्थः । सन्निहितदेशवर्तमानकालविशिष्टत्वमयं शब्दार्थः । उभयव्यतिरिक्तो ह्यनुभवः । स तु घटोऽयमित्यनुभव वेलायां नानुभूयत इत्यर्थः । अविषयभूतामिति साधारणनिर्देशः पटादीनामपि प्रदर्शनार्थः । अत एवाघट भूतामित्यनुक्तिः । यद्वा घटोऽनुभूयत इति पूर्वेणान्वयः । इतिर्हेतौ । यतो घट एवानुभूतिकर्म, न त्वनुभूतिरपि तदानीमनुभूतिकर्म भवति तस्माद्विषयमात्रमवमासत इत्यर्थः । अस्यैव विवरणम् न हीति 1 शब्दलिङ्गा लोकादीनां प्रकाशकानां ज्ञाततयैव प्रकाशकत्वं दृष्टम् ; अतोऽनुभूतिरप्रकाशा चेत्, प्रकाशकत्वमपि न स्यादित्यत्राह तस्मादुघटादीति । सत्तया प्रकाशकं ज्ञायमानतया प्रकाशकञ्च द्विविधं प्रकाशकम् । तत्र सत्तया प्रकाशककोटिनिविष्टं ज्ञानमित्यर्थः । क एवं नियामकः इत्यत्राह तस्मादिति । स्वसत्तयैव प्रकाशमानत्व हे तोरसिद्धेः, अस्मदुतहेतोः सोपाधिकत्वनिरासाञ्चेत्यर्थः । यद्यनुभूतिः स्त्रयमेव न प्रकाशते, तर्हि किं तस्यां प्रमाणमित्यत्राह तदनन्तरमिति । अर्थगतकादाचित्कप्रकाशातिशयलिङ्गेन - कादाचित्कत्वात् कार्यम्, कार्यस्वात् सहेतुकमित्यनुमानेन ज्ञायत इत्यर्थः । विषयगतप्राकट्यलिङ्गेन कथं स्वगतज्ञानमनुमीयत इति चेत् — स्वस्मै प्रकाशमानत्वात् स्वगतज्ञानानुमानमुपपद्यते । यदि ज्ञानपश्चाद्भाविना प्रकाशलिङ्गेन ज्ञानमनुमीयते तर्हि घटोऽनुभूयत इति वक्तुमयुक्तम्, घटेोऽन्वभावीत्येव वक्तुं युक्तमिति शङ्कायामुक्तं तदनन्तरमिति । प्रत्यासत्यतिशयात् वर्तमानस्त्वव्यपदेश इत्यर्थः । अर्थेन्द्रियसंप्रयोगसमनन्तरमेव घटोऽनुभूयत इति प्रतीतेः प्राकट्यलिङ्गेन ज्ञानानुमानानवकाशत्वशङ्का चानेन परिहृता तदनन्तरमिति । [ पद्मपत्र] बहुपत्र वैधवदनुमानशैघ्रधात् तथा प्रतीतिरुपपद्यत इति भावः । मृषावादी स्वदर्शन प्रसिद्ध्याऽनिष्टं प्रसञ्जयति एवं तहींति । जडत्वम् - ज्ञानव्यतिरिक्तत्वम्, अचित्त्वमित्यर्थः । इह चानुभूतिरजडेति विपर्यये पर्यवसानं प्रसञ्जनीयस्य जडत्वस्यानिष्टत्वञ्च प्रतिक्षेप्तुमजडत्वं विकल्प्य दूषयति किमिदमिति । किमिदं न किमपि ; दुर्निरूपमित्यर्थः ; अनन्तरं शिरोद्र्यप्रदर्शनाभावात् । दुर्निरूपत्यविवरणमुत्तरग्रन्थः । विकल्पपरो वा किंशब्दः । अंजडत्वं नाम, किं हेतुत्वेनोक्तं विद्यमानदशायां सर्वदा प्रकाशमानत्वम्, उत साध्यतयाऽभिमतं स्वयमेव स्वस्य प्रकाशकत्वम् इति विकल्पोऽभिप्रेतः । तत्र प्रथमे कल्पे किमुत्पत्तिकालेऽपि प्रकाशाव्यभिचारो
१०२ १-१-१. अनुभूतेरनुमेयत्व निरासः प्रकाशाव्यभिचारः, सुखादिष्वपि तत्संभवात् । न हि कदाचिदपि सुखादयः सन्तो नोपलभ्यन्ते । अतोऽनुभूतिः स्वयमेव नानुभूयते, अर्थान्तरं स्पृशतोऽङ्गुल्यमस्य स्वात्मस्पर्शवदशक्यत्वादिति । तदिदमनाकलितानुभवविभवस्य स्वमतिविजृम्भितम् ; अनुभूतिव्यतिरेकिणो विषयधर्मस्य प्रकाशस्य रूपादिवत् विवक्षितः, उतोत्पत्तिक्षणादूर्ध्व प्रकाशाव्यभिचारः इति विकल्पोऽभिप्रेतः । तत्राद्ये शिरस्यसिद्धिः पूर्वमेवोकेति मत्वा द्वितीयेऽनैकान्तिकत्वमाह सुखादिष्विति । तद्विवृणोति न हीति । शिरोऽन्तरं दूषयति अत इति । अतः - हेतोरसिद्ध्यनैकान्तिकत्वाभ्यां साध्यमपि नेत्यर्थः । अनेन जडत्वं नानिष्टमिति दर्शितम् । अनुमानान्तरेण साधयिष्यत इत्यत्राह अर्थान्तरमिति । व्याहतत्वान्न किञ्चिदपि प्रमाणमिममर्थं साधयितुमल मित्यर्थः । यथाहुः, “अङ्गुल्यग्रं यथाऽऽत्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥” इति । एवं जडत्वप्रसङ्गरूपतर्कस्य विपर्यये पर्यवसानाभावः, व्याप्त्यभावः, इष्टप्रसङ्गत्वम्, व्याघातलक्षणप्रतितर्कपराह्न तत्त्रश्च दर्शितम् । इति - अथैवं मनुषे इति पूर्वत्रान्वयः ॥ अथ स्वयंप्रकाशत्ववाद्याह तदिदमिति । अनाकलितानुभवविभवस्य । स्वव्यतिरिक्तस्य कृत्स्नस्य प्रकाशकः सन्
ननुभवः स्वात्मनि अनन्यापेक्ष इति एको विभवः प्राकट्यहेतुको यो व्यवहारः ‘प्रकाशते’ इति, तं च जनयितुमयमेव क्षम इत्यपरः । एवं द्विविधोऽनुभवविभवोऽनाकलितो येन, सोऽनाकलितानुभवविभवः; तस्य । स्वमतिविजृम्भितम् । प्रमाणतर्कनिरपेक्षस्वोत्प्रेक्षामात्रविजृम्भितमित्यर्थः । स्वमतिमाहात्म्यमित्यधिक्षेपो वा । पारिशेष्यात् स्वयंप्रकाशत्वमभ्युपगमयितुं प्रथमं प्राकट्य लिङ्ग प्रतिक्षिपति अनुभूतीत्यादिना । अनुभूतिव्यतिरेकेण इत्यनेनासाधारण्यप्रतिक्षेपः फलितः । विषयधर्मशब्देन आत्मधर्मव्युदासः । तेन रूपादिवत् साधारण्यं फलितम् । अनुभूतिव्यतिरेकी विषयधर्मः प्रकाशः प्रत्यक्षयोग्यो न वा? न चेत्, लिङ्गज्ञानाभावात् अनुमानानुदयः । योग्यश्चेत्, अन्यैरप्युपलभ्यः स्यात् रूपादिवदिति भावः ॥ अपेक्षाबुद्धिजन्यस्य द्वित्वादेर्यथा तत्तदेकपुरुषवेद्यस्त्रम् ; तद्वत् प्राकट्यमपि तदेकपुरुषवेद्यमिति चेन द्विस्वादिसङ्ख्याः प्रागेव सन्ति । यथैकत्र सर्वा दिशः; तत्तदुपाध्यपेक्षा बुद्धयभिव्यङ्गया हि ताः -एवमपेक्षा बुद्धषभिव्यङ्गयद्वित्वादि तस्यैव प्रकाशते, यद्गतमभिव्यञ्जकम् । अत तु रूपादिवत् जन्यधर्मश्वाभ्युपगमात् सर्वैरुपलभ्येत । अभिव्यङ्गयत्वेऽभिव्यञ्जकवत एवावभासते सिद्धाञ्जनवतो निधिरिव । न तु जन्यं जनकस्यैवावभासते ; न हि कुलालस्यैव घटः प्रकाशते । किञ्च रूपादिवदिति । धर्मस्य निराश्रयोपस्ययोगादतीतानागतयोरर्ययोर्ज्ञायमानयोरपि प्राकट्यायोगात् प्राकट्याभावेऽपि ज्ञानं प्रतीयत इति तत्र रूपादिवत् प्रकाशानुपलब्धेः प्राकट्येन ज्ञानानुमानं न संभवतीति भावः । यथा संवित्सिद्धौ, “अतीतेऽनागते चार्थे कथं प्राकट्यसंभवः । न हि धर्मिण्यसत्येव धर्मः संभत्रमृच्छति ॥” इति ॥ अतीतानागतयोरपि द्वित्वादिवत् प्राकट्यं जन्यत इति चेन्न ; द्वित्वादेरपि निराश्रयोत्पत्ययोगात् । तत्र द्वित्वाद्यनुत्पत्तावपि घटादेखि द्वित्वादेरपि धीस्थतया व्यवहारोपपत्तेश्च । ये पुनर्द्वित्वादिकं नाभ्युपगच्छन्ति, न तान् प्रति द्वित्वादिकं प्रतिबन्दी कार्यम् ॥ विषयविषयिभावसम्बन्धस्य विद्यमानाश्रयत्वनियमाभावाद्विषयविषयिभाव एव प्राकट्यमिति चेन्न, सम्बन्धिभ्यां विना प्रतीत्यनुपपस्या सम्बन्धि ज्ञानं च प्रतीयत इत्यनुमेयमेव न स्यात् - इति प्राकट्यं लिङ्गं न भवति ॥ एवं प्राकट्याख्यं वस्तु अनुपलब्धमप्यन्यथानुपपत्या
श्रुतप्रकाशिकोपेते श्रीमान्ये १०३ अनुपलब्धेः ; उभयाभ्युपेतानुभूत्यैवाशेषव्यवहारोपपत्तौ प्रकाशाख्य धर्मक्रल्पनानुपपतेश्च । अतो नानुभूतिरनुमीयते । नापि ज्ञानान्तरसिद्धा’ । कल्प्यत इत्याशङ्कय कल्पकस्यान्यथासिद्धिं दर्शयति उभयेति । अनुभूत्येत्युक्ते प्राकट्यस्य नामान्तरमुक्तं स्यादिति शङ्कानिरासार्थमुभयाभ्युपेतशब्दः । यां प्राकट्यजनकत्वेनाम्यधाः, तयैवेत्येवकाराभिप्रायः । अशेषव्यवहारः -हानोपादानादि [व्यवहार]ः । तस्यानुभूत्यैव संभवान्न तेन प्राकट्यं कल्प्यम् । ज्ञातो घटः, प्रकटो घटः इति व्यवहारश्च इष्टो घटः द्विष्टो घट इति व्यवहारवदन्यथासिद्ध इत्यशेषशब्दाभिप्रायः । न हीच्छाजन्येनार्थं गतेष्टत्वेन इच्छाऽनुमीयते ॥ घटः प्रकाशत इति घटकर्तृकतया प्रकाशः प्रतीयते ; घटमनुभवतीति घटकर्मकतया अन्यकर्तृकतया चानुभवः प्रतीयते; एवमेकस्यैव कर्मकर्तृव्यवहारानुपपस्या कल्प्यत इति इति चेन्न – कारकभेदस्य धातुभेदनिबन्धनत्वेनार्थभेदनिबन्धनत्वाभावात्, यथा ‘परशुमुद्यम्य वृक्षे निपातयति’, ‘परशुना वृक्षं छिनति’ इत्युक्तौ परशोः कर्मस्वकरणत्वे श्रुते ; अथापि नार्यभेदः ; वृक्षस्याधिकरणत्वकर्मत्वे श्रुते; तथापि नार्थभेदः - तथा व्यवहारभेदस्य धातुभेदनिबन्धनत्वेनार्थभेद हेतुकत्वाभावान्न व्यवहारः प्राकट्यकल्पक इत्यभिप्रायेण च अशेषव्यवहारोपपत्तावित्युक्तम् ॥ घटः प्रकाशत इति व्यवहारो घटगतातिशयेन विना नोपपद्यते, अन्यथा पटेऽपि तस्य व्यवहारस्य प्रसङ्गात् । स चातिशयः प्राकट्यमिति चेन्न—योऽतिशयो व्यवस्थापकः, स कथं घंटे एव स्यात् ; न पटे ? ॥ इन्द्रियसंयोगवशादेति चेत् — तेन ज्ञानमेव व्यवस्थाप्यताम्, किमतिशयान्तराभ्युपगमेनेति । अयमर्थोऽप्यशेषव्यवहारशब्देनाभिप्रेतः ।
" यत्तु घटोऽयमित्यनुभववेलायां नानुभूत्यनुभव इति – तन्नः अनुभूयत इति शब्दाप्रयोगस्याविवक्षानिबन्धत्वेना
ननुभवप्रयुक्तत्वाभावात् । लोको ह्यनुभूत कृत्स्नार्थविवक्षाऽस्ति चेत् तं सर्वं वदति । एकदेशाविवक्षाऽस्ति चेत्, अनुभूतैकदेशं वदति । एवमेकदेशविवक्षाऽपि नास्ति चेत्, न किञ्चिदपि वदति । अतोऽनुभूयत इति शब्दाप्रयोगो न तदप्रकाशत्वहेतुः । इदमप्यशेषव्यवहारशब्देनाभिप्रेतम् ; विकलस्याविकलस्यापि व्यवहारस्याशेषशब्देन कोडीकर्तुं शक्यत्वात् । एवं व्यवहारस्यान्यथासिद्धत्वादनन्यथासिद्धस्यैव कल्पकत्वात् न प्रकाशः कल्प्य इत्यर्थः ॥ प्राकट्यानुमेयत्वानुपपत्ति निगमयति अत इति । अतः - अनुपलब्धिव्यवहारान्यथासिद्धिभ्यां प्राकट्याभावात् अनुभूतिर्न प्राकट्यानुमेयेत्यर्थः । । मानसप्रत्यक्षवेद्यत्वानुपपत्तिमभिप्रेत्याह नापि ज्ञानान्तरसिद्धेति । इदमत्र परोक्तमनुमानम् - ज्ञानं मानसप्रत्यक्षप्राह्यम्, क्षणिकत्वे सति आत्मविशेषगुणत्वात् सुखदुःखप्रयत्नादिवदिति । आत्मविशेषगुणत्वादित्युक्ते धर्मादिष्वनैकान्त्यं स्यादिति तद्व्यावृत्यर्थं क्षणिकरवे सतीत्युक्तम् । क्षणिकविशेषगुणत्वादित्युके शब्दे व्यभिचारः, क्षणिकात्मगुणत्वादित्युक्ते आत्मनः संयोगे व्यभिचारः स्यादिति तत्परिहारार्थमात्मविशषशब्दौ । तदिदमनुपपन्नम् ; क्षणिकत्वगुणत्वयोरन्यतरासिद्धत्वात् । दृष्टान्तश्च साधनविकलः । किञ्च यत् मानसप्रत्यक्षवेद्यं तत् अबुभुत्सितग्राह्यं दृष्टम्, यथा सुखादि । अतश्च तद्विषयं ज्ञानं नियतमिति वक्तव्यम् । तस्मात् घटादिज्ञानविषयं यत् ज्ञानम्, तस्याध्यबुभुत्सितग्राह्यत्वात् मानसप्रत्यक्षवेद्यत्वं स्यात्, तद्विषयज्ञानस्यापि तथेत्यनन्त संविदावली समुदयस्यावर्जनीयत्वात् ज्ञानान्तरानवकाशः
१०४ १-१-१. अनुभूतेर्मानस प्रत्यक्ष वेद्यत्वनिरासः अपि तु सर्व साधयन्ती अनुभूतिः स्वयमेव सिद्ध्यति । प्रयोगश्च - अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसंबन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात् । स्यात् ॥ मानसप्राह्यत्वस्याबुभुत्सितग्राह्यत्वव्याप्यत्वं नास्ति, स्वापादावुच्छ्वास निश्श्वासप्रयत्ने सत्यपि तदूप्रहण भावादिति चेन्न - तदानीं जीवात्मनि प्रयत्नस्यैवाभावात्, देहधारणादयः परमात्मसङ्कल्पाधीनास्तदानीमिति हि वेदान्तवेदिनः । ‘अन्तराभूतग्रामवत्’ इत्यधिकरणेऽयमर्थः सुनिर्णयः । स्वापे देहपरिवर्तनादिस्त्वङ्गप्रत्यङ्गतोदात् दंशमशकादिजन्यदुःखादिना वाऽत्यल्पबोधे सति भवति । तदानीं च प्रयत्नो धीविषयः । अतो हेतोरव्यभिचारात् मानसग्राह्यं सर्वमबुभुत्सितग्राह्यमिति, अनवस्था स्यादेव । यदि बुभुत्सितग्राह्यम्, तर्ह्यन्योन्याश्रयणम् - ज्ञाने सतीच्छा, इच्छायां सत्यां ज्ञानमिति । किञ्च मानसप्रत्यक्षवेधस्य बुभुत्सितग्राह्यस्त्रेऽपि, सुखादिषूपलब्धिनियमदर्शनात् बुभुत्सानियमः कल्प्य इति तदेव ज्ञानेऽपि बुभुत्सानियमसिद्धेरुपलब्धिश्च नियता स्यात् । अतो बुभुत्सान्तरितज्ञानपरम्पराया अविरतिः स्यात् ॥ ज्ञानं बुभुत्सितग्राह्यम्, सुखादि तु नेति चेन्न; मानसप्रत्यक्षत्वाविशेषे नियामकाभावात् ॥ सुखादिषु घटादिविषयप्रथमज्ञाने च बुभुत्सा; द्वितीयादौ तु नेति चेन्न - नियामकाभावात्, मानसग्राह्यत्वाविशेषात् प्राप्तां बुभुत्सां को वारयेत् ? ॥ मानसप्राह्यत्वे सति हि बुभुत्सा; सुखादिकं घटादिविषयप्रथमज्ञानं च मानसग्राह्यम् ; द्वितीयादिज्ञानं न मानसप्रत्यक्षवेद्यमिति चेन्न ; तत्रापि नियामकाभावात् । किञ्च - क्षणिकात्म विशेषगुणत्वे सत्यपि द्वितीयादिज्ञानं न मानसग्राह्यं चेत्, हेतोरनैकान्त्यम् ॥ यदि प्रत्यक्षेण गृह्यते, तदा मानसग्राह्यमिति चेत्; तर्हि पक्षो हेतुश्च प्रत्यक्षप्राह्मशब्देन विशेष्यौ स्याताम् । किञ्च अन्यैरप्युक्तानि दूषणान्तराण्युच्यन्ते – यदि द्वितीयं ज्ञानं न मानसग्राह्यम्, तस्य द्वितीयस्य निष्प्रमाणकत्वेन शून्यता च स्यात् । ततश्च प्रथमस्य, ततस्तद्विषयघटादेरपि शून्यता स्यात् । द्वितीयादिज्ञानं स्वतः सिद्धं चेत्, प्रथमज्ञानमपि तथा स्यादिति । एवमाद्यभिप्रायेण नापि ज्ञानान्तरसिद्धा इत्युक्तम् । अथ पारिशेष्यात् स्वयंप्रकाशस्वं सिद्धमित्याह अपि त्विति । सर्वमिति । अन्यथा संविदः शून्यत्वेन तदधीनसिद्धि सर्वं शून्यं स्यादिति तत्परिहाराय स्वयंप्रकाशत्वमवश्याभ्युपगन्तव्यमित्यभिप्रायेण सर्वं साधयन्त्यनुभूतिः स्वयमेव सिद्ध्यतीत्युक्तम् । यथा संवित्सिद्धौ, “तदेवापश्यत सर्वशून्यत्वात् बिम्यतां सताम् । गतिः स्त्रयंप्रकाशत्वादृते नान्योपलभ्यते ॥” इति ।
अथ तर्कानुप्राह्यं स्वयंप्रकाशत्वे प्रमाणमुपन्यस्यति प्रयोगश्चेति । न केवलं पारिशेष्यात् स्वतःसिद्धस्वम् ; साधकप्रमाणमप्यस्तीति चार्थः । अनुभूतिरित्यादिना अनुमानद्वयं ग्रन्थलाघत्रार्थमविभागेनोक्तम् । अनुभूतिरनन्याधीनस्वधर्मा स्वसम्बन्धादर्थान्तरे तद्धर्महेतुत्वात्, अनुभूतिरनन्याधीनस्वव्यवहारा स्वसम्बन्धादर्थान्तरे तद्व्यवहारहेतुत्वात् इत्येवं विभागः । अत एव हि परत्र व्यवहारविशेषहेतोः स्वस्मिन्नपि तद्व्यवहारहेतुत्वमिति उत्तरत्र वक्ष्यते । प्राकट्यमभ्युपगम्य तदुपजीवनेन प्रथमानुमानमुक्तम् ; तदनुपजीव्य तु द्वितीयम् । प्रकाव्याभ्युपगमस्य न स्वप्रकाशताविरोधित्वम् ;’ तस्य ज्ञानानुमापकत्वानभ्युपगमात् । धर्मवत्त्वे अनन्याधीनधर्मवत्त्वे च साध्ये सिद्धसाध्यता स्यात् ; अनुभूतित्वादिधर्माणां हेत्वन्तरनैरपक्ष्यात् । न ह्यनुभूतिस्वादिजातिर्हेत्वधीना; नित्यत्वात् । जात्यनभ्युपगमेऽप्यनुभूति सामग्रीव्यतिरिक्तहेत्वनपेक्षत्वात् सिद्धसाध्यता । अतोऽनन्याधीनस्वधर्मेत्युक्तम् । स्वस्य धर्मः – स्वात्पाद्यतया स्वसम्बन्धी धर्मः स्वधर्मः । परत्र स्वसाध्यधर्मा-
। १०५ व्यन्तसजातीयधर्म इत्यर्थः ; अर्थान्तरे तद्धर्महेतुत्वादिति हेतूकेः । स्वधर्मशब्दनिर्दिष्टधर्मो हि तच्छन्दोकः । परत्र स्वसाध्यधर्मात्यन्तसजातीयः स्वस्मिन्नवश्यंभाविधर्मः स्वधर्मत्वेन विवक्षितः । अत एव स्वस्मिन् रूपित्वानापादनात् रूपस्य दृष्टान्तस्य साध्यविकलत्वशङ्का व्युदस्ता स्यात् ; दण्डान्तरनिरपेक्षं स्वस्मिन् दण्डित्वमनापादयति दण्डे व्यभिचारश्च परिहृतः स्यात् । अन्यशब्दश्च स्वात्यन्तसजातीयान्तरपरः; अन्यथा हेतुमात्रनिरपेक्षत्वे दृष्टान्तस्य साध्यविकलत्वं स्यात्; चक्षुराद्यपेक्षं हि रूपस्य चाक्षुषत्वम् । तादृशत्वपेक्षानियमराहित्यमनन्याधीनशब्देन विवक्षितम् ; अन्यापेक्षामात्रविरहे साध्ये परज्ञानस्यानुमेयत्वदर्शनेन बाधितत्वप्रसङ्गात् । न हि ज्ञानान्तरागोचरत्वमेतदनुमानसाध्यम् ; अपि तु स्वात्यन्तसजातीयानपेक्षप्रकाशाईत्वमात्रम् । तच्च परज्ञानस्य संभवतीति न बाधितविषयकत्वम् । अनन्याधीनस्वव्यवहारेत्यत्रापि व्यवहारवरखे साध्ये सिद्धसाध्यता; अतोऽनन्याधीनशब्दः । अन्यशब्दस्यात्यन्त सजातीयपरत्वात् वागाद्यपेक्षया बाधितत्वशङ्का परिहृता स्यात् । घटादीनां हानादिव्यवहारे स्वात्यन्तसजातीयानपेक्षो हेतुरनुभूतिरिति सिद्धसाध्यत्व युदासाय स्वशब्दः । स च परत्र स्वसाध्यव्यवहारात्यन्तसजातीयपरः । व्यवहारस्यात्यन्तसजातीयत्वं नाम अभिन्नप्रवृत्तिनिमित्तकत्वम् । व्यवहारानुगुण्यमात्रं हि प्रकाशत इति व्यवहारस्य निमित्तम् । परज्ञानव्यवहारे कालात्ययापदेश परिहारायापेक्षानियमराहित्यविवक्षा । ; हेतुमाह स्वसम्बन्धादिति । धर्महेतुत्वे व्यवहारहेतुत्वे च हेतौ विवक्षिते अनेकान्त्यं स्यादिति तत्परिहाराय तच्छब्दः । स्वस्य यो धर्मों व्यवहारश्च तदत्यन्तसजातीयो धर्मों व्यवहारश्च तच्छब्दविवक्षितः । स्वस्याग्निसंबन्धात् स्वस्मिन् पूर्वरूपसजातीयरूपान्तरत व्यवहारहेतुर्घटोऽग्निसापेक्ष इति तत्र व्यभिचारपरिहाराय अर्थान्तर इत्युक्तम् । किञ्च अर्थान्तरशब्दो निर्दिष्टजातीयात् विजातीयपरः; तेन परस्मिन् द्रष्ये संयुक्तत्वतव्यवहारहेतोर्द्रव्यस्य परद्रव्यसापेक्षतया ऽनैकान्त्यं परिहृतं स्यात् । द्रव्यं हि द्रव्यस्यात्यन्तसजातीयम् ॥
ननु घटो हि पटे संयुक्तत्वादिकमापादयन् स्वस्य तथास्ये घटान्तरापेक्ष इत्यनैकान्त्यम् ॥ नैवम् ; सजातीयापेक्षानियमविरहरूपस्य साध्यधर्मस्य तत्र विद्यमानस्वात् । न हि घटः स्वस्य संयुक्तस्वादौ स्वात्यन्तसजातीयं घटमेवापेक्षत इति नियमोऽस्ति । पुत्रे पुत्रत्वतद्व्यवहारहेतौ पितरि स्वस्य पुत्रत्वव्यवहाराय पित्रन्तरसापेक्षे व्यभिचारपरिहाराय स्वसम्बन्धादित्युक्तम् । विद्यमानस्वसम्बन्धो विवक्षितः । परन स्वसम्बन्ध तुल्यकालस्वगतधर्मात्यन्तसजातीयधर्म-तत्सापेक्षव्यवहारहेतुत्वादित्यर्थः । न हि पित्रादिप्रवासनिधनयोः पुत्रादौ पुत्रस्वं तव्यवहारश्वापगच्छति । अत एव स्वस्मिन् अनन्यापेक्षद्वैधीभावमनापादयति परद्वैधीभाबडेतो द्रव्ये व्यभिचारश्च दूरोत्सारितः ।
ननु सिद्धान्तिनोऽप्यभिमतमिदमनुमानम् । चेतनः स्वसम्बन्ध तुल्यकालं शरीरत्वं शरीरे जनयन् स्वस्मिन् शरीरत्वतद्व्यवहारयोर्नान्यानपेक्षः ; अपि तु परमात्मसापेक्षः । परमात्मा च चेतनत्वादत्यन्तसजातीयः । अतस्तत्रानेकान्त्यमिति ॥ नैवम् स्वव्यापकधर्महेतुस्वस्य विवक्षितस्वात् । न हि चेतनस्वव्यापकं शरीरत्वम् ; ईश्वरस्य चेतनस्यापि शरीरस्वाभावात् । अतः स्वधर्मशब्दाभिप्रेतेन स्वावश्यम्भाविश्वेन परिहारः
एतदुक्तं भवति — धर्मशब्दः प्रकाशपरो वा धर्ममात्रपरो वा अन्यशब्दा अन्यमात्रपुरो वा स्वात्यन्तसजातीयान्यारो वा । तत्र हेतुमात्रानमेक्ष प्रकाशत्वे इष्टान्तस्य साध्यविकत्वम् हि झु० 14
長 १-१-१. स्वप्रकाशत्वानुमाननिरूपणम् यः स्वसंबन्धादर्थान्तरे यद्धर्मव्यवहारहेतुः, स तयोः स्वस्मिन्ननन्याधीनो दृष्टः, यथा रूपादिश्चाक्षुषत्वादौ । रूपादिर्हि पृथिव्यादौ स्वसंबन्धात् चाक्षुषत्वादि जनयन्, स्वस्मिन् न रूपादिसंबन्धाधीनञ्चाक्षुषत्वादौ । अतोऽनुभूतिरात्मनः प्रकाशमानत्वे, प्रकाशत इति व्यवहारे च स्वयमेव हेतुः । ; चक्षुराद्यपेक्षप्रकाशम् । स्वात्यन्तसजातीयानपेक्षप्रकाशत्वे साध्ये व्यर्थविशेषणत्वं हेतोः ; हेतुत्वमात्रेण साध्यसिद्धेः । न हि यस्य कस्यचिद्धेतुस्सन् घटादिः स्वप्रकाशे घटान्तरादिकमपेक्षते । हेत्वनपेक्षधर्मत्वे अनुभूतित्वादिना सिद्धसाध्यता; परश्वधादिष्वनैकान्त्यश्च काष्ठद्वैधीमावहेतोः परश्वधस्य स्वद्वैधीभावे हेत्वन्तरसापेक्षत्वात् । स्वात्यन्तसजातीयानपेक्षधर्मत्वे चानुभूतित्यादिना सिद्धसाध्यता । विषयप्रकाशके परज्ञाने लिङ्गापेक्ष प्रकाशत्वदर्शनात् बाधश्च । रूपे रूपान्तरानपेक्ष स्वगतरू पित्व हेतुत्वाभावात् दृष्टान्तस्य साध्यविकलता । पुत्रगत पुत्रत्वतौ पित्रन्तरसापेक्षपुत्रत्वधर्मे पितरि अनैकान्त्यश्च । परद्रव्यगत संयुक्तत्वहेतौ द्रव्यान्तरसापेक्ष संयोग द्रव्ये चानैकान्त्यम् । अत एवमादिदोषपरिहारार्थमित्थं प्रयोक्तव्यम् –अनुभूतिः स्वजन्यपरगतधमत्यन्तसजातीयधर्मभाक्त्वे स्वात्यन्तसजातीयापेक्षा नियमरहितेति प्रतिज्ञा । स्वविजातीये स्वावश्यंभाविधर्मात्यन्त सजातीयस्व सम्बन्ध तुल्यकालधर्महेतुत्वादिति हेतुः । तथा अनुभूतिः स्वजन्यपरगतव्यवहारात्यन्तसजातीयव्यवहारमा क्वे स्वात्यन्तसजातीयापेक्षानियमरहितेति प्रतिज्ञा. स्वविजातीये स्वावश्यम्भाविव्यवहारात्यन्तस जातीय स्वसम्बन्धतुल्यकालव्यवहारहेतुत्वादिति हेतुः । व्यवहारस्य स्वावश्यम्भावित्वं नाम अवश्यंभा विधर्मनिबन्धनत्वम् ॥ व्याप्तिदर्शनपूर्वकं दृष्टान्तमाह य इति । साध्यसाधनधर्मौ सपक्षे दर्शयति-रूपदिहति । पक्षधर्माबलसिद्ध[ धर्म] माह अतोऽनुभूतिरिति । प्रकाशत इति व्यवहार इति । अनुभूतिः प्रकाशत इति व्यवहारे, अनुभूतिरिति व्यवहारे चेत्यर्थः ॥
ननु स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वं सोपाधिकम् ; सम्बन्धविशेषादर्थान्तरे तद्धर्मव्यवहारहेतुत्वस्यैव स्वस्मिन् तद्धर्मव्यवहारयोरनन्याधीनत्वे प्रयोजकत्वात् । स च सम्बन्धविशेष आश्रयाश्रयिभावरूपः । स तु रूपादावस्ति ; न तु पक्ष इति ॥ नैतत् - अस्य साध्यसमव्याप्त्यभावेनोपाधित्वाभावात् । आश्रयाश्रयिभावविरहेऽपि संबन्धमात्रादर्थान्तरे प्रकाशत इति व्यवहारहेतोर्दीपस्य स्वस्मिन्नपि तद्व्यवहारेऽत्यन्तसजातीयानपेक्षत्वं हि दृष्टम् । पूर्वं ज्ञानस्यापर प्रकाशत्ववादिभिः स्वसत्त्यैव प्रकाशमानत्वादिति हेतोरसिद्धिर्व्याहतिश्वोक्ते । तत्र घटोऽयमित्यनुभव वेलायामनुभूयत इतिं शब्दस्याप्रयोगात् असिद्धिरुक्ता ; शब्दव्यवहारवैकल्यपौष्कल्ययोर्विवक्षाविशेषहेतुकत्वेनार्थानुभवेऽ
ननुभवे च प्रयोजकत्वाभाववचनादसिद्धिः परिहृता । व्याहतिश्च नास्ति । तथा हि-अङ्गुल्यग्रस्य स्वात्मस्पर्शादिव्याहतिरुपलब्धिनिबन्धना । दीपादिषु च प्रकाश्यत्वप्रकाशकत्वे दृश्येते । निरूप्यमाणे, कर्मकर्तृभावविशेष क्ष नास्ति । निरासको [हि] दीपः, निरसनीयं तमः ; दीप उत्पादकः, ज्ञानमुत्पाद्यम् ; ज्ञानमुत्पादकम्, व्यवहार उत्पाद्य इति । किञ्च यद्यपि कर्मकर्तृभावस्य स्वतो विरोधात् भेदकत्वमुपलब्धिसिद्धम्, तथापि ज्ञापकेषु विरोधनियमाभावश्चोपलब्धिसिद्धः । ज्ञातरि, मनसि, शब्दशब्दे, पदमिति पदे, तथेदृशार्थीन्तरेष्वप्यविरोधो हि उपलभ्यते । उत्पादकेष्वेव तु विरोधनियमः । तत्र चाऽऽकारान्तरेण चेत्-न विरोधः ॥ 1 प्रकाशत इति । अनुभूयत इत्यर्थः । एवमर्थे गौरवात् निष्कृष्टमाह अनुभूतिरितीति । भाष्यार्थसर्पणो द्रष्टव्यः । मूले आत्मनः प्रकाशमानत्वे इत्यस्य स्वनिष्ठप्राकट्ये इत्यर्थः ।
१०७ सेयं स्वयंप्रकाशानुभूतिर्नित्या च, प्रागभावाद्यभावात् । तदभावश्च स्वतस्सिद्धत्वादेव । न ह्यनुभूतेः स्वतस्सिद्धायाः प्रागभावः स्वतोऽन्यतो वाऽवगन्तुं शक्यते । अनुभूतिः स्वाभावमवगमयन्ती, सती तावन्नावगमयति । तस्याः सत्त्वे विरोधादेव तदभावो नास्तीति कथं सा स्वाभावमवगमयति ? एवमसत्यपि नावगमयति ; अनुभूतिः स्वयमसती स्वाभावे कथं प्रमाणं भवेत ? नाप्यन्यतोऽवगन्तुं शक्यते ; अनुभूतेरनन्यगोचरत्वात् । अस्याः प्रागभावं साधयत् प्रमाणम अनुभूतिम् इयमि (अनुभूतिरियमि) ति विषयीकृत्य तदभावं साधयेत् । स्वतस्सिद्धत्वेन इयमिति विषयीकारानर्हत्वात् न तत्प्रागभावोऽन्यतः शक्यावगमः । अतोऽस्याः प्रागभावाभावादुत्पत्तिर्न शक्यते वक्तुम् इत्युत्पत्तिप्रतिबद्धाश्चान्येऽपि भावविकारास्तस्या न सन्ति ॥
ननु घटादिषु व्यवहारार्हत्वं स्वव्यतिरिक्तज्ञानहतुक दृष्टम् । ज्ञाने व्याप्तिर्भज्यते चेत्, व्यवहारस्य ज्ञानपूर्वकत्वव्याप्तिभङ्गेन अज्ञातस्यैव ज्ञानस्य व्यवहारास्पदत्वं स्यात् ॥ नैवम्; घटादिषु ज्ञेयव्यतिरिक्तज्ञातृदृश्यत्वेऽपि स्वेनैव ज्ञात्रा ज्ञातरि दृश्यत्वमिति सर्वाविगीतमिति तत्र परेणापि कर्मकर्तृविरोधव्याप्तिभङ्गोऽभ्युपगन्तव्यः । तथा घटादौ स्वव्यतिरिक्तकरणजन्यज्ञानदृश्यत्वेऽपिं मनसि तत् भग्नम् ; स्वानुमाने मनस एव करणत्वात् । तथा सर्ववाच्यानां स्वव्यतिरिक्तशब्दवाच्यत्वेऽपि शब्दशब्दे पदपदे च तद् भग्नम् घटादीनां स्वव्यतिरिक्तवाग्व्यवहार्यत्वेऽपि वागिन्द्रिये तत् भग्नम्, अतः कर्मकर्तृभावस्य विरोधव्याप्तिर्नास्ति । व्यवहारस्य ज्ञानपूर्वकत्वं न कैश्चिदपि भग्नम् । ज्ञानव्यवहारस्य ज्ञानकर्मतापूर्वकत्वविरहः प्रसज्यते चेत्, नानिष्टः । अवभासपूर्वकत्वस्याभग्नव्याप्तिकत्वान्न तद्विरप्रसङ्गः । तस्मादवभासमानस्यैव ज्ञानस्य व्यवहारास्पदत्वम् । अतः स्वविषयपरविषयव्यवहारानुगुण्यं ज्ञानस्य युक्तम् ॥ 9 अथ ज्ञातृज्ञेयनिरसनं ज्ञानस्वयंप्रकाशत्वञ्च बौद्धपक्षेऽपि समानमिति तद्व्यावर्तकं ज्ञानस्य नित्यत्वं साधयति सेयमिति । सेयम् — परमार्थभूतसन्मात्रैक्या प्रमाणाविषयभूता चेत्यर्थः ; यद्वा स्वयंप्रकाशत्वहेतु भूतधर्मवत्तया प्रसिद्धेत्यर्थः । स्वयंप्रकाशत्वस्य नित्यता हेतुत्वविवक्षया स्वयम्प्रकाशेत्युक्तम् । चः साद्ध्यसमुच्चये ; सौगतसाम्यशङ्कानिवृत्तौ वा । कुत इत्यत्राह प्रागभावादीति । स च कथमिति शङ्कार्यां ग्राहकाभावादित्यभिप्रायेणाह तदभावश्चेति । स्वतः सिद्धत्वेन प्रागभावाद्यभावं विकल्पमुखेन उपपिपादयिषुर्विकल्प शिरोद्वयेऽनुपपत्तिं प्रतिजानीते न हीति । स्वतः पक्षे अनुभूतिः किं सती स्वाभावमवगमयति, उतासती इति विकल्पमभिप्रेत्य सवपक्षं दूषयति अनुभूतिरिति । कुत इत्यत्राह तस्या इति । ग्राह्याभावादित्यर्थः । अनुभूतिः किमनुमित्यादिरूपा स्वाभावमवगमयति, उत प्रत्यक्षरूपेति विकल्पे, लिङ्गाद्यभावात् प्रथमः कल्पो न संभवतीत्यभिप्रेत्य द्वितीयः कल्पो ग्राह्याभावादूदूषितः पूर्वाभिप्रेत विकल्प शिरसेोरसत्वपक्षं ग्राहकाभावेन दूषयति एवमिति । पूर्वतराभिहितयोर्विकल्पशिरसोरन्यत इति पक्षं दूषयति नापीति । अनुभूतिरनन्यगोचरा स्यात् ; ततः किमभावाग्रहणस्य ? अभावो ह्यन्यगोचरत्वमर्हतीत्यत्राह अस्या इति । अस्याः । न ह्यन्यस्य प्रागभावो ग्राह्यः ; अपि त्वनुभूतेरेव ; तस्मात् तां विषयीकृत्यैव तदभावो ग्राह्यः; तस्या विषयीभावानर्हत्वान्न तत्प्रागभावग्रहणं शक्यमित्यर्थः । एवं प्रागभावाभावादुत्पत्त्यभावः (वं) ततश्च परिणामादिसर्वविकारान्तराभावमप्युपपादयति अतोऽस्या इति । अतः - स्वतः परतः पक्षयोरुभयोरप्यभावस्य दुर्भहत्वादित्यर्थः । विकारमात्रविरहे साध्येऽनुत्पन्नत्वमन्तवति प्रागभावेऽनैकान्तिकं स्यात् । अतो भावरूपविकारविरहस्य साध्यत्वज्ञापनाय भावशब्दः । यद्वा भावस्य विकार इति षष्ठीसमासः । ततश्च 1 ।
१०८- १-१-१. अनुभूतेरनात्मत्वादि अनुत्पन्नेयमनुभूतिरात्मनि नानात्वमपि न सहते; व्यापकविरुद्धोपलब्धेः । न ह्यनुत्पन्नं नानाभूतं इष्टम् । भेदादीनामनुभाव्यत्वेन च रूपादेरिवानुभूतिधर्मत्वं न संभवति । अतोऽनुभूतेरनुभवत्वरूपत्वादेवान्योऽपि कश्चिदनुभाव्यो नास्या धर्मः । यतो निर्धूतनिखिलभेदा संवित्, अत एव नास्याः स्वरूपातिरिक्त आश्रयो ज्ञाता नाम कश्चिदस्तीति भाषाभावरूपविकारमात्रविरहे साध्ये, प्रागभावे व्यभिचारशङ्कानिवारणार्थं भावत्वे सत्यनुत्पन्नत्वं विकारान्तराभावे प्रयोजकमिति फलितम् । अनुभूतिर्नान्तवती, भावत्वे सत्यनुत्पन्नत्वात् यदन्तवत् तत् भावस्वे सत्यनुत्पन्नं न भवति, यथा घट इति । च बौद्धाम्युपगतक्षणिकत्वव्यावृत्यर्थं नित्यस्वाय अनुत्पत्तिः, तब्याप्त विकारान्तराभावश्च साधितौ । अथ तदम्युपगतानेकत्वव्यावृत्यर्थं सजातीयमेदं व्युदस्यति अनुत्पन्नेयमिति । व्यापकविरुद्धोपलब्धेः । नानास्वव्यापकोत्पत्तिविरुद्धानुत्पत्युपलब्धेरित्यर्थः । व्याप्तिं दर्शयति न हीति । अस्य ग्रन्थस्य, यदनुत्पन्नम् तदनानाभूतं दृष्टमित्यर्थो वक्तुं न युज्यते ; ब्रह्मव्यतिरेकेणानुत्पन्नस्य अनानाभूतस्य कस्यचिन्मायावेदान्तिभिरन म्युपगमात् । यदनानाभूतं तदनुत्पन्नमित्युक्ते व्यापकजन्मनिवृत्या व्याप्यनानात्वनिवृत्तिरुक्ता न स्यात् । तस्मादयमर्थः - यत् नानाभूतं तत् अनुत्पन्नं न दृष्टम् ; अपि तूत्पत्तिमदेव दृष्टमिति । जन्मनो नानात्वव्यापकत्वं दर्शितम् । अनेनोत्पत्तिनिवृत्या नानात्वनिवृत्तिरित्यर्थसिद्धम् । यद्वा — यथा न ह्यनग्नि धूमवदृदृष्टमित्युक्ते अग्निमदेव धूमवदित्युक्तं स्यात्, तद्वदिहाप्यनुत्पन्नं नानाभूतं न दृष्टमित्युक्ते उत्पत्तिमदेव नानाभूतमित्युक्तं स्यात् ततश्वोत्पत्तिर्व्यानिकेत्युक्तं भवति । अनुभूतिर्नाना न भवति, अनुत्पन्नत्वात् । यत् नानाभूतम्, नत् उत्पत्तिमदृष्टम्, यथा घट इति व्यतिरेक्यनुमानमनुभूतिं पक्षीकृत्योक्तम् । गगनादिषु व्यभिचारो दुर्वचः ; तेषामुत्पत्तिमत्वेन वेदान्तिभिरभ्युपगमादिति भावः । एवं सजातीयभेदो निषिद्धः । अस्मिन्नर्थे विकारान्तराभावे च भेदं विकारान्तरं पक्षीकृत्यान्वय्यनुमानमाहमेदादीनामिति । आदिशब्देन उत्पस्यादयो विवक्षिताः । भेदादयो नानुभूतिधर्माः अनुभाव्यत्वात् रूपादिषदिति । व्यावृत्तिरूपत्र मौऽपि नास्तीत्युपपादयति अतोऽनुभूतेरिति । अन्योऽपि - व्यावृत्तिरूपेोऽपीति भावः (१) । यद्वा — विकारनानात्वजडत्वनिषेधात् नित्यत्वैकत्वस्वयंप्रकाशत्वरूपधर्मवस्वशङ्काव्युदासार्थं पूर्वोकनानात्वादिव्युदासार्थं च व्यतिरेक्यनुमानमाह अतोऽनुभूतेरिति । अन्योऽपि नित्यत्वादिरूपोऽपीत्यर्थः । अनुभूतिर्न व्यावृत्तिरूपधर्मभाक् अनुभवस्वरूपत्वात् । यत् व्यावृत्तिरूपधर्मभाक्, तत् अ
ननुभूतिर्दृष्टम्, यथा घटादीति व्यतिरेकि । यदि व्यावृत्तिरूपधर्मं पक्षीकृत्यानुभूतिधर्मत्वाभावः साध्यः स्यात्, तदा अनुभाव्यत्वं हेतुः ; यथा रूपादीनि सपक्षः । इदमन्वयि । एवं स्वगत मेदो निरस्तः ; पूर्वमेव ज्ञेयभेदो निरस्तः । “अत्रायं पुरुषः स्वयंज्योतिर्भवति” इत्यादिषु वेदान्तवाक्येष्वात्मनो नित्यत्वस्वयंप्रकाशत्वादयः प्रतिपन्नाः; अत्र तु संविदो नित्यत्वादिरुच्यते ; तत् कथं सङ्गच्छते इत्यत्राह यत इति । निर्धूतनिखिलभेदा सकलभेद निषेधेन विजातीयभेदोऽपि निरस्त इति विजातीयभेदस्य ज्ञातुर्मिथ्यात्वेन न स आत्मा, अपि तु परमार्थभूता संविदेवात्मेत्यर्थः । यद्वा — वेदान्तैरात्मनः प्रतिपादितं सजातीयविजातीयस्त्रगत नानास्वराहित्यं संविद एवोपपद्यत इति सेवात्मेत्यर्थः । स्वरूपेति । स्वरूपातिरिक्त आश्रयो हि ज्ञाता ; स नास्ति - संवित्स्व-
१०९ स्वप्रकाशरूपा सैवात्मा । अजडत्वाच । अनात्मत्वव्याप्तं जडत्वं संविदि व्यावर्तमानम्, अनात्मत्वमपि हि संविदो व्यावर्तयति ॥
ननु च - अहं जानामीति ज्ञातृता प्रतीतिसिद्धा ॥ नैवम् ; सा भ्रान्तिसिद्धा, रजततेव शुत्तिशकलस्य ; अनुभूतेः स्वात्मनि कर्तृत्वायोगात् । अतो मनुष्योऽहमित्यत्यन्तवहिर्भूतमनुष्यत्वादिविशिष्टपिण्डात्मा मिमानवज्ज्ञातृत्वमप्यभ्यस्तम् । ज्ञातृत्वं हि ज्ञानक्रियाकर्तृत्वम् । तच्च विक्रियात्मकं जडं विकारिद्रव्याहङ्कारग्रन्थिस्थमविक्रिये साक्षिणि चिन्मात्रात्मनि कथमिव संभवति ? दृश्यधीन सिद्धित्वादेव रूपादेवि कर्तृत्वादेर्नात्मधर्म- रूपातिरिक्तत्वादेवापरमार्थं इति स नात्मेति परमार्थभूता संविदेवात्मेत्यर्थः । स्वप्रकाशरूपा सैवात्मेति । वेदान्तैरात्मनः प्रतिपादितं स्वयम्प्रकाशस्त्रं संविद उपपन्नमिति सैवात्मेत्यर्थः । यद्वा तुच्छत्वशङ्कानिरासार्थमुक्तं स्वप्रकाशरूपेति । स्वयम्प्रकाशत्वं स्वतन्त्रसाधकं चेत्याह अजडत्वाच्चेति । इदं व्यतिरेकि - संवित् आत्मा अजडत्वात् ; यन्नात्मा तज्जडम्, यथा घटादीति । एतद्विवृणोति अनात्मत्वेति । अनात्मत्वव्याप्तम् । व्याप्तमिति कर्तरि क्तः — व्यापकमित्यर्थः । प्राप्तमितिवत् ॥
ब्रह्मस्वरूप भूतज्ञानाश्रयत्वम्, दूषयतिअनुभूतेरिति तर्केण ज्ञातृत्वे प्रतिक्षिप्ते, आत्मनोऽहं प्रत्ययगोचरत्वस्य स्वानुभवप्रत्यक्षसिद्धत्वेन चोदयति
ननु चेति । चश्चोद्यसमुच्चये । प्रतीतिसिद्धा - स्वानुभवरूपप्रतीतिसिद्धेत्यर्थः । अत्राह नैवमिति । प्रतीतेर्भ्रान्तित्वमाह सा भ्रान्तिसिद्धेति । अनुभवविषयत्वेन पूर्वं प्रतीता रजतता यथा शुक्तिज्ञानत्राधितत्वात् भ्रान्तिसिद्धा भवति, तथेत्यभिप्रायेणाह रजततेव शुक्तिशकलस्येति । भ्रमाधिष्ठानत्वोपपत्तये शकलशब्दः । अविकलवपुषः शुक्तेर्भ्रमास्पदत्वायोगात् । यद्वा ज्ञातृत्व प्रतीयमाने तत्र ज्ञानांशस्य पारमाध्यै कर्त्रशस्यापारमार्थे च दृष्टान्ततया रजततेव शुक्तिशकलस्येम्युक्तम् । तत्र हीदमंशः परमार्थः, रजततैवापरमार्थ इति । भ्रान्तिसिद्धत्वमुपपादयति अनुभूतेरिति । ततः किमित्यत्राह अतो मनुष्य इति । कर्तृत्वायोगमुपपादयति ज्ञातृत्वं हीति । यद्वा -ज्ञातृत्वं नाम किं उतान्तःकरणक्रियारूपज्ञानाश्रयत्वमिति विकल्पमभिप्रेत्य प्रथमं शिरो । पूर्वोक्तयुक्तिभिरनुभूतेरेव पारमार्थे सिद्धे, तस्या ज्ञातृत्वं स्वात्मनि कर्तृत्वं स्यात्; तत्तु व्याहृतमित्यर्थ । कर्तृत्वम् आश्रयत्वम् । ज्ञातृत्वं भ्रान्त पुरुषप्रतीतिसिद्धत्वाश्चाध्यस्तमित्यभिप्रायेणाह अत इति । पिण्डस्योपस्यादिभिरात्मव्यतिरिक्तत्वस्य संप्रतिपन्नत्वादत्यन्तबहिर्भूतेत्युक्तम् । अथ न केवलं स्वापेक्षया कर्तृत्वमनुपपन्नम् अपि तु स्वपरविभागनिर्विशेषं कर्तृत्वमात्रमेवानुपपन्नमित्यभिप्रायेण द्वितीयं शिरो दूषयति ज्ञातृत्वं हीति । ततः किमित्यत्राह तच्चेति । विक्रियात्मकम् -उत्पत्तिविनाशयोगात् क्रियायाः तदाश्रयत्वमपि कादाचित्कमिति तत् विकाररूपमित्यर्थः । जडम्ज्ञेयम् । अत एव विकारिद्रव्याहङ्कारग्रन्थिस्थम्, जडत्वविक्रियात्मकत्व साम्यादिति भावः । ग्रन्थिर्नाम बन्धस्याशैथिल्यकरो ग्रथनविशेषः । अहङ्कारस्य सर्वभ्रममूलत्वात् ग्रन्थिरित्युक्तम् । एतद्विरोधिरूपमाह अविक्रिय इति । साक्षित्वाभ्युपगमेन ज्ञातृत्वमभ्युपगतं भवतीति शङ्कायां साक्षित्वमपि ज्ञानस्वरूपस्वानुगुणमित्यभिप्रायेण साक्षिणीत्युक्तम् । अविद्यानुभवरूपत्वमेव साक्षित्वमिति ज्ञानत्वाविरोध इति भावः । चिन्मात्रात्मनि – स्वयंप्रकाशे । जडम् । ज्ञातृत्वमजडस्य न संभवतीति भावः । कर्तृत्वादिर्नात्मधर्मः हृश्यधीनसिद्धित्वात् रूपादिवदित्यन्वयिनमभिप्रेत्याह दृश्यधीन सिद्धित्वादेवेति । कर्तृत्वादेरित्यादिशब्देनाहम्प्र-
११० १-१-१. अहङ्कारे ज्ञातृत्वनिर्वाह प्रकारः त्वम् । सुषुप्तिमूर्छादावहम्प्रत्ययापायेऽप्यात्मानुभवदर्शनेन नात्मनोऽहम्प्रत्ययगोचरत्वम् । कर्तृत्वे अहम्प्रत्ययगोचरत्वे चाऽऽत्मनोऽभ्युपगम्यमाने देहस्येव जडत्वपराक्त्वानात्मत्वादिप्रसङ्गो दुष्परिहरः । अहम्प्रत्ययगोचरात् कर्तृतया प्रसिद्धात् देहात् तत्क्रियाफलस्वर्गादे भक्तुरात्मनोऽन्यत्वं प्रामाणिकानां प्रसिद्धमेव ; तथाऽहमर्थात् ज्ञातुरपि विलक्षणः साक्षी प्रत्यगात्मेति प्रतिपत्तव्यम् । एवमविक्रियानुभवस्वरूप स्यैवाभिव्यञ्जको जडोऽप्यहङ्कारः स्वाश्रयतया तमभिव्यनक्ति । आत्मस्थतया अभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः । दर्पण - जल-खण्डादिर्हि मुखचन्द्रबिम्ब गोत्वादिकमात्मस्थतयाऽभिव्यनक्ति । तत्कृतोऽयं जानाम्यहमिति भ्रमः । स्वप्रकाशाया अनुभूतेः कथमिव तदभिव्यङ्गय जडरूपाहङ्कारेणाभि- त्ययगोचरत्वं गृह्यते । य एत्र मेदादीनामनुभूतिधर्मत्वाभावे हेतुः, तेनैवेत्येवकाराभिप्रायः । अहमर्थो ह्यात्मा. तेन समानाधिकरणतया प्रतीतो ज्ञाता आत्मा स्यादित्यत्राह सुषुप्तिमूर्छादाविति । “नाह खलु” इत्यादिश्रुत्युपजीवनेनाहं प्रत्ययापायेऽपीत्युक्तम् । आत्मनः कर्तृत्वाहम्प्रत्ययगोचरत्वाभावे व्यतिरेक्यनुमानत्रयं प्रसङ्गरूपेणाह कर्तृत्वे इति । आत्मा न कर्ता, न चाहंप्रत्ययगोचर इति प्रतिज्ञाद्वयम् ; अजडत्वात् प्रत्यक्त्वात् आत्मत्वादिति हेतुत्रयम् ; यत् कर्तृ यदहंप्रत्ययगोचरः तज्जडं पराक् अनात्मा च दृष्टम्, यथा शरीरमिति । यद्वा आत्मा न कर्ता, न चाहंप्रत्ययगोचरः, जडत्वादिप्रसङ्गात् देहवदिति । जडत्वम् — दृश्यतैकस्वरूपत्वम् । पराक्त्वम् – परस्मै भासमानत्वम् । आत्मत्वम्-पुरुषार्थप्रतिसंबन्धित्वम्, देहं प्रति नियन्तृतया व्यापित्वं वा; तदभावोऽनात्मत्वम् । आदिशब्देन क्षयित्वादिकं विवक्षितम् । अहंप्रत्ययगोचरस्य देहस्यानात्मत्वे सिद्धे ह्यहंप्रत्ययगोचरस्य कर्तुरनात्मत्वप्रसक्तिरित्यत्राह अहंप्रत्ययगोचरादिति । क्रियाफलस्वर्गादेर्भोक्तुरित्यनेन देहातिरिक्तत्वं सिद्धम् । प्रामणिकानाम् - चार्वाकव्यतिरिक्तानाम् । अनात्मनः अहङ्कारस्य कर्तृत्वे कथमात्मनः संसारभोक्त्तृत्वमिति च शङ्का शरीरप्रतिबन्द्या निरस्ता । स्वर्गादिभोक्त्तुरात्मत्वे सिद्धे ज्ञातैवात्मा स्यादित्यत्राह तथेति । शरीरातिरिक्तात्मनोऽभ्युपगमेो हि प्रमाणबलात् क्रियते; तथा ज्ञातुरपि विलक्षणत्वेन प्रमाणसिद्धत्वात् तथाऽम्युपगन्तव्यमित्यर्थः । युद्वा - अप्रामाणिका हम्प्रत्ययगोचरत्वेन हि शरीरस्यानात्मत्यादि प्रामाणिका हम्प्रत्ययगोचरस्य तु कथमनात्मत्वादीत्यत्राह अहंप्रत्ययगोचरादिति । देहस्याप्रामाणिकाहम्प्रत्ययगोचरत्वं प्रमाणबाधादेव हि ज्ञायते । एवं कर्मफलभोक्तुरौप्राधिकाकांरवतो ज्ञातुरात्मत्वं प्रमाणबाधितं चेत्, आत्मनस्तद्विलक्षणत्वं स्वीकार्यमित्यर्थः । अतः प्रामाणिकाप्रामाणिकविभागाभावेनाहम्प्रत्ययगोचरत्वमात्रमेवानात्मत्वसाधकमिति भावः । अविक्रियात्मनः कथं ज्ञातृत्वसंभवः इत्यत्राह एवमिति । यद्वा – ज्ञातृत्व महङ्कारग्रन्थिस्थमिति पूर्वमुक्तम् । कथमहङ्कारस्य ज्ञातृत्वसंभव इत्यत्राह एवमिति । अभिव्यञ्जकत्वप्रयुक्तोऽयमहङ्कारस्य संविदाश्रयभाव इति भावः । अभिव्यञ्जकोऽस्त्वहङ्कारः ; कथमस्य स्वाश्रयतयाऽभिव्यञ्जकत्वमित्यत्राह आत्मस्थतयेति । स्वभावशब्देन औत्सर्गिकत्वं विवक्षितम् । कचित् प्रमाणबाधश्चेत्, न तथेति भावः । दृष्टान्तं दर्शयति दर्पणेति । आत्मस्थतयाऽभिव्यञ्जनं न दर्पणत्वप्रयुक्तम्, न च प्रतिबिम्बत्वप्रयुक्तम्, अभिव्यञ्जकत्वमात्रप्रयुक्तमिति दर्शयितुं खण्डादिग्रहणम् । आदिशब्देन मुण्डादि (१) । एवं व्यङ्क्तृव्यङ्गयभावकृतो ज्ञातृत्वावभासः संविद इत्याह तत्कृत इति जडस्याभिव्यञ्जकत्वमयुक्तम् ;स्वप्रकाशस्य वस्तुनोऽभिव्यङ्ग्यत्वं चायुक्तम् ; संविदभिव्यङ्गयस्य च विशेषेण तदभिव्यञ्जकत्व मयुक्तम् - इतीमामाशङ्कां स्वयमेवोत्थाप्य प्रतिक्षिपति स्वप्रकाशाया इति ।
( १११ व्यङ्गयत्वमिति मा वोचः ; रविकरनिकराभिव्यङ्ग्यकरतलस्य तदभिव्यञ्जकत्वदर्शनात् । जालकरन्ध्रनिष्क्रान्तघुमणिकिरणानां तदभिव्यङ्गयेनापि करतलेन स्फुटतर प्रकाशो हि दृष्टचरः । यतः, अहं जानामीति ज्ञाताऽयमहमर्थः चिन्मात्रात्मनो न पारमार्थिको धर्मः, अत एव सुषुप्तिमुक्त्योर्नान्वेति । तत्र ह्यहमथल्लेखविगमेन स्वाभाविकानुभवमात्ररूपेणाऽऽत्माऽवभासते । अत एव [च] सुप्तोत्थितः कदाचित् मामप्यहं न ज्ञातवानिति परामृशति । तस्मात् परमार्थतो निरस्त समस्त भेदविकल्पनिर्विशेषचिन्मात्रै कर सकूटस्थ नित्यसंविदेव भ्रान्त्या ज्ञातृज्ञेयज्ञानरूपविविधविचित्र भेदा विवर्तत इति तन्मूलभूताविद्यानिबर्हणाय नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते - इति ॥ कुत इत्यत्राह रविकरेति । करतलस्य किरणाभिव्यञ्जकत्वं क दृष्टमित्यत्राह जालकेति । एवं ज्ञातृत्वस्यापारमार्थिकत्वमुक्तम । एतदेव परमार्थवस्तु मासनवेलायामनव भासन प्रतिपादनेनोपपादयति यत इति । अनेन अहंप्रत्ययापायेऽपीति पूर्वोक्तार्थो विवृतो भवति । यत इति साध्यस्य हेतुतया निर्देशः ; अग्निमखेन धूमवत्त्वमितिवत् । मुक्तिसमनिव्याहारेण सुषुप्तावप्यहं प्रत्ययापायस्यागमसिद्धत्वं सूचितम् । तदा कथमवभासत इत्यत्राह तत्र हीति । " नाह खल्वयमेवं संप्रत्यात्मानं जानाति, अयमहमस्मीति” इति स्वापविषया श्रुतिः । " अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते” इति मुक्तिविषया स्मृतिः । “महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेत्र च” इति क्षेत्रान्तर्भावश्वाच्यते अहङ्कारस्य । “अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते " इति तस्य भ्रान्तिसिद्धत्वमुच्यते । हिशब्दः श्रुतिस्मृति प्रसिद्धियोतनाथ । न केवलं श्रुतिः सुषुप्तिविषया; परामर्शश्च तथाऽस्तीत्याइ अत एवेति । (अत एव चेति ) । अत एवेति साध्यस्य हेतुत्वेन परामर्शः । कथं साध्यसाधनयोर्विपरीत निर्देशः ? इत्थम् —ज्ञप्तौ यत् साध्यम्, तत् उत्पत्तौ साधनम् ; यत् उत्पत्तौ साधनम् (2 साध्यम् ? ), तद् ज्ञप्तौ साध्यम् (साधनम् ? ) । तस्मात् अग्निमत्त्वादेव हि धूमोद्गम इतिवत् उत्पत्तौ हेतुत्वमपेक्ष्य अत एवेत्युक्तम् । ततः किं प्रस्तुतपूर्ववृत्तत्यचिन्तायाः इत्यत्राह तस्मादिति । तस्मादित्यनेन यदप्याहुरशेषविशेषेष्यारभ्योक्तं प्रमाणतर्काभ्यां स्वमतोपपादनमभिप्रेतम् । निरस्तसमस्त भेदविकल्पेति । भेदविकल्पशब्देन ज्ञावृज्ञेयादिभेदस्यावान्तरवैविध्यं विवक्षितम् । निर्विशेषशब्देन स्वगतनित्यत्वादिभेदव्यावृत्तिः । कुत इत्यत्राह चिन्मात्रैकर सेति । चिन्मात्रत्वादित्यर्थः । अनेन शून्यत्वव्युदासश्च । कूटस्थम् निर्विकारम् ; सर्वाधिष्ठानं वा । नित्यसंविदेवेति । चिन्मात्रशब्दः स्वयंप्रकाशत्वपरः, संविच्छब्दो विशेष्यपर इत्यपौनरुक्तयम् । चिन्मात्रस्य कथं भेदसंभव इत्यत्राह भ्रान्त्येति । भ्रान्त्या विवर्तत इति करिकलभवन्निर्देशः । शुद्धम् अविद्यारहितम् । बुद्धम् स्वयंप्रकाशम् । मुक्तम् परमार्थतो भेददर्शनजन्मादिरहितम् । एवंविधब्रह्मात्मैकत्वविद्यालब्धये सर्वे वेदान्ता आरम्यन्त इत्यर्थः । वेदान्तानामारम्भणीयत्वं नाम तद्विचारस्यारम्भणीयत्वम् । सर्वे वेदान्ता आरभ्यन्त इति यदप्याहुरिति पूर्वेणान्वयः । ब्रह्ममीमांसाशास्त्रं किमनारम्भणीयम्, 1 चकारस्य मूलेऽनुपलम्भेऽपि कतिपयव्याख्याकोशानुसारेण तदुल्लेखः । 2 यत् ज्ञाप्यं तत् उत्पादकम् । यत् उत्पाद्यं तत् ज्ञापकमिति हि वक्तव्यम् । अत एवं स्यात् । 3 लब्धय इति । मूलस्थं प्रतिपत्तिपदं लाभार्थकम् । भाष्यवाक्यमिदं शाङ्करभाष्यस्थम् ।
११२ १-१-१. महासिद्धान्तारम्भः तदिदमौपनिषद परमपुरुषवरणीयताहेतुगुणविशेषविरहिणाम् उतारम्भणीयम् इति विचारे, बन्धस्य परमार्थत्वेन ज्ञाननिवर्त्यत्वाभावात् ज्ञानप्रतिपादकवेदान्तवाक्यविचाररूप सालमनारम्भणीयमिति पूर्वपक्षं कृत्वा, बन्धस्य मिथ्यात्वेन ज्ञानमात्रनिवर्त्यत्वात् ज्ञानार्थं वेदान्तविचाररूपं शास्त्रमारम्भणीयमिति हि ब्रह्माज्ञानपक्षे’ प्रथमाधिकरणार्थः शिक्षितः । अतो बन्धस्य मिथ्यात्वेन ज्ञानमात्रनिवर्त्यत्वात् ज्ञानप्रधानस्य शास्त्रस्य कर्मविचारो न पूर्ववृत्त इत्युक्तं भवतीति वैषम्यम् । उपाय आत्मैकत्वविज्ञानम्, उपेयं निर्विशेषचिन्मात्रं ब्रह्म, निवत्यं च मिथ्याभूतम् इति त्रयं कर्मविचारस्यानपेक्षितत्वाय पूर्व विस्तरेणोपपादितं निगमनग्रन्थे संक्षिप्तं भवति ॥ 1 *
, 1 अथ कर्मविचारपूर्ववृत्तत्व विरोधि वस्तु सामर्थ्य निरासार्थं परोक्तानामुपायोपेय निवर्त्यानां प्रमाणतर्काभासमूलत्वं प्रतिजानीते ( प्रतिजानाति ) तदिदमिति । स्वाभिमतानामेव तेषां प्रमाणतर्कोपपन्नतां च संक्षेपेण प्रतिजानाति 2 । अर्थाद्वदुशास्त्रज्ञानां बहुग्रन्थकाराणामपि परेषां स्खलनानुपपत्तिशङ्काश्च सम्यग्ज्ञानोत्पत्ति सामग्रीवैकल्यप्रतिपादनमुखेन परिहरति तदिदमित्यादिना । परमपुरुषशब्देनोपेयम्, वरणीयतेत्यादिना उपायम् अनादीत्यादिना निवर्त्यम् अनधिगतेत्यादिना परपक्षनैर्मूल्यम् न्यायानुगृहीतेत्यादिना स्वपक्षस्य समूलताम् अर्थतोऽनेकविद्वत्परिग्रहश्च प्रतिजानीते । तदिदमिति अनन्तरवाक्यप्रकृतं परोक्तोपायोपेयनिवर्त्यत्रयं विवक्षितम् । औपनिषदपरमपुरुषशब्देन “तं त्वौपनिषदं पुरुषम्” इति श्रुतिं स्मारयति ; एतेन अस्मदभिमतप्रमाणप्रमेयविशेषसंबन्धः श्रुत्यैव व्यक्त इति सूचयति । परमशब्देनेश्वरातिरिक्ततत्त्वन्यावृत्तिः । वरणीयताहेतुगुणविशेषविरहिणामित्यनेन, ‘यमेवैष वृणुते तेन लभ्यः’ इत्यभिमतोपाय विशेषकथनं फलितम् ; अनेन पदेन बहुशाखइबहुग्रन्थकाराणां भ्रमानुपपत्तिशङ्का च परिहृता भवति ; सम्यक् शास्त्रार्थज्ञानोत्पत्तौ भगवद्भक्तेरपि सामग्रयन्तर्भावेन केवलशास्त्रपरिश्रमस्य विकलहेतुत्वात् । यथा, “यस्य देवे परा भक्तिः " इत्यादिका श्रुतिः । स्मृतिश्च, “विद्या राजन् न ते विद्या मम विद्या न हीयते । विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम् ॥ धृतराष्ट्रः । गावद्ग (ग)णे ! ते का विद्या या ते विद्या जनार्दने । यया त्वमभिजानासि त्रियुगं मधुसूदनम् । सञ्जयः । मार्यां न सेवे भद्रं ते न वृथा धर्ममाचरे । शुद्धभावं गतो भक्तया शास्त्राद्वेद्मि जनार्दनम् " इति । अत्र, ‘भक्तथा शुद्धभावं गतः शास्त्रात् जनार्दनं वेभि’ इत्यनेन यथावच्छास्त्रार्थज्ञानोदयस्य भक्तिसापेक्षत्वं सिद्धम् । “जायमानं हि पुरुषं यं पश्येन्मधुसूनः । साविकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥ पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा चास्य मानसं समभिप्लुतम् ॥” इति वचसाच्च तत्वार्थज्ञानस्य भक्तिप्रीत भगवत्कटाक्षसापेक्षत्वं ज्ञायते ॥
ननु, ‘यया त्वमभिजानासि’, ‘भक्त्या वेभी’ति प्रश्नप्रतिवचनाभ्यां विद्याभक्तिशब्दयोरेकार्थ्यं प्रतीयते । भक्तिरूपा च विद्या मोक्षायेति प्रागुपपादितम् । ततश्च शास्त्रज्ञानमूला भक्तिः, भक्तिमूलं शास्त्रज्ञानमित्यन्योन्याश्रय इति चेत् — नैवम् ; श्रवणवेलायामेव पदार्थतया अवगम्यमानेषु परमात्मगुणादिष्वनुकूलबुद्धिगोचरत्वाद्विद्याभक्तिशब्दयोः । तेन 1 ; 1 ब्रह्माज्ञानपक्ष इति । जीवाज्ञानपक्षानुसारिभिः जीवब्रह्मैक्यात् अहमिति जीवस्फुटज्ञानेनैव ब्रह्मणो ज्ञाततया न विचार्यतेत्याशंक्य तस्य यथावत् अहमित्येतदज्ञेयतया विचार्यता इत्युक्तमित्याशयेनैतत्पदप्रयोगः । 2 प्रतिजानाति - अनुसंधत्ते । काराणामपीत्यस्य वैकल्येऽन्वयः । अपिर्विशेषणसमुच्चये वा ।
११३ अनादिपापवासनादूषिता शेषशेमुषीकाणाम् अनधिगतपदवाक्य स्वरूप तदर्थयाथात्म्य - प्रत्यक्षादिसकलप्रमाणवृत्त - तदिति कर्तव्यता रूपसमीचीन न्यायमार्गाणां विकल्पासह विविधकुतर्ककल्ककल्पितमिति न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम् । तथाहि- सम्यग्वाक्यार्थनिर्णयलाभः । पूर्वपक्षतयोपन्यस्यमानेऽपि सुगताभिमतवेदाप्रामाण्यादौ हि भवति प्रद्वेषो वैदिकानाम् । भगवद्गुणादिष्वनुरक्तचित्तता भवति । न चैषा साक्षात्कार कल्पनिरन्तरध्यानरूपा भक्तिः । अतो नान्योन्याश्रयः । अथ शास्त्रार्थ [याश्रात्म्य ] ज्ञानोत्पत्तिहेतुभूत भक्तिविरोधिनमाह अनादीति । यद्वा सम्यग्ज्ञानहेतुभूतभक्तपभावात् सम्यग्ज्ञानविरोधिपापानुबन्ध माह अनादीति । वासना शब्देन पापस्य दृढमूलत्वेन दुर्निवारत्वमुक्तम् । वासनया पापं पापेन वासना, अज्ञानेन पापवासना पापवासनया अज्ञानभित्यन्योन्याश्रयपरिहाराय अनादिशब्दः । शेमुवी मोक्षोपयोगि ज्ञानम् । अशेषशब्दस्योपायोपेयनिवर्त्यविषया विश्वशेमुषी दूषितेति भावः । अनेनार्थात् स्वपक्षे निवर्त्यं चोक्तं भवति ; कर्मण एव मोक्षप्रतिबन्धकत्वात् । दूषितशेमुषीकत्त्रफलं सम्यग्ज्ञानाभावमाह अनधिगतेति । प्रत्यक्षविरोधे शास्त्रप्राबल्यस्य परेणोक्तत्वात्, पदशः समुदायेन च सविशेषपरत्वप्राधान्येन च प्रथमं शब्दप्रमाणमाह पदेति । प्रकृतिप्रत्यययोगेन च पदत्वं न ज्ञातमिति पदशब्दस्य भावः । वाक्यस्वरूपेति । वाक्यम् अनेकपदार्थ संसर्गविशेषाभिधायि इति च न ज्ञातमिति भावः । तदर्थयाथात्म्यम् - तात्पर्यविषयः । प्रत्यक्षादीति आदिना (दिशब्देन) अनुमानम् ; सकलशब्देन स्पार्शनचाक्षुषादिप्रत्यक्षावान्तरमिदा विवक्षिता; अन्वयव्यतिरेकाद्यनुमानावान्तरभिदा च वित्रक्षिता । यद्वा तत्तद्वाद्यभिमतार्थापत्त्यादिप्रमाणान्तरविषयः सकलशब्दः । वृत्तम्बोधनम् । तदितिकर्तव्यतारूपेति । तर्केण प्रमाणबाधवचनात् प्रमाणानुग्राहकस्तर्क इति च न ज्ञातमिति भावः । प्रमाणानुग्राहकतयैव हि वयं तर्कमङ्गीकुर्म इत्यत्राह समीचीनन्यायेति । अनुग्राहकबुद्धया स्वीकृतस्यापि तर्कस्य प्रमाणविरुद्धत्वात् सोऽसमीचीन इति भावः । अपच्छेदन यादिसमीचीनन्याया एव हि स्वीकृता इत्यत्राह न्यायमार्गाणामिति । अयमपच्छेदन्यायविषयः, अयं सामान्यविशेषन्यायविषय इति तत्तन्न्यायसञ्चारविषयविभागोऽनवगत इति भावः । तर्हि किमवलम्ब्य प्रबन्धाः कृता इत्यत्राह विकल्पासहेति । कुतर्काःप्रमाणविरुद्धाः मूलशैथिल्यमियोविरोधादिदोषान्तराक्रान्ताश्च तर्काः । ते च त्रिचतुरपदस्थायितो न भवन्ति, किन्तु विकल्पितान्यतरशिरः परिग्रह एव भङ्गुराः इत्याह विकल्पासहेति । तर्कस्य विकल्पासहत्वं नाम तद्विषयसाधनादिविकल्पासहत्वमेव । विविधेति । ब्रह्मणोऽनुभाव्यत्वेऽ
ननुभूतित्वम्, प्रत्यक्षं सन्मात्रग्राहि, वेदान्तवेद्यं ब्रह्म प्रमाणान्तरगोचर इत्यादिरूपं कुतर्काणामन्योन्यव्याहतिवैविध्यं विवक्षितम् । ईदृशकुतर्क एव कल्कम् - असारभूतम्, बौद्धैरात्तसारम्, ऋजीष मित्यर्थः । एतेन कल्पितम् — उत्कीर्णम् । इतिर्हेतौ । केषाञ्चित् समीचीनार्थान्तरविषयज्ञानेऽसत्य [[य] ] स्यासमीचीनत्वनिश्चयः कथमित्यत्राह न्यायानुगृहीत प्रत्यक्षादिसकलप्रमाण वृत्त याथात्म्यविद्भिरिति । अनेन पूर्वोक्तविपरीताकार उक्तः । बहुवचनेन स्वपक्षस्य भगवद्बोधायनायनेकशिष्टपरिग्रहः सूचितः । अनादरणीयमिति । शिष्यशिक्षासु पूर्वपक्षोपन्यास कौशलार्थमप्यादर्तुमयोग्यमित्यर्थः । अशेषविशेषप्रत्यनीकचिन्मात्रमित्यारभ्य सर्वे वेदान्ता आरभ्यन्त इत्यन्तेन यदप्याहुः, तदनादरणीयमित्यन्वयः ॥ एवं सङ्क्षेपेण प्रतिपादितमर्थमुपपादयितुमुपक्रमते तथा हीति ।
ननु पूर्वपक्षिणा प्रथमं वेदान्तवाक्यानि [प्य 1 श्रु० 15 /
११४ १-१-१. निर्विशेषविषयकप्रमाणासंभवः निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनीदं प्रमाणमिति न शक्यते वक्तुम; सविशेषवस्तुविषयत्वात् सर्व प्रमाणानाम् । यस्तु स्वानुभवसिद्ध इति स्वगोष्ठीनिष्ठः समयः, सोऽप्यात्मसाक्षिकसविशेषानुभवादेव निरस्तः । इदमहमदर्शमिति केनचिद्विशेषेण विशिष्टविषयत्वात् सर्वेषामनुभवानाम् । । / (क्यविशेषान् ) उदाहृत्य तत्र निरूपणीयं सर्वं निरूप्य पश्चात् तद्व्यतिरिक्तप्रमाणतर्काः प्रदर्शिताः । अतः सिद्धान्ते च तेन क्रमेण तत्प्रतिक्षेपो युक्तः । तत् कथं प्रथमं सकलप्रमाणाविषयत्वनिरूपणं सङ्गच्छते ? उत्तरत्र च कथं प्रत्यक्षादिनिर्विशेषविषयत्वनिरासपूर्वकं वेदान्तवाक्ययोजना क्रियते ॥ उच्यते । प्रत्यक्षविरोधे शास्त्रप्राबल्याभ्युपगमात् परेण वेदान्तवाक्यानि प्रथममुदाहृत्य पश्चात् तदन्यत् वक्तव्यं सर्वमुक्तम् ; प्रवलतयाऽभिमतप्रमाणपुरस्कारो ह्युचितः । सिद्धान्तिना तु प्रत्यक्षविरोधे शास्त्रप्राबल्यानभ्युपगमात् प्रत्यक्षादेर्निर्विशेष विषयत्वव्युदसनपूर्वकं तदविरोधेन वेदान्तवाक्यानि स्वरसतो व्याख्यास्यन्ते । तत्र निर्विशेषचिन्मात्र पारमार्थ्यस्य परेण प्रथमप्रतिज्ञातस्य सामान्येन सकलप्रमाणबहिष्कृतत्वरूपं दूषणं प्रथमं प्रतिजानीते निर्विशेषेति । अर्थात् प्रमाणस्व ( प्रमाणा) भावश्च स्वपक्षानुगुणो निरूपितो भवति । खपुष्पमपि स्वानुभवसिद्धमिति वक्तुं शक्यमिति तद्व्यावृत्यर्थमिदं शब्दः परसंप्रतिपत्तिपदं प्रमाणं न किञ्चिदपीति भावः । यद्वा, न काचिदपि प्रमाणव्यक्तिर्निर्विशेष गोचरेत्येकवचनाभिप्रायः । कुत इत्यत्राह सविशेषेति ॥
ननु विशेषा हि निर्विशेषाः । तत् कथं निर्विशेषवस्तुनोऽप्रामाणिक - स्त्रम् ! उच्यते । धर्मेण धर्मी सविशेषः; धर्मिणा च धर्मः सविशेषः । कस्यचिद्धर्मभूतं धर्मि वा यन्न भवति, तत् प्रमाणशून्यमिति हि ग्रन्थार्थः । विशेषः व्यावर्तकः । धर्मी च स्वगतधर्मस्याश्रयान्तरगतधर्माद्व्यवच्छेदक इति विशेषशब्दवाच्यः । किञ्च विशेषो निर्विशेष इति शब्दौ किं पर्यायौ, न ना ? आधे, सहप्रयोगानुपपत्तिः । द्वितीये तु न निर्विशेषत्त्रम् ; बोध्यभेदमन्तरेणापर्यायत्वायोगात् ॥
ननु कथं सर्वप्रमाणानां सविशेषविषयत्वम् ! न हि गन्धादिग्राहि प्रमाणं गन्धादिकं साश्रयमावेदयति ॥ नैत्रम् ; आश्रय एव विशेष इति नियमाभावात् । संविदोऽपि सर्वविशेषणतया सर्वार्थवैशिष्टयं ह्युपपद्यते । अयं गन्धोऽनुभूयत इति कालादिविशेषावच्छिन्नतयैव गन्धादिप्रतीतेश्च सविशेषविषयत्वोपपत्तिः । तथा प्रतीतिश्च वक्ष्यते ॥ तर्हि न वयं प्रमाणान्तरेण निर्विशेषसिद्धि - मभ्युपगच्छामः; स्वानुभवसिद्धं हि तदिव्यत आह यस्त्विति । तुशब्देन समयं विशिषन् समय वैशिष्टयमूलं स्वानुभवलक्षण प्रमाणवैषम्यमभिप्रैति । स्वगोष्ठीनिष्ठ इति परवाद्य संगतत्वं दर्शयति । आत्मसाक्षिकानुभवस्य सविशेषत्वं दर्शयति इदमहमिति । विशिष्टविषयत्वादिति । विशिष्टो विषयः स्वयमनुभव एव ; शिलापुत्रकस्य शरीरमितिवदयं निर्देशः ; अन्यथा स्वानुभवनिर्विशेषत्वनिरासे घटादिसविशेषत्वसाधनस्यानुपयोगात् अनुभूयमानोऽप्यनुभव इत्युपरितनग्रन्थस्याप्येवमेवार्थः; स्वानुभवसिद्धमित्यनेनैकार्थ्यात् । न चानुभवशब्दोऽनुव्यवसायपरः । न ह्यनुव्यवसायरूपं प्रत्यक्षमिष्टम्; अतीतविषयतया प्रत्यक्षत्वानुपपत्तेः । परज्ञानम्, प्रमुषितसंस्कारं स्वज्ञानं चानुमेयम्; अन्यत्तु स्मृतिविषयः । न च स्मृतिविषयत्वमिह विवक्षितम् ; अनुभवशब्दस्यातदर्थत्वात् । अतोऽनुभूयमानत्वम् अवभासमानत्वम् । इदमहंशब्दाभ्यां सकर्मकर्तृक एवानुभव इत्युक्तम् । अदर्शमित्यनेनापरोक्षत्वविशेषान्वयोऽभिप्रेतः । अतीतत्वं स्वविवक्षितम् तदा स्वतःसिद्धत्वायोगात् । केनचिद्विशेषेणेति । उक्तेष्वप्यन्यतमविशेषणमन्ततो गत्वाऽप्यवर्जनीयमिति भावः । / । ॥
- इदमिति पदं स्वानुभवव्यावर्तकतया व्याख्याय एकैकव्यक्तिमाहितया व्याख्याति यद्वेति ।
११५ सविशेषोऽप्यनुभूयमानोऽनुभवः केनचित् युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणः सत्तातिरेकिभिः स्वासाधारणैः स्वभावविशेषैर्निष्कष्टव्य इति निष्कर्षहेतुभूतैः सत्तातिरेकिभिः स्वासाधारणैः स्वभावविशेषैः सविशेष एवावतिष्ठते । अतः कैश्चिद्विशेषैर्विशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति न कचिन्निर्विशेषवस्तुसिद्धिः । धियो हि धीत्वं स्वप्रकाशता च ज्ञातुर्विषय प्रकाशनस्वभावतयोपलब्धेः ।. । यद्वा, अदर्शमितीत्यत्र इतिशब्दः प्रकारवचनः प्रकृतसजातीयरूपं विशेषं यावत्सम्भवं गृह्णाति । तेन परोक्षत्व - वर्तमानत्वादिकं केनचिदिति विवक्षितं स्यात् । परोक्षत्वं विषयद्वारा ।
ननु न हि वयम् इदमहमदर्शमिति प्रतीतिमपलपामः । सा तु तर्कव्यवस्थापितविषया निर्विशेषे प्रमाणमित्यत्राह सविशेषोऽपीति । स्वव्याघातस्य दर्शयिष्यमाणत्वात् युक्तयामासेनेत्युक्तम् । निर्विशेष इति निष्कृष्यमाण इति । यदा निर्विशेष इति निष्कृष्यते, तदानीमेवं हि निष्क्रष्टव्य इत्यर्थः । कथं निष्क्रष्टव्य इत्यत्राह सत्तातिरेकिभिः स्वासाधारणैरिति । सत्तानतिरेकी चेत्, पक्षाविशिष्टो हेतुः स्यात् । तदयुक्तम् ; पक्षव्यावर्तको हि हेतुः । किञ्च अन्यस्य द्रव्यान्तराद्यावर्तकधर्मस्यैव [स्व] व्त्रावृत्तिरूपत्व संभवः । स्वरूपे प्रतिपन्ने स्वस्यान्यतादात्म्यभ्रमविरोधिनश्च स्वरूपमेव व्यावृत्तिः, यथा शुक्तित्वादेः । ब्रह्मणस्तु वस्त्वन्तरस्यान्यस्माद्व्यावर्तकरूपधर्मत्वाभावात्, स्वरूपे भासमाने भ्रमसहत्वाच्च न स्वरूपमेव व्यावृत्तिरिति वक्ष्यमाणशौक्ल्यादिदृष्टान्तवैषम्याभिप्रायेण सत्तातिरेकिभिरित्युक्तम् । साधारणश्चेद्धेतुः, अनैकान्तिको भ्रमाविरोधी च स्यात्; यथा शौक्ल्यादिः । असाधारणं शुक्तित्वमेव हि रजतभ्रमविरोधि । अतः स्वासाधारणैरित्युक्तम् । स्वशब्देन व्यधिकरणासिद्धिपरिहारः । स्वभावविशेषैः - धर्मविशेषैः । एवं सामान्येनार्थशरीरमुक्तम् । अतस्त्वयाऽपि । । निरासकहेतुतयाऽभिमतानां सत्तातिरेकित्वस्वासाधारणत्वे अवर्जनीये इत्यभिप्रायेण सत्तातिरेकिभिः स्वासाधारणरिति पुनः कथनम् । ये ये हेतवः सविशेषघटादिवस्तुव्यावृत्ताः सामान्येन सकलविशेषाभावसाधकाः, तेऽर्थ सामर्थ्यात् सामान्यान्तर्गतं स्वात्मानमपि निवर्तयेयुरेवेत्यत्राह अतः कैश्चिदिति । अतः - तेषां सत्तातिरेकित्वस्वासाधारणत्वयोरवश्वाभ्युपगन्तव्यत्वादित्यर्थः । कैश्चिदिति । स्वासाधारणैः प्रामाणिकैरित्यर्थः । विशिष्टस्यैवेति । निर्विशेषत्वसाधक निवृत्तौ निर्विशेषत्वासिद्धेः, तदनिवृत्तौ तैरेव सविशेषत्वप्रसङ्गाच्चेत्यभिप्रायः । अन्य इति । निर्विशषत्वसाधका हेतवो येभ्यो घटादिभ्यो व्यावृत्ताः, तद्गता इहाप्रामाणिकाः रूपादयो विशेषा अस्मिन्निरस्यन्ते ; न तु सर्वविशेषाः । अनग्निमद्यावृत्तो धूमः पक्षे ह्यनग्निमत्त्वमेव निवर्तयति ; न त्वाकारान्तरमित्यर्थः । न क्वचिदिति । स्वानुभवे, प्रत्यक्षादिप्रमाणान्तरेष्वपीत्यर्थः । स्वव्याघातप्रसङ्गेन सकलविशेषनिवृत्तेः साधयितुमशक्यत्वात् न निर्विशेषवस्तुसिद्धिरित्युक्तं भवति । । एवं कर्मकर्तृव्युदासमभ्युपगम्य सविशेषत्वमुपपादितम् । अथ कर्मकर्तृनिरास एव दुःशक इत्याह धियो हीति । धीत्वम् - विषयप्रकाशत्वम् । स्वप्रकाशता - अनन्याधीनप्रकाशत्वम् । एतदुभयं स्वप्रकाशवादे साधनतया साध्यतया च परेणोपन्यस्तम् । ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेरिति । नियमेन स्वाश्रयं प्रति त्रिषयप्रकाशकतया भासमानत्वात् धीत्वस्वप्रकाराखे सिध्यत इत्यर्थः । धीत्वं विषयसाधनत्वम् ; । 1 व्यधिकरणस्य-अन्याधिकरणकस्य-पक्षावृत्तेरसिद्धिः; स्वरूपासिद्धिरिति यावत् । अप्रसिद्ध्याद्यसिद्धिवारणायैवं व्यवहारः ।
११६ १-१-१. तन्मतेऽपि निर्विशेषत्वायोगः स्वापमदमूर्च्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्यामः । स्वाभ्युपगताश्च नित्यत्वादयो ह्यनेके विशेषाः सन्त्येव । ते च न वस्तुमात्रमिति शक्योपपादनाः; वस्तुमात्राभ्युपगमे सत्यपि विधाभेदविवाददर्शनात् स्वाभिमततद्विधाभेदैश्च स्वमतोपपादनात् । अतः प्रामाणिकविशेषैर्विशिष्टमेव वस्त्विति वक्तव्यम् । ।
। तथावभासमानत्वादिति न साध्याविशिष्टता । यद्युपलब्धिसिद्धं सकर्मकर्तृकत्वं नाङ्गीकुरुषे, ततः सकर्मकर्तृकत्व हेतुकं स्वप्रकाशत्वमपि न सिध्येदिति भावः । यद्वा धीत्वं धीस्वरूपमात्रम् । हिशब्द उपलब्धेः सर्वसम्प्रतिपत्तिं दर्शयति ।
ननु न कर्मकर्त्रवच्छिन्नं ज्ञानमात्मभूतम् ; अन्यदेव तु स्वापाद्यवस्थानुभूतं निर्विशेषं साध्यत इत्यत्राह स्वापेति । अनुभवः - आत्मस्फुरणम् । न हि तदा धर्मभूतज्ञानस्फुरणम् । स्वावसरेअहमर्थस्यैवात्मत्वसमर्थने । निपुणतरम् – परप्रयुक्तयुक्त्यैवेति भावः । ‘खमहमस्वा’सम्’, ‘मामप्यहं न ज्ञातवान् ’ इत्यादिना परोक्तपरामर्शेनैवेति यावत् । यद्वा निपुणतरं विशदतरम् । एतदुक्तं भवति - किं त्वया स्वानुभवाधीनं निर्विशेषत्वं कर्मकर्त्रवच्छिन्नस्य ज्ञानस्योच्यते, उताहमिति भासमानस्यात्मस्वरूप भूतज्ञानस्य, उत (!) तदुत्तीर्णस्य वा ! आये कर्मकर्त्रवच्छेदांनेयमादेव न निर्विशेषत्वम् । द्वितीये प्रत्यक्त्वानुकूलत्वादिभिः सविशेषत्वमवर्जनीयमिति वक्ष्यते । तृतीये शून्यत्वादेव न निर्विशेषत्वं साध्यमिति ॥ मुखान्तरेण सविशेषत्वमाह स्वाभ्युपगताश्चेति । आदिशब्देन स्वप्रकाशत्वैकत्वानन्द (त) त्त्रादयो विवक्षिताः । ते वस्तुमात्रमिति युक्तमित्यत्राह ते चेति । उपपादयति वस्त्विति । बौद्धः क्षणिकत्वमुक्तम् ; अनेन तु नित्यत्वम् । वैशेषिकादिभिश्च जडत्वबहुत्वे ; अनेन तु स्वप्रकाशत्वैकत्वे । स्वरूपं तु तैः सर्वैरभ्युपेतम् । अतो विप्रतिपत्तिविषयः संप्रतिपत्तिविषयश्चैक एवेति वक्तुमयुक्तमित्यर्थः । विमत्यनन्तरभाविना तदुपपादनेन च स्वरूपातिरिक्ततां दर्शयति स्वाभिमतेति । क्षणिकस्ववादिनं प्रति ब्रह्मनित्यत्वं साधयता स्वया स्वरूपमात्रातिरेकेण किञ्चित् साधितमस्ति, न वा ? अस्ति चेत्, सधर्मत्वम् । नो चेत्, सिद्धसाधनत्वम् ; स्वरूपमात्रस्याभिमतत्वात् । संविन्नित्येति प्रतिज्ञावाक्यगतौ धर्मधर्मिशब्दो किं पर्यायौ, न वा ? आधे साधनायासो निष्फलः । द्वितीये स्वरूपातिरिक्तधर्माङ्गी (न्तरस्वी) कार इति भावः । स्वमतोपपादनान्न वस्तुमात्रमिति शक्योपपादना इत्यन्वयः । पूर्वं सविशेषत्वनिरासकहेतुभिः सविशेषत्वमुक्तम् ; अनन्तरं साध्यधर्मैः ; ततः कतिपयविशेषसाधकहेतुभिः । एते निरासकसाध्यसाधनधर्माः 2 अपरमार्थ इत्यत्राह अत इति । अतः - विशेषव्युदासकत्वेन साध्यत्वेन साधनत्वेन च केषाञ्चिद्धर्माणां त्वयोक्तत्वात् परमार्थभूतैः तैस्तैर्विशिष्टमित्यर्थः । प्रामाणिकैरित्यनेन कैश्चिदिति पूर्वोक्तस्यार्थस्यापि विशेषो दर्शितः । विशिष्टमेवेति । पूर्वोक्तसत्तातिरेकित्वस्वासाधारणत्वाभावे भ्रमोच्छेदो न स्यात् ; निरासकधर्मापारमार्थ्ये, शुक्तित्वापारमार्थ्ये रजतसत्यत्ववत् निरसनीयाकारसत्यत्वं प्रसजेत्; साव्यधर्मापारमार्थे च नित्यत्वादिविपरीताकारसत्यत्वप्रसङ्गः; साधनापारमार्थे च साध्यनित्यत्वादिविपरीताकार[स्य] सत्यत्वमापद्येतेति भावः । O 7 / , इत्थं स्वानुभवप्रसङ्गात् तत्रापि सविशेषत्वमुपपादितम् ; । अथ प्रथमप्रतिज्ञातं सर्वेप्रमाणानां सविशेषविषयत्वं वक्तुमारभते; तत्र परेण प्रत्यचाद्बलीयस्त्वेनोक्तत्वात् सविशेषबोधकत्वातिशयस्य 1 विषयप्रकाशकत्वसाधनस्य प्रकृतेऽनावश्यकत्वात् स्वप्रकाशत्वसाधकस्य विषयप्रकाशत्वस्यैव धीत्वहेतुताया भाष्यतो निरूप्यत्वाच्च धीत्वमन्यथा व्याख्याति धीत्वमिति । 2 धर्मपदं निरासकादिषु त्रिष्वप्यन्वेति ।
११७ शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्; पदवाक्यरूपेण प्रवृत्तेः । प्रकृतिप्रत्यययोगेन हि पदत्वम् । प्रकृतिप्रत्यययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् । पदभेदश्चार्थभेदनिबन्धनः । पदसङ्घातरूपस्य वाक्यस्यानेकपदार्थसंसर्गविशेषाभिधायित्वेन निर्विशेषवस्तुप्रतिपादनासामर्थ्यात् न निर्विशेषवस्तुनि शब्दः प्रमाणम् ॥ प्रत्यक्षस्य निर्विकल्पकसविकल्पकभेदभिन्नस्य न निर्विशेषवस्तुनि प्रमाणभावः । सविकल्पकं जात्याद्यने- स्वाभिमतत्वाच्च प्रथमं शब्दस्य सविशेषविषयत्वमाह शब्दस्य त्विति । तुशब्दः परोक्तबलीयत्त्वसूचकः । विशेषेणेतिपदेन सविशेषवस्तु बोधकत्वातिशय उच्यते । यद्वा सर्वप्रमाणानां सविशेषगोचरत्वे प्रतिज्ञाते, चिद्वस्तुनि अन्तरङ्गतया स्वप्रकाशवृत्तिं निरूप्य तदनन्तरमात्मनि प्रत्यक्षादिभ्योऽन्तरङ्गत्वेन उभयवादिसंमतस्य शास्त्रस्य सविशेषविषयत्वमाह शब्दस्य त्विति । सविशेषगोचरत्वे प्रमाणान्तरेभ्योऽतिशयो विशेषेणेत्युच्यते । तुशब्देन तत्तदौपयिकं शब्दस्य सविशेषगोचरप्रत्यक्षादिपूर्वकत्वं विशेष उच्यते । प्रतिज्ञातस्य हेतुमाह पदवाक्यरूपेणेति । ततः किं सविशेषविषयत्वस्येति शङ्कायां पदरूपेण प्रवृत्तिं विवृणोति प्रकृतीति । ततः किमित्यत्राह प्रकृतिप्रत्यययोरिति । पदस्यैवेति । वाक्यं तावदास्ताम् ; पदमेव सविशेषपरमिति भावः । वाक्यरूपेण प्रवृत्ति विवृणोति पदमेदश्चेति । पदमेदः -पदानां परस्परभेदः । न केवलं प्रकृतिप्रत्ययभेद एवार्थभेदहेतुकः, पदभेदोऽपीति चार्थः । अन्यथा पदान्तरवैयर्थ्यादिति भावः । पदभेदस्यार्थभेदनिबन्धनस्वेऽपि वाक्यकत्वात् निर्विशेषत्वसिद्धिरिति शङ्कायां वाक्यस्य सविशेषविषयत्वं वदन् निर्विशेषे प्रमाणाभावमुपसंहरति पद संघातेति । तत्तत्पदाभिधेयानां संसर्गविशेष एव वाक्यप्रतिपाद्यः; न तु तत्तत्पदार्थप्रहाणेन अर्थान्तरमित्यर्थः ॥
ननु निर्विशषशब्देन निर्विशेषं वस्तु किं प्रतिपन्नम्, उत अप्रतिपन्नम्, उत सविशेषं वस्तु प्रतिपन्नम् ? आद्ये, निर्विशेषवस्तुनः शब्देन प्रतिपादनान्निषेधोऽनुपपन्नः । द्वितीये तु निषेध्याप्रतिपत्तेर्निषेधोऽनुपपन्नः । तृतीये तु सविशेषनिरासः कृतः स्यात् ॥ नैवम् ; भ्रान्तिप्रमितिविभागात् । निर्विशेषवस्तुनि शब्दस्य प्रमाणभावो हि निषिध्यते ; न तु भ्रमहेतुत्वम्; अतो निर्विशेषशब्दजनिता मिथोऽन्वयानहर्थिगोचरा भ्रान्तिः प्रमितिजनकैः शब्दैर्बाध्यत इति युक्तम् । अधिकरणतदसाधारणनिषेध्य प्रतिपक्षधर्मतो विशेषशब्दस्य सङ्कोचानभ्युपगमे ह्यधिकरणालाभात् निषेधकशब्दस्यानन्वय एव स्यात् । न हि निर्विभक्तिकः पदान्तरानन्वितो निर्विशेषशब्दोऽर्थाभिधायी । अतः सङ्कोचाभावे व्याघातः । यद्यपि कथञ्चिद्विभक्तयर्थो न विषक्षितः, तथापि निर्विशेषपदस्य बहुव्रीहित्वादन्यपदार्थाभिधानमवर्जनीयम् । तत्पुरुष [ पद] प्रयोगे च अधिकरणाभिधानमवर्जनीयम् । अतो यदि निर्विशेषशब्दः प्रमाणभूतवाक्यस्थः, तदा विषयविमागो द्रष्टव्यः ; सकलविशेषशून्यप्रतिपादनासामर्थ्यात् । नगरे को विशेष इत्युक्ते, न कश्चिदपीत्यादिषु वाक्येषु सविशेषनिषेधः सङ्कुचितविषयो दृष्टः । तथा शास्त्रेष्वपि, “अविशेषास्ततो हि ते” इति गन्धादिगुणान्वितानामपि पृथिव्यादीनां शान्तस्वघोरत्वरूपकतिपयविशेषविरहविवक्षया अविशेषशब्दः प्रयुज्यते ॥ एवं ज्ञानस्वरूपे आत्मन्यन्तरङ्गतया स्वानुभव-शब्दौ निरूपितौ; अथ व्यतिरिक्तप्रमाणेषु मूलभूतस्य प्रत्यक्षस्य सविशेषविषयत्वमुपपादयति प्रत्यक्षस्येत्यादिना । निर्विकल्प कानु भूतार्थस्य सविकल्पके प्रतिसन्धानस्य वक्ष्यमाणत्वात् तदुपयोगित्वेन च सविकल्पकरूप प्रदर्शितम् । अथ निर्विकल्पकस्य
११८ १११. सर्व प्रत्यक्ष सविशेषत्वम् कपदार्थविशिष्टविषयत्वादेव सविशेषविषयम् । निर्विकल्पकमपि सविशेषविषयमेव सविकल्पके, स्वस्मिन्
ननुभूतपदार्थविशिष्टप्रतिसन्धानहेतुत्वात् । निर्विकल्पकं नाम केनचिद्विशेषेण वियुक्तस्य ग्रहणम्, न सर्वविशेषरहितस्य ; तथाभूतस्य कदाचिदपि ग्रहणादर्शनात्, अनुपपत्तेश्च । केनचिद्विशेषेण इदमित्थमिति हि सर्वा प्रतीतिरुपजायते । त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिपि पदार्थस्य ग्रहणायोगात् । अतो निर्विकल्पक मेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम् । द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते । तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते । द्वितीयादिपिण्डग्रहणेष्वेवानुवृत्तिप्रतीतिः । प्रथमप्रतीत्यनुसंहित वस्तु संस्थान रूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति द्वितीयादिग्रहणस्य सविकल्पकत्वम् ।-सास्नादिवस्तु संस्थानरूपगोत्वादेरनुवृत्तिर्न प्रथमपिण्डग्रहणे गृह्यत इति,
। । सविशेषविषयत्वं प्रतिजानीते निर्विकल्पकमपीति एकजातीयपिण्डेषु द्वितीयादिपिण्डग्रहणस्य सविकल्पकत्वं प्रथमपिण्ड ग्रहणस्य निर्विकल्पकत्वश्च हृदि निधाय हेतुमाह सविकल्पके इति । विशिष्ट प्रतिसन्धानमिति षष्ठीसमासः कर्मधारयो वा वा । स्वस्मिन् निर्विकल्प के अनुभूतजात्यादिपदार्थविशिष्टवस्तुविषयस्य सविकल्प के प्रतिसन्धानस्य हेतुत्वादित्यर्थः । प्रथमपिण्डस्य विशिष्टतयाऽवगतत्वमर्थलब्धम् । प्रथमपिण्डे जातिविशिष्टतया प्रती हि द्वितीयादिष्ठ जात्यनुवृत्तिबुद्धिलक्षणं प्रतिसन्धानं घटते ॥ कथं प्रतिसन्धानम् ; सकलविशेषशून्यविषयं हि निर्विकल्पकमिति हेत्वसिद्धिमाशङ्कयाह निर्विकल्पकं नामेति । सकलविशेषवैधुर्याभावमुपपादयति तथाभूतस्येति । सकलविशेषशून्यग्रहणं किं दर्शनादभ्युपगम्यते, किं वा अनुपपत्त्या कल्प्यते इति विकल्प्य, न तावत् दर्शनमित्याह कदाचिदपीति । कल्पनं व्युदस्यति अनुपपत्तेरिति । निर्विशेषज्ञानबाधिकैव अनुपपत्तिर्दृश्यते । तत्कल्पिका तु दूरतो निरस्तेति भावः । अदर्शनं विवृणोति केनचिदिति । प्रकारविशेषनियमो नेति भावः । उत्तरत्र ग्रहणायोगादिति पञ्चम्या हेतुत्वं स्फुटम् । अत्र पञ्चमीस्थाने हिशब्दः । इदमित्थमिति प्रतीतिमेव विवृण्वन् अर्थात् सकलविशेषशून्यग्रहण कल्पनामपि व्युदस्यति त्रिकोणेति । अनुपपत्तिं विवृणोति ग्रहणायोगादिति । अध्याहृतशङ्कावाक्येन ग्रहणायोगादिति पञ्चम्यन्तान्वयः । त्रिकोणम् – गोमुखम् । ग्रहणायोगात् -दृष्टव्याप्तिविरोधेन सकलविशेषशून्यग्रहणकल्पनस्यानुपपन्नत्वादित्यर्थः । अनुपपत्तेरित्यनेन विपक्षे बाधकतर्कोऽप्यभिप्रेतः— सविशेषविषयत्वाभावे प्रत्ययत्वमेव हीयेतेति । अस्य तर्कस्यानुग्राह्यं प्रमाणं प्रत्यक्षं योग्यानुपलम्भश्च । यद्वा अनुपपत्तेरित्यनेन सविशेषविषयत्वे साधकं प्रमाणं विवक्षितम् – प्रथमाक्षसन्निपातजं ज्ञानं सविशेषविषयम्, ज्ञानत्वात् संप्रतिपन्नवदिति । एवं साधकप्रमाणाभावबाधकप्रमाणसद्भावाभ्यां विवक्षित कतिपय विशेषशून्यग्रहणं निर्विकल्पकमिति सिद्धम् । अनेन निर्विकल्पक शब्दस्य सङ्कुचित वृत्तित्वं फलितम् । स च सङ्कोचः कस्मिन् विषय इत्यत्राह अत इति । अतः - उक्तादर्शनानुपपत्तिभ्यामित्यर्थः । प्रथमद्वितीयपिण्डयोः सविकल्पकनिर्विकल्पकशब्दौ न सङ्केतितौ; अतस्तयोः पिण्डयोर्वैषम्यं वक्तव्यमिति शङ्कार्या ग्राह्याकारभेदं दर्शयति तत्रेत्यादिना वाक्यद्वयेन । गोल्यानुवृत्तिप्रतीत्यप्रतीत्योः सविकल्पकनिर्विकल्प कशब्दयोः प्रवृत्तिनिमित्ततां दर्शयति प्रथमप्रतीतीत्यादिना वाक्यद्वयेन । पूर्वग्रन्थोक्तं गोवं संस्थानशब्देन विशेषितम् ; तेन पराभिमतबिलीन। ज्यगतघृतत्वादेखि प्रत्यक्षत्वे व्यञ्जकापेक्षया विलम्बो नास्तीति दर्शितम् । तदेव संस्थानमनन्तरग्रन्थे सास्नादिशब्देन निर्दिश्यते । एवमनुवृत्तिप्रहाग्रहाभ्यां सविकल्पकत्वं निर्विकल्पकत्वं चोक्तम् । नानुवृत्तिमात्राप्रइणानिर्विकल्पकत्वम्, किंतु जात्यग्रहणाच्च । अनुवृत्यग्रहणे हि जातिरेवागृहीता स्यादिति शङ्कायामाह
११५ प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम् ; न पुनः संस्थानरूपजात्यादेरग्रहणात् । संस्थानरूपजात्यादेरपि ऐन्द्रियकत्वाविशेषात्, संस्थानेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव न पुनः संस्थाना (नरूपजात्यादेर ? ) ग्रहणादिति । अत्राग्रहणानुपपत्तिद्योतकः संस्थानरूपशब्दः । गोत्वादेरसाधारणधर्म भूतानुवृत्त्यग्रहणात् गोत्वादिर्न गृहीत इति सङ्कायामग्रहणानुपपत्तिमेव विवृणोति संस्थानरूपजात्यादेरपीति । ग्रहणकारण भूतेन्द्रिय योग्यतायामपि स एव हेतुरिति द्योतनाय पुनः संस्थानशब्दोक्तिः । निर्विकल्पकस्य सविशेषविषयत्वे प्रमाणत्वेन सविकल्पके निर्विकल्प कानु भूतार्थविशिष्ट प्रतिसंधानं (त्यभिज्ञानं ) पूर्वमुक्तम् । पराभिमतनिर्विकल्पकाभावे योग्यानुपलम्भः प्रत्यक्षश्च प्रमाणम् । तयोरनुग्राहकतर्कश्चानेनोक्तो भवति । किं प्रमाणानुपपत्त्या प्रमेयानुपपत्त्या वा वस्तुमात्रग्रहणाभ्युपगम इति विकल्पमभिप्रेत्य प्रमाणानुपपत्तिं प्रथमं व्युदस्यति ऐन्द्रियकत्वाविशेषादिति । अनेन पृथिव्यपृथसिद्धगन्धव्यावृत्तिः ॥ कथमैन्द्रियकत्वम् ? समवायस्यानैन्द्रियकस्वात् तदयुक्तमिति चेत्, तर्हि सविकल्पके विशिष्टग्रहणमनुपपन्नम् । अतो न भिन्नेन्द्रियग्राह्यत्वमिति न प्रमाणानुपपत्तिः’ । असंनिहितत्वं प्रमेयानुपपत्तिः ; अपृथक सिद्धत्वेन तन्नास्तीति परिहरति संस्थानेनेति । अनेन चाक्षुषत्वेऽपि पृथक् सिद्धदण्डादिव्यावृत्तिः । एकेन्द्रियग्राह्यत्वे सति अपृथसिद्धत्वात् प्रमाणप्रमेयानुपपत्तिर्नास्तीति ससंस्थानमेव वस्तु गृहीतमित्यर्थः । एवं पूर्वं संस्थान रूपशब्देनाभिप्रेतोऽर्थो विवृतो भवति । अनुवृत्यग्रहणान्न संस्थानरूप जात्यादेरग्रहः शङ्कनीयः; प्रकारप्रकारिभावेन ग्रहणोपपत्तेरिति भावः । प्रथमपिण्डग्रहणे अनुवृत्स्यग्रहणात् गोत्वमगृहीतं चेत्, द्वितीयपिण्डेऽपिं गोत्वं दुर्ब्रहम्; अनुवृत्यग्रहणात् । अनेकव्यक्तयन्वयरूपा ह्यनुवृत्तिः । सा चान्वयिनः पदार्थस्य पूर्वव्यक्तिनिष्ठतापरामर्शेनैव द्वितीयादिषु गृह्यते । अतः प्रथमपिण्डे गोत्वाग्रहात् तदन्वयापरामर्शेन द्वितीयव्यक्तधन्वयरूपानुवृत्तिर्द्वितीयेऽपि दुर्महेति तत्रापि गोत्वमगृहीतम् 2, एवं प्रथमद्वितीयन्तयन्वयापरामर्शे (शत् ) तृतीयेप्यनुवृत्तिरगृहीतेति गोरखमगृहीतम् 2, एवं व्यक्तयन्तरेष्वपि गोत्वं दुर्ग्रहं स्यात् । अतः प्रथमपिण्डग्रहण एव गोत्वग्रहणमभ्युपेतव्यम् । एवं सकलविशेषशून्यवस्तुग्रहणं व्युदस्तम् । ‘जात्यादयो विशेष्यं च पृथक् निर्विकल्पके गृहीतम् ; सविकल्पक एव विशिष्टतया ग्रहणम्’ इति पक्षश्चार्थान्निरस्तो भवति । विशेषणं विशेष्यं च पृथक् पृथक् गृहीतमिति कथमवगतम् ? दण्डकुण्डलादिषु विशेषणविशेष्ययोः पृथक्पृथग्ग्रहणपूर्वकत्वदर्शनादिति चेत् — तत्र किमपृथसिद्धिवेलायां पृथग्ग्रहणम् ? उत पृथस्थितिवेलायाम् ? न प्रथमः, विशिष्टत्वेनैव ग्रहणात् । पृथकूस्थितिवेलायां तु विशिष्टग्रहणमेव नास्तीति न तत्प्रतीतिहेतुत्वम् । अतः पृथग्ग्रहणस्य विशिष्टग्रहणहेतुत्वाभावान्न गोत्वादौ पृथग्ग्रहणप्रसङ्गः ॥
ननु विशेषणविशेष्यभावस्य सप्रतियोगिकत्वात् तज्ज्ञानस्य प्रतियोगिस्वरूपज्ञानमपेक्षितमिति विशिष्टप्रतिपत्तेत्यादिपदार्थस्वरूपमात्रग्रहणपूर्वकत्वं स्वीकार्यम् ॥ उच्यते प्रतियोगिज्ञानापेक्षा नाम किं विशिष्टज्ञाने प्रतियोग्यवभासनियमः ? उत तद्ज्ञानस्य विशिष्टज्ञानहेतुत्वम् ? प्रथममभ्युपगच्छामः । द्वितीये, च जात्यादयः पदार्थः प्रथमं मिथो व्यावृत्ततया गृहीताः, न वा ? न चेत्, अव्यावृत्ततया गृहीतानां पूर्वोत्तरज्वालानामिव विशेषणविशेष्यभावप्रतियोगिताप्रतीतिर्नोपपद्यते । यदि व्यावृत्ततया 1 वस्तुग्राहकेन्द्रियाग्राह्यत्वं प्रमाणानुपपत्तिः । 2 अगृहीतं स्यादित्यन्वयः ।
१२० १-१-१. सविकल्पकतत्वम् वस्तु इत्थमिति गृह्यते । अतो द्वितीया दिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत् संस्थानव सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव । 1 ’ गृहीताः —तदा व्यावृत्तिश्च विशेषणविशेष्यभावेन पारतन्त्र्यादिलक्षणेन तदौपयिकाकारान्तरेण वा यदि न स्यात्, विशेषणविशेष्यभावव्यत्यासप्रतीतिः प्रसज्यते ॥ वस्तुसामर्थ्यात् वास्तव एव विशेषणविशेष्यभावः प्रतीयत इति चेत्–तर्हि वस्तुसामर्थ्यं नाम विशेषणविशेष्यभावरूपं तदौपयिकाकारान्तररूपं वा स्यात् । वस्तुस्वभावस्य सत्तयोपकारकत्वे वस्नुस्वभावादेव विशिष्टप्रतीतिसंभवात् स्वरूपमात्रग्रहण कल्पनमयुक्तम् । ज्ञाततयेोपकारकत्ले तेन स्वभावेन व्यावृत्ततया विशेषणस्य प्रागवगतिरस्तीति प्रथमत एव विशिष्टप्रतीतिरम्युपगता स्यात् । अतो वरं द्रव्यस्यैव प्रथमं विशिष्टतया प्रतीत्यभ्युपगमः ॥ तस्यापि स्वभावस्य स्वविशेष्यभूतं विशेषणं प्रति विशेषणत्वं न प्रथममवगतम् ; किन्तु स्वरूपमात्रमिति चेत् — तर्हि विशेषणतत्स्वभावयोर्विशेषणविशेष्यभावव्यत्यासः प्रतीयेत । तत्परिहाराय तस्य वस्तुस्वभावस्याकारान्तराभ्युपगमे अनवस्था । यदि व्यत्यास विशिष्टप्रतीति प्राथम्यप्रसङ्गपरिहाराय जात्यादीनां स्वरूपमेव विशेषणभावः विशेष्यभावश्च, न त्वाकारान्तरमित्यभ्युपगम्यते तदा प्रथमप्रतिपत्तिर्विशेषणतया विशेष्यतया च स्यात् ; तदप्रतिपत्तौ स्वरूपस्य गृहीतत्वप्रसङ्गात् । तथैव प्रतीतौ प्रथमत एव विशिष्टप्रतीतिः स्यात् ; एकस्यां प्रतीतौ विशेषणतया विशेष्यतया च जात्यादीनां प्रतिपन्नत्वात् । अतः प्रथमत एव परस्परप्रतियोगिकविशेषणविशेष्यभावप्रतीतिः संभवतीत्यभ्युपगन्तव्यम् । एवं सति विशिष्टग्रहणस्य पृथग्ग्रहणपूर्वकत्वे भिन्नसामग्रीयेद्यवस्तुगोचरत्वमुपाधिः स्यात् । 1 पक्षव्यतिरिक्तत्र्यत्रच्छेद्याभावेऽप्युक्त तर्कवलात् पक्षव्यवच्छेदकत्वसिद्धेरुपाधित्वं युक्तम् । यथा प्रध्वंसाभावस्यादिमत्त्वादन्तवस्त्रे भावरूपादिमस्त्रमुपाधिर्भवति, भावोन्मज्जनप्रसङ्गरूपतर्कबलात् ; यथा अग्निमस्त्रात् धूमानुमाने आर्द्रेन्धनमुपाधिः सर्वत्राग्निमति धूमोपलम्भप्रसङ्गतर्कवलाद्भवति —तद्वत् । अतः - प्रथमपिण्डग्रहण एव गोत्वं गृह्यते ; द्वितीयादिष्वनुवृत्तिग्रहणम (मित्य?)भ्युपेस्य (तव्य) म् । अतो यथोक्तस्वरूपे एव निर्विकल्पक सविकल्प के ॥
अनुवृत्तिमहाग्रहौ हि सविकल्पकनिर्विकल्पकयोः प्रयोजकौ कथितौ ; तत् कथं द्वितीयादिग्रहणस्य सविकल्पकत्वमित्यत्राह अत इति । अतः – प्रथमग्रहण एवं संसंस्थानवस्तुग्रहणात् । अनुवृत्तिग्रहण विधुरप्रथमेतरग्रहणे कथं सविकल्पकत्वमित्यत्राह द्वितीयादीति । द्वितीयादिपिण्डग्रहणेषु - द्वितीयादित्वेन पिण्डग्रहणेषु । 2अनेन संस्कारसचित्रग्रहणं सविकल्पकम् इतरन्निर्विकल्पकमिति सिद्धम् । एतेन न केवलं जात्यनुवृत्यैव सविकल्पकत्वम्; जातिगुणादिष्वन्यतमानुवृत्तिविशिष्टग्रहणमपि सविकल्पकमिति सिद्धम् । सर्वविधानुवृत्तिविकलग्रहणमेव निर्विकल्पकम् । । यथा एकव्यक्तौ प्रथमाक्षसन्निपातजं 1
ननु पक्षातिरिक्तस्यापि साध्यवत्त्वाद्व्यवच्छेको यः स एवोपाधिः ; अन्यथा पक्षेतरत्वमप्युपाधिः स्यात् । प्रकृते च पक्षातिरिक्तं साध्यशून्यमुपाधिव्यवच्छेद्यं नेत्यत्राह पक्षातिरिक्तेति । अतिरिक्ता व्यवच्छेदेऽपि पक्षमात्रं साध्यवत्त्वाद्व्यवच्छिन्दन् धर्मोऽपि अनुकूलतर्फे सति उपाधिरिष्ट इति भावः । पक्षव्यवच्छेद्यत्वेति ‘भावप्रकाशिकापाठः । 2 उक्तं हि भाष्यकारैरेव वेदार्थसंग्रहे-“सविकल्पकः सोऽयमिति पूर्वावगत प्रकारविशिष्ट प्रत्ययः” इति सविकल्पकस्य संस्कारसापेक्षत्वम् । तेन वक्ष्यमाणसर्वसिद्धिः ।
अतः प्रत्यक्षस्य कदाचिदपि न निर्विशेषविषयत्वम् । १२१ अत एव सर्वत्र भिन्नाभिन्नत्वमपि निरस्तम् । इदमित्थमिति प्रतीतौ इदमित्थम्भावयोरैक्यं कथमिव प्रत्येतुं शक्यते ? तत्रेत्थम्भावः सास्नादिसंस्थानविशेषः, तद्विशेष्यं द्रव्यमिदमंश इति अनयोरैक्यं प्रतीतिपराहतमेव । तथाहि - प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते । व्यावृत्तिश्च गोत्वादिसंस्थानविशेषविशिष्टतयेत्थमिति प्रतीतेः । सर्वत्र विशेषणविशेष्यभावप्रतिपत्तौ तयोरत्यन्तभेदः प्रतीत्यैव सुव्यक्तः । fa 1 ; ज्ञानम् ॥
नन्वेकव्यक्तावपि संस्कारजन्यं देशकालाद्यनुवृत्तिविशिष्टग्रहणं सविकल्पकं स्यात् ॥ स्यादेव संस्कारजन्यत्व-अनुवृत्तिगोचरत्वाविशेषात् । एकजातीयद्रव्येषु प्रथमपिण्डग्रहणमित्युक्तिस्तु जान्त्यनुवृत्तिप्रदर्शनार्थ । संस्थानिवत्संस्थानवदिति दृष्टान्तप्रदर्शनं स्पष्टीकरणार्थम् । पिण्डधर्मः संस्थानम्, तद्धर्मोऽनुवृत्तिरिति धर्मधर्मिभावरूपसाम्यनिबन्धनश्च दृष्टान्तद्वयोपादानम् । एवं सविकल्पकनिर्विकल्पकयोः संस्कारस चिवत्वतद्विरहौ सामग्रीवैषम्यम्, गोत्वाद्यनुवृत्तितद्विरही ग्राह्याकारवैषम्यमित्युक्तं भवति ॥ द्विविधस्यापि प्रत्यक्षस्य सविशेषविषयत्वं निगमयति अत इति ॥ ।
" ; प्रसङ्गात् ’ भेदाभेदं निराकरोति अत एवेति । अत एव – प्रथमपिण्डग्रहणस्य विशिष्टविषयत्वसमर्थनेन । सर्वत्र – पिण्डद्वयजातिव्यक्ति गुणगुणि-क्रियातद्वत् - कार्यकारणेष्वित्यर्थः । कथमित्यत्राह इदमित्थमिति । भेदाभेदवादिना पिण्डानामन्योन्यमेदाभेदसमर्थने इदमिदं न भवतीति भेदः, इदमिदं भवतीत्य भेद इत्येकस्यैव युगपत् भावाभावरूपव्याइतिपरिहारार्थम जात्यात्मना अमेदो व्यक्तथात्मना भेद इत्याकारद्वयेन भेदाभेद उपपादितः । जातिगतोऽमेदः व्यक्तिगतो भेदश्चेति नैकस्य द्यात्मकतेति शङ्कापरिहाराय जातिव्यक्तथोश्चान्योन्यभेदाभेद उक्तः । तन्निर्वहणायाऽऽकारान्तरान्वयादर्शनात् प्रतीतिरेव शरणमित्याश्रिता । अतस्तन्निरासाय जातिव्यक्तयांर्भेदेनैव प्रतीतेरभेदस्य प्रतीतिविरोधं दर्शयति इदमित्यमिति । इदम्मावो विशेष्यम्; इत्थम्भावो विशेषणम् । इत्थमंशः कः ; इदमंशः क इत्यत्राह तत्रेति । अत्र जातिव्यक्तयोर्भेदाभेदे चत्वारो हेतवः परोक्ताः – प्रथमपिण्ड ग्रहणे अभेदेन ग्रहणम्, एकशब्दानुविद्धप्रत्ययः, मत्वर्थीयप्रत्ययनिरपेक्षसमानाधिकरणपदप्रयोगः, सहोपलम्भनियमश्चेति । अत्र सहोपलम्भनियमसमानाधिकरणप्रत्ययौ भेदाभेदसाधकौ ; अन्यौ द्वावभेदसाधकौ । इदं हेतुचतुष्टयमाशङ्कयाह तथा हीति । तान् हृदि कृत्वा प्रथमपिण्डग्रहणे अभेदेन ग्रहणं व्युदस्यति प्रथममेवेत्यादिना । सकलेतरव्यावृत्तम् - सकलविजातीयव्यावृत्तमित्यर्थः । ततः किं भेदेन ग्रहणस्येत्यत्राह व्यावृत्तिश्चेति । गोत्रादिसंस्थान विशेषविशिष्टतया इत्यमिति प्रतीतिर्व्यावृत्तिश्च निश्चीयत इत्यर्थः । अनेनाखण्डवाक्यार्थमङ्गश्चार्थतः कृतो भवति; शौक्ल्यादिवैधर्म्यस्येहाभिप्रेतत्वात् । तच्च पूर्वं दर्शितम् ॥ गोत्वादिविशिष्टतया प्रतीतिरस्तु तथाव्यभेदः स्वप्रमाणेन प्रसजन् न ( प्रसज्यते चेत्, न) निवार्यत इत्यत्राह सर्वत्रेति । सर्वत्र - गोत्वतदाश्रयादिषु, दण्डकुण्डलादिषु च । दण्डदण्डिनोखि जातितद्वतोरपि विशेषणविशेष्यभाव एव अभेदविरोधीत्यर्थः । विशेषणविशेष्यभावेति । गोवन्य क्तयोरनुवृत्तिव्यावृत्यप्रहेऽपि विशेषणत्रिशेष्यभावरूपेणाकारान्तरेण भेदो गृहीतः ; न ह्येकेनैवाकारेण भेदग्रह इत्यस्ति नियम इति भावः । उभयत्राव्यन्तभेदोऽस्ति चेत्, मत्वर्थीयप्रत्ययनिरपेक्ष सामानाधिकरण्यमेकशब्दानुविद्धप्रत्ययः सहोपलम्भनियमश्च कथमेकत्र 1 प्रसंगादिति । वेदार्थसंग्रहेऽप्यत्रैव प्रकरणे एतन्मतनिरासात् प्रकारान्तरेणावतरणं दर्शितं भाष्यार्थदर्पणे श्रु० 16 GC-0. Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham १२२ १-१-१. धर्मधर्मिणोरत्यन्तभेदस्थापनम् सत्र दण्डकुण्डलादयः पृथक्संस्थानसंस्थिताः स्वनिष्ठाश्च कदाचित् क्वचिद्रव्यान्तरविशेषणतयाऽवतिष्ठन्ते । गोत्वादयस्तु द्रव्यसंस्थानतयैव पदार्थभूतास्सन्तो द्रव्यविशेषणतया अवस्थिताः । उभयत्र विशेषणविशेष्यभावः समानः । तत एव तयोर्भेदप्रतीतिश्च । इयांस्तु विशेषः – पृथक स्थितिप्रतिपत्तियोग्या दण्डादयः, गोत्वादयस्तु नियमेन तदनर्हाः इति । अतो वस्तुविरोधः प्रतीतिपराहत इति प्रतीति प्रकार नेहवा देवोच्यते । प्रतीतिप्रकारो
दृश्यते, नान्यत्रेत्यत आह तत्रेति । तत्र - गोत्वतदाश्रयदण्डदण्ड्यादिवर्गे । पृथक्संस्थान विशिष्ट ‘स्त्रपर्यवसित. कादाचित्कविशेषणभावो मत्वर्थीयप्रत्ययसापेक्षसामानाधिकरण्यप्रत्यये प्रयोजकः । द्रव्यसंस्थानतयैव पदार्थत्वेन तत्पर्यन्तत्वात् तद्विशेषणतयैव स्थितिर्मत्वर्थीयप्रत्ययनिरपेक्ष सामानाधिकरण्ये प्रयोजिका । सहोपलम्भनियमतदभावयोरप्यपृथसिद्धत्वपृथक् सिद्धत्वे एव प्रयोजके ; न तु भेदाभेदावित्यर्थः । सहोपलम्भनियमे, द्वयोरेव सहभावात् सहोपलम्भो द्वित्वसाधकः; तन्नियमस्तु भिन्नयेोरेकस्मिन्नपि नास्तीत्य साधारणानैकान्तिकत्वादनुभयसाधकः । किञ्च विरुद्ध एव ; द्वित्वसाधकसहोपलम्भनियमो हि द्वित्वस्य नियमं दर्शयति । एकशब्दानुविद्धप्रत्ययस्तु एको दण्डोत्यादिषु दण्ड्यन्तरख्यावर्तकत्वदर्शनेन धर्म्यन्तरनिषेधपरत्वान्न धर्मधर्मिणोरभेदसाधक इति भावः । यद्येवं जातिकुण्डल । देवैषम्यम्, यदि विशेषणविशेष्यभावसाम्यादुभयत्र भेदः साध्यते, तर्हि सहोपलम्भनियमादिवैषम्ये[]]एकत्वमपि स्यादित्यत आह उभयत्रेति । विशेषणविशेष्यभावा [ दि] विशेषात् तत्प्रयुक्तभेद प्रतिपत्तिरनिवार्या; विशेषणविशेष्यभावे सति भेदस्योभयसंप्रतिपत्तेः । सहोपलम्भनियमे ऐक्यं हि विमतम् । अतो न संप्रतिपन्नमेदविरुद्धामेदः कल्प्यः । यथा शीतस्वणत्वाद्यवान्तरवैषम्यं न द्रव्यत्वादिसाधारणाकारविरोध्यद्रव्यत्वकल्पकम्, एवं सहोपलम्भनियमो न भेदविरोध्याकारकल्पक इति भावः । यद्वा—पृथक्स्थितानां दण्डादीनामविशेषणानामेव सतां कदाचित् सहमात्रमात्रात् विशेषणत्वमध्य स्तमित्यत्यन्तभिन्नेषु विशेषणत्वाभावाद्विशेषणत्वं नात्यन्तभेदसाधन समर्थमित्यत्राह उभयत्रेति । व्यावृत्तप्रतीतौ व्यावर्तकतयोपयुज्यमानत्वं विशेषणत्वम् । तच्च दण्डादिष्वपि मुख्यमिति विशेषणत्वादत्यन्तभेदो युज्यत इति भावः ॥ गोताश्रयादिष्वेव सहोपलम्भनियमः, नान्यत्रेति व्यवस्थासिद्ध्यर्थमैक्यं कल्पनीयमिति चेत् — तत्राह इयां स्त्विति । इयानेव ; न स्वधिकं कल्पनीयमित्यर्थः । यदि सहोपलम्भनियमव्यवस्थार्थमैक्यं कल्प्यते - तदयुक्तम; तत्रैवैक्यम्, नान्यत्रेति व्यवस्थार्थमर्थान्तरकल्पनप्रसङ्गात् । यचैक्यं तत्र स्वाभाविकम् तर्हि सहोपलम्भनियमः स्वाभाविक इति न प्रतिपन्नविरुद्धार्थान्तरकल्पना गौरवमाश्रयणीयमिति भावः । यद्वा, विशेषणविशेष्यभावप्रयुक्तभेद प्रतिपत्तिर्ययोभयत्र तुल्या, तथा सहोपलम्भनियमो दण्डदेवदत्तादावपि स्यात्, जातिव्यक्तयोर्वा स जातिव्यक्त्योर्वा स न स्यादित्यत्राह इयानिति । न हि साधारण कारेऽभ्युपगतेऽवान्तरभेदस्याज्य इत्यर्थः । घटे पटस्याभावो भेदः, तत्र तस्य सद्भावोऽमेद इति भावाभावविरोधस्य, ‘न हि दृष्टेऽनुपपन्नं नाम’ इति न्यायात् प्रतीतिपराहतत्वमाशङ्कयाह अत इति । अतः - इत्थं भेदसामानाधिकरण्येनाभेदस्य प्रतीत्यभावात् ॥ कथं प्रतीतिप्रकार इत्यत्राद प्रतीतिप्रकारो हीति । यदि विशेषणविशेष्ययोरैक्यमस्ति, तर्ह्यन्यतरदेव प्रतीयेत । अन्यतरप्रतीतिर्वाऽस्तु तथाऽपि नैक्यम्; यथा पूर्वानुभूतयोः पुरुषयोरेकस्मिन् दृष्टे न हि पुरुषैक्यम् ॥ जातिव्यक्तयोः सम्बन्धनियम एवैक्यमिति चेत्-न; भेदसाधक- 1 स्वपर्यवसितेति । स्वनिष्ठा इति भाष्योक्तार्थमिदम् ।
9
१२३ हि इदमित्थमित्येव सर्वसम्मतः । तदेतत् सूत्रकारेण, “नैकस्मिन्नसंभवात् ” इति सुव्यक्तमुपपादितम् । अतः प्रत्यक्षस्य सविशेषविषयत्वेन प्रत्यक्षादिदृष्टसंबन्ध विशिष्टविषयत्वादनुमानमपि सविशेषविषयमेव । प्रमाणसङ्ख्याविवादेऽपि सर्वाभ्युपगत प्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः । वस्तुगत स्वभावविशेषैस्तदेव वस्तु निर्विशेषमिति वदन् जननीवन्ध्यात्वप्रतिज्ञायामिव स्ववाग्विरोधमपि न जानाति ॥ यत्तु — प्रत्यक्षं सन्मात्रग्राहित्वेन न भेदविषयम्, भेदश्व विकल्पासहत्वादुर्निरूपः - इत्युक्तम, तदपि - जात्यादिविशिष्टस्यैव वस्तुनः प्रत्यक्षविषयत्वात् जात्यादेरेव प्रतियोग्यपेक्षया वस्तुनः स्वस्य च भेदव्यवहारहेतुत्वाच्च दूरोत्सारितम् । संवेदनवत् रूपादिवच परत्र व्यवहारविशेषहेतोः स्वस्मिन्नपि तद्व्यवहारहेतुत्वं युष्माभिरभ्युपेतं भेदस्यापि संभवत्येव । अत एव च नानवस्थाऽन्योन्याश्रयणञ्च । संबन्धनियमस्य भेदनियतसंबन्धनियम्यत्वात् । द्वयोर्हि संबन्धः; तन्नियम एवैक्यं चेत्, संबन्धस्वरूपभङ्गप्रसङ्गः । एवं भेदाभेदनिरासस्य सूत्रकाराभिमतत्वमाह तदेतदिति । अथ प्रमाणान्तराणां प्रत्यक्षमूलत्वात् तेषामपि सविशेषविषयत्वमाह अत इति । प्रत्यक्षादिदृष्टधूमादिसंबन्धविशिष्टाग्न्यादिविषयत्वादित्यर्थः । स्वाभिमतमुक्तं प्रमाणत्रयम् । प्रमाणान्तराम्युपगमेऽपि तेषां सविशेषविषयत्वमाह प्रमाणसङ्खयेत्यादिना । प्रमाणानि सविशेषविषयाणि स्युः, तानि तर्कपराहतानीति शङ्कायाम् – अस्मिन् सर्वप्रमाणसविशेषविषयत्वविस्तरोक्तिसमयेऽपि पूर्वं तत्समहोक्ताविव बुद्धिस्थस्वसिद्धिवादेऽपि न निर्विशेषत्वसिद्धिरिति ज्ञापनाय, ‘सविशेषत्वबाधकतया परोक्तयुक्तयभ्युपगमेऽपि युक्तिरूपविशेषैः सविशेषत्वमवर्जनीयम् ’ इति पूर्वोक्तं स्मारयन बिरोधं च दर्शयति वस्तुगतेति । यद्वा पूर्वं स्वानुभवसिद्धे विशिष्ट निर्विशेषत्वनिष्कर्षो निष्कर्षकधर्मैः सविशेषत्वापादनेन दूषितः ; तत् सर्वं प्रमाणनिर्विशेषविषयत्वनिष्कर्षेऽप्यतिदिशति वस्तुगतेति ॥ } , एवं निविशेषचिन्मात्रपारमार्थ्य - व्यतिरिक्तापारमार्थ्यप्रतिज्ञाबाधः सामान्येन सर्वप्रमाणसविशेषगोचरत्वेन दर्शितः । अथ परोक्तं प्रमाणतर्कजातं विशेषतो दूषयितुमुपक्रमते । शास्त्रबलीयस्त्वमिच्छता परेण प्रथमं शास्त्रमुपन्यस्तम् । तदनिच्छता प्रत्यक्षाविरुद्धेऽर्थे शास्त्रं प्रमाणयता सिद्धान्तिना प्रत्यक्षस्य सन्मात्रविषयत्वं निराक्रियते । तत्र प्रत्यक्षस्य सन्मात्रविषयत्वे, भेदस्य दुर्निरूपत्ये च परोक्तं कुतर्कमनूद्य निरस्यति यत्त्विति । यत्त्वित्यादिना ग्रन्थद्वयेन तदनुभाषणम् (प्रमाणानुपपत्तिप्रमेयानुपपत्त्यनुभाषणम् ) । तदपीति । न केवलं सविशेषविषयत्वोपपादनम् निर्विशेविषयत्वोपपादनानुपपत्तिश्चेति अपिशब्दस्य भावः । यद्वा-न केवलं भिन्नविषयत्वं स्थापितम् ; सन्मात्रविषयत्वमपि दूरोत्सारितमित्यपिशब्दस्य भावः । जात्यादेरेवेति । स्वपरनिर्वाहकत्वात् व्यावृत्तिरूपधर्मान्तरनिरपेक्षस्य प्रतियोगिनिरपेक्षस्यैव चेति भावः । दूरोत्सारितम् । प्रतियोगिस्मरणकृतविलम्बे सत्यपि ज्ञानस्य यावत्कार्यसिद्धि सत्वं (स्थिरत्वं) कल्प्यम् । तथापि प्रतियोगिनिरपेक्ष जात्यादेर्भेदत्वेन, एकक्षणवर्तित्वेऽपि प्रत्यक्षस्य, भेदस्य सुग्रहत्वात् दूरोत्सारितमिति भावः । जात्यादेरेवेत्यभिप्रेतं भेदस्य स्वपरनिर्वाहकत्वं परोक्तयुक्त्यैव दर्शयति संवेदनवदित्यादिना । संवेदनवद्रपादिवच्चेत्यनेन परोक्तपक्षसपक्षौ द्वावपि सरक्षीकृतौ । अनेन परोक्तदूषणस्य परिहृतत्वं दर्शयति अत एवेति । अत्र प्रथमचशब्दस्य स्वपरनिर्वाहकत्वोपपादनेन दूषणपरिहारश्च सिद्ध इति भावः । द्वितीयश्वशब्दो दूषणद्वयसमुच्चये ॥ अनवस्थापरितरसिद्धौ तदर्थस्वपरनिर्वाहकत्वसिद्धिः, तदर्यस्व परनिर्वाहकत्व सिद्धौ अनवस्था परिहारसिद्धिरित्यन्योन्याश्रय इति चेत्र ः भ्रमनिवृत्यन्वय-
१२४ १ - १-१ प्रत्यक्षस्य सन्मात्रग्राहित्वाभावः एकक्षणवर्तित्वेऽपि प्रत्यक्षज्ञानस्य तस्मिन्नेव क्षणे वस्तुभेदरूपतत्संस्थान रूपगोत्वादेर्गृहीतत्वात् क्षणान्तरग्राह्यं न व्यतिरेकाभ्यामेव स्वपरनिर्वाह कस्यसिद्धेरनवस्थापरिहारात् । प्रत्यक्षज्ञानस्य त्रिचतुरक्षणमात्रवर्तिखेऽपि, एकक्षणवर्तित्वमभ्युपगम्य परिहरति एकक्षणवर्तित्वेऽपीति ।
; ; ; अत्रेदमनुसन्धेयम् — किं भेदप्रतीतिरनभ्युपगता, उताङ्गीकारेऽपि मूलं नास्ति, किंवा मूलं दुर्निरूपमिति विषयो वा किं नास्ति, उत सन्नपि दुर्निरूप इति । तत्र प्रथमं (?) प्रतीत्यनभ्युपगमो नोपपद्यते वेदान्तानामनारम्भणीयत्वप्रसङ्गात् ; वादिप्रतिवादिरूपेण कथानुपपत्तेश्च । मूलमप्यस्ति कार्यस्य संप्रतिपन्नत्वेन कारणस्य कल्पनीयत्वात् । ‘कार्यं हि प्रतीतं कारणकल्पनायां प्रमाणम् ; न पुनः स्फुटावधारितं कार्यं कारणनिरूपणायावमर्हति’ इति नीतिविदः । दुर्निरूपत्वमपि नास्ति ; कार्योत्पत्यनुरूपत्वं हि कारणस्य सुनिरूपत्वम् । कार्योत्पत्त्या कारणस्य तदनुरूपत्वं सिद्धमिति न दुर्निरूपत्वम् । विषयोऽप्यस्त्येव । यदि न विषयः, तर्हि त्वयैव तत् अनुयुक्तेन वक्तव्यम् – प्रपञ्चस्य बाध्यत्वज्ञानं किं सविषयम् । उताविषयमिति । सविषयत्वे विषयोऽङ्गीकृत एव । नो चेत्, बाध्यत्वमपि नेति प्रपञ्चपारमाध्यं स्यात् । अतोऽस्त्येव त्रिषयः । न च बाध्यविषयत्वम् ; तथा सति भेदबाधकप्रमाण जन्यप्रतीतेरपि मिथ्याविषयत्वेन भेदपारमार्थ्यप्रसङ्गात् । एतान् प्रत्याहुः, “स्त्रशास्त्रनिर्णये सत्ये सत्याः स्युलोकनिर्णयाः । स्वशास्त्रनिर्णयेमध्ये सत्याः स्युर्लोकनिर्णयाः ॥ ” पक्षाः अपिचेत्यादिना भाष्येण वक्ष्यमाणेनाभिप्रेता इति इति । उक्तविकल्पेषु पूर्वे चत्वारः । तेषां निरस्तत्वं तत्र ज्ञास्यते । अत्र ग्रथमं बाध्यविषयत्वपक्षं प्राधान्यात् परिजिहीर्षता भाष्यकारेण प्रत्यक्षवाघस्तावन्न दृष्ट इति, यौक्ति स्वाधः परिहियते । तत्र प्रतियोगिनिरपेक्षजात्यादेरेव मेदत्वेन तद्विशिष्टविषयतया क्षणान्तरग्राह्याभावात् क्रमयौगपद्यत्रिकल्पायोगरूपा प्रमाणानुपत्तिः परिहृता । एवं प्रमेयानुपपत्तौ स्वरूपपक्षे प्रतियोगिनिरपेक्षभेदव्यवहारप्रसक्तिश्च इष्टतया परिह; हानोपादानादिरूपस्य गोत्वादिशब्दावलम्विनश्च व्यवहारस्य, प्रतीतेश्च प्रतियोगिनिरपेक्षत्वात् । शब्दव्यवहारविशेषे प्रतियोगिसापेक्षत्वस्य, दाराः कलत्रम् आपः इत्यादिषु स्त्रीत्वनपुंसकत्वबहुत्वादिवत्, शब्दस्वभावायत्तत्वान्नार्थदूषणत्वम् । व्यावृत्तादिशब्दप्रयोगेष्वेव प्रतियोगिसापेक्षत्वदर्शनात् गोत्वादिप्रतिपत्तिव्यवहारेषु तदद्भाव’च्च शब्दव्यवहारविशेषस्य प्रतियोगिसापेक्षत्वं शब्दविशेषस्वभावाधीनमित्यन्वयव्यतिरेकाभ्यां निश्चीयते । शब्दस्वभावश्च प्रवृत्तिनिमित्तसाधारण्यात् तदवच्छेदकोपाधिपुरस्कारेणार्थविशेषप्रतीतिहेतुत्वम् । गेवशब्दो ह्यसाधारणो गोत्वं स्वरूपेण दर्शयति । मेदशब्दस्तु व्यावृत्तिबुद्धिहेतुत्वरूपप्रवृत्तिनिमित्तसाधारण्यात् तदवच्छेदकमहिषादिपदार्थान्तररूपाधि पुरस्कारेण गोत्वं दर्शयति । पर्यायत्वप्रसक्तिश्च परिहता; व्यावृत्तिरूपे परे ब्रह्मणि ब्रह्मशब्देन सह स्वरूपशब्दवत् अधिकार्थाविवक्षायामपि भिन्नशब्दस्य प्रयोगसंभवात् । उपाधिशब्दानां हि वाच्यानतिरेकेऽपि तटस्थोपाधिमेदादपर्यायत्वमुपपद्यते । तत्रैच्छौ प्रयोगाप्रयोगौ । भेदस्य व्यावृत्यनुवृत्तिविकल्पोऽपि परिहृतः ; व्यावृत्त इत्यभ्युपगमे स्वरूपव्यावृत्तशब्दयोखि भेदशब्दस्यानुवृत्त प्रयोग संभवात् । ‘भिन्नो हि भेदयोगी’ इत्येतच स्वरूपस्यैव जात्यादिभेदविशिष्टत्वेन भिन्नशब्दप्रयोग संभवात् परिहनम् । धर्मभूत जाव्यादिषु भिन्न इति प्रयोगो भवन्मते व्यावृत्तिरूपे ब्रह्मणि /
१२५ किचिदिह तिष्ठति ॥ अपिच - सन्मात्रग्राहित्वे, घटोऽस्ति पटोऽस्तीति विशिष्टविषया प्रतीतिर्विरुध्यते । यदि च सन्मात्रातिरेकिवस्तुसंस्थानरूपजात्यादिलक्षणो भेदः प्रत्यक्षेण न गृहीतः, किमित्यश्वार्थी महिषदर्शने निवर्तते । सर्वासु प्रतिपत्तिषु सन्मात्रमेव विषयश्चेत् तत्तत्प्रतिपत्तिविषय सहचारिणः सर्वे शब्दा एकैकप्रतिपत्तिषु किमिति न स्मर्यन्ते । किञ्च अश्वे हस्तिनि च संवेदनयो रेकविषयत्वेनोपरितनस्य गृहीतग्राहित्वाद्विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात् । प्रतिसंवेदनं विशेषाभ्युपगमे प्रत्यक्षस्य विशिष्टार्थविषयत्वमेवाभ्युपगतं भवति । सर्वेषां संवेदनानामेकविषयतायामेकेनैव संवेदनेनाशेषग्रहणादन्धबधिराद्यभावश्च प्रसज्येत । न च चक्षुषा सन्मात्रं गृह्यते, तस्य रूपरूपरूपैकार्थसमवेत पदार्थग्राहित्वात् । नापि त्वचा स्पर्शवद्वस्तुविषयत्वात् । श्रोत्रादीन्यपि न सन्मात्रविषयाणि ; किन्तु शब्दरसगन्धलक्षणविशेषविषयाण्येव । अतस्सन्मात्रस्य ग्राहकं व्यावृत्तशब्दवदौपचारिकः ; धर्मान्तरराहित्येऽपि तद्योगकार्यव्यावृत्तिबुद्धिहेतुत्वात् । धर्मपक्षेऽनवस्थान्योन्याश्रयणे च परिहृते; प्रतियोगिनिरपेक्षजात्यादेरेव भेदत्वात् तस्यैव स्वपरनिर्वाहकत्वाम्युपगमाच्च ॥ अविद्यायाः ब्रह्मणो भेदोऽस्ति वा न वा ? न चेत्, ब्रह्मणो जडत्वादिप्रसङ्गः ; अस्ति चेत्, स भेदः स्वरूपं वा धर्मों वेति विकल्पे दूषणपरिहारसाम्यं द्रष्टव्यम् । किञ्च स्वरूपधर्मविकल्पदूषणपरिहारा अभेदेऽपि तुल्याः अभेदः स्वरूपं चेत्, प्रतियोगिनिरपेक्षाभेदव्यवहारप्रसङ्गः । “परमात्मना भवत्यभेदी”, “घटध्वंसे घटाकाशो न भिन्नो नभसा यथा” इत्यादिष्यभेदः सप्रतियोगिको वसीयते । ब्रह्माद्वितीयमित्यादिपदानां पर्यायत्वं स्यात् । धर्मश्चेत्, सविशेषत्वम् । ततश्चापसिद्धान्त इति । ; इत्थं विषयदुर्निरूपत्वपक्षे प्रतिक्षिप्ते भेदप्रतीत्यनभ्युपगम एव परेषां शरणमिति तं निराकरोति अपि चेत्यादिना । प्रथमं प्रतिपत्तिविरोध उच्यते सन्मात्रेति ; यदिचेत्यादिना व्यवहारविरोधः; सर्वास्वित्यादिना शब्दविरोधः ॥
नन्वेकत्र स्मर्यन्त ‘एव सर्वे शब्दाः, सर्वप्रतिपत्तीनां सन्मात्रविषयत्वाभ्युपगमात् ॥ नैवम्, - घटे प्रतिपन्ने तत्र पटव्यवहारप्रसङ्गस्याभिप्रेतत्वात् । अत्र प्रतिदूषणं सन्मात्र शब्दानुवृत्तिः, दूष्पोऽर्थोऽयमेवेति स्मरणार्था । किञ्चेत्यादिना प्रतिपत्त्यवान्तरजातिविशेषविरोध उक्तः । अत्र सन्मात्रशब्दाप्रयोगः किञ्चशब्देन दूष्यार्थप्रतिसंधानात् । धारावाहिकज्ञानेषु कालभेदोऽस्तीति तद्व्यावृत्यर्थं विशेषाभावादित्युक्तम् । स्मृतिवैलक्षण्यं न स्यादिति । ज्ञाततयैव परामर्शप्रसङ्ग इत्यर्थः ॥ धारावाहिकबुद्धिष्विव ज्ञाततयापरामर्शाभावोपपत्तिरिति चेन्न ; तत्राप्रतिसन्धानस्य तादास्विक बुभुत्साभावाधीनत्वात् । अत्र तु सत्यामपि बुभुत्सायां ज्ञाततयापरामर्शाभावो विषयभेदमेव व्यवस्थापयति । प्रतिसंवेदनमिति । विशेषाभ्युपगमशङ्का परस्य गत्यन्तराभावद्योतनार्थं । सर्वेषामित्यादिना करणव्यवस्थाभावप्रसङ्ग उक्तः 1 करणानां व्यवस्थासिद्ध्यर्थं विषयमेदानाह न चेत्यादिना । अत्र पूर्वोक्तविशिष्टविषयप्रतिपत्तिविरोधविवरणम् अकारणत्व दुर्निरूपकारणकत्वनिरसनं च कृतं भवति । रूपैकार्थसमवेतेति । रूपसमानाश्रयसमवेतेत्यर्थः । समवेत शब्दो विशेषणतैकस्वभावपरः । विशेष्यत इति विशेषः । तेन सन्मात्रविलक्षणपरस्परभिन्नविषयत्वसिद्धिः ॥
ननु सर्वं प्रत्यक्षं सविशेषविषयमित्युक्तम् ; शब्दगन्धरसानां साश्रयतया धर्मान्तरवत्तया वा ग्रहणाभावात् तदूग्राहिणः प्रत्यक्षस्य कथं सविशेषविषयत्वम् ॥ नैतदेवम् ; गुणकर्मणोरपि तत्तत्संस्थानवत्तया कालविशिष्टतया च सविशेषश्वेन गृह्यमाणत्वात् । एतच्च निर्विकल्पकमपेक्ष्योक्तम् । सविकल्पके तु देशादीनां बहूनां विशेषणत्वं संभवत्येव । इन्द्रियाणां लोकसिद्धहेतुभिः सन्मात्रविषयत्वप्रतिक्षेपमुपसंहरति अत इति । ।
१२६ १-१-१. संस्थानान्यजा तिखण्डनम् न किञ्चिदिह दृश्यते । निर्विशेषसन्मात्रस्य प्रत्यक्षेणैव ग्रहणे तद्विषयागमस्य प्राप्तविषयत्वेनानुवादकत्वमेव स्यात् । सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्वनाशित्वादयस्त्वयैवोक्ताः । अतो वस्तुसंस्थानरूपजात्यादिलक्षणभेदविशिष्टविषयमेव प्रत्यक्षम् । संस्थानातिरेकिणोऽने केष्वेकाकारबुद्धिबोध्यस्यादर्शनात्, तावतैव गोत्वादिजातिव्यवहारोपपत्तेः, अतिरेकवादेऽपि संस्थानस्य सम्प्रतिपन्नत्वाच्च संस्थानमेव जातिः । संस्थानं नाम स्वासाधाणं प्रत्यक्षस्य सन्मात्रविषयत्वं पराभ्युपगतार्थान्तरविरुद्धं चेत्याह निर्विशेषेति । शास्त्रस्याप्राप्तविषयतयाऽर्थवत्त्वम्, लोकसिद्धत्वात् भेदस्य शास्त्राविषयत्वं वदद्भिः परैरेवाभ्युपेतम् । श्रुतिप्रामाण्यविरोध उक्तः ; पराभिमतार्थन्तरविरोधमाह सन्मात्रब्रह्मण इति । ततः फलितमनिष्टमाह तत इति । एवमुपपादितं प्रत्यक्षस्य सन्मात्रग्राहित्वप्रतिक्षेपं स्वाभिमतार्थान्तरन्युत्पादनाय प्रत्यक्षस्य विशिष्टविषयत्वे पर्यवसाययति अत इति । अत इत्यादिभाष्येऽर्थद्वयमुक्तम् -वस्तुसंस्थानरूपा जातिः, जात्यादिरेव भेद इति च । तत्र प्रथमं संस्थानमेव जातिरिति उपपादयति संस्थानेत्यादिना । किं दर्शनेन उतानुपपत्या वा संस्थानातिरिक्त जात्यम्युपगम इति विकल्पमभिप्रेत्य, दर्शनं नेत्याह संस्थानातिरोकिण इति । अयं सास्नादिमान् अयमपि सास्त्रादिमान्, अयं पृथुत्रुघ्नोदराकारः, अयमपि तदाकार इति सास्नादिरनुवृत्तबुद्धिव्यवहारविषयो दृश्यते; तदतिरिक्कोऽनुवृत्तधीव्यवहारविषयो न कश्चिदृश्यते; तस्मादित्यर्थः । यद्वा जातितया स्वाभिमतात् संस्थानात् पराभिमतजातेरसाधारणं रूपमुक्तम् एकाकारबुद्धिबोध्यस्येति । कल्पनमप्यनुपपन्नमित्याह तावतेति । व्युत्पत्तिरनुगतप्रयोगश्च व्यक्तिजातिविशेषादिशब्द। नामिव गवादिशब्दानामपि सुसदृशोपाधिवशादुपपद्यत इति भावः । नामान्तरेण पसमित जातेरभ्युपगतत्वशङ्काव्युदासायाह अतिरेकवादेऽपीति । परैरवयविनोऽसमवायिकारणत्वेन संस्थानं स्वीकृतम् । किमिदं संस्थानं नाम ? किमवयवसंयोगविशेषः, उत स्वरूपमात्रम्, उतान्यत् किमपि ? प्रथमे, निरवयवेष्वात्मसु संस्थानाभावादात्मत्वादिर्जातिर्न स्यात् । द्वितीये प्रत्यक्षस्य विशिष्टविषयत्वं न स्यात् ; अनुगतत्र्यवहारश्च न स्यात् ; 2 जातिमात्रोच्छेदश्च स्यात् । तृतीये गत्यभावादस्मत्पक्षाङ्गीकारः इति शङ्कायां निरवयवेष्वपि जातिव्यवहारसिद्ध्यर्थं जात्यजातिसाधारणं संस्थानमात्रं (?) 3 दर्शयति संस्थानं नामेति । घटस्य द्रव्यत्वं संस्थानं मा भूदित्य साधारणशब्दः । रूपम् – अपृथसिद्ध विशेषणम्, तेन गर्भदासादिव्यवच्छेदः ॥
ननु स्वासाधारणमित्यत्र स्वशब्दः किं व्यक्तिपरः ? उत सजातीयपरः ? व्यक्तिपरत्वे च किमेकव्यक्तिपरः ? उत सर्वव्यक्तिपरः ? प्रथमे, एकव्यक्तयतिरिक्त व्यक्तिषु गोत्वं न स्यात् । स्वशब्दस्य सर्वव्यक्तिपरत्वे, महिषव्यक्तावपि गोत्वं स्वात् । असाधारणशब्दश्च निष्फलः । सजातीयपरत्वे जातेः संस्थान विशेषत्वात्. समान संस्थानविशेषाणामसाधारणं रूपं संस्थानमित्युक्तं स्यात् । ततश्चात्माश्रयः ; संस्थाननिरूपणस्य तत्प्रतिपत्तिसापेक्षत्वात् ॥ नैवम् ; स्वशब्दस्य प्रकृतपरत्वात् प्रकृतत्वश्च तद्व्यवहारगोचरतया बुद्धिस्थत्वम् ॥ एवं तर्हि खण्डे बुद्धिस्थे गोत्वं तदसाधारणमिति मुण्डे गोत्वं न स्यात् । खण्डस्य वा गोत्वं संस्थानं न स्यात् ; मुण्डेऽपि विद्यमानतया गोवस्य खण्डासाधारणत्वाभावादिति चेन्न – खण्डं 1 व्यक्तीति । न हि सर्वासु व्यक्तिषु व्यक्तित्वम्, सर्वासु जातिषु जातित्वम्, सर्वेषु विशेषेषु विशेषत्वमित्यनुगताः धर्मास्त्वन्मतेऽपीति भावः । 2 जातिमात्रेति । तेन व्यक्तिजातिभेदादिः सिद्धान्तीष्टोऽपि न स्यादिति । 3 संस्थानमात्रं संस्थानसामान्यम् ।
रूपमिति यथावस्तु संस्थानमनुसंधेयम् ।
१२७ प्रति गोत्वस्य संस्थानरूपत्वाभावात् । खण्डत्वमेव हि खण्डस्य संस्थानम् । किं तव खण्डो बुद्धिस्थः ? उत गौः ? उत खण्डो गौः ? प्रथमे खण्डत्वमेव खण्डासाधारणमिति न मुण्डे गोत्वाभावप्रसङ्गः । अत एव खण्डं प्रति गोत्वस्य संस्थानरूपत्वाभावश्च नानिष्टः । द्वितीये, गोगत्वमसाधारणमिति महिषादी गोवं निवर्तते, गोषु च वर्तत इति न कश्चिदोषः । तृतीये, यथा नीलोत्पलस्य नीलत्वविशेषितमुत्पलत्वमसाधारणम्. एवं खण्डस्य गोः खण्डत्वविशेषितगोत्वमसाधारणमिति मुण्डे खण्डत्व विशेषितगोत्वमेव निवर्तते, न गोत्वमात्रमिति न काचिदनुपपत्तिः । नीलत्वाविशेषितमुत्पलत्वमिन्दीवर शब्दप्रवृत्तिनिमित्तत्वादेकं संस्थानम् । खण्डत्वगोत्वे तु मिथो विशेषणविशेष्यभावेऽपि नैकं संस्थानम्, एकशब्दप्रवृत्तिनिमित्तत्वाभावादिति भिदा । अतः स्वासाधारणरूपं संस्थानम् ॥ कस्तर्हि जातिरूप संस्थानानां शौक्ल्यादिभ्यो भेदः । स्वभावतारतम्याभावादिति ब्रूमः । शौक्ल्यादिषु हि शुक्लं शुक्लतरमिति तारतम्यं विद्यते । शब्दादिष्वप्युपाधितो वा स्वतो वा तीव्रतरत्वादितारतम्यमुपलभ्यते । खरत्वमृदुत्वादिस्वभावतारतम्यं स्पर्शादिष्वप्यस्ति । संख्यास्वपि न्यूनाधिकभाव उपलब्धः । परिमाणे च स्फुटतरः । एवं गोत्वादिषु गोतरो गोतम इति तारतम्यं नोपलभ्यते । एममादिवैषम्यं द्रष्टव्यम् । [ संस्थान सामान्यलक्षणपक्षं व्यक्त्वा ] 1 जातिरूप संस्थानलक्षणमिह विवक्षितं चेत् — प्रकृताकारेण सुसदृशव्यक्तयः समस्ताः स्वशब्देन विवक्षिताः । प्रकृताकारेणेति आत्माश्रयः परिहृतः; संस्थाननिरूपणस्य संस्थानप्रतिपत्तिनैरपेक्ष्यात् । सुसदृशशब्देन महिषादावतिप्रसङ्गः परिहृतः । समस्तशब्देन मुण्डादिष्वभावप्रसङ्गः परिहृतः । खण्डासाधारणत्वाभावात् गोत्वस्य । 1
ननु व्यावृत्तं संस्थानमनुवृत्तव्यवहारस्य कथं निष्पादकम् ? उच्यते—यथा व्यक्तित्वजातिविरहेऽपि बह्वीषु व्यक्तिषु व्यक्तिशब्दप्रयोगः, यथा गोत्वाश्वत्वादिजातिषु जात्यन्तराभावेपि जातिशब्दप्रयोगः, भिन्नेषु भिन्नत्वजात्यभावेऽपि भिन्नशब्दप्रयोग, खण्डादिषु खण्डत्वादिजात्यभावेऽपि खण्डादिशब्दप्रयोगः, यथा च नित्यद्रव्येषु विशेषमिच्छतां विशेषेषु विशेषत्वाभावेऽपि विशेषशब्दप्रयोगः - तद्वत् गवादिशब्दव्यबहार उपपद्यत इति । किञ्च कोऽयमनुवृत्तव्यवहार इति निरूप्यम् । गकारौकारविसर्जनीयानामानुपूर्वी यावदाकाशभाषिनां देशतः कालतश्च नोपपद्यत इति तस्या उच्चारणनिबन्धनत्वादुच्चारणस्य च विनाशित्वादानुपूर्वी च प्रतिप्रयोविनाशिनीत्यानुपूर्वीविशेष विशिष्टस्य शब्दस्य कथमनुवृत्तिः ! ॥ सुसदृशत्वमेव शब्दानामनुवृत्तिरिति चेत्अर्थानामपि गोत्वादीनां तथाभूतानुवृत्तिरित्यङ्गीक्रियताम् ॥
ननु किमिदं सौसादृश्यम् ॥ उच्यते । सदृशव्यवहारासाधारण हेतुर्विषयधर्मः सादृश्यम् । स च भ्रातृत्ववत् प्रतियोगिनिरूप्यपदार्थः प्रतिव्यक्ति व्यावृत्तः । अतो न वृत्तिविकल्पादिदौर्घट्यम् 2 । निर्दिष्टाकार पौष्कल्पतः सादृश्यं सौसादृश्यमिति । विशेष्यवाचिशब्दप्रवृत्तिनिमित्तपौष्कल्यं विवक्षितं पौष्कल्यशब्देन । गवयनिष्ठगोसादृश्यं न सौसादृश्यमिति सिध्यति ॥
नन्वेवं तर्हि प्रथमेतरगोव्यक्तिषु गवा सुसदृश इत्येव प्रयोगः `स्यात् ; न तु गौरितीति चेत् — यदि विवक्षा, तदा प्रयुज्यताम् — अयं गौः, अयं गवा सुसदृश इति प्रयोगेऽर्थभेदाभावात् ॥ किं तर्हि न प्रयुज्यत इति चेत् — 1 जातिरूपेति 1 एकव्यक्तावपि संस्थानस्येष्टत्वेऽपीह जातिरेव प्रकृतेति भावः । 2 एकस्य सादृश्यपर्याप्त्यनधिकरणत्वे इदं सदृशमिति प्रयोगो न स्यात् । तदधिकरणत्वे उभयोः सादृश्यमिति न स्यात् ; अनेनेदं सदृशमिति व्यवहारश्च न स्यादितीदं दौर्घटथम् । काल-परवासुदेवरूपादौ
१२८ १-१-१. भेदस्य भावरूपता जातिग्रहणेनैव भिन्न इति व्यवहारसंभवात्, पदार्थान्तरादर्शनात् अर्थान्तरवादिनाऽप्यभ्युपगतत्वाच्च गोत्वादिरेव भेदः ।
ननु च - जात्यादिरेव भेदश्चेत् तस्मिन् गृहीते तद्व्यवहारवत् भेदव्यवहारः स्यात् ॥ सत्यम्, भेदश्च व्यवहियत एव, गोत्वादिव्यवहारात् । गोत्वादिरेव हि सकलेतरव्यावृत्तिः ; व्यवहारगौरवादिति ब्रूमः, गौरिति व्यवहारे हि लाघवात् सौकर्यमस्ति ॥
ननु तर्हि तत्सदृशि तच्छब्दो माणवकेऽग्निशब्दवदौपचारिकः स्यात् ॥ न ; सौसादृश्यलक्षणानुवृत्त्यमावनिबन्धनत्वादौपचारिकत्वस्य । न हि माणवकाग्न्योः मौसादृश्यम् ; किन्तु सादृश्य लेशमात्रम् । पक्षे तु सौसादृश्यलक्षणानुवृत्तिरुपलभ्यते । तस्य च मुख्यता हेतुत्वं वृद्धव्यवहारसिद्धम्, यथा जात्यादिशब्दानाम् । अतोऽनुवृत्तप्रयोग उपपन्नः ! कस्मिंश्चिदर्थे कस्यचिच्छब्दस्य व्युत्पत्तिः तत्तुसदृशेऽर्थे सुसदृशस्य तस्यैव शब्दस्य प्रयोगे हेतुरिति यथादर्शनमभ्युपगन्तव्यम् । अप्रतिपन्नमर्थान्तरं कल्पयित्वा वृत्तिविकल्पादिदोषाणां प्रतीतिशरणतया परिहारादपि परिदृष्ट एव वस्तुनि प्रतीतिबलेन चोधपरिहारो लाघवन्यायादुपपद्यते । व्याप्तिग्रहणञ्च सौसादृश्यलक्षणानुवृत्तेरेवोपपद्यत इति तदपि न त्वदभिमतजातिकल्पकम् । अतः संस्थानानतिरिक्ता जातिः ॥ 1
ननु संस्थानस्यासाधारणाकारत्वात् तेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च शुक्तयादौ रजतादिभ्रमो न स्यात् । न ह्यसाधारणाकारस्फूर्ती भ्रमः संभवतीति चेत्-न; केनापि संस्थानेन प्रतिपन्नवस्तुनि प्रतिपन्न संस्थानात्रिरोध्याकार विषयभ्रमोपपत्तेः । प्रतिपन्न संस्थान विरोध्या कारभ्रमस्यैव ह्युत्पत्यसम्भवः । इदं शुक्कमिति प्रतीतौ न कार्ण्यादिभ्रमः । शौक्ल्यं हि शुक्लस्यासाधारणम्, न शुक्तेः । अतोऽसाधारणाकारप्रतीतिर्भ्रान्तिश्चोपपद्यते ॥ एवमापेक्षिकं चेदसाधारण्यम्, तर्ह्यसाधारणशब्दवैयर्थं स्यात् । न हि किमपि रूपं कस्यचिदसाधारणं न भवतीति चेन्न – शुक्तयपेक्षया शौक्ल्यस्य संस्थानस्यव्युदासार्थत्वादसाधारणशब्दस्य । अतः खासाधारणरूपं संस्थानम् ; ततो नातिरिक्ता जातिरिति सिद्धम् ।
इत्थं संस्थानमेव जातिरित्युपपाय गोवादेरेव भेदत्वं पूर्व प्रस्तुतमुपपादयति जातिग्रहणेनेति । प्रतियोगिनिरपेक्षो गोत्वादिः प्रतियोगिसापेक्षो भेदो भवितुं नाईति ; अतः प्रतियोगिसापेक्षेतरेतराभावो गोत्वाद्यतिरिक्तो भेदोऽभ्युपगन्तुमुचित इति शङ्कायामुच्यते जातिग्रहणेनैव भिन्न इति व्यवहारसंभवादिति । अयमर्थः — गोत्वादिव्यतिरिक्तभेद मङ्गीकर्वताऽप्यभावाभावे प्रतियोगिनिरपेक्ष भावरूपपदार्थस्यैत्र प्रतियोगिसापेक्षाभावस्वमङ्गीकृतम् ; अन्यथाऽनवस्थानात्; अनुपलम्भाच्च । तद्वदत्रापि संभवति ; प्रतियोगिसापेक्षत्वस्य प्रतियोगिनिरूपितवेष प्रवृत्तिनिमित्तकशब्द स्वभावाधीनत्वेनार्थस्वरूप मे दहेतुत्वाभावादिति । एत्रमनुपपत्तिर्नास्तीत्युक्तम्; दर्शनञ्च नेत्याह पदार्थान्तरादर्शनादिति । नामान्तरेणेतरतेराभावाभ्युपगमशङ्कां व्युदस्यति अर्थान्तरेति । अर्थान्तरवादिना - इतरेतराभावरूपो भेदोऽप्यस्तीति वदतेत्यर्थः । पूर्वं प्रतियोग्यपेक्षया अत्र तन्निरपेक्षगोत्वादिर्भेद उक्तः । तर्हि भेदव्यवहारोऽपि प्रतियोगिनिरपेक्षः मंदव्यवहार इत्युक्तम ; प्रसजेदित्यभिप्रायेण चोदयति
ननु चेति । एकार्थविषयाने कचोद्यपर ईदृशश्वशब्दः । सत्यमिति । प्रतियोग्यनपेक्षभेदस्वरूपव्यवहारेऽभ्युपगमः, भेदशब्दादिव्यवहारविशेषे वनम्युपगमः । भेद व्यवह्नियत एवेति । न केवलं गृह्यते, प्रतियोगिनिरपेक्षं व्यवह्नियते चेति चार्थः । उपपादयति गोत्वादिव्यवहारादिति । कथं गोवादिव्यवहारे सति भेदव्यवहार इत्यत्राह गोत्वादिरिति ।
९३९ गोत्वादौ गृहीते सकले तरसजातीयबुद्धिव्यवहारयोर्निवृत्तेः । भेदग्रहणेनैव ह्यभेदनिवृत्तिः । अयमस्माद्भिन्न इति तु व्यवहारे प्रतियोगिनिर्देशस्य तदपेक्षत्वात् प्रतियोग्यपेक्षया भिन्न इति व्यवहार इत्युक्तम् ॥ यत्पुनर्घटादीनां विशेषाणां व्यावर्तमानत्वेनापारमार्थ्यमुक्तम्, तत् अनालोचितबाध्यबाधकभावव्यावृत्त्यनुवृत्तिगोरखादिरेव कथं व्यावृत्तिरित्यत्राह गोत्वादाविति । निर्दिष्ट सामान्यानन्तरपरसामान्यापेक्षया ’ तद्विशेषाणां सजातीयत्वं विवक्षितम् । अत्र तिर्यक्त्वेन सजातीयो महिषादिर्गेत्विव्यवच्छेद्यः । व्यावृत्तेः सजातीयबुद्धिव्यवहारनिवृत्तिहेतुत्वमस्तु; ततः किं व्यावृत्तेर्भेदत्वे इत्यत्राह मेदग्रहणेनैव ह्यभेदनिवृत्तिरिति । अभेदनिवृत्तिः — अभेदधीनिवृत्तिः । एवं गोत्वादेः प्रतीतौ छानोपादानादौ गोखादिशब्दव्यवहारे च न प्रतियोग्यपेक्षेत्युक्तम् ; तर्हि कथम्, अयमस्माद्भिन्न इत्यत्र प्रतियोग्यपेक्षेति शङ्कायामाह अयमस्मादिति । न हानादिव्यवहारे ; नापि शाब्दव्यवहारमात्रे ; अपि तु शाब्दव्यवहारविशेष एवेति ज्ञापयति तुशब्दः । भेदश्य व्यवहियत एवेत्यादिना भेदग्रहणेनैव ह्यभेदनिवृत्तिरित्यन्तेन – कस्यचिद्वस्तुनो वस्वन्तरादुव्यावर्तकधर्मस्यैव स्वयमेव स्वव्यावृत्तिरूपत्वसम्भवः ; 2 परनिर्वाहकत्वाभावे स्वनिर्वाहकत्वासम्भवात् । स्वरूपे प्रकाशमाने भ्रमविरोधिनश्च न व्यावृत्तिरूपधर्मान्तरापेक्षत्युक्तं भवति । एवञ्च सति ब्रह्मणः कस्यचिद्वस्तुनो वरस्त्रन्तराव्यावर्तकधर्मरूपत्वाभावात्, स्वरूपे भासमाने अध्याससहत्वाच्च न स्वरूपमेव व्यावृत्तिरिति सिध्यति ॥
ननु धर्मिणः स्वरूपमेव तद्गतभावाभावरूपसकलधर्मान्तरापेक्षया भेद इत्यन्ततो गत्वाऽभ्युपगन्तव्यम्, भेदान्तराभ्युपगमे तस्मात्स्वरूपस्य भेदापेक्षायामनवस्थाप्रसङ्गात् ॥ सत्यम् । स तु स्वरूपभेदो नाभ्यासविरोधी ; तन्निवृत्तौ धर्मान्तरान्वयसापेक्षत्वात् । पटद्रव्यस्य रूपाव्यतिरेकभ्रमो हि स्पर्शसामानाधिकरण्यबुद्धिनिवर्त्यः । अतो धर्मिस्वरूपस्य स्वगतधर्मापेक्षया भ्रमविरोधिमेदो धर्मान्तरान्वयः । अतो धर्माणा स्वरूपस्यैवः स्वाश्रयस्य स्वविरुद्धधर्मान्तिरधर्म्यन्तरापेक्षयाऽन्यासविरोधि भेदत्वसंभवः, विशिष्टस्य तु वस्तुनः स्वरूपमेव विशिष्टं स्वत्रिरुद्धविशेषणविशिष्टवस्त्वन्तरराद्व्यावृत्तिरिति च युक्तम्, अर्थान्तरैक्यभ्रमविरोधित्वात्. । तत्र विशेषणापेक्षया विशेष्यस्य स्वरूपमेव मेदः । विशेग्यापेक्षया विशेषणस्य स्वरूपमेव भेदः । तदुभयापेक्षया च सम्बन्धस्य स्वरूपमेव भेदः । विशिष्टस्य विशिष्टान्तरापेक्षया स्वरूपमेव भेदः । स्वरूपस्य भेद इति निर्देशस्तु पदार्थस्वरूपमितिवदनतिरिक्तार्थः । तत्तदसाधारणशब्दवाच्यं स्वरूपम् । स च शब्दो व्युत्पत्तिसिद्धः । प्रतियोगितयाऽभिमतार्थान्तरैक्यधीविरोधि वा स्वरूपम् । अतः कस्यचिद्धर्मत्वाभावात् धर्मविशिष्टत्वाभावात् स्वरूपे भासमानेऽपि भ्रमसहत्वाच्च ब्रह्मणः स्वरूपमेव जडत्वाद्य व्यासविरोधिनी व्यावृत्तिर्भवितुं नाईतीति सिद्धम् ॥ इत्थं प्रमाणप्रमेयानुपपत्ती परिहृते; अथ परोक्तमनुमानमन्य दूषयति यत्पुनरित्यादिना । पुनःशब्दः केषलतकोदनुमानस्य वैषम्यं द्योतयति । दृश्यत्वानुमानस्य सूत्रकारैरेव दूषयिष्यमाणत्वाद् वक्ष्यमाणदूषणस्य मिथ्यात्व विषय सर्वानुमानानां दूष्यत्वप्रदर्शनार्षत्वाच्च व्यावर्तमानत्वानुमानमिह दूष्यते । साधारणदूषणानि कालात्ययापदेश-सोपाधिकत्व - व्याघाताः ।
- अनन्तरेति । अव्यवहितेत्यर्थः । परसामान्यं व्यापकजातिः । विशेषो व्याप्यजातिः । तद्विशेषाणाम् व्याप्यजातिमतां महीषादीनाम् । 2 परेति । परनिर्वाहकत्वहेतुनैव स्वनिर्वाहकत्वस्थापनादिति भावः । श्रु० 17
०३० १-१-१. व्यावर्तमानत्वानुमाने व्याघातोपपादनम् । तत्राश्रयः प्रतीतो न वा ? न चेत्, आश्रयासिद्धिः । प्रतीतत्त्रे, प्रतीतिश्च प्रत्यक्षादिप्रमाणै सत्यत्वेनेति तस्य मिथ्यात्वसाधनं धर्मिग्राहकप्रमाणबाधितम् । प्रतिपन्नोपाधौबाधितत्वस्य मिध्यास्ते प्रयोजकतया सोपाधिकत्वञ्च वक्ष्यते । तत्र देशकालविषयत्रमेष्वपि बस्स्वन्तरस्योपाधित्वात् अनुदितबाधकज्ञानेषु भ्रान्तिष्वपि (?) चोदयितृपुरुषज्ञानेन बाधितत्वाच्च विशेषणविशेष्यांश सिद्धेर्विशिष्टोपाधिसिद्धिरिति विस्तरेण वक्ष्यामः । साध्य धर्मस्य पारमार्थ्यापारमार्थ्यविकल्पे कृते, पारमार्थ्यं चेत्, अद्वैतहानिः ; दृश्यत्वहेतोरनैकान्त्यश्व; परमार्थेऽपि तस्य वृत्तेः । अपारमार्थ्ये, प्रपश्च सत्यता ; “बाधकबाधे बाध्यस्वरूपाबाधः” इति न्यायात् । अस एव हि, “द्वौ नञौ प्रकृतमर्थं सूचयतः” इति शाब्दप्रसिद्धिः । ‘धर्मे धर्मान्तरारोपणेन प्रत्यवस्थानादियं नित्यसमा जातिः’ इति न वाच्यम्; अप्रामाणिकधर्मपरम्परापादनेन दूषणं हि नित्यसमा । मिथ्यात्यमिध्यात्वं प्रामाणिकम् ; माध्यमिकोक्तस्य ज्ञानषाध्यत्वस्य भक्ता बाध्यत्वाभ्युपगमात्; परमार्थरज्जौ रज्जुबुद्धेः सर्पबुद्धया बाध्यत्वस्य बाध्यत्वदर्शनाच्च ॥ तर्हि सत्यत्वेऽपि सत्यत्वं किमस्ति उत नास्ति ? न चेत्, असत्यं जगत् स्यात् । आस्ति चेत्, तस्यापि सत्यत्वमित्यनवस्थेति चेन्न -स्वपरनिर्वाहकत्वाभ्युपगमात् । यदि स्वया मिथ्यात्वेऽपि स्वपरनिर्वाहकत्वमङ्गीक्रियते, तर्हि मिथ्यात्वस्यैव स्वमिथ्यात्व निर्वाहकत्वात् मिध्यात्वं मिध्यात्वान्तरमनपेक्ष्य स्वयमेव मिथ्येति प्रपञ्चः सत्यः स्यात् ॥ साधनस्य पारमार्थ्यापारमार्थ्याविकल्पे कृते — पारमार्थ्ये, अद्वैतहानिः ; अपारमाध्ये, धूमबुद्धया गृहीतबाष्पवत् असाधकत्वमिति व्याघातः ॥ भेदवादिनाऽपि हि न प्रपश्च सत्यत्वहेतु सत्यत्वसाधनपूर्वकमनुमानान्युपन्यस्यन्ते ; तथापि तदुपपद्यते ; तद्वन्ममापीति चेन्न – सत्यत्वासाधनेऽपि नास्माकं स्वाभ्युपगमव्याहतिः; तव तु मिथ्यात्वाभ्युपगमसाधकत्वाभ्युपगमन्याहृतिरिति वैषम्यात् ॥
ननु न साधनधर्मपारमार्थ्यमपेक्षितम् । नाशके मुद्गरे नष्टेऽपि पूर्वनष्टो घटो नष्ट एव दृष्टः, नोत्पन्नः । तद्वत् बाधकज्ञानस्य मिथ्यात्वेऽपि तद्बाधितस्य मिध्यात्वं तिष्ठत्येवेति ‘चैत्र—कारकज्ञापकयोर्वैषम्यात् । नाशको हि कारकः । अतस्तन्नाश्यस्य तस्मिन्नष्टेऽपि नाश एव ; तथा दर्शनात् । बाधकश्च ज्ञापकः । तस्मिन् बाधिते तद्बाध्यं च सत्यमेव स्यात् । अपवरकस्थघटाभावे केनचिदुक्त अस्तीति वचनेन बाधिते घटसत्यत्वदर्शनात् ॥
ननु बाधकबाधे पूर्वबाधितस्य सत्यस्वं वक्तुमयुक्तम् ; वृन्तविषयभ्रमरत्वभ्रमबाधेऽपि भ्रमरत्वबुद्धिबाधितस्य पलाशपुष्पविषयाग्निभ्रमस्य बाधितत्वदर्शनादिति चेत्-तत्र किं वस्तुनिवृत्तिः बुद्धिनिवृत्तिर्वोच्यते ! न प्रथमः; दावत्वस्यं परमार्थ भूत वृन्त बाध्यत्वदर्शनात् । बुद्धिनिवृत्तिवेत्, सान बाघकाधीना । ज्ञानानां क्षणिकत्वात् स्वयं निवृत्तेः । भ्रमरबुद्धिस्तूत्तरकालीन दावबुद्धयुत्पत्तिप्रतिबन्धिका । 1 प्रतिपन्नोपाध्यवच्छिन्नं बाधितत्वमुपाधिः । तत्र विशेषणांशस्योपाधेः विशेष्यांशस्य च बाधितत्वस्य सर्वत्राक्षतत्वात् विशिष्टोपाधिरक्षतः । अत्र भ्रान्तिविषयेष्वपीति पाठो युक्तः । अन्यथापुनः भावप्रकाशिकोक्तरीत्या अनुदितबाधकज्ञानेषु पुरुषेषु स्थितासु भ्रान्तिष्वित्यर्थः । चोदयित्रिति । तव भ्रान्तिविषये यत्र ने बाधकज्ञानं न जातम्, तत्र मिध्यात्वाश्रये कथं बाधितत्व निर्वाह इति यश्चोदयतीत्यर्थः । न हि तत्तत्पुरुबीयबाधविषयत्वं बाधितत्वम्; किं तु सामान्यरूपमिति । वक्ष्याम इति । १३३. पुढे द्रष्टव्यम् । 2 व्याघातं विविधं दर्शयति साध्येत्यादिना ।
१३१ तत्प्रतिबन्धकत्वञ्च भ्रमरपारमार्थ्यबुद्धेरेव । अन्यथा पूर्वभ्रमनिवृत्यभावदर्शनात् । ततश्च त्वन्मते कदाचिदपि न निश्शेषभ्रमनिवृत्तिः सिध्यति । बुद्धिनिवृत्तेर्बाधकविज्ञानजन्यत्वपक्षेऽपि निवर्तकज्ञानानां सर्वेषां भ्रान्तिरूपोत्तरोत्तर निवर्तकज्ञानसापेक्षतया भ्रमपरम्परापत्तेः । उत्तरस्य कस्यचित् ज्ञानस्य स्वयं नाशे काल्पनिकघटादिनाशस्येव तन्नाशस्य काल्पनिकत्वात् नाशकॢप्तिरूपभ्रान्तिः स्थिरेति निश्शेषभ्रमनिवृत्तिरूपो मोक्षोऽनुपपन्न इति कृत्स्नमिथ्यात्व - निश्शेषाविद्यानिवृत्तिव्याघातः । एवमादिव्याघाता अनुसन्धेयाः । सोपाधिकत्वं चानन्तरमेव वक्ष्यते । 9 9 ॥ दृश्यत्वव्यावर्तमानत्वयोरसाधारणं दूषणं ब्रह्मण्यनैकान्त्यम् । ( 1 ) अध्यस्तं स्वाधिष्ठानसमानाधिकरणतया वेद्यम्, यथा इदं रजतमिति । एवं घटस्सन् पटस्सन्नित्यधिष्ठानस्य सतः प्रपञ्चस्य चकधीवेद्यत्वाद् दृश्यत्वमनैकान्तिकम् । यद्यप नभो मलिनमित्यध्यासे नभसोऽचाक्षुषत्वादे कधी वेद्यत्व मध्यस्ताधिष्ठानयोर्न नियतम्, तथापि सन्मात्रस्य प्रत्यक्षग्राह्यत्वं परोपगतमिति सिद्धमनैकान्त्यम् ॥
ननु दृश्यत्वनियमोऽत्र हेतुतया विवक्षितः । स तु दृश्यत्वनियमः सतो नास्ति ; सतः स्वयंप्रकाशत्वात् ॥ तदपि कथम् । सदनुभूत्योर्भेदाभावादिति चेन्न – अन्योन्याश्रयणात् ; सदनुभूत्योर्भेदाभावे सिद्धे सतः स्वयंप्रकाशत्वेन दृश्यत्वनियमासिद्धेर्दृश्यत्वहेतोरनैकान्त्यपरिहृतिः, अनैकान्तिकत्वे परिहृते भेदाभाव इति । यद्यनुमानान्तरेण भेदनिषेधः, तर्ह्यस्मिन् सिद्धसाध्यता । एवं परोपगमेनानैकान्त्यमुक्तम् । किञ्च ब्रह्मणो दृश्यत्वं श्रुतिसिद्धम्, “दृश्यते त्वग्र्यया बुद्धया’, ‘आत्मा वा अरे द्रष्टव्यः’ इति । अनुभूतित्वादित्याद्यनुमानेन दृश्यत्वाभावे साध्ये कालात्ययापदेशः ॥ ‘यत्तददेश्यम्’ इति वाक्याद्दृश्यत्वश्रुतिर्बाध्येति चेन्न, दृश्यत्यसामान्यनिषेधपरत्वात् तस्य ; ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ इत्यस्य दृश्यत्यविशेषविधानविषयत्वाच्च ; “न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः’, ‘मनसा तु विशुद्धेन’ इत्यादौ दृश्यत्यविशेषनिषेधदर्शनाददेश्यमित्यादिसामान्यनिषेधस्य तत्पर्यमसायित्वाच्च ॥ अद्रेश्यमित्यादिसामान्यश्रुत्या दृश्यत्वाभावसाधकानुमानेन च ब्रह्मणो न दृश्यत्वमिति चेन्न ; तर्हि ‘न हिंस्यात् सर्वा भूतानि’ इति सामान्यनिषेधश्रुत्या हिंसात्वादित्यनुमानेन च अग्नीषोमीयहिंसानि - वृत्तिप्रसङ्गात् । अते। ब्रह्मणि दृश्यत्वमनैकान्तिकम् । अनैकान्तिके । कवे ?] परिजिहीर्षिते ब्रह्मणो मिथ्यात्वं वाऽभ्युपगन्तव्यं स्यात् ॥ दृश्यतैकस्वभावत्वं हि हेतुत्वाभिमतमिति नानैकान्त्यम् ; ब्रह्म हि स्वयंप्रकाशमिति न दृश्यतैकस्वभावमिति चेन्न — तदानीं हेतोर्भागासिद्धिः स्यात्; चिदचिदात्मके प्रपञ्चे जीवांशस्य स्वयंप्रकाशत्वात् । अचिदशमात्रपक्षीकारे हेतोर्जीवगत नित्यत्वादिधर्मेध्वनैकान्तिकत्वम् ते हि तद्धर्मभूतज्ञानवेद्या एव परमार्थभूताश्च ॥ (2) व्यावर्तमानत्वमपि ब्रह्मण्यनैकान्तिकम् ; अनृतादिभ्यो व्यावृत्तत्वेनाभ्युपगमात् । तच्च स्वरूपमात्रमित्रि न शक्यं वक्तुम् ; ब्रह्मणः कस्यचिद्धर्मत्वाभावात् ; अध्याससहत्वाच्च । व्यावर्तमानत्वस्य स्वरूपत्वेऽपि तत् स्वकार्यकरम् अनुभूतित्ववत् ; हेतोः स्वरूपानतिरेंकेऽपि साधनदशायां कार्यकरत्वम्, न तु दूषणदशायामिति नियामकाभावात् । किञ्च ब्रह्मणि स्वरूपं व्यावृत्तिश्चेत्, घटादिष्वपि तथाऽस्तु । यदि ब्रह्मणि स्वरूपातिरिक्ता सा, तर्हि घटादिष्वपि तथा स्यात् । सर्वथाऽनैकान्त्यमवर्जनीयम् । जडादिव्यावृत्तत्वं ब्रह्मणोऽपरमार्थश्चेत्, वस्तुतो ब्रह्म जडमेव स्यात् । अपरमार्थशब्दश्च निष्फलः ; घटादावपि व्यावर्तमानत्वस्य मिध्यात्वेन व्यावर्त्यभावात् । ततश्चानैकान्त्यं सुस्थम् ; अपरमार्थस्यैव हेतुतया स्वयाऽङ्गीकृतत्वात् तस्य च विपक्षेऽपि वर्तमानत्वात् । किञ्च अनुवर्तमानस्य सन्मात्रस्य व्यावर्तमानेभ्यो
१३२ १-१-१. सोपाधिकत्वासिद्धत्वो भयोपपादकत्वं भाष्यस्य विशेषस्य भ्रान्तिपरिकल्पितम् ॥ द्वयोर्ज्ञानयोर्विरोधे हि बाध्यबाधकभावः ; बाधितस्यैव व्यावृत्तिः । अत्र घटपटादिषु देशकालभेदेन विरोध एव नास्ति । यस्मिन् देशे यस्मिन् काले यस्य सद्भावः प्रतिपन्नः, तस्मिन् देशे तस्मिन् काले तस्याभावः प्रतिपन्नश्चेत्, तत्र विरोधात् बलवतो बाधकत्वं बाधितस्य च निवृत्तिः । देशान्तरकालान्तर संबन्धितयाऽनुभूतस्यान्य देशकालयोरभावप्रतीतौ न विरोध इति कथमत्र बाध्यबाधकभावः ? अन्यत्र निवृत्तस्यान्यत्र निवृत्तिर्वा कथमुच्यते ? रज्जुसर्पादिषु तु तद्देशकाल संबन्धितयैवाभावप्रतीतेः विरोधो बाधकन्वं व्यावृत्तिश्चेति देशकालान्तरव्यावर्तमानत्वं मिथ्यात्वव्याप्तं न दृष्टमिति न व्यावर्तमानत्वमात्रमपारमार्थ्यहेतुः ॥ घटादिभ्यो व्यावृत्तिरस्ति वा न वा ? अस्ति चेत्, तत एव व्यावर्तमानत्व हेतुर्ब्रह्मण्यनैकान्तिकः । नो चेत्, घटादिष्विव व्यावर्तमानत्वं ब्रह्मणि स्यात् ; व्यावर्तमानेभ्यो व्यावर्तमानत्वाभावात् । यथा रजतादव्यावृत्तं रजतम् ; तथा व्यावर्तमानादग्यावृत्तमपि हि व्यावर्तमानमेव भवति । अत उभयथाऽपि ब्रह्मण्यनैकान्त्यम् ॥
ननु ब्रह्म जडादिव्यावृत्तमेव; व्यावर्तमानत्वं च सत्यम् ; तच्च स्वरूपमिति नाद्वैतहानिः । तस्य च सत्यत्वान्न जडत्वादि ब्रह्मणः । ततश्च नानैकान्त्यम् । अपरमार्थभूतं घटादिगतं व्यावर्तमानत्वं हि हेतुरिति चेत् — यथपरमार्थभूतं घटादिगतं व्यावर्तमानत्वं हेतुतया विवक्षितम्, तर्हि असिद्ध हेतुः घटादीनां मिथो व्यावृत्तेरसत्यस्योपगमात् । 1 1 यत्पुनरित्यादिना सोपाधिकत्वं प्रतिजानीते । पूर्वं परेण बाधस्यापि पक्षादू (द ?) व्यावृत्त्युपपादनेनोपाधित्वं प्रत्युक्तम् ; तद्वषुदासाय पक्षे बाधाभावं दर्शयितुं बाधं शिक्षयति द्वयोरिति । विरोधे सत्येव बाध्यबाधकभावः ; न त्वस्तिनास्तीति प्रत्ययमात्र योरित्यर्थः । बाधितस्यैव व्यावृत्तिरिति । प्रतिपन्नोपाधौ बाधितस्यैव मिथ्यात्वसाधिका व्यावृत्तिः; न स्वगृहीतत्वमात्रं मिध्यात्वसाधकमित्यर्थः । अत्र व्यावृत्तिविशेष व्यावृत्तिशब्दोक्तः ; उत्तरत्र व्यावर्तमानत्वमात्रमिति मात्रच्प्रत्ययसद्भावात् । ततः किं पक्षे बाधाभावस्येत्यत्राह अत्रेति । देशयोः कालयोश्च भेदे सति अविरोधं दर्शयितुं तयोरैक्ये विरोधबाधौ दर्शयति यस्मिन्निति । भावाभावविरोधादन्यतरस्य बाध्यत्वे सति बलवतो बाधकत्वमितरस्य बाधितत्वात् निवृत्तिश्चेत्यर्थः । च एवार्थे । बाधितस्यैव त्वदभिमतव्यावृत्तिविशेष इत्यर्थः । सामानाधिकरण्यानर्हत्वं विरोधः । अदुष्टकारणजन्या निषेधधर्वाधः । अदुष्टकारणजन्यत्वे सति निषेधरूपत्वं बाधकत्वम् । पुरोवर्तिनि अभावोऽनवभासो वा सत्यत्वावभासाभावो वा निवृत्तिः । पक्षे घटादौ देशकालभेदेन विरोधबाधाभावादुपपादयति देशान्तरेति । विरोधबाधाभावात् तत्फलभूत निवृत्तिरपि नेत्याह अन्यत्रेति । अन्यत्र निवृत्तस्य । अन्यत्र - विरोधबाधस्थले निवृत्तस्य । अन्यत्र विरोधबाधरहितस्थले । यद्वा अन्यत्र स्वदेशकालव्यतिरिक्त देशकालयोः । अन्यत्र स्वदेशकालयोः । एतद्वैधर्म्यं दृष्टान्तेन विवृणोति रज्जुसर्पादिष्विति । तुशब्दो घटादिवैषम्यपरः । इत्थं दूषणोपयोगिनी व्याप्तिः शिक्षिता; अथानुमानदूषणसिद्धिं दर्शयति इति देशकालान्तरेति । इतिर्हेतौ । मिथ्यात्वं व्यापकम् ; व्यावर्तमानत्वं व्याप्यम् । व्यावर्तमानत्वमात्रमिति मात्र शब्देन विरोधबाधहेतुकन्यावृत्तिर्व्यीवर्त्यते । 1 यद्वा, व्यावर्तमानत्वहेतोरसिद्धिं प्रतिजानीते – यत्पुनरित्यादिना । तदर्थं बाधमूलं विरोध इत्याह द्वयोरित्यादि । पक्षे तदभावं दर्शयति अत्रेति । विरोधाभावमुपपादयति यस्मिन्निति । तत्फलनिवृत्तिमाह । अन्यत्रेति । दृष्टान्ते तद्वैधर्म्यं दर्शयति रज्ज्विति । एवमसिद्धिं वक्तुं विभागो दर्शितः । अथासिद्धिमाह इति देशकालान्तरेति । सोपाधिकत्वमार्थम् ।
१३३ यतु-अनुवर्तमानत्वात् सत् परमार्थ इति, तत् सिद्धमेवेति न साधनमर्हति । अतो न सन्मात्रमेव वस्तु । अनुभूति- अयमथः - - किं
पटोऽस्तीत्यत्र घटाभावः सिषाधयिषितः उत घटोऽस्तीत्यत्रापि तदभावः ? प्रथमे सिद्धसाध्यता । द्वितीये व्यावर्तमानत्वशब्देन किं व्यावृत्तिबुद्धिबोध्यत्वं मिथ्यात्व हेतुतया विवक्षितम्, उत प्रतिपन्नोपाधौ बाधितस्य व्यावृत्तिः । प्रथमे सोपाधिकत्वम् । द्वितीये हेत्वसिद्ध्या घटादेः सत्यत्वमिति ॥
ननु बाधार्हताया उपाधित्वे साध्याविशिष्टता स्यादिति बाधितत्वमेवोपाधिः स्यात् ; तस्य न साध्यसमव्याप्तिः । असहायेन गच्छता पथि दृष्टस्य रज्जुसर्पस्य केनाप्यवाधितत्वादिति चेत् — नैवम, – ईश्वरादिज्ञानेन बाधितत्वनियमात् । अनभ्युपगतेश्वरादीना पक्षेऽप्ययमुपाधिरेव ; किं त्वया तस्य पथि दृष्टस्य रज्जुसर्पस्य मिथ्यात्वं प्रमाणतोऽवगतम्, न वा ? न चेत्, सम्यक् सर्प एवेति तत्रावृत्तिर्न साध्यसमव्याप्त्यभावाय स्यात् । अवगतं चेत्, तत एव ज्ञानात् तस्य बाधितत्वं सिद्धमिति साध्यसमव्याप्तिसिद्धिः ॥
ननु किं प्रतिपन्नोपाधौ बाधो मिथ्यात्वे प्रयोजकः; उत केवलबाधः ? प्रथमे, देशकालयोरुपावित्वात् देशकालभ्रमस्य देशकालोपाधिकत्वाभावेन सर्वसपक्षा
ननुयायित्वेन साध्यसमव्याप्त्यभावात् प्रतिपन्नोपाधौ बाघो नोपाधिः स्यात् । द्वितीये कृत्स्नमिथ्यात्वमिति ॥ अत्रोच्यतेन हि देशकाला वेवोपाधिरिति नियमः; किन्तु वस्त्वन्तरमप्युपाधिः । उपाधिः अवच्छेदकः । अत एव हि देशकालादिप्रतिपन्नोपाधौ अबाधितत्वादित्यत्रादिशब्देन वस्त्वन्तरस्याप्युपाधित्वं भाष्यकारैर्वक्ष्यते । तस्मात् देशकालभ्रमे वस्त्वन्तरमुपाधिः । देशकालभ्रमस्य वस्त्वन्तरोपाधिकत्वेऽपि वस्तुभ्रमस्य देशकालोपाधिकस्बे नान्योन्याश्रयः भ्रमव्यक्तिभेदात् । तस्मात् यदवच्छेदकावच्छिन्नं यत् प्रतिपन्नम्, तदवच्छेदकावच्छिन्नस्य बाधो मिध्यात्वे प्रयोजकः । यद्वा — आरोपितेन सायन्त्वादिना तन्निवर्तकेन दिवात्वादिना च विना क्रियान्तरावच्छिन्नकालस्य भ्रान्त्युपाधित्वम् ; एवं देशेऽपीति न कश्चिद्दोषः । एवं विशिष्टोपाधौ विशेषणविशेष्यांशयोः परिहृतानुपपत्तिकत्वेन विशिष्टोपाधिसिद्धिः । अतो न व्यावर्तमानस्त्रमात्रमपारमार्थ्यहेतुः । कैश्चिदेवमुक्तम् - घटोऽस्तीत्यत्र किं घटास्तिशब्दौ पर्यायौं उत न ? पर्यायत्वे सहप्रयोगो न स्यात् । नो चेत्, सद्विलक्षणो घट इति ॥ नैवम् ; ‘अस्ति ब्रह्मेति चेद्वेद’ इत्यादौ च अस्तिब्रह्मशब्दयोः पर्यायत्वे पौनरुक्त्यम् ; नो चेत्, ब्रह्मणोऽपि सद्विलक्षणत्त्रमिति । उभयत्रायं परिहारः - स्वशब्दप्राप्तस्य स्वभावस्यैव निषेधार्थानुवादशङ्कापरिहारायास्तिशब्देन नियमः क्रियत इति ॥
1 अथ पारमार्थ्यसाधकत्वेनोक्तमनुवर्तमानत्वं दूषयति यत्त्वित्यादिना । प्रमाण संबन्धाईत तदू घटादिस्वरूपस्य सच्छब्दवाच्यस्य किं पारमाध्यं साध्यते, उताधिष्ठानतयाऽनुवृत्तस्यार्थान्तरस्येति विकल्पे द्वितीयशिरस्याश्रयासिद्धिमभिप्रेत्य प्रथमे शिरसि सिद्धसाधनत्वं दूषणमुक्तम् ॥
ननु सदेव परमार्थ इति हि ग्रन्थकाराभिप्रायः, तत् कथं सिद्धसाधनत्वमिति ॥ उच्यते । एतदनुमानं किं सतः पारमार्थ्यसाधकम्, उत व्यतिरिक्तापारमार्थ्यस्य, उतोभयस्य ? । प्रथमे सिद्धसाध्यता । द्वितीये व्यधिकरणासिद्धता [च] । तृतीये अशे सिद्धसाध्यता, अंशे व्यधिकरणासिद्धिश्वेति । निगमयति अत इति । परेण प्रमाणप्रमेयानुपपत्तिकृतं भेददूषणमुपजीव्य अनुभूतेः सतो (अनुभूतिसतोः) मेदोऽपास्तः । अत्र च भेददूषणहेत्वाभासनिरासमुपजीव्यानुभूति सतोरभेदश्च निरस्यते अनुभूतीत्यादिना । अनुभूतिसद्विशेषयोरित्यत्र विशेषशब्देन अनुवर्तमानत्वद्देतोराश्रयासिद्धिः सूच्यते सच्छन्दवाच्यस्य वस्तुनो
१६४ 1 १-१-१. वियाफाशत्ये शिक्षणीयांशः शेषया विषयविषविभावेन भेदस्य प्रत्यक्षसिद्धत्वादपाधितत्वाप, अनुभतिरेव सोरसंपत्ति ॥ यस्वनुभूतेः स्वयम्प्रकाशत्वमुक्तम् ; तद्विषय प्रकाशनवेलायां ज्ञातुरात्मनस्तथैष ; न तु सर्वेषां सर्वदा तथैवति नियमोऽस्ति परानुभवस्य हानोपादानादिलिङ्गकानुमानज्ञानविषयत्वात्, स्वानुभवस्याप्यतीतस्य अज्ञासिषमिति ज्ञानविषयत्वदर्शनाच्च ; अतः, ‘अनुभूतिश्चेत्, खसस्सिद्धा’ इति वक्तुं न शक्यते ॥ अनुभूतेरनुभाव्यत्वे अ
ननुभूतित्वमित्यपि दुरुक्तम् ; खगतातीतानुभवानां परगतानुभवानाञ्चानुभाव्यत्वेन अ
ननुभूतित्व प्रसंगात् । परानुभवानुमानानभ्युपगमे च शब्दार्थसंबन्धग्रहणाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्गः । आचार्यस्य ज्ञानवत्त्वमनुमाय तदुपसत्तिश्च क्रियते ; सा च नोपपद्यते ॥ न चान्यविषयत्वेऽ
ननुभूतित्वम् ; अनुभूतित्वं नाम वर्तमानशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वम्, स्वसत्तयैव स्वविषयसाधनत्वं वा । व्यावृत्तत्वादनुवृत्तार्थान्तराभावाच्च ॥ सच्छन्दः प्रमाण संबन्ध योग्ये हि वर्तते । घटः सन् पठः सन्नित्यनुवृत्तव्यवहारो व्यावृत्तशब्दवत् उपपन्न इति प्रमाणसंबन्धाः पदार्थाः परस्परव्यावृत्ताः सच्छन्दवाच्याः ॥ अथ परोके स्वयंप्रकाशत्वेऽभिमत तत्रापि शिक्षणीयांशोऽस्तीत्यभिप्रायेणाह यत्त्वनुभूतेरिति । तुः पक्षवैषम्ये । वक्तव्यांशमाह तत् विषयप्रकाशनवेलायामिति उत्तरत्र वर्तमानदशायामिति हि वक्ष्यते । तस्य ज्ञानस्य नित्यद्रव्यत्वेन सदा वर्तमानत्वात् वर्तमानदशायामिति पदं निरर्थकमिति शङ्कापनुत्तये विषयप्रकाशनवेलायामित्युक्तम् । वर्तमानदशाशब्देन विषयसंबन्ध प्रसरस्य वर्तमानता विवक्षितेत्यवगम्यते । न तु सर्वेषामित्येतदुपपादयति परानुभवस्येति । [ न ? ] सर्वदेत्येतदुपपादयति स्वानुभवस्यापीति । अनुभूतिदिव्यनेन स्वाश्रयं प्रति विषयप्रकाशनवेलायामित्युक्तवैषम्यविरहो गर्भितः । एवमनुभूतेरनुभाव्यत्व संभवमुपपाच तदसंभवे परोक्तमनुमानं दूषयति अनुभूतेरिति । कुत इत्यत्राह स्वगतेति । परानुभवानुमेयत्वानभ्युपगमे लौकिकव्यवहारविरोधमनिष्टमाह परेति । अथ वैदिकव्यवहारविरोधमाह आचार्यस्येति । परानुभवानुमानानभ्युपगम इत्यादिना चार्वाकनिरासश्च फलितः ; अनुमानानभ्युपगमे शब्दार्थसंबन्धग्रहणायोगात् । एवं बाध उक्तः ; अथ व्याप्तिं दूषयति न चान्येति । न ह्यसाधारणाकारो धर्मिग्राहकमानसिद्धः साधारणाकारे सति अपगच्छतीव्यभिप्रायेणानुभूतिस्वरूपं शिक्षयति अनुभूतित्वमिति । अत्रानुभूतिशब्दो ज्ञानमात्रपरः ; न तु स्मृतिविलक्षणपरः । प्रकाशमानत्वमित्युक्ते घटादेरप्यनुभूतित्वं स्यादिति तद्व्यावृत्यर्थं स्वाश्रयं प्रतीत्युक्तम् । अणुस्वनित्यत्वाद्यात्मधर्माणां ज्ञानान्तरप्रकाश्यत्वात् तद्यावृत्त्यर्थं स्वसत्तयैवेत्युक्तम् । अतीतानुभवन्यावृत्यर्थं वर्तमानदशायामित्युक्तम् यद्यप्यतीतानुभवस्य ज्ञानान्तरमन्तरेण प्रकाशानुपपत्तेरर्थात् [असंभव ] व्यवच्छेदः; तथाऽप्यतीतस्य ज्ञानान्तरेण सिद्धिं परानभिमतां व्युत्पादयितुमिदं विशेषणम् । विषयसम्बन्धस्य वर्तमानदशायामित्यर्थः । वर्तमानदशायां खसत्तयैव प्रकाशमानत्वमित्युक्ते परानुभवे तदसंभवात् तद्व्यावृत्त्यर्थं स्वाश्रयं प्रतीत्युक्तम् / एतल्लक्षणं स्वयम्प्रकाशत्ववादिनामेवेष्टमिति सर्वसम्प्रतिपन्नं लक्षणमाह स्वसत्तयैवेति । स्वाश्रयं प्रति वर्तमानदशायामिति पदद्वयानुकर्षस्योपलक्षणं स्वसत्तयैवेति पदम् । साधनमित्युक्ते दण्डचक्रादेरपि तथात्वात् तद्व्यावृत्त्यर्थं विषयसाधनेत्युक्तम् । चाक्षुषज्ञानं श्रावणविषयं न साधयतीति सर्वविषयसाधनत्वासंभवात् तद्व्यावृत्यर्थं (सर्वविषयासाधनत्वा संभवव्यावृत्त्यर्य) स्वशब्दः इन्द्रियव्यावृत्यर्थं स्वसत्तयैवेति पदम् । इन्द्रियादिकं हि न केवलं स्वतत्तया प्रकाशकम् ; अपि तु ज्ञानोत्पादनद्वारा । वर्तमानदशायामिल्यतीतानुभवन्यावृत्तिः स्वाश्रयं प्रतीति परानुभवन्यावृत्तिः । F
१३५ ते चानुभवान्तरानुभाव्यत्वेऽपि स्वानुभवसिद्धे नापगच्छत इति नानुभूतित्वमपगच्छति । घटादेस्त्व
ननुभूतित्वमेतत्स्वभावविरहात् ; नानुभाव्यत्वात् । तथा अनुभूतेः अ
ननुभाव्यत्वेऽप्य
ननुभूतित्वप्रसङ्गो दुर्वारः, गगनकुसुमादेर
ननुभाव्यस्या
ननुभूतित्वात् ॥ गगनकुसुमादेर
ननुभूतित्वमसत्त्वप्रयुक्तम, ना
ननुभाव्यत्वप्रयुतमिति चेत् — एवं तर्हि घटादेरप्यज्ञानाविरोधित्वमेवा
ननुभूतित्वनिबन्धनम्, नानुभाव्यत्वभित्यास्थीयताम् ॥ अनुभूतेरनुभाव्यत्वे अज्ञानाविरोधित्वमपि तस्याः घटादेखि प्रसज्यत इति चेत् — अ
ननुभाव्यत्वेऽपि गगनकुसुमादेरिवाज्ञानाविरोधित्वमपि प्रसज्यत एव । अतोऽनुभाव्यत्वेऽ
ननुभूतित्वमित्युपहास्यम् ॥ यत्तु - संविदः स्वतस्सिद्धायाः प्रागभावाद्यभावादुत्पत्तिर्निरस्यते- aaः
किमित्यत्राह ते चेति एवम
ननुभाग्यत्वलक्षण साध्यधर्मप्रतिक्षेपेणानुभाव्यत्वेनानुभूतित्वस्य सामानाधिकरण्यदर्शनात् अ
ननुभाव्यत्वेन व्याप्तिर्निराकृता ; तर्हि कथमनुभाव्यत्वे ऽ
ननुभूतिस्वदर्शनमिति शङ्कायां सोपाधिकत्वमाह घटादेस्त्विति । अ
ननुभूतित्वम् – अनुभूतिशब्देन व्यवहर्तव्यत्वाभाव इति न साध्याविशिष्टता । यद्वा उक्तयोर्लक्षणयोरन्यतरदनुभूतिश्वम् ; न तु समुचितमुभयम् ; अन्योन्यनिरपेक्षत्वात् ; वाशब्दप्रयोगाच्च । न हि चशब्दः प्रयुक्तः । तत्रान्यतरलक्षणराहित्यरूपम् अ
ननुभूतित्वम् अन्यतराकारविरहप्रयुक्तमिति सोपाधिक[स्व]मित्यर्थः । अथ प्रतितर्कपराहतिमाह तथाऽनुभूतेरिति । यद्वा आभाससमानयोगक्षेमत्वमाह [तथानुभूतेरिति ] । गगनकुसुमादेर
ननुभूतित्वस्य उपाध्यन्तरसत्वं शङ्कते गगनेति । घटादेर
ननुभूतित्वस्याप्युपाध्यन्तरमज्ञानाविरोधित्वमाह एवं तर्हति । प्रकाशनियमाभावाविरोधित्वम् अज्ञानाविरोधित्वम् । न च सुखादावभावात् साध्यसमव्याप्त्यभावः शङ्कनीयः, ; सुखादेर्ज्ञान विशेषत्वेना
ननुभूतित्वाभावात् । अज्ञानाविरोधित्वस्योपाधित्वनिरासाय पक्षे तत् प्रसञ्जयति अनुभूतेरिति । तत् भवत्पक्षेऽपि तुल्यमित्याह अ
ननुमाव्यत्वेऽपीति । अनुभूतेरनुभाव्यत्वेऽ
ननुभूतित्वस्यो नधित्वेनोक्तमज्ञानाविरोधित्वम
ननुभाव्यत्वेऽपि प्रसज्यत इत्यर्थः । अनुभाव्यत्वेऽ
ननुभूतित्वमज्ञानाविरोधित्वश्च यदुक्तम्, तत् अ
ननुभाव्यत्वेऽपि गगनकुसुमादेवि प्रसज्यत इत्युक्तम् ॥ गगनकुसुमादाव
ननुभूतित्वमज्ञानाविरोधित्वं चासत्त्वप्रयुक्तम्, ना
ननुभाव्यत्वप्रयुक्तमिति चेत् — अ
ननुभाव्यत्वे तद्वत् असत्वमपि प्रसज्यते ॥ गगनकुसुमादेरसवं ना
ननुभाव्यत्वमात्रप्रयुक्तम् ; अपि तु स्वयम्प्रकाशत्वे सति अ
ननुभाव्यत्वविरहप्रयुक्तमिति अनुभूतेर
ननुभान्यत्वमात्रान्नासत्त्वप्रसक्तिरिति चेत्अ
ननुभाव्यत्वे तद्वत् अस्वयम्प्रकाशत्वमपि प्रसज्यते (प्रेसजति) । अतः अस्वयम्प्रकाशत्वे सति अ
ननुभाव्य-. स्वप्रयुक्तमसत्वमनुभूतेर्दुर्वारम् ॥ असत्वं तु धर्मिग्राहकप्रमाणविरुद्धमिति चेत्; अनुभाव्यत्वेऽ
ननुभूतिस्वमपि तथेत्येवमनुसन्धेयमिति भाष्याभिप्रायः । खपुष्पोदाहरणे तु नाश्रयवैकल्यदोषः शङ्कनीयः ख्यातेर्नासदिति व्यतिरेकदृष्टान्तत्वस्य परैः स्वीकृतत्वात् । " शब्दज्ञानानुपाती वस्तुशून्योऽवभासेो विकल्पः; सस्वमावस्त्यवभासः प्रतीतिः” इति हि तैरुच्यते । तत्राभासप्रतीतस्यापि निषेधाधिकरणत्वं युक्तमिति भाट्टाङ्गीकृतश्च । अतः परमतप्रक्रियया खपुष्पमुदाहृतम् । उपहास्यम् — समीपस्थैरपि हास्यमित्यर्थः । अथ परोक्तं नित्यत्वं व्युदस्यति यत्त्वित्यादिना ॥
ननु ज्ञाननित्यत्वमभ्युपयद्भिः कथं तन्निरसनं युक्तम् ! उष्यते ; -ज्ञानाश्रयभूत आत्मा । तदाश्रितं च सङ्कोच विकासार्ह नित्यं ज्ञानद्रव्यं परस्यानभिमतम् । यत्तु प्रस्तुत मिन्द्रियसंयोगाद्यन्वयव्यतिरेकानुविधायि प्रत्यक्षस्व परोक्षस्त्रप्रमाणत्वाप्रमाणत्वाद्यवस्थं लोकसिद्धं ज्ञानम्, तस्य यदि नित्यत्वमुपपाद्यते, तत् व्युदस्यते । विषयसम्बन्धिज्ञानस्य हि स्वयम्प्रकाशत्वं परेण समर्थितम् ।
१३६ १-१-१. अनुभूतिप्रागभावस्य सुग्रहत्वम् तदन्धस्य जात्यन्धेन यष्टिः प्रदीयते । प्रागभावस्य ग्राहकाभावादभावो न शक्यते वक्तुम् ; अनुभूत्यैव ग्रहणात् । कथमनुभूतिः सती तदानीमेव स्वाभावं विरुद्धमवगमयतीति चेत्; न हानुभूतिः स्वसमकालपर्तिनमेष विषयीकरोतीत्यस्ति नियमः, अतीतानागतयोरविषयत्वप्रसङ्गात् ॥ अथ मन्यसे - अनुभूति प्रागभावादेः सिद्ध्यतस्तत्समकालभावनियमो ऽस्तीति - किं त्वया कचिदेषं दृष्टम् ? येन नियमं ब्रवीषि । इन्त तर्हि तत एव दर्शनात् प्रागभावादिः सिद्ध इति न तदपह्नवः । तत्प्रागभावं तत्समकालवर्तिनमनुन्मत्तः को ब्रवीति । इन्द्रियजन्मनः प्रत्यक्षस्य ह्येष स्वभावनियमः, यत् स्वसमकालवर्तिनः पदार्थस्य ग्राहकत्वम् ; न सर्वेषां ज्ञानानां प्रमाणानाञ्च, स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्तरवर्तिनोऽपि ग्रहणदर्शनात् । अत एव च प्रमाणस्य प्रमेयाविनाभावः ― उक्तः ; स्वयम्प्रकाशत्व समानाधिकरणं च नित्यत्वं परस्येष्टम् स्वतस्सिद्धतया नित्यत्वसमर्थनात् । अतस्तन्निरासो युक्तः । तत्र च मृद्रव्यस्य सिद्धत्वेऽपि घटत्वाद्यवस्थमृद्रव्यानित्यत्ववत् ज्ञानाख्यद्रव्यस्य नित्यत्वेऽपि स्मृतित्वानुभूतित्वाद्यवस्थज्ञानानित्यत्वं युक्तमिति न स्वपक्षविरोधः । स्वयम्प्रकाशस्त्रे किञ्चिदुपादेयत्वमस्तीति तद्व्यावृत्यर्थस्तुशब्दः । अन्धस्य जात्यन्धेन यष्टिः प्रदीयत इति । असिद्धमत्यन्तासिद्धेन हेतुना साध्यत इत्यर्थः । तत्र हि ग्राहकाभावाद्ग्राह्याभावाच्च प्रागभावाभाव तमाशङ्कय ग्राहकोऽस्तीत्याह प्रागभावस्येति । तत्र विकल्पे पूर्वपक्षिणोत, सत्येवावगमयतीति पक्ष स्थापयितुं तत्रोक्तं विरोधं शङ्कते कथमिति । तदानीमित्यभावविशेषणम् ; न क्रियाविशेषणम् । परिहरति नहीति । स्वसमकालवर्तित्वनियमः किं ग्राह्यसामान्यप्रयुक्तः ! उतैतद्ग्राह्यविशेषप्रयुक्तः इति विकल्पाभिप्रायेण प्रथमं ग्राह्यसामान्यप्रयुक्तन्त्र पक्षं प्रतिवदति न ह्यनुभूतिरिति । यद्वा-वर्तमानग्रहणनियमः किं ग्राहकानुभूतिस्वभावात् ? उत ग्राह्यानुभूत्य भावस्वभावादिति विकल्पमभिप्रेत्य प्रथमं दूषयति न हीति । हिशब्दों हेतौ । नेति प्रतिज्ञा अध्याहर्तव्या । ग्राह्यविशेषपक्षं दूषयितुं शङ्कते अथ मन्यसे इति । ग्राह्यविशेषस्य समकालवर्तित्व नियमोक्तिर्दर्शनपूर्विकैव स्यादित्यभिप्रायेणाह किं त्वयेति । क्वचित् - अनुभूतौ । व्याप्तिग्रहण भूमित्वेनाभावस्य दृष्टत्वात् प्रागभावो दुरपह्नव इत्याह हन्त तर्हीति । प्रागभावस्य समकालसिद्ध्या व्याप्तिरनुभूतिप्रागभावरूपे धर्मिणि गृहीते हि सिध्यतीत्यर्थः । आदिशब्दः प्रध्वंसपरः । समकालवर्तित्वनियममभ्युपगम्य दूषणमुक्तम् । समकालवर्तित्वं चानुपपन्नमित्याह तत्प्रागभावञ्चेति । यदि स्वसमकालवर्तिग्रहणनियमो ऽनुभूतेनस्ति, तर्ह्यविद्यमाने घटेऽपि चाक्षुषं ज्ञानमुपपयेतेत्यत्राह इन्द्रियजन्मन इति । प्रत्यक्षशब्देन प्रत्यक्षज्ञानमुच्यते । अयमभिप्रायः - स्वसमकालवर्तिग्राहकत्वनियमेो न ज्ञानमात्रस्य ; न च तदवान्तरमेदप्रमाणज्ञानस्य ; न च तदवान्तरभेदप्रत्यक्षस्य ; अपि तु प्रत्यक्षविशेषरूपस्य ऐन्द्रियकज्ञानस्येति । न सर्वेषां ज्ञानानां प्रमाणानां चेति । चशब्देन प्रत्यक्षस्य चेत्युक्तं भवति; उपपादकग्रन्थानुगुण्यात् । कुत इत्यत्राह स्मरणानुमानेति । स्मरणशब्देन सर्वज्ञानानां समकालवर्तिविषयत्वनियमव्युदासः । अनुमानागमशब्देन प्रमाणमात्रस्य तन्नियमव्युदासः । योगिप्रत्यक्षादिशब्देन प्रत्यक्षमात्रस्य तन्नियमव्युदासः । आदिशब्देन ईश्वर प्रत्यक्षं गृह्यते । प्रमेयसद्भावो न चेत्, प्रमाणाप्रमाणज्ञानयोः कथं वैषम्यमित्यत्राह अत एवेति । अत एव — ज्ञानमात्रस्य समकालवर्तिग्राहकत्वनियमाभावेन । प्रमेयाविनाभावश्च सिद्ध इत्यर्थः । अन्यथा वर्तमानविषयाला भादसमका लवर्ति-प्राहिण समकालवर्ति तत्तत्प्रमाणानां प्रमेयाविनाभावो न सिध्येदिति भावः । तत्सिद्धिः कथमित्यपेक्षायां तमेवाविनाभावं
१३७ न हि प्रमाणस्य स्वसमकालवर्तिनाऽविनाभावोऽर्थसंबन्धः, अपि तु यद्देशकालादिसंबन्धितया योऽर्थोऽवभासते, तस्य तथाविधाकार मिथ्यात्व प्रत्यनीकता । अत इदमपि निरस्तम्, ‘स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे स्मृतिदर्शनात्’ इति ॥ अथोच्येत - न तावत् संवित्प्रागभावः प्रत्यक्षावसेयः, अवर्तमानत्वात् । न च प्रमाणान्तरावसेयः, लिङ्गाद्यभावात् । न हि संवित्प्रागभावव्याप्तमिह लिङ्गमुपलभ्यते । नानुपपत्तिरपि कस्यचित् विद्यते । न चागमस्तद्विषयो दृष्टचरः । अतस्तत्प्रागभावः प्रमाणाभावादेव न सेत्स्यति – इति ; यद्येवम् – स्वतस्सिद्धत्वविभवं परित्यज्य प्रमाणाभावेऽवरूढश्चेत् — योग्यानुपलब्ध्यैवाभावः समर्थित इत्युपशाम्यतु भवान् । विवृणोति न हि प्रमाणस्येति । प्रमाणस्यार्थसंबन्ध इत्यन्वयः । तर्हि प्रमेयाविनाभावः क इत्यत्राह अपित्विति । यद्देशकालादीत्यादिशब्देन संस्थानमुच्यते । मिथ्यात्वप्रत्यनीकता । मिथ्यात्वस्य प्रमाणं प्रत्यनीकं भवति तस्य भाव इत्यर्थः । यद्वा मिथ्यात्वप्रत्यनीकोऽर्थो भवति । तस्य भावो मिथ्यात्वप्रत्यनीकता । सा प्रमाणस्यार्थसंबन्ध इत्यन्वयः । अत एवेत्यादिभाष्यस्यैवं वाऽर्थः - अत एव — प्रमाणत्वेन सम्प्रतिपन्नानां कालान्तरवर्तिग्राहकत्वदर्शनात् तत्रापि प्रमेयाविनाभावः कल्प्यत इत्यर्थः । कथं तत्राविनाभावप्रकारः इत्यत्राह न हीत्यादि 1 अनेनैव प्रमाणप्रमेयाविनाभावरूपविषयविषयिभावशिक्षणेन बौद्वैकदेशिभिरुक्तं स्मृतेर्निर्विषयत्वं निरस्यत इत्यवश्याभ्युपेतव्यमिदमित्यभिप्रायेणाह अत इदमपीति । एवमनुभूतिरेव प्रागभावग्रहणक्षमेत्युपपादितम् ; अथ तद्ग्राहिणाऽनुभवेन प्रत्यक्षाद्यन्यतमेन भवितव्यमिति, तदसंभवेन प्रमाणाभावात् प्रागभावाभावं ( व इति) शङ्कते अथोच्येतेति । लिङ्गाद्यभावादिति आदिशब्देन अनुपपद्यमानशब्दौ विवक्षितौ । तद्विवृणोति न हीत्यादिना । निगमयति अत इति । उपमानस्य प्रतिपन्नत्रस्तुसादृश्य-संज्ञासंज्ञिसंबन्ध योरन्यतरमात्रगोचरत्वेनाप्रतिपन्नपदार्थप्रतिपादनासामर्थ्यादनुपन्यासः । परिहरति यदीति । यदिशब्दः किमर्थ. 1 । चेच्छन्दो यद्यर्थः । स्वपरिपाटी विहाय शास्त्रमर्यादायाँ किमवतीर्णोऽसि ; तथा चेदित्यर्थः । प्रमाणमाह योग्यानुपलब्ध्यैवेति । परेणाभावप्रमाणस्याङ्गीकृतत्वात् योग्यानुपलब्ध्यैवेत्युक्तम् । स्वपक्षपर्यालोचनायामपि ज्ञानस्य योग्यानुपलब्धिर्नाम भावरूपावस्यान्तरोपलब्धिः । पिण्डत्वाद्युपलब्धिरेव हि घटस्य योग्यानुपलब्धिः । अतोऽतीतकालावच्छिन्नज्ञानाभावो नाम ज्ञानस्य सङ्कोचः अर्थान्तरज्ञानं वा । पूर्वकालीनगजज्ञाने बुभुत्सिते तत्कालीनस्वापादिप्रतिसन्धानं घटादिज्ञानप्रतिसन्धानं वा गजज्ञानस्य योग्यानुपलब्धिः । सा च लिङ्गतया पूर्वकालीनज्ञानाभावनिश्चायिका । यदुक्तम् – संविदः इयमिति विषयीकारानखेन अभावो दुर्महः इति तदयुक्तम् ; तथा सति प्रागभावनिरासानुपपत्तेः । न ह्यन्यस्य घटादेः प्रागभावो निरस्यते; अपि त्वनुभूतेः । तस्मादनुभूतिम् इयमिति विषयीकृत्य तस्याः प्रागभावो निराकरणीयः । इयमिति विषयी काराभावेऽपि तत्प्रागभावो निराकर्तुं शक्यते चेत्; तदभावेऽपि प्रागभावः साधयितुं शक्यते । यदि त्वया विषयीकृता, तद्वदस्माभिरपि विषयीकृतेति तदभावः सुसाध इत्यनुसंधेयम् । उत्तरत्र नित्यञ्चेदिति ग्रन्थे ह्ययमर्थोऽप्यभिप्रेतः । 1 यद्येवमिति संग्रहोक्तिः ; तद्विवरणं स्वतस्सिद्धेत्यादि इति योजनान्तरादि तत्त्वटीकादौ । श्रु० 18 1
१३८ १-१-१. संवित्प्रागभावेऽर्थापत्ति प्रमाणम् किञ्च - प्रत्यक्षज्ञानं स्वविषयं घटादिकं स्वसत्ताकाले सन्तं साधयत् तस्य न सर्वदा सत्तामवगमयत् दृश्यत इति घटादेः पूर्वोत्तरकालसत्ता न प्रतीयते । तदप्रतीतिश्च संवेदनस्य कालपरिच्छिन्नतया प्रतीतेः । घटादिविषयमेव संवेदनं स्वयं कालानवच्छिन्नं प्रतीतं चेत्; संवेदनविषयो घटादिरपि कालानवच्छिन्नः प्रतीयेतेति नित्यः स्यात् । नित्यं चेत् संवेदनं स्वतः सिद्धं नित्यमेव प्रतीयेत । न च तथा प्रतीयते । एवमनुमानादिसंविदोऽपि कालानवच्छिन्नाः प्रतीताश्चेत्, स्वविषयानपि कालानवच्छिन्नान् प्रकाशयन्तीति ते च सर्वे कालानवच्छिन्ना नित्याः स्युः, संविदनुरूपस्वरूपत्वात् विषयाणाम् ।
एवं प्रागभावस्य योग्यानुपलब्धिसिद्धत्वमभिधायार्थापत्तिमप्याह किञ्चेत्यादिना । ज्ञानस्य स्वावभासास्थिरत्वलक्षणयोग्यानुपलब्ध्या अनित्यत्वमुक्तम् ; अथ विषयप्रकाशनिरूपणमुखेनापि तदुपपाद्यते । अविशेषेण ज्ञानाभावस्य ग्रहणमुपपन्नमित्युक्तम् । अथ किं भवता नित्यत्वं सविषयज्ञानस्य सिषाधयिषितम्, उत निर्विषयस्येति विकल्पमभिप्रेत्य सविषयपक्षं दूषयति प्रत्यक्षेत्यादिना । सर्वदा - घटसत्ताकाले सर्वस्मिन् [घटो ?] न प्रतीयत इत्यर्थः । घटादेः पूर्वोत्तरकालसत्ता न प्रतीयताम् ; ततः किमित्यत्राह तदप्रतीतिचेति । अप्रतीतिः -ज्ञानस्य घटव्यवहारानुगुण्याभावः । अतो न साध्याविशिष्टता । नियमेन स्वसमकालवर्तिग्राहिणः प्रत्यक्षज्ञानस्य पूर्वोत्तरकालयोर्विद्यमानेऽपि घटे तदप्रकाशकत्वं तदानीं स्वाभावादेवेत्यर्थः । एवं विषयव्यवहारानुगुण्यकादाचित्कत्वान्यथानुपपत्त्या ज्ञानानित्यत्वमुक्तम् । अर्थापत्यन्तरमा (मध्या)ह घटादिविषयमेवेति । विषयसमकालवर्तिनः प्रत्यक्षसंवेदनस्य नित्यत्वे घटादिरपि नित्यः स्यात् ; अतो घटाद्यनित्यत्वान्यथानुपपत्त्या ज्ञानानित्यत्वमित्यर्थः । अथार्थापत्यन्तरमाह नित्यञ्चेदिति । संविदो नित्यस्वसाधनं संविदियमिति विषयीकृत्यैव कर्तव्यम् । स्वतःसिद्धत्वेन इयमिति विषयीकरानर्हत्वात् स्वयंमेव नित्यमिति प्रतीयेत ; न च तथा प्रतीयते ; तस्मादनित्यत्वमेवेत्यर्थः । एवं नित्यतयाऽनवभासान्यथानुपपत्या ज्ञानानित्यत्वमुक्तम् ॥ अनित्यतयाऽनवभासान्नित्यत्वमिति चेन्न ; पूर्वापरावधिद्वयसापेक्षस्य अनित्यत्वस्य सद्भावेऽपि अवधिद्वयास्वयम्प्रकाशत्वा देव अनित्यत्वाप्रकाशत्वोपपत्तेः । यद्वा घटादिनित्यत्वप्रसङ्गो नित्यत्वेनावभासप्रसङ्गश्च विषयव्यवहारानुगुण्यकादाचित्कत्वान्यथानुपपत्तेरनुग्राहकतर्कतयोक्तौ भवतः ॥ अथानुमानादिविषयाणामपि नित्यत्वमनिष्टं प्रसञ्जयति एवमिति । एवम् — प्रत्यक्षज्ञाननित्यत्वे विषयनित्यत्वप्रसक्तौ सत्यामित्यर्थः । कुतो नित्यम्, अत्राह (नित्यतेत्यत्राह ) संविदनुरूपेति । यथा संवित् स्वविषयं दर्शयति, तथाभावादिति तदर्थः ॥
ननु प्रत्यक्षस्य समकालवर्तिविषयत्वनियमात् तन्नित्यत्वे विषयनित्यत्वप्रसङ्ग उपपन्नः । अनुमानादिसविदाम् अतीतानागतविषयत्वसम्भवात् कथं तन्नित्यत्वे विषयनित्यत्वप्रसङ्गः ॥ उच्यते । अतीतत्वानागतत्वे ह्यापेक्षिके वर्तेते । ततः संविदपेक्षया हि विषयस्यातीतत्वानागतत्वे । संविदो नित्यत्वे तदपेक्षया विषयस्यातीतत्वानागतत्वे संविन्न दर्शयताति कालानवच्छिन्नतया प्रतीतौ (ताः) विषया नित्याः स्युरिति । कालानवच्छिन्नत्वमेवानुगतं निव्यत्वलक्षणमित्यभिप्रायेण कालानवच्छिन्नाः नित्या इत्युक्तम् ॥
ननु न संविदपेक्षया विषयस्यतीतत्वागामिवे किन्तु लिङ्गाद्यर्थान्तरापेक्षया । ततो विषयस्य लिङ्गाद्यपेक्षयाऽतीतत्वमागामित्वश्च संभवतीति न नित्यत्वप्रसङ्गः ॥ उच्यते - लिङ्गादेः प्रत्यक्षज्ञानविषयत्वात् तन्नित्यत्वेन तद्विषयभूतलिङ्गादेरपि नित्यत्वापातात् तदपेक्षयाऽनुमान- G
१३९ न च निर्विषया काचित् संविदस्ति; अनुपलब्धेः । विपयप्रकाशनतयैवोपलब्धेरेव हि संविदः स्वयम्प्रकाशता समर्थिता । संविदो विषयप्रकाशनतास्वभावविरहे सति स्वयम्प्रकाशत्वासिद्धेः अनुभूतेरनुभवान्तरा
ननुभाव्यत्वाच संविदस्तुच्छतैव स्यात् । न च स्वापमदमूर्च्छादिषु सर्वविषयशून्या केवलैव संवित् परिस्फुरतीति वाच्यम् ; योग्यानुपलब्धिपराहतत्वात् । तास्वपि दशास्वनुभूतिरनुभूता चेत्, तस्याः प्रबोधसमयेऽनुसन्धानं स्यात् ; न च तदस्ति ॥
नन्वनुभूतस्य पदार्थस्य स्मरणनियमो न दृष्टचरः ; अतः स्मरणाभावः कथमनुभावाभावं सावयेत् ॥ उच्यते । निखिलसंस्कार तिरस्कृतिक र देहविगमादि प्रबलहेतुवि रहेऽप्यस्मरण नियमोऽनुभवाभावमेव साधयति । विषयस्यातीतत्वमागामित्वञ्च संचिन्न दर्शयतीति कालानवच्छिन्नो नित्य एव विषयः स्यादिति ॥ एवं पूर्वोक्तदोषमुपजीव्य अनुमान विषयनित्यत्वप्रसक्तिरित्यभिप्रायेण एवमित्युक्तम् ; । 1 एवं पूर्वोक्त विकल्पे सविषयानुभवस्य नित्यत्वं निराकृतम् ; अथ निर्विषयानुभवस्य नित्यत्वपक्षं निराकरोति न चेति । कुत इत्यत्राह अनुपलब्धेरिति । इत्यत्राह अनुपलब्धेरिति । न केवलं निर्विषयसंविदनुपलब्धरेव, सविषयसंविद एव परेण स्वयम्प्रकाशत्वसमर्थनात् तदभ्युपगमप्रकारेणापि निर्विषया संविन्नास्तीत्याह विषयेति । ततः किमित्यत्राह संविदो त्रिषयेति । सविषयज्ञानोत्तीर्णायाः संविदः कदाचिदपि विषयसंबन्धाभावेन स्वयम्प्रकाशत्वासिद्धेर्ज्ञानान्तरावेद्यत्वाच्च तुच्छतेत्यर्थः ॥
ननु यदि विषयप्रकाशकतया स्वयम्प्रकाशस्त्रमुपपाद्यते, तदाऽयं दोषः स्यात् । विषयसंबन्धाभावेऽपि अनुभूतित्वादित्यनेन साध्यस्वप्रकाशस्वसिद्धिरिति चेत् किमिदमनुभूतित्वम् ? किं स्वतः सिद्धत्वम् तदा साध्याविशिष्टता स्यात् । यदि विषयप्रकाशकत्वमनुभूतित्वम्, तदानीमुक्तदोषः स्यादेव । विद्यमानदशायां सर्वदा भासमानत्वमपि न त्वया हेतुस्त्रेन वाच्यम् ; सुखदुःखेच्छादौ जडत्वेन त्वदभिमते व्यभिचारात् । अतो विषयप्रकाशकत्वमनुपजीव्य स्वयम्प्रकाशत्वं दुःसाधमित्युक्तदोषानतिवृत्तिः । कथं स्वप्रकाशत्वरूप साध्यधर्मनिवृत्ती धर्मिभूत संविदसिद्धिरिव्यत्राह अनुभूतेरनुभवान्तरा
ननुमाव्यत्वाच्चेति ।
नन्वेकस्या एव संविदः अन्तःकरणवृत्तिद्वारा विषयसंबन्धः कादाचित्कः । तद्विगमेऽपि स्वापादिदशासु स्वप्रकाशा संविञ्चकास्तीति न तुच्छताप्रसक्तिरित्यत्राह न चेति । केवलशब्देन निराश्रयत्वमुच्यते । कुत इत्यत्राह योग्येति । तदेवोपपादयति तास्वपीति । विपर्यये पर्यवसानं दर्शयति न च तदस्तीनि । व्यापकाभावो हि व्याप्याभावसाधकः । स्मारणञ्च नानुभवव्यापकम् । अतस्तदभावो नानुभवाभावसाधक इत्याह
नन्विति । पथि गच्छता स्पृष्टतृणादीनां प्राग्जन्मानुभूतार्था [दी]नां चास्मरणादिति भावः । परिहरति उच्यत इत्यादिना । विषयान्तरव्यासङ्गादिरस्मरणमात्र हेतुः । विषयवैचित्रीविरहः, निष्प्रयोजनतया तात्पर्याभावः, तादात्विक तीव्र संवेदनान्तरम्, अनुभवानभ्यासश्च अस्मरणमात्रहेतुतया हि प्रसिद्धाः । अतो नियमशब्दः । अस्मरणनियम इत्युक्ते [ः] जन्मान्तरानुभूतस्याप्यर्थस्यानुभवाभावप्रसङ्गात् तद्व्यावृत्त्यर्थं निखिलसंस्कारेत्युक्तम् । देहविगमादित्यादिशब्देन नारकदुःखप्रसूतिव्यसन-कालविप्रकर्षा विवक्षिताः । यथा संवित्सिद्धौ, “प्रायणान्नर कक्लेशात् प्रसूतिव्यसनादपि । चिरान्नि(ति) वृत्ताः प्राग्जन्ममेदा न स्मृतिगोचराः " इति । देहविगमादीनां निखिलसंस्कार तिरस्कृतिकरत्वं स्वभावः । पुण्यविशेषादपवादात् कस्यचिदेकस्य जातिस्मृतिः । प्रबलशब्दो व्यासङ्गाद्यपेक्षया प्राबल्यपरः । उक्ततिरस्कारकाभावे कदाचिदपि स्मरणमनुभवव्यापकम् । अनस्तद भावोऽनुभवाभावसाधक एवेत्यर्थः । न केवलमनुभवसाधकाभावः, बाधकप्रमाणान्तरमप्यस्तीत्याह
१४० १-१-१. स्वापादिकालेऽनुभूत्यसंभवः न केवलमस्मरणनियमादनुभवाभावः सुप्तोत्थितस्य इयन्तं कालं न किचिदहमज्ञासिषमिति प्रत्यवमर्शेनैव सिद्धः । न च सत्यप्यनुभवे तदस्मरणनियमो विषयावच्छेदविरहादहङ्कारविगमाद्वेति शक्यते वक्तुम् ; अर्थान्तरा
ननुभवस्यार्थान्तराभावस्य चानुभूतार्थान्तरास्मरणहेतुत्वाभावात् । तास्वपि दशास्वहमर्थोऽनुवर्तत इति च वक्ष्यते ।
ननु - स्वापादिदशास्वपि सविशेषोऽनुभवोऽस्तीति पूर्वमुक्तम् ॥ सत्यमुक्तम् । स त्वात्मानुभवः । स च सविशेष एवेति स्थापयिष्यते । इह तु सकलविषयविरहिणी निराश्रया च संविन्निषिध्यते ॥ केवलैव संवित आत्मानुभव इति चेत्, न ; सा च साश्रयेति ह्यपपादयिष्यते । न केवलमिति । सिद्धेरिति अनुभवाभावस्येत्यनुषङ्गः । अथास्मरणनियमस्यान्यथासिद्धिमाशङ्कते न चेति । अहङ्कारविगमः—अहं’प्रत्ययविगमः । परिहरति अर्थान्तरेति । घटा
ननुभवः पटविनाशश्च अनुभूतकुड्य । द्यस्मरणकारणं न दृष्टमित्यर्थः ॥
ननु कुड्यादेः स्मरणं प्रति घटादेरकारणत्वात् तदभावो नास्यास्मरणहेतुः ; इह तु स्मरणकारणस्याभावोऽस्मरणरेतुरेव ॥ नैवम् ; कुड्यादिस्मरणं प्रति घटादेखि ज्ञातृज्ञेययोरपि स्मरणं प्रति अकारणत्वमकामेनापि स्वीकार्यमित्यभिप्रायेण ह्यर्थान्तरशब्दः प्रयुक्तः । अयमर्थः —— ज्ञातृज्ञेययोः स्मरणं प्रति कारणत्वं दृष्टत्वादङ्गीक्रियते चेत्, दृष्टत्वादेवानुभवेऽपि ज्ञातृज्ञेययोः कारणत्वमङ्गीकार्यम् । यदि ज्ञातृज्ञेययोर्दृष्टत्ये ऽप्यनुभवकारणत्वं नाङ्गीक्रियते, स्मृवपि कारणत्वं न स्यात् । अतस्तदभावान्न स्मरणाभाव इति । एतदूषणमहमर्थाभावमभ्युपगम्योक्तम् । अहमर्थाभावो नास्तीत्युपपादयिष्यत इत्याह तास्वपीति । अनुवर्तते - प्रकाशते । ततो हेतुरसिद्ध श्वेत्यर्थः ॥ 1
पूर्व सविशेषोऽनुभवः स्वापादिदशास्वस्तीत्युक्तमिति तदालम्ब्य व्याघाताभिप्रायेण चोदयति
नन्विति । अत्राह सत्यमुक्तमिति । स त्वात्मानुभवः । नानुभूत्यनुभव इत्यर्थः । अनुभूतिविरहे स आत्मा निर्विशेषः स्यादित्यत्राह स चेति । प्रत्यक्त्वानुकूलत्वविशिष्ट इत्यर्थः । इह किं निषिध्यत इत्यत्राह इह त्विति । शब्दान्तरेणास्मन्मतमङ्गीकृतमिति शङ्कते केवलैव संविदात्मानुभव इति चेदिति । आत्मानुभवे – केवलात्मानुभवदशायाम् । स्वापादिदशायां या संवित् स्वया नित्यतया अभ्युपेता, सा प्रसरणाभावेन विषयावच्छेदविरहात् तदानीं केवला निर्विशेषा ‘अस्मदुक्तैव स्यादिति । परिहरति सा चेति । सा च - धर्मभूता संवित् । विषयविरहिताऽपि [वा ] साश्रयेत्यर्थः । केवलैवेत्यादेरेवं वार्थः - आत्मानुभवरूपा आत्मस्फुरणरूपा या संवित् सा केवलैवेति चेत् — अस्मदुक्त (क्ता ?) सकलविषयादिविशेषशून्यैवेति चेदित्यर्थः । परिहरति सा चेति । सा - धर्मिस्फुरणरूपा या संचित्; सा साश्रयेति वक्ष्यते । स्फुरणं हि स्फुरतो धर्मः । यथा प्रभाश्रयस्य दीपस्य धर्मिणः औज्ज्वल्यं दीपाख्यधर्मिंगतो धर्मः, तद्वदित्यर्थः । धर्मिस्वरूपभूतज्ञानस्य स्फुरणं नित्यम् । तच्च भासमानता ; व्यवहारानुगुण्यम् । धर्म भूतज्ञानश्य स्फुरणं विषय संबन्धजन्यं तदानीमेव ; न त्वन्यदा । तत एव हि विषयप्रकाशनवेलायामिति पूर्वमुक्तम् । “पुंस्त्वादिवत्स्वस्य” इत्यत्र च वक्ष्यते । स्वापादौ तु तस्य सर्वविषयसंबन्धार्हता प्रतिबद्धा, वहेर्दाहकत्व शक्तिवत् । अतो न तदा स्फुरणम् । 1 1 अहंप्रत्ययेति । निर्विषयानुभवसत्त्वेपि तस्य अहमिति भानाभावादस्मरणम् । तद्भानाभावश्चाहंपदाथोभावात् । तैरहमर्थलयस्य सुषुप्तौ स्वीकारात् । अत एव वक्ष्यति अहमर्थाभावमभ्युपगम्येति । CC-0 Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham १४१ अतः, ‘अनुभूतिः सती स्वयं स्वप्रागभावं न साधयति’ इति प्रागभावासिद्धिर्न शक्यते वक्तुम् । अनुभूतेरनुभाव्यत्वसंभवोपपादनेन अन्यतोऽप्यसिद्धिर्निरस्ता । तस्मान्न प्रागभावाद्यसिद्ध्या संविदोऽनुत्पत्तिरुपपत्तिमती ॥ यदप्यस्या अनुत्पत्त्या विकारान्तरनिरसनम् - तदप्यनुपपन्नम् ; प्रागभावे व्यभिचारात् । तस्य हि जन्माभावेऽपि विनाशो दृश्यते । भावेष्विति विशेषणे तर्ककुशलताऽऽविष्कृता भवति । तथा च भवदभिमताऽविद्या अनुत्पन्नैव विविधविकारास्पदं तत्त्वज्ञानोदयादन्तवती चेति तस्यामनैकान्त्यम् । तद्विकाराः सर्वे मिथ्याभूता इति चेत् — किं भवतः परमार्थभूतोऽप्यस्ति विकारः, येनैतद्विशेषणमर्थवद्भवति । न ह्यसावभ्युपगम्यते ॥ यदपि - अनुभूतिरजत्वात् स्वस्मिन् विभागं न सहते इति–तदपि नोपपद्यते, अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभक्तत्वात् । अनादित्वेन चाभ्युपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याश्रयणीयत्वात् । स विभागो मिथ्यारूप इति चेत् — जन्मप्रतिबद्धः परमार्थविभागः किं क्वचिद्दष्टस्त्वया ? अथ प्रासङ्गिकमात्मानुभवं परिसमाप्य प्रस्तुतप्रागभावसिद्धिं निगमयति अत इति । अतः - निर्विषयज्ञानस्याप्रामाणिकत्वात् तदवच्छिन्नज्ञाननित्यत्वस्योक्तानुपपत्तिपराहतत्वात् प्रागभावग्राहकसमर्थनाच्चेत्यर्थः ॥ कथमनुभूतिः सती स्वप्रागभावं साधयेत् ॥ इत्थम् - स्मर्तव्यास्मरणलिङ्गेन इयन्तं कालं न किश्चिदहमज्ञासिषमिति सुषुप्त्यवस्थापरामर्शेन ज्ञानसामान्याभावगोचरेण तदन्तर्गतस्वाभावोऽपि स्वेनैव विषयीकृत इति स्वतःपक्षे प्रागभावसिद्धिरुक्ता । परतःपक्षेऽपि सिध्यतीत्याह अनुभूतेरिति । अथ प्रागभावाभावहेतुकानुत्पत्तिदूषणमुपसंहरति तस्मादिति । । अथानुत्पत्त्या विकारान्तरनिरसनं दूषयति यदपीत्यादिना । अनुत्पत्तिरूपत्वसिद्ध्या विकारान्तरनिरासोऽनुपपन्नः । तदभ्युपगमेऽपि हेतोभिचारमाह प्रागभाव इति । तद्विवृणोति तस्य हीति । भावशब्दोपादाने, तद्विरहेऽपि, व्यभिचारसाम्याभिप्रायेण भावशब्दोपादानमुपालभते भावेष्वितीति । नात्र (नतु) प्रतिज्ञान्तरं दूषणमुच्यते । तद्धि उक्तिदूषणम् ; न स्वर्थदूषणम् । भावरूपत्वे व्यभिचारं दर्शयति तथा चेति । तथाशब्देन भावरूपत्वं विवक्षितम् ; तैर्भावरूपाज्ञानस्य समर्थितत्वात् । तत्र परिहारं शङ्कते तद्विकारा इति । अस्य विशेषणस्य व्यावर्त्याभावान्नैरर्थक्यमाह किं भवत इति । व्यावर्त्यमस्ति चेत् — अद्वैतहानिः । न चेत् — विशेषणवैयर्थ्यमित्यर्थः । किं विकारमात्राभावः साध्यते, उत परमार्थविकाराभावः ? प्रथमेऽनैकान्त्यम् । द्वितीयेऽप्यनुभूतिः परमार्थविकाररहिता अजत्वादित्युक्तं स्यात् । यत् परमार्थविकारवत् तत् उत्पन्नम्, यथा घट इति व्यतिरेकोदाहरणं वाच्यम् घटस्य परमार्थविकारानभ्युपगमाद्दृष्टान्तः साध्याव्यावृत्त इति हेतोर्व्याप्यत्वासिद्धिर्भवेदिति भावः ॥ अथाजःवात् नानात्वनिपेधं प्रतिवदति यदपीति । अत्र किं मेदमात्रं दुदूषयिषितम् ? उत विजातीयभेदः, उत सजातीयभेदः, उत स्वगतभेदः इति पक्षेषु देवसिद्ध्या निरस्तेष्वपि हेतुत्वाम्युपगमेन प्रथमं द्वितीयं शिरश्च दूषयंश्चार्वाकत्र्यतिरिक्त सर्ववादि संमतस्थले व्यभिचारं दर्शयति अजस्यैवेति । मृषावाद्यभिमतस्थल एव हेतोरनैकान्त्यमाह अविद्याया इति । “तमःप्रकाशयोरिव विरुद्धस्वभावयोरितरेतरमावानुपपत्तौ सत्याम्” इति हि तदूग्रन्थः । तद्विभागस्य मिथ्यात्वमाशङ्कय तदभ्युपगमेन परिहरति स विभाग इत्यादिना । जन्मप्रतिबद्धा — उत्पत्तिव्याप्तः । घटादिषु परमार्थविभागस्यैव उत्पत्तिव्याप्यत्वाभ्युपगमे घटादिविभागस्य पारमार्थ्यप्रसङ्गात्, तस्यापारमाध्ये विशेषणवैयर्थ्यादुक्तदोषः स्यादेवेत्यर्थः । हेतुदूषणस्य बुभुत्सायाम्, दृष्टान्तस्य
१४२ १-१-१. दृशिनिर्धर्मकत्वानुमानभङ्गः अविद्याया आत्मनः परमार्थतो विभागाभावे वस्तुतो ह्यविद्यैव स्यादात्मा । अबाधितप्रतिपत्तिसिद्धदृश्य भेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदात् छेदनभेदवत् ॥ यदपि – नास्या दृशेर्हशिरूपाया दृश्यः कश्चिदपि धर्मोऽस्ति ; दृश्यत्वादेव तेषां न दृशिधर्मत्वम्इति च । तदपि स्वाभ्युपगतैः प्रमाणसिद्धैर्नित्यत्वस्वयंप्रकाशत्वादिधमैरुभयमनैकान्तिकम् । न च ते संवेदनमात्रम्, स्वरूपभेदात् । स्वसत्तयैव स्वाश्रयं प्रति कस्यचिद्विषयस्य प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता साध्यव्यावृत्तत्वमुखेन व्याप्यत्वासिद्धिरभिप्रेताऽनुसन्धेया । यत् परमार्थविभागवत् तत् उत्पन्नम् । यथा घट इति हि व्यतिरेकदृष्टान्तः । घटस्य परमार्थविभागवत्त्वानभ्युपगमात् साध्याव्यावृत्तत्वं हि स्पष्टम् । विभागस्य मिथ्यात्वे दूषणान्तरमाह अविद्याया इति । अथ सजातीयभेदाभावं व्युदस्यति अबाधितेति । पूर्वं प्रमाणप्रमेयानुपपत्तिमिथ्यात्वानुमाननिरासमुखेन दृश्यभेदः समर्थितः । तत्तुल्यन्यायतया दर्शनभेदोऽपि सिद्ध इत्यर्थः । अवच्छेदकगतो भेदः, न त्ववच्छेद्यगत इति घटकरकाकाशदृष्टान्तमाशङ्कयाह छेद्यभेदादिति । यथा संवित्सिद्धौ, “प्रतिप्रमातृविषयं परस्पर विलक्षणाः । अपरोक्षं प्रकाशन्ते सुखदुःखादिवत् धियः ॥ संबन्धिव्यङ्गयभेदस्य संयोगेच्छादिकस्य तु । न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च संमतः ॥” इति । प्रतिप्रमातृविषयं ज्ञानभेदोऽपरोक्षः । परज्ञानं परोक्षतया भासते; स्वज्ञानमपरोक्षतया । घटादिविषयज्ञानानां परस्परवैलक्षण्यं चापरोक्षम् । अतस्तद्भेदापलापः स्वानुभवप्रत्यक्षबाधित इति प्रथमग्रन्थार्थः । सर्वमेकं ज्ञानं ज्ञातृज्ञेयरूपावच्छेदकसंबन्धभेदाद्भेदेन प्रतीयत इत्यत्राह सम्बन्धीति । संबन्धिव्यङ्ग्यभेदस्येति शङ्काबीजानुवादः । न च ज्ञातृज्ञेयरूपसम्बन्धिव्यङ्ग्यत्वमात्रेण ज्ञानस्य भेदः सम्बन्धिभेदकृत इति औपाधिकः स्यात् ; संयोगादेरपि संवन्धिव्यङ्गयत्वमात्रेण घटकरकावच्छिन्नाका शवदेकत्वप्रसक्तेः । संबन्धी हि द्वेधा -सत्ता हेतुक्तिहेतुश्चेति । यस्य संयोगादेः संबन्धिव्यतिरेकेण स्वरूपे प्रमाणं नास्ति, तस्य संबन्धी सत्ताहेतुः ; यस्य तु शब्दाकाशादेरस्ति, तस्य तदुपाधिको भेदावभासः ; न स्वतः । तस्मात् ज्ञातृज्ञेयव्यतिरेकेण लब्धसद्भावस्य ज्ञानस्य स्वाभाविक एव भेदः । तस्मान्न सजातीयमेदापलाप इत्यर्थः । एतदभिप्रेत्य छेद्यभेदादित्युक्तम् ॥ । . अथ स्वगतनित्यत्वैकत्वादिभेदनिरासार्थं पूर्वपक्षिणा अनुभूतिं पक्षीकृन्योक्तम् अनुभूतित्वादिति व्यतिरेकि, दृश्यं पक्षीकृत्योक्तं दृश्यत्वादित्यन्वयि च दूषयति यदपीत्यादिना । अनैकान्तिकमिति । अनियतम् ; व्याप्तिशून्यमित्यर्थः । दृश्यत्वादित्यन्वयिनः पक्षत्रयवृत्तित्वलक्षणमनियतत्वम् ; दृशित्वादिति व्यतिरेकिणः साध्यव्यावृत्तावपि साधनाव्यावृत्तिलक्षणमनियतत्त्रमात्रम । अनुभूतिर्न दृश्यधर्मवती दृशित्वात् ; यद् दृश्यधर्मवत्, तन्न दृशिः, यथा घटः इति ह्यनुमानशरीरम् । अत्र दृश्यधर्मवत्वस्य अदृशित्वव्याप्तिरनुभूतौ भग्ना, तस्याः दृशित्वनित्यत्वादिधर्मवत्त्वादिति भावः । नित्यत्वादिमिथ्यात्वे नित्यत्वादिविपरीताकार सत्यत्वं प्रसजेदिति तत्परिहाराय तेषां स्वरूपमात्रत्यमाशङ्कय परिहरति न चेत्यादिना । तेषां स्वरूपमात्रत्वं किमन्वयरूपाणाम्, उत व्यतिरेकरूपाणामिति विकल्पमभिप्रेत्य, अन्वयमुखेन स्त्ररूपमात्रत्वं, संभावितं शिर इति दूषितम् ; न तु पराभ्युपगमात् । हेतुमाह स्वरूपमेदादिति । स्वरूपाद्भेदः तेषां परस्परं भेदश्व विवक्षितः । अनेन पूर्व विधामेदविवाद दर्शनादित्युक्तं विवृतं भवति । संवेदनत्वस्वयम्प्रकाशस्त्रयोः स्वरूपभेदमाह स्वसत्तयेत्यादिवाक्यद्वयेन । प्रकाश्यतेऽनेनेति प्रकाशनम् ;”
श्रुतप्रकाशिकोपेते श्रीभाध्ये १४३ तु स्वसत्तयैव स्वाश्रयाय प्रकाशमानता । प्रकाशश्च चिदचिदशेषपदार्थसाधारणं व्यवहारानुगुण्यम् ॥ सर्वकालवर्तमानत्वं हि नित्यत्वम् । एकत्वमेकसङ्ख्यावच्छेद इति । तेषां जडत्वाद्यभावरूपतायामपि तथाभूतैरपि चैतन्यधर्मभूतैस्तैरनैकान्त्यमपरिहार्यम् । संविदि तु स्वरूपातिव्यवहारानुगुण्यापादकमित्यर्थः । उभयत्रानुगतप्रकाशशब्दार्थमाह प्रकाशश्चेति । चिदचिदशेषपदार्थाः तदा हि व्यवहारानुगुणाः, यदा तद्व्यवहारहेतुः ज्ञानं संनिधत्ते । तत्राचिदंशस्य स्वव्यवहार सामग्रथन्तर्भूतज्ञानवत्त्वं व्यवहारानुगुण्यम् । वेद्यत्वे चिदंशस्याप्येवम् । स्वप्रकाशत्वे तु स्वव्यवहारसामग्रयां ज्ञानान्तरानपेक्षया स्वस्यान्तर्भावः 1 यद्वा, एवञ्चाहुः — व्यवहारानुगुण्यं व्यवहारप्रतिसंबन्धित्वं प्रकाश इत्यर्थः । तञ्च ज्ञप्तिज्ञात्रोः स्वतः । ज्ञेयस्य तु ज्ञानापाद्यम् । अतः पुरोवर्तिनो घटादेरपि तदेव प्रकाशः; न प्राकट्यम ः तदतिरिक्ताभ्युपगमेऽपि न ज्ञानस्य स्वपकाशत्वविरोधः; तस्य तन्निरपेक्षसिद्धितया प्राकट्यस्य ज्ञानानुमापकस्वानभ्युपगमात् । यद्वा ज्ञानगतप्रकाशासाधारणं लक्षणमाह चिदचिदिति । चिदचिदशेषपदार्थापेक्षया साधारणं ज्ञानगतं चिद्व्यवहारानुगुण्यमचिद्यवहारानुगुण्यश्च प्रकाशः ; खपरव्यवहारानुगुण्यं प्रकाश इत्यर्थः ॥ नन्वचितो विषयत्वमविगीतम् ; तच्च भासमानत्वम् । अचितो व्यवहारानुगुण्यं हि ज्ञानगतं चेत्, घटः प्रकाशत इति व्यवहारामुख्यत्वं स्यात् ; ज्ञानगतप्रकाशस्य तत्सम्बन्धिन्युपचरितत्वात् । न च ज्ञानसंबन्ध एव घटादेर्व्यवहारानुगुण्यम् ; व्यवहारानुगुण्यापादनस्वभाव इति ज्ञानलक्षणकथनायोगात् 1 संबन्धस्य द्विनिष्ठतया पुरोवर्तिनो घटादेरपि तद्धेतुत्वेन संबन्धरूपव्यवहारानुगुण्यापादकत्वं हि ज्ञानज्ञेयसाधारणं स्यात् ॥ उच्यते । व्यबहारकर्मत्वरूपं व्यवहारानुगुण्यं साधारणम् । तद्धि व्यवहारप्रतिसंबन्धित्वम् । तदेव भासमानत्वम् । घटः प्रकाशत इति व्यवहारश्च तन्निबन्धनतया मुख्यः । व्यवहारप्रति सम्बन्धित्वं प्रति हेतुत्वरूपव्यवहारानुगुण्यं ज्ञानस्यैव । तत्र प्रत्यक्त्वानुकूलत्वैकत्वलक्षणस्य स्वस्य व्यवहारप्रतिसम्बन्धितां प्रति हेतुत्वरूपं व्यवहारानुगुण्यं ज्ञातृस्वरूपभूतज्ञानस्यैव स्वस्वरूपस्वगतैकत्वपराक्त्वानुकूलत्वाद्याकार - स्वाश्रयतत्सम्बन्ध-स्वविषयतत्सम्बन्धानां व्यवहारप्रति सम्बन्धित्वे हेतुत्वरूपं व्यवहारानगुण्यं तु धर्मभूतज्ञानस्यैव । अतः स्वपरव्यवहारानुगुण्यं ज्ञानासाधारणप्रकाशलक्षणमिति युक्तम् । . अथ नित्यत्वमाह सर्वेति । यद्यपि कालानत्रच्छिन्नत्वमनुगतं नित्यत्वलक्षणं प्रागुक्तम् ‘सदकारणकत्वञ्च नित्यत्वं प्रसिद्धम् – तथापि संविदः कालव्यतिरिक्तत्वात् कालव्यतिरिक्तार्थनित्यत्वं कृत्स्नकालसंबन्धव्याप्तमिति तेनापि सविशेषत्यापादनाय कालव्यतिरिक्तार्थनित्यत्वलक्षणमत्रोक्तम् । धर्माणामभावरूपत्वेऽप्यनैकान्त्यमाह तेषामिति । अभावरूपाणामपि स्वरूपानतिरिक्तत्वे दूषणमाह संविदि त्विति । तुशब्देन प्रागुक्तशौक्ल्यादिदृष्टान्तवैषम्यमिहाभिप्रेतम् । तस्य कस्यचिद्धर्मत्वेन स्वपरनिर्वाहकत्वात्, स्वरूपे प्रतिपन्ने भ्रमविरोधित्वाच्च स्वरूपमेव व्यावृत्तिः । ब्रह्मणस्तु कस्यचिद्धर्मत्वेनानभ्युपगमात्, स्वरूपे प्रतिपन्नेऽपि भ्रमसहत्वाच्च पुरोवस्थित शुक्लभास्वरश कलस्येव न स्वरूपमेव 1 सदकारणेति । " सद्कारणवन्नित्यम्” इति कणादसूत्रम् । यत् सत् - सत्तावत् कारणरहितञ्च तत् नित्यमित्यर्थः । नेदं सूत्रं नित्यत्वसाधकदर्शि ; किंतु नित्यत्वलक्षणपरमित्याशयेनैवमुक्तिः । स्वमतेऽभावो नास्ति । शशशृंगवारणाय सदिति । अनित्यघटादिवारणाय अकारणवदिति ।
१४४ १-१-१. सिद्धित्वादेव सधर्मत्वम् रेकेण जडत्वादिप्रत्यनीकत्वमित्यभावरूपो भावरूपो वा धर्मो नाभ्युपेतश्चेत्; तत्तन्निषेधोक्त्या किमपि नोक्तं भवेत् । अपि च संवित् सिद्ध्यति वा न वा ? सिद्ध्यति चेत्, सधर्मता स्यात् । न चेत्, तुच्छता, गगनकुसुमादिवत् । सिद्धिरेव संविदिति चेत्; कस्य कं प्रतीति वक्तव्यम् ; यदि न कस्यचित् कचित्प्रति सा तर्हि न सिद्धिः । सिद्धिर्हि पुत्रत्वमिव कस्यचित् कञ्चित्प्रति भवति । आत्मन इति चेत् ; कोऽयमामा ?
ननु संविदेवेत्युक्तम् । सत्यमुक्तम ; दुरुक्तं तु तत् । तथा हि-कस्यचित् पुरुषस्य किञ्चिदर्थजातं प्रति सिद्धिरूपतया तत्संबन्धिनी सा संवित् स्वयं कथमिवात्मभावमनुभवेत् ? " व्यावृत्तिरिति । संविदस्तीति शब्दो नित्यस्वयंप्रकाशादिशब्दाश्च किमधिकार्थाः उतानधिकार्थाः ? अधिकार्थत्वे सविशेषत्यम् ; अन्यथा पदान्तरवैयर्थ्यम्, स्वरूपमात्रस्याबिगीतत्वात् । नित्यत्वादिसाधनैर्हेतुभिः किं संविन्मात्र साध्ये, उत तदतिरिक्तं किञ्चित् । प्रथमे सिद्धसाध्यत्वम् ; द्वितीये सविशेषत्वमित्येवं समानाधिकरणपदप्रयोगांनुपपत्तिर्नित्यत्वादिसाधक हेतूनां सिद्धसाधनत्वं चाभितम् । यथा संवित्सिद्धौ, “न वेद्यं वित्तिधर्मः स्यादिति यत् प्रागुदीरितम् । तेनापि साधितं किञ्चित् संविदोऽस्ति न वा त्वया । अस्ति चेत् पक्षपात; स्यात् न चेत् ते विफलः श्रमः ॥ " इति । नित्यत्वादिधर्माणां परस्परभेदान म्युपगमे एकेनैव धर्मेण साधितेनालम् ; न तु धर्मान्तरं साध्यम्; तस्य पूर्व प्रसाधितधर्मानतिरिक्तत्वात् । न हि नित्यत्वे प्रसाधिते कालापरिच्छेदः पुनरपि साध्योऽवतिष्ठते । एवं नित्यत्वादीनां स्वरूपाद्भेदः परस्परभेदश्व सिद्धः । परेण संविदो निर्भेदत्वापादनमुखेन तस्या आत्मत्वं साधितम् । अत्र निर्भेदत्वनिराकरणमुखेन संविदात्मत्वं निराकर्तुमारभते अपि चेत्यादिना । तत्र सविशेषत्वमापादयितुं विकल्पयति संवित्सिध्यति वा न वेति । किं प्रतीता उताप्रतीतेत्यर्थः । प्रथमं शिरो दूषयति सिध्यति चेदिति । सर्वप्रमाणानां सविशेष विषयत्वस्य पूर्वमुपपादितत्वादिति भावः । यद्वा सिध्यद्वस्तु सिद्धेराश्रयतया सविशेषं स्यात् –सिद्धिः प्रकाशः; व्यवहारानुगुण्यधर्मयोगी स्यादित्यर्थः । शिरोद्वयापादि (पति) तदोषपरिहाराय परोक्तं शङ्कते सिद्धिरेवेति । सिद्धेः सिद्ध्यन्तरानपेक्षत्वात् प्रमितिविषयत्वप्रयुक्तं सिद्धिसंबन्धित्वरूपं सविशेषत्वं न स्यात् । अथापि तुच्छत्खं च न भवेत् ; न च शशशृङ्गं सिद्धिरूपमिति भात्रः । तत्रापि सविशेषत्वमाह कस्येति । प्रतीतिश्चेत्, कस्यचिदाश्रयस्य कश्चिद्विषयं प्रति भवेदिति तदुभयं वक्तव्यमित्यर्थः । विपक्षे बाधकमाह यदीति । तद्विवृणोति सिद्धिहति । पितुः स्थाने विषयः, पुत्रस्थाने आश्रयः, पुत्रत्वस्थाने सिद्धिः । पुत्रत्वस्य हि पुत्रः आश्रयः । कस्यचिदित्युक्तज्ञात्र पेक्षाप्रतिक्षेपं शङ्कते आत्मन इति चेदिति । आत्मानं प्रतीत्यर्थः । आत्मशब्दः स्ववाची । अनेन प्रत्यक्त्वं फलितम् । सिद्धिप्रतिसंबन्धी खात्मा हि प्रत्यक् । खस्मै भासमानत्वं प्रत्यक्स्वमिति हि वक्ष्यते । तच्च संविदोऽनुपपन्नमित्यभिप्रायेणाह कोऽयमात्मेति । अयंशब्दः सिद्धिप्रति संबन्धित्व परः । सिद्धिप्रतिसंबन्ध्यात्मा कः । किंशब्दः क्षेपे । संविन्न सिद्धिप्रतिसंबन्ध्यात्मा । संविदः प्रत्यक्त्वमनुपपन्नमित्यर्थः । संविदात्मत्वस्योपपादितत्वान्नानुपपन्नमिति चोदयति
नन्विति । परिहरति सत्यमुक्तमिति । संविदात्मत्व स्य दुरुक्तत्वं संविदात्मत्वनिराकरणमुखेनोपपादयितुमारभते तथाहीति । कर्मनिर्देशो दृष्टान्तत्वेन । अर्थजातमिति । धर्मधर्मिरूपपुञ्ज एव प्रमितिविषय इति भावः । सिद्धिरूपा प्रकाशरूपा; अत एव तदुभयसम्बन्धिनी । कथमिति । आत्मधर्मभूता संवित् स्वयं कथमात्मेत्यर्थः ।
श्रुतप्रकाशिकोपेते श्रीमाध्ये १४५ एषदुक्तं भवति – अनुभूतिरिति स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनी व्यवहारानुगुण्यापादनस्वभावो इतनावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषः, घटमहं जानामि - इममर्थमवगच्छामि - परमहं संवेद्धीति सर्वेषामात्मसाक्षिकः प्रसिद्धः । एतत्स्वभावतया हि तस्याः स्वयम्प्रकाशता भवताऽप्युपपादिता । अस्य सकर्मकस्य कर्तृधर्मविशेषस्य कर्मत्ववत् कर्तृत्वमपि दुर्घटमिति । तथा यस्य कर्तुः स्थिरत्वम्, कर्तृधर्मस्य संवेदनाख्यस्य सुखदुःखादेरिवोत्पत्तिस्थितिनिरोधाश्च प्रत्यक्षमीक्ष्यन्ते । कर्तृस्थैर्यं तावत् स एवायमर्थः पूर्व मयाऽनुभूत इति प्रत्यभिज्ञाप्रत्यक्षसिद्धम् । अहं जानामि, अहमज्ञासिषम्, ज्ञातुरेव ममेदानीं ज्ञानं नष्टमिति च संविदुत्पत्त्यादयः प्रत्यक्षसिद्धा इति कुतस्तदैक्यम् । एवं क्षणभङ्गिन्याः संविद आत्मत्वाभ्युपगमे, पूर्वेद्युर्द्दष्टमपरेद्युः इदमद्ददर्शमिति प्रत्यभिज्ञा च न घटते । सिद्धिशब्द उत्पत्तिज्ञप्तिसाधारण इह किमर्थः ? प्रकाशश्चेदिह विवक्षितः, स क. ! तस्य कर्मकर्तृसम्बन्धित्वे किं प्रमाणम् ? वृत्तिज्ञानं हि सकर्मकर्तृकम्, संवित्तु केवला । इह कर्मनिर्देशे किं फलमिति शङ्कायामाह एतदुक्तं भवतीति । अनुभूतिरित्यनेन ज्ञप्तिपरत्वमुक्तम् । स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुण्यापादनस्वभाव इत्यनेन तत्स्वरूपमुक्तम् । एवं सिद्धिशब्दार्थ उक्तः । ज्ञानावगतिसंविदाद्यपरनामेत्यनेन ज्ञानसंविच्छन्दयोः पर्यायतयां वृत्तिज्ञानसंविदोर्विभागस्य निष्प्रमाणकत्वं फलितम् । घटमहं जानामीत्यादिना, आत्मसाश्चिकः प्रसिद्ध इत्यन्तेन कर्मकर्तृसंबन्धस्य स्वानुभवसिद्धत्वं ज्ञानसंविदोः पर्यायत्वोक्तम् । तत्र स्वानुभवसिद्धत्वमुक्तम् । ज्ञानसंविच्छन्दयोः पर्यायश्वमुपपादितश्च । कर्मकर्तृसंबन्धे पराभ्युपगतिमाह एतत्स्वभावतयेति । आत्मनः स्वयम्प्रकाशत्वं साधयता कर्मकर्तृसंबन्धिज्ञानस्य स्वयम्प्रकाशस्वं साधितमिति, सकर्मकर्तृकंज्ञानं जडरूपमात्मभूतज्ञानादन्यत् वृत्तिरूपमित्यभ्युपगमोऽनुपपन्न इति भावः । अस्येत्यादिना कर्मनिर्देशस्य फलं दर्शितम् ।
ननु न वयं संविदः कर्तृत्वमिच्छाम इति कथमयं प्रसङ्गः ॥ उच्यते । संविद आत्मत्वं वदता प्रत्यक्त्वमभ्युपेतव्यम् । प्रत्यक्त्वञ्च ज्ञानाश्रयस्यैवेति संविदो शातृत्वमवर्जनीयम् । तच्च दुर्घटमित्यर्थः । कर्तृत्वमाश्रयत्वम् । धात्वर्थाश्रयो हि कर्ता । } एवं धर्मधर्मिभावेन प्रतीत्या संविदात्मत्वं निराकृतम् । अथ स्थिरस्वास्थिरत्ववैधर्म्येण तद् व्युदस्यते तथेति । हिर्हेतौ । तथाशब्देन चार्थेन हेत्वन्तरमुच्यते । कर्तृस्थैर्यमुपपादयति कर्तृस्थैर्यं तावदिति । प्रत्यभिज्ञायमानत्वाद्धि घटादेः स्थैर्यसिद्धिः ; तद्वत् तत्र घटप्रत्यभिज्ञाकाले, पूर्वं मयाऽनुभूत इति कर्तुरपि प्रत्यभिज्ञाविषयत्वात् स्थैर्यसिद्धिरित्यर्थः । अथ ज्ञानस्योत्पत्तिस्थितिनिरोधान् दर्शयति अहमित्यादिना । जानामीत्यनेनोत्पत्तिस्थिती सिद्धे । अज्ञासिषमित्यतीतत्वप्रतीतिः । एतद्वैशद्यायानन्तरपूर्व कालसखा तज्ञानविशिष्टत्यपरामर्शद्योतनार्थं ज्ञातुरेव ममेत्युक्तिः । उत्पत्त्यादय इति आदिशब्देन स्थितिनिरोधग्रहणम् । संविद उत्पत्तिर्नाम त्रिचतुरक्षणस्थायिन्याः तस्याः प्रथमक्षणयोगः ; क्षणान्तरसंबन्धः स्थितिः । संविदः स्वप्रकाशस्त्रात् ते प्रत्यक्षे । घटसंविदो निरोधो नाम पटसंवित् । सा च प्रत्यक्षा । इतिर्हेतौ । स्थिरत्वास्थिरत्वत्रैधर्म्येण न तदैक्यमित्यथैः । एवं प्रत्यभिज्ञाविषयत्वेनाऽऽत्मनः स्थैर्यमुक्तम् । अथ प्रत्यभिज्ञाश्रयत्वेन स्थैर्यमुच्यते एवमिति । पूर्वत्र प्रत्यभिज्ञाप्रत्यक्षसिद्धमित्युक्तम् ; अत्र प्रत्यभिज्ञा न घटत इत्युक्तम् । अयमभिप्रायः — प्रत्यभिज्ञाविषये ज्यालादौ यत्र कचिदन्यथासिद्धिः संभवेत्, तत्र न स्यैर्यसिद्धिः । अत्र प्रत्यभिज्ञाविषयत्वान्यथासिद्धावपि । श्रु० 19
१४६ १-१-१. प्रत्यभिक्षया आत्मनः संविदन्यत्वम् अन्येनानुभूतस्य न झन्येन प्रत्यभिज्ञानसंभवः । किचअनुभूतेरात्मत्वाभ्युपगमे तस्याः नित्यत्वेऽपि प्रतिसन्धानासंभवस्तदवस्थः । प्रतिसन्धानं हिपूर्वापरकालस्थायिनमनुभवितारमुपस्थापयति ; नानुभूतिमात्रम् - अहमेवेदं पूर्वमप्यन्वभूवमिति । भवतोऽप्यनुभूतेर्न ह्यनुभवितृत्वमिष्टम् । अनुभूतिरनुभूतिमानमेव । संविन्नाम काचिन्निराश्रया निर्विषया वा अत्यन्तानुपलब्धेर्न संभवतीत्युक्तम् । उभयाभ्युपेता संविदेवात्मेत्युपलब्धिपराहतम् । अनुभूतिमात्रमेव परमार्थ इति निष्कर्षक हेत्वाभासाश्च निराकृताः ॥ प्रत्यभिज्ञाश्रयत्वस्यानन्यथासिद्धत्वात् भ्रान्तिरूपप्रत्यभिज्ञायामपि तदाश्रयस्य स्थैर्यमनन्यथासिद्धमिति प्रत्यभिज्ञाश्रयत्वप्रयुक्तं स्थैर्यं दुष्प्रकम्पमिति । प्रत्यभिज्ञाश्रयतया स्थैर्यं विवृणोति अन्येनेति । एवं स्थिरस्य ज्ञातुर्धर्मत्वेन अस्थिरत्वेन च प्रतीतत्वात् अस्थिरत्व निबन्धनात्प्रतिसन्धानासंभवाच्च संविदात्मत्वं निरस्तम् ; अथ स्थिरत्वाभ्युपगमेऽपि प्रतिसन्धानासंभवात्मत्वं व्युहस्यति किश्चेति । अनुभूतेरात्मत्वाम्युपगमे तस्या नित्यत्वेऽपीति । आत्मत्वाभ्युपगमौपयिकतया संविदो नित्यत्वाभ्युपगमेऽपीत्यर्थः । न केवलमनित्यत्वपक्ष एव संविदात्मत्वानुपपत्ति ; नित्यत्वेऽपि इत्यपिशब्दार्थः । आत्मा हि प्रतिसंघत्ते; प्रतिसंधानमन्त्र न संभवतीत्यर्थः । तदसंभवमुपपादयति प्रतिसन्धानमिति । तदुदाहरति अहमिति । ततः किमिति शङ्कायां तस्य परानिष्टत्त्रमाह भवत इति । न केवलं भवदनभ्युपगमः, अनुभूतेरनुभवितृत्वं गमनक्रियाया गन्तृत्ववत् अनुपपन्नं चेत्यभिप्रायेणाह अनुभूतिरिति । मात्र चाऽनुभवितृत्वव्यावृत्तिः ।
ननु धर्मत्वास्थिरत्वाप्रतिसंघातृत्वैः संविदोऽनात्मत्वं यदुक्तम्, तन्न वक्तव्यम् ; अनुभवितृत्वस्यात्मा कारत्वेनानभ्युपगमात् ; विषयाश्रयशून्यायाः संविदो गुणभावाभावात् तदुभयसबन्ध प्रयुक्तानित्यत्वप्रसङ्गाभावाचेत्यत्राह संविन्नामेति ॥
ननु कथं विषयाश्रयशून्यज्ञानाभावः ? स्वरूपभूतं ज्ञानं विषयाश्रयशून्यं त्वन्मते ॥ उच्यते । स्थविष्ठमिदं चोद्यम् । किं त्वया ज्ञातुरेव ज्ञानशब्दवाच्यस्याजडत्वनित्यत्वादिकं विषयाश्रयशून्यत्वमात्मत्वं च साध्यते ? तत् सिद्धसाधनम् । यदि ज्ञातृव्यतिरिक्तस्य ज्ञानस्य, तर्हि ज्ञातृव्यतिरिक्तं विषयाश्रयविरहितं ज्ञानं शून्यमिति ब्रूमः । ज्ञातृज्ञेयतदवच्छिन्नज्ञानस्वरूपत्रिकातिरिक्तं ज्ञानमनुपलम्भ निरस्तमित्यर्थः । बौद्धैकदेशिभिः धर्मिकल्पनातो वरं धर्मकल्पनेति लाघवन्यायात् ज्ञात्रात्मवादिना ज्ञानात्मवादिना च सम्प्रतिपन्ना संविदेवात्मेत्युक्तम् । तदाशङ्कय परिहरति उभयेति । कल्पनायामेव लाघवन्यायः ; न तूपलब्धौ । अन्यथा अत्यन्तलाघवार्थं माध्यमिकमतानुसारेण ज्ञानश्च त्यज्येत ॥ कल्पने तु लाघवन्यायः; संवित्तपलभ्यत इति चेत् — ज्ञाताऽपि तथोपलभ्यते । अत उपलब्धिपराहतत्वात् संविदात्मत्वमनुपपन्नमित्यर्थः । साश्रयैव संविदुपलभ्यते ; तथाऽपि युक्तिभिर्निर्विशेषवं साधितमित्यत्राह अनुभूतिमात्रमिति । यद्वा संविदः परमार्थत्वेनोभयवादिसंमतत्वात् सैवात्मेत्युक्तमित्याशङ्कय दूषयति उमयेति । उपलब्धिपराहतम् — प्रत्यक्त्व लक्षणस्यात्मत्वस्य अहं जानामीति ज्ञातृत्व सामानाधिकरण्येनोपलब्ध्या पराहतमित्यर्थः । ज्ञातुरेव प्रत्यगात्मत्वमुपलब्धि सिद्धमित्युक्तम् । तस्या उपलब्धेर्निर्विशेष संविदात्मत्व, साधक युक्तिभिर्बाधि तत्व माशङ्कयाह — अनुभूतिमात्रमिति । ॥ प्रत्यगर्यो ह्यात्मा । प्रत्यक्त्वं चाहमर्थात्मस्ये तु न सिध्यति, संविदात्मत्यपक्ष एव सेत्स्यतीति चोदयति
१४७
ननु च अहे जानामीत्यरमत्प्रत्यये योऽनिदमंशः प्रकाशैकरसचित्पदार्थ, स आत्मा । तस्मिन् तद्बलनिर्भासिततया युष्मदर्थंलक्षणः, अहं जानामीति सिद्धपन्नहमर्थश्चिन्मात्रातिरेकी युष्मदर्थं एव ॥ नैतदेवम्; अहं जानामीति धर्मधर्मितया प्रत्यक्ष प्रतीतिविरोधादेव ॥ फिन-अहमर्थो न चेदात्मा प्रत्यकत्वं नात्मनो भवेत् । अहम्बुद्धया परागर्थात् प्रत्यगर्थौ हि भिद्यते ॥ ;
ननु चेति । अहं जानामीत्यस्मत्प्रत्यये - अस्मत्प्रत्ययत्वेन पराभ्युपगते । यश्चित्पदार्थः, स आत्मा; कुत इत्यत्राह अनिदमंश इति । इदमंशव्यतिरिक्तः परागर्थव्यतिरिक्तः प्रत्यगर्थः । हेतुगर्भमिदम् ; प्रत्यनर्थत्वादित्यर्थः । प्रत्यक्त्वं च कुत इत्यत्राह प्रकाशैकरस इति । स्वयम्प्रकाशत्वादित्यर्थः । हेत्वभिप्रायश्चिच्छन्दः । ज्ञानत्वात् स्वयम्प्रकाशत्वमित्यर्थः । प्रत्यक्त्वं स्वस्मै प्रकाशमानत्वम् । स्वयंप्रकाशत्वमनन्याधीनप्रकाशत्वम् । अहमर्थस्तु युष्मदर्यलक्षणः । युष्मदर्थलक्षणत्वात् परागर्थविशेषोऽहमर्थ इत्यर्थः । युष्मदर्थलक्षणत्वं कुत इत्यत्राह तद्बलेति । तद्वलनिर्गासितत्वात् – ज्ञानाधीनप्रकाशत्वात् । तच्च चिन्मात्रातिरेकित्वादित्यर्थः । अस्मिंश्चोद्यग्रन्ये संविदात्मत्वे व्यतिरेकित्रयम् अहमर्थनात्मत्वेऽन्वयित्रयञ्चाभिप्रेतम् । तत्र व्यतिरेकिणां व्यतिरेकिदृष्टान्तोऽम्बयिनां सपक्षश्च युष्मदर्थशब्देन सूचितः । अनुभूतिरात्मा, प्रत्यक्त्वात् ; यदनात्मा तन्न प्रत्यक् यथा घटः - अनुभूतिः प्रत्यग्भूता स्वयंप्रकाशत्वात्, यन्न प्रत्यक् तन्न स्वयम्प्रकाशम्, यन्न प्रत्यक् तन्न स्वयम्प्रकाशम, यथा घटः - अनुभूतिः स्वयम्प्रकाशा, अनुभूतित्वात् ; यन्न स्वयंत्रक’शम् (स्वसिद्धि), न तदनुभूतिः, यथा घट इति व्यतिरेकित्रयम् । अहमर्थो ज्ञानाधीनप्रकाशः चिद्व्यतिरिक्तत्वात् घटवत् ; अहमर्थः पराक् ज्ञानाधीनप्रकाशत्वात् घटवत्; अहमर्थे नात्मा पराक्त्वात् घटवंदित्यन्वयित्रयम् । स्वयम्प्रकाशत्वमेव संविदात्मत्वे साक्षाद्धेतुतया पूर्वमुक्तं पूर्वपक्षेोपन्यासे; अत्र तु तेन प्रत्यक्त्वं साधयित्वा तेनाऽऽत्मत्वं साधितम् । एतत् परिहरति नैतदेवमिति । संवित्स्वयम्प्रकाशत्वमिष्टम् ; शिक्षणीयांश्च शिक्षितः (श्वोक्तः) । अतः स्वतस्सिद्धत्वसाधकहेतोः सिद्धसाध्यता । ज्ञातुः अस्वतस्सिद्धत्वसाधकहेतोश्चिदन्यत्वस्यासिद्धिर्बश्यते । इतरानुमानचतुष्टयमिह निरस्यते । संविदात्मत्वादि किं प्रतीत्याऽभ्युपगतम्, उत प्रत्यक्त्वसिद्ध्यनुपपस्या, उन श्रुत्यर्थापस्था, उन श्रुतिस्मृतिसूत्रस्वारस्यात् इति विकल्पमभिप्रेत्य प्रथमपक्षे प्रत्यक्षप्रतीतिविरोधमाह अहं जानामीति 1 एतेन परोक्तानां ज्ञान प्रत्यक्त्वात्मत्वज्ञातृपराक्त्वानात्मत्व साधकानामन्वयव्यतिरे क्यनुमानानां कालात्ययापदेश उक्तः । अहं जानामीत्यत्राहमर्थः स्वावभासेऽपि घटावभास इव प्रतिसम्बन्धितया अहमिति प्रतीयते । धर्मितयाऽवभासादेव न ज्ञानशेषतावभासः । अतः स प्रत्यक्; आत्मा च । ज्ञानं धर्मतया प्रतीयमानं सुखादिवदन्यस्मै भासत इति न प्रत्यक् नाप्यात्मा, अपितु पराक् अनात्मा च । अतश्चतुर्णां हेतूनां प्रत्यक्षबाध उक्तो भवति । अथ प्रत्यक्त्वं विपरीतसाधकं चेत्याह किञ्चेति । स्वस्मै प्रकाशमानत्वरूपं प्रत्यक्त्वम् परस्मै प्रकाशमानत्वं पराकूत्वं च’हमिदम्बुद्धिभ्यां हि विभज्यते । तस्मादहम्बुद्धिविगमे प्रत्यक्त्वमेत्र न सेत्स्यतीति प्रत्यक्त्त्रमहमर्थस्यैवात्मत्वसाधकमित्यर्थः । संविदि प्रत्यक्त्वाभावादात्मत्व साधक हे तोरसिद्धिश्च फलिता । अहमर्थस्य पराक्त्वाभावादनात्मत्वसाधकहेतोरसिद्धिश्व सिद्धा । अहम्बुद्धधेत्यनेन युष्मदस्मत्प्रत्ययगोचरयोरिति स्वोक्तिविरोधश्च, “कोऽहमित्येव निपुणः” “शब्दोऽहमिति दोषाय नात्मन्येष” इत्याद्यागमविरोधश्च गर्भितः ; हिशब्दस्य प्रसिद्धिपरत्वात् । हेतौ वा अनुभूतिः पराची अहमर्थव्यतिरिक्तस्वात्
१४८ १-१-१. आत्मनोऽमर्थत्वम् निरस्ताखिलदुःखोऽहमनन्तान्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशचेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता । इति तत्प्राप्तये यत्नः कस्यापि न भविष्यति ॥ स्वसम्बन्धितया ह्यस्याः सत्ता विज्ञप्तितादि च । स्वसंबन्धवियोगे तु ज्ञप्तिरेव न सिद्ध्यति ॥ छेत्तुश्छेद्यस्य चाभावे छेदनादेरसिद्धिवत् । अतोऽहमर्थो ज्ञातैव प्रत्यगात्मेति निश्चितम् ॥ ‘विज्ञातारमरे केन’, ‘जानात्येवे ‘ति च श्रुतिः । ‘एतो वेत्ति तं प्राहुः क्षेत्रज्ञ’ इति च स्मृतिः ॥ ‘नात्मा श्रुते’ रित्यारभ्य सूत्रकारोऽपि वक्ष्यति । ‘ज्ञोऽत एवे’त्यतो नात्मा ज्ञप्तिमात्रमिति स्थितम् ॥ अहम्प्रत्ययसिद्धो ह्यस्मदर्थः, युष्मत्प्रत्ययविषयो युष्मदर्थः । तत्र, अहं जानामीति सिद्धो ज्ञाता युष्मदर्थ घटवदिति । प्रत्यक्स्वहेतोर सिद्धिदाढर्यं तत्प्रत्यक्त्व साधकस्य स्वयम्प्रकाशत्वहेतोः सत्प्रतिपक्षत्वश्च, अनुभूतिरनात्मा अहमर्थव्यतिरिक्तत्वात् घटादिवदिति संविदात्मत्वसाधकस्य प्रत्यक्त्वहेतोश्च सम्प्रतिपक्षस्वं चामितमित्यवगम्यते; अहम्बुद्धया परागर्थात् प्रत्यगर्थस्य भेदसमर्थनात् । हिशब्दाच्चात्र संवित्प्रत्यक्स्वहेतोरसिद्धिश्च सिद्धा । श्रुत्यर्थापत्तिं वक्तुं मुमुक्षोरभिसन्धिमाह निरस्तेति । ततः किमित्यत्राह अहमर्थविनाश इति । यत्सम्बन्धित्वेन दुःखज्ञानं यत्सम्बन्धिनी दुःखविनिवृत्तिर्यत्सम्बन्धिनी सुखप्राप्तिश्चेप्स्यते, तद्विनाशो मोक्षश्चेत्, अधिकारिविरहादप्रामाण्यं भवेत् । प्रमितिजनकत्वं हि शास्त्रस्य प्रामाण्यम् । बुभुत्सितग्राह्यस्य शास्त्रस्य पुरुषार्थपर्यवसायित्वाभावे श्रवणमननाद्यधिकारी न सिध्येत् । न हि शास्त्रं श्रवणादिनिरपेक्षं कस्यचित् प्रमितिं जनयति । अतोऽधिकारिविरहात् प्रामाण्यं न भवेदिति शास्त्रप्रामाण्यान्यथानुपपत्तिरूपश्रुत्यर्थपत्तिरुक्ता । अहम नष्टेऽपि इतिर्नित्या तिष्ठतीत्यत्राह मयि नष्टेऽपीति । न हि मयि नष्टेऽपि स्तम्भस्तिष्ठतीति स्वशिरश्छेदः पुरुषार्थ स्यादिति भावः । न हि केवलसंविदः श्रवणादौ प्रवृत्तिः, अपित्वहमर्थस्यैव; अतः प्रवर्तमानोऽयं स्वनाशाय न प्रवर्तते । अहमर्थविगमे ज्ञप्त्यवस्थानमभ्युपगम्य दूषणमुक्तम् ; अथ तदवस्थानमेव नास्तीत्याह स्वसम्बन्धितयेति । सामान्याकारः सत्ता ; विज्ञप्तिता - विषयप्रकाशकत्वरूपविशेषाकारः । आदिशब्देन स्वयम्प्रकाशत्वं विवक्षितम् । सत्ताया आश्रयसंबन्धाधीनत्वात् खरूपलाभे सति ज्ञप्तित्वादिसंभवाच्च सर्वं तदधीनमित्यर्थः । अतो यत्सम्बन्धायत्ता सत्ता, तत्संबन्धवियोगे ज्ञप्तितैव नेत्याइ स्वसम्बन्धेति । घटकरकाकाशदृष्टान्त व्याकृत्यर्थं विषयाश्रयसम्बन्धस्य सत्ता हेतुत्वे दृष्टान्तमाह छेत्तुरिति । छेदना देरिति आदिना सत्ता तत्फलं द्वैधीभाव इत्यादि विवक्षितम् । 1 एवं प्रत्यक्षविरोधात् असिद्धत्वात् विपरीतसाधकत्वात् सम्प्रतिपक्षत्वाच्च संविदात्मत्वानुपपत्तेः, श्रत्यर्थापत्या चाहमर्थात्मत्वमाह अत इति । पूर्वोत्तर हेतूनामियं प्रतिज्ञा । श्रुतिस्मृतिसूत्राणि दर्शयति विज्ञातारमिति । ज्ञातव्यस्यात्मनो ज्ञातृत्वमुक्तम्, ’ विज्ञातारमरे केन विजानीयात्’ इति । ज्ञातृत्वस्य स्वाभाविकतया मुक्तावपि ज्ञातृत्वमस्तीति दर्शयति जानात्येवेति । “ज्ञोऽत एव” इत्यत्र ज्ञशब्दनिर्दिष्ट आलेति ज्ञापनार्थम्, “नात्मा श्रुतेः” इति सूत्रमुपात्तम् ; त्वया अनित्यतया अभ्युपेतस्याहमर्थस्य नित्यत्वकथनमपि तस्यैवात्मत्वसाधकमिति च ज्ञापनार्थम् । अतो नात्मेति संविदात्मत्व प्रतिक्षेपानिगमनात् पूर्वोक्ताहमर्थात्मत्वप्रतिज्ञायां संविदात्मत्वप्रतिक्षेपे च यथायथमुक्तहेतवोऽनुसन्धेयाः । दूषणान्तरं व्याहृतिरप्यस्तीत्याह अहंप्रत्ययेत्यादिना । अहंप्रत्ययसिद्ध इति सिद्धशब्देन स्वतसिद्धिः
१४९ ·
- इति वचनम्, जननी मे वन्ध्येतिवत् व्याहतार्थन । न चासौ ज्ञाता अहमर्थोऽन्याधीनप्रकाशः ; स्वयम्प्रका- शत्वात् । चैतन्यस्वभावता हि स्वयम्प्रकाशता । यः प्रकाशस्वभावः सोऽनन्याधीनप्रकाशः दीपवत् । 1
सूचिता । अत एव ह्यन्यत्र युष्मत्प्रत्ययविषय इत्युक्तम् । अहंप्रत्ययसिद्धो हीति हिशब्दे नास्मदर्थयुष्मदर्थशब्दतश्च युष्मदस्मत्प्रत्ययगोचरयोरिति तद्ग्रन्थप्रसिद्धिं दर्शयति । ज्ञानमेव स्वयम्प्रकाशम् ; तद्व्यतिरिक्तत्वादहमर्थोऽन्याधीनप्रकाशः, अतो नामेति शङ्कायां हेतोरसिद्धिमभिप्रयन् अहमर्थस्य प्रकाशान्तरनैरपेक्ष्यं प्रतिजानीते न चासाविति । कुत इत्यत्राह स्वयम्प्रकाशत्वादिति । प्रकाशः — व्यवहारानुगुण्यम् । स्वत एव व्यवहारानुगुण्यशक्तियुक्तत्वादहमर्थः प्रकाशान्तरनिरपेक्ष इत्यर्थः । तच्च कथमिष्यत्राह चैतन्यस्वभावता दि स्वयम्प्रकाशतेति । चेतना ज्ञानम्, तद्भावश्चैतन्यं ज्ञानत्वम् ; तत्स्वभावत्वं ज्ञानत्वगुणकतेत्यर्थः । ज्ञानत्वमेव हि ज्ञानस्य स्वयम्प्रकाशत्वम् तद्वदत्रापि ज्ञानत्वं प्रामाणिकं चेत्, तदेव स्वयम्प्रकाशत्वं भवतीत्युक्तं भवति । अहमर्थस्य चैतन्यस्वभावत्वे श्रुतिं प्रमाणं वक्ष्यन् तदनुग्राहकतर्कमुपन्यस्यति यः प्रकाशस्वभाव इत्यादिना । आत्मदीपधर्मभूतज्ञानप्रभयोः साक्षाद्वा प्रणाल्या वा यादृशव्यवहारानुगुण्यम्, तादृशं व्यवहारानुगुण्यमिह प्रकाशशब्देन विवक्षितम् । दीपस्य तमोविरोधि रूपमौज्ज्वल्यं प्रकाशः ; ज्ञानस्य तु स्फुरणम् । यः तत्स्वभावः तद्धर्मकः स्वव्यवहारानुगुण्यापादनशक्तियुक्तः, सोऽनन्याधीनप्रकाशः स्वधर्मनिरपेक्षप्रकाश इत्यर्थः । प्रकाशस्वभावत्वासिद्धिर्न शङ्कनीया; यथा प्रभाश्रयस्य दीपस्यैौज्ज्वल्यं प्रत्यक्षसिद्धम्, तथा ज्ञातुरपि स्वत एव स्वव्यवहारानुगुण्यस्य वक्ष्यमाणश्रुतिस्वारस्यावगतत्वात् । प्रकाशस्वभावस्य स्वधर्म भूतप्रकाशानपेक्षप्रकाशत्वमुपपन्नमित्येतावदेव यतेऽनेन ग्रन्थेन । अथ चक्षुर्ब्राह्यः वे सति प्रभाव्यतिरिक्तत्वात् दीपो घटादिवत् प्रभाबलनिर्भास्य इति दृष्टान्तस्य साध्यवैकल्यमाशङ्कयाह नहीति । न च चक्षुर्ग्राह्यत्वे सति प्रभान्यत्वात् घटादिरिव दीपः प्रभावभास्यः, अन्धकारे व्यभिचारात् । अतो न दीपस्य प्रमापेक्षेत्यभिप्रायः । अप्रकाशत्वमन्याधीनप्रकाशत्वञ्चेति । स्वयमौज्ज्वल्यधर्मकत्वाभावस्तत्कृतप्रकाशान्तरसापेक्षत्वश्च नास्तीत्यर्थः । (अर्थसिद्धं) अर्थस्थितिं वक्स्तुमाकाङ्क्षां दर्शयति किं तहींति । उत्तरमाह दीप इति । दीपो न केवलं स्वात्मानमेव प्रकाशयति, अपि तु स्वपरिकरेणान्यानपि प्रकाशयतीत्यतिशयमाह अन्यानपीति । एवं वाऽर्थः — दीपः प्रभानिरपेक्षप्रकाशश्चेत्, प्रभावत विषयानपि प्रकाशयेदित्यत्राह अन्यानपीति । विषयप्रकाशनक्षमोऽपि स्वरूपस्य काचित्कतया त्रिषयसम्बन्धाभावात् स्वरूपेण न प्रकाशयति, किन्तु विषयसम्बन्धिन्या स्वपरिकरभूतया प्रभयेत्यर्थः । “यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः” इत्यादिनिर्देशोऽभिप्रेतः । यद्वा अनुमानविवक्षयाऽऽह चैतन्यस्वभावता हीति । चैतन्यस्वभावता ज्ञानधर्मकत्वम् एतदेव हि स्वयम्प्रकाशत्वम् । ज्ञानधर्मकत्वात् । स्वयम्प्रकाशत्वम् इत्युक्तं भवति । यथा धूमवत्त्वं ह्मग्निमत्वमित्युक्ते धूमवत्वादग्निमत्त्वमित्युक्तं स्यात् - तद्वत् । अयं चान्वयी हेतुः । व्याप्तिं दर्शयति य इति । प्रकाशस्वभावः - प्रकाशधर्मकः । यो धर्म्यन्तरापरोक्षावभासे साक्षाद्वा परम्परया वा भासमानतयैव हेतुः, सोऽनन्याधीन (सइह) प्रकाशशब्दविवक्षितः । रूपि तत्समवेतार्थचाक्षुषत्वनिमित्तस्य 1 भाष्यार्थदर्पणो द्रष्टव्यः । । रूपस्य, 1
१५० १-१-१. आत्मस्वयम्प्रकाशत्वम् न हि दीपादेः स्वप्रभा बलनिर्भासितत्वेमा प्रकाशत्व मन्याश्वीन प्रकाशत्वञ्च ॥ किं तर्हि ॥ दीपः प्रकाशस्य भावः स्वयमेव प्रकाशते ; अन्यानपि प्रकाशयति स्वप्रभया ॥ एतदुक्तं भवति - यथैकमेव तेजोद्रव्यं प्रभाप्रभावद्रपेणावतिष्ठते- यद्यपि प्रभा प्रभावद्दव्यगुणभूता, तथापि तेजोद्रव्यमेव, न शौक्ल्यादिवद्गुणः ; स्वाश्रयादन्यत्रापि वर्तमानत्वात् रूपवत्त्वाच्च शौक्ल्यादिवैधर्म्यात्, प्रकाशवत्त्वाच्च तेजोद्रव्यमेव ; नार्थान्तरम् । प्रकाशवत्वच स्वस्वरूपस्यान्येषाञ्च प्रकाशकत्वात् । अस्यास्तु गुणत्वव्यवहारो नित्यतदाश्रयत्वतच्छेषत्वनिबन्धनः । स्वाश्रयेतरद्रव्यानुमापकधूमादेव प्रकाशस्वन्युदासाय धर्म्यन्तर — अपरोक्षशब्दो । इन्द्रियव्यवच्छेदार्थो भासमानशब्दः। पक्षसपक्षयोरनुगतत्वाय साक्षाद्वा परम्परया वेत्युक्तम् । ज्ञाता स्वधर्म भूतप्रकाशनिरपेक्षसिद्धिः प्रकाशधर्मकत्वात् दीपवदित्यनुमानशरीरम् । भासमानतया साक्षाद्वा परम्परया वा धर्म्यन्तरापरोक्षावभासहेतुधर्मकत्वादिति हेतुवाचिशब्दार्थः । दीपस्य स्वधर्मभूतप्रभानपेक्ष प्रकाशत्ववत् ज्ञातुरपि स्वधर्मभूतज्ञाननिरपेक्षप्रकाशत्वं सिद्धमिति पक्षधर्मताबलात् स्वयम्प्रकाशत्वसिद्धिः । दृष्टान्ते साध्यान्वयं दर्शयति नहीति । साधनान्वयं दर्शयति अन्यानपीति । । अनुमानपरत्वादपि ग्रन्थस्य श्रुत्यनुग्राहकतर्कपरत्वं युक्तम् ; उत्तरत्र तथा हि श्रुतय इति वक्ष्यमाणत्वात् । पूर्वमनुमानं विवक्षितं चेत्, तथा चेति हि वक्तव्यम् । उपक्रमे चैतन्यस्वभावता हि स्वयम्प्रकाशतेति समानाधिकरणनिर्देशस्वारस्याच्च । पञ्चम्यर्थत्वे हि स्वारस्यं भज्यते । निगमने च चिद्रूपता हि स्वयंम्प्रकाशतेत्युक्तम् । चिद्रूपशब्दो ज्ञानस्वरूपस्त्रपरः ; न तु ज्ञानधर्मकत्वपरः ; अनन्तरपूर्वग्रन्ये चिद्रूप एव चैतन्यगुणक इति ज्ञानधर्मकत्वस्य पृथगुक्तत्वात् । एवं निगमने स्वयम्प्रकाशतापदसमानाधिकरणस्य चिद्रूपताशब्दस्य ज्ञानस्वरूपतापरत्वदर्शनात, पूर्वमपि स्वयम्प्रकाशतापदसमानाधिकरणस्य चैतन्यस्वभावतेति पदस्य ज्ञानस्वरूपतापरत्वस्य समुचितत्वाच्च चैतन्यस्वभावतेत्यादिभाष्यं श्रुत्यनुग्राहकतर्कपरम् । एवमनुग्राहकतर्कस्य श्रौतत्वे सति अनुमानमप्यर्थसिद्धम; ज्ञानधर्मकत्वज्ञान स्वरूपत्वोक्तेः ; एकजातीयद्रव्ययोर्नियतधर्मधर्मिभावे प्रभाप्रभावदूदृष्टान्तोक्तेश्च । ज्ञानस्य द्रव्यत्वे द्वयोर्ज्ञानयोर्नियमेन धर्मधर्मिभावो नोपपद्यते ; अन्यत्रादर्शनात् । गुणत्वे तु न ज्ञानाश्रयत्वसंभवः ; गुणानामगुणत्वात् । न च द्रव्यत्वेऽपि नियताश्रयाश्रयिभावः प्रभाप्रभावतोर्दृश्यत इति वाच्यम् ; प्रभाया विशीर्णदीपावयवत्वादित्याशङ्कयाह एतदुक्तमिति । " यथैकमेव तेजोद्रव्यं प्रभाप्रभावद्रूपेणावतिष्ठते, एवमात्मा चिद्रूप एव चैतन्यगुणकइति यथाशब्दस्योत्तरत्रान्वयः । प्रथमं प्रभाया विशीर्णावयवान्यत्वं प्रतिजानीते एकमेवेति । एकम् – एकजातीयम् (सजातीयम्) । नियतधर्मस्य कथं द्रव्यत्वमित्यत्राह यद्यपीति । गुणभूता - परतन्त्र भूता; अयुतसिद्धविशेषण भूतेत्यर्थः । तेजोद्रव्यमेवेति प्रतिज्ञातद्रव्यविशेषस्थ - सिद्ध्यर्थं प्रथमं द्रव्यत्वमुपपादयति स्वाश्रयादिति । द्रव्यत्वमस्तु ; तत्रापि तेजस्त्वे किं प्रमाणमित्यत्राह प्रकाशवत्त्वादिति । प्रकाशः - तमोविरोध्याकारविशेषः, औज्ज्वल्यम् । प्रकाशवत्त्वमुपपादयति प्रकाशवत्त्वं चेति । स्वविषयपरविषयज्ञान विरोधितमोनिरसन रूपकार्यदर्शनादित्यर्थः । तर्हि कथमस्या गुणत्वव्यवहार इत्यत्राह अस्या इति । तुशब्दः शौक्कपादिवैषम्यपरः । अथ विशीर्णावयवानां प्रभावत्वं प्रतिक्षिपति
१५१ न च आश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्युच्यन्ते ; मणिद्युमणिप्रभृतीनां विनाशप्रसंगात् । नचेति । कुत इत्यत्राह मणीति । प्रतिक्षणं विनाशप्रसङ्गादित्यर्थः । तदभ्युपगमे मण्याद्यनुपलम्भप्रसङ्गपरिहाराय प्रतिक्षणोत्पतिरभ्युपेत्या । प्रतिक्षणोत्पत्तिविनाशाभ्युपगमश्चानुपपन्नः; दीपस्येव उत्पत्तिविनाशसामग्रयनुवृत्यभात्रातू । तदभावेऽपि तेजस्त्वसामान्यात् दीप इव प्रत्यभिज्ञाबाधेन प्रतिक्षणं विनाशादिकल्पने सत्वद्रव्यत्वादिभिः घटादावपि क्षणिकत्वप्रसङ्ग इति भावः । रतेषु क्षणिकत्वं रत्नशास्त्रविरुद्धम् ; कालविशेषे तदुत्पस्याद्यवगतेः । आदित्यादिषु च क्षणिकत्वं श्रुतिविरुद्धम् ; ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ ‘नामी पोमो न सूर्यः’ इति कालविशेषे तदुत्पत्तिविनाशात्रगतेः । न च सूर्यादि सृष्टिप्रलयपरवाक्यानां सन्तत्युपक्रमोच्छेदपरत्वं वाच्यम् ; रत्नसूर्यादिमात्रक्षणिकत्वे प्रमाणाभावात् । तेजस्त्वं हि (तु) तेजःपरमाणूनिच्छद्भिः न हेतुतया वाच्यम् ; तेजःपरमाणुष्षु व्यभिचारात् । सत्त्वादिभिः क्षणिकत्वे जगत्क्षणिकत्वं स्यादित्युक्तम् ॥
ननु कर्पूरादीनां दूरोपलब्धगन्धानां गन्धाश्रयभूतावयवविशरणस्यावर्जनीयत्वात्, उत्तरकालोपलम्भाच्च प्रतिक्षणोत्पत्तिविनाशावभ्युपगन्तव्यौ तद्वन्मण्यादिष्वपीति ॥ नैवम् । समुद्गकसंपुटादिनिवातदेश निहित दृढ पिहितघनसारादेः दूरे गन्धोपलम्भाभावात् आश्रयावयवविशणाभावेन यथापूर्वं स्थित्युपलम्भोपपत्तेः न प्रतिक्षणोत्पत्तिविनाशौ कल्प्यौ । सवात देशस्थघनसारादीनां दूरोपलभ्यमानगन्धानामल्पावयवविशरणमस्त्येव । अवयविनि च सूक्ष्मपरिक्षयो विद्यत एव ; तुलया परीक्षणेऽप्यल्पाल्पपरिमाणापकर्षदर्शनात् । अतः प्रतिक्षणमत्रयत्रान्तरोपनिपातविशेषहेतुकोत्पत्तिविनाशौ कल्प्यैौ । कल्पनेऽपि परितः केषांचिदवयवानामुपलभ्यमानगन्धाश्रयत्वेनोमयवादिसंप्रतिपन्नानामेव स्थितिमात्रं कल्प्यम्; तावता गन्धोपलब्ध्युपपत्तेः । अनेकधर्मि तदुत्पत्तिविनाशअपरिदृष्टतदुभयसामग्रीकल्पने गौरवाच्च । यद्वा घ्राणस्यापि चक्षुष इव रश्मिद्वारा संबन्धात् दूरस्थपदार्थगतगन्धग्राहित्वं कल्प्यम् । गौरवाभावात् । न केवलं कल्प्यं रश्मिमत्वम्; उक्तं च भारते, “न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः । प्रवर्तमानैरनयैर्दुर्धर्षे रकृतात्मभिः ॥ तेषां तु मनसा रश्मीन् यदा सम्यङ्नियच्छति । तदा प्रकाशते ह्यात्मा दीपो (?) दीप्यन्निराकृतिः ॥” इति । इन्द्रियाणां पञ्चीकृतभूताप्यायनैः वायुतेजःप्रभृतिभिः संबन्धात् रश्मिमत्वं चोपपद्यते ॥
ननु ; र अग्न्यातपसम्बन्धात् (तपतप्त) सलिलशिला देरौष्ण्यतारतम्योपलम्भोऽग्न्यातपाद्यवयवसंक्रान्ति विना नोपपद्यते 1 सलिलादेः स्वत औष्ण्याभावान्निराश्रयधर्मसंक्रमणायोगाच्च औष्ण्याश्रयभूतअग्न्यातपावयवस्य संक्रान्तिरम्युपेत्या । एवमवयवसंक्रान्तिश्च विशरणेन विना नोपपद्यते । गत्वराणां रश्मीनां चरणतलानामिव कथं विशरणेन विना क्वचित्संक्रमः अवयवतारतम्यान्चौष्ण्यतारतम्य मिति उच्यते 1 अग्नितप्तेषु अग्न्यवयवसंक्रान्त्यैव औष्ण्योपलम्भः । सलिलादौ संक्रामन्तोऽग्न्यवयवा एव प्रभेति न वाच्यम् ; दीपप्रभयाऽहोरात्रसंवृते (पृक्तेऽ) पि सलिल भूतलादावौष्ण्यानुपलम्भात् । आत पतप्तेष्वपि न किरणविशरणादवयवसंक्रमः, तुहिनकणानामिव रविकिरणोपात्तमुक्तानामग्न्यवयवानां संक्रमणादुण्णोपलम्भोपपत्तेः । न चात्र कल्पकमन्वेष्टव्यम् ; नापि कल्पनागौरवं प्रसजति ; आगमसिद्धत्वादस्यार्थस्य । तथाहि मात्स्ये पुराणे कथ्यते, ‘वसन्ते ग्रीष्मके रश्मिरातैः संतपति त्रिभिः । शरद्यपि च वर्षासु चतुर्भिः संप्रवर्षति ॥
१५२ १-१-१, प्रभाप्रभावतोर्भेदः दीपेऽप्यवयविप्रतीतिः कदाऽपि न स्यात् । न हि विशरणस्वभावा एव दीपाः चतुरङ्गुलमात्रं नियमेन पिण्डीभूता ऊद्र्ध्वमुद्गय ततः पश्चात् युगपदेव तिर्यगूर्ध्वमधश्चैकरूपाः विशीर्णाः प्रचरन्तीति शक्यं वक्तुम् । हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः’ इति । यथा वर्षासु हेमन्ते च रविकिरणमुक्ताः सलिलकणाः तुहिनकणाश्च न विशीर्णकिरणावयवाः ; किंतु किरणोपात्तविमुक्ता आप्यावयवा एत्र - एवं [वसन्ते ?] प्रीष्मे च रविकिरणजन्यं संतापनं न तद्विशीर्णावयत्रकार्यम किंतु तदुपात्तमुक्ताग्न्यवयवकार्यमिति प्रतीयते । तथा ‘अमिं वावादित्यः सायं प्रविशति’, ‘उद्यन्तं वावादित्यमग्निरनुसमारोहति’ इति श्रूयते । अत्र । चाऽऽदित्यतिरोधानदर्शनावच्छिन्न कालविशेषपरौ सायंप्रातरशब्दौ । कालस्य सायंभावप्रातर्भावौ रविविप्रकृष्टसंनिकृष्टतत्तद्देशविशेषवृत्ति पुरुषापेक्षया सर्वदोपपद्येते इत्ययमर्थो भुवनकोशे स्फुटतरः 1 ततश्च प्रविशतीत्यनेनाग्नावादित्यस्य व्याप्तिरुच्यमाना दूरस्थितस्य स्वरूपेण नोपपन्नेति किरणद्वारा भवति । अग्निरनुसमारोहतीत्यनेन अग्न्यवयवानामादित्य नोपादीयमानत्वमुच्यते । न चाग्न्यधिष्ठातृदेवतारोहणपरमिदं वाक्यम् ; ‘तस्माद्भूम एवाग्नेर्दिवा ददृशे’ इत्यनन्तरवाक्येनाग्नेरादिव्योपसर्पणनिमित्तते जोमान्द्यकथनात् । अन्यथा सायम्प्रातस्समययोः सर्वदा संभषेनामेरादित्ये सर्वदारोहणम् अग्नावादित्यस्य सर्वदारोहणश्च प्रसजेत् । ततश्चाग्न्यादित्ययोः स्थानविनिमयेन सर्वदास्थितिरुक्ता स्यात् । सा च प्रमाणान्तरविरुद्धा । अत आदित्यस्याग्नौ किरणद्वारा व्याप्तिः किरणैरग्न्यवयवोपादानं च वाक्यद्वयोक्तम् । अतश्चोपात्ताग्न्यवयववर्षेण तापनं मात्स्योक्तम् ; उत्सर्जन प्रकरणस्वारस्यात् । अतस्तुहिनकणानामिव रविकिरणमुक्तानामग्नेियावयवानां विशीर्ण किरणावयवत्वाभावात् रविकिरणेषु तन्मण्डले प्रतिक्षणविनाशोत्पत्तिक्कतिरनुपपन्ना । अतो न शीर्णावयवाः प्रभा । दूषणान्तरमाह दीपेऽपीति । अवयविप्रतिपत्त्यनुपपत्तिमुपपादयति नहीति । दीपः किं विशरणस्वभावः उत स्थिरस्वभावः ? त्रिशरणस्वभावत्वे पिण्डीभावो मूर्तद्रव्यप्रतिबन्धनिबन्धनः स्यात् । स्थिरस्वभावत्वे विशरणं मूर्तद्रव्यप्रतिहतिहेतुकं स्यात् । अत्रोभयमनुपलम्भहतम् ॥ विशरण स्वभावस्वे पिण्डीभावो वायुनोपपद्यत इति चेत् तर्हि निवाते पिण्डीभावो न स्यात् । स्तिमितसूक्ष्मवायुना पिण्डीभावश्चेत् — विशरणं न स्यात् । तच्च सूक्ष्मवायुना चेत् एकस्य विरुद्धस्वभावद्वयायोगात् पिण्डीभावविशरणहेतुभूतवायुद्वयमभ्युपेत्यम् । तयोर्मिथः प्रतिघातुकत्वादन्यतरविगमे पिण्डीभाव एव वा विशरणमेव वा स्यात् । तत्परिहाराय परस्परान्तरितविरुद्धस्वभाववा युद्वयपरंपरया संनिधिविगमपरिकल्पने गौरवं स्यात् । तत्कल्पनेऽपि तिर्यग्गत्वराणां वाय्ववयवानां नोदनमात्रहेतूनां परितः प्रतिबन्धकरवायोगात् पिण्डीभावो न स्यात् ।
9
ननु लोषणद्रवीभूत पार्थिवावयवसंदेशात् पिण्डीभावः, ततस्तदवयवगतस्निग्धत्वापगमेन संदंशकरवाभावादग्न्यवयवत्रिशरणमित्यत्राह न हि विशरणेति । यद्यग्न्यवयवा उद्गमनस्वभावाः, तर्हि विशरणे तिर्यग्गतिर्न स्यात् । यदि ते तिर्यग्गतिस्वभावाः, तर्हि प्रथममूर्ध्वगतिर्न स्यात् । एकजातीयद्रव्यस्योपाधिना विना विरुद्धस्वभावत्वायोगात् । उपाधिश्व न दृश्यते । दीपप्रभयोर्भिन्नावयत्रित्वे तु विरुद्धस्वभावत्वमुपपद्यते । किञ्च चतुरङ्गुलादिपरिमिति (माण) तारतम्यनियामकोऽपि नास्ति । विशरणे च पार्श्वेऽपि विशरणं संभवति । समन्ततो
१५३ अतः सप्रभाका एव दीपाः प्रतिक्षणमुत्पन्ना विनश्यन्तीति, पुष्कलकारणक्रमोपनिपातात् तद्विनाशे विनाशाच्चावगम्यते । प्रभायाः स्वाश्रयसमीपे प्रकाशाधिक्यमौष्ण्याधिक्यमित्यादि उपलब्धिव्यवस्थाप्यम् अग्न्यादीनामौष्ण्यादिवत् - एवमात्मा चिदूप एव चैतन्यगुणक इति । चिद्रूपता हि स्वयम्प्रकाशता । तथा हि श्रुतयः, “स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्माऽनन्तरो- युगपद्विशरणे नियामकाभावादित्यभिप्रायः । किश्व विशीर्णानामवयवानां पांसूनामिव ऋजुप्रसरण नियमने च न हेतुः । प्रसरणस्यार्जवनियमश्च तिरोधायकं पदार्थं प्रति ऋजुदेश एव छायायोगादवगम्यते । छायावैपुल्यं तु निवार्यमाणरश्मीनां पृथ्वग्रत्वकृतम्, न अनार्जवकृतम् । छायाकौटिल्यं तु तिरोधायककौटिल्यकृतम् ; न तु प्रसरणा (सारा) नार्जवकृतम् । तच्च ऋजुप्रसारित्वसाधकम् । विशीर्णावयवत्वे रेणूनामिव पत्रनानुत्सार्यमाणत्वं च न घटते । प्राचीनजालक निष्क्रान्ता हि प्रभा दक्षिणानिलेन नोत्सार्यने । अन्यथा रजसामपि तत्रानोदनं प्रसजेत् । जालक निष्क्रान्तप्रभायाश्च पवनानुत्सारितत्वं ततः परस्मिन् भित्यादौ प्रभासंसर्गादवगम्यते । अतो धनुषि आततायाः मौर्या इव प्रभाया न विशीर्णावयवत्वमिति । . 1 ततः किमित्यत्राह अतरसप्रभाका एव दीपाः प्रतिक्षणमुत्पन्ना इति । तेजरत्वेन मण्यादिविनाशाभ्युपगमे अतिप्रसङ्गात्, विशरणस्वीकारे पिण्डीभाव - युगपद्विष्वनिः सरण - ऋजुप्रसरणाद्यनेकनियमव्यवस्थापकाभावात्, यथादृष्टाम्युपगमे विरोधाभावाच्च सप्रभाका एव दीपाः प्रतिक्षणमुत्पन्ना इत्यर्थः । तर्हि कथं प्रतिक्षणोत्पत्तिविनाशात्रित्यपेक्षायाम्, यथा मण्यादीनां प्रतिक्षणविनाशो न प्रसजति, तथा दीपक्षणिकत्वे हेतुद्वयमाह पुष्कलकारणक्रमोपनिपातात्तद्विनाशे विनाशाच्चेति । पृथस्थितदण्डचक्रादि व्यावृत्त्यर्थं पुष्कलशब्दः । वर्त्यवयवाग्निसंयोगस्य दीपसामग्रीत्वं प्रथमवर्त्यत्रयवाग्निसंयोगे दृष्टम् । न च प्रथमावयवाग्निसंयोगस्यैव कारणत्वं शङ्कनीयम्; चरममध्यावयवयोरप्यग्निसंयोगे सति दीपोत्पत्तिदर्शनात् । अतः प्रत्यवयवमग्निसंयोगात् पुष्कलकारणपरम्परा दृष्टेति प्रत्यवयवमग्निसंयोगात् दीप उत्पद्यत एव । तत्र प्रतिक्षणमुत्पत्तौ सत्यां युगपदनेकदीपानुपलम्भात् विनाशोऽपि सिद्धः । प्रतिक्षणविनाशस्य पृथगनुमापकमुच्यते तद्विनाशे विनाशाच्चेति । वर्त्यवयवविनाशस्य दीपविनाशसामग्रीत्वं चरमवर्त्यवयवविनाशे दृष्टम् । एवं विनाशकारणानुवृत्तिदर्शनात् प्रत्यवयवविनाशं दीपो विनश्पत्येव । एवमुत्पत्तिविनाशसामग्रयनुवृत्तिम्यां प्रतिक्षणं तावनुमीयेते इत्यर्थः । प्रभा विशीर्णावयवाः; न चेत्, दीपसमीपे तस्य औष्ण्याधिक्यादिकं कथम् ? विशरणपक्षे ह्यवयव बाहुल्यत्रैरल्याभ्यामौष्ण्याधिक्य मान्द्या दिकमुपपद्यत इत्यत्राह प्रमाया इति । प्रकाशाधिक्य मौष्ण्याधिक्यमित्यादीति आदिशब्देन आश्रयविप्रकृष्टदेशे प्रकाशमान्द्यमौष्ण्यमान्द्यञ्च विवक्षितम् । उपलब्धिव्त्रवस्याप्यत्वे दृष्टान्तमाह अग्न्यादीनामिति । उक्तं दाष्टन्तिकेऽतिदिशति एवमिति । चिद्रूपएवेति । रूपशब्दो धर्मिस्वरूपपरः । ततः किं स्वयप्रकाशस्त्रस्येत्यपेक्षायां चिद्रूपत्वं वेवृणोति चिद्रूपताहीति । अनेन वक्ष्यमाणश्रुतिवाक्ये ज्ञानादिशब्दो विवृतो भवति । एवमनुग्राहकतर्कमुपन्यस्य प्रमाणमाह तथाहिश्रुतय इति । स यथा सैन्धवधन इति । अनन्तरः अन्तरङ्गव्यतिरिकः । अबाह्यः बहिरङ्गव्यतिरिक्तः । एवं व्यतिरेकनिर्देशेन निश्शेषग्रहणं कृतम् । तदेवाह कृत्स्न इति । दाष्टन्तिकविषयोऽबाह्य शब्दों धर्मिपरः ; अनन्तरशब्दो धर्मपरः श्रु. 20
; १५४ १-१-१. ज्ञानात्मनो ज्ञातृत्वे श्रुतयः ! ऽबाह्यः कृत्स्नः प्रज्ञानघन एव”, “विज्ञानघन एव”, “अत्रायं पुरुषः स्वयज्ज्योतिर्भवति”, “न (हि) विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते”, “अथ यो वेदेदं जिघ्राणीति स आत्मा”, “कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः “, " एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः”, विज्ञातारमरे केन विजानीयात”, “जानात्येवायं पुरुषः “, “न पइयो मृत्युं पश्यति न रोगं नोत दुःखताम्”, “स उत्तमः पुरुषःनोपजनं स्मरन्निदं शरीरम्”, “एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति”, “तस्माद्वा एतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः” इत्याद्याः । वक्ष्यति च, “ज्ञोऽत एव” इति । अतः स्वयम्प्रकाशोऽयमात्मा ज्ञातैव; न कृत्स्नशब्दस्तयोरेकदेशजडत्वशंकाव्युदासार्थः । अत्र सर्वत्रैकरूप्यमेव दृष्टान्तोपजीव्यम्, न त्वन्यत् । दृष्टान्तदाष्टन्तिकविषयत्राक्यद्वयेऽप्यनन्तरोऽबह्य इति युक्तम् । शरीरित्वावस्थायामपि ज्ञानात्मकत्वपरं वाक्यमुपादत्ते विज्ञानघन एवेति । घनशब्दोक्तनैरन्तर्यस्य जडांशमिश्रत्वं व्यावर्तयत्येवकारः । ज्ञानत्वं नाम स्वयंप्रकाशत्वमिति ज्ञापनार्थम् अत्रायमिति वाक्योपादानम् । धर्मधर्मिमात्रं ज्ञापयति न विज्ञातुरिति । ज्ञातृसंबन्धिज्ञानस्य नित्यत्वे कथिते ज्ञानमात्रस्य (?) 1नित्यत्वशङ्काव्युदासार्थं ज्ञातुरवावं दर्शयति अथय इति । एकवाक्येन ज्ञानगुणकत्व - स्वयंप्रकाशत्वयोः सहप्रतिपादकं वाक्यमाह कतम इति । ज्ञानगुणकत्वज्ञानस्वरूपत्वप्रतिपादकवाक्यमाह एष हीति । ज्ञातव्यस्य निष्कृष्टात्मस्वरूपस्य ज्ञातृत्वमाह विज्ञातार - मिति । अनेन ज्ञातृत्वं स्वाभाविकमिति फलितम् । न केवलं संसृतिदशायाम् ; मुक्तावपि ज्ञातृत्वं ज्ञापयति जानात्येवायमिति । अवधारणासंकोचान्मुक्तावपि ज्ञातृत्वसिद्धिः (ज्ञातृत्वं सिद्धम् ) । मुक्तौ ज्ञाननिषेधश्रुतीनां विषयविभागं दर्शयति न पश्य इति, स उत्तम इति च । पुरुषं प्राप्तस्य मुक्तस्य ज्ञातृत्वेऽनुवर्तमान एव देहेन्द्रियविगमं दर्शयति एवमिति । अन्तःकरणोत्तीर्णस्य ज्ञातृत्वमाह तस्माद्वा इति । अस्यार्थस्य सूत्रकाराभिप्रेतत्वमाह वक्ष्यतिचेति । पूर्वं सूत्रोपादानमहमर्थात्मत्वं सूत्रकाराभिमतमिति ज्ञापनार्थम् । अत्रेोपादानं ज्ञानगुणकत्वज्ञानस्वरूपत्ववादिनीनां श्रुतीनामविरोधः सूत्रकाराभिमत इति ज्ञापनार्थम् ॥ ज्ञानत्वात् ज्ञानं न ज्ञानान्तराश्रय इति चेत् — यदि व्याप्यनुरोधेनैवमुच्यते, तर्हि धर्मत्वेन स्वीकार्यम् । यदि श्रुतिबलात् स्वातन्त्र्येण स्वीक्रियते, तर्हि श्रुतिबलादेव ज्ञानाश्रयत्वमप्यङ्गीक्रियताम् । न च व्याप्तिबिरोधः ; धर्मभूतज्ञानत्त्रप्रयुक्तत्वात् ज्ञानानाश्रयत्वस्य । श्रुत्या ज्ञातुः स्वयंप्रकाशत्वसिद्धिं निगमयति अत इति ॥
ननु घटमहं जानामीत्यत्र ज्ञानस्य ज्ञातृ ( ज्ञातृस्व ?) संवन्धः प्रतीयत इत्यभ्युपेत्यम् । अन्यथा स्वज्ञानपरज्ञानविभागस्य दुर्ब्रहस्वप्रसङ्गात् । स्वसंबन्धितया प्रतीतं ज्ञानं सम्बन्धाप्रतीतौ कथं स्वज्ञानमिति व्यवह्रियते ? अतः स्वसम्बन्धः प्रतीयत एव । तत्प्रतीतिः न तावदहमर्थाद्भवति । ‘अहमर्थः प्रत्यक्त्वेन अनुकूलत्वेनैकत्वेन च स्त्रतो भाति ; न ह्यर्थान्तरमहमर्थे विषयीकर्तुमलम्’ इति भवतां प्रक्रिया । अतो धर्मभूतज्ञानेनैव सम्बन्धप्रतीनिः । सम्वन्धश्च सम्बन्धिभ्यां विना न प्रतीयत इति ज्ञातृज्ञानयोरपि सम्बन्धप्रकाशकञ्चानान्तरेवद्यत्वं स्यात् । ततः स्वतोऽवभासो ज्ञानान्तरेणावभास श्वेत्यवभासद्वयाभावात्, ज्ञानान्तरेणैव प्रकाश्यतया स्वप्रकाश्यत्वासिद्धेः, ज्ञातुश्च ज्ञानस्य च जडत्वं स्थात् । किंच ज्ञानान्तरेण संबन्ध-
- ज्ञानेत्यादौ पाठो निरीक्ष्यः । नित्यत्वेत्यत्र वा अनात्मत्वेति पाठः स्यात् । ज्ञानमात्रस्य - ज्ञानसामान्यस्य । धर्मभूतज्ञानस्येव धर्मिभूतज्ञानस्यापि अनात्मत्वेत्यर्थः । तप्स्वटीका द्रष्टव्या ।
१५५ प्रकाशमात्रम् । प्रकाशत्वादेव कस्यचिदेव भवेत् प्रकाशः दीपादिप्रकाशवत् । तस्मात् नात्मा भवितुमर्हति संवित् । संविदनुभूतिज्ञानादिशब्दाः संबन्धिशब्दा इति च शब्दार्थविदः । न हि लोकवेदयोः जाना [ती]त्यादेरकर्मकस्याकर्तृकस्य च प्रयोगो दृष्टचरः । यच्चोक्तम् – अजडत्वात् संविदेवाऽऽत्मेति-तत्रेदं प्रष्टव्यम् । प्रतीतिः अवश्यम्भाविनी चेत्, संबन्धविषयज्ञानेन सः ज्ञातृसंबन्धस्यापि ज्ञानान्तरेण प्रतीत्यवश्यम्भावात् सम्बन्धज्ञानपरम्पराप्रसङ्गः । अवश्यम्भावाभावे सर्वज्ञानेषु अहं जानामीति ज्ञानज्ञातृसम्बन्धप्रतीतिर्न स्यात् ॥ नैवम् ; स्वयम्प्रकाशप्रत्यक्षेणैत्र सम्बन्धप्रतीतेः 1 नियतविशेषणविशेष्यभावो हि सम्बन्धः 1 अहमर्थे विशेष्यतैकस्वभावं स्वात्मानं प्रकाशयति । धर्मभूतज्ञानं च विशेषणतैकस्वभावं स्वात्मानं प्रकाशयति । विशेषणविशेष्यभावस्य परस्परप्रतियोगिकत्वं च ज्ञातृज्ञानयोः सहावभासादेव प्रतीयते ॥
ननु सम्बन्धप्रतीतौ सम्बन्धिनोस्सहावभासश्च एकज्ञानगम्यतया विना नोपपद्यत इति ज्ञातृ. ज्ञानयोः ज्ञानान्तरवेद्यत्वं स्यात् । सुरभि पुष्पमित्यादौ भिन्नसामग्रीवेद्ययोरपि गन्धपुष्पयोः सम्बन्धप्रतीतिवेलायामेकज्ञानगम्यत्वं हि दृश्यत इति चेन्न तत्र सम्बन्धिनोः सम्बन्धेन सह एकज्ञानगम्यत्वस्य सहात्रभासप्रयुक्तत्वाभावात् । संबन्धिनोर्जडत्वप्रयुक्तं हि तत्रैकज्ञानगम्यत्वम् । अत्र स्वप्रकाशत्वात् स्वयमेव सहावभासमानयोर्ज्ञातृज्ञानयोर्विशेषणविशेष्यतैकस्वभावत्वरूप सम्बन्धग्रहो ज्ञानान्तरानपेक्ष उपपद्यते । अतः सम्बन्धाग्रह-स्वपरज्ञान विभागाभाव-सम्बन्धज्ञानपरम्पराप्रसङ्गाः दूरोत्सारिताः । एवं ज्ञातृस्वयम्प्रकाशखोपपादनेन चिन्मात्रव्यतिरिक्तत्वादिति जडत्व साधकहेतुः निरस्तो भवति । ज्ञानव्यतिरिक्तत्वाज्जडत्वं वदता किं स्वयंप्रकाशव्यतिरिक्तत्वं हेतुरुक्तः, उत विषयप्रकाशकान्यत्वम् । प्रथमे साध्याविशिष्टत्वम् । द्वितीये ब्रह्मण्यनैकान्त्यम् ; श्रुत्यादिबाधश्च । अथ साश्रयत्वे तर्कमाह प्रकाशत्वादेवेति । प्रकाशत्वात् -विषयेण साक्षात्संवध्य साक्षात्परम्परया चा ज्ञायमानत्वेनापरोक्षव्यवहारानुगुण्यहेतुत्वादित्यर्थः । अनेन स्वरूपभूतज्ञानेन्द्रियलिङ्गादिव्यावृत्तिः । हेत्वन्तरमध्याह संविदनुभूतीति । संबन्धिशब्दवं शब्दस्वभावायत्तमित्याशङ्कयाह न हि लोकवेदयोरिति । यत्रार्थस्वरूपस्यान्यथात्वं दृश्यते ; तत्र शब्दस्वभावायत्तत्वमाश्रयणीयम् । यथा दारा इत्यादिषु बहुत्वादः । यत्र नान्यथात्वम्, तत्रार्थस्वभावायत्तत्वमेव, यथा भार्येत्यादिष्वेकत्वादेः । तथा लोकवेदयोः सकर्मकर्तृकत्त्रदर्शनात् अर्थस्वभावायत्तमेत्र संबन्धिशब्दस्वमित्यभिप्रायः । यद्वा कर्मकर्तृसंबन्धित्वं व्युत्पत्तिनिमित्तमस्तु ; न प्रवृत्तिनिमित्तम् । तत्तु ज्ञप्ति (?) मात्रमित्यत्राह नहिलोकेति । प्रयोगाधीनं हि प्रवृत्तिनिमित्तान्तरकल्पनम् । प्रयोगश्च संबन्धिन्येवार्थ इति नार्थान्तरकल्पना स्यात् । स्वरूपभूतज्ञानवाचिशब्दानां सम्बन्धिशब्दस्वं त्वन्मतेऽप्यनुपपन्नमिति चेन्न स्वरूपगोचराणां स्वयंप्रकाशत्वे रूढानां ज्ञानादिशब्दानां अनुभूत्यादिशब्देभ्यः शब्दान्तरत्वात् । अतः (?) सम्बन्धिशब्दत्वोप (स्वव्यप ?) देशस्तु धर्मभूतज्ञाने सावकाशोऽस्मन्मते । विषयाश्रयसम्बन्धिज्ञानस्यैव विषयाश्रय सम्बन्धबाधेन निराश्रयत्वनिर्विषयत्वाभ्युपगमात् त्वन्मते सम्बन्धिशब्दत्वोपदेशो निरर्थक इति भावः । अथाजडत्वात् संविदारमत्वसमर्थनं दूषयितुमनुवदति । यच्चोक्तमिनि । अथ अजडत्वं किं स्वसत्ताप्रयुक्तप्रकाशत्वम्, उत अव्यभिचरितप्रकाशसत्ताकत्वम्, उतः स्वस्मै प्रकाशमानत्वम् उत स्त्रस्मै स्वयंप्रकाशत्वम् ?
१५६ १-१-१. अजडत्वस्यात्मत्वासाधकत्वम् अजडत्वमिति किमभिप्रेतम् ॥ स्वसत्ताप्रयुक्तप्रकाशत्वमिति चेत्-तथासति दीपादिषु अनैकान्त्यम् । संविदतिरिक्तप्रकाशधर्मानभ्युपगमेनासिद्धिर्विरोधश्च । अव्यभिचरितप्रकाशसत्ताकत्वमपि सुखादिषु व्यभिचारान्निरस्तम् । यद्युच्येत - सुखादिरव्यभिचरितप्रकाशोऽपि अन्यस्मै प्रकाशमानतया घटादिवत् जडत्वेन अनात्मा इति - ज्ञानं वा किं स्वस्मै प्रकाशते ? तदपि ह्यन्यस्यैवाहमर्थस्य ज्ञातुरवभासते, अहं सुखीतिवत्, जानाम्यहमिति । अतः स्वस्मै प्रकाशमानत्वरूपमजडत्वं संविदि असिद्धम् । तस्मात् स्वात्मानं प्रति स्वसत्तयैव सिध्यन् अजडोऽहमर्थ एवाऽऽत्मा । ज्ञानस्यापि प्रकाशता तत्संबन्धायत्ता । तत्कृतमेव हि ज्ञानस्य सुखादेखि स्वाश्रयं प्रति प्रकटत्वम्, इतरं प्रति अप्रकटत्वञ्च । अतो न ज्ञप्तिमात्रमात्मा, अपितु ज्ञातैवाहमर्थः । उत स्वयंप्रकाशत्वमिति पश्ञ्चधा विकल्पमभिप्रेत्याह अजडत्वमितिकिमभिप्रेतमिति । अहं जानामीति प्रत्यक्षबाधः सर्वसाधारणं दूषणम् । प्रथमं स्वसत्ताप्रयुक्तप्रकाशत्वपक्षं दूषयितुमाह स्वसत्तेति । स्वसत्ताप्रयुक्तः प्रकाशो यस्येति बहुव्रीहिः । वक्ष्यमाणासिद्धिदूषण । पयोगिभेदज्ञापनार्थं स्वसत्ताप्रयुक्तशब्दः । अनैकाग्व्यमाह तथासतीति । स्वपक्षे ज्ञातुरात्मत्वात् सपक्षभूते तस्मिन् त्रिपक्षेऽनात्मनि दीपे च वृत्या अनैकान्त्यं पचत्रयवृत्तित्वलक्षणमुक्तम् । परपक्षे अनियतत्वमेवानैकान्त्यम् ; सपक्षाभावात् । दूषणान्तरद्वयमाह संविदतिरिक्तेति । संवित् प्रयोजिका प्रकाशः प्रयोज्य इति तदतिरेकेणानभ्युपगमादसिद्धिः । अभ्युपगमे निर्विशेषत्यविरोधः । इमावसिद्धिविरोधौ विकल्पित सर्वशिरस्साधारणावनुसन्धेयौ । यद्वा विरोधः पक्षविपक्षयोरेव वर्तमानत्वम् ; पक्षभूतसंविदि विपक्षे दीपादौ च वृत्तेः । परमतमात्रपर्यालोचनया अयं विरोध उक्तः । अत्र स्वसत्ताप्रयुक्तप्रकाशत्वमित्यत्र प्रकाशशब्देन किं साक्षाद्वा परम्परया वा व्यवहारानुगुण्यं विवक्षितम्, उत परम्परयैव, उत साक्षादेवेति विकल्पोऽभिप्रेतः । प्रथमं शिरः स्वपरदर्शनपर्यालोचनयाऽभिहितयोरनैकान्त्यविरोधयोरन्यतरेण निरस्तं भवति । द्वितीये त्वसिद्धिः, परम्परयैव व्यवहारानुगुण्यस्य ज्ञप्तौ उभयवाद्यनभिमतत्वात् । तृतीये सत्ता (सन्मात्रा) तिरिक्तप्रकाशानभ्युपगमनिबन्धनासिद्धिः निर्विशेषत्यविरोधश्च स्यातामित्यभिप्रायः । द्वितीयं पक्षं प्रतिक्षिपति अव्यभिचरितेति । न व्यभिचरति प्रकाशो यस्य सत्तायां सोऽव्यभिचरितप्रकाशसत्ताकः । प्रयोज्यप्रयोजकत्वाभावेऽपि विद्यमानदशायां सर्वदा प्रकाशमानत्वमित्यर्थः । तस्यानात्मत्वेन संप्रतिपन्नेषु सुखदुःखादिषु व्यभिचार उक्तः । अथ तत्परिहारमुखेन स्वस्मै प्रकाशमानस्यपक्षमुपक्षिपति यद्युच्येतेति । परिहरति ज्ञानंवेति । कस्येत्राह तदपीति । परस्मै भासमानत्वमुपपादयति अहमिति । तस्मादेवंरूपाजडत्वमसिद्धमित्याइ अत इति । अथ चतुर्थं शिरो दूषयन् असिद्धिमाह तस्मादिति । स्वयंप्रकाशस्वपक्षेऽपि स्वयंप्रकाशत्वं नाम किं ज्ञानकर्मतामन्तरेण व्यवहारानुगुणत्वम् उत. ज्ञानान्तरनिरपेक्षप्रकाशत्वमित्यभिप्रेते विकल्पे प्रथमं शिरः तस्मादिति ग्रन्थेन दूषितम् । इतरात्मव्यावृत्त्यर्थं स्वात्मानमित्युक्तम् । स्वसत्तयैव सिध्यन्नित्यनेन स्वयंप्रकाशत्वमुक्तम् । स्वस्मै स्वयं मासमानस्य महमर्थस्याधिकम् 1 स्वस्मै स्वयंभासमानस्य स्वयंभासमानत्वमध्यस्तीत्यभिप्रायेण स्वात्मानं प्रति स्वसत्तयैवेत्युक्तम् । तेन, ज्ञानकर्मतामन्तरेण व्यवहारानुगुणत्वं ज्ञातर्यव्यस्तीति तत् व्यभिचरितम् – स्वपक्षे अनात्मनि ज्ञातर्यपि विपक्षभूने वृत्तेरिति दर्शितम् । ज्ञानान्तरनिरपेक्ष प्रकाशस्थं संविद्यसिद्धम् ; तस्याः स्वरूपभूतज्ञानाधीनत्वात् ; अहमर्थस्यैव तदित्यभिप्रायः सत्तयैवेत्यनेन सूचितः । तमेव विशृणोति ज्ञानस्यापीति । तत्सम्बन्धायत्तत्वमुपपादयति तत्कृतमेवहीति । ज्ञानस्फुरणस्य आश्रय सम्बन्धोऽपि सामग्रयर्न्तभूत इति भावः । अजडत्वात् संविदात्मत्वासिद्धिं निगमयति अत इति ।
१५७ अथ यदुक्तम् - अनुभूतिः परमार्थतो निर्विषया निराश्रया च सती भ्रान्त्या ज्ञातृतयाऽव भासते, रजततयेव शुक्तिः, निरधिष्ठानभ्रमानुपपत्तेः इति - तदयुक्तम् । तथासति अनुभवसामानाधिकरण्येनानुभविता-. ऽहमर्थः प्रतीयेत, अनुभूतिरहमिति, पुरोवस्थितभास्वरद्रव्याकारतया रजतादिरिव । अत्र तु पृथगवभासमानै - वेयमनुभूतिः अर्थान्तरमहमर्थं विशिनष्टि, दण्ड इव देवदत्तम् । तथा हि, अनुभवाम्यहमिति प्रतीतिः । तदेवमस्मदर्थमनुभूतिविशिष्टं प्रकाशयन् अनुभवाम्यहमिति प्रत्ययः, दण्डमात्रे दण्डी देवदत्त इति प्रत्ययवत् विशेषण भूतानुभूति मात्रावलम्बनः कथं प्रतिज्ञायेत ? यदप्युक्तम् - स्थूलोऽहमित्यादिदेहात्माभिमानवत एव ज्ञातृत्वप्रतिभासनात् ज्ञातृत्वमपि मिध्येतितदयुक्तम्, आत्मतयाऽभिमताया अनुभूतेरपि मिथ्यात्वं स्यात् ; तद्वत एव प्रतीतेः ॥ सकलेतरोपमर्दितत्त्वज्ञानाबाधितत्वेनानुभूतेनं मिथ्यात्वमिति चेत् — हन्तैवंसति तदबाधादेव ज्ञातृत्वमपि न मिथ्या । अथाहमर्थस्य भ्रान्तिसिद्धत्वं दूषयितुमनुवदति अथ यदुक्तमित्यादिना । संविदपि मिथ्या किं न स्यादित्यत्राह निरधिष्ठानेति । अनुभूतिव्यतिरिक्तापारमार्थ्यसिद्धवत्कारेणायं हेतुरुक्तः । दूषयति तदयुक्तमित्यादिना । अधिष्ठान सामानाधिकरण्येनाध्यस्तप्रतीतिं दृष्टान्तेनोपपादयति पुरोवस्थितेति । पक्षे तद्विपर्ययं दर्शयति अत्रत्विति । पृथगवभासमाना - व्यधिकरणतयाऽवभासमाना । तथा प्रतीतिं दर्शयति तथाहीति । ततः किमित्यत्राह तदेवमिति । तदेवम् उक्तप्रकारेण धर्मधर्मिभावप्रतीती । विशेषणतया प्रतिपन्ने तद्विशेषणविशिष्टस्याध्यासोऽनुपपन्न इत्यर्थः । तत्र न सम्बन्धमात्राध्यासः ; तथासति सम्बन्धिनो ज्ञातुः पारमार्थ्यप्रसङ्गात् । न च तथाऽभ्युपेतम् ॥
ननु विशेषणे विशिष्टाध्यासो दृश्यते ; यथा प्रभायां मन्यध्यास इति ॥ इदं चोद्यं पृथगवभासमानेत्यनेन परिहृतम् । न हि तथा वैयधिकरण्येन विशेषणीभूता प्रभा, किन्तु अयं मणिरिति मन्यध्यासाधिष्ठानभूता । प्रभा मणिसामानाधिकरण्येनैव हि भाति ॥
ननु अनुभव सामानाधिकरण्येन प्रतीतिप्रसञ्जनमयुक्तम् ; दिक्षु मालिन्यम्, नभसि राग इति वैयधिकरण्येनाप्यध्यासदर्शनात् ॥ पदद्वयप्रवृत्तिनिमित्तयोरेकाश्रयवृत्तित्वं हि सामानाधिकरण्यम् । इह दिक्त्वमालिन्ययोः नभस्त्वारुण्ययोश्च एकाश्रयवृत्तित्वात् अर्थतः सामानाधिकरण्यमस्ति । ‘वैयधिकरण्यं तु शब्दगतम् । दिशो मलिनाः, दिक्षु मालिन्यमित्यत्र कोऽर्थमेदः ? अध्यासेषु धम्क्यप्रतीतिरवर्जनीया । अतः सैवात्रापाद्यते अनुभूतिरहमिति प्रतीयतेति ॥
ननु अनुभूतिरहमिति प्रतीतिप्रसङ्गो दुर्वचः । अनुभूतित्वं ह्यधिष्ठानासाधारणाकारः । तदस्फुरणं भ्रमानुगुणमेव । न हि, शुक्ती रजतमिति प्रतीयत इति ॥ एवं तर्ह्यनुभूतेर्निर्विशेषतया रूपान्तरेण स्फुरणाभावात् अनुभूतितया स्फुरणे विरोधाच्च तदधिकरणाध्यासानुदयः । अविरोधेन कृत्स्नाध्यासे ग्रन्योक्तसामानाधिकरण्यप्रतीतिप्रसङ्गो दुर्वारः । एतदभिप्रायेण हि पुरोवस्थितद्रव्याकारतया रजतादिरिवेत्युक्तम् ॥
नन्वध्यासानुदयो दुर्वचः, विषयोपश्लिष्टा अनुभूतिः अहं जानामीत्यत्र ज्ञात्रध्यासे प्रतीयते । सा तु नाधिष्ठानम् । निर्विषया निराश्रयाऽनुभूतिरेवाधिष्ठानम् । तदप्रकाशादध्यासोदय इति ॥ उच्यते । तत्राप्रतिपन्नस्य अधिष्ठानत्वायोगाद्विषयाश्रय शून्य संविदो योग्यानुपलब्धिनिरस्तत्वात्, विषयप्रकाशकसंविद एव आत्मत्वाभ्युपगमेन त्वया स्वयम्प्रकाशत्व समर्थनाच्च सैवाधिष्ठानमिति तदवभासे, तस्याश्च शुक्तित्ववत् भ्रमविरोधित्वे अध्यासानुदय इति । नैवम् ; 1 देहात्माभिमानवतो ज्ञातृत्वप्रतिभासात् तन्मिथ्येत्युक्तमनूध दूषयति यदप्युक्तमित्यादिना । तदबाधादेवेति । ज्ञातृत्वस्याबाधितत्वं मुक्तावपि ज्ञातृत्वपरश्रुतिवाक्यात् । ज्ञातृत्वस्य विक्रियात्मकत्वं निराकर्तुं
१५८ १-१-१. परोक्तहेतुभिरेवान्तःकरणस्याज्ञातृत्वम् यदप्युक्तम् - अविक्रियस्याऽऽत्मनो ज्ञानक्रियाकर्तृत्वरूपं ज्ञातृत्वं न संभवति । अतो ज्ञातृत्वं विक्रियात्मकं जडं विकारास्पदाव्यक्तपरिणामाहङ्कारग्रन्थिस्थम् इति न ज्ञातृत्वमात्मनः; अपित्वन्तः करणरूपस्याहङ्कारस्य । कर्तृत्वादिर्हि रूपादिवत् दृश्यधर्मः । कर्तृत्वेऽहम्प्रत्ययगोचरत्वे चाऽऽत्मनोऽभ्युपगम्यमाने, देहस्येवानात्मत्वपराक्त्व जडवादि प्रसंगश्चेति - नैतदुपपद्यते ; देहस्येवाचेतनत्व - प्रकृतिपरिणामत्वदृश्यत्व - पराक्त्व - परार्थत्वादियोगात् अन्तःकरणरूपाहङ्कारस्य ; चेतनासाधारणस्वभावत्वाच्च ज्ञातृत्वस्य । एतदुक्तं भवतियथा देहादिः दृश्यत्वपराक्त्वादिहेतुभिः तत्प्रत्यनीकद्रष्टृत्व प्रत्यक्त्वा देर्विविच्यते, रूपाहङ्कारोऽपि तद्द्रव्यत्वादेव तैरेव हेतुभिः तस्माद्विविच्यते इति । 1 ; एवमन्तःकरण- तदनुवदति यदप्युक्तमविक्रियस्येति । ज्ञानस्य धात्वर्थतया क्रियाम् । तत्कर्तृत्वं च विकाररूपम् । अत एव जडं च । अविक्रियस्याजडस्याऽऽत्मनो न संभवति । विक्रियात्मकत्वाज्जडत्वाच्च तादृशाहङ्कारग्रन्थिस्थमित्यर्थः । सर्वाध्यासमूलत्वात् ग्रन्थित्वम् । अथ हेत्वन्तरेण च ज्ञातृत्वस्य अन्तःकरणधर्मत्वमुपपादयति कर्तृत्वादिरिति । दृश्यस्वादित्यर्थः । आत्मनो ज्ञातृत्वेऽनिष्टं प्रसञ्जयति कर्तृत्व इति । अत्र व्यतिरेक्यनुमानान्यभिप्रेतानीति पूर्वमेत्रोक्तम् । परिहरति नैतदिति । देहस्येत्यादिना अन्तःकरणस्य ज्ञातृत्वाभावोपपादनम् । आदिशब्दादन्तवत्वग्रहणम् । चेतनासाधारणेत्यादिना आत्मनो ज्ञातृत्वोपपादनम् । ज्ञातृत्वाभावः साध्योऽभिप्रेतः । अन्तःकरणं धर्मि । अचेतनत्वादयो हेतवः । देहस्येवेति सपक्षो दर्शितः । ज्ञातृत्वस्य चेतनासाधारणत्वकथनात् व्यतिरेकव्याप्तिश्च कथिता । एवं परोक्तव्यतिरेकिणां प्रत्यनुमानान्युक्तानि भवन्ति - अन्तःकरणं न ज्ञातृ अचेतनत्वात् प्रकृतिपरिणामत्वात् दृश्यत्वात् पराक्वात् परार्थत्वात् देहवदिति । नन्त्रचेतनत्वात् अज्ञातृत्वे साध्ये साध्याविशिष्टता ॥ नैवम् – अचेतनशब्देन अनात्मत्वस्य विवक्षितत्वात् । पुरुषार्थप्रति संबन्धित्वम्, देहं प्रति नियन्तृतया अन्तः प्रविष्टत्वं वा आत्मत्वम् तदभावोऽनात्मत्वम् । प्रकृतिपरिणामत्वं प्रकृतिकार्यत्वम् । दृश्यत्वं नियमेन ज्ञानान्तराधीनसिद्धित्वम् । पराक्त्वं परस्मै भासमानत्वम् । परार्थत्व परप्रयोजनैकफलत्वम् ; जीवोप करणत्वमित्यर्थः । आत्मनोज्ञातृत्ये साध्ये अमी हेतवो यथासंभवं तर्काः योजनीयाः - आत्मनो ज्ञातृत्वाभावे देहस्येवानात्मत्यप्रसङ्गः, परार्थत्वसङ्ग इति ।
ननु यथा घटदेहयोर चेतनवादिके तुल्येऽपि इन्द्रियाश्रयत्वादिकं देहासाधारणं भवति तथा देहान्तःकरणयोर चेतनत्वादि के तुल्येऽपि ज्ञातृत्वमन्तःकरणासाधारणधर्मः स्यात् । अत इन्द्रियाश्रयत्वाभावस्येव ज्ञातृत्वाभावस्याप्य चेतनत्वादिकमप्रयोजकम् । अचिद्विशेषत्वमेव प्रयोजकम् । तथाऽऽत्मनो ज्ञातृत्वाभावेऽपि प्रत्यक्त्वादिरुपपद्यतामित्युभयत्रापि विपक्षे बाधकाभावमाशङ्कय परिहरति एतदुक्तमिति । येन दृश्यत्वादिविरुद्धधर्मेण देहस्य द्रष्टृत्वाद्यनुपपत्तिः, तेनान्तःकरणस्यापि तद्द्द्रव्यत्वात् द्रष्टृ-वाद्यनुपपत्तिरित्यर्थः । ज्ञातृत्वाभावं प्रति अचेतनत्वादिकमप्रयोजकं चेत्, देहस्य ज्ञातृत्वप्रसङ्गः । नतच चार्वाकं प्रति देहमभेदस्वयानि दुरुपपादः । न च देहस्य देहत्वादज्ञातृत्वम्, घटादौ देहत्वाभावेऽपि ज्ञातृत्वाभावात् । अतः तत्राचित्वादिकस्य ज्ञातृत्वाभावप्रयोजकत्वमभ्युप गन्तव्यमिति कचिद् ज्ञातृत्वाभावप्रयोजकस्य तस्याचित्वादेः कचिदप्रयोजकत्वमयुक्तम् । अतोऽचित्वादिभिः देहस्येत्र अन्तःकरणस्य द्रष्टृत्वाद्यनुपपत्तिरित्यर्थः । प्रत्यक्त्वादेरिति आदिशब्दादजडत्वग्रहणम् । विविच्यते । प्रत्यक्त्वादिधर्मैस्संबन्धरहितोऽवगम्यत इत्यर्थः । तैरेव हेतुभिस्तस्माद्विविच्यत इति । पराक्त्वादिभिर्देद्दस्य ज्ञातृत्वाभावेङ्के पराक्त्रं व्याप्यं ज्ञातृत्वाभावो व्यापक इति सिद्ध्यति । ततश्च स्वाभावव्याप्तेषु पराक्षु निरवकाशं
१५९ अतो विरोधादेव न ज्ञातृत्वमहङ्कारस्य, दृशित्ववत् - यथा दृशित्वं तत्कर्मणोऽहङ्कारस्य नाभ्युपगम्यते, तथा ज्ञातृत्वमपि न तत्कर्मणोऽभ्युपगन्तव्यम् । न च ज्ञातृत्वं विक्रियात्मकम् । ज्ञातृत्वं हि ज्ञानगुणाश्रयत्वम् । ज्ञानञ्चास्य नित्यस्य स्वाभाविक- ज्ञातृत्वं यदि प्रत्यग्वस्तुन्यपि न स्यात्, तदा निराश्रयं प्रसजेदिति पूर्वोक्तव्याप्तिस्थापनाय विपक्षे बाधकस्तर्कोऽत्राप्यभिप्रेतः । तस्माद्विविच्यत इत्येतदुक्तमित्यन्वयः । अतोऽचे ननस्त्रजडत्वादिस्वभावविरोधान्नाहंकारस्य ज्ञातृत्वमित्याह अत इति । । न हि वयं द्रष्टृत्वाद्यनुपपत्या देहात्मविवेकं ब्रूमः । स तु परमतानुसारात् कृतः । वयं तु वशित्वानुपपत्येति शङ्कायाम् — द्रष्टृत्वाभावस्य अचेतनत्वादिप्रयोज्यत्रे मृषावाद्यसाधारणप्रतिबन्दी माह दृशित्ववदिति । तदेव विवृणोति यथेति । दृश्यत्वाद्यविशेषेऽपि देहस्य घटादिविलक्षणस्येन्द्रियाश्रयत्ववत् अन्तःकरणस्य दृशित्वमुपपद्यताम् ॥ अन्तःकरणस्यापि दृश्यत्वादिना देहस्येव दृशित्वं नोपपद्यत इति चेत्तथा दृश्यस्यान्तःकरणस्य दृश्यत्यादिनैव देहस्येव द्रष्टृत्वमपि नोपपद्यते । अतो दृशित्वाभाव इत्र द्रष्टृत्वाभावेष्यचेतनत्वादिकं प्रयोजकम् ; अन्वयव्यतिरेकयोस्तुल्यत्वात् उपाध्यन्तरादर्शनाच्चेति भावः । अहम्प्रत्ययगोचरत्वमनात्मत्वसाधकं देहस्येवेति यदुक्तम्, तदयुक्तम्; बाधिता हम्प्रत्ययगोचरत्वस्य पक्षे वृत्त्यभावात्, अबाधिताहम्प्रत्ययगोचरत्वस्य सपक्षे देहादौ अभावाच्च । यद्यहम्प्रत्ययगोचरत्वमात्रेणात्मनि अनात्मत्वादिप्रसङ्गः, तर्हि रजतप्रत्ययगोचरत्वमात्रेण भ्रान्तवत् [ अभ्रान्त ] सम्यग्रजतेऽप्यरजतत्वाङ्गुलीयकनिर्माणानर्हत्वप्रसङ्गः स्थादिति असङ्गतम् । श्रुतिभिः प्रत्यक्षेण च कालात्ययापदेशश्च । अनात्मत्वादिप्रसञ्जकं कर्तृत्वं किं प्रयत्नाधारत्वम् उत स्पन्दरूपक्रियाश्रयत्वम् उत धात्वर्थमात्राश्रयत्वम् । प्रथमे, व्याव्यभावः ; प्रयत्नाधारत्वानात्मत्वयोः कचित् सहदर्शनाभावात् । परमात्मन्यनात्मत्वादिप्रसङ्गश्चेत्, ‘कर्तारमीशं पुरुषम्’ इत्यादिना कालात्ययापदेशश्च ॥ जीवे चेत्, ‘साधुकारी साधुर्भवति’ ‘कर्ता शास्त्रार्थवस्त्रात्’, ‘यतः स्वकृतभुक् पुमान्’ इत्यादिभिः प्रत्यक्षेण च कालात्ययापदेशश्च । द्वितीये, परमात्मन्यसिद्धिः । जीवे तु उत्क्रान्त्यादिश्रुतिभिः कालात्ययापदेशः । तृतीये, भ्रमाश्रयतयास्वाभिमतात्मन्य नात्मत्वप्रसङ्गः ॥ भेददर्शनं तदाश्रयत्वं च अपारमार्थिकमिति चेत् — किं परमार्थभूतधात्वर्थाश्रयत्वमनात्मत्वसाधकम् उतापारमार्थभूतधात्वर्थाश्रयत्वम् ? प्रथमे घटादावपि परमार्थभूतधात्वर्थान्वयानभ्युपगमात् व्याप्त्यभावः । द्वितीये त्वदभिमतस्य भ्रमाश्रयस्याऽऽत्मनोऽप्यनात्मत्वप्रसङ्गः ! अथ विक्रियात्मकत्वं नेत्याह नचेति । तदुपपादयति ज्ञातृत्वं हीति । गुणा (क्रिया) श्रयत्वेऽपि तत् कादाचित्कं चेत् -क्रियाश्रयत्ववत् विक्रियात्मकं स्यादित्यत्राह ज्ञानंचास्येति । धर्मस्य स्वाभाविकत्वेऽपि धर्मी अनित्यश्चेत्, धर्मोऽप्यनित्यस्स्यात् । धर्मिनित्यत्वे धर्मः सोपाधिकश्चेत्, उपाधिविगमे धर्मो नश्यतीत्यनित्यः स्यात् । उभयव्यावृत्यर्थौ नित्य-स्वाभाविकशब्दौ । अवस्थाविशेषेण कादाचित्कत्वं तु प्रामाणिकत्वादिष्टम् । अनेन पदद्वयेन, ‘न हि विज्ञातुर्विज्ञ (तेर्विपरिलोपो विद्यते अविनाशित्वादात्मनः’ इति श्रुत्यर्थ उक्तो भवति । अस्याः श्रुतेरयमर्थः - ज्ञातृसंबन्धि विज्ञानं नित्यम् ; कुतः ? अविनाशित्वादात्मनः । विशिष्टस्य नित्यत्वेन विशेषण भूतज्ञानस्यापि नित्यत्वात् । यद्वा धर्मिनित्यत्वेन तत्स्वाभा-
१६० १-१-१. ज्ञातृत्वे सविक्रियत्वापत्तिशोधनम् । धर्मत्वेन नित्यम् । नित्यत्वञ्चाऽऽत्मनः, “नात्मा श्रुतेः” इत्यादिषु वक्ष्यति । “ज्ञोऽत एव” इत्यन्त्र ज्ञ इति व्यपदेशेन ज्ञानाश्रयत्वञ्च स्वाभाविकमिति वक्ष्यति । अस्य ज्ञानस्वरूपस्यैव, मणिप्रभृतीनां प्रभाश्रयत्वमिव ज्ञानाश्रयत्वमप्यविरुद्धमित्युक्तम् । स्वयमपरिच्छिन्नमेव ज्ञानं संकोच विकासार्हमित्युपं पादयिष्यामः । अतः क्षेत्रज्ञावस्थायां कर्मणा संकुचितस्वरूपं तत्तत्कर्मानुगुणतरतमभावेन (तारतम्येन ? ) वर्तते । तच्चेन्द्रियद्वारेण व्यवस्थितम् । तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्य उदद्यास्तमयव्यपदेशः प्रवर्तते । ज्ञानप्रसरे तु कर्तृत्वमस्त्येव । तच्च न स्वाभाविकम् ; अपितु कर्मकृत्म इत्यविक्रियस्वरूप एवात्मा । एवंरूपविक्रियात्मकं ज्ञातृत्वं ज्ञानस्वरूपस्याऽऽत्मन एवेति न कदाचिदपि जडस्याहङ्कारस्य ज्ञातृत्वसंभवः ॥ विक्रधर्मस्यापि नित्यत्वादिति । आत्मनो नित्यत्वे ज्ञानस्य तत्स्वाभाविकधर्मस्त्रे च प्रमाणं स्मारयन् पूर्वमेव श्रुतिवाक्योपादानात् सूत्रमुदाहरति नित्यत्वं चेति । सूत्रोदाहरणेन तद्विषयभूता श्रुतिरपि हार्थतो दर्शिता स्यात् । सूत्रं च पूर्वं ज्ञानगुणकत्व प्रदर्शनायेोपात्तम् ; इदानीं नित्यत्वज्ञापनायोपात्तम् । ज्ञोत एवेत्यत्र ज्ञ इति व्यपदेशस्य विवरणम्, ‘यावदात्ममावित्वाच्च न दोषः ….’ इति सूत्रम् । अतः स्वाभाविकत्व - सिद्धिरिति भावः । ज्ञानस्वरूपस्य ज्ञानाश्श्रयत्वं कथमित्यत्राह अस्येति । ज्ञानं स्वाभाविकनित्यधर्मश्चेत्, सर्वदा सर्वज्ञत्वप्रसङ्ग इत्यत्राह स्वयमिति । स्वयं स्वतः । ‘संपद्याविर्भावः ….’ इत्यादिसूत्रे उपपादयिष्याम इत्यर्थः । अनन्तरमेवेति वाऽर्थः । तदानीमपि कदाचित् सर्वज्ञत्वम्, मुक्तौ च कदाचिदू ज्ञानसंकोचः किं न स्यात् । यदि क्षेत्रज्ञावस्थाया सङ्कोचः, तर्हि सर्वेऽयज्ञाः स्युरित्यत्राह अतः क्षेत्रज्ञेति । अतः सङ्कोचविकासात्वात् । कर्मणेति सङ्कोच कोपाधिः । क्षेत्रज्ञावस्थायामिति । तदानीमेव सङ्कोच इत्यर्थः । सर्वेषामज्ञत्वप्रसक्तिश्च कर्मतारतम्यात् परिहृता । तारतम्यशब्देन, ‘तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञ संज्ञिता । सर्वभूतेषु भूपाल तारतम्येन वर्तते’ इति वचनं स्मारितं भवति । कर्मणेति पदेन तयेति पदं श्लोकस्थं व्याख्यातं भवति । तया कर्मरूपाविद्ययेत्यर्थः । ’ अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप ! सर्वगा ॥ संसारतापान खिलान वा मोत्यतिसन्ततान्’ इति हि प्रकृतम् । ज्ञानस्य नित्यत्वेन अनुत्पत्तिकत्वात् इन्द्रियनैरपेक्ष्यं स्यादित्यत्राह तच्चेति । यद्वा स्थावरेष्वपि ज्ञानत्रिकासः स्यादित्यत्राह तच्चेति । इन्द्रियद्वारकत्वं संकोचत्रिकासार्थमित्यर्थः । तर्ह्यःपत्ति-विनाश व्यपदेशो न स्यादित्यत्राह तमिममिति । प्रसरान्वयव्यतिरेकावपेक्ष्योदयास्तमयव्यपदेश इत्यर्थः । यद्वा प्रसृतांशः प्रसरः । तस्य प्रसरणसङ्कोचावुदयास्तमयावित्यर्थः । सङ्कोचंविकासाभ्युपगमे विक्रियात्मकत्वं स्यादित्यत्राह - ज्ञानप्रसरे त्विति । तादृशविक्रियात्मकत्वं प्रामाणिकत्वात् इष्टमित्यर्थः । अचेतनवत् परिणामो ह्यनभ्युपगत इत्येवकाराभिप्रायः । अनेन अविकारश्रुतीनां विषयो दर्शितः । मुखान्तरेणाप्यविकारश्रुतीनां निर्वाहं दर्शयति तच्चेति । स्वाभाविकविकारनिषेधपरा अधिकारश्रुतय इत्यर्थः । स्वाभाविक रूपं कथमित्यत्राह अविक्रियेति । स्वरूपं—स्वाभाविकरूपम् । अविकारित्ववाक्यानि उपाधिविमुक्त स्वाभाविकरूपपराणीत्यर्थः । प्रसरणकर्तृत्वमपि विकाररूपत्वात् अन्तःकरणस्यैवेत्यत्राह एवंरूपविक्रियात्मकामेति । स्वधर्मभूतज्ञानप्रसरणकर्तृत्वलक्षणविकारि त्वमेवं रूपशब्देन विवक्षितम् । ज्ञानस्वरूपस्य । ज्ञानमेव स्वाभाविको धर्मः यस्य स ज्ञानस्वरूपः । स्वधर्मभूतज्ञानप्रसर कर्तृत्वलक्षणविकारः तद्धर्मकस्याऽऽत्मन एव संभवति, न तु
/श्रुतप्रकाशिकोपेते श्रीमाध्ये १६१ अस्वरूपस्याप्यहंकारस्य चित्संनिधानेन तच्छायापत्त्या तत्संभव इति चेत्-केयं चिच्छायापत्तिः ? किमहंकारच्छायापत्तिः संविदः, उत संविच्छायापत्तिरहंकारस्य । न तावत् संविदः; संविदो ज्ञातृत्वा नभ्युपगमात् । नाप्यहङ्कारस्य ; उत्क्तरीत्या तथ्य जडस्य ज्ञातृत्वायोगात् । द्वयोरप्यचाक्षुषत्वाच्च । न चाक्षुषाणां छाया दृष्टा । अथाचि संपर्कात् अयःपिण्डौन्ण्यवत् चित्संपर्कात् ज्ञातृत्वोपलब्धिरिति ॥ नैतत् । संविदि वास्तव(वस्तुतो ज्ञात्वानभ्युपगमादेव न तत्संपर्कादहङ्कारे ज्ञातृत्वं तदुपलब्धिर्वा । यदप्युक्तम् -उभयत्र न वस्तुतो ज्ञातृत्वमस्ति ; ; जडस्वरूपत्वादतद्धर्मकस्याहङ्कारस्येत्यर्थः । एवं विक्रियात्मकत्वात् ज्ञातृत्वस्य आत्मधर्मत्वानुपपत्तिर्निरस्ता । अथ परोक्तान् ज्ञातृस्वनिर्वाहप्रकारान् निरस्यति । ज्ञातृत्वं चिच्छायापत्तिकृतम्, चित्संपर्क कृतम्, चिदभिव्यञ्जकत्वकृतमिति त्रयः पक्षाः । तत्र प्रथमं चिच्छायापत्तिपक्षमाशङ्कते जडेति । दूषयति केयमिति । केयं –दुर्निरूपेत्यर्थः । विकल्पयति किमिति । चिच्छायाशब्दयोः समासान्तर्गता विभक्तिः षष्ठी वा सप्तमी वेति भावः । 1 । अहङ्कारच्छायापत्तिः संविदः । अहङ्कारे संविद्वतज्ञातृत्वच्छायापत्तिरित्यर्थः । संविच्छायापत्तिरहङ्कास्येति । संविदि अहङ्कारगतज्ञातृत्वच्छायापत्तिरित्यर्थः । प्रथमं दूषयति नतावदिति । शिरोन्तरं व्युदस्यति नापीति । पूर्वमचेतनत्वप्रकृति परिणामत्वा दिभिरहङ्कारस्य ज्ञातृत्वव्युदासमभिप्रेत्याह उक्तरीत्येति दूषणान्तरमाह द्वयोरपीति । तद्विवृणोति नहीति । चित्संपर्क दूषयितुं शङ्कते अथेति । पूर्ववद्विकल्प्य दूषयति नैतदिति । इयं साधारणी प्रतिज्ञा । अहङ्कारे संवित्संपर्कात् ज्ञातृत्वं व्युदस्यति संविदीति । अहङ्कारसंपर्कात् संविदि ज्ञातृत्वं दूषयति अहङ्कारस्यत्विति । सुतरामिति । ज्ञानस्याजडत्वात् ज्ञानाश्रयत्वं स्वमते संभवति । अहङ्कारस्य जडत्वेन वस्तुतो ज्ञानाश्रयत्वस्य स्वपरपक्षयोरुभयोरप्यंसभवान्न तत्संपर्कात् संविदि ज्ञातृत्वमिति भावः । रुमागतकाष्ठादीनां लवणसंबन्धालवणत्वोत्पत्तिर्दृश्यते ; अयःपिण्डेऽग्निसंपर्कादुष्णत्वमुपलभ्यते । अतो ज्ञातृत्वं तदुपलब्धिर्वेति पृथगुक्तम् ॥
ननु पूर्वोक्तपक्षद्वये ज्ञातृत्वस्य छायापत्ति संपर्कों निरस्तौ ज्ञानच्छायापत्तिसंपर्कों कस्मान्न निरस्तौ ॥ वक्ष्यमाणाभिव्यक्ति पक्षान्तर्भावादिति ब्रूमः । ज्ञानस्याहङ्कारे छायापत्तिर्नाम दर्पणे मुखस्येव तदाधेयतयाभिव्यक्तता । संपर्कपक्षेऽप्यधिष्ठानतया संपर्कों ज्ञातृत्वप्रतीत्यनुपयुक्तः । अत आधेयतया संपर्कों वक्तव्यः । स च तत्स्थतयाभिव्यक्तावन्तर्गतः । अतस्तत्रा (द?)नुपन्यासः । किञ्च छायापत्तिः संविदोऽचाक्षुषत्वेनैव निरस्ता । संपर्कश्चोपलम्भानुगुण्येन वक्तव्यत्वात् अपृथसिद्धधर्मधर्मिभावेन वक्तव्यः । स च नोपपन्नः; अचेतनस्य चैतन्यस्य च तथाविधधर्मधर्मिभावायोगात् । दण्डदेवदत्तयोरिव ज्ञानज्ञात्रोः पृथगवस्थानादर्शनात् अपृथगवस्थितयोस्संपर्कश्च अनुपपन्न इत्यनुसन्धेयम् । अथाभिव्यक्तिपक्षमनुभाषितुं छायापत्ति संपर्क पक्षयोरभिज्यतिपक्षस्य चान्योन्यवैषम्यं दर्शयति उभयत्रेति । वस्तुत इति । छायापत्यादिना आपाद्यमानादभ्यासात्पूर्वमेव सिद्धत्वं विवक्षितम् ; न तु पारमार्थिकत्वम् । अलातचक्रादेरपि प्रतिबिम्बदर्शनात्, उष्णजलसंपर्कादनुष्णेऽप्यौष्ण्योपलम्भाच्च । एकत्र पूर्वसिद्धज्ञातृत्वाभ्यासादन्यत्र ज्ञातृत्वनिर्वाहः पूर्वस्मिन् अभिव्यक्तिपक्षे तु ज्ञातृत्वस्य पूर्वसिद्धिमनपेक्ष्य ज्ञानाध्यासात् ज्ञातृत्वनिर्वाह इति वैषम्यम् । पक्षद्वये ; श्रु० 21
१६२ १-१-१. छायापत्ति संपर्कपचयोरिव व्यञ्जकत्वस्य प्ययोगः अहङ्कारस्तु अनुभूतेरभिव्यञ्जकः स्वात्मस्थामेवानुभूतिमभिव्यनक्ति, भावर्शादिवत् इति । तदयुक्तम् ; आत्मनः स्वयज्योतिषो जडस्वरूपाहङ्काराभिव्यङ्गधत्वायोगात् । तदुक्तम्, " शान्ताङ्गार इवाऽऽदित्यमहङ्कारो जडात्मकः । स्वयञ्ज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् इति । स्वयम्प्रकाशानुभवाधीनसिद्ध्यो हि सर्वे पदार्थाः । तत्र तदायत्तप्रकाशोऽचित अहङ्कारः अनुदितानस्तमितस्वरूप प्रकाशमशेषार्थसिद्धिहेतुभूतमनुभवमभिव्यनक्तीति आत्मविदः परिहसन्ति । किञ्च अहङ्कारानुभवयोः स्वभावविरोधात् अनुभूतेर
ननुभूतित्वप्रसङ्गाच्च न व्यङ्क्तृव्यङ्ग्यभावः । यथोक्तम्- “व्यङ्क्तृव्यङ्ग्यत्वमन्योन्यं न च स्यात् प्रातिकूल्यतः । व्यङ्ग्यत्वेऽ
ननुभूतित्वमात्मनि स्यात् यथा घटे ॥” इति । न च रविकरनिकराणां स्वाभिव्यंग्यकरतलाभिव्यंग्यत्ववत् संविदभिव्यंग्याहङ्काराभिव्यंग्यत्वं संविदः साधीयः ; तत्रापि रविकरनिकराणां करतलाभिव्यंग्यत्वाभावात् । करतलप्रतिहतगतयो हि रश्मयो बहुलाः स्वयमेव स्फुटतरमुपलभ्यन्त इति तद्वाहुल्यमात्र हेतुत्वात् करतलस्य नाभिव्यञ्जकत्वम् । किश्वास्य संवित्स्वरूपस्याऽऽत्मनोऽहङ्कार ( रादि ) निर्वर्त्या अभिव्यक्तिः किंरूपा । न तावत् उत्पत्तिः, अभिव्यक्तिपक्षमाह अहङ्कारस्थिति । दूषयति तदयुक्तमिति । कुत इत्यपेक्षायामात्मनोऽभिव्यञ्जकापेक्षा च नास्ति, अहङ्कारस्याभिव्यञ्जकत्वशक्तिरपि नास्तीत्याह आत्मन इत्यादिना । स्वोक्तार्थस्य सांप्रदायिकत्वप्रदर्शनार्थं, दृष्टान्तेन तद्विशदीकरणार्थं चाऽऽत्मसिद्धिग्रन्थमाह तदुक्तमेति । शान्ताङ्गार इत्यादिकं श्लोकं विवृणोति स्वयमिति । स्वयंप्रकाशशब्देन अभिव्यञ्जकापेक्षाया अभाव उक्तः । अनुभवाधीनसिद्ध्य इत्यनेन अहङ्कारस्याभिव्यञ्जकत्वाभाव उक्तः । अचिदहङ्कार इत्यनेन चिन्मात्रातिरेकित्वात् तदायत्तप्रकाश इति परोक्तहेतुः सूचितः । अनुदितानस्तमितस्वरूपप्रकाशम् । कदाचिदप्रकाशं चेत्, तदा अभिव्यञ्जकापेक्षा स्यात् ; तदभावात् कदाचिदपि व्यञ्जकापेक्षा नास्तीत्यर्थः । अशेषार्थसिद्धिहेतुभूनम् । त्वया विषयप्रकाशकत्वेन हि वकाशत्वं समर्थितमिति भावः । परिहसन्तीति । ईदृशमनुभवमीदृशाहङ्कारोऽभिव्यनक्तीति त्वदीया एव त्वत्समीयस्था एवं हसन्तीति भावः ।
अहङ्कारानुभवयोरभिव्यञ्जकत्वाभिव्यङ्गत्वानभ्युपगमेन दूषणमुक्तम् । तयोरभिव्यञ्जकत्वमभिव्यङ्गत्वं चास्तु ; तत् परस्परं नोपपद्यत इत्याह किञ्चेति । स्वभावविरोधात् – अनुभवस्याशेषार्थसिद्धिहेतुत्वं तद्वयतिरिक्तत्वेनाहङ्कारस्यास्य तदधीनसिद्धित्वं च विरोधः 1 यथा पितापुत्रयोरन्यं प्रति पुत्रत्वे पितृत्वे च सत्यपि परस्परं पितृत्व पुत्रस्वव्यत्ययो नोपपद्यते, एवमन्यापेक्षया तयोर्व्यङ्क्तृव्यङ्गयभावसंनवेऽपि परस्परं नोपपद्यत इत्यर्थः । दूषणान्तरचाह अनुभूतेर
ननुभूतित्वप्रसङ्गाच्चेति । 1 अस्मिन्नर्थेऽप्यात्मसिद्धिग्रन्थं दर्शयति यथोक्तमिति । प्रातिकूल्यतः । पूर्वोक्त स्वभावविरोध शब्देन प्रातिकूल्य शब्दो व्याख्यातः । तद्वयङ्गयस्यैव तद्वयञ्जकत्वें परोक्तदृष्टान्तं दूषयिष्यन्नाह नचेति । दृष्टान्तस्य साध्यत्रिंकलरवमाह तत्रापीति । तत्र तथात्वस्यान्यथासिद्धिं दर्शयति करतलेति । न हि ब्रह्म प्रसरणस्वभावं द्रव्यम् । अतस्तद्बाहुल्यहेतु त्रमहङ्कारस्यानुपपन्नमित्यर्थः । तथा अहङ्कारेणास्याभिव्यक्तिं त्रि (त्रे)घां विकल्प्य दूषयति किश्चेत्यादिना किंरूपा - किंशब्दः क्षेपार्थः । दुर्निरूपेत्यर्थः । कुत इत्यपेक्षायां अभिव्यक्तिर्नाम किमुत्पत्तिः, उत प्रकाशनम्, उतानुभत्रसाधनानुग्रह इति त्रि(त्रेधा विकल्पमभिप्रेत्योत्पत्तिपक्षं दूषयति न तावदिति ।
स्वतरिसतयाऽनन्योत्पाद्यत्वाभ्युपगमात् । नापि तत्प्रकाशनम् ; तस्यानुभवान्तरा
ननुभाव्यत्वात् । १६३ तत एव न तदनुभवसाधनानुग्रहः । स हि द्विधा - ज्ञेयस्येन्द्रियसंबन्धहेतुत्वेन वा यथा जातिनिजमुखादिग्रहणे व्यक्तिदर्पणादीनां नयनादीन्द्रियसंबन्धहेतुत्वेन । बोद्धृगतकल्मषापनयनेन वा यथा परतत्त्वावबोधनसाधनस्य शास्त्रस्य शमदमादिना । यथोक्तम् -“करणानामभूमित्वात् न तत्संबन्धहेतुता…” इति । विनानुभूतेरनुभाव्यत्वाभ्युपगमेऽपि अहमर्थन न तदनुभव साधनानुग्रहः सुवचः । स ह्यनुभाव्यानुभवोत्पत्ति- अनुत्पन्नस्य घटादेरभिव्यक्त्यसंभवात् उत्पादकस्यापि दण्डचक्रादेः उत्पादनद्वाराऽभिव्यक्तिहेतुत्वात् उत्पत्तिरपि विकल्पशिरसि निवेशिता । किञ्च व्यङ्गयप्रकाशोत्पादनं व्यञ्जनम् । संविदः स्वयमेव प्रकाशरूपत्वात् तदुत्पत्तिरेव तत्प्रकाशोत्पत्तिरूपाभिव्यक्तिरिति विकल्पशिरस्युत्पत्तिनिवेशः । स्वतःसिद्धतयेति । तथा हि प्रागभावाभाव उक्तः । अनादित्वादिति वार्थः । अथ द्वितीयं व्युदस्यति नापीति । प्रकाशनं अनुभवविषयप्रकाशोत्पत्तिः । 1 अथ तृतीय प्रतिवक्ति तत इति । तत एव - प्रकाशानुपपत्तेरेव ॥
नन्वनन्तरग्रन्थोस्थानमनुपपन्नम् ; अनुग्राहकद्वैविध्यस्य तन्निरासानुपयोगित्वात् । उत्तरत्रात्मसिद्धिग्रन्थोदाहरणं चासङ्गनम् ; इन्द्रियासंबन्धवाचित्वेनानुग्रहद्वैविध्यानुपयोगात् ॥ अत्रोच्यते । पूर्वमनुप्राह्मजन्य प्रकाशविषयानुभूतिपर्यालोचनया तदनुभवसाधनानुग्रहो दूषितः । इदानीमनुप्रहप्रकारविशेषपर्यालोचनया दूषणमाह सहीति । द्विविधस्याप्यनुपपत्ति दर्शयितुं प्रथमं द्वैविध्यमाह ज्ञेयस्येति । शमदमादेः शास्त्रानुग्राहकत्वोक्तिः परमतेन । तद्धि उपासनानुग्राहकम् ॥
ननु स हि द्विधेति वक्तुमयुक्तम; अनुग्रहस्य कोटिद्वयेऽप्यनन्तर्भावात् । अनुमानादेः व्याप्तिग्रहादिरनुग्रहोऽप्यस्तीति ॥ उच्यते । करणानुग्रहः कर्त्रनुग्रहश्चेति कोटिद्वयमेव । व्याप्तिग्रहणमपि करणानुग्रहान्तर्भूतम् । यद्वा दृष्टमुखेन चानुग्रहः अदृष्टमुखेन चेति द्विधा । व्याप्तिग्रहणमपि दृष्टमुखेनानुग्रहः । तस्मादिन्द्रियसंबन्धहेतुत्वेनेत्येतत् करणानुग्रहस्य दृष्टमुखेनानुग्रहस्य चोपलक्षणम् । तत्राहङ्काराभिव्यङ्गयायाः संविदोऽनुमानविषयत्वासंभवात् इन्द्रियसंबन्धहेतुत्वेनत्युक्तम् । बोद्धृगतकल्मषापनयनेनेति कर्तुरनुग्रहस्यादृष्टमुखेनानुग्रहस्य चोपलक्षणमुक्तम् । आत्मसिद्धिमन्थेऽप्ययमेव भावः । एवं द्वैविध्यदर्शनेन द्विधाभूतोऽप्यनुग्रहोऽहङ्कारस्य न सुवच इत्यनुत्रङ्गेण योजना । कथमत्र द्विविधस्याप्यनुग्रहस्यानुपपत्तिरिति शङ्कायामात्मसिद्धिग्रन्थमाह यथोक्तमिति । करणानामभूमित्वात् न तत्संबन्धहेतुतेति हेतुत्वलक्षणानुग्रहः अनुपपन्न इति दर्शितः । बोदूधृगतकल्मषापनयनलक्षणानुग्रहानुपपत्तिर्न ग्रन्थस्था । अत्र केचिदाचार्या एवं व्याचक्षते - शमादेरनुग्राहकत्वं शास्त्रसिद्धम् ; न तथा अहङ्कारस्याप्यनुग्राहकत्वं शास्त्रसिद्धमिति स्फुटत्वान्न ग्रन्थे ऋण्ठोक्त्या निरास इति । पूर्वार्धोदाहरणेन श्लोकस्योत्तरार्धे बोद्धगत कल्मषापनयन लक्षणानुग्रहानुपपत्तिर्द्रष्टव्येत्याचार्याः । तदिदमुत्तरार्धं अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यत इति । एकस्यैव स्वप्रतियोगितया शोध्यत्वं शोधकत्वं चानुपपन्नमित्यर्थः । अयं तु भाष्याभिप्रायःअहमर्थस्य बोद्धगतकल्मषापनयने कर्तृत्वं किं स्वरूपेण उतादृष्टकिश्चिस्कारमुखेन । प्रथमे कर्मकर्तृविरोधः, एकस्यैव स्वापेक्षया शोध्यत्वशोधकत्वानुपपत्तेः । द्वितीये निष्प्रमाणकत्वम् । न ह्यन्तकरणस्यादृष्टवशादन्तःकरणशुद्धिरित्यत्र प्रमाणमस्तीति । पूर्वमिन्द्रियगोचरत्वानभ्युपगमेन दूषणमुक्तम्; अथानुभाव्यत्वाभ्युपगमेन दूषणमाह किश्चेति अनुग्रहस्वरूपं शिक्षयति सहीति । व्यक्तिदणादात्रनुग्रहप्रकारान्तरे दृष्टेऽपि कथं प्रतिबन्धनिरसन रूपानुग्रह 1 GC-0. Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham १६४
१-१-१. अहंकारस्यानुप्राहकत्वायोगः प्रतिबन्ध[क] निरसनेन भवेत् यथा रूपादिग्रहणोत्पत्तिनिरोधसंतमसनिरसनेन चक्षुषो दीपादिना । न चेह तथाविधं निरसनीयं संभाव्यते । न तावत् संविदात्मगतं तज्ज्ञानोत्पत्तिनिरोध किचिदप्यहङ्कारापनेयमस्ति । अस्ति ह्यज्ञानमिति चेत्-न; अज्ञानस्याहङ्कारापनोद्यत्वानभ्युपगमात् । ज्ञानमेव ज्ञानस्य निवर्तकम् । न च संविदाश्रयत्वमज्ञानस्य संभवति ; ज्ञानसमानाश्रयत्वात्, तत्समानविषयत्वाथ । ज्ञातृभावविषयभावविरहिते ज्ञानमात्रे साक्षिणि नाज्ञानं भवितुमर्हति । यथा ज्ञानाश्रयत्वप्रसक्तिशून्यत्वेन घटादेः नाज्ञानाश्रयत्वम्, तथा ज्ञानमात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वं स्यात् । संविदोऽज्ञानाश्रयत्वाभ्युपगमेऽपि आत्मतयाऽम्युपगतायाः तस्या ज्ञानविषयत्वाभावेन ज्ञानेन न एवं परिशेषितः ॥ उच्यते । जातिव्यक्त्योर्नियतधर्मधर्मिभावेन, व्यक्तिः जातेः व्यञ्जिका । न तथा अहङ्कारानुभवयोः नियतधर्मिधर्मभावोऽस्ति । स तु परेणैव निरस्तः । मूर्तद्रव्यभूतः चाक्षुषरश्मिप्रतिहतिहेतुः दर्पणो मूर्तद्रव्यभूतचाक्षुषरश्मि मुखेन संबन्धयति न तथा अहङ्कारो मूर्तद्रव्यं कस्यचित्प्रतिहतिहेतुरिति वक्ष्यमाणामिहानुग्रह प्रकारान्तरानुपपत्तिमभिप्रेत्य प्रतिबन्धनिरसन रूपानुग्रह एव परिशेषितः । ईदृशानुग्रहै दृष्टान्तमाह यथा रूपादीति । ततः किमित्यत्राह नचेहेति । तदुपपादयति न तावदिति । किं प्रागभावरूपमज्ञानम् किं वा भावरूपम् उतान्यनिरसनीयमुच्यत इति शिरस्त्रयमभिप्रेत्य तावच्छन्दः प्रयुक्तः । न तावदिति ग्रन्येन अन्यन्निरसीनीयं निरस्तम् । यद्वा अहङ्कारस्याज्ञाननिरास कत्वमज्ञानस्य संवित्संबन्धित्वञ्चोभयमनुपपन्नमित्यभिप्रेत्य प्रथममहङ्कारापनेयत्वमज्ञानस्य प्रतिक्षिपति न तावदिति । अहङ्कारापनेयमज्ञान मस्तीति शङ्कते अस्तिहीति । दूषयति नेति । अज्ञानशब्दो भावरूपस्य चाभावरूपस्य च साधारणः । दूषणमपि साधारणम् ; द्विविधस्याप्यज्ञानस्याहङ्कारापनोद्यत्वाभावात् । किं निवर्तकमित्यत्राह ज्ञानमेवहीति । प्रागभावस्यापि ज्ञानोत्पत्तिर्निवर्तिका । भावरूपस्यापि ज्ञाननिवर्त्यत्वं पराभ्युपेतम् । एवमज्ञानस्य संविदाश्रयत्वे सत्यप्यहङ्कारापनोद्यत्वायोगात् तन्निरसनरूपानुग्रहो न संभवतीत्युक्तम् ; अथाज्ञानस्य संविदाश्रयत्वं चानुपपन्नमित्याह नचेति । संविदाश्रयत्वम् । संवित्संबन्धित्वमित्यर्थः । आश्रयणं संबन्धः । संबन्धश्च कर्मत्वेनाश्रयत्वेन च इत्युभयविध संबन्धपरः आश्रयशब्दः । ’ आश्रयश्चेतसो ब्रह्म’ इत्यादिप्रयोगाश्चाश्रयशब्देन विषयस्याप्युपस्थापनं युक्तम् । संविदोऽज्ञानसंबन्धः किम् आश्रयतया किं विषयतया? उभयथापि संबन्धोऽनुपपन्न इत्यर्थः । कुत इत्यत्राह ज्ञानेति । ततः किमित्यत्राह ज्ञातृभावेति । साक्षिणि । द्रष्टुरेव साक्षित्वम् ; ज्ञप्तेस्तु साक्षित्वमपि व्याहृतं भवतीत्यभिप्रायः । भवितुमर्हतीति निर्देशेन आश्रयतया विषयतया वा संबन्धमात्रं विवक्षितम् । अनेन व्यतिरेकव्याप्तिर्दर्शिता भवति । संविदाश्रयत्वाभावे अन्वयव्याप्तिं दर्शयति यथेति । अज्ञानांश्रयत्वं [[हि] ज्ञानप्रागभावाश्रयत्वमनिर्वचनीयाज्ञानाश्रयत्वं वा । तत् घटादौ नास्तीत्यर्थः । ज्ञानाश्रयत्वप्रसक्तीति । ज्ञातुरप्यज्ञानाश्रयत्वं ज्ञानाश्रयत्वं च कालभेदादविरुद्धमिति भावः । ज्ञानात्यन्ताभावाश्रयत्वं हि घटादेः । ज्ञानं नाज्ञानाश्रयः ; न चाज्ञानविषयः । अज्ञानाश्रयत्वे तद्विषयत्वे चोपगम्यमाने ज्ञातृत्वज्ञेयत्वप्रसङ्ग इति प्रतिकूलतर्क उक्तो भवति । एवमज्ञानाश्रयत्वानभ्युपगमेन दूषणमुक्तम् । तदम्युपगमेन दूषणमाह संविद इति । अवच्छिन्नज्ञानस्यानुभाव्यत्वेऽङ्गीकृतेऽप्यनवच्छिन्नस्याऽऽत्मभूतस्य ज्ञानस्यानुभाव्यत्वानम्युपगमादित्यभिप्रायेणाह आत्मतयाभ्युपगताया इति । ज्ञानविषयस्यैवाज्ञाननिवृत्तिं
१६५ तद्राज्ञामनिवृतिः । ज्ञानं हि स्वविषय एवाज्ञानं निवर्तयति, यथा रज्ज्वादौ । अतो न केनापि कदाचित् संविदाश्रयमज्ञानमुच्छिद्येत । अस्य च सदसदनिर्वचनीयस्याज्ञानस्य स्वरूपमेव दुर्निरूपमि - त्युपरिष्टादुवक्ष्यते । ज्ञानप्रागभावरूपस्य चाज्ञानस्य ज्ञानोत्पत्तिविरोधित्वाभावेन न तन्निरसनेन तत्साधनानुग्रहः ॥ अतो न केनापि प्रकारेणाहङ्कारेणानुभूतेरभिव्यक्तिः । न च स्वाश्रयतयाऽभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः ; प्रदीपादिष्वदर्शनात् । यथावस्थितपदार्थप्रतीत्यनुगुणस्वाभाव्याच्च ज्ञानतत्साधनयोरनुग्राहकस्य च । तच स्वतः प्रामाण्यन्यायसिद्धम् । न च दर्पणादिर्मुखादेरभिव्यञ्जकः; अपितु चाक्षुषतेजःप्रतिफलन रूपदोषहेतुः । तद्दोषकृतश्च तन्त्रान्यथावभासः । अभिव्यञ्जकत्वालोकादिरेव । न चेह तथा अहङ्कारेण संविदि स्वप्रकाशायां तादृशदोषापादनं संभवति । व्यक्तेस्तु सदृष्टान्तमाह ज्ञानंहीति । यद्यविषयेऽप्यज्ञाननिवृत्तिः, तर्हि शुक्तिज्ञानेन सर्व(पं, भ्रमनिवृत्तिः स्यादित्यभिप्रायः ! एवं ज्ञाननिवर्त्याज्ञानाश्रयत्वे ज्ञानविषयत्वप्रसङ्ग इत्युक्तं भवति । आश्रयत्वाभ्युपगमेनोक्तदूषणं निगमयति अत इति । स्वया अहङ्कारापोषत्वेनोक्तमज्ञानं किं सदसदनिर्वचनीयम् उत ज्ञानप्रागभावरूपमिति विकल्पयाऽऽe अस्येति । द्वितीयं प्रतिवक्ति ज्ञानप्रागभावेति । विरोधिशब्देन प्रतिबन्धकत्वं विवक्षितम्, न सहानवस्थानमात्रम् । अभिव्यक्तेर्दुर्निरूपत्वं निगमयति अत इति । केनापि प्रकारेण । उत्पादकत्वेन वा प्रकाशकत्वेन वा तदनुभव साधनानुग्राहकत्वेन वेत्यर्थः । 9 अथ स्वात्मस्थतयाऽभिव्यक्ति दूषयति नचेति । व्यभिचारमाह प्रदीपादिष्विति । हेत्वन्तरश्चाद यथावस्थितेति । प्रतीतिः व्यवहारानुगुण्यम् ; तदनुगुणात् ज्ञानादीनां स्वभावादित्यर्थः । तदेवोपपादयति । तचेति । प्रामाण्याप्रामाण्यविषयाश्चत्वारः पक्षाः । प्रामाण्याप्रामाण्ये द्वे च परतः, द्वे च स्वतः, प्रामाण्यं परतः अन्यत् स्वतः, प्रामाण्यं स्वतः अन्यत् परत इति । प्रथममनुपपन्नभू, निःस्वभावत्वादिप्रसङ्गात् । प्रामाण्याप्रामाण्य अन्यत्र विद्येते चेत् — तत्संबन्धात् ज्ञानस्य तथात्वम्, तत्संबन्धाभावेऽनुभयत्वञ्च युक्तम् ; अनुष्णाशीतवत् । अन्यत्र तयोरविद्यमानत्वात् परतस्त्वमनुपपन्नम् । प्रामाण्यबुभुत्सापरम्परयाऽनवस्थाप्रसंगाच्च । द्वयोरपि स्वतस्त्वमनुपपन्नम् ; विरुद्धधर्मत्वेन व्याघातात् । न च व्यक्तिभेदादविरोधः; इयं प्रामाण्याश्रयव्यक्तिः, इयं नेति नियामकाभावात् । अप्रामाण्यस्यैव स्वतस्त्वमनुपपन्नम् ; प्रामाण्यस्यैव भूयस्त्वात् अन्यस्याभूयस्त्वाच्च । भूयसां स्वतस्त्वं अल्वीयस औ (सामी) पाधिकत्वं च हि युक्तम् । घटपटादिज्ञानेषु, शुक्तिरजतादिज्ञानानामिदमंशेष्वपि प्रामाण्यदर्शनात् तस्य भूयस्त्वम् । अतः स्वतः प्रामाण्यं परतोऽप्रामाण्यमिति । क्वचिदात्मस्थतयाभिव्यञ्जनमभ्युपेत्य व्यभिचार उक्तः । अथ कचिदपि तन्नास्तीत्याह नचेति । तर्हि मुखदर्शनाय दर्पणादिकं नोपादीयेतेत्यत्राह अपित्विति । प्रतिफलनस्य दोषत्वमन्यथाज्ञानहेतुत्वादित्याह तद्देोषेति । कस्तत्राभिव्यञ्जक इत्यत्राह अभिव्यञ्जकस्त्विति । अहङ्कारस्य मूर्तस्वच्छस्थू उद्रव्यत्वाभावात्, संविदो ज्ञेयत्वाभावादचाक्षुषत्वाच्च अहङ्कारेण संविदि अविषयभूतायां तदुग्राहकवस्तुप्रतिफलनदोषो न संभवतीत्याह नचेहेति । व्यक्तौ जातिप्रतीतिनियतधर्मधर्मिभावात् न तु व्यङ्गयत्वादित्याद व्यक्तेरिति । एतत् दर्पणव्यक्तिनिर्वाहृह्वयं हृदि निधाय पूर्व प्रतिबन्धनिरसनरूपानुमहो दूषितः । धर्मधर्मिभावेन ;
१६६ १-१-१. अर्थात्मत्वनिगमनम् जातिराकार इति तदाश्रयतया प्रतीतिः; न तु व्यक्तिव्यंभ्यत्वात् । अतोऽन्तःकरण मूताहङ्कारस्थतया चिदुपट धैर्वस्तुतो दोषतो वा न किञ्चिदिह कारणमिति नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धिर्वा । तस्मात् स्वत एव हातभा सिद्ध्यन् अहमर्थ एव प्रत्यगात्मा । न ज्ञप्तिमात्रम् । अहम्भावविगमे तु ज्ञप्तेरपि न प्रत्यक्त्वसिद्धिरित्युक्तम् । तमोगुणाभिभवात् परागर्थानुभवाभावाच्चाहमर्थस्य विविक्तस्फुट प्रतिभासाभावेऽपि आप्रबोधात् अहमित्येकाकारेणाऽऽत्मनः स्फुरणात सुषुप्तावपि नाहम्भाव विगमः । भवदभिमताया अनुभूतेरपि तथैव प्रथेति वस्तुतः तारस्थ्येनेोपलब्धिर्व्यक्तौ दर्पणे तु प्रतिफलनरूप दोषात् । एवं परपक्षे न संभवतीत्याह अत इति । वस्तुतः कारणं धर्मधर्मिभावः ; दोषस्तु तात्स्थ्येनोपलब्धिकारणं मूर्तस्वच्छस्थूलद्रव्यत्वम् । उभयमध्यहङ्कारे नास्तीत्यर्थः । वस्तुतः कारणाभावान्न ज्ञातृत्वं विद्यते, दोषरूपकारणाभावान्नोपलभ्यते चेत्यभिप्रायेणाह्न नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धेिर्वेति । ज्ञातुरात्मत्वं निगमयति तस्मादिति । ज्ञप्तेरात्मत्त्रमयुक्तम्, अर्हत्वाभाषे प्रत्यक्त्वायोगादित्याह अहम्भाव ( न ? ) विगम इति । अहमिति व्यवहारानुगुणमासनविरहे स्वस्मै भासमानत्वं न स्यात् । अतः प्रत्यक्त्वमप्यहमर्थस्यैवाऽऽत्मत्व साधकमित्यर्थः । अथ सुषुप्तावहमर्थस्फुरणमस्तीति साधयितुम् 1 ’ वेदान्तावलम्बिभिः सर्वैः स्वयं ज्योतिष्टश्रुत्यनुसारात् सुषुप्तावात्मस्फुरणमभ्युपेत्यम् । तत्र, ‘नाह खल्वयमेवं संप्रत्यात्मानं जानाति अयमहमस्मीति’ इति श्रुत्या, ‘मामप्यहं न ज्ञातवान्’ इति परामर्शाच्च नाहमर्थानुभवः । अनेोऽनुभूतिस्फुरणमेत्र तदानीम्’ इति शङ्कायामहमर्थस्याविशदस्फुरणमस्तीति सोपपत्तिकं प्रतिजानीते तम इत्यादिना । चस्त्वर्थः शङ्कानिवृत्तौ । तमोगुणाभिभवहेतुकात् परागर्थानुभवाभावात् स्फुटावभासामात्रः । विविक्त प्रतिभासः~~~~व्यावृत्तप्रतिभासः । अनेकविशेषणविशिष्टावभासः स्फुटावभासः । व्यावर्तकब्राह्मणत्वादिबाह्यधर्मविशिष्टत्वेन बुद्धिसुखाद्यान्तरधर्मविशिष्टत्वेन च प्रतिभासाभावात् सकलेतरत्र्यावृत्ततया स्फुटनया च प्रतिभासाभावः । केनाकारेण स्फुरतीत्यत्राह अहमित्येकाकारेण स्फुरणादिति । अहमिति न शब्दानुकारः; अपित्वेतद्वाच्यार्थानुकारः । प्रत्यक्त्वाकारेण स्फुरणादित्यर्थः । एकशब्देन अहम्भावाविगमो विवक्षितः । एकाकारेण — सर्वात्मसाधारणाकारेणेत्यर्थः । प्रत्यकुत्यादिको हि सर्वात्मसाधारणः सुखदुःखादयो देवत्वादयश्च न हि सर्वात्मसाधारणाः । सुषुप्तौ भासमान आत्मन्यहं भावः साध्यः ; तथास्फुरणं हेतुः । विशदावभासाभावादहमर्थस्फुरणं नास्तीत्यत्राह भवदभिमताया अनुभूतेरपीति । न केवलमाहमर्थस्फुरण एव अवैशद्यदोषः ; अनुभूतिस्फुरणेऽपि स त्वया वाच्यः [स तुल्यः ] । अतो विशदावभासाभावात् नास्तित्वं चेत्, इत्यात्मनोऽपि तदानीं स्फुरणं न स्यात् । “ज्ञातृज्ञेयोपश्लेत्रविरहात् स्फुटानवभासः” इति हि तदभ्युपगम इत्यभिप्रायः । मृषावादिभिर्वाद्यन्तरैरपि जागरितावस्थायांमंत्र अविशदावभासो निर्विकल्पकेऽङ्गीकृतः । ते यदि विशदावभासामाबादहमर्थास्फुरणं ब्रूयुः, तत्रापि — निर्विकल्प के पृथक्पृथग्वस्तुमात्राव मासाभ्युपगमो नोपपद्यते । अविशदवस्तुमात्रावभासः परैरप्रामाणिको निर्विकल्प के स्वीकृतः अत्र तु ‘अत्रायें पुरुषःस्वयंज्योतिर्भवति’ इत्यादिश्रुत्यनुसारादविशदावभासः यद्वा
1 1 साधयितुमित्यस्य प्रतिजानीते इत्यत्रान्वयः । वेदान्तेत्यादिः शंकाकारः । यद्यप्यात्मस्फुरणमभ्युपेत्यम् - अथाप्यनुभूतिस्फुरणमेव तदेति सैव स्यादात्मेति शंकार्थः । 2. स्वप्नविषयकस्यास्य (बृ. 6.3.14) सुषुप्तिविषयकतयोदाहरणं सर्वेष्टम् । सुपुप्तिविषयमेव अहमे वेदं सर्वोरमीति (बृ.6.320) वाक्यमादिपदप्राह्मम् ।
प्रकाशिक श्रीमाये १६० वक्तव्यम् । न हि सुषुप्तोत्थितः कश्चित् अहम्भाववियुक्तार्थान्तर प्रत्यनीकाकारा ज्ञप्तिरहमज्ञानसाक्षितयाऽवतिष्ठे’ इत्येवंविधां स्वापसमकालामनुभूतिं परामृशति । एवं हि सुप्तोत्थितस्य परामर्शः, सुखमहमस्वाप्सामिति । अनेनैव (अनेन) प्रत्यवमर्शेन तदानीमप्यहमर्थस्यैवाऽऽत्मनः सुखित्वं ज्ञातृत्व ज्ञायते । प्रामाणिकः स्वीकृत इति भिदा । अतः सुषुप्तावात्मस्फुरणाभ्युपगमे अविशदावभासाभ्युपगमे च तुल्येऽपि मृषावादिमतादपि स्वपक्षे प्रमाणानुगुण्यं विवक्षुः परपक्षे प्रमाणा
ननुगुणत्वं दर्शयति नहीति । अहम्भाववियुक्तअर्थान्तरप्रत्यनीकाकारा - ज्ञातृज्ञेयादिसमस्त विशेषरहितेत्यर्थः । प्रत्यक्त्वसिद्ध्यर्थं ज्ञप्तिरद्दमिति अत्राहंशब्दोपादानम् । स्वपक्षे परामर्शानुगुण्यमाह एवंहीति । अयं परामर्शः सुषुप्तिकाले सुखरूपतयाऽनुभूतात्मगोचरः । अतीतकालसंबन्ध-स्वापौ तु पूर्वकालानु भूतार्थप्रत्यभिज्ञानयोग्यानुपलब्धिभ्यामनुमेयौ । स्वतोऽनुकूलतयाऽवभासमानस्याहमर्थस्याऽऽनुमानिककालस्वापवैशिष्ट्य गोचरप्रत्यभिज्ञाविशेषोऽयं परामर्शः सुखमहमस्वाप्तमिति । एवं स्त्रपरमतयोः परामर्शानुगुण्य-तदभावरूपवैषम्यमुक्तम् । श्रुतिस्वारस्यं चास्मन्मते ; ‘अत्रायं पुरुषः स्वयंज्योतिः’ इति पुरुषशब्दश्रवणात् । पुरुषशब्दो न संविन्मात्रपरः । ‘एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा विज्ञानात्मा पुरुषः’ इति ज्ञातुरेव पुरुषत्व श्रवणात् ; लोके ज्ञातरि पुरुषशब्द प्रसिद्धेश्च । प्रत्यक्वसिद्धिश्चास्मन्नत एवेति वक्ष्यते । उक्तपरामर्शफलितमर्थमाद अनेनेति । 1 सुखमहमस्वाप्तमिति परामर्शे सुखमित्यनेन तदानीमनुकूलतया मान ( समानत्व) मनुसंहितं भवति । अहमित्यनेन स्वस्मैभासमानत्वरूप प्रत्यक्त्वं चानुसंहितं भवति । यथा मन्दमगच्छम, मधुरमगायमिति परामर्शेन पूर्वं गमनगानाभ्यां सह तदानीन्तनं मान्यं माधुर्यं चानुसंहितं भवति, तद्वदित्यर्थः । स्वस्मै स्वयमनुकूलमित्यानुकूल्य प्रतियोगित्वाभिप्रायेण सुखित्वमित्युक्तम्ः स्वस्मै भासत इति भासनप्रति संबन्धित्वरूपप्रत्यक्त्वाभिप्रायेण ज्ञातृत्वमित्युक्तम् ; न तु धर्मभूतज्ञानस्फुरणात् । तत्तु, “विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव ; नतु सर्वेषां सर्वदा तथैव” इति भाष्यस्वारस्यविरुद्धम् । “पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् " इति सूत्रस्वारस्यविरुद्धश्च । अस्मरणनियमाद्युपपत्तिविरुद्धश्च । संसारदशायां मनोव्यापारविरदेऽपि ज्ञानस्यात्मविषयत्वम्, “तच्चेन्द्रियद्वारेण व्यवस्थितम् " इति भाष्यस्वारस्यविरुद्धं च । अन्यथैषां सूत्रभाष्यवचसा संकोचःस्यात् । स च सङ्कोचकाभावादनुपपन्नः । तस्मात् तदानीमात्मा प्रत्यक्त्वेनानुकूलस्येनानुसंहित इति परामर्शफलितार्थः ॥ सुखमहमस्वा समिति सुखस्य स्वापक्रियाविशेषणत्वं प्रतीयमाने कथमात्मविशेषणत्वमुच्यत इति चेत् -नैवम् । क्रियायाः सुखाश्रयत्वायोगेन पुरुषद्वारा क्रियाविशेषणत्वस्य युक्तत्वादिति । आत्मनस्तदानीं ‘नकिश्चिदवेदिषम् ’ इत्यज्ञान साक्षित्वेन स्थिति वदता अज्ञानाश्रय भूताहमर्थानुभवोऽभ्युपगन्तव्यः ; यथा प्रातश्चत्वरे गनो नासीदिति परामर्शे पूर्व गजाभावाश्रयभूतं चन्यरमनुसंहितं भवति, तद्वत् । अस्वाप्समिति परामर्शेन मन्दमगच्छमित्यत्र गमनवत् स्वापोऽपि तदाऽनुसंहितरस्यादिति चेन्न; यथा प्रातश्चवरे गजो नासीदित्यत्र पूर्वं गजाभावा
ननुसन्धानेऽप्येवं परामर्शोपपत्तिः, तद्वत् सकलशाननिवृत्तिरूपखापस्य तदानीम
ननुसंहितत्वेप्येवं परामर्शोपपत्तेः । तत्र हि प्रातश्चत्वरमेवानुं भूतम्, न गजाभावः ; प्रतियोगिभूतगजः स्मरणात् । पश्चात्, ‘गजः किं स्थितः’ इति पृष्टेन योग्यार्थी
ननुस्मरणलिङ्गेन अभावोऽनुमीयते । तद्वत् सकलज्ञाननिवृत्तिरूप-
- अवतिष्ठे इति तत्त्वटीकानुसारी पाठः । अवातिष्ठ इति वा ।
૬૮ १-१-१. सुप्तौ वाइमवामस्थितिः न च वाच्यम—यथेदानीं सुख भवति तथा सानीमत्वारसमित्येवा प्रतिपत्तिरिति-जसष्ट्रपत्वात् प्रतिपत्तेः । न चाहमर्थस्याऽऽत्मनोऽस्थिरत्वेन तदानीमहमर्थस्य सुखित्यानुसंधानानुपपतिः ; यतः सुषुप्तिदशायाः प्रागनुभूतं वस्तु सुप्तोत्थितः, मयेदं कृतम, मयेदमनुभूतम्, अहमेतद (बम) वोचमिति परामृशति ॥ एतावन्तं कालं न किञ्चिदहमज्ञासिषमिति च परामृशतीति चेत्-ततः किम् ॥ न किञ्चिदिति कृत्नप्रतिषेध इति चेत्-न; नाहमवेदिषमिति वेदितुरहसर्थस्यैवानुवृत्तेः । वेद्यनिषयो हि स प्रतिषेधः । न किञ्चिदिति निषेधस्य कृत्स्नविषयत्वे भवदभिमतानुभूतिरपि प्रतिषिद्धा स्यात् । सुषुप्तिसमये त्वनुसन्धीयमानमहसर्थ - मात्मानं ज्ञातारम् अहमिति परामृश्य, न किचिदवेदिषमिति वेदने तस्य प्रतिविध्यमाने, तस्मिन् काले निषिद्धधमानाया विरोः सिद्धिम् अनुवर्तमानस्य ज्ञातुरहसर्थस्य चासिद्धिमनेनैव, ‘न किचिदहमवेदिषम्’ इति परामर्शेन साधयंस्तमिममर्थ देवानामेव साधयतु । 2 स्वापोऽपि योग्या
ननुस्मरण लिङ्गेनानुमीयते ॥
ननु सुखमहमस्वाप्तमिति परामर्शस्वरूपे सति स्वापादेस्तदानीम
ननुभवः सुखित्वादेरनुभवश्च कथमुच्यते! सर्वमप्यनुभूतं स्यात् ; न वा स्यात् ॥ नैतत् ॥ सुखमहमस्वाप्तमित्यत्र यस्मिन्नंशे प्रतीतिस्वारस्यापवादकमस्ति तद्विषयप्रतिपतिस्वारस्यभङ्गे ऽप्यनपोदितांशविषयप्रतिपत्तिस्वारस्यभङ्गायोगात् । तत्र - स्त्रापदशायां योऽर्थो नानुभवितुं शक्यः, तद्विषयप्रतिपत्तिस्वारस्य भज्यते । यस्तु तदानीमनुभव योग्यः तद्विषयप्रतिपत्तिस्वारस्यं तिष्ठत्येव 1 बाह्यान्तः (न्तर ?) करणजन्य समस्तज्ञानाभावरूपत्वात् स्वापः तदाऽनुन्धातुं न शक्यते । अनुसन्धानमस्तीति चेत् — स्वाप एव न स्यात् ; ऐन्द्रियकसमस्तज्ञाननिवृत्यभावात् । नैवं सुखादेः प्रतिपत्यनुपपत्तिरिति यथोक्त एवार्थः ।
अथास्य परामर्शस्य परोक्तान्ययासिद्धिमनूय परिहरति न चेत्यादिना । अतद्रूपत्वादिति । एवमर्थः किं प्रतिपत्तिस्वारस्यात् उत्तानुपपरयाऽभ्युपगम्यत इति विकल्प्य अतद्रूपत्वात्प्रतिपत्तेरिति प्रतिपत्तिस्वारस्यं परिहृतम् ; यथा मन्दमगच्छम् मधुरमगायमिति परामर्शवचनस्य । न हि तत्र यथेदानीं मान्यं माधुर्यं च भवति तथाऽगच्छमगायमित्यर्थ उपपद्यते । अपि तु गतिगानसमकालत्वमेव मान्यमाधुर्ययोरुपपन्नम् । तद्वत् प्रत्यक्त्वसुखित्वे अपि स्वापसमकालीने इत्यर्थः । अथानुपपति परिहरति नचेत्यादिना । अनुपपत्तिश्चाऽऽत्मनः अस्थिरत्वमनुभवाभावो वा । तत्र परामर्शेन स्थिरत्वमाह यत इति । मयेदं कृतमित्यादयो मानसवाचिककायिक त्रिविधव्यापारविषयपरामर्शपराः । अथाहमर्था
ननुभव साधक निषेध सामान्यविषयं परामर्श (र्शविशेष) शङ्कते एतावन्तमिति । अहमर्थस्य निषेधविषयत्वाभावभिप्रायेणाऽऽह ततः किमिति । परविवक्षितं शङ्कते नकिञ्चिदिति । परिहरति नेति । वेद्यविषयःवेद्यप्रतिभासविषयः । कृत्स्नविषयत्वेऽनिष्टमाह न किञ्चिदिति । नानुभूतिनिषेधः, तस्या अनुवृत्तेरिव्याशङ्कयाह सुषुप्तिसमये त्विति । भवत्पक्षस्य विपरीतोऽयं परामर्श इत्यर्थः । यथा प्रातश्चत्वरे गजानुभ पृष्ठेन पश्चात् योग्या
ननुस्मरणलिङ्गेन चत्वरे गजाभाषं वदता पुरुषेण पूर्वकालीनच स्वरानुभवेन बिना गजाभावो न वक्तुं शक्यते - तथा अज्ञानाश्रयमहमर्थं वदता स्वापवेलायामहपर्यानुभवोऽभ्युपगन्तव्यः । अथाध्यहवर्थनिवृत्ति - ज्ञानानुवृत्तिकथनं चत्वरनिवृत्तिगजात्रस्थान वचन तुल्यमिति भावः । देवानामेव साधयतु । अर्चारूपा हि देवाः । प्रतिवचनम कुर्वनामित्यर्थः । क्षमावतामिति वा, प्रतिवाद्यसन्निधाविति वा, उल्लोकमुक्तमिति वाऽर्थः ॥
१६९ मामप्यहं न ज्ञातवानित्यह्मर्थस्यापि तदानीम
ननुसन्धानं प्रतीयत इति चेन – स्वानुभवस्ववचनयोर्विरोधमपि न जानन्ति भवन्तः । अहं मां न ज्ञातवानिति ह्यनुभववचने ॥ मामिति किं निषिद्धयत इति चेत्-साधु पृष्टं भवता । तदुच्यते । अहमर्थस्य ज्ञातुरनुवृत्तेर्न स्वरूपं निषिध्यते ; अपि तु प्रवोधसमयेऽनुसन्धीयमान ( नाऽ ? ) स्याहमर्थस्य वर्णाश्रमादिविशिष्टता । अहं मां न ज्ञातवानित्युक्ते विषयो विवेचनीयः । जागरितावस्थानुसंहित जात्यादिविशिष्टोऽस्मदर्थो मामित्यंशस्य विषयः । स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानश्चाहमर्थोऽहमित्यंशस्य विषयः । अत्र सुप्तोऽहम, ईदृशोऽहमिति च मामपि न ज्ञातवानहमित्येव खल्वनुभवप्रकारः ॥ किञ्च - सुषुप्तावात्मा अज्ञान साक्षित्वेनाऽऽस्ते इति हि भवदीया प्रक्रिया । साक्षित्वञ्च साक्षाज्ज्ञातृत्वमेव । न जानतः साक्षित्वम् । ज्ञातैव हि लोकवेदयोः साक्षीति व्यपदिश्यते; न ज्ञानमात्रम् । स्मरति च भगवान् पाणिनिः, “साक्षाद्रष्टुरि संज्ञायाम्” इति साक्षाज्ज्ञातर्येव साक्षिशब्दम । स चायं साक्षी जानामीति प्रतीयमानोऽस्मदर्थ एवेति कुतस्तदानीमहमर्थो न प्रतीयेत । आत्मने स्वयमवभासमानोऽहमित्येवावभासत इति स्वापाद्यवस्थास्वपि आत्मा प्रकाशमानः अहमित्येवाव भासत इति सिद्धम् ॥ अथ निषेधविशेषविषयं परामर्शमाह मामपीति । परिहरति स्वानुभवेति । स्वानुभववचनयोर्नान्योन्यं विरोधः ; किंतूभयोरप्यहमर्थानुवृत्तिनिषेधशब्देन विरोध इत्यर्थः अनुभवैकदेश योर्वचनैकदेश ये श्व मिथो विरोध इति वाऽर्थः । विरोधमेव । विरोधमेव दर्शयति अहमिति 1 अहं न ज्ञातवानित्यत्र अज्ञानसाचित्वेन अहमर्थानुवृत्तिः स्वानुभवसिद्धा, वचनमपि तदनुगुणमित्यनुभवत्र च नाभ्यामह मर्थानुवृत्तिनिषेधवाक्यविरोध इत्यर्थः । निषेधशब्दतदर्थानुभवयोर्विरोध इति वाऽर्थः । तत्र मामिति पदस्यार्थं वक्तुं पर प्रश्नमनुभावते मामितीति । पूर्वं विरुद्धार्थकथनमसाधु; अर्थतत्त्वप्रश्नः साधुरित्यभिप्रायेणाह साध्विति । निषेधानुवृत्त्योर्विषयविभागं दर्शयति तदुच्यत इत्यादिना । अहं मामित्युभयोरपि पदयोर्विशिष्टविषयतैवोचिता रीतिमेद प्रसङ्गादित्यत्राह अहं मामिति । विधिनिषेधयोरेक विषयत्वे व्याघातः स्यादिति तन्निवृत्यर्थं विषयविभागः कार्य इत्यर्थः । विषयविभागविपर्यासशङ्कायां विषयविभागमुचितं दर्शयति जागरितेति । यत् सामग्रयभावात् तदानीं न प्रकाशते, तदेव निषेधविषयः । यत् अनन्यापेक्षं स्वयं प्रकाशते, तदेवानुवर्तत इति, अप्रकाशमानस्यानुवृत्तिः प्रकाशमानस्य निषेधश्वानुपपन्नावित्यर्थः । एवं विषयविभागानुगुणमनुभव दर्शयति अत्रेति । शब्दयोगो विवक्षावशात् । धीस्थं सर्वं वदति वा ; तदेकदेशं वदति वा ; न किञ्चिदपि वदति वा । अतः शब्दप्रयोगे चैवक्षिकेऽप्यनुभव एकरूपः । स पुनः एवंविभागानुगुग एवेत्यर्थः । अनेन “नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मि” इति श्रुतिवाक्यस्थायशब्दो व्याख्यातः ॥ परमतेने ममर्थमुपपादयति किञ्चेत्यादिना । साक्षित्वेनाऽऽत्माऽभ्युपगम्येत, ततः किमित्यत्राह साक्षित्वं चेति । साक्षाज्ज्ञातृत्वम –साक्षात्काररूपज्ञानाश्रयत्वम् । असाक्षात्कारिणि साक्षिशब्दः प्रयुक्तश्चेत्, औपचारिकः । उपपादयति नहीति । अजानतः – अज्ञातुरित्यर्थः । कुत इत्यत्राह ज्ञातैव हीति । शब्द प्रयोगनियामकं लक्षणमाह स्मरतीति । साक्षिशब्द स्मरतीत्यन्वयः । ततः किमहमथैस्यात्मत्व इत्यत्राह स चेति । अस्मिन्नर्थे अनुमानमुत्तरत्र विस्तरेणं विवक्षितम् अत्र सङ्प्रहेणाह आत्मने स्वयमिति । आत्मने स्वयमवभासमानोऽहमित्येवावभासत’ इति व्याप्तिवचनम् ; जाग्रदात्मा सपक्षः ; स्वस्मै प्रकाशमानत्वा-दिति हेतुः । निगमयति स्वापादीति । अविशदावभासस्य सर्वाभ्युपगतत्वात् श्रुतिस्वारस्यात् परामर्शस्वारस्यात् साक्षिवोपपत्तेः प्रत्यक्त्वसिद्धेश्च सुषुप्तावात्मा अहमिति स्फुरतीत्युक्तं भवति ॥ 19 22
१७० १-१-१. मोक्षेऽप्यहमर्थानुवृत्तौ श्रुत्यर्थापत्तिः यत्तु - मोक्षदशायामहमर्थो नानुवर्तते - इति; तदपेशलम् । तथासति आत्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । न चाहमर्थो धर्ममात्रम् ; येन तद्विगमेऽप्यविद्यानिवृत्तावित्र स्वरूपमवतिष्ठेत । प्रत्युत स्वरूपमेवाहमर्थ आत्मनः । ज्ञानं तु तस्य धर्मः; ‘अहं जानामि’, ‘ज्ञानं मे जातम्’ इति चाहमर्थधर्मतया ज्ञानप्रतीतेरेव ॥ अपि च यः परमार्थतो भ्रान्त्या वा आध्यात्मिकादिदुः खैर्दुः खितया स्वात्मानमनुसन्धत्ते अहं दुःखी’ इति, ‘सर्वमेतदुःखजातमपुनर्भत्रमपोह्य कथमहमनाकुलः स्वस्थो भवेयम्’ इत्युत्पन्नमोक्षरागः स एव तत्साधने प्रवर्तते । स साधनानुष्ठानेन यदि अहमेव न भविष्यामीत्यवगच्छेत्, अपसर्पे देवासौ मोक्षकथाप्रस्तावात् । ततश्चाधिकारिविरहादेव सर्वं मोक्षशास्त्रमप्रमाणं स्यात् ॥ अहमुपलक्षितं प्रकाशमात्रमपवर्गऽवतिष्ठत इति चेत् -किमनेन ? मयि नष्टेऽपि किमपि प्रकाशमात्रमपवर्गेऽवतिष्ठत इति मत्वा न हि कश्चिद्बुद्धिपूर्वकारी प्रयतते । अतोऽहमर्थस्यैव ज्ञातृतया सिद्ध्यतः प्रत्यगात्मत्वम् । व अथ मुक्तावहमर्था
ननुवृत्तिमनूद्य दूषयति यत्वित्यादिना । तुरर्थगौरवविशेषे । अपेशलम्असाध्वित्यर्थः । कुत इत्यत्राह तथासतीति । सौगतान् ज्ञानसन्तत्युछेदं मोक्षं वदतः स्वरूपनाशस्य अपुरुषार्थत्वेन दूषयता त्वया शब्दान्तरेण स्वरूपनाश एवोक्तः स्यादित्यर्थः । नैयायिकाद्युक्ते मोक्षेऽप्यपुरुषार्थत्व तुल्यम् । दुःखनिवृत्तिः सुखप्राप्तिश्वोमयं पुरुषार्थः । अत्रापुरुषार्थं भूतदुःखाभावात्पुरुषार्थान्वयः, सुखाभाबादपुरुषार्थान्वयश्चेति मुक्तेः पुरुषार्थापुरुषार्थमिश्रत्वं हि स्यात् । अहमर्थो ह्यारोपितः ; अतस्तद्विगमे स्वरूप नाशो न प्रसजेदित्यत्राह नचेति । कुत इत्यत्राह अहमिति । अहमर्थधर्मतया ज्ञानप्रतीतेरेव । पूर्वोक्तहेतोरेवेत्यर्थः । अहमर्थारमत्व समर्थनोपजीवनेन स्वरूपनाशनसङ्ग उक्तः । एवं धर्मधर्मिभावेन प्रतीत्या अनुवृत्तिरुपपादिता । अथ श्रुत्यर्थापत्तिमाह अपिचेत्यादिना । पूर्वमहमर्थस्याऽऽत्मत्वसमर्थनाय श्रुत्यर्थ पत्तिरुक्ता ; इदानीमहमर्थस्य मुक्तावनुवृत्त्युपपादनाय तामेव श्रुत्यर्थापत्तिं विस्तरेणाऽऽह । यः स्वात्मानं दुःखिनमनुसन्धत्ते, स एव तन्निवृत्ति-साधने प्रवर्तते । स चाहमर्थ एव ॥ दुःखित्वं भ्रान्तिसिद्धमिति चेत् — यः स्वात्मानं भ्रमन्तमनुसन्धत्ते, स एव भ्रमनिवृत्तिसाधने प्रवर्तते । स चाहमर्थः । द्विचन्द्रज्ञानादिभ्रान्तिमतोऽपि स्वभ्रमनिवृत्तिरेवापेक्षिता; न तु स्वविनाशः। अतोऽहमर्थविनाशोऽपुरुषार्थ इत्यभिप्रायेण परमार्थतो भ्रान्त्या वेत्युक्तम् । अनुसन्वत्त इत्यन्तेन, ‘निरस्ताखिलदुःखोऽहम् ’ इत्यत्रापेक्षितं व्यक्तमुक्तम् । निरस्तेत्यादिश्लोकं विवृणोति सर्वमेतदित्यादिना । अनाकुलःस्वस्थो भवेयमिति । अपुनर्भवमपोह्येत्येतत्फलितमुक्तम् अनाकुल इति । आगामिदुःखशङ्कया मनःक्षोभः आकुलत्वम् ; तदभावोऽनाकुलत्वंम् । स्वस्थः–स्वस्मिन् स्थितः, स्वभावे स्थितः, यथावस्थितात्मानुभवपरः । अनन्तानन्दमागिति फलम् । स एव पूर्वदुःखित एव । उत्पन्नानिष्टनिवृत्तीष्टप्राप्त्यभिलाषः स एवेत्यर्थः । श्रवणादाविति पूर्वमुक्तत्वादिहं तत्साधन इत्येतावदुक्तम् । अपसर्पेद सावित्यादिग्रन्थेन फलितमर्थमाह ततश्चाधिकारीति । श्रवणाद्यायाससाध्यस्य शास्त्रस्यापुरुषार्थपर्यवसायिले श्रवणाद्यधिकारिविरहात् श्रवणादिसापेक्षस्य शास्त्रस्य प्रमितिजनकत्वलक्षणं प्रामाण्यं न स्यादित्यर्थः । मयि नष्टेपीत्येतद्विवृणोति अहमुपलक्षितमिष्यादिना । बुद्धिपूर्वकारीत्यनेन कस्यापीति पदं विवृतम् । श्रुत्यर्थापत्ति निगमयति अत इति ।
१७१ स च प्रत्यगात्मा मुक्तावप्यहमित्येव प्रकाशते स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते, स सर्वः अहमित्येव प्रकाशते; यथा तथाऽवभासमानत्वेनोभयवादिसंमतः संसार्यात्मा । यः पुनरहमिति न चकारित नासौ यस्मै प्रकाशते, यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा । स तस्मादहमित्येव प्रकाशते ॥ न चाहमिति प्रकाशमानत्वेन तस्याज्ञत्वसंसारित्वादिप्रसङ्गः मोअविरोधान् ः अज्ञत्वाद्य हेतुत्वाच्चाहम्प्रत्ययस्य । अज्ञानं नाम स्वरूपाज्ञानमन्यथाज्ञानं विपरोतज्ञानं वा । अहमित्येवात्मनस्स्वरूपमिति स्वरूपज्ञानरूपो- हम्प्रत्ययो नाज्ञत्वमापादयति ; कुतः संसारित्वम् । अपि तु तद्विरोधित्वान्नाशयत्येव ॥ ब्रह्मात्मभावा परोक्ष्य निर्धूतनिरवशेषा विद्यानामपि वामदेवादीनामहमित्येवात्मानुभवदर्शनाच । श्रूयते हि - अहमर्थविंगमे ज्ञत्यसिद्धिरप्यनुसन्धेया । अनुमानमाह सचेनि । किञ्चानुमानमप्यस्तीति चार्थः । अन्वयव्याप्तिमाह योय इति । तथाऽवमासमानत्वेन – स्वस्मै प्रकाशमानत्वेन । व्यतिरेकव्याप्तिं दर्शयति यः पुनरिति । उपनयमाह स्वरमा इति । निगमनमाह स तस्मादिति । स्वस्मै प्रकाशमानत्वं हेतुः, अहमिति व्यवहारार्हत्वं साध्यमिति न साध्याविशिष्टता । अहमित्येव प्रकाशते - अहमिति व्यवहाराहं प्रकाशत इत्यर्थः । साध्यविपरीतविशेष साधकतया विशेषविरुद्धत्वं शङ्कते नचेति । आदिशब्दात् रागद्वेषदुःखादि 1 विवक्षितम ॥
ननु व्यापकं हि प्रसञ्जनीयम् 1 न च कार्य कारणस्य व्यापकम ॥ सत्यम् । कारणजातीयस्य तु कदाचित्कार्यप्रसक्तिर्व्यापिका । अतोऽहं प्रत्ययेनात्मनोऽज्ञत्वादिप्रसञ्जनम् । अज्ञत्वादिप्रसक्तिः श्रुनिविरुद्धेत्याह मोक्षेति । ‘न पश्य मृत्युं पश्यति न रोगं नोत दुःखताम्’ इति हि श्रुति । अतो यथा सहदर्शनमात्रेण पर्वते माण्डादिप्रसक्तिः प्रत्यक्षवाधात् वार्यते, तद्वत् कालात्ययापदेश इत्यर्थ । सोपाधिकमाह अज्ञत्वादीति । संसारित्वाहमर्थत्वयोः सहदर्शनमात्रेण मुक्तावपि संसारित्वादिप्रसङ्गश्चेत, अनुभवस्यापि तत्समात्रदर्शनात् त्वत्पक्षेप मुक्ती संसारित्वप्रसङ्गः ॥ मोक्षप्राहिप्रमाणविरोधात् कालात्ययापदिष्ट[?]म, संसारित्वादेरनुभवप्रयुक्तत्वाभावात् सोपाधिकत्वं चेति चेत् तदस्मलक्षेऽपि समानमित्यभिप्रायः । अनेन अहमिति भासनं न स्वस्मैभासमानत्वप्रयुक्तम, अपित्वज्ञत्व प्रयुक्तमिति हेतोः सोपाचिकत्वञ्च श्रुतिबलेन व्याप्ते मतया सहदर्शनमात्रमेवेति परिहृतं भवति । एवं कालात्ययापदेश सोपाधिकवे उक्ते । नत्र सोपाधिकत्वमुपपादयितुमज्ञानत्वेन संभावितशिरांसि विकल्पयति अज्ञानं नामेति । वक्ये सनि प्रकारान्तरारोपणेन ज्ञानमन्यथाज्ञानम् ; यथा पीतः शङ्ख इति । इदं रजः कार्यम् । धर्म्यन्तरस्य धर्म्यन्तरत्वेन ज्ञानं विपरीतज्ञानम; यथा शुक्तौ, इंदं रजतमिति । इद तुमः कार्यम् । “अयथावत् प्रजानाति बुद्धिः सा पार्थ! राजसी ॥ अव धर्ममिति या मन्यते तमसा वृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा अवर्म पार्थ! तामसी” इति स्मृतेः । अहंप्रत्ययस्य स्वरूपज्ञानरूपस्यात् तत्रागभावान्यथाज्ञानविपरीतज्ञानानि विशेषादेवापानी यह अहमित्येवेति । अहमित्येवात्मनः स्वरूपम् - अहमिति व्यवहारबुद्धयर्ह मेवात्मनः स्वरूपमित्यर्थः । अहम्प्रत्ययस्याज्ञत्यादिप्रयोजकत्व दूषणेन । ज्ञत्वादेरविद्यान्यय एवोपाधिरित्यर्थादुक्तं भवनि । अथवा कार्यकारणायेन व्यप्तिमङ्गीकृत्य परेणाज्ञत्यादिप्रसङ्ग उक्त इति, व्याप्तिप्रतिक्षेपाय कार्यकारणभाव प्रतिक्षिपति अज्ञाद्यहेतुत्वाच्चेत्यादिना । अज्ञत्वफलमपि नास्तीत्याह कुतः संसारित्वमिति ॥ निवृत्ताविद्यानामपि अहमित्यात्मप्रतिपत्तिदर्शनेन अहम्प्रत्ययस्य मुक्तावनुवृत्तिमाह ब्रह्मात्मभावनि ।
१७२ १-१-१. अहङ्कारशोधनम “तद्वैतनं पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति”, “अहमेकः प्रथममासं वर्तामि च भविष्यामि च” इत्यादि । सकलेतराज्ञानविरोधिनः सच्छन्दप्रत्ययमात्रभाजः परस्य ब्रह्मणो व्यवहारोऽप्येवमेव, “हन्ताऽहमिमास्तिस्रो देवताः “, " बहु स्यां प्रजायेय”, “स ईक्षत लोकान्नु सृजा इति” । तथा— ‘यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः’, ‘अहमात्मा गुडाकेश’, ‘न त्वेवाहं जातु नासन’, ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’, ‘अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तने’, ‘तेषामहं समुद्र मृत्युसंसारसागरात्’, ‘अहं बीज नदः पिता’, ‘वेदाहं समतीतानि’ इत्यादिषु ॥ ― यग्रहमित्येवात्मनः स्वरूपम; कथं तर्ह्यहङ्कारस्य क्षेत्रान्तर्भावो भगवतोपदिश्यते, “महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च” इति । उच्यते । स्वरूप देशेषु सर्वेष्यहमित्येवोपदेशात् तथैवात्मस्वरूपप्रतिपत्तेश्चाहमित्येव तद्वैतत्पश्यन् इति ब्रह्मात्मकत्वसाक्षात्कारकथनेन निर्धूननिरवशेषाविद्यत्वं गम्यते गम्यते । ब्रह्मणोऽपि तथा प्रतिपत्तिमाह सकलेतरेति । सकलेनराज्ञानाविरोधिनः न हि सकलेतरविषहरणनिपुणस्य वैनतेयस्य विपश्यत्वसंभव इति भावः । सच्छब्दप्रत्यय मात्र माजः - सच्छदस्य सदिति प्रत्ययस्य च विषयभूतस्य । मात्र चां पाश्चात्यन।मरूपमायावृतिः । अनेनाहङ्कारसृष्टेः पूर्वमप्यहम्प्रत्यये ज्ञापयति । अहम्प्रत्ययस्फुटीकरणाय अहमिमा इति वाक्यं पूर्वनुपादत्ते । बहु स्यामिति वाक्ये ’ अस्मद्युतम इत्युत्तमपुरुषत्रलादहमिनि प्रत्ययमिद्भिः । अहमिमास्तिस्र इत्यत्राहंशब्दः कण्ठोक्तः । न ह्यहङ्कारस्य नामरूपव्याकर्तृत्वमिति मात्रः । बहूपनिषत्सु अहमिति निर्देशज्ञापनायोपादत्ते स ईक्षतेति । सृजा इत्युत्तमपुरुषेणाहं शब्दाकर्षसिद्धिरिति भावः । स्मृतिं दर्शयति तथा यस्मादिति । यस्मादिति वचनं क्षराक्षरातीतस्वाभाविकरूपेणाहम्प्रत्ययज्ञापनार्थमुपात्तम् । न ह्यहङ्कारः क्षराक्षरात्रीत । अतोऽस्मीत्युत्तपत्रेणाप्यहमर्थसिद्धिः । अत्मनोऽहम्प्रत्ययं ज्ञापयति अहमात्मेतिः। न ह्यङ्कारश्चिदचिदन्तरात्मा । स्वाभाविकनित्यरूपेऽहम्प्रत्ययं दर्शयति न त्वेवाहमिति । न ह्यहङ्कारो नित्यः । मृत्युविरोधमुक्तादोऽप्यहम्प्रत्ययविषय इत्याह तेषामिति । न ह्यङ्कारो मुक्तिप्रदः । एत्रमनेकश्रुतिस्मृतित्र च नोपादानं पवित्रचित्रितादृशवचनापनोदनार्थम् । एभिरहंशब्देश्चिन्मात्रमुपलक्ष्यते चेत् अनेक वाक्यस्याहंशब्दलक्षणैव दोषः ।
“महाभूतान्यहङ्करः” इति क्षेत्रान्त विवचनमेकम्, “अहङ्कारं बरं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥” इतिं त्याज्यत्वारं वचनं द्वितीयम्, अहङ्कारविमूढात्मा’ इव्य नरम; एतत्त्रयमनुदाहृतमप्यनिन; उत्तरत्र परिहारात् । पूर्वमेतद्ववनाभिनाये, ‘सुप्तिमुक्त्योर्नान्येती’त्युक्तम् । इममर्थमवलम्ब्य चोदयति कथं तर्हति । परिहरति उच्यत इति । अमर्थाहङ्कारयोरमेदबुद्धया परेण चोदिने प्रकृतिप्रत्यययोरर्थविमागताना प्रकृत्यर्थभूते आहम्बुद्धेः प्रामाणिकत्वस्थैर्यः दर्शयति स्वरूपो - पदेशविनिं । अन्यथामिद्धिं दर्शयन् तत्राहङ्कारशब्दविवक्षितमाह । श्रव्यक्तेति । अव्यक्तपरिणाम भेदस्येति । न स्वहस्येत्यर्थः । ‘अयातोऽहङ्कादेशः’ इत्यादिषु शुद्धस्वरूपस्याहङ्कारनामानाभ्युपगमेऽपि न विरोधः; सत्वहङ्कारशब्दोऽहमपिबुद्धिपरः । यद्यहङ्कारशब्दवाच्यत्वमात्रात् प्रत्यगात्माऽपि क्षेत्र ( जड) भेदः स्यात् - तर्हि हरिशब्दवाच्यत्वसाम्यात् सिंहो मण्डूरुः स्यात् । अतोऽनेकार्थाभिप्रायशब्देकत्वमर्थ मेदाविरोधीति भावः । यथा आगमप्रामाण्ये, “तथा च हरिशब्दस्प दृष्टा मण्डूकवाचिना । इति तच्छब्दवाच्यत्वात् सिंहो मण्डूक एव किम् ॥ तथा गोशब्दवाच्यत्वाच्छन्दश्चापि विषाणत्रान्” इति । अथाहङ्कार- CC-0. Lal Bahadur ऽhaऽtr।, Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetha।n
" १७३ प्रत्यगात्मनः स्वरूपन । अव्यक्त परिणामभेदस्यहङ्कारस्य क्षेत्रान्तर्भावो भगवतैवोपदिश्यते । स त्वनात्मनि देहेऽहम्भावकरणहेतुत्वेनाहङ्कार इत्युच्यते । अस्य त्वहङ्कारशब्दस्य अभूततद्भावेऽर्थे चित्रप्रत्ययमुत्पाद्य व्युत्पतिर्द्रष्टव्या । अयमेव त्वहङ्कार उत्कृष्टजनावमानहेतुर्गर्वापरनामा शास्त्रेषु बहुशो हेयतया प्रतिपाद्यते । तस्माद्वाधकापेताऽहम्बुद्धिः साक्षादात्मगोचरैव । शरीरगोचरा त्वहम्बुद्धिरविद्यैव । यथोक्तं भगवता पराशरेण, “श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धियाँ” इति । यदि ज्ञप्तिमात्रमेवात्मा, तदाऽनात्मन्यात्माभिमाने, शरीरे ज्ञप्तिमात्रप्रतिभासः स्यात् ; न ज्ञातृत्वप्रतिभासः । तस्मात् ज्ञाताऽहमर्थ एवात्मा । तदुक्तम्- “अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् । अविद्यायोगतञ्चात्मा ज्ञाताऽहमिति भासते ॥ " इति । शब्दस्याव्यक्तपरिणामावशेषवाचकत्वप्रकारं दर्शयति स त्विति । अहम्भावः अहमिति बुद्धिः । भावशब्दस्य बुद्धिवाचकत्वमभिप्राय परतथा प्रयोगादवगम्यते । सर्वत्राहं शब्दार्थमेकरूपमङ्गीकृत्याहङ्कारशब्दस्याव्यक्तपरिणामवाचित्रं शब्दानुशासन प्रक्रिययोपपादयति अस्य त्विति । चित्रप्रत्ययस्य सर्वलोपः । कृञः करणे घञ् । क्षेत्रान्तर्भावोपदेशस्य निर्वाहः कृतः ; “अहङ्कारं बलं दर्पमिति त्याज्यतयोपदेशस्य निर्वाहः क्रियते अयमेव त्विति । अयंशब्देन प्रस्तुताहम्भात्रो विवक्षितः ; न त्वहम्भावकरणहेतुः ; गर्वापरनामेति वचनात् । न हि महदहङ्कारयोरन्यतरोऽहङ्कारो गर्वापरपर्यायः । अतोऽत्राहम्भाव एवायशब्दविवक्षितः । प्रशस्तदेहेऽहम्बुद्धिरुत्कृष्टजनावमानहेतुः । अहङ्कारः अहम्बुद्धिः । मानसव्यापारवाचिनः करोतिः बुद्धिपरत्वं युज्यते । यथा, " तदेकावयत्रं देवं चेतसा हि पुनर्बुधः । कुर्यात् " इति । मनसा करणं हि वेदनम् । अतोऽहम्बुद्धिरहङ्कारः । च्चिप्रत्ययार्थगर्भत्वात् अनमि अहम्बुद्धिगम इमौ ! अहम्मावाहङ्कारशब्दौ । अत्र भावे व्युत्पत्तिः ; पूर्वत्र करणे व्युत्पत्तिः । ‘गर्वोमिमानोऽहङ्कारः’ इति नैघण्टुकाः ॥
ननु कथं भाव (हेये !) व्युत्पन्नस्याहङ्कारशब्दस्योपादेयगोचरतया प्रयोगः ‘अयातोऽहङ्कारादेश’ इति ॥ उच्यते । स वहङ्कारशब्दः साक्षादहमर्थबुद्धिवाची न स्वनात्मन्यात्मबुद्धिपरच्चिप्रत्ययार्थगर्भः । हेयोपादेयरूपेण शब्दप्रतिपन्नयोरहृम्बुद्ध्योगविभागं निगमयति तस्मादिति । अस्मिन्नर्थे प्रमाणमाह यथोक्तमिति । तत्रैव पुराणे अनात्मविषयाह म्बुद्धिवचनयोर्भ्रान्तित्वम्, आत्मविषये आत्मविषये स्वभ्रान्तत्वं च स्पष्टम् यथा, “आकाशवाय्वग्निजलपृथिवीभ्यः पृथस्थिते । आत्मन्यात्ममयं भावं कः करोति कलेबरे ॥ पञ्चभूतात्मके देहे देही मोहनमोवृतः । अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ इति । आदिभरत चरिते, " आत्मन्येष न दोषाय शब्दोऽहमिति यो द्विज । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥” इति । एतद्वचनार्थमप्यहमर्थात्मत्वहेतुखेनाह यदीति । अनात्मनीति । अनात्मन्यहम्प्रतीतिः कथमास्माभिमान इत्यर्थः । अहमर्थात्मत्वं निगमयति तस्मादिति । अस्मिन्नर्थे आत्मसिद्धिग्रन्थमुदाहरति तदुक्तमिति । धर्मधर्मिभावेन प्रतीतिः प्रत्यचसिद्धि, स्थिरत्यास्थित्वादिवैषम्पम् श्रुत्यर्थापत्तिश्च न्यायः । आगमः उदाहृतोपनिषद्वाक्यानि । अविद्यायोगः - अनन्तरोक्तभ्रान्तियोगः ! अहमर्थ स्यानात्मत्वे स्थूलोऽहमिति भ्रान्तरयोग ; 1 अत्र अहम्भावशब्दो नेष्ठो भावप्रकाशिकायाम् । [भावः अभिप्राय इति प्रागुक्तत्वात् कृभ्वस्तियोगाभावात् न चित्रः ॥ अहम्मतिशब्दवत् अहम्भावशब्दः चित्रं विनैवारोपार्थक इति । तदा अहंकारशब्दौ इत्यस्य करणे भावे च व्युत्पन्नाहंकारशन्दद्वयमित्यर्थः । एतत्पाठे तु अनहमर्थमहमर्थं भावयतीत्यतो भावार्थे अहम्भावशब्दः चित्रप्रत्ययगर्भः प्रयुज्यते लोके गर्वपर इति स्थित निर्वाहः । चित्रप्राप्तिलोपयोरभावेऽपि तदर्थगर्भत्वमिष्यत एवेति वा ।
१७४ १-१-१. प्रत्यक्षदौर्बल्य भङ्गः तथा च–.“देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतस्सुखी ।” इति । अनन्यसाधनः –स्वप्रकाशः । व्यापी - अतिसूक्ष्मतया सर्वाचेतनान्तः प्रवेशस्वभावः ॥ यदुक्तम् - दोषमूलत्वेनान्यथासिद्धिसंभावनया सकलभेदावलम्बि प्रत्यक्षस्य शास्त्रवाध्यत्वमिति - 1 इति वाऽर्थः । ज्ञातुरात्मत्वे संत्रादिग्रन्थो दर्शितः । ज्ञप्तेरनात्मत्वे चात्मसिद्धिग्रन्थमाह तथा चेति । धीभ्योऽन्य इत्येतदत्रोपयुक्तन् । साधनशब्द ( पद ?) स्योत्पादकज्ञापक साधारणत्वात् तत् व्याचष्टे अनन्येति । जीवस्वरूपविभुत्त्रशङ्क व्युदासार्थं तत्र व्यापीति शब्दं व्याचष्टे अतिसूक्ष्मेति । पुराणादिषु व्यापिशब्दप्रयोगात् स एवात्र श्लोके प्रयुक्तः । यत्र यत्र जीवस्य व्याप्तिवाचिनः शब्दाः, तत्रायमेवार्थो द्रष्टव्य इति भात्रः । जीवस्य धर्मभूनज्ञानेन पातिरात्म सिद्धात्रेयोच्यते, ““याप्तिरपि चैतन्यमात्रेणैत्र; न स्वरूपेण " इति । अतो यथोक्त एवार्थः ॥
अथ शास्त्रप्रत्यक्षविरोधे शास्त्रप्राबल्यमनूद्य निरस्यति यदुक्तमित्यादिना । परेण पूर्वम्, ‘मूलमूलिभावपरोक्षापरोक्षरूपत्वादिर्न बाध्यबाधकभावे कारणम् ; ज्वालामेदानुमाने व्यभिचारात् । ‘आदित्यो यूपः’ इत्यादावपि पूपादित्यैक्याद्यप्रतिपादनं न दौर्बल्यात्; अपि तु यूपाञ्जनविधिशेषत्वेनैक्ये तात्पर्यीभावात् इत्युक्तम् । तत्र ज्वालाभेदानुमानात शास्त्रस्य त्रिधा वैषम्यमस्ति प्रमाणान्तरेण दोषमूलत्वानिश्चयादन्योन्याश्रयः, बाध्यबाधकयोस्तुल्यदोषत्यम्, मूंछोच्छेदिवश्चेति एतत्त्रयं ज्ञालाभेदानुमाने नास्ति । तथाहि – एकवर्तिकावर्तित्वनिबन्धनसादृश्याख्यदोषस्य असत्यप्यैक्ये ऐक्यप्रतीतिहेतुम् अचिरनिर्वापितारोपितप्रदीपे दृष्टमिति, चक्षुत्रा ज्वालैक्यप्रतिपत्तेः क्वचित् दोषमूलत्वनिश्चयत् अन्यत्रैक्यप्रतिपत्तावपि दोषमूलत्य संभवात् ज्याक्यप्रत्यक्षं शङ्कितं न निश्चयजननक्षमं परीक्षकस्य भवेत् । आलायां सादृश्यरूपदोषस्य असत्यध्यैक्ये ऐक्यप्रतीतिहेतुत्वं प्रमाणान्तरेण न दृष्टं चेत्, अन्योन्याश्रयः स्यात् अनुमानस्य प्राचल्यात् प्रत्यक्षस्यान्यथासिद्धिः, तदन्यथासिद्ध्याऽनुमानस्य प्रावल्यमिति ; ऐक्यवतीतेरन्यथासिद्धिसंभवः प्रमाणान्तरदृष्ट इति नान्योन्याश्रयः । अत्र न तथा प्रमाणान्तरेण भेदवासनाया दोषत्वं दृष्टम् । किञ्च दीपे बांध्यस्य ज्वालक्यज्ञानस्य सादृश्याख्यदोषमूलले बाधकस्य ज्वालाभेदानुमानस्य न सादृश्यदोषमूलत्वं दृष्टन् । अत्र तु बाध्यस्य प्रत्यक्षस्य बाधकस्य शास्त्रस्य चोभयोः पराभ्युपेतदोषमूलत्वमविशिष्टं विद्यत इति तुल्यदोषत्यम् । किञ्च तत्र ज्यालाख्यधर्मिग्राहिणः प्रत्यक्षस्य प्रथमवर्त्यत्रय गग्निसंयोगे चरमवर्त्यवयवस्य विनाशे च उत्पत्तिविनाशयोर्व्याप्तिग्राहिणः प्रत्यक्षस्य प्रत्यवयवमग्निसंयोगवर्त्यवयव विनाशाख्यलिङ्गग्रहिणः प्रत्यक्षस्य च न भेदानुमानवाध्यविवयत्वम् । ऐक्यंप्रतिनत्तैरेत्र तत् । अत्र तु शब्दाख्यधर्मिग्राहिणः तस्य निर्दोषत्वसाधकलिङ्गग्राहिणः तल्लिङ्गव्याप्तिप्राहिणः षडिधतात्पर्यलिङ्गग्राहिणश्च प्रत्यक्षस्य तैषां तात्पर्यलिङ्गानां च शास्त्रेणैव बधोपगमान्मूलोच्छेदित्यमिति त्रिधा वैषम्यम् । एतद्वैषम्यत्रयमुपपादयिष्यन् पूर्वपक्षमनुवदति दोषमूलत्वेनेति । सकलभेदावलम्विप्रत्यक्षस्येति । अत्राय भावः तत्रशुद्धिकारादिभिः कैश्चित् काचतिमिरादिरेव प्रत्यक्षस्य दोष उक्तः । स नोपपद्यते ; काचतिमिरादेः काचित्कत्वात् । एतेन प्रत्यक्षान्तराणां दोषमूलत्वमनुमीयते चेत्, शब्दत्वात् शास्त्रस्यापि दोषमूलत्वमनुमीयताम् ॥ शास्त्रे दोषस्य योग्यानुपलम्मनिरासश्चेत्, प्रत्यक्षेऽपि तथैव स्यात् । किश्व आयुर्वेदे दोषाणां स्वरूपं तन्निवृत्त्युपायादिकं च निरूपितम् । सर्वप्रत्यक्षस्य दोषमूलखानुमानं तद्विरुद्धञ्च । किञ्च सर्वप्रत्यक्षस्य दोषमूलचे सन्मात्रग्राहिणः प्रत्यक्षस्य दोषमूलत्वात् सन्मात्रमपि
श्रुतप्रकाशिकोपेते श्रीभाष्य १७५ कोऽयं दोष इति वक्तव्यम्, यन्मूलतया प्रत्यक्षस्यान्यथासिद्धिः ॥ अनादिभेदवासनैव हि दोष इति चेत-भेदवासनायास्तिमिरादिवत् यथावस्थितवस्तुविपरीतज्ञानहेतुत्वं किमन्यत्र ज्ञातपूर्वम ॥ अनेनैव शास्त्रविरोधेन ज्ञास्यत इति चेत् न; अन्योन्याश्रयणात - शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चये सति भेदवासनाया दोषत्वनिश्चयः, भेद वासनाया दोषत्वनिश्वये सति शास्त्रस्य निरस्त निखिलविशेषवस्तुबोधित्वनिश्चय इति । किञ्च यदि भेदवासनामूलत्वेन प्रत्यक्षस्य विपरीतार्थत्वम, शास्त्रमपि तन्मूलत्वेन तथैव स्यात ॥ अधोच्येत - दोषमृलत्वेऽपि शास्त्रस्य प्रत्यक्षावगतसकलभेदनिरसनज्ञानहेतुत्वेन परत्वात् तत् प्रत्यक्षस्य बाधकमिति - तन्न ः दोपमूलत्वे ज्ञाते सति परत्वमकिञ्चित्करम् । रज्जुसर्पज्ञाननिमित्तभये सति भ्रान्तोऽयमिति परिज्ञातेन केनचिन् ‘नायं सर्पःः मा भैषीः’ इत्युक्तेऽपि भयानिवृत्तिदर्शनात् । शास्त्रस्य च दोपमूलत्वं श्रवणवेलायामेव ज्ञातम् । श्रवणावगतनिखिल भेदोपमर्दित्रह्मात्मैकत्वविज्ञानाभ्यासरूपत्वान्मननादेः ॥ अपि चइदं शास्त्रम; एतच्चा संभाव्यमानदोपम् ; प्रत्यक्षं तु संभाव्यमानदोषम् - इति केनावगतं त्वया ? न तावत् स्वतस्सिद्धा निर्द्धतनिखिलविशेषानु- मिथ्या स्यादिति । दूषयति कोऽयमित्यादिना । कोऽयं दोष इति वक्तव्यमिति । कोऽयं दोष इत्यनया वचनव्यक्तया दोषरूपं मूलं यदुक्तम, तत् किमिति पृष्टे अयं दोष इति वक्तव्यमित्यर्थः । यद्वा यच्छब्दसामर्थ्यात् तत्रेत्याक्षेपसिद्धम् । दोषमूलत्वेनेत्यादिना यदर्थजातमुक्तम्, तत्र कोऽयं दोष इति पृष्टे वक्तव्यमित्यर्थः । कुतो वक्तव्यमित्यत्राह यन्मूलतयेति । न हि दोषमनुक्वाऽन्यथासिद्धिः सुवचेत्यर्थः । दोषमाह अनादीति । स्वरूपसंप्रतिपत्तिपर एवकारः । हिशब्देन दोषान्तरासंभवसिद्ध्यःकारः । स्वमते दोषत्व संप्रतिपत्त्यभिमानाट्टा हिशब्दः । दोषत्वं हि विपरीतज्ञानहेतुत्वम् । अतो विपरीत ज्ञानहेतुत्वेन व्याप्तेरदृष्टतया भेदवासनास्वरूपसम्प्रतिपत्तावपि दोषत्वासम्प्रतिपत्तेः पृच्छति भेदवासनाया इति । तिमिरादिवदिति आदिशब्देन सादृश्यादि विवक्षितम् । तद्धि ज्ञालायामैक्यभ्रमहेतुः । अन्यत्र ज्ञातपूर्वश्वस्य दुर्वचत्वात् शंकते अनेनैवेति । दूषयति नेति । एवं प्रमाणान्तरेण दोषत्वानिश्चयेनान्योन्याश्रयणापत्तिरूपवैषम्यमुक्तम् । अथ तुल्यदोषत्वं बाध्यगाधकयोराह किञ्चति । अथ दोषमूलत्वे तुल्येऽपि परस्याद्वाधकत्वं शङ्कते अथेति । अपच्छेदादिषु, इदं रजतम्, नेदं रजतमित्यादिषु च परं बाधकं दृष्टम ; अतो निषेध्योपस्थापकमानापेक्षया निषेधकस्य परत्वात् बलीयस्त्वमित्यर्थः । एवं ब्रह्मप्रतिपादकशास्त्रस्यापि व्युत्पत्त्यादेः प्रत्यक्षादिमूलतया तत्पूर्वकस्य तस्य प्रत्यक्षाद्यपेक्षया परत्वात् तत्प्रविपाद्य निर्विशेषवस्तु सत्यत्वमपि तुल्यन्यागतया सिद्धम । तदूषयति तन्नेति । परत्वस्याकिश्चित्करत्वमुपपादयति रज्जुसर्पति । उत्तरज्ञानस्य दोषमूलत्वेन प्रामाण्यानिश्चयात् भयानिवृत्तिः ।
ननु भ्रान्तत्वे ज्ञाते परत्वमकिञ्चित्करमस्तु ; अत्र तु भ्रान्तत्वज्ञानं नास्तीत्यत्राह शास्त्रस्य चेति । ज्ञतित्वमुपपादयति श्रवणावगतेति । शास्त्रस्य मदवासनामूलत्वं तावत् सम्प्रतिपन्नम् । तस्याश्च दोषत्वं भेदमिध्यात्वज्ञानादवगम्यते । तन्मिथ्यात्खावगतिश्च ज्ञाननिवर्त्यत्वावगमात् । ज्ञाननिवर्त्यत्वावगमश्च ब्रह्मात्मैकत्वज्ञानस्य निखिलभेदोपमर्दित्वावगतेः । अतः ईदृशनिवर्तकज्ञानाभ्यासरूपमननं कुर्वता शास्त्रस्य दोष मूलत्वमवगतमित्यर्थः । एवं बाध्यबाधकयोस्तुल्यदोषस्त्वरूपं वैषम्यमुक्तम् । अथ मूलोच्छेदिवमाह अपि चेति । इदं शास्त्रमिति शब्दराशिव्यावृत्तिः । असम्भाव्यमानदोषमिति बौद्धागमादिव्यावृत्तिः । त्वया - प्रमाणप्रमेयादिकं तास्त्रिकत्वेनानभ्युपगच्छता । न तावदिति । स्वतस्सिद्धत्वेन निर्धूत निखिल विशेषत्यम् । एतद्विशेषणं निर्विषयत्व-
१७६ १-१-१. व्यावहारिक प्रामाण्यव्युदासः भूतिरिममर्थमवगमयति ; तस्याः सर्वविषयविरक्तत्वात् ; शास्त्रपक्षपातविरहाच्च । नाप्यैन्द्रियकप्रत्यक्षम्, दोषमूलत्वेन विपरीतार्थत्वात् । तन्मूलत्वादेव नान्यान्यपि प्रमाणानि । अतः स्वपक्षसाधनप्रमाणानभ्युगमान्न स्वाभिमतार्थसिद्धिः ॥ व्यावहारिक प्रमाणप्रमेय व्यवहारोऽस्माकमप्यस्त्येव ; कोऽयं व्यावहारिको नाम ? आपातप्रतीतिसिद्धो युक्तिभिर्निरूपितो न तथाऽवस्थित इति चेत्; किं तेन प्रयोजनम् ? प्रमाणतया प्रतिपन्नेऽपि यौक्तिकबाधादेव प्रमाणकार्याभावात् ॥ अथोच्येत - शास्त्रप्रत्यक्षयोर्द्वयोरप्यर विद्यामूलत्वेऽपि प्रत्यक्षविषयस्य शास्त्रेण बाधो दृश्यते; शास्त्रविषयस्य सदद्वितीयब्रह्मणः पश्चात्तनबाधादर्शनेन निर्विशेषानुभूतिमात्रं ब्रह्मैव परमार्थ इति । तदयुक्तम्, अबाधितस्यापि दोषमूलस्यापारमार्थ्यनिश्चयात् । 1 1 प्रदर्शनार्थम् । कुतो नावगम्यत इत्यत्राह तस्या इति । सर्वविषयविरक्तत्वात् । निर्विषयत्वादित्यर्थः । न हि विज्ञानम् असंबध्य विषयं प्रकाशयति । वस्तुतो निर्विषयापि भ्रान्त्या अविद्यमानमपि शास्त्रप्राबल्यमवगमयतीत्यत्राह शास्त्रपक्षपातविरहाच्चेति । असम्बन्ध विद्यमानत्वाविशेषात् सौगतादिशास्त्रान्तरप्रामाण्यमप्यवगमयेदित्यर्थः । प्रत्यक्षादिकं नावगमत्याह नापीति । योगिप्रत्यक्षादेरप्यन्द्रियकप्रत्यक्षमूलशास्त्रजन्यज्ञानहेतुकादृष्ट कार्यत्वादैन्द्रियक प्रत्यक्षं प्रथममुपात्तम् । तन्मूलत्वात् — मेदवासनामूलप्रत्यक्षमूलत्वात् । एवं प्रकृतगोचरतयोक्तं प्रमाणाभावं पराभिमतसर्वगोचरत्वेनोपसंहरति अत इति । न स्वाभिमतार्थसिद्धिः । स्वाभिमतम्, प्रत्यक्ष दौर्वव्यशास्त्रप्राबल्यादिकम् । एतत् खण्डनकाराद्युक्त कुतर्कनिरसनोपलक्षणार्थमुक्तम् । तत्र प्रमाणव्याप्त्यादिभङ्गः क्रियते । तत्रेदं प्रष्टव्यम्— स्वाभिमतव्यतिरिक्तार्थपरं शास्त्रान्तरमपरमार्थार्थकमित्यस्मिन्नर्थे किं तव प्रमितिः, तत्साधनं वाऽस्ति, उत नास्ति ? अस्ति चेत् न प्रमाणादिभङ्गः । नास्ति चेत्, तत एव न प्रमाणादिभङ्गः । प्रमितितत्साधनादिकमस्येव ; तत् व्यावहारिकमिति चेत् — किमिदं व्यावहारिकत्वम् ? किं परमार्थत्वम्, उतापरमार्थत्वम् ? अपरमार्थभूतं प्रमाण किं साधकम, उतासाधकम् ? साधकं चेत् अपरमार्थसंज्ञितम् अन्येषां च प्रमाणं तत्तत्पक्षसाधकमेव स्यात् । अथासाधकम्, ततो नितरां वाद्यन्तराभ्युपगतप्रमाणादिकं साधकं भवेत् । त्वदुक्तं प्रमाणादिकं परमार्थभूतं चेत्, द्वैती विजयी स्यादिति । स्वक्षपरपक्षमेदः किं परमार्थः, उतापरमार्थः ? परमार्थश्चेत्, न मेदमिथ्यात्वम् । अपरमार्थश्चेत्, परपक्ष एव त्वयाऽङ्गीकृतः स्यादिति भेदपारमार्थ्यं त्वयैवोक्तं स्य दिति । एवमादिभ्याघातः सर्वत्रानुसन्धेय इत्यभिनायः ॥ , अथ स्वपक्षसाधनप्रमाणाभावं प्रतिवित्रक्षु श्रोदयति
नन्विति । कोऽयमित्याक्षिपतिः । व्यावहारिकस्वरूपं दर्शयति आपातेति । दूषयति किं तेनेति । साध्यनिश्चयरूपप्रयोजनं नेत्यर्थः । कुतं इत्यत्राह प्रमाणतयेति । युक्त्या बाधो यौक्तिकबाधः; धूमबुद्धध। गृहीतबाष्पादेः साध्यनिश्चयाहेतुत्वदर्शनादित्यर्थः । एवं मूलोच्छेदित्वं वैषम्यमुपपादितम् । एवं पूर्व परोक्तं परत्वाद्वैषम्यं दूषितम् ॥ अथास्मात् परस्य कस्यचिद्वाधकस्याभावं ब्रह्मप्रतिपादकशास्त्रस्य प्रत्यक्षाद्वैषम्यं शङ्कते अथोच्येत इत्यादिना । बाघदर्शनाभावरूप वैषम्यं शास्त्रस्य वक्तुं प्रत्यक्षविषयस्य बाघदर्शनमाह शास्त्रेति । प्रत्यक्षविषयात् शास्त्रविषयस्य वैषम्यमाह शास्त्रविषयस्येति । पाश्चात्यबाधादर्शनाभ्युपगमेन दूषयति तदयुक्तमिति । कुत इत्यत्राह अबाधितस्येति । “यस्य दुष्टं कारणं यस्य च
१७७ एतदुक्तं भवति - यथा सकलेतरकाचादिदोषरहित ‘पुरुषान्तरागोचरगिरिगुहासु वसतस्तैमिरिकजनस्य [ अज्ञातस्वतिमिरस्य ] [ ज्ञातस्वतिमिरस्य ] सर्वस्य तिमिरदोषाविशेषेण द्विचन्द्रज्ञानमविशिष्टं जायते । न तत्र बाधकप्रत्ययोऽस्तीति न तन्मिथ्या न भवतीति तद्विषयभूतं चन्द्रद्वित्वमपि (द्विचन्द्रत्वमपि) मिथ्यैव । दोषो ह्ययथार्थज्ञानहेतुः । तथा ब्रह्मज्ञानमविद्यामूलत्वेन बाधकज्ञानरहितमपि स्वविषयेण ब्रह्मणा सह मिथ्यैव - इति । भवन्ति चात्र प्रयोगाः -विवादाध्यासितं ब्रह्म मिथ्या, अविद्यावत उत्पन्नज्ञानविषयत्वात् प्रपञ्चवत् । ब्रह्म मिथ्या, ज्ञानविषयत्वात् प्रपञ्चवत् । ब्रह्म मिध्या, असत्यहेतुजन्यज्ञानविषयत्वात् प्रपञ्चवदेव । , न च वाच्यम्-स्वाप्नस्य हस्त्यादिविज्ञानस्यासत्यस्य परमार्थशुभाशुभप्रतिपत्तिहेतुभाववत् अविद्यामूलत्वेना- मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययः” इति [हि]नीतिविदः । अतो दुष्टमूलत्वबाधकप्रत्यय प्रत्येकं मिथ्यात्रसाधकौ ॥ व्याहतमिदम्, यत् अबाधितस्याप्यपारमार्थ्यनिश्चय इति ; अपरमार्थत्वेन निश्चितत्वं हि वाधितत्वमित्यत्राह एतदुक्तमिति । अज्ञातस्वतिमिरस्येति पदं क्वचिदृश्यते । दोषज्ञाननिबन्धन परोक्षबाधकज्ञानोदयज्युदासः प्रयोजनम् । ±ज्ञातस्वतिभिरस्येति तु पाठो लेखकस्खलनकृतः । स हि पुरुषान्तरागोचरत्वोक्तिविरुद्धः । बाधकाभावे कथं मिध्यात्वमित्यत्राह दोषो हीति । भ्रान्तिसमानाश्रयबाधकज्ञानाभावेऽपि पुरुषान्तरज्ञानेन मिथ्यात्वनिश्चयो न व्याहत इत्यर्थः । तिरश्वां यावज्जीवं बाधोदयाभावेऽपि देहात्मधर्मिथ्यार्थविषया; तस्याः संसर्गरूपदोषमूलत्वात् । बाह्यभ्रमेषु स्पष्टोदाहरणस्य विवक्षितत्वादेव तदनुक्तिः ॥
ननु तिरश्चां देहात्मभ्रमो नास्माकं प्रत्यक्ष ; कार्यानवगमात् भ्रमकारणदोषोऽपि दुरवगमः; तत् कथं दोषमूलत्वसम्भावना ज्ञानमात्रेण मिध्यात्वनिश्चयः ॥ उच्यते । अस्मदादेः शास्त्रश्रवणात्सूर्य देहात्मभ्रमदर्शनात् तेषां च शास्त्राधिकाराभावात् देहात्मभ्र मस्तन्मूलदेह संसर्गरूप दोषवस्त्रं चानुमीयते ; दोषमूलत्वनिश्चयान्मिथ्यात्वनिश्चयः । एवं तैमिरिकजनस्य तिमिरान्वने आप्तवावयादिकमन्येष्टव्यम् ; ततो मिध्यात्वनिश्वयः । एवं सपक्षे शिक्षितमर्थं दाष्टन्तिके निगमयति तथेति । ज्ञानमिथ्यात्वं परमताभ्युपगमादुक्तम् । पाश्चात्यवाधादर्शनमुतरत्र निरसिष्यते । शास्त्रस्याविद्यामूलत्वाम्युपगमेऽनिष्टं प्रसञ्जयति भवन्तीत्यादिना । व्याप्तिप्रदर्शनवचनत्वात् प्रयोगा इत्युक्तम् । प्रतिज्ञादृष्टान्तदेतुरूपेण कथनम्, ‘अनिष्टप्रसङ्ग एवमपि न्याय्यः’ इति ज्ञापनार्थम् । ज्ञानविषयत्वमात्रमेको हेतुः, एको दुष्ट पुरुषज्ञानविषयत्वम्, एको मिथ्याभूतसामग्रीजन्यज्ञानविषयत्वमिति मिदा पूर्व सपक्षीभूत एवार्थोऽत्र सपक्ष इत्येव कारार्थः ॥
नन्वसत्य हे तुजन्यधीविषयत्वं मन्यतरासिद्धम् । प्रपञ्चवदिति दृष्टान्तश्च साध्यविकलः । कथमेवं प्रसङ्गः ॥ उच्यते । “ब्रह्मणोऽ
ननुभूतित्वं स्वदुक्तयैव प्रसज्यते’ इतिवत् प्रसञ्जक प्रसञ्जनीयधर्मव्यासिं परमतेनाभ्युपगम्य दूषणमुक्तमिति न विरोधः । नासत्य हे तुजन्यज्ञानविषयत्वादसत्यत्वं ब्रह्मणः असत्यादपि सत्यप्रतिप्रत्तिर्दृश्यत इति शङ्कामनूद्य परिहरति न चेत्यादिना । किमसत्यस्य सत्योत्पत्तिहेतुत्वानुपपत्तिः, उत तज्ज्ञप्तिहेतुत्वानुपपत्तिः इति विकल्पमभिप्रेत्य उत्पत्तिहेतुत्वे ज्ञप्तिहेतुत्वे चोदाहरणानि दर्शितानि । तत्र स्वाप्तविषयाणां सत्यत्वेऽभिमतेऽपि 1 इकोगुणसूत्रभाष्यकैयटयोः, अन्यदेवेदं परिभाषान्तरमित्यत्र अन्तरपदं अन्यादिपदापर्याय तया विशेषार्थकमुक्तम् । तद्वदत्राप्यपुनरुक्तिर्भाव्या । 2 ज्ञातेति । अत्र भावप्रकाशिका भाष्यार्थदर्पणौ द्रष्टव्यौ । । । । पूर्व कचिद्दश्यत इत्युक्त्या पाठद्वयरहितोऽपि भाष्यपाठ ऊह्यते । 3 तदनुक्तिःभाष्ये उक्तदेहात्मभ्रमानुक्तिः न तदभावात् ; किंतु बाह्यभ्रमविशेषोक्तिः स्पष्टत्वादित्यर्थः श्रु9 23
१७८ १-१-१. सत्यादेव सत्यसिद्धिः सत्यस्यापि शास्त्रस्य परमार्थभूतब्रह्मविषयप्रतिपत्तिहेतुभावो न विरुद्ध इति ; स्वामज्ञानस्यासत्यत्वाभावात् । तत्र हि विषयाणामेव मिध्यात्वम ; तेषामेव हि बाधो दृश्यते ; न ज्ञानस्य । न हि मया स्वप्नवेलायामनुभूतं ज्ञानमपि न विद्यत इति कस्यचिदपि प्रत्ययो जायते । दर्शनं तु विद्यते, अर्था न सन्तीति हि बाधकप्रत्ययः । मायाविनो मन्त्रौषधादिप्रभवं मायामयं ज्ञानं सत्यमेव प्रीतेर्भयस्य च हेतुः ; तत्रापि ज्ञानस्याबाधितत्वात् । विषयेन्द्रियादिदोषजन्यं रज्ज्वादौ सर्पादिविज्ञानं सत्यमेव भयादिहेतुः । सत्यैव अदष्टेपि स्वात्मनि सर्पसन्निधानाद्दष्टबुद्धिः । सत्यैव शङ्काविषबुद्धिर्मरणहेतुभूता । वस्तुभूत एव जलादौ मुखादिप्रतिभासो वस्तुभूत मुखगतविशेषनिश्चय हेतुः । एषां संवेदनानामुत्पत्तिमत्त्वादर्थक्रियाकारित्वाच्च सत्यत्वमवसीयते । हस्त्यादीनामभावेऽपि कथं तद्बुद्धयः सत्या भवन्तीति चेत् ; नैतत्, बुद्धीनां सालम्बनत्वमात्रनियमात् । अर्थस्य प्रतिभासमानत्वमेव ह्यालम्बनत्वे अपेक्षितम् । प्रतिभासमानता च अस्त्येव दोषवशात् । । । विषयासत्यत्वमभ्युपगम्य परिहरति स्वप्नेति । ज्ञानस्य सत्यत्वमुपपादयति तत्र हीति । अवधारणं कथमित्यत्राह तेषामेवेति । ज्ञानस्या बांधं दर्शयति नहीति । कथं जायत इत्यत्राह दर्शनं त्विति । अन्यत्रिषयो बाघो नान्यत्र सञ्चारयितुं युक्त इत्यर्थः । अत्रानेकोदाहरणप्रदर्शनं तत्तज्ज्ञानसामग्रीविशेषाणां सत्यत्वज्ञापनार्थम् । तच्च ज्ञानसत्यत्वनिर्वहणार्थम् । स्वप्नकारणं पूर्वानुभव संस्कारः सत्यः । प्रसिद्धत्वात् प्रसिद्धत्वात् तदनुक्तिः । मायाविनं इति । अत्र मन्त्रौषधादिप्रभवमित्यनेन कारणसत्यत्वमुक्तम् । मायामयम् – मिथ्याविषयमित्यर्थः; विचित्रविषयं वा । विषयेत्यादि । विषयदोः सादृश्यादिः ; इन्द्रियदोषः काचादिः; आदिशब्देन देशगतदूरत्वादिदोष उच्यते । दोषश्च सत्यः । सत्येवेति । सर्पसंनिधानं कारणं सत्यम् ; दष्टबुद्धिश्च सत्या; शङ्क। विषबुद्धावपि सामग्री सत्या निर्विषे रगदंशनं वा अन्धकारे अमलोष्टादिनिपीडनं वा सत्यं हि भवति । वस्त्विति । जलादि सत्यम् । तत्कृतचाक्षुषतेजः प्रतिहृतिश्च सत्या ’ संवेदनानां सत्यत्वे निश्चिते ह्युक्तोदाहरणेषु सत्यात्सत्यप्रतिपत्तिरित्यत्राह एषामिति । उत्पत्तिमत्त्वमर्थक्रियाकारित्वं च द्वयमपि प्रत्येकं सत्यत्वे साधकम् । न हि शुक्तौ रजतमुत्पत्तिमत्; न च कार्यकरम् । अथ ज्ञान सत्यत्वं विषयसत्यताव्याप्तमिति तन्निवृत्या ज्ञानसत्यत्वनिवृत्तिरिति शङ्कते हस्त्यादीनामिति । अभावे – प्रतिपन्नोपाधौ तथात्वाभावे । ज्ञान सत्यत्वं सालम्बनत्वमात्रव्याप्तम्; अबाधितत्वादिति परिहरति नैतदिति । सालम्बनत्वमात्रशब्देन सत्यालम्बनत्वव्यावृत्तिः । मिथ्याभूतस्यालम्बनध्थं कथमित्यत्राह अर्थस्येति । आलम्बनम् – विषयः । प्रतिभासमानत्वमेव ह्यालम्बनत्वेऽपेक्षितमिति । प्रतिमासमानत्वमेव विषयत्वमित्यर्थः । अविद्यमानस्याप्यतीतानागतादेः प्रतिभासमानस्यालम्बनत्वदर्शनात्, विद्यमानस्याप्यप्रतिभासमानस्य तदभावाच्चेति भावः । पक्षे प्रतिभासमानत्वमप्यस्तीत्याह प्रतिभासेति । प्रतिभासमानता - संविदपेक्षया प्रतिसंबन्धित्वम् ॥ अविद्यमानस्य विद्यमानतया भासनात् तेन रूपेणासत्यता । तथा साक्षादवभासमानो विषयोऽपि ज्ञानहेतुः स्यात्; संप्रतिपन्नविद्यमानविषयवत विद्यमानतया भासमानत्वाविशेषात् तथासति असत्यात्सत्योत्पत्तिरित्यत्राह दोषवशादिति । अविद्यमानस्य विद्यमानतया भासनहेतुर्दोष एव; न त्यविद्यमानो विषयः । अविद्यमानो विषयो न ज्ञानस्य हेतुतयाऽपेक्षितः ; केवलं विषयतया । विद्यमानस्तु तथात्वेन भासमानो विषयतयां हेतुतया चापेक्षितः । अतो वस्तुतोविद्यमानत्वमेव विषयस्य ज्ञानहेतुत्वे उपाविः । नियतपूर्वकालवर्तिनो हि हेतुत्वं दृष्टम् । तस्मादविद्यमानस्य हेतुत्वायोगात् दोष एव हेतुरिति नासत्यात्सय्योत्पत्तिरित्यर्थः । प्रतिभासमानत्वे द्वयोरप्यविशिष्टे
श्रुतप्रकाशिकोपेते श्रीभाध्ये स तु बाधितोऽसत्य इत्यवसीयते । अबाधिता हि बुद्धिः सत्यैवेत्युक्तम ॥ १७९ रेखया वर्णप्रतिपत्तावपि नासत्यात्सत्यबुद्धिः, रेखायास्सत्यत्वात् ॥
ननु वर्णात्मना प्रतिपन्ना रेखा वर्णबुद्धिहेतुः, वर्णात्मता त्वसत्या ॥ नैवम् ; वर्णात्मताया असत्याया उपायत्वायोगात् । कथमन्यतरस्यासत्यत्वनिश्वय इत्यत्राह स त्विति । बुद्धिरप्यसत्या किं न स्यादित्यत्राह अबाधितेति । विषयासद्भावेन ज्ञानस्यासत्यताकथनं कालात्ययापदिष्टमित्यर्थः ॥
ननु स्वाप्मादिविषयज्ञाने किं ज्ञानमात्रं शुभाशुभप्रतिपत्तिहेतुः, उत ज्ञानविशेषः ? ज्ञानमात्रपक्षेऽतिप्रसङ्गः । ज्ञानविशेषश्चेत्, कस्तस्यावच्छेदकः ? विषयश्चेत् किं विषय उपलक्षणतयाऽवच्छेदकः उत विशेषणतया ? यदि विशेषणतया - विशेष्येण सह कार्यान्वयि हि विशेषणम् अतो-हस्त्यादेरपि शुभाशुभप्रतिपत्तिहेतुत्वाद सत्यात्सत्यप्रतिपत्तिः । यद्युपलक्षणतया, - उपलक्ष्यबहिर्भूतः उपलक्ष्यप्रतीत्युपाय ह्युपलक्षणम् । अतो-विषयस्य ज्ञानप्रतिपत्तिहेतुत्वाद सत्यात्सत्य प्रतिपत्तिः ॥ ज्ञानानां तत्तद्व्यवहारानुगुण्यलक्षणस्वभावविशेषैर्यावृत्तत्वान्नातिप्रसङ्ग इति न च वाच्यम ; व्यवहारानुगुण्यमात्रस्य व्यावर्तकत्वेऽतिप्रसङ्गात् । व्यवहारविशेषानुगुण्यस्य व्यावर्तकत्वे तद्विशेषश्च तत्संग्राहकविषयाधीन इति व्यवहारावच्छेदकतया अनृनस्य सत्यहेतुत्वमिति ॥ 1 उच्यते – व्यावृत्तमेव ज्ञानं शुभाशुभाद्यनुमापकम् ; व्यावृत्तिश्च स्वा(सा आलम्बनेन । अविद्यमानस्याप्यालम्बनत्वं दोषवशादित्युक्तम् । अन्यथाख्यातिपक्षेऽप्यालम्बन सत्यता सर्वज्ञानानामिष्यत एव ; विशेषणविशेष्यतत्संसर्गाणां कचित्सत्यत्वात् । विशेषणविशेष्ययोस्तथात्यनिर्वाहकः संसर्ग स्वस्य तदीयखे संसर्गान्तरनिरपेक्षः । स तु संसर्गः पुरोवर्तिनि भ्रमाधिष्ठाने प्रतीयमानः पुरोवर्त्यपेक्षया स्वयं स्वस्य संसर्गरूपस्वनिर्वहणासामर्थ्यात् पुरोवर्तिनि नास्तीति पुरोवार्यपेक्षया संसर्गोऽपरमार्थः; न तु स्वरूपेण । आलम्बनले च संनिहितत्वरूपमनपेक्षितम्, असंनिहितस्याप्यालम्बनत्वदर्शनात । अतः सत्येन रूपेणालम्बनत्वमिति हत्यारोहणादिज्ञानान्यपि सत्यभूतह स्त्याद्यालम्बनावच्छिन्नानि परमार्थभूतया स्वप्नावस्थयांऽवच्छिन्नत्वा जाग्रदवस्थाज्ञानविलक्षणानि शुभाशुभप्रतिपत्तिनिमित्तानि । अतो नातिप्रसङ्गः, नासत्यात्सत्य प्रतिपत्तिश्च । न च प्रतिबिम्बात् बिम्बानुमिताव सत्यात्सत्यप्रतिपत्तिः ; प्रतिविम्बप्रतिभासस्य सत्यस्यैवानुमापकत्वात् । परमार्थतस्तु तत्र नानुमापकानुमेय विभाग, 2दर्पणादिप्रतिहतैश्चाक्षुष तेजोभिर्बिम्बस्यैव दर्पणस्थतया गृह्यमाणत्वात् । अतः क्वचिदर्थात् प्रतिपत्तिः, क्वचित् तत्प्रतिभासात् तत्तदर्थप्रतिपत्तिरिति नासत्यस्य लिङ्गत्वम् । किञ्च असत्यात्सत्य प्रतिपत्तिः किं भवत्पक्षेणोच्यते, उतारमत्पक्षेण । न तावत् भवत्पक्षे सा सिध्यति ; शुभाशुभयोरपि मिथ्यात्वेन असत्यादसत्यप्रतिपत्तिरेव हि स्यात् । न चास्मत्पक्षे; यथार्थख्यात्यभ्युपगमात् सत्यादेव सत्यप्रतिपत्तेः । एषां स्वाप्नहरत्यादिज्ञानादीनां शुभाशुभप्रतिपस्यादिहेतुभूतानां षण्णामुदाहरणज्ञानानां संस्कारादि सत्य सामग्रीकत्वं स्पष्टम् ; ज्ञानानां सत्यत्वमुपपादितम् । अत उत्पत्तौ इप्तौ च हेतुसत्यत्वं सिद्धम् ॥ अथ ज्ञानव्यतिरिक्ता सत्यहेतुना सत्यप्रतिपत्तौ हेतुसत्यत्वमुपपाद्यते रेखयेत्यादिना । हेतोरसत्यत्वं दर्शयश्चोदयति
नन्विति । परिहरति नैवमिति । वर्णात्मकता कि सत्ता वर्णप्रतिपत्तेरुपायः उत प्रमिततया,
- अविद्यमानत्वेऽप्यसत्यत्वाभावात् नासत्यात् सत्यसिद्धिरिति विशदयति अन्यथेति । 2 सिद्धान्ते प्रतिबिम्बस्य बिम्बातिरिक्तस्थानभ्युपगम इह स्पष्टः ।
१८० १-१-१. वर्णादिधियोऽपि सत्यजत्वम असतो निरुपाख्यस्य ह्युपायत्वं न दृष्टमनुपपन्नञ्च । अथ तस्यां वर्णबुद्धेरुपायत्वम्, एवं तर्ह्यसत्यात्सत्यबुद्धिर्न स्यात् ; बुद्धेस्सत्यत्वादेव । उपायोपेययोरेकत्वप्रसङ्गश्च, उभयोर्वर्णबुद्धित्वाविशेषात् । रेखाया अविद्यमानवर्णात्मनोपायत्वे च एकस्यामेव रेखायामविद्यमान सर्ववर्णात्मकत्वस्य सुलभत्वा देकरे खादर्शनात्सर्ववर्णप्रतिपत्तिः स्यात् । अथ पिण्डविशेषे देवदत्तादिशब्द सङ्केतवत् चक्षुर्ग्राह्यरेखाविशेषे श्रोत्रग्राह्यवर्णविशेषसङ्केतवशात रेखाविशेषो वर्णविशेषबुद्धिहेतुरिति - हन्त तर्हि सत्यादेव सत्यप्रतिपत्तिः, रेखायाः सङ्केतस्य च सत्यत्वान् । रेखागवयादपि सत्यगत्रयबुद्धिः सादृश्यनिबन्धना, सादृश्यञ्च सत्यमेव । न चैकरूपस्य शब्दस्य नादविशेपेणार्थभेदबुद्धिहेतुत्वेऽप्यसत्यात्सत्यप्रतिपत्तिः; नानानादाभिव्यक्तस्यैव शब्दस्य तत्तन्नादाभिव्यजन्य स्वरूपेणार्थविशेषैरसह संबन्धग्रहणवशादर्थ भेदबुद्धयत्पत्तिहेतुत्वात् । शब्दस्यैकरूपत्वमपि न साधीयः ; गकारादेर्बोधकस्यैव श्रोत्रग्राह्यत्वेन शब्दत्वात् । उत प्रतीततयेति विकल्पमभिप्रेत्याह असत इति । असत्यत्वात्सत्तयोपायत्वमनुपपन्नमित्यसत इति पदस्याभिप्रायः । अमृतः । सद्व्यतिरिक्तस्येत्यर्थः । असत्त्वादेव प्रमिततयोपायत्वं चानुपपन्नमिति निरुपाख्यशब्दाभिप्रायः । उपाख्या -प्रमितिः ; तदविषयत्वं निरुपाख्यत्वम् । प्रतीतिविषयतयोपायत्वानुपपत्तिस्तु वक्ष्यते । सत्ताप्रमित्योरभावेऽपि वर्णात्मताया उपायत्वमस्तीति वल्प्यते चेत्, तदनुपपन्नम ; व्याप्तिविरोधात् । व्याप्त्यनुगुणं हि कल्पनं प्रवर्तत इत्यभिप्रायेणाह अनुपपन्नं चेति । अथ भ्रान्तित प्रतीतायाः वर्णात्मताया वर्णप्रतिपत्तिहेतुत्वपक्षेऽपि बुद्ध्यंशस्य हेतुत्वे परस्यानुपपत्ति दर्शयितुमाह अथेति । दूषयति एवं तर्हति । कुंत इत्यत्राह बुद्धेरिति । दूषणान्तरमाह उपायेति । तदुपपादयति उमयोरिति । बुद्ध्यशस्य हेतुत्वे दूषणमुक्तम् । वर्णात्मतांशस्य हेतुयें सिंहावलोकितकेन दूषणमाह रेखाया इति । अविद्यमानवर्णा- अविद्यमानवर्ण स्मःयेनेत्यर्थः । अतिप्रसङ्गपरिहारार्थं शङ्कते अथेति । तत्रापि स्वनतसिद्धिमाह हन्तेति ! तदुपपादयति रेखाया इति । उदाहरणान्तरं परिहरति रेखागवयादपीति । त्मना स्फोटवादावलम्बने नोच्यमानमुदाहरणान्तरं परिहरति नचैकरूपस्येत्यादिना । ‘नादैः स्फोट्यते इति व्युत्पत्या स्फोट एकरूपः शब्दः, तदभिव्यञ्जनादविशेषाः वहत्रः ; कत्वखत्वादिभेदो व्यञ्जकगतः शब्दे आरोपितोऽर्थविशेषप्रतिपत्तिहेतुः ; तत्रासत्यात्सत्स्योत्पत्तिः’ इत्यपि न युक्तमित्यर्थः । कुत इत्यत्राह नानानादेति । कत्वखःवादिविशेषान्विततत्तन्नाद कृतोऽभिव्यक्तिविशेषः सत्यः; तद्विशिष्टः सत्यः शब्दोऽर्थप्रतिपत्तिहेतुरित्यर्थः । यद्यपि कत्वखत्वादिवैशिष्टयं शब्दस्यारोपितम् तथापि तज्ज्ञानं सत्यमेत्रार्थ प्रतिपत्तिहेतुः । ज्ञानस्य च सत्येनैवालम्बनेन स्वाप्तज्ञानवद्यावृत्तिरनुसन्धेया । कत्वाद्यालम्बनाभिव्यक्तिविशिष्टरूपेण स्फोटस्यार्थप्रतिपत्तिहेतुत्वसंभवात् कत्वादिवैशिष्टयस्यासत्यस्यार्थस्य नार्थप्रतिपत्युपयोगः । एवं शब्दस्यैकरूपत्वमभ्युपगम्य परिहृतम् । अथ तदनभ्युपगमेन परिहरति शब्दस्यैकरूपत्वमिति । कुत इत्यत्राह गकारादेरिति । एवकारणैकरूपः शब्दो व्यात्रर्त्यते ; न तु दुन्दुभिशब्दादिः । स वनभिव्यक्तविशेषाकारो गकारादिरेव । “अब गौरित्यत्र कः शब्दः ? गकारी कारविसर्जनीया इति हि भगवानुपवर्ष” इति गकारादेरेव बोधकलं व्याचख्युः ॥
ननु “तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता” इति शास्त्रशादेकरूपं शब्द मात्र मभ्युपगन्तव्यम् ; तत् कथं तत्प्रतिक्षेपः ॥ नैवम् ; तन्मात्रात्रस्थसूक्ष्मभूत कारण गुणानामिन्द्रियग्राह्यत्वायोगात् । पश्चीकृत भूतगुणानामेव सैन्द्रियकत्वम् । किञ्च, दध्यवस्थायां दुग्धावस्थेव तन्मात्रावस्था । आकाशगुणभूतं शब्दतन्मात्रे स्थूलाकाशसृष्टेः पश्चान्न विद्यते ।
१८१ यथा - महाभूततृतीये तेजसि शुक्लकृष्णादिवर्णव्यतिरेकेण रूपतन्मात्रं किञ्चिदस्ति, शुक्लकृष्णादयश्चाभिव्यञ्जकगताः एकरूपे आरोपिता इति च वक्तुमयुक्तम् — एवमिदानीमेकरूपशब्दस्य विद्यमानत्वं तत्राभिव्यञ्जकगतानां कत्वखत्वादीनामारोपितत्वश्च सर्गप्रतिपादकशास्त्रानुसारिभिरभ्युपेतुमयुक्तम् ।
अत्रायमभिसन्धिः -वर्णातिरिक्त एकरूपः शब्दः किं स्फुटप्रतिपन्नत्वादभ्युपगम्यते, उत कल्पनावशात् । न प्रथमः, गकारादिव्यतिरिक्तस्य कस्यचिदनुपलम्भात् । न द्वितीयः, कल्पकाभावादिति ॥
ननु वर्णानां वाचकत्वानुपपत्तेः, एकं पदमित्यादिप्रत्ययस्य वर्णेष्वनुपपत्तेः, भिन्नेषु वर्णेषु शब्दः शब्द इत्यनुवृत्तिबुद्धिवशाश्च वर्णातिरिक्तपदस्फोटसिद्धिः ; तत एत्र न्यायात् पदसङ्घातातिरिक्तंवाक्यस्फोटसिद्धिश्चेत्यत्राह गकारादेरिति । गकारादिवर्णानामेव समुदितानां वाचकत्वम् । एकं पदम् एकं वाक्यमिति प्रत्ययश्च वर्णसमुदायविषयः । शब्दः शब्द इत्यनुवृत्तिबुद्धिश्व श्रोत्रग्राह्यत्वोपाधिनिबन्धना । अतः कल्पकानामन्यथासिद्धत्वान्नैकरूपशब्दसिद्धिरित्यर्थः ॥ 1
ननु न कल्पकान्यथासिद्धिः । तथाहि — न तावदेकैकस्य वर्णस्य वाचकत्वं वर्णान्तरवैयर्थ्यात् ; गकारमात्रेण गोगवयगजाद्यप्रतिपत्तेश्च । नापि वर्णसमुदायो वाचकः ; क्रमोच्चारितश्रुतानां वर्णानां यौगपद्याभावेन वृक्षादीनामिव समुदायभावानुपपत्तेः । न च पूर्वपूर्ववर्णश्रवणजनित संस्कार सचिवोऽन्यवर्णे वाचक इति युक्तम् ; वर्णानुभवजन्यसंस्काराणामनुभूतवर्णविषयस्मरण हेतुतयाऽ
ननु भूतार्थान्तरप्रतीतिहेतुत्वाभावेनाकिञ्चित्करत्यात् । तत्साचिव्यविरहितान्त्यवर्णस्य च अर्थप्रत्यायकत्वायोगात् । तथा वर्णानां भिन्नत्वात् एकं पदनिति प्रत्ययश्च तदतिरिक्तार्थविषयो भवितुमर्हति । न च वनसेनादिप्रत्ययवत् समुदायविषयत्वमेकत्वप्रत्ययस्य युक्तम्, एक प्रदेश सम्बन्धित्यादिवत् एकीकारनिमित्तोपाध्यभावात् ॥ एकस्मृत्यारूढत्वमुपाधिरिति चेन्न दे पदे, त्रीणि पदानि, बहूनि वाक्यानीत्यनेकेषामेकप्रत्यया रूढत्वदर्शनात् । न चैकार्थावच्छिन्नवर्णसमुदाय एकं पदम् ; वर्णानां वाचकत्वानुपपत्तेरेवैकार्थप्रतिपादनाभावात् । किञ्च बहुवर्णेषु अयं शब्दोऽयं शब्दोऽयं शब्द इत्यनुवृत्तः शब्दशब्दो वर्णातिरिक्तार्थविषयो युक्तः । घटकरकापवरकादिभेदे ऽप्येकार्थविषयस्याकाशशब्दस्य हि घटकरकायतिरिक्तार्थविषयत्वं दृष्टम् । न च श्रोत्रग्राह्यत्वोपाधिना शब्दशब्दानुवृत्तिरिति युक्तम्, श्रोत्रस्य श्रोत्रग्राह्यत्वायोगेन श्रोत्रग्राह्यताया अपि श्रोत्रेण ग्रहीतुमशक्यत्वात् । मानान्तरेण श्रोत्रप्रांताप्रतीतो अविलम्वितशब्दसाक्षात्कारानुपपत्तिः । अतः कल्पकान्यथासिद्ध्यमावाद्वर्णातिरिक्तः शब्दः स्फोट इति । अत्रोच्यते । न तावत् वर्णानां वाचकत्वानुपपत्या स्कोटसिद्धि; तेषां स्फे टाभिव्यञ्जकत्वेऽपि चोद्यपरिहारयोस्तुल्यत्वाल्लाघत्रन्यायेन वर्णानामेव वाचकत्वाश्रयणस्य न्याय्यत्वात् । तथा हि-न तावदेकैकवर्णः स्फोटव्यञ्जकः, द्वितीयवर्णवैयर्थ्यात् ; गकारमात्रेण गवयादिपदस्फोटाभिव्यक्तिप्रसङ्गाच्च । नापि वर्णसमुदायो व्यञ्जकः; क्रमोच्चरितश्रुतानां वर्णानां यौगपद्याभावेन समुदायभावानुपपत्तेः । न च पूर्वपूर्ववर्णजनितसंस्कारसचिवोऽन्त्यवर्णो व्यञ्जकः, वर्णानुभवजन्यसंस्काराणामनुभूतवर्णस्मृतिमात्र हेतु नयाऽ
ननुभूतस्फोटप्रतीतिहेतुत्यायोगेन तत्संस्कारानुप्रकृतस्यान्त्यवर्णस्य च तदभिव्यञ्जकःवायोगात् । यद्युच्येत - पदं तावत् प्रतीयते । अतस्तत्प्रतीत्यनुरूपं कारणं कल्प्यम् । क्रमभाविनामपि संस्काराणां युगपत्कार्यकरत्वं युक्तम् ; क्रमदृष्टयोरपि घटयोः तौ घटाविति स्मरणदर्शनात् । अतो युगपद्भाविपूर्ववर्णस्मरणसचिवोऽन्त्यवर्णो वा
१८२ १-१-१. परपक्षेशास्त्रमिध्यात्व नियमः अतोऽसत्यात् शास्त्रात् सत्यत्रह्मविषयप्रतिपत्तिर्दुपपादा ।
ननु न शास्त्रस्य गगनकुसुमवद सत्यत्वम् ; प्रागद्वैतज्ञानात्सद्बुद्धिबोध्यत्वात् । उत्पन्ने तत्त्वज्ञाने ह्यसत्यत्वं शास्त्रस्य । न तदा शास्त्र निरस्त निखिल भेदचिन्मात्रत्रह्मज्ञानोपायः । यदोपायः, तदाऽस्त्येव शास्त्रम्, अस्तीति वुद्धेः ॥ नैवम ; असति शास्त्रे अस्ति शास्त्रमिति बुद्धेर्मिथ्यात्वात् । ततः किम् ? इदं ततः । मिथ्याभूतशास्त्रजन्यज्ञानस्य मिथ्यात्वेन तद्विषयस्यापि ब्रह्मणो मिथ्यात्वम् ; यथा धूमबुद्धथा गृहीतबाष्पजन्यानिज्ञानस्य मिथ्यात्वेन तद्विषयस्याग्नेरपि मिध्यात्वम् । पश्चात्तनबाधादर्शनञ्चासिद्धम; शून्यमेव तत्त्वमिति वाक्ये तस्यापि बाधदर्शनात् । तत्तु भ्रान्तिमूलमिति चेत्-एतदपि भ्रान्तिमूलमिति त्वयैवोक्तम् । पाश्चात्य - युगपत्स्मर्यमाण सर्ववर्ण समुदायो वा स्फोटाभिव्यञ्जक इति — एवं तर्हि स्फोटाभिव्यञ्जकतया अभ्युपेतायाः सामग्र्या अर्थाभिव्यञ्जकत्वमास्थीयताम् ; चोद्यपरिहारयोस्तुल्यत्वात्; अन्यथासिद्धस्यार्थान्तरकल्पकत्वायोगात् ; वर्णानामेव वाचकत्वसंभवे तदतिरिक्त कल्पनानुपपत्तेर्लाघत्रन्यायस्य बलीयस्त्वाच्च । वर्णानां भिन्नत्वेऽपि युगपबुद्धिस्थै कत्रिभक्त्यन्तानेकवर्णसमुदायविषयतया पदैकत्वबुद्धिरपि नार्थान्तरकल्पिका । न चार्थैकत्वात् पदै - कत्थं पदैकत्वादर्यैकत्वमित्यन्योन्याश्रयः; एकविभक्त्यन्तवर्ण समुदायस्यैकपदत्वनिश्चयात् । “सुप्तिङन्तं पदम् " इति हि पदनिष्कर्षः । तस्य चोक्ताभिप्रायत्वे सति अन्याप्तिर्न स्यात् । एकव्युत्पत्तिसिद्धैकार्थप्रतीत्युपयुक्तत्रर्णसमुदायस्य वा पदत्वम् । बहुवर्णेषु अयं शब्दोऽयं शब्दोऽयं शब्द इति प्रत्ययोऽपि श्रोत्रग्राह्यत्योपाधिनिबन्धनत्वादन्यथासिद्ध इति नार्थान्तरसिद्धिः । न च श्रोत्रग्राह्यताया अपि श्रोत्रेण ग्रहणापेक्षा, यथा चाक्षुषाणां धवलिमनीलिमपीनिम्नां चाक्षुषत्वज्ञाने न चक्षुरपेक्षा । इदं चाक्षुषम् इदं चाक्षुषमिति व्यवहारश्च चाक्षुषत्वज्ञाननिबन्धन एव । प्रमाणान्तरावगतचक्षुर श्रोत्राद्यन्त्रयव्यतिरेकानुविधायिज्ञानगोचरत्वेन चाक्षुषश्रावणत्यादिज्ञानम् । न हि सहसैवः शब्दोऽयमिति जानन्ति । प्रथमं गकारादिरूपेणैव शब्देऽवसिते व्युत्पन्नशब्दस्मरणपूर्वकमेव शब्द इत्यवगम्यते । अतः शब्देन स्मरणकृतविलम्बवत् श्रोत्रग्राह्यता (श्रोत्रा) नुमानविलम्बोऽप्यभ्यासपाटयंकृतात् शेयान्न विविच्यते । अतो वर्णसमुदाय एव पदम्, पदसमुदाय एव वाक्यमिति स्थितम् । प असत्यात्सत्यप्रतिपत्तिनिराकरणमुपसंहरति अत इति । सत्यप्रतिपत्तिहेतुष्ठ सत्यतया अभिमतेषु यादृशं सत्यत्यम्, तादृशं सत्यत्वं शास्त्रस्याप्यस्तीत्यभिप्रायेण चोदयति
नन्विति । गगनकुसुमवदिति युक्तिवाधो ह्युक्तः । न त्विदानीमेव लौकिकपुरुषैर्नास्तीति प्रतिपन्नत्वम् । अतः तादृशमसत्यत्वं नेत्यर्थः । हेतुमाह सद्बुद्धिबोध्यत्वादिति । सदिति बोध्यत्वमेव कार्यकरत्वानुगुणम्, न सत्यत्वमित्यर्थ । तर्हि सदद्वैतभङ्गः स्यादित्यत्राह उत्पन्न इति । तर्हि न बोधकत्वमित्यत्राह न तदेति । परिहरति नैवमिति । नैवम् — उपायकालेऽपि सत्यत्वं नास्तीत्यर्थः । ज्ञानस्य मिथ्यात्वं मिध्यार्थविषयत्वात् । ज्ञानस्य दोषमूत्वाद्विषयमिध्यात्वे निदर्शनमाह यथेति । पूर्व पश्चात्तनवाधादर्शनमभ्युपेत्य दूषणमुक्तम् । इदानीं तदेव नास्तीत्याह पश्चादिति । तदुपपादयति शून्यमिति । तद्वाक्यं तत्प्रामाण्यमपि भ्रान्तिसिद्धमिति शङ्कते तत्त्विति । तुल्यत्वमाह एतदपीति । पाश्चात्यबाधादर्शनस्य प्रामाण्यहेतुत्ववचनं सर्वशून्यवादिन एव साधकम ; ततः परं निषेध्याभावेन निषेधानुदयादित्याह पाश्चात्येति । प्रामाण्यादीनां दोषमूलत्वं द्वयोरपि तुल्यम्; पाश्चात्यबाधादर्शनं तु शून्यवादिनोऽधिकमित्यर्थः ॥ सर्वशून्यवादिनोऽपि परो निषेधोऽस्ति ; सर्वमस्तीति वचनं हि तन्निषेध इति चेत् तर्हि प्रपश्चमिथ्यात्त्रवचनस्यापि प्रपञ्चसत्यतावचनं निषेधः स्यात् । नास्तीति वचनमेव निषेध इति चेत्-तत्तु शून्यवादिन एवेति
बाधादर्शनं तु तस्यैवेत्यलमप्रतिष्ठितकुतर्क परिहसनेन ॥ १९८३ यदुक्तम्–वेदान्तवाक्यानि निर्विशेषज्ञानैकरसवस्तुमात्रप्रतिपादनपराणि, “सदेव सोम्येदमग्र आसीत् ” भावः । इदश्ञ्च वेदाप्रामाण्यं मृषावादिनां सोगतानां च समानम् । यदाहुः- “वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाण्यमेतस्य च तस्य चानृतम् बोद्धाऽनृतो बुद्धिफले तथाऽनृते यूयं च बौद्धाश्च समानसंसद्ः ॥” इति । 183
ननु विषयसत्यत्वरूपं शास्त्रप्रामाण्यं विद्यत इति महदिह (दं) वैषम्यमस्माकमिति चेन्न । किं कतिपयविषयसत्यत्वं विवक्षितम्, उत कृत्स्नविषयसत्यत्वम् । कतिपय विषय सत्यवं बुद्धागमस्याप्यस्ति ; संवित्स्वयम्प्रकाशत्वादेः सम्प्रतिपन्नत्वात् । कृत्स्नविषयसत्यत्वं तु श्रुतेरपि त्वया न स्वीकृतमिति । किञ्च विषयसत्यत्वं दुर्वचम ; सत्यतयाऽभ्युपेतस्य ब्रह्मणः प्रमाणविषयत्वानभ्युपगमात् । यत्तु ‘आदित्यो यूपः’ इत्यत्र यूपादित्यैक्याप्रतिपादनं तात्पर्यलिङ्गाभावात्, न तु प्रत्यक्षप्राबल्या दित्युच्यते तत्र तात्पर्यलिङ्गाभावोऽम्युपेत एव । तेन प्रत्यक्षविरुद्धार्थप्रतिपादनाक्षमत्वमवर्जनीयमापतति । न हि वेदान्तिभिरर्थवादादेरन्यपरत्वात् स्वार्थे प्रामाण्यं त्यज्यते । मन्त्रार्थवादानामपि स्वार्थे प्रामाण्यस्य भवद्भिरेवोपपादितत्वात् । अतः स्तुतिपरत्वात् यूपादित्यैक्याप्रतिपादनमित्यपसिद्धान्तः ॥ अर्थवादानां स्वार्थे प्रामाण्यमस्तीति कथं तद्यूपादित्यैक्याप्रति पादनमितिचेत् — उच्यते । प्रमाणाविरोधश्च तात्पर्यलिङ्गम् । उपक्रमोपसंहारादिष्वपूर्वत्वमपि तात्पर्यलिङ्गतया ह्युक्तम्, “अभ्यासेोऽपूर्वता फलम्” इति । अपूर्वत्वं साधकबाधकप्रमाणागोचरत्वम् । यथाऽऽदुः, “असंनिकृष्टवाचा’ च द्वयमत्र जिहासितम् । ताद्रूष्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा” इति । अतः प्रमाणान्तरागोचरत्वलक्षणं तात्पर्यलिङ्गमत्र नास्तीति यूपादित्यैक्याप्रतिपादनम् ; न त्वर्थवादत्वेन स्वार्थे प्रामाण्याभावादिति । अतस्तात्पर्यलिङ्गाभावो नाम प्रत्यक्षादिविरोधे पर्यवसित इति शास्त्रं न तद्विरुद्धार्थप्रतिपादनक्षमम् । शास्त्रप्राबल्यनिरसनं परिसमापयति अलमिति । यद्वा, यत्तु प्रत्यक्षमित्यादिना न्यायमुखेन कृतं • परपक्षप्रतिक्षेपमुपसंहरति अलमिति । प्रमाणविरुद्धस्तः कुतर्कः । अत एवाप्रतिष्ठितत्वम् । स्वविरुद्ध बौद्धमतोपयुक्तयुक्तिकथनात् परिहसनीयत्वम् ॥ शास्त्रस्य परेण प्रत्यक्षादपि शास्त्रप्राबल्यं वदता प्रबलतयाऽभिमतं शास्त्रं पुरस्कृत्य पश्चात् तर्कः प्रतिपादितः । सिद्धान्ते तु प्रबलतयाऽभिमत लौकिकप्रमाणगतिं प्रथमं निरूप्य परोक्तदुस्तकं निरस्य लौकिकप्रमाणविरोधे शास्त्रप्राबल्यं च प्रतिक्षिप्तम् । शास्त्रस्य लौकिक प्रमाणविरुद्धार्थप्रतिपादनासामर्थ्योपपादनेन सविशेषपरत्वं सामान्यतः सामर्थ्यात् सिद्धम् । विशेषेण शब्दस्य पदवाक्यरूपेण प्रवृत्या सविशेषपरतोपपादनाच्च शास्त्रस्य सविशेषपरत्वं सामान्येन सिद्धम् । अथापि ये वाक्यविशेषाः परेण निर्विशेषपरत्वेनोदाहृताः, तेषां सविशेषपरत्वं वाक्यतात्पर्यपर्यालोचनया प्रतिपादयितुमारभतें यदुक्तमित्यादिना । तत्र निर्विशेषपरत्वं सङ्ग्रहेणानुवदति यदुक्तमिति । ज्ञनिकरसत्वेन शोधकवाक्येषु प्रतिपन्नत्वान्निर्विशेषस्वम् । तच्च कारणवाक्येषु प्रतिपन्नम् । वस्तुमात्रशब्देन अन्यत्र सगुणत्रह्मणि तात्पर्याभावः सूच्यते । इत्यादीनीत्युक्ते तस्यामेवोपनिषदि
- यत् वस्तु यथा प्रमाणप्रतिपन्नम्, यस्याभावश्च प्रतिपन्नः, तथाभूत तदुभयम् असंनिकृष्टवाचा - शास्त्रमसंनिकृष्टेऽर्थे विज्ञानमिति शाबरभाष्ये असंनिकृष्टमिति पदेन व्यावर्त्यते । तदुभयातिरिक्तेऽर्थे शास्त्रं प्रमाणमित्यर्थः ।
१८४ १-१-१. वेदान्तनिर्विशेषपरत्व भंगः इत्येवमादीनीति । तदयुक्तम ; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनमुखेन सच्छन्दवाच्यस्य परस्य ब्रह्मणो पर्यवस्यतीति तद्व्यावृत्यर्थमित्येवमादीनीत्युक्तम् । तत् दूषयति तदयुक्तमिति । कुत इत्यत्राह एकविज्ञानेनेति । येनाश्रुतमित्यादिवाक्येन एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञायते ! ― अस्थायमर्थः, येन श्रुतेन मतेन विज्ञातेन अश्रुतममतमविज्ञातं श्रुतं मतं विज्ञातं भवतीति न तु ब्रह्मणस्सत्तया सर्वं ज्ञतं भवतीति — दान्तिक सामर्थ्यात्, मृदुदृष्टान्तसामर्थ्याच्च । न हि ब्रह्मसत्तया मृत्पिण्डसत्तया वा तत्तत्कार्यं ज्ञायते । ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति मुण्डकोपनिषदि, ‘आत्मनि खल्बरे दृष्ट श्रुते मते विज्ञात इदं सर्वं विदितम्’ इति बृहदारण्यके च श्रवणाच्च । अतो यथोक्त एव प्रतिज्ञावाक्यार्थः । न हि घटज्ञानन पटज्ञान संभव इत्येकविज्ञानेन सर्वविज्ञानं न संभवतीति शङ्कायां कार्यकारणयोस्तद् दृष्टमित्याह यथा सोम्येति । तत्राप्यसत्कार्यवादमुखेन एकविज्ञानेन सर्वविज्ञानानुपपत्तिशङ्कां परिहरति — वाचारम्भणमिति । वाचा । वाक्शब्दोऽजहल्लक्षणया वाक्पूर्वव्यवहारपरः । वाचेति तृतीयया प्रयोजनतया हेतुत्वं विवक्षितम् । आरम्भणमिति कर्मणि ल्युट्; आरभ्यते ’ आलभ्यते इत्यारम्भणम् । ‘आलम्भः स्पर्शंसयोः’ । मृत्पिण्डेनेत्यर्थसिद्धम् । विकारः घटत्वद्रव्यत्वाद्यवस्था । वाक् पूर्व कहानादिव्यवहारार्थं मृत्पिण्डेन नामरूपे स्पृश्येते, मृत्पिण्डो नामरूपभाग् भवतीत्यर्थः । कार्यकारणयोरेकद्रव्यत्वे प्रमाणमाहमृत्तिकेत्येव सत्यमिति । मृदयं घट इति प्रत्यभिज्ञया मृन्मयं घटादिकमपि मृद्दव्यत्वेनैव प्रामाणिक मित्यर्थः । बुद्धिशब्दादिभेदाः घटपटादिषु द्रव्यभेदेऽपि दृष्टाः ; आस्ते शेते सुख्यहं दुःख्यहमित्यादिषु द्रव्यैक्येऽपि दृष्टाः ; अतस्ते साधारणाः । तत्र आस्ते रेति सुख्यह दुःख्यहमित्यादिषु द्रव्यैक्यनियामिका या प्रत्यभिज्ञा, सैवात्रापि द्रव्यैक्यनियामिकेति भावः । अत्र मृत्तिकामात्रस्य पारमार्थ्यं विकारासत्यत्वं च विवक्षितं चेत् इतिशब्दवैयर्थं स्यादिति । तदा मृत्तिकैव सत्येति हि वाच्यम्; विकारासत्यत्वे दृष्टान्तः साध्यविकलः; सत्यत्वप्रतिपत्तेः ॥ घटादिसत्यत्वं व्यावहारिकमिति चेत् — मृत्पिण्डस्यापि सत्यत्वं व्यावहारिकमिति न कारण सत्यत्वसिद्धिः ॥ कारणस्य व्यावहारिकमेव सत्यत्वमभिमतं चेत् तद् घटादेरपि तुल्यं स्यात् । कार्यकारणद्रव्यैक्यात् कारणविज्ञानेन कार्यविज्ञानमुपपन्नमस्तु ; तथाऽपि लोके विविध कार्यवर्गस्य विविधोपादान कत्वदर्शनादेकविज्ञानेन सर्वविज्ञानमनुपपन्नमिति शङ्कायां जगतो ब्रह्मैककारणतामाह–सदेव सोम्येदमग्र आसीदिति । श्रुतिगतसच्छब्दार्थमभिप्रेत्यात्र सच्छब्दवाच्यस्येत्युक्तम् । सगुणब्रह्मपरमिदमित्यन्यथासिद्धिदुर्वचेत्यभिप्रायेण परस्य ब्रह्मण इत्युक्तम् । अग्रे— सृष्टेः पूर्वमित्यर्थः ; अनन्तरं सृष्टेर्वक्ष्यमाणत्वात् । विजातीयस जातीयत्वगतनानात्वव्यावृत्तिः अत्र विवक्षिता चेत्, अग्र इति वक्तुमयुक्तम् । न हि ब्रह्मणः कालविशेषे निर्विशेषत्वम् ; वैषम्यनैर्घृण्यपरिहाराय जीवबहुस्व तत्कर्मप्रवाह तदनादित्वानामभ्युपगम्यत्वाच्च ॥ तद्वद्दुत्वमपारमार्थिकमिति चेत् - पारमार्थिकबद्दुत्वस्य इदानीमध्यभावादप्रशब्दवैयर्थ्यात् । न चाप्रशब्दस्याविवक्षितार्थता; अनन्तरं सृष्टयः । अतः कालरूपविजतीयभेदश्चेतनरूपसजातीयभेदः सार्वच्या दिसृष्टधनुगुणगुणरूप स्वगतभेदश्व तदानीमस्तीति विजातीयादित्रिविध मेदनिरास परत्वं विरुद्धम् ; कारणवाक्यत्वात् । न चेदिदं कारणवाक्यम्, ईदृशानां कारणवाक्यानां सर्वशाखाप्रत्ययनयात् विजातीयादिभेदनिरासपरत्वेन कारणपरत्वाभावात्
श्रुतप्रकाशिकोपेते श्रीमाध्ये 1 १८५ जगेदुपादानत्वं जगन्निमित्तत्वं सर्वज्ञता सर्वशक्तियोगः सत्यसङ्कल्पत्वं सर्वान्तरात्मत्वं सर्वनियमनमित्याद्यनेक- ब्रह्मकारणत्वमप्रमाणं स्यात् अवधारणवाचिन एवकारस्य स्वयं व्यावर्त्यविशेषोपस्थापना समर्थस्य समभिव्याहृतपदान्तरार्थविरोधिव्यावर्तकत्व नियमदर्शनात् सदेवेत्यवधारणमसत्कार्यवादव्युदासपरम् । न हि अयं विद्वानेवेत्यवधारणं ब्राह्मणत्वं व्यावर्तयति ; अपि त्वविद्वत्त्वमेव । अतः शब्दस्वारस्यात् सदेवेति निरसनीयमसस्वमेव न तु विजातीयभेदः । यद्यपि सद्विजातीयमसत् - तथाऽपि तस्य व्यावर्त्यत्वं न विजातीयत्वाकारेण; अपि तु सद्विरोधित्वरूपेण । सदेव; न तु कदाचिदपि असदित्यर्थः । सच्छब्दो हि मानसंबन्ध योग्यतालक्षणं सत्वं प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते । अयं सच्छन्दो विशेष्यभूतपरमात्मवाचकोऽपि कारणविषयत्वसामर्थ्यात् कारणत्वौपयिकगुगविशिष्टं प्रकृतिपुरुष कालशरीरकं परमात्मानमुपस्थापयति । एकमेवेति अविभक्तनामरूपकारणावस्थं ब्रह्मोच्यते । कारणत्वावस्थायामेकत्वावधारणस्य बहु स्यामिति स्रक्ष्यमाणकार्य बहुत्वप्रतियोग्येकल्यपरत्वात् ; ‘एकेन मृत्पिण्डेन सर्वं मृन्मयम्’ इत्युक्तदृष्टान्तसामर्थ्यात् । ‘तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत’ इति श्रुत्यन्तरैक्यार्थ्याच्चायमेवार्थः । वैशेषिकादिभिर्नित्यतयोक्तानामाकाशादीनामपि संहाराभिप्राय एवकारः । एवमविभक्तानामरूपत्वाद्ब्रह्मण उपादानत्वं सिद्धम् । भाव्यवस्थाविशेषवतः प्रागवस्थायोगो ह्युपादानत्वम् । अद्वितीयमिति निमित्तान्तरनिषेधः ; उपादानस्य प्रस्तुतत्वेन निमित्तस्य बुद्धिस्थत्वात्; परतन्त्ररूपविशेषाणां विहितत्वात् निषेधस्य च विद्दितव्यतिरिक्तविषयत्वात्; उपरितनवाक्यंसङ्गतेरपेक्षितत्वाच्च । एकमेवेति शब्दस्याविभक्तनामरूपतापरत्वं बहु स्यामित्यनेनावगम्यते । ‘तदैक्षत….तत्तेजोऽसृजत’ इत्यनेन अद्वितीयपदस्य निमित्तान्तराभावपरत्वमवगम्यते । परस्य ब्रह्मणः सर्वदा सत्वन… सदेवेत्यवधारणमसत्कार्यवादव्युदासपरमिति उपरितनेन, ‘कथमसतः’ सज्जायेत’ इत्यादिवाक्येनावगम्यते । ‘कथमसतः’ इत्यादिवाक्यं वैशेषिकमतनिरासपरम् ; न तु क्षणिकवादिनिरासपरम्, न शून्यवादिनिरासपरं च; क्षणिकशून्यवादिनिरासे कृतेऽप्येकविज्ञानेन सर्वविज्ञानस्य वैशेषिकमतनिरास सापेक्षत्वात् ; ‘तद्वैक आहुः असदेवेदमप्र आसीत्’ इत्यारब्धत्वाच्च । न हि क्षणिकत्वं शून्यत्वं च कालविशेषे भवति । अतोऽसत्कार्यवादनिरासपरं तद्धैक आद्दुरित्यादि वाक्यम् । ‘कुनस्तु खलु सोम्येवं स्यात्’ इति मृद उत्पन्नस्य मृदात्मकत्ववत् असत उत्पन्नस्यासदात्मकत्वप्रसङ्ग इति भावः । उत्पत्तिर्नाम उत्पत्तिर्नाम द्रव्यस्यावस्थान्तरापत्तिरित्ययमर्थे वाचारम्भणमित्यनेन शिक्षितः । तदु (मु?) पजीव्योच्यते, कथमसतः सज्जायेतेति । कथं निराश्रयावस्थासंभव इत्यर्थः । तदैक्षतेति सर्वज्ञत्वम्, असृजतेति निमित्तत्वम्, बहु स्यामित्युपादानत्वम्, तदुभयानुगुणं सर्वशक्तित्वं सत्यसङ्कल्पत्वञ्च, अनेन जीवेनात्मनाऽनुप्रविश्येति सर्वान्तरत्वं चोक्तं भवति । जीवेनात्मना - जीवशरीर केण मयेत्यर्थः; ‘“सिंहेनः भूत्या बहवो मयात्ता व्याघ्रेण भूखा बहवो मयात्ताः’ इतिवत् । सर्वज्ञत्वादिगुणकस्य तद्विपरीताकारजी वैक्यासंभवात्, ‘यस्यात्मा शरीरम्’ इत्यादिवचनात्, ‘तदनुप्रविश्य’ इति अचेतन इव जीत्रेऽप्यनुप्रवेशश्रवणांच्च । शरीरवाचिशब्दरूप शरीरिपर्यन्तत्वमुख्यताया उपपन्नत्वाच्चायमेवार्थः । सदायतनाः 1
ननु जीवेनेत्यस्य परमात्मपर्यन्तार्थकत्वे तस्य कर्तुः क्त्वाप्रत्ययाभिहितत्वात् कथं तृतीयेत्यत्राहसिंहेनेति । आत्मनः सिंहदेहभवनायोगात् सिंहेनेत्यस्य सिंहदेहकेनेत्यर्थस्य वाच्यतया तत्र कथं तृतीया । करणे भवत्विति चेत्तुल्यमित्यादि भाव्यम् । श्रु० 24
१८६ १-१-१. सद्विद्यायाः सविशेषपरत्वम् कल्याणगुणविशिष्टतां कृत्स्नस्य जगतस्तदात्मकतां च प्रतिपाद्य एवम्भूतब्रह्मात्मकस्त्वमसीति श्वेतकेतुं प्रत्युप- इत्यनेन सर्वाधारता, तत एव सर्वनियमनश्च सिद्धम् । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि ! द्यावापृथिव्यौ विधृते तिष्ठतः’ इति प्रशासनेन धारकत्व श्रवणात् । एवं सर्वाधारत्व सर्वनियमन सर्वान्तरवैः शरीरिलक्षणैर्जगच्छरीरकत्वं ब्रह्मण उक्तम् । आदिशब्देन सृष्टयपयोगिनः श्रुत्यन्तरसिद्धा गुणा गृह्यन्ते । ऐतदात्म्यमित्यनेन कृत्स्नस्य जगतः तदात्मकता चावगम्यते ; तत्सत्यमिति तदात्मकत्वेनैव जगतः प्रामाणिकत्वम् । जगतः स्वनिष्ठत्वेन प्रतीतिर्भ्रान्तिरित्यर्थः । अतः कृत्स्नस्य जगतः स आत्मा । ’ ऐतदात्म्यमिदं सर्वं स आत्मा’ इति निर्देशः ‘रामानुजं लक्ष्मणपूर्वजं च’ इतिवत् अन्योन्यसम्बन्धित्वतात्पर्यातिशयकृतः । यद्वा, ‘स त आत्माऽन्तर्याम्यमृतः’ इतिवत् कृत्स्नजगदन्तर्यामित्वात् तवात्मा स इत्यर्थः । तस्मात् त्वं शब्दतदर्थतबुद्धयः तत्पर्यन्ता इति ‘तस्वमसीत्यस्यार्थ इत्याह एवम्भूतेति । एवम्भूतशब्देन तत्पदस्य प्रकृतपरामर्शित्वं सूचितम् । अस्याः सद्विद्यायाः सविशेषवस्तुन्येत्र षडिधतात्पर्यलिङ्गं विद्यते – उपक्रमे ‘उत तमादेशमप्राक्यः’ इत्यत्र आदेशशब्देन प्रशासिताऽभिधीयते । अत्र श्लोकावाचार्यपादैरुक्तौ – “छान्दोग्ये केचिदाहुर्दिशतिः ‘उत तमादेशमप्राक्ष्य’ इत्य- 1 त्राऽऽपूर्व स्तूपदेशं प्रक्वति सतो न प्रशास्ति घञन्तः । नो कर्तयस्ति कर्मण्यगणि घञि सत् कर्तृ शास्तौ न कर्म स्यात् स्या(त) कर्मोपदेशे तदिदमुदित (तदिदम् उतत ) मादेशवाचे ।पदेश्यम् ॥ अत्र ब्रूमः प्रशारित वदति दिशिरसौ आङ्मुखो नोपदेशं शास्तौ (शांस्ता) सोऽतिप्रसिद्धो न हि परः इह चापेक्षितार्थप्रसङ्गः । युक्तोऽसाधारणोक्त्या घनगणि करणेऽप्यत्र वैवक्षिकत्वं शाब्दोक्तं कारकाणां
ननु करणतया कर्तरि स्याद्विवक्षा ॥” इति । तावत, आदेशशब्देनोपदेश्यमुच्यते । प्रकृत्यर्थ उपदेशः ; ‘अकर्तरि च कारके संज्ञायाम्’ इति कर्तृव्यतिरिक्तकारके घञो विहितत्वात् । उपदेशे ब्रह्मणः कर्मत्वोपपत्तेश्च प्रशासने तु ब्रह्म न कर्म । अपि तु कर्तृ । कर्तृव्यतिरिक्तकारके हि धन्प्रत्ययविधिः । नात्र कर्तरि कप्रत्यय उपपद्यते; ‘किङिति च’ इति गुणप्रतिषेधादादेशशब्दरूपासिद्धेः । नापि पचाद्यच्प्रत्यय उपपद्यते; दिशिधातोरिगुपधत्वेन ‘इगुपधात्कः’ इत्यपवादसूत्रेण कप्रत्य - यप्राप्तेर्गुणाभावात् । अतो घञ्प्रत्ययान्त एवायमादेशशब्दः । स चं प्रत्ययः कर्तर्यविहित इति कर्मार्थत्वस्यैव युक्तस्थादुपदेश्यमे वाऽऽदेश शब्द वाक्यमिति । अत्रोच्यते-प्रकृत्यर्थः शासनम् ; प्रसिद्धिप्राचुर्यात् । अन्यथा स्वारस्यमङ्गात् । “आर्यो दिशतिनियोक्तृ प्रयोजनवचनः उपपूर्वस्तु नियोज्यप्रयोजनवचनः” इति हि न्यासकारः । नियोक्तरि प्रयोजनं यस्य, तस्यार्थस्य वाचक इत्यर्थः । एवमन्यत्रापि । किञ्च उपदेश्यत्वं लौकिका लौकिक कर्मब्रह्मभागार्थ साधारणम् ; शासितृत्वं तु ब्रह्मणोऽसाधारणम् ; “अन्तः प्रविष्टः शास्ता जनानाम”, “एतस्य वा अक्षरस्य प्रशासने गार्गि” इत्यादिश्रुतिभिर्निरुपाधिक प्रशासनस्य ब्रह्मासाधारणत्व श्रवणात् 11 निरुपाधिकोपदेश्यत्वं ब्रह्मणोऽसाधारणमिति चेन्न — इष्टप्राप्त्यनिष्ट निवृत्तितत्साधनेषु साधारण्यात् । यद्यप्य- 1 न तु त्वंशब्दस्य जीवमात्रपरत्वं भाष्येष्टमिति यथाश्रुतग्रहणं युक्तम् । उपर्यन्यथोक्तेरिति भावः ।
शुखप्रका शिकोपेते श्रीभाष्ये १८७ देशाय प्रवृत्तत्वात् प्रकरणस्य । प्रपञ्चितश्चायमर्थौ वेदार्थसंग्रहे । अत्राप्यारम्भणाधिकरणे निपुणतरमुपपादयिष्यते ॥ “अथ परा, यथा तदक्षरम्” इत्यत्रापि प्राकृतान् देयगुणान् प्रतिषिद्धय नित्यत्वविभुत्वसूक्ष्मत्वसर्वगतत्वापरिमितसुखप्राप्तिदुःखनिवृत्त्यादि साक्षादुपदेश्यं स्यात् तथापि संसारनिवृत्तिब्रह्म तदुपासनानामुपदेश्यत्वं साधारणम् । प्रष्टव्यस्योपदेश्यत्वमर्थसिद्धम् । अत उपदेश्यत्व कथनवैयर्थ्यश्च ।
ननु ‘येनाश्रुतं श्रुतम्’ इत्यनेनैकवाक्यत्वात्खज्ञानेनान्यज्ञानहेतुताविशेषित मुपदेश्यत्वम साधारणमिति चेत् — तथापि तादृशमुपदेश्यत्वं प्रतिज्ञावाक्येन, प्रष्टव्यत्वोक्त्या चार्थसिद्धमित्यनपेक्षितोपदेश्यत्वकथनादप्यपेक्षितं प्रशासितृत्वमेव वाच्यमिति युक्तम् । ‘येनाश्रुतम् ’ इत्युपादानत्वे सिद्धे प्रशासितृत्वेन हि निमित्तत्वं सिध्येत् । निमित्तान्तरे सति एकविज्ञानात् सर्वविज्ञानं नोपपद्यते । अतः प्रतिपिपादयिषितवस्तुनो विविक्षितासाधारणाकार विशिष्टतयैव प्रतिपादनमुचितम् । घञ्प्रत्ययस्य तु करणे व्युत्पन्नत्वात्, “विवक्षातः कारकाणां प्रवृत्तिः” इति शाब्दोक्तन्यायेन कर्तर्येव करणान्तरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोग उपपद्यते, अकर्तरीतिसूत्रस्य प्रयोजनं करणत्वविवक्षया विना कर्तर्यसाधुत्वेन प्रयोगनिवृत्तिः । उपदेशपक्षे प्रकृत्यर्थ स्वारस्यं प्रत्ययस्वारस्यं च, प्रशासनपक्षे तु प्रत्ययास्वारस्यं प्रधानभूत प्रकृत्यर्थस्वारस्य मर्थौचित्यं चेति वैषम्यम् । अतः प्रशासितैवाऽऽदेशशब्दाभिधेय इति स्वीकर्तुं युक्तम् । एवमुपक्रमे निरुपाधिकप्रशासनगुणयोग उक्तः । तथा जगदुपादानत्वं निमित्तत्वं तदनुगुण सार्वश्य सर्वशक्तित्वादिकञ्चावगतम् । । उपसंहारे च तत्त्वमसीति सामानाधिकरण्येन जीवान्तर्यामित्वं नाम गुणविशेष उक्तः । अस्यैवार्थस्य बहुश आवर्तितत्वादभ्यासोऽप्यस्ति । एवं ब्रह्मणो जगत्कारणत्वं जगदन्तरात्मत्वादिगुणानां प्रमाणान्तराप्रतिपन्नत्वादपूर्वता सिद्धा । एवमुपासकस्य, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति शरीरपातानन्तरं मोक्ष श्रवणात् फलमपि विद्यते । पितुः पुत्रं प्रति प्रतिवचनरूपत्वादर्थवादश्च लब्धः । मृत्पिण्डादिदृष्टान्तोपपादनादुपपत्तिश्चेति । अस्मिन् दृष्टान्तत्रयेऽपि विवर्तपक्षानुगुणः कोऽपि दृष्टान्तो न दृश्यते; अपि तु परिणामपक्षानुगुण एष दृश्यते । दाष्टन्तिकविषयवाक्येऽपि तत्तजोऽसृजतेत्युक्तम्, न तु तदभ्रमदिति । अतोऽस्यां श्रुतौ विवर्तपक्षप्रसङ्गोऽपि नास्ति । श्रुत्यन्तरेषु च ‘तदात्मानं स्वयम रुत’ इत्यादिकं श्रूयते; न तु व्यवर्ततेति । सूत्रं च “परिणामात्” इति; न तु, विवर्तादिति । स्मृतिषु च ’ कटकमकुटकर्णिकादिभेदैः कन कम भेदमपीष्यते यथैकम् । क्षितितलपरमाणवोऽनिलान्ते” इत्यादिषु परिणामपक्षा (क्ष ?) एवं दृश्यन्ते (ते ?) । अतः श्रुतिस्मृतिसून स्वारस्यात् परिणाम एवाभ्युपगन्तव्यः । स च परिणामः सद्वारक एवं भवितुमर्हति ; निर्विकारस्व-निर्दोषत्व-अनुप्रवेशशरीरशरीरिभावादिविषयानेकश्रुतिस्वारस्यात् । अन्यथा तद्विरोधप्रसङ्गाच्चेति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यं किम् कथं तदुपपादन मित्याशङ्कायामेतद्विस्तरो वेदार्थसङ्ग्रह इस्याह प्रपञ्चित इति । अत्र अपेक्षितार्थः कथं ज्ञास्यत इत्यवाह अत्रापीति । निपुणतरम् — तस्याधिकरणस्यैतदर्थेकविषयत्वादिति भावः ॥ अनन्तरोदाहृतायाः परविद्यायाः सविशेषपरत्वमाह अथ परेत्यादिना । अपाणिपादमित्यन्तानां पदानां विषयमाह प्राकृतानिति । प्राकृताः प्रकृतिसंबन्धिनः । अनेन, ‘कचित्सिद्भस्य हि कचिन्निषेवः’ इति
१८६ १-१-१. सद्विद्यायाः सविशेषपरत्वम् ; कल्याणगुणविशिष्टतां कृत्स्नस्य जगतस्तदात्मकतां च प्रतिपाद्य एवम्भूतब्रह्मात्मकस्त्वमसीति श्वेतकेतुं प्रत्युपइत्यनेन सर्वाधारता, तत एव सर्वनियमनश्च सिद्धम् । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि ! द्यावापृथिव्यौ विधृते तिष्ठतः’ इति प्रशासनेन धारकत्वश्रवणात् । एवं सर्वाधारत्वसर्वनियमन सर्वान्तरत्यैः शरीरिलक्षणैर्जगच्छरीरकत्वं ब्रह्मण उक्तम् । आदिशब्देन सृष्टयुपयोगिनः श्रुत्यन्तरसिद्धा गुणा गृह्यन्ते । ऐतदात्म्यमित्यनेन कृत्स्नस्य जगतः तदात्मकता चावगम्यते तत्सत्यमिति तदात्मकत्वेनैव जगतः प्रामाणिकत्वम् । जगतः स्वनिष्ठत्वेन प्रतीतिर्भ्रान्तिरित्यर्थः । अतः कृत्स्नस्य जगतः स आत्मा । ’ ऐतदात्म्यमिदं सर्वं स आत्मा’ इति निर्देशः ‘रामानुजं लक्ष्मणपूर्वजं च’ इतिवत् अन्योन्यसम्बन्धित्वतात्पर्यातिशयकृतः । यद्वा, ‘सत आत्माऽन्तर्याम्यमृतः’ इतिवत् कृत्स्नजगदन्तर्यामित्वात् तवात्मा स इत्यर्थः । तस्मात् त्वंशब्दतदर्थतबुद्धयः तत्पर्यन्ता इति तत्त्वमसीत्यस्यार्थ इत्याह एवम्भूतेति । एवम्भूतशब्देन तत्पदस्य प्रकृतपरामर्शित्वं सूचितम् । अस्याः सद्विद्यायाः सविशेषवस्तुन्येव षड़िधतात्पर्यलिङ्गं विद्यते — उपक्रमे ‘उत तमादेशमप्रादयः’ इत्यत्र आदेशशब्देन प्रशासिताऽभिधीयते । अत्र श्लोकावाचार्य पादैरुक्तौ- “छान्दोग्य केचिदाहुर्दिशतिः ‘उत तमादेशमप्राक्ष्य’ इत्य- त्राऽऽङ्पूर्वस्तूपदेशं प्रक्वति सतो न प्रशास्ति घञन्तः । नो कर्तयस्ति कर्मण्यगणि घञि सत् कर्तृ शास्तौ न कर्म स्यात् स्या(त) कर्मोपदेशे तदिदमुदित (तदिदम् उतत)मादेशवाचे।पदेश्यम् ॥ अत्र ब्रूमः प्रशारित वदति दिशिरसौ आङ्मुखो नोपदेशं शोस्तो (शास्ता) सोऽतिप्रसिद्धो न हि परः इह चापेक्षितार्थप्रसङ्गः । युक्तोऽसाधारणोक्त्या घनगणि करणेऽप्यत्र वैयक्षिकत्वं . शाब्देोक्तं कारकाणां नतु करणतया कर्तरि स्याद्विवक्षा ॥” इति । तावत, आदेशशब्देनोपदेश्यमुच्यते । प्रकृत्यर्थ उपदेशः ; ‘अकर्तरि च कारके संज्ञायाम्’ इति कर्तृव्यतिरिक्तकारके घञो विहितत्वात् । उपदेशे ब्रह्मणः कर्मत्वोपपत्तेश्च प्रशासने तु ब्रह्म न कर्म । अपि तु कर्तृ । कर्तृव्यतिरिक्तकारके हि धन्प्रत्ययविधिः । नात्र कर्तरि कप्रत्यय उपपद्यते; ‘किंङिति च’ इति गुणप्रतिषेधादादेशशब्दरूपासिद्धेः । नापि पचाद्यन्प्रत्यय उपपद्यते; दिशिधातोरिगुपधत्वेन ‘इगुपधात्कः’ इत्यपवादसूत्रेण कप्रत्ययप्राप्तेर्गुणाभावात् । अतो घञ्प्रत्ययान्त एवायमादेशशब्दः । स च प्रत्ययः कर्तर्यविहित इति कर्मार्थत्वस्यैव युक्तत्वादुपदेश्यमेवाऽऽदेशशब्दवाच्यमिति । अत्रोच्यते-प्रकृत्यर्थः शासनम् ; प्रसिद्धिप्राचुर्यात् । अन्यथा स्वारस्यभङ्गात् । “आर्यो दिशतिर्नियोक्तृ प्रयोजनवचनः उपपूर्वस्तु नियोज्यप्रयोजनवचनः” इति हि न्यासकारः । नियोक्तरि प्रयोजनं यस्य, तस्यार्थस्य वाचक इत्यर्थः । एवमन्यत्रापि । किञ्च उपदेश्यत्वं लौकिका लौकिककर्मब्रह्मभागार्थसाधारणम् ; शासितृत्वं तु ब्रह्मणोऽसाधारणम्; “अन्तः प्रविष्टः शास्ता जनानामू”, “एतस्य वा अक्षरस्य प्रशासने गार्गि” इत्यादिश्रुतिभिर्निरुपाधिक प्रशासनस्य ब्रह्मा साधारणत्वश्रवणात् निरुपाधिकोपदेश्यत्वं ब्रह्मणोऽसाधारणमिति चेन्न - इष्टप्राप्त्यनिष्ट निवृत्तितत्साधनेषु साधारण्यात् । यद्यप्य- 1 न तु त्वंशब्दस्य जीवमात्रपरत्वं भाष्येष्टमिति यथाश्रुतग्रहणं युक्तम् । उपर्यंन्यथोक्तेरिति भावः । 11
ध्रुवप्रका शिकोपेते श्रीभाष्ये
१८७ देशाय प्रवृत्तत्वात् प्रकरणस्य । प्रपञ्चितश्चायमर्थौ वेदार्थसंग्रहे । अत्राप्यारम्भणाधिकरणे निपुणतरमुपपादयिष्यते ॥ “अथ परा, यया तदक्षरम्” इत्यत्रापि प्राकृतान् हेयगुणान् प्रतिषिद्धय नित्यत्वविभुत्वसूक्ष्मत्वसर्वगतत्वापरिमितसुखप्राप्तिदुःखनिवृत्त्यादि साक्षादुपदेश्यं स्यात् – तथापि संसारनिवृत्तिब्रह्म तदुपासनानामुपदेश्यत्वं साधारणम् । प्रष्टव्यस्योपदेश्यत्वमर्थसिद्धम् । अत उपदेश्यस्व कथनवैयर्थ्यश्च ।
ननु ‘येनाश्रुतं श्रुतम्’ इत्यनेनैकवाक्यत्वात्स्वज्ञानेनान्यज्ञानहेतुताविशेषितमुपदेश्यत्वमसाधारणमिति चेत् — तथापि तादृशमुपदेश्यत्वं प्रतिज्ञावाक्येन प्रष्टव्यत्वोक्त्या चार्थसिद्धमित्यनपेक्षितोपदेश्यत्वकथनादव्यपेक्षितं प्रशासितृत्वमेव वाच्यमिति युक्तम् । ‘येनाश्रुतम्’ इत्युपादानत्वे सिद्धे प्रशासितृत्वेन हि निमित्तत्वं सिध्येत् । निमित्तान्तरे सति एकविज्ञानात् सर्वविज्ञानं नोपपद्यते । अतः प्रतिपिपादयिषितवस्तुनो विविक्षितासाधारणाकारविशिष्टतयैव प्रतिपादनमुचितम् । घञ्प्रत्ययस्य तु करणे व्युत्पन्नत्वात्, “विवक्षातः कारकाणां प्रवृत्तिः” इति शाब्दोक्तन्यायेन कर्तयैव करणान्तरनैरपेक्ष्येण साधकतत्वविवक्षया तथा प्रयोग उपपद्यते, अकर्तरीतिसूत्रस्य प्रयोजनं करणत्वविवक्षया विना कर्तर्यसाधुखेन प्रयोगनिवृत्तिः । उपदेशपक्षे प्रकृत्यर्थ स्वारस्यं प्रत्ययस्वारस्यं च, प्रशासनपक्षे तु प्रत्ययास्वारस्यं प्रधानभूतप्रकृत्यर्थस्वारस्य मर्थौचित्यं चेति वैषम्यम् । अतः प्रशासितैवाऽऽदेशशब्दाभिधेय इति स्वीकर्तुं युक्तम् । एवमुपक्रमे निरुपाधिकप्रशासनगुणयोग उक्तः । तथा जगदुपादानत्वं निमित्तत्वं तदनुगुण सार्वच्य सर्वशक्तित्वादिकञ्चावगतम् । उपसंहारे च तत्त्वमसीति सामानाधिकरण्येन जीवान्तर्यामित्वं नाम गुणविशेष उक्तः । अस्यैवार्थस्य बहुश आवर्तितत्वादभ्यासोऽप्यस्ति । एवं ब्रह्मणो जगत्कारणत्वं जगदन्तरात्मत्वादिगुणानां प्रमाणान्तराप्रतिपन्नत्वादपूर्वता सिद्धा । एवमुपासकस्य, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति शरीरपातानन्तरं मोक्षश्रवणात् फलमपि विद्यते । पितुः पुत्रं प्रति प्रतिवचनरूपत्वादर्थवादश्च लब्धः । मृत्पिण्डादिदृष्टान्तोपपादनादुपपत्तिश्चेति । 1 अस्मिन् दृष्टान्तत्रयेऽपि विवर्तपक्षानुगुणः कोऽपि दृष्टान्तो न दृश्यते; अपि तु परिणामपक्षानुगुण एव दृश्यते । दाष्टन्तिकविषयवाक्येऽपि तत्तजोऽसृजतेत्युक्तम्, न तु तदभ्रमदिति । अतोऽस्यां श्रुतौ विवर्तपक्षप्रसङ्गोऽपि नास्ति । श्रुत्यन्तरेषु च ‘तदात्मानं स्वयम कुरुत’ इत्यादिकं श्रूयते; न तु, व्यवर्ततेति । सूत्रं च “परिणामात्” इति; न तु विवर्तादिति । स्मृतिषु च ’ कटकम कुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । क्षितितल परमाणवोऽनिलान्ते” इत्यादिषु परिणामपक्षा (क्ष ?) एवं दृश्यन्ते (ते ?) । अतः श्रुतिस्मृतिसूत्रस्वारस्यात् परिणाम एवाभ्युपगन्तव्यः । स च परिणामः सद्वारक एवं भवितुमर्हति ; निर्विकारत्वनिर्दोषत्व - अनुप्रवेशशरीरशरीरिभावादिविषयानेकश्रुतिस्वारस्यात् । अन्यथा तद्विरोधप्रसङ्गाच्चेति । j. एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यं किम् कथं तदुपपादनमित्याशङ्कायामेतद्विस्तरो वेदार्थसङ्ग्रह इत्याह प्रपञ्चित इति । अत्र अपेक्षितार्थः कथं ज्ञास्यत इव्यवाह अत्रापीति । निपुणतरम् — तत्याधिकरणस्यैतदर्थेकविषयत्वादिति भावः ॥ अनन्तरोदाहृतायाः परविद्यायाः सविशेषपरत्वमाह अथ परेत्यादिना । अपाणिपादमित्यन्तानां पदानां विषयमाह प्राकृतानिति । प्राकृताः प्रकृतिसंबन्धिनः । अनेन, ‘क्वचित्सिद्धस्य हि कचिन्निषेवः’ इति
१८८ १-१-१. समानाधिकरणवाक्यस विशेषपरत्वम् व्ययत्व भूतयोनित्वसार्वज्ञ्यादिकल्याणगुणयोगः परस्य ब्रह्मणः प्रतिपादितः । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यत्रापि सामानाधिकरण्यस्याने कविशेषणविशिष्टैकार्थाभिधानव्युत्पत्त्या न निषेध्यानां कापि सिद्धिर्दर्शिता भवति । प्रकृतिगताः, प्रकृतिसंसर्गप्रयुक्ताः जीवगता दोषाश्च प्राकृताः । अद्रेश्यमग्राह्यम् – प्रत्यक्षागोचरमनुमानाद्यगोचरम् ; यद्वा चक्षुरगोचरमिन्द्रियान्तरागोचरम् । अगोत्रम - वर्णम् - प्राकृतनामरूपरहितम् । अचक्षुः श्रोत्रम् - इन्द्रियाधीनज्ञानं न भवति ; अपाणिपादम् - इन्द्रियाधीनचेष्टं न भवति ; “अपाणिपादो जयनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” इति श्रुतेः । अनेन पदद्वयेन जीवगत हेयनिषेधः । इन्द्रियाधीनज्ञानत्वं तदधीनप्रवृत्तित्वमपि हि जीवधर्मः । सर्वगतं सुसूक्ष्ममिति पाठक्रमः; तथाऽप्यर्थकमेण व्याख्यातम् सूक्ष्मत्वसर्वगतत्वेति । सूक्ष्मतया हि व्याप्तिः । नित्यत्वेन कालापरिच्छेदः । विभुम् -प्रभुम् । प्रभुत्वं नियन्तृत्वम् । जगच्छरीरकत्वं फलितम् । अनेन वस्त्वपरिच्छेदसिद्धिः । सर्वगतत्वेन देशापरिच्छेदः । अव्ययत्वं व्यय शब्दोपलक्षितदोषविरोधित्वं नाम गुण इत्यभिप्रायेण कल्याणगुणैः सह तन्निर्देशः । यद्वा अव्ययत्वम् एकरूपत्वम् ; पूर्णत्वं वा । भूतयोनित्वम् — जगत्कारणत्वम् । एतत्प्रकरणस्थेन “यस्सर्वज्ञः सर्ववित्” इत्यनेन वाक्येन सार्वश्यमुक्तम् । सर्वज्ञस्सर्ववित्सर्वं स्वरूपतो वेत्ति, सर्व प्रकारतश्च वेत्तीत्यर्थः । परस्य ब्रह्मण इत्यस्य पूर्ववदर्थः । अथ शोधकवाक्येषु सत्यज्ञानादिवाक्यस्याखण्डार्थत्वं निरस्यति - सत्यं ज्ञानमित्यादिना । स खल्वेवमुपन्यस्तः प्रतिपत्तिसौकर्यायाचार्य पादैः । तथा हि —सत्यादिवाक्यं सत्यत्वादिगुणविशिष्टमेव ब्रह्म प्रतिपादयति ; नीलमुत्पलमित्यादिषु समानाधिकरणवाक्येषु विशिष्टैकार्थपरत्वव्युत्पत्तेः, सत्यादिवाक्यस्य च समानाधिकरणत्वाच्च । तथा च सामानाधिकरण्यलक्षणं भिन्नप्रवृत्तिनिमित्तानामित्यादिनोक्तं शाब्दैः । तंत्र- / नापि यदुक्तम्—सामानाधिकरण्यस्यैकार्थ (र्ध्य) परत्वव्युत्पत्तेः ऐकार्थ्यस्य च पदानां विशेषणमात्रपरत्वे विशिष्टपरत्वे चासिद्धेः स्वरूपमात्रैक्यपरत्वं सत्यादिसमानाधिकरणपदानामास्थेयमिति तदयुक्तम् ; विकल्पासहत्वात् । कि सत्यादिपदानि तत्तत्पदार्थविरोधिव्यावृत्तिमात्रपराणि, उत स्वरूपमात्रपराणि, उत विरोधिव्यावृत्यवच्छिन्नस्वरूपपराणीति विवेचनीयम् । न तावत् विरोधिव्यावृत्तिमात्रपराणि ; व्यावृत्तीनामनेकत्वेनैकार्थत्वासिद्धेः । व्याक्यानेकत्वात् व्यावृत्तयो ह्यनेकाः स्युः । नापि स्वरूपपराणि; तथासति पर्यायत्वप्रसङ्गात, प्रवृत्तिनिमित्त मेदाभावेन सामानाधिकरण्यलक्षणहानिप्रसङ्गात्, एके (क) तर पदवैयर्थ्यप्रसङ्गाच्च तदवच्छिन्नस्वरूपपराणि; विकल्पासहत्वात् किं विरोधिव्यावृत्तीनां स्वरूपावच्छेदकत्वमुपलक्षणतया, विशेषणतया वा । न तावदाद्यः कल्पः, एकोपलक्षणेन स्वरूपं प्रतिपन्नमिति उपलक्षणान्तरवैयर्थ्यात् । उपलक्ष्याद्बहिर्भूत उपलक्ष्य प्रतीत्युपायो धर्मः उपलक्षणमिति ह्यलक्षणविदः । तथा च शास्त्रादिषु दृश्यते । अत एके (क) तरवैयर्थ्यम् । प्रवृत्तिनिमित्तभेदाभावेन सामानाधिकरण्यलक्षणदानिश्च ॥ कथं तर्हि भवत्पक्षे जन्मादिबहूपलक्षणत्वमेकस्यैव ब्रह्मणोऽभ्युपगम्यते इति चेत्उच्यते । तत्त्रः द्युपलक्ष्यस्य धर्मिणो ब्रह्मण एकत्वेऽपि प्रत्युपलक्षणमुपलक्ष्यधर्मभेदो जन्मस्थित्याद्यनुगुणज्ञानशक्त्यादिरूपोऽस्मीभिरभ्युपगते । अन्यथा 1 महापूर्वपक्षे 89. पुटे प्रमेयमालायामाचार्य पादै रुपन्यस्तः पूर्वपक्ष प्रकारो दर्शितः । तदत्र तत्खण्डनप्रकारः तत्रत्य एव यथाक्रमं प्रदर्श्यते ।
१८९ तत्राप्यने कोपलक्षणवैयर्थ्यं प्रप्तज्यत एव । त्वत्पक्षे अनेकोपलक्षणोपलक्ष्यधर्ममेदानभ्युपगमादुक्तदोषो दुर्वारः । तदभ्युपगमे हि ब्रह्मणः सविशेषत्यप्रसङ्गः । नापि द्वितीयः ; विशेषणभूतानां व्यवृत्तीनामनेकत्वेनैकार्थत्वासिद्धेः । विशेष्यान्तर्भूतो विशेष्यप्रतीत्युपायो धर्मों विशेषणम् ॥ विशेष्यान्तर्भावो नाम ज्ञाप्यान्तर्भावः ॥ विशेषण भूतार्थभेदेऽपि विशेष्य भूतप्रधानार्थैक्यादेकार्य त्व?] सिद्धिरिति चेत् -तत् सखण्डवाक्यार्थवादिनोऽपि समानम् ॥ कस्तर्हि विशेष आवयोरिति चेत् — अयमेव विशेषः - यदेकस्य मते पदानां लाक्षणिकत्वम्, इतरस्य पक्ष तेषां मुख्यत्वमिति ।
यच्चोक्तम् — विशेषणान्तरविशिष्टे वस्तुनि विशेषणान्तरान्वयात् विशेषणानामन्योन्यसमवायप्रसङ्ग इति -तदसत् ; विकल्पासहत्वात् । “पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥” इत्यक्तप्रक्रियया हि वाक्यमर्थमवबोधयति । तत्र किं पदानां पदार्थस्म (स्मा)रणदशायामन्योन्यसमवायप्रसङ्गः, उत परामर्शदशायाम, आहोस्वित् वाक्यार्थाभिधानदशायाम् । न तावत् प्रथमः कल्पः; स्मरणदशायां पृथक्पृथक् पदार्थस्मरणेन मिथोऽन्वयप्रसङ्गाभावात् । नापि द्वितीय; एकस्मिन् वस्तुन्यविरुद्धानेकविशेषणसमवायस्य प्रत्यक्षाद्यवगतस्य यथावस्थित वस्तुपरामर्शदशायां परामृश्यमानत्वात् । नापि तृतीयः ; वाक्यार्थाभिधानदशायां [वाक्यस्य ?] सर्वैः पदैर्युगपदने कविशेषणविशिष्टकवस्तुविषयैकज्ञानजनकत्वेन क्रमाभिधानप्रयुक्तान्योन्यसमवायप्रसङ्गाभावात् । यथैव हि द्वे चक्षुषी जातिगुणाद्यनेकविशेषणविशिष्टैकवस्तुविषयामेकां धियं युगपज्जनयतः, तथैवानेकपदानि युगपदेव तत्तद्विशेषणविशिष्टैकवस्तुविषयैकज्ञानजनका नि भवन्ति । क्रमेणाभिधानेऽपि नान्योन्यसमवायप्रसङ्गः ; पदान्तरोपात्ते विशिष्टे विशेष्याशस्यैव पदान्तरोपात्तविशेषणेन विशेष्यमाणत्वात् । तच्च यथादृष्टविषयत्वात् पदानां व्युत्पत्तेः । अन्यथा भवत्पक्षे व्यावृत्तिरूपविदोषणानामन्योन्यविशेषणविशेष्यभावः क्रमाभिधानप्रयुक्तो दुर्वारः । अतो यथोक्त एवं परिहारस्तवापि शरणम् ॥ क्रमेणाभिधानानभ्युपगमे कथमुद्देश्योपादेयविभागसिद्धिरिति चेत् — उच्यते । ज्ञाताज्ञातविभागो ह्युद्देश्योपादेयविभागः । स च युगपत्प्रतिपादनेऽपि नापैति । एकेन वाक्येनैकवस्तुनोऽनेकविशेषणान्वये युगपत्प्रतिपाद्ये, तत्र एकविशेषणान्वयः प्रागेव ज्ञातः, विशेषणान्तरान्वयस्त्वज्ञात इति ज्ञाताज्ञातविभागपरामर्शः परामर्शदशायां संभवत्येव । यदप्युक्तम् - विशिष्टक्यप्रतिपादने विशेष्यैक्यवत् विशेषणैक्यं प्रसज्यत इति तदपि न साधीयः ; विशेष्यमात्रैक्यपरत्वात् समानविभक्तेः । तच्च व्युत्पत्तिसिद्धम् । व्युत्पत्तिश्च प्रत्यक्षमूला । प्रत्यक्षञ्च विशेष्यैक्यमबगमयति ; न तु विशेषणानामैक्यम्; यथा गौरित्याचे कपदप्रयोगेऽपि प्रातिपदिकात्रगत विशेषणविशेष्यैक्यं तद्गतमेकवचनं नावगमयति, किन्तु विशेष्यैक्यमेत्रावगमयति । प्रत्यक्षमूला व्युत्पत्तिरेव हि तत्र कारणम् । तथा समानाधिकरणपदसङ्घातस्थसमानविभाक्तेरपि विशेष्यैक्यमात्रपरत्वे सैव नियामिका । अन्यथा भवत्पक्षेऽप्यसत्यादिप्रतियोगिव्यावृत्तिरूपविशेषणैक्यप्रसङ्गात् ॥ प्रातिपदिकानां तत्तः प्रतियोगिव्यावृत्तिविशिष्ट स्वरूप परत्वेऽपि 2 व्युत्पत्तिवादे आख्यातखण्डे, एकः द्वौ बहवः इत्यादिषु एकत्वादिवाचिप्रकृतिप्रत्ययरूपानेकपदसत्त्वेऽपि यथा सकृदेवैकत्वादिभानम्, तथा करोतीत्यत्र सकृदेव कृतिभानमित्युक्तम् । तथाऽत्र सकृदेव विशेष्यभानम् ; विनिगमकाभावाच्च सर्वत्र कारकविभक्तिरिति ।
१९० १-१-१. अखण्डार्थत्वव्युदासः समानविभक्तेः प्रातिपदिकार्थैकदेश भूत विशेष्यमात्रैक्यपरस्यन्युत्पत्या न विशेषणैक्यं प्रसज्यत इति चेत्तदस्मत्पक्षेऽपि समानम् । आवयोर्विशेषस्तु प्रागेवोक्तः ।
यच्चोक्तम् — विशेषणभेदे विशेष्यभेदप्रसङ्ग इति — तदयुक्तम् ; विशेषणभेदमात्रस्य विशेष्यभेदकत्वाभावात् । तच्च, देवदत्तः श्यामो युवेत्यादिषु विशेषणभेदेऽपि विशेष्यैक्यदर्शनात् ॥ विशेषणभेदस्य स्वतः प्राप्तविशेष्य भेदकत्वं प्रत्यक्षेण तत्रापोद्यत इति चेत् - तन्न ; धर्मिवाचकपदैक्यात् समानविभक्तिनिर्देशाश्चैदयप्रतीतेः ॥ खण्डो मुण्डः पूर्णशृङ्गो गौरित्यत्र धर्मिवाचकपदैक्ये समानविभक्तिनिर्देशे सत्यपि विशेषणभेदे विशेष्यभेदः प्रतीयत इति चेत् — नै (मै) वम्; यतः स्वतः प्राप्तं तयोर्विशेष्यैक्यप्रत्यायकत्वं प्रत्यक्षेण तत्रापोदितम् ॥ परोक्षविषये. खण्डो मुण्डः पूर्णशङ्गो गौरित्यादिवाक्ये प्रयुक्ते खण्डत्वादिविशेषण भेदे विशेष्यभेदप्रतीतिर्दृश्यत इति चेत् — परोक्षविषयेऽपि देवदत्तः श्यामो युवेत्यादिवाक्ये प्रयुक्ते विशेषणभेदेऽपि विशेष्यैक्यप्रतीतिर्दृश्यत इति समानश्चर्चः ॥ को निर्णायक इति चेत् — यज्जातीयविशेषणानां नियमेन भिन्नाश्रयत्वं दृष्टं प्रत्यक्षेण, तज्जातीयविशेषणानां परोक्षत्वेऽपि विशेष्यभेदापादकत्वम्, यथा खण्डत्वादीनाम् यज्जातीयविशेषणानां भिन्नाश्रयत्वनियमो न दृष्टः, तज्जातीयविशेषणानां धर्मिवाचिपदैक्ये समानविभक्तिनिर्देशे चैकविशेष्यनिष्कर्षकत्वं युक्तम्, यथा नीलत्वादीनामिति । ; यच्चोक्तम् -समानविभक्तथव गति क्यविरोधाद्विशेषणपरित्याग इति तदप्ययुक्तम् ; प्रातिपदिकामिद्दितविशेषणान्वयविरोधादैक्यपरित्यागापत्तेः । तथा हि-यदि समानविभक्तयन्वयावगतत्वा(क्त्यन्वया) दैक्यं न हातुं शक्यते, तर्हि प्रातिपदिकावसितविशेषणान्वयः कथमिव हातुं शक्यते, यथा नीलमुत्पलमित्यादौ ॥ तत्र प्रत्यक्षसिद्धत्वादङ्गीक्रियत इति चेत् तत्रैक्यप्रतीतिरपि तथैवेति किं न स्यात् ॥ समानविभक्ति निर्देशे परोक्षेऽप्यैक्यप्रतीतिर्दृश्यते इति चेत् — तथैव, प्रयोगे परोक्षेऽपि प्रातिपदिकावगत विशेषणान्वयप्रतीतिर्दृश्यत एव ॥ तस्मादैक्यप्रतीतिः शाब्दीति चेत् — विशिष्टप्रतीतिरपि शाब्दीति न कश्चिद्विशेषोऽन्यत्राभिनिवेशात् । किञ्च प्रातिपदिकावगत विशेषणान्वय परित्यागहेतु भूतसमानविभक्तयत्रगतमैक्यं किं स्वरूपम्, उत तदतिरिक्तम् ? अतिरिक्तपक्षे सविशेषत्वप्रसङ्गः । अनतिरिक्तपक्षेहेव्वसिद्धिः । प्रातिपदिकाव गतस्वरूपातिरेकेण समानविभक्तया कस्यचिदैक्यस्याप्रतिपादनात् । न हि स्वरूपमात्रे विरोधाद्विशेषणपरित्यागः; व्यधिकरणवाक्येष्वपि तत्यागप्रसङ्गात् । प्रातिपदिकावगतं स्वरूपं निर्विशेषमिति प्रतिज्ञाय समानविभक्तेरैक्यावगमा आदित्युक्ते, स्वरूपावगमादित्युक्तं स्यात् । ततश्चैक्यावगमविरोध रूपत्वासिद्धिः । स्वरूपं तु विशेषणान्वयाविरुद्धं व्यधिकरणवाक्येषु विशेषणान्वयादित्युक्तम् । किञ्च समान विभक्तय वगतमैक्यं प्रातिपदिकार्थैकदेश भूतविशेष्यमात्रस्येत्युक्तत्वात् तस्य च विशेषणभेदाविरोधित्वान्न तद्विरोध निबन्धनविशेषणत्यागो युक्तः । अतो न निर्विशेषत्वं वस्तुनः । कार्यव्यावृत्तं पीतिमव्यावृत्तं शौक्त्यमित्यादिषु प्रतियोगिभेदस्य तत्तद्व्यावृत्तस्वरूपस्य च शब्दोपात्तत्वान्न लक्षणाप्रसङ्गः, सत्यादिवाक्येषु न तथेति विशेषः । एवं शौक्ल्यादिदृष्टान्तवाक्यात् सत्यादिदाष्टन्तिक वाक्यस्य शब्दद्वारकं वैषम्यमुक्तम् । अर्थद्वारकं च वैषम्यं पूर्वोक्तं द्रष्टव्यम् । कथमिति चेत्; इत्थम् । शौक्ल्यादेः
श्रुतप्रकाशिकोपेते श्रीभाये १९१ निर्विशेषवस्तुसिद्धिः । प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तित्वं हि सामानाधिकरण्यम् । तत्र सत्यज्ञानादिपदमुख्यार्थेर्गुणैः, तत्तद्गुणविरोध्याकारप्रत्यनीकाकारैर्वा एकस्मिन्नेवार्थे पदानां प्रवृत्तौ निमित्तभेदोऽवश्याश्रयणीयः । इयांस्तु विशेषः, - एकस्मिन् पक्षे पदानां मुख्यार्थता, अपरस्मिंश्च तेषां लक्षणा । न चाज्ञानादीनां प्रत्यनीकता वस्तुस्वरूपमेव ; एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यात् । तथा सति सामानाधिकरण्यासिद्धिश्व ; एकस्मिन् वस्तुनि वर्तमानानां पदानां निमित्तभेदानाश्रयणात् । न च एकस्यैवार्थस्य विशेषणभेदेन विशिष्टताभेदादनेकार्थत्वं पदानां सामानाधिकरण्यविरोधि ; एकस्यैव वस्तुनोऽनेकविशेषणविशिष्टताप्रतिपादनपरत्वात् सामानाधिकरण्यस्य, “भिन्न प्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्” इति हि शाब्दाः । कस्यचिद् द्रव्यस्य द्रव्यान्तराव्यावर्तकधर्मतया धर्मान्तरानपेक्षत्वं युक्तम् ; ब्रह्मणस्तु न तथात्वमिति स्वरूपातिरिक्तव्यावर्तकधर्मा [न्तरा]पेक्षाऽस्त्येव । न हि परनिर्वाहकत्वानभ्युपगमे स्वनिर्वाहकत्वसंभवः । किञ्च शौक्ल्यादिस्वरूप स्फुरणे सति न कायद्यध्यासप्रसङ्गः । अतस्तत्र स्वरूपमेव व्यावृत्तिरिति युक्तमभ्युपगन्तुम् । ब्रह्मणः स्वरूपस्फुरणेऽपि तदितराध्यासाभ्युपगमात् रजतादिव्यावर्तकाधिष्ठानस्वरूपतिरिक्तशुक्तित्वादिवत् सर्वाध्यासाधिष्ठान ब्रह्मस्वरूपातिरिक्त सकलेतरव्यावृत्तिरूपधमवश्याम्युपगमनीयः । यच्चोक्तम् —वाच्ये प्रधानांशस्य प्रतिपादनान्न लक्षणेति – तदप्यसत्; विशेषणद्वारेण विशेष्यपर्यवसायिनः शब्दस्य द्वारानभिधाने द्वार्यभिधानासिद्धेः । अलाक्षणिकत्वेऽपि, विशिष्टाभिधानस्वरसस्य शब्दस्य विशेष्यमात्रपरत्वे स्वारस्यहानिरवर्जनीया । सा च न विरोधाभावे युक्ता । यच्च – विषं भुङ्क्ष्वेत्यादिषु सर्वपदलक्षणा दृष्टेति — तच्च विधिप्रत्ययांशस्य मुख्यत्वादयुक्तम् । तत्र विधिप्रत्ययव्यतिरिक्तशब्दलक्षणा च मुख्यार्थत्वे प्रमाणान्तरविरोधात् स्वीक्रियते । प्रस्तुत विरोधाभावान्न सां युक्ता ॥ विमतं वाक्यमखण्डार्थं समानाधिकरणवाक्यत्वात् संप्रतिपन्नवदिति ईदृश्यनुमानोक्तिरनुपपन्ना, वाक्यमखण्डार्थमिति पदयोरर्थभेद ेऽस्ति, न वा । अस्ति चेत्-प्रतिज्ञावाक्य एव हेतोरनैकान्त्यम् । न चेत् - अखण्डार्थत्वं प्रतिज्ञातमेव ’ न स्यात् । दृष्टान्तस्य च साध्यवैकल्यमवर्जनीयम्; प्रकृतिप्रत्ययात्मकपदपुञ्जरूपत्वात् सर्ववाक्यानाम् । यदि भावरूपखण्डार्थप्रतिपादनासमर्थमिति प्रतिज्ञा, तर्हि साध्यधर्मवंचनान्तर्गतयोः समानाधिकरणयोर्भावरूपखण्डशब्दयोरनैकान्त्यम् । तस्मात् सत्यादिवाक्यं सत्यत्वादिविशिष्टमेव ब्रह्म प्रतिपादयतीति सिद्धम् । तदिदमुध्यते - सत्यं ज्ञानमनन्तमित्यादिना । तत्र निर्विशेषपरत्वाभावं सोपपत्तिकं प्रतिजानीते सत्यं ज्ञानमिति । सामानाधिकरण्यलक्षण प्रत्यभिज्ञापकैः शब्दैर्हेत्वंशं विवृणोति प्रवृत्तीति । ततः किमित्यपेक्षायामन्वयमुखेन व्यावृत्तिमुखेन वा प्रवृत्तिनिमित्तभेदस्यावश्याश्रयणीयत्वमाह तत्रेति । तत्र को विशेष इत्यश्राद इयानिति । अवश्याश्रयणीय इत्यत्राभिप्रेतं व्यावृत्तीनां स्वरूपमात्रत्वे दूषणमाह नचेति । सामानाधिकरण्यासिद्धिमुपपादयति – एकस्मिन्निति । पर्यायत्वं दूषणं स्पष्टमिति न कण्ठेोक्तम् । विशेषणभेदेनानेकार्थत्वात् सामानाधिकरण्यलक्षणहानिं निरस्यति न चैकस्येति । विशिष्टताभेदात्-तत्तद्विशेषणान्वयभेदात् । तथाविधमनेकार्थत्वं न विरोधि; प्रत्युतानुकूलमेवेत्यर्थः । कुत इत्यत्राह भिन्नप्रवृत्तीति । विशेषणतो मिन्नार्थत्वे विशेष्यतश्चैकार्थत्वे सति हि सामानाधिकरण्यलक्षण साद्गुण्यमित्यर्थः । ‘समानाधिकरणं वाक्यं किं विशेषणविशेष्य- 1 अखण्डार्थत्वस्य साध्यत्वं न भवतीत्यर्थः ।
१९२
१-१-१. अद्वितीयश्रुत्यर्थः यदुक्तम् – एकमेवाद्वितीयमित्यत्राद्वितीयपदं गुणतोऽपि सद्वितीयतां न सहते ; अतः सर्वशाखाप्रत्ययेन्यायेन कारणवाक्यानामद्वितीयवस्तुप्रतिपादनपरत्वमभ्युपगमनीयम्, कारणतयोपलक्षितस्याद्वितीयस्य ब्रह्मणो लक्षणमिदमुच्यते, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति ; अतो लिलक्षयिषितं ब्रह्म निर्गुणमेव । अन्यथा ‘निर्गुणम्’, ‘निरञ्जनम्’ इत्यादिभिर्विरोधचेति - तदनुपपन्नम्, जगदुपादानस्य ब्रह्मणः स्वव्यतिरिक्ताधिष्ठात्रन्तर निवारणेन विचित्रशक्तियोग प्रतिपादनपरत्वादद्वितीयपदस्य । तथैव विचित्रशक्तियोगमेवावगमयति, " तदैक्षत बहु स्यां प्रजायेयेति; तत्तेजोऽसृजत” इत्यादि । अविशेषेण अद्वितीयमित्युक्ते निमित्तान्तरमात्रनिषेधः कथं ज्ञायत इति चेत् — सिसृक्षोर्ब्रह्मण उपादानकारणत्वम् “सदेव सोम्येदमग्र आसीदेकमेव” इति प्रतिपादितम् । कार्योत्पत्ति सम्बन्धपरमे ; उत विशेष क्यपरम् उतोभयपरम् । प्रथमे विशेष्यैक्ये प्रमाणं न स्यात् । द्वितीये विशेषणान्वयो निष्प्रमाणकः स्यात् । तृतीये संबन्धद्वयस्यैकवाक्येन बोधयितुमशक्यत्वात् वाक्यभेदप्रसङ्गः ’ इति केचिच्चोदयन्ति । तन्न; प्रातिपदिकेनैव विशेषणान्वयस्य बोध्यतया समानविभक्तिनिर्देशेन विशेष्यैक्यप्रतिपादने वाक्यभेदप्रसङ्गाभावात् ।
। एवं सामानाधिकरण्यस्यान्यथैवोपपत्त्या सत्यज्ञानादिवाक्यस्य निर्विशेषपरत्वं निरस्तम् ; अथ कारणवाक्यैकार्थ्यान्निर्विशेषपरत्वं निराकर्तुं तदनुवदति यदुक्तमित्यादिना । सदेव एकमेवेति विजातीयसजातीयभेदव्यावर्तकावधारणद्वयसमभिव्याहत मद्वितीयपदं पारिशेष्यात् स्वगतभेदाभावपरमिति गुणतोऽपि सद्वितीयतां न सहत इत्यर्थः । “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते” इत्यादिसगुणविषय कारण वाक्यैकार्थ्यमस्तीत्यत्राह अत इति । सर्वशाखाप्रत्ययन्यायान्निर्गुणकारणवाक्येषु सगुणत्वं सगुणकारणवाक्येषु निर्गुणत्वञ्च स्यात् । तंत्रापच्छेदन्यायेन निर्गुणवाक्प्रप्राबल्यात् सर्वकारणवाक्यानि निर्गुणपराणीत्यर्थः । कारणवाक्यैकायं कुतोऽपेक्षितमित्यत्राह कारणतयोपलक्षितस्येति । जगत्कारणत्वं तटस्थलक्षणम् ; न तु स्वरूपलक्षणमित्यभिप्रायेण उपलक्षितस्येत्युक्तम् । कारणत्वशङ्कितदोषव्यावर्तकत्वादेकार्थ्य मवर्जनीयमित्यर्थः । श्रथ शोधकवाक्यान्तरैकार्थ्यानिर्विशेषपरणं निराचिकीर्षुरनुवदति अन्यथेति । अनूदितमर्थं दूषयति तदनुपपन्नमिध्यादिना । तत्र प्रथमं कारणवाक्यैकार्थ्यं सविशेषविषयत्वे सतीत्याह जगदिति । तथैवेति । अद्वितीयपदं यथा अधिष्ठात्रन्तरनिवारण परमेव भवति, तथैवेत्यर्थः । विचित्रशक्तियोगमेवेति । उत्तरवाक्यमुपादान भूतस्यैव ब्रह्मणोऽधिष्ठातृत्वशक्तियोगमेवावरामयति, न तु निर्गुणत्वमित्यर्थः । शङ्कते अविशेषेणेति । सर्वनिषेधस्य निमित्तान्तरनिषेधस्य च साधारणमद्वितीयपदम् , निरुपपदत्यात् । किश्व उपक्रमे सदेवैकमेवेति सजातीयविजातीय भेदयौर्निषिद्धत्वादेकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः सजातीयविजातीयभेद मात्र मिथ्यास्त्रे ऽनुपपन्नत्वाच्च अद्वितीयपदमुपक्रमानुगुण्येन स्वगत मेदनिषेधयर स्यात् न तूतरवाक्यानुगुणं स्यात् उपकमप्राबल्यादिति साक्ष त्पूर्वपक्षि चोद्यम् । निमित्तत्वापादानत्वे उभे अभ्यंतरत्र श्रूयेते; तत्रोपादानान्तरमद्वितीयपदेन निषेध्यम् ; न तु निमित्तान्तरमिनि पार्श्वस्थ चोद्यम् । तत्राह सिसृक्षेति । अनेन शङ्काद्वयं परिहृतं भवति । तदैक्षतेत्यनन्तरोक्तस्त्रादस्य वाक्यस्य कारणपरत्वं नापलपनीयमित्यभिप्रायेण सिसृक्षोरित्युक्तम । कारणपरत्वे च सति अप्रशब्देन विजातीयकाल सद्भावसिद्धेः, जीवानादिश्वश्रुतेः, अकृताभ्यां गमकृतविप्रणाशादिश्रुत्यर्थापस्या, वैषम्यनैर्घृण्यपरिहाराय जीवानां कर्मसूक्ष्मभेदस्य प्रलयदशायामभ्युपगमात् एकत्वावधारणस्य जीवसूक्ष्म मेद सहत्वस्य परैरभ्युपगन्तव्यत्वात् सार्वज्ञ्य सर्वशक्तित्वादीनां सर्वौपयिकत्वाच्च विजातीयस जातीय स्वगत मेदाभावस्य दुर्वचत्वात् 1
१९३ स्वाभाव्येन बुद्धिस्थं निमितान्तरमिति तदेव अद्वितीयपदेन निषिध्यते इत्यवगम्यते । सर्वनिषेधे हि स्वाभ्युपगताः सिषाधयिषिता नित्यत्वादयश्च निषिद्धाः स्युः । सर्वशाखाप्रत्ययन्यायश्चात्रभवतो विपरीतफलः, सर्वशाखासु कारणान्वयिनां सर्वज्ञत्वादीनां गुणानामत्रोपसंहारहेतुत्वात् । अतः कारणवाक्यस्वभावादपि ‘सत्यं ज्ञानन्तं ब्रह्म’ इत्यनेन सविशेषमेव प्रतिपाद्यत इति विज्ञायते । न च निर्गुणवाक्यविरोधः, प्राकृतहेयगुणविषयत्वात् ‘तेषां ‘निर्गुणं ‘निरञ्जनं’, ‘निष्कलं निष्क्रियं शान्तम्’ इत्यादीनाम् । ज्ञानमात्रस्वरूपवादिन्योऽपि श्रुतयो ब्रह्मणो ज्ञानस्वरूपतामभिदधति; न तावता निर्विशेषज्ञानमात्रमेव तत्त्वम् ; ज्ञातुरेव ज्ञानस्वरूपत्वात् । ज्ञानस्वरूपस्यैव तस्य ज्ञानाश्रयत्वं मणिद्युमणिदीपादिवत् युक्तमेवेत्युक्तम् । ज्ञातृत्वएकविज्ञानेन सर्वविज्ञान प्रतिज्ञायाश्चोक्तार्थाविरोधेन निर्वाह्यत्वात्, परतन्त्रभेदस्य विहितत्वात् निषेधस्य च विहितव्यतिरिक्तविषयत्वात्, स्वतन्त्ररूप भेदविशेषस्य ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इत्य दिभिर्निषिद्धत्वात्, सामान्यनिषेधस्य च तत्पर्यवसानस्य न्याय्यत्वाच्च अद्वितीयपदस्य स्वतन्त्रभेदनिषेधपरत्वे प्राप्ते सति अविभक्तनामरूपताप्रतिपादकेन एकमिति पदेनोपादानत्वस्य सिद्धत्वात् निमितान्तरस्य बुद्धिस्थत्वाच्च निमित्तान्तररूपस्वतन्त्र वस्तुनिषेध परमद्वितीयपदमित्यर्थः । सर्वनिषेधेऽनिष्टमाह सर्वेति । सर्वशाखाप्रत्ययन्यायस्य निर्विशेषत्ववादविपरीतत्वमाह सर्वशाखेति । अत्र — निर्गुणवादे । अत्रभवत इत्युपालम्भो वा । सर्वशाखाप्रत्ययन्यायोऽनुक्तगुणखीकारफलः, न तूक्तगुणत्यागफल इति त्वत्पचविपरीत फल इत्यर्थः । सविशेषपरत्वे कारणवाक्यै - काय निगमयति अत इति । न केवलं सामानाधिकरण्यान्यथानुपपत्त्या; कारणवाक्यैकार्थ्याच्च सविशेषपरत्वमित्यपिशब्दस्य भावः ॥ अथ शोधकवाक्यान्तरैकायं निर्विशेषपरत्वहेतुं निरस्यति नचेति । परेणापच्छेदन्यायेन हि निर्गुणसगुणवाक्यविरोधः परिहृतः । अत्र भिन्नविषयत्वात् विरोध एव नास्तीत्याह प्राकृतेति । निर्गुणमिति गुणसामान्यनिषेधः; निष्कलमिति शरीरसामान्यनिषेधः; निष्क्रियमिति क्रियासामान्यनिषेधः ॥ न गुणनिषेधः सङ्कोचयितव्य; आर्थगुणनिषेध बलेन सर्वगुणविरहावगमात् । ज्ञानस्य ज्ञानादिगुणाश्रयत्वादर्शनात् ब्रह्मणो ज्ञानमात्रत्वप्रतिपादनेन निर्गुणत्वं हि फलितम् इति शङ्कायामार्थगुणनिषेधं परिहर्तुं श्रुतिप्रतिपन्नमर्थमनुभाषते ज्ञानमात्रेति । ततः किमित्यत्राह न तावतेति । कुत इत्यपेक्षायाम् कि ज्ञानत्वात् ज्ञानानाश्रयत्वमुच्यते, किमेकजातीयद्रव्ययोर्नियतधर्मधर्मिमावानुपपत्तेरिति विकल्पे, प्रथमं प्रतिवक्ति ज्ञातुरेव ज्ञानस्वरूपत्वादिति । अयमर्थः — ज्ञानस्य ज्ञानादिगुणाश्रयत्वाभावः किं व्याप्त्या कथ्यते, उत श्रुतिवलात् । व्याप्त्या चेत्-ज्ञानानाश्रयभूतं विषयप्रकाशकं ज्ञानं कस्यचिद्धर्मभूतमेव दृष्टमिति धर्मत्वेनाङ्गीक्रियताम् । यदि श्रुतिबलात् स्वतन्त्रत्वेनाङ्गीक्रियते तर्हि श्रुतिबलादेव ज्ञानाश्रयत्वमप्यङ्गीक्रियतामिति । ज्ञानानाश्रयत्वं धर्मभूतज्ञानत्वप्रयुक्तम् ; न तु ज्ञानत्वमात्रप्रयुक्तमिति सोपाधिकत्वम् । अतो व्याप्तिविरोधश्च नास्ति । यद्वा जडस्य घटादेरिव ज्ञातृत्वायोगात ज्ञातृत्वेनैव ज्ञानस्वरूपत्वमर्थसिद्धम् । द्वितीयं प्रतिवक्ति ज्ञानस्वरूपस्येति । एकजातीयद्रव्ययोर्नियतधर्मधर्मिभाव उपपद्यत इत्यर्थः । श्रुत्या ज्ञानाश्रयस्वे सिद्धे हि तथाभ्युपगम इत्यत्राह ज्ञातृत्वमेव हीति । यद्वा ज्ञातुरेव ज्ञानस्वरूपत्वादिति - ज्ञातुर्ज्ञान स्वरूपत्वा विरोधादित्यर्थः । एकजातीयद्रव्ययोर्नियतधर्मिधर्मभावानुपपश्या विरोधं परिहरति ज्ञानस्वरूपस्यैवेति । ज्ञानत्वात् ज्ञानानाश्रयत्वं परिहरति— 25
१९४ १-१-१. सर्वकल्याणगुणवत्त्वे श्रुतयः मेव हि सर्वाः श्रुतयो वदन्ति ॥ ’ यः सर्वज्ञः सर्ववित्’, ‘तदैक्षत’, ‘स ईक्षत लोकान्नु सृजा इति’, ‘नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्’, ‘ज्ञाज्ञौ द्वावजावीशनीशौ’, ‘तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’, “एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” इत्याद्याः श्रुतयो ज्ञातृत्वप्रमुखान् कल्याणगुणान् ज्ञानस्वरूपस्यैव ब्रह्मणः स्वाभाविकान् वदन्ति ; समस्त हेयरहितताश्च । ज्ञातृत्वमेव हीति । पूर्ववदभिप्रायः । ज्ञातृत्वं यथा फलितं भवति, तादृशगुणपराश्च ज्ञातृत्कण्ठोक्तिमत्यश्च श्रुतयः सर्वशब्दविवक्षिताः । बहुवचनेन बहूपनिषद्वाक्यानि वा विवक्षितानि । एवकारेण ज्ञातृत्वस्यानन्यथासिद्धिरभिप्रेता । हिशब्दों देती। ज्ञातृत्वस्य श्रुतिसिद्धत्वान्न काचिदप्यनुपपत्तिरित्यर्थः । काः पुनः श्रुतय इत्यपेक्षायाम् - आर्थगुणनिषेधपरिहारार्थं निर्गुणश्रुतिसङ्कोच सिद्ध्यर्थं सगुणश्रुतीनामाविद्यक गुणविषयत्वशङ्कापनोदार्थं च श्रुतीदर्शयन् ताभिरेतत्प्रयोजनत्रयसिद्धिं च दर्शयति यः सर्वज्ञ इत्यादिना । यः सर्वज्ञः सर्ववित् सर्वं स्वरूपतः प्रकारतश्च जानातीत्यर्थः । ज्ञानस्य सर्वविषयत्वम्, तस्य समष्टिव्यष्टिसृष्टयुपयोगित्वम्, आत्मसंबन्धिवं च दर्शयति तदैक्षतेत्यादित्रयेण । नित्यो नित्यानामित्यत्र चेतनबहुत्वमुक्तम् ; कामप्रदत्वश्च । ज्ञाज्ञौ द्वावजावित्यत्र ज्ञातृत्वमीश्वरत्वं च । तमीश्वराणामित्यत्र ईश्वरत्व - देवतात्य - पतित्वानि ; ईश्वरत्वम् — नियन्तृत्वम् । नियाम्यविषयज्ञानवत एव नियन्तृत्वात् नियमनस्य ज्ञानविशेषरूपत्वाच्च नियन्तृत्वेन ज्ञातृत्वसिद्धिः । देवतात्वम् कर्माराध्यत्वम् । पतित्वम् शेषित्यम् । न तस्येति । कार्यम् शरीरम् । करणमिन्द्रियादि; “कार्यकारण कर्तृत्वे " इति प्रयोगात् । समाभ्यधिकनिषेधश्चात्र श्रूयते । तेन अद्वितीयमिति सामान्यनिषेधस्य, “छागो वा मन्त्रवर्णात्” इति न्यायादीश्वररूपद्वितीयविशेषपर्यवसायित्वं सूचितम् । पराऽस्येति ज्ञानशक्त्यादीनां स्वाभाविकत्वमुक्तम् । क्रिया-नियमनम् । एष आत्मेति विशेषविधानम् ; विशेषनिषेधश्च । आर्थगुणनिषेधस्य परिहर्तव्यतामभिप्रेत्य ज्ञानस्वरूपस्यैवेत्युक्तम् । विद्यकत्वनिराकरणाय स्वाभाविकानित्युक्तम् । समस्तहेयरहिततां चेत्यनेनापि आविद्यत्वशङ्का अर्थात् परिहृता । किश्व ज्ञातृत्वप्रमुखान् कल्याणगुणान् समस्त हेयरहितता चेत्यनेन निर्गुणवाक्यस्य सङ्कुचित वृत्तित्वं चोपपादितं भवति । तथा हि — कल्याणगुणानित्यस्यायमभिप्रायः - गुणविशेषविधानं गुणसामान्यनिषेधो न बाधितुं प्रभवति ; अपि तु तद्व्यतिरिक्तविषय एवं भवति; अन्यथा “न हिस्यात् सर्वा भूतानि” इति सामान्यनिषेधेन, “अग्नीषोमीयं पशुमालभेत” इति हिंसाविशेषविधानवाथप्रसङ्गादिति । समस्तहेयरहिततां चेत्यस्यायमर्थः – यथा “पशुना यजेत”, “छागस्य बनायाः” इत्यादिष्ट, “छांगो वा मन्त्रत्रर्णात्” इति सूत्रोक्तन्यायात् सामान्यशब्दो विशेषदर्शने सति तंत्र पर्यवस्यति, तथा गुणसामान्यनिषेधो विशेषगुणनिषेधे पर्यवस्यतीति । किञ्च सामान्यशब्दानां विशेषपर्यवसायित्वं व्युत्पत्तिसिद्धम्, यथा गामानय, गां बधानेत्यादिषु सामान्यशब्दो विशेषकटाक्षेण प्रयोजकवृद्धेन प्रयुज्यते । तत एव हि तत्र प्रयोज्यवृद्धश्च न सर्वा गोव्यक्तीरानयति, किं तु विवक्षितव्यक्तिविशेषमेवानयति । तथैव हि तत्र व्युत्पत्तिः । एवं ज्ञातृत्वप्रमुखान् कल्याणगुणानित्यनेन 1 विभोरात्मनः स्पन्दरूपक्रियाया अयोगादाह नियमनमिति ।
१९५ निर्गुणवाक्यानां सगुणवाक्यानां च विषयम् - अपहतपाप्मेत्याद्यपिपासइत्यन्तेन हेयगुणान् प्रतिषिध्य, ‘सत्यकामः सत्यसङ्कल्पः’ इति ब्रह्मणः कल्याणगुणान् विदधती इयं श्रुतिरेव विविनक्तीति सगुण निर्गुणवाक्ययोविरोधाभावादन्यतरस्य मिथ्याविषयताश्रयणमपि नाशङ्कनीयम् ॥ समस्तहेयरहिततां चेत्यनेन च उत्सर्गापवादन्यायः सामान्यविशेषन्यायश्च अभिप्रेतः । उपात्तविशेषव्यतिरिक्तविषये सामान्यशब्दस्य विरोधपरिहाराय सङ्कोच उत्सर्गापवादन्यायः, अविरोधेऽपि वैयर्थ्यपरिहाराय सङ्कोचश्चेत् — गोबलीवर्दन्यायः, उपात्तविशेषविषये तस्य सङ्कोचः सामान्यविशेषन्याय इति मिदा । किञ्च अध्यात्मशास्त्रेषु गुणशब्दः सत्त्वरजस्तमस्तु प्रसिद्धः । " न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्वाद्यैरखिलैगुणैः ॥”, “सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।” “निर्गुणस्याप्रमेयस्य”, “गुणा गुणेषु वर्तन्ते”, “कारणं गुणसङ्गोऽस्य”, “निर्गुणं गुणभोक्तृ च”, “नान्यं गुणेभ्यः कर्तारम्”, " दैवी ह्येषा गुणमयी मम माया दुरत्यया”, “विना हेयैर्गुणादिभिः”, “गुणादिदोषांश्व मुने व्यतीतः “, “गुणकलुषस्य सदातनेन तेन” इत्यादिषु । एवं केवलगुणशब्दस्य सत्खादिपरत्वेन प्रसिद्धिप्राचुर्यात् निर्गुणशब्दाः सत्वादिनिषेधपराः । अयं विषयविभागो न केवलम् अस्माभिः भिन्नोपनिषद्वाक्येषु गुणविशेषविधान-गुणविशेषनिषेधदर्शनान्निश्चीयते, एकस्मिन्नेव वाक्ये विषयविभागो दृष्ट इत्याह निर्गुणेति । गुणसामान्यनिषेधवत् गुणसामान्यमात्रविधानाभ्युपगमेन निर्गुणवाक्यानां सगुणवाक्यानां चेत्युक्तम् । न हि श्रुतिषु गुणसामान्यविधानं’ कचिदूदृश्यते । गुणविशेषा एव हि श्रूयन्ते । दोषसमभिव्याहृतगुणशब्दस्तूपादेयं [तम]गुणपरः । “वर्षायुतैर्यस्य गुणा न शक्याः”, “स ते गुणानामयुतैकदेशम् “, “नान्तं गुणानां गच्छन्ति” इत्यादिस्मृतिवचनाभिप्रायेण [वा] सगुणव।क्यानामित्युक्तम् । तत्र गुणशब्दो दोषप्रतिपक्षवचनः; लोके तथा प्रसिद्धेः ; प्रकरणवशाच्छागपशुन्यायेन कल्याणगुणरूप विशेषपर्यवसानस्य न्याय्यत्वाच्च । उक्तन्यायद्वयेन विरोधाभावादपच्छेदन्यायस्याविषयत्वमाह इति संगुणनिर्गुणवाक्ययोरिति । इतिशब्देन पूर्वोक्तसर्वहेतवो विवक्षिताः । उत्सर्गापवादन्यायात् सामान्यविशेषन्यायात् अध्यात्मशास्त्रेषु गुणशब्दस्य सत्त्वादिषु प्रसिद्धिप्राचुर्याच्चेत्यर्थः । सगुणनिर्गुणवाक्ययोरिति । अत्र तु विषयविभागान्न विरोध इति नापच्छेदन यः प्रवर्तत इति भावः । अन्यतरस्य मिथ्याविषयताश्रयणमपि नाशङ्कनीयमिति । सगुणवाक्यस्येति न ह्युक्तम् ; किंतु अन्यतरस्येत्युक्तम् । सगुणेन निर्गुणवाक्यस्य वा निर्गुणेन, सगुणवाक्यस्य वा बाधाश्रयणमनुपपन्नमित्यर्थः । अत्रायमभिप्रायः ः पूर्वं विरोधो नास्तीति परिहृतम् । इदानीं विरोधाभ्युपगमेऽपि नायमपच्छेदन्यायविषयः, अपि तु विरोधाधिकरणन्यायविषय एवेति । तथाहि — अपच्छेद न्यायो ह्यनियतविरोव पौर्वापर्यविषयः, उद्गातृप्रतिहत्रोरुभयोरपच्छे नियमो नास्ति । तत्रापि क्रमेणापच्छेदोऽप्यनियतः । तन्नियमे सति हि सर्वस्वदक्षिणाकत्वादक्षिणाकत्वविरोध नियमः । उभयोरप्यपच्छेदे तस्य क्रमभावित्वे, ‘उद्गात्रपच्छेदः पूर्वमावी, इतरस्तु चरमभावी’ इति वा विपर्ययेणेति वा नियमो [वि.] नास्ति । अतोऽपच्छेदन्यायविषयः प्रयोगावधिकविरोधः । 1 ‘यः कालकालो गुणी सर्वविद्यः’ इत्यादौ न गुणसामान्यविधानम्, पृथकबहुगुणोक्त्या ‘वशी वदान्यो गुणवान्’ इत्यादाविव विशेषपर्यवसानादिति भावः ।
१९६ १-१-१. अपच्छेदन्यायाप्रवृत्ति - अन्य प्रवृत्तिनिरूपणम् सगुण निर्गुणवाक्यविरोधस्तु स्वरूपप्रयुक्तः ; विधिनिषेधरूपतया नियतपौर्वापर्यश्च । अतो विरोधाभ्युपगमेऽप्यनियत विरोध पौर्वापर्य विषयोऽवच्छेदनयो नात्र प्रवर्तते ; अपि तु विरोधाधिकरणन्याय एव प्रवर्तते । तद्विषये हि पौर्वापर्यनियमो विरोधनियमश्च विद्यते । तथाहि - “औदुम्बरीं स्पृष्ट्रोद्वायेत्” इति प्रत्यक्षश्रुतिः । “औदुम्बरी सर्वा वेष्टयितव्या” इति स्मृतिः । तत्र श्रुतिः प्रथमत एव प्रमितिं जनयति, निरपेक्षप्रमाणत्वात् । स्मृतिस्तु स्वमूलभूतश्रुत्यनुमानसापेक्षतया विलम्बितप्रवृत्तिः । अनस्तत्र पौर्वापर्यं नियतम् । औदुम्बरीस्पर्शतद्वेष्टनयोर्विरोधश्च नियतः । तत्र पूर्वमेव प्रमित्यां जातायां तद्विरुद्धार्थः कालात्ययापदिष्टः स्यात् । अतः, ‘विलम्बितधीहेतोः शीघ्रधीहेतुर्बलीयान्’ इति न्यायात् पूर्वस्याः श्रुतेर्बलीयस्त्वमित्युत्तरशास्त्रानुदय एव ॥
नन्वत्रावीतमेव ह्युत्तरशास्त्रमिति चेत् —— ततः किम् ? प्रमित्यनुदयो ह्यनुदय ; न तु शब्दानुदयः । आदित्यो यूप इतिवत् ॥ '
ननु तत्र स्मृतित्वश्रुतित्वे बाध्यबाधकभावप्रयोजके ॥ नैवम् स्मृतिस्वश्रुतिस्त्रयोः पौर्वापर्यहेतुत्वात् । तेन सिद्धं पौर्वापर्यमेव बाध्यबाधकभावहेतुरिति न्यायसाम्यात् सगुणवाक्यबलीयस्त्वमिति । , 9 यद्वा मा भूत् विरोधाधिकरणन्यायः; अत्र उपक्रमाधिकरणन्याय एव प्रवर्तते; विरोधपौर्वापर्यनियमात् । अतः सगुणवाक्यप्रतिबद्धत्वात् निर्गुणशास्त्रानुदय एवेति ॥ '
ननु प्रथमप्रवृत्तं विलम्बितस्योत्पत्तिप्रतिबन्धकं चेत् — नेदं रजतमिति ज्ञानोदयम् इदं रजतमिति धीः प्रतिबध्नातु’ इति चेत्-न; सत्तया ज्ञायमानतया च ज्ञापकयोरत्यन्तवैषम्यात् । सत्तया ज्ञापकं हि प्रमाणं पूर्वापरपरामर्शनिरपेक्षं ज्ञानं जनयति । तत्रेोत्पन्नं ज्ञानम् “पूर्वात्राधेन नोत्पत्तिरुत्तरस्य हि सिध्यति” इति न्यायात् पूर्वं बाधित्यैवोदेति । ज्ञायमानतया ज्ञापकं तु योग्यतापरामर्शादिसापेक्षं प्रमिति जनयति । तत्र परामर्शदशायां पूर्वप्रमाणेन विरुद्धप्रमितिश्चेत्, सा प्रमितिरुत्तरोत्पत्तिं प्रतिबध्नातीति वैषम्यमिति ॥ एवं तर्हि, नेदं रजनमिति ज्ञानस्य इदं रजतमिति परामर्शसापेक्षत्वात् पूर्वज्ञानेन प्रतिबद्धस्य नेदं रजतमिति ज्ञानस्यानुदयप्रसङ्ग इति चेन्न - इन्द्रियस्य प्रत्यभिज्ञतरज्ञानजनने पूर्वपरामर्शनिरपेक्षत्त्रात् । इहापि शुक्तिरियमिति शुक्तित्वविषया ह्युत्तरप्रमितिः । शुक्तिन्त्रप्रतीतेश्च न रजतप्रतिपत्तिसापेक्षत्वम् । शुक्तित्वे गृहीते सति तद्ग्रहणफलभूतः नेदं रजतमिति व्यवहारो नञल्लिखितत्वात् प्रतियोगिसापेक्षः प्रवर्तते । तत्सापेक्षत्वं च शब्दस्वभावाधीनम् । अतः शुक्तिज्ञानं रजतज्ञाननिरपेक्षमुदयमानं पूर्वं बाधित्वैवोदेति अतो नियतविरोधपौर्वापर्यविषयः उपक्रमाधिकरण (विरोधाधिकरण) न्याय एवात्र ( विरोधाधिकरण न्याय उपक्रमधिकरणन्याय एव वा अत्र ?) प्रवर्तते ; न स्वपच्छेदनयः । स चेदृशस्थले यदि प्रवर्तते, पश्वालम्भनमकर्तव्यं स्यात्; चरमभाविनः, न हिंस्यादिति निषेधस्य प्रत्रलयात् । ततश्चानुष्ठानविरोधः । सगुणनिर्गुणवाक्ययोर्विरोध पौर्वापर्यनियमः परेणैवोक्तः । अतोऽपि विशेधाधिकरणन्यायविषयत्वेनात्र अपच्छेदन्यायानवकाशात् सगुणत्राक्यानां बलीयस्त्वं सिद्धमिति । एतदभिप्रायेण अन्यतरस्येत्युक्तम् । “. उपाध्यनुक्तिपूर्वक श्रुत्युक्तानां गुणानां निरुपाधिकत्वस्य स्वतः प्राप्तत्वात् स्वाभाविकत्वश्रुतेः, ‘नान्यो हेतुर्विद्यत ईशनाय’ इति ईशनस्याहेतुकत्व श्रवणेन तदौपयिकगुण. नामपि निरुपाधिकत्वसिद्धेः ज्ञानशक्तयादितारतम्योपाधिभूतकर्म संबन्ध निषेधपूर्वक सत्य कामत्याद्युक्तेः, “त इमे सत्याः कामाः” इति स्वरूपवत् सत्यत्वश्रुनेः, “पराऽस्य शक्तिः’, ‘ते ये शतम्’ इत्यादिभिर्गुणानामपरिच्छिन्नत्वप्रतिपादनेन कर्मसंबन्धव्यापक-
१९७ “भीषाऽस्माद्वातः पवते” इत्यादिना ब्रह्मगुणान् आरभ्य, “ते ये शतम्” इत्यनुक्रमेण क्षेत्रज्ञानन्दाति- परिच्छेदनिवृत्या व्याप्यकर्म संबन्ध निवृत्तेरर्थसिद्धत्वात्, स्वाभाविकत्व कण्ठोतिर हितगुणपरवाक्येष्वपि सर्वशाखा - प्रत्ययन्यायेन गुणानां स्वाभाविकत्वसिद्धेः, ‘आनन्दं ब्रह्मणः’ इत्यादितात्पर्यलिङ्गप्राचुर्यात्, उत्सर्गापवादन्यायसामान्यविशेषन्यायाभ्यां विषयविभागात् एकस्यां श्रुतावेव विषयविभागस्य दृष्टतया च विरोधाभावात्, अपच्छेदन्यायाविषयत्वात्, विराधे सत्यपि विरोधाधिकरणन्यायेन सगुणवाक्यप्राबल्यात्, ‘यस्सर्वज्ञः’ इत्यादिषूपासनविधिरहितेषु वाक्येषु स्वरूपवत् प्रतिपन्नत्वात्, मानान्तरागोचरतया अनुवादविषयत्वासंभवेन निषेद्धुमशक्यत्वात्, ‘आत्मा वा अरे द्रष्टव्यः’, ‘सत्यं ज्ञानमनन्तं ब्रह्म यो वेद’, ‘आत्मानमनुविद्य व्रजन्त्येतां श्व सत्यान्’ इति कचिदुपास्यत्त्रश्रवणस्य स्वरूपेऽपि तुल्यत्वात्, अध्यात्मशास्त्रेषु सखादौ (दिषु) गुणशब्दस्य प्रसिद्धिप्राचुर्याच्च निर्गुणवाक्यविषयत्वाभावात्, बाह्यतर्काणां कालात्ययापदिष्टत्वात्, अवधारणद्वय सहिताद्वितीयश्रुति-ज्ञानानन्दस्वरूपत्व-वाङ्मनसनिवृत्ति-ज्ञेयत्वनिषेधरूपार्थगुणनिषेधानां परिहृतत्वाच्च निरुपाधिकाः ब्रह्मगुणा इत्युक्तवक्ष्यमाणार्थसङ्ग्रहः प्रवृत्ति (प्रतिपत्तिः, सौकर्याय दर्शितः । सत्यं ज्ञानमिति ज्ञानपदेन सिध्यन् आर्थगुणनिषेधः पूर्वं परिहृतः । अथैतदनुवाकोपसंहारे च, “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इति वाङ्मनसनिवृत्यभिधानान्निर्गुणत्वं फलितम् । अतस्तदेकार्थ्याच्च सत्यज्ञानादिवाक्यस्य निर्विशेषपरत्वमिति शङ्कायाम्, आर्थगुणनिषेधपरतया परोक्तस्यास्य वाक्यस्योक्तार्थानुगुण्यमुपपादयतिमीषाऽस्मादित्यादिना । भीषाऽस्मादित्यनेन आज्ञापयितृत्वमुच्यते । क्षेत्रज्ञानन्दातिशयमुक्त्वेति । अत्र निर्विशेषत्वं प्रतिपिपादयित्रितं चेत् — गुणानां क्रमेण न्यूनतां प्रतिपाद्य सर्वाभावे पर्यवसितं युक्तम् । अत्र तु क्रमेण गुणानामाधिक्यमुक्त्वा वाङ्मनसनिवृत्त्यभिधानमानन्त्यादेवेत्यभिप्रायः । यथा, “संख्यातुं नैव शक्यन्ते गुणा दोषाश्च शार्ङ्गिणि । आनन्त्यात् प्रथमो राशिरभावादेव पश्चिमः ॥” इति । प्रथमं मनुष्यानन्द मारभ्य क्रमेणातिशयो दर्शितः ।
साधु युवाध्यायकः । साधु - यथाविधि सम्यक्संप्रदायसिद्धतया स्वरवर्णादिभ्रंशरहितं वा । युवशब्देन प्रत्यप्रत्त्रं विवक्षितम् । अविस्मरणान्नित्यनवं यथा भवति, तथा अध्ययनवानित्यर्थः । यद्वा स्वसमवयस्कानां सर्वेषामध्यापकः । तदधिकज्ञान इत्यर्थः । आशिष्ठः – आशुतरक्रियः । यद्वा अशनक्षमः ; अरोग इत्यर्थः । यद्वा आशीर्वादविषयभूतः ; सर्वानुरञ्जक इत्यर्थः । ‘सर्वान् देवान् नमस्यन्ति’ इतिवत् । बलिष्ठः -मनोबलवान्; द्रढिष्ठ इति शरीरबलस्योक्तत्वात् । यद्वा द्रढिष्ठः –दृढतरः; न त्वव्यवस्थितस्वभाव इत्यर्थः । बलिष्ठः - शारीरमानससर्वविधबलवान् । वित्तस्य पूर्णावित्तेन पूर्णा । “पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन” इति षष्ठ्यनुज्ञानात् । स एको मानुष आनन्दः । एवं गुणसमुदायं विभूतिपौष्कल्यं चोक्खा, ‘स एको मानुष आनन्दः’ इति श्रुत्या स्वरसतः तस्यैवानन्दत्त्रमुक्तम् । अनुकूलत्वं ह्यानन्दत्वम् । निवर्त्यनिष्टत्वेष्टसाधनत्वानपेक्षमिष्टत्वमनुकूलत्वम् । उक्तलक्षणयोगात् गुणविभूत्योरानन्दस्वमुपपद्यते । तद्विषयज्ञानस्याप्यनुकूलवं विषयानुकूलत्व कृतमित्यन्वयव्यतिरेकसिद्धम् । एवञ्च सति श्रुतिस्वारस्यश्च सिद्ध्यति । गुणविभूतिप्रकर्षमुक्त्वा, ‘स आनन्द’ इति ह्युक्तम् ; न तु तद्विषयज्ञानमिति । खुवत्वायनेकगुणान् विभूतिमप्युक्त्वा तत्समुदायमानन्दशब्देन निर्दिश्य तस्यानन्दस्य निरतिशयत्वप्रतिपादनात्
१९८ १-१-१. गुणगणनैर्भर्यम् शयमुक्त्वा, “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान्” इति ब्रह्मणः कल्याणगुणानन्त्यमत्यादरेण वदतीयं श्रुतिः । “सोऽश्नुते सर्वांन् कामान् सह ब्रह्मणा विपश्चिता” इति ब्रह्मवेदन - सर्वगुणानां विभूतेश्वानवधिकातिशयत्वं प्रतिपादितं भवति । अनुकूलज्ञानत्वमेवानन्दत्वमिति गुणविभूतिविषयज्ञानस्यानन्दस्वेऽपि तस्यानन्दस्य निरवधिका तिशयत्वोक्तघा गुणविभूल्योरप्यनवधि कातिशयत्वमर्थादुक्तं भवति ; तदानन्त्यस्य गुणविभूत्यानन्त्यनिबन्धनत्वादिति । आरभ्येति — उपक्रमानुगुणमुपसंहृत (ति ?) (संहार) वाक्यं नेयमिति भावः । श्रोत्रियस्य चाकामहतस्येति वाक्यैर्मुक्तानन्दस्य भगवदानन्दसाम्यमुक्तं भवति; बद्धदशायां निरतिशयानन्दासंभवात् । श्रोत्रियः — ब्रह्मनिष्ठः । अकामहतः - निवृत्ताविद्यत्वात् समस्तसांसारिक भोगानुपहतः । स एकः प्रजापतेरानन्दः’ इत्यन्तेन क्षेत्रज्ञानन्दातिशय उक्तः । स एको ब्रह्मण आनन्दः’ इति भगवदानन्द उच्यते । चतुर्मुखानन्दपरत्वे ब्रह्मशब्दास्वारस्यात् (ब्दस्वारस्यहानिः); ‘परं जैमिनिर्मुख्यत्वात्’, ‘स्याश्चैकस्य ब्रह्मशब्दवत्’ इति ब्रह्मशब्दस्य तत्रैव मुख्यवृत्तत्वस्य सूत्रितत्वात् ; भाष्ये प्रथमसूत्रस्थब्रह्मशब्दव्याख्यानावसरे प्रपश्ञ्चितत्वाच्च । ’ ब्रह्मविदामोति’, [’ अनन्तं ब्रह्म’] ‘ब्रह्मणा विपश्चिता’, ‘आनन्दं ब्रह्मणः’, ‘असद्बह्मेति वेद चेत्’, ‘अस्ति ब्रह्मेति चेद्वेद’ इति प्रकरणस्थ ब्रह्मशब्दानां ब्रह्मपरत्वात् प्रकरणविरोधश्च । आनन्दं ब्रह्मणो विद्वानिति पूर्वत्रोत्तरत्र च आनन्दप्रतियोगिषष्ठ्यन्त ब्रह्मशब्दस्वारस्यविरोधश्च । ’ सैषाऽऽनन्दस्य’ इति प्रक्रान्तब्रह्मानन्दस्य चतुर्मुखानन्देनोपसंहारानुपपत्तिश्च । ’ तदप्येष श्लोको भवति’ इति ब्रह्मानन्दं प्रकृत्य वक्ष्यमाणस्य श्लोकस्य उक्तविषयत्वविरोधश्व । ’ स एकः प्रजापतेः’ इति निरुपपदैकवचनान्तप्रजापतिशब्दस्वारस्यभङ्गश्च । न च तत् जात्येकवचनम् ; बहुत्वैकत्वविवक्षायां बहुवचनैकत्र चनर्निर्देश प्रकरणत्वात् । देवानां देवगन्धर्वाणां, मनुष्यगन्धर्वाणाम्, इन्द्रस्य, बृहस्पतेः, प्रजापतेरिति हि निर्दिश्यते । अतः प्रजापतिशब्दश्चतुर्मुखपरः । स एको ब्रह्मणः’ त्यत्र ब्रह्मशब्दो भगवत्परः ॥ ’ ते ये शतम्’ ‘स एक’ इति भगवदानन्दस्य कथं परिच्छिन्नत्वमिति चेत् —न परिच्छिन्नत्वम् । एकक्षणार्धे बहूनि योजनानि गच्छतो खे, “क्षिप्तेषुरिव सर्पति” इत्यादिषु साम्य कथनं यथा गतिमान्द्यनिवृत्तिपरम्, न तु परिच्छिन्नत्वपरम् — तद्वत् ‘ते ये शतं-स एक.” इति निर्देशोऽपि चतुर्मुखानन्दाधिक्याभिप्रायः, न तु परिच्छेदपर इति । यद्वा ते ये शतमिति स एक इत्यस्य निर्देशस्य संख्याविशेषपरत्वेऽप्यानन्दस्यापरिच्छन्नत्वं फलितम् । " अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तंत्र कोटिकोटिशतानि च ॥”, “रोमकूपेष्वनन्तानि ब्रह्माण्डानि भ्रमन्ति ते” इत्यादिवचनैरण्डानामनन्तत्वेन तत्रतत्र चतुर्मुखानामप्यनन्त्यात् कालत्रयवर्तिसमस्तब्रह्माण्डगत चतुर्मुखानन्दापेक्षया शतगुणत्वात्, “मेरारिवाणुर्यस्यैतदु ब्रह्माण्डमखिलं मुने” इत्युक्तत्रिपाद्विभूतिमत्तया च भगवदानन्दस्यात्यन्तमानन्त्य सिद्धेरिति । कल्याणगुणानन्त्यमिति । न हि क्रमेण गुणापकर्ष उक्तः ; किन्तु गुणानां प्रकर्ष एवोक्तः । अतो गुणप्रकर्षस्य निरतिशयत्वाद्वाङ्मनसनिवृत्तिरिति भावः । अत्यादरेणेति ब्रह्मस्वरूपादपि तद्गुणेष्वादशतिशय उक्तः । ‘आनन्द ब्रह्मणो विद्वान्’ इति हि श्रुतिः; न स्वानन्दान्वितं ब्रह्म विद्वानितीति भावः । इयं श्रुतिरिति । निर्गुणपरत्वेन त्वयोक्तैतत्प्रकरणस्था श्रुतिरप्यस्मदुतार्थानुगुणैवेति भावः । एवमार्थगुणनिषेधनिरासद्वारा प्रकरणगतवाक्यान्तरेण गुणानन्त्यपरेणैकार्थ्यात् सत्यज्ञानादिवाक्यस्य सविशेषविषयत्वमुक्तम् । अथः स्ववाक्यैकदेशेनापि सविशेषपरत्वमुपपादयति सोऽश्नुत CC-0.Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham १९९ फलमवगमयत् वाक्यं परस्य विपश्चितो ब्रह्मणो गुणानन्त्यं ब्रवीति । विपश्चिता ब्रह्मणा सह सर्वान् कामान् समश्नुते । काम्यन्त इति कामाः कल्याणगुणाः । ब्रह्मणा सह तद्गुणान् सर्वानश्नुत इत्यर्थः । दहरविद्यायाम, “तस्मिन् यदन्तस्तदन्वेष्टव्यम्” इतिवत् गुणप्राधान्यं वक्तुं सहशब्दः । फलोपासनयोः प्रकारैक्यम्, “यथाक्रतुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति” इति श्रुत्यैव सिद्धम् ॥ “यस्यामतं तस्य मतम् … अविज्ञातं विजानताम्” इति ब्रह्मणो ज्ञानाविषयत्वमुक्तश्चेत्, “ब्रह्मविदाप्नोति ‘य इत्यादिना । फलमवगमयद्वाक्यमिति । ‘ब्रह्मविदाप्नोति परम्’ इति ब्राह्मणे ब्रह्म तद्वेदनं प्राप्तिः प्राप्यं चेति चतुष्टयमुक्तम् । एतद्विवरणं सत्यज्ञानमित्यादिमन्त्रेण क्रियत इति श्रुतिरेवाह तदेषाभ्युक्तेति । तदेव ब्रह्माभिमुखीकृत्य ऋगेषाऽध्ये तृभिरुक्तेत्यर्थः । मन्त्राणां ब्राह्मणविवरणरूपत्वदर्शनात् उपक्रमाधिकरणविषयवाक्ययोरिव आपातविरोधप्रतीत्यभावात् मन्त्रब्राह्मणयोर्नित्य निर्दोषत्वाविशेषाञ्च मन्त्रापेक्षया ब्राह्मणप्राबल्यवादोऽनुपपन्नः । स्फुटप्रतिपत्तिहेतुत्वतदभावावेव प्राबल्यदौर्बल्यशब्दविवक्षितौ चेत् न विरोधः । “सत्यं ज्ञानमनन्तं ब्रह्म” इति ब्रह्मशब्दो विवृतः, “यो वेद निहितं गुहायाम्” इति विच्छन्दः, “परमे व्योमन् सोऽश्नुते” इति प्राप्तिः, “सर्वान् कामान्” इत्यादिना प्राप्यम ; तत्र परशब्दार्थविवरणमेतदिति दर्शयितुं परस्य विपश्चितो ब्रह्मण इत्युक्तम् । विपश्चित्त्वमपि भोग्यगुणत्वेनेोक्तम् । वाक्यस्यार्थं वक्तुं पदानामन्वयं दर्शयति विपश्चितेति । किमत्र गुणवाचिपदमिति शङ्कायाम्, “यदा सर्वे प्रमुच्यन्त कामा येऽस्य हृदि स्थिताः” इति व्याज्यतयोक्तकामव्यावृत्त्यर्थमत्रयवशक्त्या व्याचष्टे काम्यन्त इति । ब्रह्मवेदनफलतया मुक्तानुभाव्यत्वादिह त्याज्यकामपरत्वानु - पपत्तेः, काम्यत्त्रस्य ब्रह्मस्वरूपेऽपि संभवे सत्यपि व्यतिरेकनिर्देशात् बहुवचनान्तत्वात् अवयवशक्तेः तदुक्तभोग्यत्वस्य च गुणेषु संभवात् ‘स वा एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’, इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’, ‘त इमे सत्याः कामाः’ इत्यादिश्रुत्यन्तरैकार्थ्याच्च कामशब्दवाच्याः कल्याणगुणा इत्यर्थः । कस्येमे गुणाः ? सहभावश्च ब्रह्मणः पुत्रेण सहौदनं भुङ्क’ इत्यत्र पुत्रस्येव किं भोक्तृतया, उत’ क्षीरेण सहौदनं भुङ्क इत्यत्र क्षीरस्येव भोग्यतया ? इति शंकां च परिहरन् वाक्यार्थमाह ब्रह्मणेति । सर्वान् कामान् सह ब्रह्मणेति भोग्यवाचिपदेनाव्यवहितप्रयोगस्वारस्याच्च सहशब्दो मोग्यसाहित्यपरः । सन्निहितं ब्रह्मैव च गुणानामाश्रयः । अतोऽनन्तगुणविशिष्टं ब्रह्मानुभवतात्यर्थः । “सह युक्तेऽप्रधाने” इति शब्दानुशासनवशात् सहशब्देना प्राधान्यं ब्रह्मण आशङ्कय तत्परिहाराय सहशब्द प्रयोजनमाह दहरेति । ‘यो वेद’ इति विहिते वेदने गुणानां प्राधान्यसूचकः सहशब्दः । दहरविद्यायामुपासने हि गुणप्राधान्यमुक्तम । तथा अत्राप्युपासने गुणप्राधान्यं वक्तुं सहशब्द इत्यर्थः । फलदशायां गुणप्राधान्यश्रवणादुपासने गुणप्राधान्यं कथं सिध्यतीत्यत्राह - फलोपासनयोरिति । फलोपासनयोरुभयोरपि सगुणत्वं गुणप्राधान्यं च तुल्यप्रकारमित्यर्थः । गुणप्राधान्यं वक्तुमित्यनेनापि सहशब्दस्य भोग्यसाहित्यपरत्वं सिद्धम् । अन्यथा भोक्तृप्राधान्यं हि सिध्येत्, न तु भोग्यगुणप्राधान्यमिति । श्रुत्यैवेत्येवकारेण उक्तन्यायस्य पुरुषबुध्युत्प्रेक्षानिरपेक्षं श्रुत्या कण्ठोक्तत्वमभिप्रेतम् ॥ अस्य वाक्यस्य प्राप्यवाचिपरशब्दविवरणरूपत्वात् अथ सगुणानामेव ज्ञेयत्वं दृष्टमिति ज्ञेयत्वनिषेधे निर्गुणत्वं फलितमिति ज्ञेयत्वनिषेधपरत्वेन परोक्तं वाक्यमुपादत्ते । यस्येति । किं ज्ञानमात्राविषयत्वम्, उत उपासनात्मकज्ञानाविषयत्वम्, उत सगुणोपास-
२०० १ - १ - १. ज्ञानाविषयत्वनिरासः परम”, “ब्रह्म वेद ब्रह्मैव भवति” इति ज्ञानान्मोक्षोपदेशो न स्यात् । “असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः” इति ब्रह्मविषयज्ञानासद्भावसद्भावाभ्यामात्मनाशमात्मसत्ताच वदति ; अतो ब्रह्मविषयवेदनमेवापवर्गोपायं (गोय) सर्वाः श्रुतयो विदधति । ज्ञानञ्चोपासनात्मकम, उपास्यन ब्रह्म सगुणमित्युक्तम । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इति ब्रह्मणोऽनन्तस्यापरिच्छिन्नगुणस्य वाङ्मनसयोः एतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रह्म एतावदेति ब्रह्मपरिच्छेदज्ञानवतां ब्रह्माविज्ञातममतमित्युक्तम्, अपरिच्छिन्नत्वाद्ब्रह्मणः । अन्यथा ’ यस्यामतं तस्य मतम्’, ‘विज्ञातमविजानताम्’ इति मतत्वविज्ञातत्ववचनं तत्रैव विरुद्धयते । . नात्मकज्ञानाविषयत्वं विवक्षितमिति विकल्पत्रयमभिप्रेक्ष्य, प्रथमं ज्ञानमात्राविषयत्वं दूषयति ब्रह्मविदिति । ब्रह्मणो वेद्यत्वे श्रुतेरादरातिशयं दर्शयति असन्नेवेति । न ब्रह्मवेदनमपवर्गोपायः, अपि तु प्रपञ्च मिथ्यात्वज्ञानमेव तदुपाय इति परैरुच्यते । “विद्ययाऽमृतमश्नुते”, " तथा विद्वान्नामरूपाद्विमुक्तः “, " ततो ज्ञानं प्रवर्तते”, “ज्ञानाग्निः सर्वकर्माणि” इत्यादिष्वनिर्दिष्टविशेषविषयेषु वाक्येष्वपवर्गोपायतया श्रूयमाणस्य ज्ञानस्य ब्रह्मविषयत्वप्रपञ्चमिथ्यात्वविषयता साधारण्यात् तदाशङ्कयाह अत इति । अतः - केषुचिद्वाक्ये - ष्वपत्रर्गोपायज्ञानस्य ब्रह्मविषयत्वदर्शनात् । सर्वाः श्रुतयः - अनिर्दिष्टविषयविशेषाः, ‘विद्ययाऽमृतमश्नुते’ इत्यादिकाः श्रुतयोऽपि सर्वशाखाप्रत्ययन्यायेन ब्रह्मविषयमेव वेदनमपवर्गोपायतया विदधतीत्यर्थः । यद्वा केषुचिद्ब्रह्मविषयत्स्त्रे श्रुते ज्ञानमात्रोपपराः श्रुनयश्च सामान्यविशेषन्यायात् तत्रैव पर्यत्रस्यन्तीत्यभिप्रायः । अथोपासनात्मकज्ञानाविषयत्वपक्षं दूषयति ज्ञानं चेति । " तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति श्रुतिरुपासनात्मकज्ञानाविषयत्वशङ्काबीजम् । वाक्यार्थज्ञानस्योपायत्वानुपपत्त्युपपादनात् परिहृतमित्यर्थः । ‘नेदं यदिदमुपासत इत्यस्यायमर्थः यदिदं प्रतीकमुपासते, तन्नः तदेव परं ब्रह्म त्वमुपास्स्वेति । अथ सगुणोपासनाविषयत्यपक्षं प्रतिक्षिपति उपास्यञ्चेति । निर्गुणपरत्वेन परोक्तायाः सद्विद्याया एव सगुणविषयस्त्रोपपादनादिति भावः । यद्वा ज्ञानं चोपासनात्मकम्’ इति । ज्ञानविशेषविषयत्व कण्ठोक्तया ज्ञेयत्वमात्रनिषेधो दूरनिरस्त इति भावः । उपास्यं चेति । ज्ञेयत्वनिवृत्या सिषाधयिषिता गुणनिवृत्तिर्गुणविधानवाधिता । ततश्वाज्ञयत्वं वाधित्वा ज्ञेयः वर्माक्षिपतीति भावः । तर्ह्यविज्ञातत्वामतत्वश्रुत्योः कोऽर्थ इत्यत्राह यतो वाच इति । अनन्तशब्देन सत्यं ज्ञानमित्यादिवाक्यं स्मारितम् । अनन्तस्येति स्वरूपानन्त्यमुक्तम् । अपरिच्छिन्नगुणस्येति गुणानन्त्यम् । अस्मिन्नर्थे - “न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः “, “नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते”, “तवानन्तगुणस्यापि षडेव प्रथमे गुणाः”, “वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः । महात्मनः शङ्खचक्रासिपाणेर्दिष्णोर्जिष्णोर्वसुदेवात्मजस्य”, “चतुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः कापि त्रिशुद्धचेताः । स ते गुणानामयुतैव देशं वदेन्न वा देववर प्रसीद”, “यथा रत्नानि जलधेरसंख्येयानिः पुत्रक । तथा गुणा ह्यनन्तस्य असंख्येया महात्मनः । इषुक्षयाचित्रर्तन्ते नान्तरिक्षक्षितिक्षगत् । मतिक्षयान्निवर्त्तन्ते न गोविन्दगुणक्षयात्” इत्यादि द्रष्टव्यम् । परिच्छिन्नत्वज्ञाने कथं धर्मिणो ब्रह्मणोऽज्ञातत्त्रमित्यत्राह अपरिच्छिन्नत्वात् ब्रह्मण इति । ब्रह्मशब्दवाच्यस्य स्वरूपतो गुणतश्चापरिच्छिन्नत्वादित्यर्थः । न केवलं श्रुत्यन्तराविरोधार्थमेवमर्थ उक्तः, इतरथा स्ववाक्यव्याइतिप्रसङ्गाचेत्याह अन्यथेति । तत्रैव - स्ववाक्य एव ।
..
२०१ । यत्तु ‘न’ दृष्टर्द्रष्टारं न मतेर्मन्तारम्’ इति श्रुतिः दृष्टेर्मतेवर्व्यतिरिक्तं द्रष्टारं मन्तारं च प्रतिषेधतीति – तत् ! आगन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतां कुतर्कसिद्धां मत्वा, न तथाऽऽत्मानं पश्येः, न मन्वीथाः, अपि तु द्रष्टारं मन्तारमप्यात्मानं दृष्टिमतिरूपमेव पश्येरित्यभिदधातीति परिहृतम् । अथवा दृष्टेर्द्रष्टारं मतेर्मन्तारं . जीवात्मानं प्रतिषिद्धय सर्वभूतान्तरात्मानं परमात्मानमेवोपारस्वेति वाक्यार्थः । अन्यथा, “विज्ञातारमरे केन विजानीयात् ” इत्यादिज्ञातृत्वश्रुतिविरोधश्च ॥ ‘आनन्दो ब्रह्म’ इत्यानन्दमात्रमेव ब्रह्मस्वरूपं प्रतीयत इति यदुक्तम् ; तत् ज्ञानाश्रयस्य ब्रह्मणो ज्ञानं स्वरूपमिति वदतीति परिहृतम् । ज्ञानमेव ह्यनुकूलमानन्द इत्युच्यते । “विज्ञानमानन्दं ब्रह्म” इति, आनन्दरूपमेव विज्ञानं ब्रह्मेत्यर्थः । अत एव भवतामेकरसता । ज्ञेयत्वनिषेधे परिहृते ज्ञातृत्वनिषेधं परिहरति यत्त्वित्यादिना । दृष्टेर्मतेरिति पञ्चम्यन्तत्वाभिप्रायेण व्यतिरिक्तपदाध्याहारेण किं योजना, उत षष्ठ्यन्ततया व्यतिरिक्तपदानध्याहारेण योजना स्वया क्रियते इति विकल्पमभिप्रेत्य प्रथममध्याहारपक्षमनुवदति न दृष्टेरिति । परिहरनि तदिति । प्रसक्तस्य हि प्रतिषेध इति शङ्कायां प्रसङ्गं दर्शयति कुतर्कसिद्धामिति । कुतर्कः कथमुपन्यस्तः इत्यपेक्षायां स्वरूपजडले परोक्तं हेतुद्वयं सङ्प्रहेणोपपादयति आगन्तुक चैतन्यगुणयोगितयेति । आगन्तुकत्वादु गुणस्याच्चेति हेतुद्वयम् । आगन्तुकत्वात्अनित्यत्वात् ज्ञानं नित्यस्यात्मनो न स्वरूपं भवितुमर्हति ; गुणत्वाच्च न स्वरूपमिति । यद्वा चैतन्यं नाम विषयप्रकाशः; तन्नित्यं स्वरूपं चेत्, सर्वदा विषयप्रकाशप्रसङ्ग इति भावः । दृष्टिश्रुतिमति निदिध्यासनानां ज्ञानविशेषाणां कर्तुरात्मनः स्वरूपस्य दृष्ट्यादिरूपत्वे विधीयमाने आत्मनः स्वरूपस्य न ज्ञानावान्तरभेदः शङ्कनीयः । तेषां ज्ञानविशेषरूपाणां स्वयम्प्रकाशस्वलक्षणं ज्ञानत्वमविशिष्टमिति तावन्मात्रमेव स्वरूपस्य विवक्षितं भवति । अयं परिहारः परपक्षेऽपि समानः । साक्षादुयोजनामाह अथवेति । दृष्टिश्रुतिमतिनिदिध्यासनानां कर्तारं जीवात्मानं प्रतिषिध्य परमात्मानमुपास्स्वेत्ययमर्थ उक्त इत्यर्थः । यद्वा अभिदधाती (तीती’?) व्यनुषङ्गः । जीवात्मानं प्रतिषिध्य परमात्मानमुपास्स्वेत्यभिदधाति श्रुतिः । इति वाक्यार्थ इति वाक्यान्तरम् । यद्वा प्रतिषिध्यपरित्यज्येत्यर्थः । अतः समानकर्तृकत्वोपपत्तिः । “यः प्राणेन प्राणिति योऽपानेनापानिति एष त आत्मा सर्वान्तरः” इति प्रस्तुतत्वात् प्राणेन प्राणितृत्वादि जीवात्मनः संभवतीति तदुपास्यत्वशङ्काव्यावृत्त्यर्थम् न दृष्टेष्टारं पश्येरित्याद्युच्यत इति अयमेवार्थः । अन्यथा श्रुत्यन्तरविरोधमाह अन्यथेति । गुणत्वमसिद्धम्, ज्ञानस्य स्वरूपत्वेन श्रुतिप्रतिपन्नत्वात् । ज्ञानं चेत्, आगन्तुकमिति न वाच्यम् ईश्वरज्ञाने व्यभिचारात् । अस्मदादिज्ञानस्याप्यागन्तुकत्वं कालात्ययापदिष्टम्, ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ इति श्रुतेः इति हेतुद्वयपरिहारः । विषयप्रवणत्वं धर्मभूतज्ञानस्यैव; सर्वसाधारण ज्ञानस्त्रं’ स्वप्रकाशस्वम् । अतो न सर्वदा विषयप्रकाशप्रसङ्गश्च ॥ " ज्ञेयत्वनिषेधपरिहारानन्तरं बुद्धिस्थत्वात् ज्ञातृत्वनिषेधः परिहृतः । अथ आर्यगुणनिषेधान्तरं परिहियते आनन्द इत्यादिना । पूर्वोक्तं परिहारमत्रातिदिशति तत् ज्ञानाश्रयस्येति । कथं तेनेदं परिहृतमित्यत्राह ज्ञानमेव हीति । तर्हि श्रुतिषु विज्ञानानन्दशन्दयोः समभिव्याहारो नोपपद्यत इत्यत्राह विज्ञानमिति । स्वयंप्रकाशत्वानुकूलस्वरूप प्रवृत्तिनिमित्त मेदादुपपद्यत इति भावः भवद्भिरभ्युपगतमित्याह अत एवेति । अत एव - ज्ञानानन्दशब्दयोरेकविषयत्वादेवेत्यर्थः । आनन्दस्य 1 इतिशब्दस्याप्य
ननुषङ्गे एक इतिशब्दोऽध्याहर्तव्यः स्यात् । श्र॰ 26
। तथैव २०२ १-१-१. आनन्दगुणकरचे प्रमाणम् 1 । अस्य ज्ञानस्वरूपस्यैव ज्ञातृत्वमपि श्रुतिशतसमधिगतमित्युक्तम् । तद्वदेव, " स एको ब्रह्मण आनन्द ः “आनन्दं ब्रह्मणो विद्वान् " इति व्यतिरेकनिर्देशाच्च नानन्दमात्रं ब्रह्म; अपि त्वानन्दि ; ज्ञातृत्वमेव ह्यानन्दित्वम् । यदिदमुक्तम्, ‘यत्र हि द्वैतमिव भवति’, ‘नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नामेव पश्यति’, ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्” इति भेदनिषेधो बहुधा (शो) दृश्यत इति-तत्- आनन्दाश्रयत्वानम्युपगमः किं श्रुत्या, उन व्याप्त्या ? व्याप्त्या चेत्, कस्यचिद्धर्मः स्यात् । श्रुतिबलात् स्वतन्त्रत्वमिति चेत्-तत एवानन्दाश्रयत्वमभ्युपगम्यताम् । धर्मभूतानन्दस्य हि आनन्दाश्रयत्वाभावो दृष्टः । अतो व्याप्तिनिरोधश्च नास्ति । अतः स्वतन्त्रत्ववत् गुणाश्रयत्वमपि श्रुतिसिद्धत्वात् स्वीकार्यमिति भावः । उभयत्र प्रमाणे सति हि न्यायसञ्चार इत्याशङ्कायां दृष्टान्तभूमौ प्रमाणस्य दर्शितत्वमाह अस्येति । दाष्टन्तिकेऽपि कण्ठोक्तिं दर्शयति तद्वदिति । ज्ञातृःववत् आनन्दित्वमपि कण्ठेोक्तमित्यर्थः । ज्ञातृत्वश्रुतिरप्यानन्दित्वे प्रमाणमित्यभिप्रेत्याह ज्ञातृत्वमेव ह्यानन्दित्यमिति । ज्ञातृत्वातिरिक्तानन्दित्यव्युदासपर एवकारः । हिशब्दस्तदुपपत्तिसूचकः । अनुकूलज्ञानाश्रयत्वमेव ह्यानन्दित्वमित्यर्थः । ज्ञातृत्वश्रुतिर्ज्ञानाश्रयत्यनिषेवस्य आनन्दाश्रयत्वनिषेधस्य च विरोधिनीति भावः । अथ भेदनिषेधपरत्वेन परोक्ताः श्रुनर्योजयितुमनुवदति यदिदमिति । यत्र हीत्यादिवाक्याभ्यां भेदनिषेधः कृतः । भेदप्रतिपत्तावर्थं दर्शयतिमृत्योरिति । “तमसो वा एष तमः प्रविशति” इतिवत् । नित्यानुवृत्तस्य भेदस्य कथं भ्रान्तिसिद्धत्वमित्यत्राह - यत्र त्विति । उक्तवाक्येषु वचनभङ्गीवैविध्याभिप्रायेण बहुधेयुक्तम् । बहुश इति पाठे निषेधक्रियाऽऽवृत्तिरर्थः । परिहरति तदिति । तच्छब्दस्य परिहृतमित्यत्रान्वयः । समस्तह्नेयत्रत्यनीकत्वेन समस्त कल्याणगुणात्मकत्वेन च श्रुत्यन्तरप्रसिद्धस्य ब्रह्मणो विकारास्पदक्केशकर्मादिहे - यपरवशजगदैक्यं व्याहतत्वाच्छ्रुतिर्न प्रतिपादयति ॥ न व्याहतिः; हेयानामपारमार्थिकस्यादिति चेत्-अपारमार्थिकल्बे तत् निरसनीयम्, न वा ? न चेत् तन्निवृत्त्यर्थं शास्त्रमनर्थकं स्यात् । निरसनीयं चेत्निरसनीयसंबन्ध एव हेयसंबन्ध इति तत्प्रत्यनीकस्य तत्सम्बन्धित्वं व्याहनम् । किञ्च, बहु स्यामिति सङ्कल्पपूर्वकं बहुभवनं श्रूयते । सर्वज्ञस्य स्वेच्छयां स्वस्मिन् हेयापाद (योपादा) नमनन्वितमिति तत्प्रतिपादन मशक्यम् । असर्वज्ञत्वे, ‘पश्यत्यचक्षुः स शृणोत्यकर्णः’, ‘स्वाभाविकी ज्ञानबलक्रिया च’, ‘यः सर्वज्ञः’ इत्यादिश्रुतिविरोधः । हेयस्यापारमार्थेऽपि स्वसङ्कल्पेन स्वस्यानन्तापुरुषार्थभ्रमापादनं सर्वज्ञस्य नोपपद्यते । सार्वश्यस्याविद्यापरिकल्पितत्वाभ्युपगमात् अविद्य।पूर्वकमेव बहुभवनभ्रमरूपं सार्वईयमिति न वाच्यम्; स्वाभाविकीति श्रुतेः; “त इमे सत्याः कामाः” इति सत्यत्वश्रुतेश्च । स्वसार्वश्यमाविचिकत्वेन मिथ्येति न जानातीति चेत्-सार्थइयं न स्यात् । जानातीति चेत्-तेनैव ज्ञानेन बाधितत्वात् सार्वश्यं न स्यात् । तत्श्च पूर्वजंगदा कारपर्यालोचनेन स्वसङ्कल्पपूर्वकं जीवकर्मानुगुणसृष्टिर्नोपपद्यते । अतः सार्वज्ञ्यस्याविधिकत्वमनुपपन्नमिति सर्वज्ञस्य तस्य स्वगतद्देयापादनं (योपादानं) न घटते । किञ्च हेयं स्वगतत्वेन जानतः सर्वशक्तस्तस्य सत्यसङ्कल्पस्यः सहसैव स्वगतहेयानिरासकत्वमपि नोपपद्यते । अशक्तत्वे, “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी” इत्यादिश्रुतिविरोधः ॥ ईदृशविरोधो नास्ति; श्रुतिवलादविरुद्धत्वस्याभ्युपगन्तव्यस्यादिति चेत् तर्हि ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’, ‘न जायते म्रियते वा विपश्चित्’, ‘वायुश्चान्तरिक्षं चैतदमृतम्’, ‘आत्मनः आकाशः 1 बहुशः बहुषु स्थलेषु । बह्यल्पार्थाच्छस्कारकादिति शस् । आवृत्तिलाभोऽर्थादिति भा. प्र. । 20
२०३ सम्भूतः’, ‘न नभो न भूमिर्नमे द्यावापृथिवी’, ‘अन्तवदेवास्य तद्भवति’, ‘नास्येष्टापूर्ते क्षीयेते’ * इत्यादिश्रुत्युक्तस्यात्मादीनां नित्यत्वानित्यत्वादेरपि श्रुतिप्रतिपन्नतया विरोधाभावादुभयमप्युपगन्तव्यम् । ततश्च सर्वत्र यथाप्रतिपन्नस्वीकारे हि मीमांसारम्भवैयर्थ्यं स्यात् । प्रस्तुतभेदाभेदश्रुत्योरपि पारमार्थिकापारमार्थिकविषयत्वेन सोपाधिकनिरुपाधिकविषयत्वेन वा विभागकल्पनमनुपपन्नम् ; तस्य विरोधपरिहारार्थत्वात् ; विरोधस्य चाभावात् । ततश्च भेदपारमार्थ्यसिद्धिः । अतो विरोधोऽभ्युपगन्तव्यः । इह् च विरोधोऽवगम्यते, ‘मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’ इति भेदप्रतिपत्तेः संसारहेतुत्वं श्रूयते । ‘पृथगात्मानं प्रेरितारं च मत्त्रा जुष्टस्ततस्तेनामृतत्वमेति’, ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ इति भेदज्ञानस्य मोक्षोपायत्वं श्रूयते । “द्वैतिनो ऽतथ्यदर्शिनः” इत्यादिस्मृतिविरुद्धम्, “द्वाविमौ पुरुषौ “, “आदिश्य विमर्त्यव्यय ईश्वरः…. यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः” इत्यारभ्य, “यो मामेवमसंमूढो जानाति पुरुषोत्तमम् " इति भेदज्ञानवतोऽसंमूढत्वं स्मर्यते । एवमादिवचनप्रतिपन्नस्य भेदस्य लोकसिद्धत्वाभावात् निषेधार्थं भेदोऽनूद्यत इति वादोऽनुपपन्नः । किञ्च यदि भेदमात्रस्य लोकसिद्धत्वात् अप्राप्ते हि शास्त्रमर्थवदिति न्यायात्, अभेद एव शास्त्रवेद्य इत्युच्यते-तर्हि सोऽयं देवदत्त इत्यादावभेदमात्रस्य च लोकसिद्धत्वात् अप्राप्ते शास्त्रस्यार्थवस्वाच्च शास्त्रेणाभेदप्रतिपादनमयुक्तम् ॥ देवदत्ताद्यैक्यं हि लोकसिद्धम्, न जीवपरयोः । अतस्तयोरभेदः शास्त्रप्रतिपाद्य इति चेत् तर्हि घटपटादिभेद एव लोकसिद्धः, न तु जीवपरयोः । नियाम्यत्वनियन्तृत्वधार्यत्वधारकत्वशेषत्वशेषित्वव्याप्यत्वव्यापकत्वादिलक्षणभेदो न लोकसिद्ध इति स भेदः शास्त्रप्रतिपाद्यएव । यथोक्तमाचार्यपादैः- — , " न द्वैतं प्रतिपादयन्त्युपनिषद्वाचः प्रसिद्धं हि तत् द्वैतमनन्यगोचरतया तद्वेद्यमास्थीयताम् । अप्राप्ते खलु शास्त्रमर्थत्रदिति व्यर्थः प्रयासो यतः प्रख्यातादपरस्तु शास्त्रविषयो भेदस्त्वदद्वैतवत्” ॥ इति । अयञ्चार्थोऽनन्तरमेव भाष्ये वक्ष्यते । अतः, अनुवाद इति निर्वाहो नोपपद्यते । "
भेदश्रुतिरुपासनार्थी, न तु तत्त्वपरा, “पृथगात्मानं प्रेरितारं च मत्वा”, “जुष्टं यदा पश्यत्यन्यमीशम् ” इत्युपासनवाचिपदश्रवणादिति चेत् — तथापि तात्विक एव भेदः; तज्ज्ञानस्य मोक्षोपायत्वोक्तेः । तत्रज्ञानेन हि मोक्षः । न च फलविशेषायोपासनार्थत्वात् भेदश्रुतीनां भेदस्यातात्त्विकत्वं वाच्यम्; ऐ । यस्य चोपासनार्थत्वादसत्यत्वप्रसङ्गात् । श्रूयते ह्यभेदस्योपासनार्थत्वम्"अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद”, “आत्मेत्येवोपासीत” इति । ऐक्यस्योपासनार्थत्वं भेदस्य च तात्विकत्वं युक्तम् । वैनतेयध्यानेन ह्यैक्यमारोपितं दृष्टम् ; भेद एव हि नरेन्द्रवैनतेययोस्तात्त्विकः ॥ विधिशेषभूतव्यतिरिक्तेष्वपि वाक्येष्त्रभेदः प्रतीयत इति तस्य तात्त्विकत्वमिति चेत् तर्हि “क्षरं प्रधानममृताक्षरं हरः”, “प्रधानक्षेत्रज्ञपतिर्गुणेशः”, “ज्ञाज्ञ। द्वौ”, “ऋतं पिबन्तौ”, “द्वा सुपर्णा”, “नित्यो नित्यानाम्” इत्यादि - अविधिशेषभूतवाक्यावगतत्वाद्भेदस्यापि तात्विकत्वमवर्जनीयम् । उपास्तिफलभूत मुक्तिदशायामभेदात् अभेदपारमाध्यं चेत्मुक्तिदशायां भेदश्रवणाद्भेदतास्त्रिकत्वसिद्धिः । अत उपासनार्थत्वादपरमार्थविषयत्वेन भेदश्रुतिनिर्वाहो नोपपद्यते । 1 नरेन्द्रः = विषवैद्यः ।
२०४ १-१-१. भेदनिषेधवाक्यार्थः ‘कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात् तत्प्रत्यनीकनानात्वं प्रतिषिध्यते । भेदाभेदयोर्नियल पौर्वापर्यविरोधवत्त्वादपच्छेदन्यायविषयत्वं सगुणत्वनिर्गुणत्वयोरिव न संभवतीति विरोधनयादुपक्रमनयाद्वा परभूतभेदनिषेधोत्पत्तिप्रतिबन्ध एव स्यात् । इदं च पूर्वमेव प्रपञ्चितम् । , एवं न्यायानुगृहीतश्रुत्यन्तरविरोध त्यावर्जनीयत्वम् एषां निर्वाहाणामनुपपन्नत्वं च प्रदेशान्तरोक्तमिहाभिप्रेत्य, समीचीननिर्वाहं दर्शयति तदिति । जगत इति पदं ब्रह्मपर्यन्तम् । तस्य ब्रह्मकार्यतयेति पदेन ऐक्यादिति पदेन चान्त्रयः । तदन्तर्यामिकतयेत्यत्र सामर्थ्याज्जगत इत्यध्याहारः ; तेन सकृत्प्रयुक्तस्य च (?) जगच्छब्दस्य निष्कर्षकत्वानिष्कर्षकत्वविरोधपरिहारः । ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्युक्तं जगतस्तज्जवं तलवं चोपजीव्याह ब्रह्मकार्यतयेति । ब्रह्मशब्दः कारणावस्थचिदचिद्विशिष्टपरः । तदनत्यमुपजीव्याह - तदन्तर्यामिकतयेति । तच्छब्दो विशेष्यपरामर्शी; विशिष्टे प्रकृते विशेष्यांशस्यापि प्रकृतत्वात् । यथा “सन्मूला, सदायतनाः” इत्यत्र सच्छन्दस्य विशिष्टपरत्वं विशेष्यपरत्त्रञ्च तद्वत् । तत् ब्रह्म अन्तर्यामि यस्य, तत् तदन्तर्यामिकम् ; तद्भावेनेत्यर्थः । कथं तदनत्वेन तदन्तर्यामिकत्वसिद्धिः ? उच्यते । अननं स्थितिः । ब्रह्मणो जगस्थितिहेतुत्वश्च अन्तः प्रविश्य प्रशासनेन धारकत्वम् . " सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायत नास्सत्प्रतिष्ठाः” इत्यत्र सन्मूलाः सत्प्रतिष्ठाः इति पदद्वयं सच्छब्दवाच्यब्रह्माधीनोत्पत्तिलयपरम् । प्रतिष्ठा - निष्ठा - पर्यवसानम् लयः; न तु सदाधारत्वम् ; सदायतना इति पुनरुक्तिप्रसङ्गात् ; एवं ब्रह्मण उत्पत्तिलयहेतुत्ववाचिपदद्वयमध्यगतेन स्थितिहेतुत्ववाचिना सदायतना इति पदेन धारकत्वसिद्धेः, “एतस्य वा अक्षरस्य प्रशासने गार्गि ! द्यावापृथिव्यौ विधृते तिष्ठतः” इत्यत्र तिष्ठतिधातूक्तस्थितेः प्रशासनेन धारणाधीनत्वावगमात्, “अन्तः प्रविष्टः शास्ता जनानाम्” इति धारण हेतु भूत प्रशासनस्यान्तः प्रविश्य क्रियमाणत्व श्रवणात्, “तद्यथा अरेषु नेमिरर्पिता नाभावंरा अर्पिताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः “, “मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव” इति श्रुतिस्मृतिभ्याम् अरनाभिमणिगणसूत्रदृष्टान्ताभ्यामन्तः स्थितस्य धारकव्त्रावगमात्, “तत् सृष्ट्वा तदेवानुप्राविशत् " इत्युक्तानुप्रवेशस्य सृष्टयनन्तरमावित्वादुदाहृतश्रुत्यैकार्थ्यांच स्थित्यर्थत्वात्, “सप्त प्राणाः प्रभवन्ति” इत्यादिवाक्योक्तप्रक्रियया सृष्टस्य च जगतः “तेनेदं पूर्ण पुरुषेण सर्वम्” इति वाक्येन स्थितिवेलायां व्यापकेन परमपुरुषेण पूर्णत्वावगमात् सर्वशाखाप्रत्ययन्यायेन व्यापननियमनधारणेष्वन्यतमोक्तावन्यतमस्य सिद्धत्वाच्च अनुप्रविश्य प्रशासनेन धारकत्वं स्थितिहेतुत्वमिति ह्यवगम्यते । एवं तज्जलानिति वाक्यमुपजीव्योक्तं जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया चेति तदन्तर्यामिकत्त्रमुभयलिङ्गस्य ब्रह्मणः परमार्थजगदुपादानत्वान्यथानुपपत्तिसिद्धम्, घटकश्रुतिसिद्धश्च । चशब्दस्योत्तरत्रान्त्रयः, तदन्तर्यामिकतया तदात्मकत्वेन चेति । स आत्मा यस्य तत् तदात्मकम् ; तदन्तर्यामिकत्वरूपेण तदात्मकस्येनेत्यर्थः । अन्तः प्रविश्य नियन्ता ह्यात्मा । ब्रह्मकार्यतया तदन्तर्यामिकतया तदात्मकत्वेन चेत्युक्ते हेतुत्रयशङ्का स्यादिति तद्वद्युदासार्थः चशब्दस्य प्राक्प्रयोगः । एवमुभयविधैक्यस्य विहितत्वादित्यर्थः ।
२०५
ननु ऐक्यस्थ कार्यकारणभावनिबन्धनत्वे कार्यावस्थजगद्विशिष्टस्य कारणावस्थचिदचिद्विशिष्टब्रह्मणा स्वरूपैक्यं युक्तम् । तदन्तर्यामिकत्वनिबन्धनत्वे तु न ब्रह्मणा ऐक्यम्, किन्तु प्रकारिणो ब्रह्मण एकत्वसंख्यान्वय एवेति ऐक्यशब्दस्यार्थभेदः स्यात् । ततश्च जगतस्तदात्मकत्वेनैक्यादिति वक्तुमयुक्तम्, प्रकारप्रकारिणोर्भिन्नत्वात् ॥ नैवम् ; जगद्ब्रह्मणोर्भिन्नत्वेऽप्यत्र जगच्छब्दो जगद्विशिष्टब्रह्मपर इत्युक्तत्वात् । ऐक्यशब्दस्य च नार्थमेदः ; उभयथाऽपि विशिष्टक्यपरत्वात् । तथाहि — कार्यकारणभावनिबन्धनमैक्यं नाम अवस्थाद्वयापन्नचिदचिद्विशिष्टवस्त्वेकत्वम् ; यथा रूपस्पर्शादिविशिष्टघटस्य तादृशमृद्रव्येणैक्यम् । चिदचिदात्मकजगद्विशिष्टस्य स्वरूपेण गुणैश्च निरतिशयबृहत्त्वविशिष्टस्य चैक्यं प्रकार्यक्यम्; यथा नैल्यविशिष्टस्य उत्पलत्वविशिष्टस्य चैक्यम् । न च विशेषणांशैक्याभावाद्वस्त्यैक्यहानिः ; मृद्घटादावपि स्वरूपस्य रूपस्पर्शादीनां कार्यत्वकारणत्वावस्थयोश्चैकत्वाभावात् । इयान् विशेषः – कार्यकारणभावे भिन्नकालीनात्रस्थारूपसद्वारकविशेषणाश्रयधम्र्यैक्यम्, यथा स एवायं तरुणोऽभूदिति । अन्यत्र समकालसंबन्ध्यद्वारकानेकविशेषणाश्रयधम्यैक्यम्, यथाऽयं वेदविद्राह्मण इति । बाल्ययौवने भिन्नकालीनसद्वारकावस्थे । वेदनं ब्राह्मणशरीरं च समकालवर्त्यद्वारक विशेषणम् । एवमुभयविधविशेषणविशिष्टध म्यैकत्वमैक्यशब्दार्थः । अतो जगच्छब्दवाच्यधम्यैक्यात् जगत ऐक्यादिति निर्देश उपपन्नः । 1 1
यद्वा कृत्स्नस्य जगत इति निष्कर्षकः शब्दः ; ब्रह्मशब्दोऽपि विशेष्यमात्रपरः; कार्यावस्थां प्रति आधारत्वात् । आधारत्वं च साक्षाद्वा परम्परया वा मुख्यमेव । अतो ब्रह्मकार्य जगत् । तदन्तर्यामिकशब्दो व्याख्यातः । एवं ब्रह्मकार्यतया तदन्तर्यामिकतया च जगत् तदात्मकम् । तदात्मकत्वं नाम जगतस्तत्प्रकार कस्वभावतया पृथगवस्थानाभावात् तदन्तर्गतत्वम् । तेन प्रकारेणक्यमू; न तु स्वरूपैक्यम् । विशिष्टान्तर्भावएवैक्यमित्यर्थः । तत्प्रत्यनीकनानात्वमिनि । विहितोभयविधक्य प्रत्यनीकनानात्वं निषिध्यत इत्यर्थः । कार्यकारणभेदः कुतर्कमूलभ्रान्तिविषयः । स्वनिष्ठभेदो लौकिकप्रतीतिमूलभ्रान्तिविषयः । अतो भ्रान्तिमूलत्वाविशेषात् विहितैक्यप्रत्यनीकत्वाविशेषाच्च तेनाकारेणोभयविधं भेदं नानाशब्देन परामृश्य निषिध्यत इति न वाक्यभेदः । तत्प्रत्यनीकेति । ऐक्यविधिशेषभूतो भेदनिषेधः; अभ्वयमुखेनोक्तार्थस्थिरीकरणार्थत्वाद्यतिरेकोक्तेः । ऐक्यविधिश्व, ‘नेह नानास्ती’ति प्रकरणे श्रूयते, एकधैवानुद्रष्टव्यमिति । एकधा - एकतया परमात्मशरीरतयैकप्रकारेणेत्यर्थः । तथा “अहमेकः प्रथममासं वर्तामि च भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्तः” “आत्मा वा इदमेक वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मित्रत्”, तथा “परमार्थत्वमेवैको नान्योऽस्तिः जगतः पते” “अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम्”, “तदच्युतो नास्ति परं ततोऽन्यत्” इत्यादिषु चैक्यविधिशेषतया भेदनिषेधो दृश्यते । शेषत्वं च विहितैकत्व स्थिरीकरणलक्षण किश्चित्कारेण भवति । यादृशमैक्यं विहितम्, निषेधस्य तादृशैक्यविरोधिभेदविषयत्वे सति तत्स्थिरीकरणार्थत्वं सिद्ध्येत् । न स्यविरोध्यर्थान्तरनिषेधस्तदुपयुक्तः । न हि मृदेव घट इत्युक्ते घटद्वित्वनिषेधो मृद्घटैकत्वोपकारकः; घटद्वित्वस्य मृद्घटैकत्वाविरोधित्वात् । नाप्येको घट इत्युक्ते घटगतरूपपरिमाणादिभेदनिषेधो घटाख्यवम्यैक्यविधे रुपकारकः, रूपपरिमाणादिभेदस्य घटव्यक्त्यैक्याविरोधित्वात् । विधेयविरोध्यर्थनिषेध एव हि विध्युपकारकः । किञ्च न केवलमुपकाराभावः; ऐक्यविधिविरुद्धं
२०६ १-१-१. भेदनिषेधश्रुतिसंकोचः न पुनः, बहु स्यां प्रजायेयेति बहुभवन सङ्कल्पपूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्धं प्रतिषिध्यत’ इति परिहृतम् । नानात्वनिषेधादियमपरमार्थविषयेति चेत्-न; प्रत्यक्षादिसकलप्रमाणानवगतं नानात्वं दुरारोहं ब्रह्मणः प्रतिपाद्य तदेव बाध्यत इत्युपहास्यमिदम् । च कृत्स्नभेदनिषेधपरत्वम्; समानाधिकरणवाक्येनैक्यविधानात् । भिन्नविशेषणाभिधायिशब्दानामेकविशेष्यवृत्तित्वं हि सामानाधिकरण्यम् । न च प्रकारभेदे तिष्ठति कृत्स्नमेदनिषेध उपपद्यते । अतो भेदनिषेधस्यैक्यविधिशेषत्वात् कार्थकारणभेदः स्वनिष्ठभेदश्च निषिध्यत इत्यभिप्रायः । किञ्च, " न चास्य कश्चिज्जनिता न चाधिपः”, “न तत्समश्चाभ्यधिकश्च दृश्यते’, “तेनार्हति ब्रह्मणा स्पर्द्धितुं कः “, " न स्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव” इत्यादिभिः स्वतन्त्ररूपवस्तुविशेषविषयनिषेधदर्शनात् सामान्येनावगतो भेदनिषेधः तत्र छागपशुन्यायेन पर्यवस्यतीत्यर्थसिद्धम् । तत्प्रत्यनीकनानात्वमित्युक्तत्वात् केषुचिद्वाक्येषु तस्य कण्ठोक्तत्वाच्च अथ उत्सर्गपवादन्यायमभिप्रयन्नाह न पुनरिति । ब्रह्मणः कार्यरूपेण नानात्वविषयश्रुतिवाक्योदाहरणं प्रकारनानात्यविषयवाक्यानामपि प्रदर्शनार्थम् । ‘एकः सन् बहुधा विचचार’, ‘एको देवो बहुधा निविष्टः ’ ‘त्वमेकोऽसि बहू
ननुप्रविष्टः ‘, ’ योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरम् योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरम् यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युः शरीरम् एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’ इति प्रकारनानाखं प्रकार्यकत्वं च हि स्पष्टं श्रूयते । यद्वा छान्दोग्ये तैत्तिरीये च बहु स्यामिति प्रकरणे, ‘अनेन जीवेनात्मनाऽनुप्रविश्य’, ‘तदनुप्रविश्य सच्च व्यच्चाभवत् निरुक्तञ्चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानश्च’ इति चिदचिदनुप्रवेशपूर्वक नामरूपभाक्त्व श्रवणात् उभयलिङ्गस्या [प्य व्यवधानेन जगदुपादानत्वानुपपत्तेश्च बहु स्यामित्यत्रापि ब्रह्मणो बहुनामरूपभाक्त्वस्य सद्वारकत्वसिद्धेः शरीरतया प्रकार भूतचिदचिन्नानात्वमर्थसिद्धमित्यभिप्रायेण बहुस्यामिति वाक्यमुदाहृतम् । एवं कार्यनानात्वस्य प्रकार नानात्वस्य च विहितत्वात्, सामान्यनिषेधस्य च विहितव्यतिरिक्तविषयत्वाच्च कुतर्कसिद्धकार्यकारणभेदविषयाः लौकिक प्रतीतिसिद्ध स्वनिष्ठ मेदविषयाश्च भेद निषेधश्रुतय इत्यर्थः । नानात्वनिषेधादपरमार्थविषयत्वं शङ्कते नानात्वेति । इयम् - श्रुतिः । भेदस्तु निषेधार्थमनूद्यत इति भावः । परिहरति नेति । अप्राप्तस्यानुवादायोगात् । अतो विषयविभागादविरोध एत्र न्याय्यः । एतदुक्तमाचार्यपादैः, “यद् ब्रह्मणो गुणशरीरविकार भेदकर्मा दिगो चर विधिप्रतिषेधवाचः । अन्योन्यभिन्नविषया न विरोधगन्धमर्हन्ति तन्न विधयः प्रतिषेधबाध्याः ॥” इति । " समस्तद्देयरहितस्य द्देयाकरवस्त्वक्यासंभवात्, हेपस्यापारमार्थेऽपि तस्य निरसनीयतया हेयत्वस्यावर्जनीयत्वात् तत्प्रतिभटतयोक्तस्य तत्संबन्धावरत्वैक्यस्याव्याघातात, सर्वज्ञस्य ब्रह्मणः स्वसङ्कल्पेन स्वगतद्देयतद्विषयभ्रमापादनायोगात्, असर्वज्ञत्वे सार्वइयश्रुतिविरोधात्, सर्वशक्तेः स्वगत हेयानिवारकत्वायोगात्, अशक्तत्वे सर्वशक्तिश्रुतिविरोधात् श्रुतिबलादीदृशविरोधाभावे ‘तान्येवानुविनश्यति’ ‘न जायते म्रियते वा’ इत्यादिवाक्यप्रतिपन्ननित्यत्वानित्यत्वनिर्गुणत्व सगुणत्वादेः श्रुतिबलाद्विरोधाभावेन कचिदपि न्यायसञ्चारानपेक्षतया मीमांसानरर्थक्यात्, भिन्नत्वाभिन्नत्वयोश्च विरोधाभावेन पारमार्थिकापारमार्थिकत्वेन विभागस्यानभ्युपगन्तव्यत्वात्, "
२०७ “यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति” इति ब्रह्मणि नानात्वं पश्यतो भयप्राप्तिरिति यदुक्तम् – तदसत् ; “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इति तन्नानात्वानु- Kaaman “पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति”, “जुष्टं यदा पश्यत्यन्यमीशम्” इति पृथक्त्वज्ञानस्य मोक्षोपायत्व श्रवणात्, “यस्मात् क्षरमतीतोऽहम् " इत्यादिना भेदज्ञानवतोऽसम्मूढत्व स्मरणात्, जीवपरयोर्नियन्तृत्वनियाम्यत्वादिलक्षणभेदस्य घटपटमेदवत् प्रमाणान्तरागोचरत्वेनानुवादासम्भवाद्विहितस्य निषेधायोगात् उपासनार्थत्वाश्रयणस्य " अथ योऽन्यां देवताम्” इत्यादिवाक्यप्रतिपन्नैक्येऽपि प्रसङ्गात्, ऐक्यस्याविधिशेषवाक्यप्रतिपन्नत्वे भेदस्य च तुल्यत्वात्, नियत पौर्वापर्यविरोधतया अपच्छेदन्यायाविषयत्वात्, विरोधाधिकरणन्यायेन भेदश्रुतेः परभूत निषेधोत्पत्तिप्रतिबन्धकत्वात्, ऐक्यविधिशेषस्य भेदनिषेधस्य विहितैक्यविरोधि भेदनिषेध करवोपपत्तेः, अन्यथा समानाधिकरणवाक्यप्रतिपन्नस्त्रशेषि भूतैक्यविरोधित्वप्रसङ्गात्, उत्सर्गापवादन्यायेन निषेधस्य विहित्तभेदव्यतिरिक्तविषयत्वात्, छागपशुन्यायेन मेदनिषेधस्य सामान्येन स्वतन्त्रभेदविशेषनिषेत्र पर्यवसायित्वाच्च भेदनिषेधश्रुतयोऽब्रह्मात्मकनानात्वनिषेधपराः ; न तु भेदमात्रनिषेधपरा इति सङ्ग्रहः । ,
यत्रहीत्यादिवाक्यानामयमर्थः - यत्र यदा द्वैतमिव भवति — स्वनिष्ठभेद इव भवति । इवशब्दः स्वनिष्ठभेदस्यातास्विकत्वद्योतकः । कथमिवेतिवत् वाक्यमङ्गिरित्यविवक्षितार्थो वा । तत्तदा । इतर इतरमितरेण पश्यति । केनेति वक्ष्यमाणत्वादितरेणेत्यध्याहारः । इतरः – स्वनिष्ठो द्रष्टा । इतरम् - स्वनिष्ठं द्रष्टव्यम् . स्वनिष्ठदर्शनसाधनेन पश्यति । यत्र तु यदा । अस्य - उपासकस्य । सर्वमात्मैवाभूत्— परमात्मसामानाधिकरण्येन सर्वं साक्षात्कृतम् । न हि पूर्वमनात्मभूतमिदानीं सर्वमात्मा भवति । अतः साक्षात्काराभिप्रायः अभूदिति निर्देशः अस्येत्युक्तेः । तत्तदा । क इत्यध्याहारः; इतर इत्युक्तत्वात् । स्वनिष्ठः को द्रष्टा स्वनिष्ठेन केन दर्शनसाधनेन स्वनिष्ठं कं द्रष्टव्यमर्थं पश्येत् । ज्ञातृज्ञेयज्ञानसाधनेषु स्वनिष्ठं किञ्चिदपि नास्तीत्यर्थः । प्रमितनिषेधायेोगादापातप्रतीतिसिद्धस्यैव निषेध्यत्वाल्लौकिक प्रतीतेश्व स्वनिष्ठताविषयत्वात् तेन रूपेणैव निषेधविषयत्वोपपत्तेः । यदि द्रष्टृदृश्यादिमात्रं निषिध्यते, तदानी “तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्व” इति परमात्मसाक्षात्कारदशायाम् अहमिति द्रष्टुरात्मनो मनुसूर्यादिदृश्यपदार्थानां च साक्षात्कारश्रवणं विरुध्यते । तस्मात् लौकिकप्रतीतौ द्रष्टृदृश्यादिकं प्रकारिभूतपरमात्मा प्रतिपत्तेस्तत्सामानाधिकरण्यमन्तरेण स्वनिष्ठतया भाति । योगदशायां तु प्रकारिणः परमात्मनः प्रतीयमानत्वादहंशब्दवाच्यपरमात्मसामानाधिकरण्येन प्रकाशत इति वैषम्यम् । न तु द्रष्टृदृश्यादीनि प्रतिषिध्यन्त इभ्युपगन्तव्यम् ; अन्यथा वामदेव दिदर्शनस्य भ्रान्तित्वप्रसङ्गात् । नेह नानेति । इह प्रपश्चे । लोकदृष्टप्रकारेण नानाभूतं स्वनिष्ठतया भिन्नं किञ्चिदपि नास्तीत्यर्थः । स्वनिष्ठदर्शनेन प्रत्यवायमाह मृत्योरिति । ‘तमसो वा एष तमः प्रविशति’ इतिवन्निर्देशः । नानेवस्वनिष्ठमिव । अज्ञानादज्ञान मानोतीत्यर्थः । देहातिरिक्तविषयाज्ञानं प्रागेव सिद्धम् ; ततोऽप्यतिशयितमज्ञानं स्वनिष्ठतया तद्वस्तुदर्शनमित्यभिप्रायः । यदा ह्येवैष इत्यादिश्रुतिमुपादाय तत्र ब्रह्मणीत्यादिना पूर्वपक्षिणोत्तमर्थमनूद्य दूषयति तदसदिति । तदसत् - भयप्राप्तिहेतुत्वं नेत्यर्थः । कुत इत्यत्राह सर्वमिति । ब्रह्मणः कार्यजगद्रूपेण नानात्वानुसन्धानं
२०८ १-११. भयाभयविषयश्रुत्यर्थः सन्धानस्य शान्तिहेतुत्वोपदेशात् । तथा हि सर्वस्य जगतः तदुत्पत्तिस्थितिलयकर्मतया तदात्मकत्वानुसन्धानेनात्र शान्तिर्विधीयते । अतो यथावस्थित देवतिर्यङ्मनुष्यस्थावरादिभेदभिन्नं जगत् ब्रह्मात्मकमित्यनुसंदधानस्य शान्तिहेतुतया अभयप्राप्तिहेतुत्वेन न भयहेतुत्वप्रसङ्गः । एवं तर्हि, ‘अथ तस्य भयं भवति’ इति किमुच्यते ॥ इदमुच्यते ; ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति’ इत्यभयप्राप्तिहेतुत्वेन ब्रह्मणि या प्रतिष्ठा अभिहिता; तस्याः विच्छेदे भयं भवतीति । यथोक्तं महर्षिभिः “यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया” इत्यादि । ब्रह्मणि प्रतिष्ठाया अन्तरम् - अवकाशः विच्छेद एव । मुक्तिहेतुरिति सिद्धान्तार्थः । इदानीं परोक्तं शान्तिहेतुत्वमभ्युपगम्योक्तम् । कथं तत्र नानात्वानुसन्धानप्रतीतिः, कथं वा तस्य भयप्राप्तिहेतुताविरोधित्वमिति शङ्कायामेतद्विवृणोति तथाहीति । अत्र नानात्वानुसन्धानप्रतीति दर्शयति सर्वस्येति । न हि केवलं ब्रह्मेत्युक्तम; अपितु इदं सर्वं ब्रह्मेत्युक्तम् । सर्वशब्दश्च विविधभेदप्रपञ्चपरः । अतो नानात्वविशिष्टब्रह्मानुसन्धानं प्रतीतमित्यर्थः । ततः किमित्यत्राह अत इति । नानात्वानुसन्धानस्य शान्तिहेतुत्वद्वारा समस्तभयनिवृत्तिरूपमोक्षोपायत्वात् भेदबुद्धेर्भयप्राप्तिहेतुत्वोक्तिस्तद्विरुद्धेत्यर्थः ॥
ननु मणिकृपाणदर्पणादिगतप्रतिबिम्बेष्विव देहेषु रागद्वेषादिनिवृत्यर्थं सर्वस्य ब्रह्मण्यध्यस्ततानुसन्धानविधिः किं न स्यात् । नैवम् ; प्रवृत्तिनिमित्तभेदेनै कार्यवृत्तित्वं हि सामानाधिकरण्यमित्युपपादितत्वात् बाधार्थत्वस्य वक्ष्यमाणंदूषणापहृतत्वाच्च । अथ चोद्यपूर्वकमेतच्छ्रुत्यर्थमाह इदमुच्यत इति । अदृश्य इत्यचिद्व्यावृत्तिः । अनात्म्य इति बद्धव्यावृत्तिः; स हि परमात्मना व्याप्यः । यद्वा आत्म्यम् - व्याप्यं कर्मकृतशरीरम् ; तद्रहितोऽनात्म्यः । अनिरुक्त इति मुक्तव्यावृत्तिः स हि बद्धावस्थायां देवादिशब्दैरुक्तः । अनिलयन इति नित्यमुक्तत्र्यावृत्तिः ; तेषामपि हि भगवान् आधारः । स्वोतार्थविषयमुपबृंहणं दर्शयति यथोक्तमिति । हानिः - इष्टहानिः । छिद्रम्अनिष्टप्राप्तिरन्ध्रम् । भ्रान्तिः तत्कृतचित्तस्खलनम् । विक्रिया - तेनाङ्गानाम् अवशात् अयथायथव्यापारः । “एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते । दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ॥”, “वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुख जन संवासवैशसम् ॥” इत्यादिवचनानि आदिशन्दविवक्षितानि । भेदवाचिनोऽन्तरशब्दस्य विच्छेदार्थकत्वं कथमित्यत्राह – ब्रह्मणीति । अविच्छिन्नं हि ध्यानं निरन्तरमित्युच्यते । अतोऽन्तरं विच्छेद एव । स कस्येत्यपेक्षायां प्रतिष्ठायाः प्रकृतत्वात् तस्याः विच्छेदः । प्रकृतब्रह्मविषये, ‘तदप्येष’ इत्युदाहृते, भीषाऽस्मादित्यनन्तरश्लोके वायु सूर्यादिसर्वं चेतनप्रशासितृत्वकथनादन्तरशब्दस्योपासनविच्छेदपरत्वमेव युक्तम् ; न तु भेदपरत्वम् । अतोऽयमर्थः पूर्वीपरवाक्यश्रुत्यन्तरानुगुणः उपबृंहणानुगुणश्च ; परोकस्तु तदुभर्याविरुद्ध इति भावः ॥
ननु यदा ह्येवैष इत्यत्र प्रतिष्ठा विच्छेदोऽर्यश्चेत्, एतस्यामिति स्त्रीलिङ्गता स्यात् ॥ अदितिः पाशादिति विभक्त्यवगतनपुंसकत्वाविवक्षेति चेत्-तथाप्यस्वारस्यमवर्जनीयम् । तच्च स्वरसार्थं संभवति नोपपद्यते । न्यायात् सप्तमी चास्वरसा । तस्या विच्छेद इति ह्युक्तिः स्वरसा ; न तु तस्यां विच्छेद इति । प्रातिपदिकास्वारस्यं च प्रतिष्ठापरत्वे स्यात् । पूर्ववाक्ये, ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्ये’ इति ब्रह्मपरतया प्रयुक्तस्य एतस्मिन्निति पदस्यानन्तरवाक्येपि बुद्धौ विपरिवृत्तेः ॥ उच्यते । न तावल्लिङ्गसप्तम्योः प्रातिपदिकस्य चास्वारस्यम्, ब्रह्मपरामर्शित्वादेतच्छन्दस्य । अन्तरशब्दश्चावकाश परः ; निरन्तरं सान्तरमिति प्रयोगात् । अन्तरच
२०९ यदुक्तम् “न स्थानतोऽपि " इति सर्वविशेषरहितं ब्रह्मेति च वक्ष्यतीति - तन्न । सविशेषं ब्रह्मेत्येव हि तत्र वक्ष्यति । “मायामात्रं तु” इति च स्वाप्तानामप्यर्थानां जागरितावस्थानुभूतपदार्थवैधर्म्येण मायामात्रत्वमुच्यत इति जागरितावस्थानुभूतानामिव पारमार्थिकत्वमेव वक्ष्यति ॥ . स्मृतिपुराणयोरपि निर्विशेषज्ञानमात्रमेव परमार्थः ; अन्यदपारमार्थिकमिति प्रतीयत इति यदभिहितम् - तदसत् ; – “यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।”, चास्वरसा ; देशतः कालतश्च भवति । कालकृतं चान्तरं विच्छेद एव ॥
नन्वेवंसति कस्य विच्छेद इत्यपेक्षायाम्, प्रतिष्ठाया । अन्तरमित्यध्याहारः स्यात् । तच्चायुक्तम्, अनध्याहारेण निर्वाहसंभवादिति चेत् —न; संनिधिलब्ध स्यार्थस्याध्याहारनिरपेक्षत्वात् ॥ अथाप्यस्वारस्यमिति चेत्, तद्वरम् । पक्षान्तरे बह्वस्वारस्य संभवात् । तथाहि भयहेतोरभयहेतु प्रतियोगित्वादभयहेतुपरप्रतिष्ठापदस्यैक्यवाचित्वाभावाद्वाक्यवृत्तेरसामञ्जस्यम् । तत्सामञ्जस्याय प्रतिष्ठाशब्दस्यैक्यपरत्वे मुख्यार्थहानिः । दृढसंबन्धो हि प्रतिष्ठा ; यथा राज्ये प्रतिष्ठित इति । प्रथमप्रतिपन्नप्रतिष्ठापदस्यार्थभङ्गश्वानुपपन्नः । पूर्वसिद्धैक्यावगतिपरत्वात् विन्दतिधात्वर्थस्यास्वारस्यञ्च । सप्तमी भेदप्रतियोगित्वावधित्वसम्बन्धविवक्षायां तृतीयापञ्चमीषष्ठीनामेव स्वारस्यात् । करोतेः प्रतिपत्त्यर्थत्वादस्वारस्यश्च । मनसि कुरुत इति योजनायामध्याहारः । एष वानन्दयातीति पूर्ववाक्यप्रतिपन्नभेदविरोधश्च । अनन्तरं च भीषास्मादिति प्रशासितृत्वेन भेद उच्यते । अतो मध्ये भेदनिषेधश्चानुपपन्नः । " आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन”, “कदाचन” इति पूर्वापरवाक्ये गुणविशिष्टवेदनस्याभयहेतुत्वोक्तेः ब्रह्मणि भेदनिषेधस्याभयहेतुत्वकथनं च विरुद्धम् । ब्रह्मविदामोतीति विद्युपक्रमत्वाच्च ब्रह्मणि प्रतिष्ठाया वेदनरूपत्वमेव युक्तम् ; न त्वैक्यरूपत्वम् । न ह्यैक्यतदूबुद्धयोरुभयस्य च प्रतिष्ठाशब्दवाच्यत्वम् । दृढसम्बन्धवाचिनः प्रतिष्ठाशब्दस्य तु उपास्यं ब्रह्म प्रत्युपासकतया सम्बन्धे पर्यवसानं युक्तम् ॥ ब्रह्मणो निर्विशेषत्वे व्यतिरिक्तमिध्यात्वे च परोक्तं सूत्रद्वयं परिहरति यदुक्तमिति । अथ स्मृतिपुराणयोः सविशेषपरत्वमुपपादयति । स्मृतीत्यादिना । स्मृतिपुराणयोरिति । सामान्येन । प्रमाणस्य तदवान्तररूपस्य शब्दस्य च सविशेषवस्तुपरत्वोपपादनात, शास्त्रस्य प्रत्यक्षविरुद्धार्थप्रतिपादनासामर्थ्योपपादनात् विशेषेण वेदान्तवाक्यानां सविशेषपरत्वोपपादनेन स्मृतिपुराणयोः श्रुतिविरुद्धार्थे प्रामाण्यासम्भवाच्च तयोः सत्रिशेषपरत्वं सिद्धम् । इदानीं स्मृतिपुराणयोरपि परोदाहृतवचनानां पूर्वापरपर्यालोचनया सविशेषपरत्वमुपपाद्यते । यथा लौकिकप्रमाणश्रुतिविरुद्धान् अर्थान्नेदं शास्त्रं प्रतिपादयति, एवमेव पूर्वापरवाक्यविरुद्धमध्यर्थं न स्मृतिपुराणानि प्रतिपादयितुं शक्नुवन्तीत्यभिप्रायः । परेण सर्वस्याऽऽविधिकत्वाविशेषेण स्वाभाविकवक्तृवैषम्यानभ्युपगमादद्वैत स्पष्टता भ्रमाच्च पूर्वं पुराणवचनान्युपन्यस्य पश्चाद्भगवद्गीतावचनान्युदाहृतानि । अत्र तु स्वाभाविकवक्तृवैषम्याम्युपगमादनन्तगुणविभूतिमस्त्रस्य स्पष्टतया च भगवद्गीतावचनानि पूर्वमुपन्यस्य पश्चात् पुराणवचनानि प्रदर्श्यन्ते ; अतः स्मृतिपुराणयोरित्युक्तम् । परेण स्त्रोदाहृतवचनप्रतिपाद्यतया योऽर्थोऽभिहितः, तद्विपरीतार्थपरत्वेन स्पष्टतमानि वचनानि प्रथमं प्रदर्श्यन्ते, पश्चात्तदविरोधेन परोक्तवचनानामर्थप्रतिपादनार्थम् । यो मामिति । अत्र अजमिति पदेन अचित्तत्संसृष्टचेत नव्यावृत्तिः । अनादिमिति मुक्तत्र्यावृत्तिः । तस्याजत्वं द्दि आदिमत् । लोकमहेश्वरमिति नित्यमुक्तव्यावृत्तिः । लोक्यत इति लोकः शु० 27 1
२१० १-१-१. सविशेषपरस्मृतिवचनानि “मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्य मे योग मैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥”, “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ! । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव”, “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । “, " उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । प्रमाणसिद्धत्रिविध चेतनाचेतनवर्गः, अत्रोत्तराद्ध’ (द्धार्थो ) ऽप्यनुसन्धेयतया अभिप्रेतः, “असम्मूढः स मयेषु " इति । चेतनाचेतनविलक्षणत्वेन जानन्नसम्मूढ इति कथनात् सर्ववैलक्षण्यं तात्त्विकमित्युक्तं भवतीत्यभिप्रायः । धारकत्वादिभिर्वैलक्षण्यं वैशद्यार्थमुपादत्ते मत्स्थानीति । अत्र शरीरलक्षणं सूचितं भवति । सर्वभूतानि मदायत्तस्थितीनि; नाहं तदायत्तस्थितिरित्यर्थः । लोकदृष्टप्रकारेण नाहमाधारः, अपि तु सङ्कल्पमात्रादित्याह नचेति । निषेधस्य विहितव्यतिरिक्तविषयत्वादयमेवार्थः । योगमैश्वरम् — ईश्वरासाधारणं सर्वशक्तियोगमित्यर्थः । न च मत्स्थानीति धारकत्वपारमार्थ्यनिषेधश्चेत्-योगमैश्वरं पश्येति विरुद्धम् । मम भ्रान्ति पश्येति हि तदा वक्तव्यम् । योगमैश्वरमित्येतद्विवृण्वन् इममेवार्थमाह भूतभृदिति । ममात्मामम सङ्कल्प इत्यर्थः । आत्मशब्दो हि मतिवाची, “यत्तेऽर्केऽग्नौ मतावात्मा” इति । अतोऽत्र आत्मशब्दः सङ्कल्परूपज्ञानवाची । ‘ममात्मा भूतभावनः’ इत्यनेन ‘न च मत्स्थानि भूतानि’ इत्यस्यार्थः स्पष्टीकृतः । भूतभावनः— भूतानां सत्तानुवर्तकः । अर्वाचीनस्येश्वरस्य हि सगुणत्वमिति शङ्कायां कारणातिरिक्तवस्तुनिषेध प्रदर्शनार्थं लक्षणप्रदर्शनार्थं च जगत्कारणत्वमाह – अमिति । प्रभवः प्रलयश्चेोक्तः; स्थितिस्तु धारकत्वकथनेन सिध्यतीति धारकत्वं विशिनष्टि मर्याति । विष्टभ्याहमित्यनेन नियन्तृत्वमुक्तम् । विष्टभ्य — अधिष्ठाय । एकांशेन -सङ्कल्पैकदेशेन । तच्च शरीरिवलक्षणम् । योमामजमित्यादिनाऽभिप्रेतचिदचिद्वै- । लक्षण्यकण्ठोक्तिं दर्शयति उत्तम इति । पूर्वस्मिन् वचने क्षराक्षर शब्दोक्तौ बद्धमुक्तौ । कूटस्थः निर्विकारः; ज्ञानसङ्कोचरूपविकाराभावान्मुक्तस्य । कूटस्थशब्दः साधारणवाची वा; सर्वेषु लोकेषु कामचारो भवतीति मुक्तात्मनः उभयविभूति साधारणत्वात् कूटस्थत्वम् । परमात्मेत्युदाहृत इत्यनेन ‘परमात्मा व्यवस्थितः ’ इत्येतद्वाक्यान्वितो नारायणानुवाकः स्मारितः; अक्षरादपि चोत्तम इत्यनेन च । तत्रैव हि, ‘सोऽक्षरः परमः स्वराट्’ इत्युक्तम् । ज्ञानसङ्कोच रूपक्षरणाभावादक्षरो मुक्तः । स्वराट्—–स्वतन्त्रः, अकर्मवश्यः । परमःजीवगतावस्थासु अतःपरमुत्कृष्टावस्थान्तराभावात् पारम्यम् । सर्वाणीति पदं ब्रह्मशिवाद्यभिप्रायम् । तस्मिन्
ननुवाके हि, “स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्” इति बद्धमुक्तजीववाचिपदैः समानाधिकृतैर्भगवः नुक्तः । तत्र ‘विश्वमेवेदं पुरुषः’ इति च सामानाधिकरण्यवाक्यं श्रूयते । सामानाधिकरण्यहेतुश्च तस्मिन्
ननुवाके स्पष्टः । ‘तद्विश्वमुपजीवति’, ‘पतिं विश्वस्यात्मेश्वरम्’, ‘व्याप्य नारायणः स्थितः’ इति च वाक्यजाते धार्यत्वधारकत्वनियन्तृत्वनियाम्यत्व - शेषिश्वशेषत्व व्याप्यत्वव्यापकत्वादिकमेव सामानाधिकरण्यनिबन्धनम्, न तु तदै (द्रव्यै) - क्यमिति स्पष्टम् । तदत्राप्युच्यते । आविश्येनि ‘व्याप्य नारायणः स्थितः’ इत्यस्यार्थ उक्तः । ‘पति विश्वस्ये’ त्यस्यार्थः ईश्वरशब्देनोक्तः । ईश्वरशब्दो हि शेषिवाचकः । अत एव हि, ‘पति विश्वस्यात्मेश्वरम्’ इत्यत्र पत्यन्तरराहित्य- 2 ‘क्षरः सर्वाणि’ इत्यत्रेदम् । 1 अर्ध इति पाठे अर्धशब्दः तृतीयपादरूपशकलपरः । 2 '
२११ अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः”, “स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने! व्यतीतः । अतीत सर्वावरणोऽखिलात्मा तेनाऽऽस्तृतं यद् भुवनान्तराले ॥ समस्त कल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृ (शोध) तभूतसर्गः । विवक्षायामात्मेश्वर इत्युक्तम् । ‘तद्विश्वमुपजीवती’ व्यस्यार्थो विमर्तीत्युक्तः । तथा ( तथा च ? ) “व्यापनाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः” इति । ‘यो मामेवमसंमूढः’ इति कृत्स्नवैलक्षण्यज्ञानवतोऽसम्मूढत्वमुक्तम् । ’ इति गुह्यतमं शास्त्रम्’ इति तस्यार्थस्य गुह्यतमत्वमुक्तम् । अतोऽस्मिन्नर्थे तात्पर्यमिति स्पष्टम् । पुरुषोत्तमशब्दस्य समासासाधुत्वमशङ्कनीयम्; “नागोत्तमादि च सिद्धं भवति” इति महाभाष्यवचनात् । पाणिनिवत् पुरुषोत्तमशब्दनिर्वाहकृतामृषीणामाप्ततमत्वाच्च । पुरुषोत्तम इति पञ्चमीसमासो वा अक्षरादपि चोत्तम इति ह्युक्तम् । पूर्वनिपातस्तु सामानाधिकरण्यविवक्षायामेत्र, न तु तदविवक्षायामपीनि नानुशासनविरोधशङ्का प्रसङ्गः । एवमेभिर्वचनैश्चिदचिद्वैलक्षण्यस्य प्रतिपादितत्वात् ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्यादेस्तदविरोधेनार्थो वर्णनीयः । ‘यो लोकत्रयमाविश्य विभर्ति’ इत्यादिना कृत्स्नस्य भगवच्छेषत्त्रधार्यत्यनियाम्यत्वव्याप्यत्व शररित्वादेर्विहितत्वात् तस्य च निषेद्धुमयुक्तत्वात्, ‘न तदस्ति विना यत् स्यात् ’ इत्यादिना अतदात्मकस्य नास्तित्वमुच्यते । अविनाभावशब्दस्य मिथ्यात्वपरत्वेन प्रसिद्ध्यभावाच्च तथाभ्युपेत्यमित्यभिप्रायः । विनाशब्दों हि सम्बन्धविरहपरः; अविनाभाव शब्दस्य सम्बन्ध नियमवाचित्वात् ।
अथ पुराणवचनान्युपन्यस्यन्ते । तत्र प्रत्यस्तमितमेदमित्यस्य वचनस्यार्थं व्याचिख्यासुः तदुपयोगित्वेन तदुपक्रमोपसंहारयोः सविशेषपरत्वं दर्शयिष्यन् उपक्रमवचनान्युपादत्ते स सर्वेति । तत्र प्रथमग्रन्थो हेयप्रत्यनीकत्वपरः । सर्वभूतप्रकृतिम् प्रधानम् । विकारान् महदादीन् । गुणादिदोषान् सत्त्वरजस्तमोहेतुकान् दोषान् । ते दोषाः क्लेशादयः । व्यतीतः - विशेषेणातीतः; नियमेन [अ] तत्परवशतया सम्बन्धानर्ह इत्यर्थः । अतीतसर्वावरणः । आवरणम् – प्रकृतिसंबन्धकर्मवासनादिकम् । तत् सर्वमतीतं येन, स इत्यर्थः । यद्वा सर्वविषयज्ञानावरणं सर्वावरणम् । सर्वविषयज्ञान सङ्कोचम (चा)तीत) इत्यर्थः ज्ञानशक्त्यादि सर्वगुणसङ्कोचकातीत इति वाऽऽर्थः । अखिलात्मत्वं विवृणोति तेनेति । न तु मृदात्मको घट इतिवदित्यर्थः । भुवनान्तराले – उभयविभूत्यन्तराले । अथ दिव्यात्मस्वरूपस्य मङ्गलैकतानत्यमाह समस्तेति । समस्तकल्याणगुणात्मक इति कल्याणगुणवत्त्रमुच्यते चेत्, आत्मशब्दः स्वभाववाची स्यात् । एवं संक्षिप्तार्थस्य तेजोबलैश्वर्येत्यादिना विस्तरः क्रियत इति विभागः (निर्वाहः) । अस्मादपि निर्वाहात् दिव्यात्मस्वरूप परत्वं युक्तम् ; अपेक्षितविधेरनपेक्षितविधानं दुर्बलमिति न्यायात् । तदा कल्याणशब्दो भावप्रधानः । समस्तकल्याणत्वं गुणः स्वभावो यस्य स समस्तकल्याणगुणः ; यथा “द्येकयोर्द्विवचनैकवचने” इति सूत्रस्थद्वये कयोरितिपदं द्वित्यैकत्वपरं व्याख्यातम् । अन्यथा व्यकेष्विति वाच्यम्; न तु येकयोरिति । तच्च भावप्रधान निर्देशस्य साधुत्वज्ञापनाय कृतम् । तत एव हि, “गुणाः सत्यज्ञानप्रभृतयः” इत्यभियुक्तैरुक्तम् । समस्त कल्याणगुणः आत्मा धर्मिस्वरूपं यस्य, स समस्त कल्याणगुणात्मकः । बहुव्रीहिरौपचारिकः ; शिलापुत्रकस्य शरीरमिति निर्देशवत । दित्र्यात्मस्वरूपमेव स्तौति स्वशक्तीति । स्वांशलेशात् घृतभूतसर्गः । यद्वा शक्तिः सामर्थ्यम्, स्वगुणलत्रघृतभूतजात इत्यर्थः । भूतसर्गः -भूतसमूहः । यद्वा सृज्यत इति सर्गः कार्यवस्तुजातमित्यर्थः । 1
२१२ १-१-१. सविशेषपरपुराणवचनानि इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥ तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥ स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ स (सं) ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । अभिप्रायविशेषेण षाड्गुण्यं पश्चाद्वक्ष्यन् प्रथमं दिव्यविग्रहमाह इच्छेति । अभिमतत्वम् — अभिमत्यर्हत्वम ; स्वानुरूपत्वमिति यावत् । अहार्थे निष्ठा, यथा ‘अदृष्टो द्रष्टा अश्रुतः श्रोता’ इति । तत्र ह्यर्हार्थीयः कः; अद्देश्यमग्राह्यमित्याद्यैकार्थ्यात् । अभिमतस्या
ननुरूपत्यम्, अनुरूपस्यानभिमतस्वं च लोके दृश्यते । तव्यावृत्यर्थम् इच्छागृहीताभिमतशब्दौ । निरुपपदेच्छा शब्दो नित्येच्छाया अवतारसमयजन्ये च्छायाश्च साधारणः; असङ्कोचात् । अथावतारद्वारेण साध्यं विग्रहप्रयोजनमाह संसाधितेति । अथ षाड्गुण्यवत्तामाह तेज इति । नात्र क्रमविवक्षा । महाशब्दसुशब्दौ सर्वगुणसाधारणौ । महत्त्वमपरिच्छिन्नत्वम् । यथा ‘महोत्साहो महाबलः महाबुद्धिर्महावीर्ये महाशक्तिर्महाद्युतिः” इतिन यथा “प्रकृष्टं विज्ञानं बलमतुलम् " इत्यादि । सुशब्देन तेषां मङ्गलत्वमुच्यते । एवं स्वरूपतो विग्रहतो गुणतश्च पर इत्याह पर इति । गुणादिदोषानित्यत्र दोषशब्दार्थं विवृणोति न यत्रेति । क्लेशादयः - क्लेशकर्मविपाकाशयाः । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । कर्म पुण्यापुण्यात्मकम् । जात्यायुर्भोगाः विपाकाः । आशय-वासना, संस्कारः । “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः " इति योगसूत्रं स्मारयति स ईश्वर इति । योगशास्त्रादपि वेदान्तार्थवैषम्यमाह व्यष्टीति । पूर्वं भेदश्रुत्यर्थ उक्तः, अथैक्यश्रुतिनिर्वाहार्थं घटकश्रुत्यर्थ उच्यते—व्यष्टीति । व्यष्टिसमष्टिशब्दाभ्यां कार्यकारणा (णभावा)वस्थश्चेतनवर्ग उच्यते । रूपम् – शरीरम् । स्वरूपम् - स्वासाधारणं शरीरम् । शरीरिलक्षणं सूचयति सर्वेश्वर इति । ईश्वरः —–नियन्ता । अनेन नियाम्यत्वं शरीरत्वं सिद्धम् ; नियाम्यविशेषो हि शरीरम् । सर्वदृक् सर्ववेत्ता—स्वरूपतः प्रकारतश्च सर्वं जानातीत्यर्थः । यद्वा विश्वतश्चक्षुरित्यादिश्रुतिप्रक्रियया सर्वतोदृग्भवन् सर्वं वेत्तीत्यर्थः । यद्वा सर्वेषां दृक् सर्ववेत्ता च ; “चक्षुर्देवानामुत मर्त्यानाम्” इति श्रुतेः । चक्षुःज्ञानप्रदः । सर्वं विन्दतीति वा सर्ववेत्ता; अवाप्त समस्तकाम इत्यर्थः । समस्तशक्तिः । शक्तिः– कार्योपयोग्य पृथक्सिद्धविशेषणम् । उक्तप्रकारेण सर्वशरीरकत्वादस्य सर्वमपृथक्सिद्धविशेषणमित्यर्थः । परमेश्वराख्य इति परमशब्देन अनन्येश्वरत्वं सिद्धम् (अन्येश्वरत्वं निषिद्धम् ) । परो मा अस्येति हि परमः । एवंविधेश्वरविषयज्ञानस्यैवापवर्गोपायवेदनत्वमाह स ज्ञायत इति । संज्ञायत इति पाठे अस्त दोषमित्यादि ब्रह्मविशेषणम् । येन शास्त्रजन्यज्ञानेन विज्ञायते, येनोपासनात्मकेन संदृश्यते, येन परमभक्तिरूपेणानुभवरूपेण च प्राप्यते - अनुभूयत इत्यर्थः । “भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप” इति वचनात् । स ज्ञायत इति पाठे अस्तदोषमित्यादि ब्रह्मज्ञानविशेषणम् । “अर्थेनैव विशेषो हि निराकारतया धियाम्” इति वचनात् ज्ञानस्यास्तदोषत्वादिकं विषयद्वारा । अस्तदोषमिति दोषास्पदाचिद्विपयज्ञानाद व्यावृत्तिः । शुद्धमिति ‘अशुद्धास्ते समस्तास्तु’ इत्याद्युक्तकर्मवश्याशुद्धबद्धजीव विषयज्ञानाद्वयावृत्तिः । परं निर्मलम् - अत्यन्तनिर्मलम् ; अनेन कदाचित्कर्म संबन्धातारूपमलान्वितमुक्त विषयज्ञानाद्वघावृत्तिः । ।
२१३ संदृश्यते वाऽप्यधिगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥” “शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय ! भगवच्छन्दः सर्वकारणकारणे ॥ संभर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः । एकरूपमिति नित्यमुक्तविषयाने करूपज्ञानाद्वयावृत्तिः । अनया दिशा ब्रह्मविशेषणत्वेऽपि व्यावृत्तिर्द्रष्टव्या । । ब्रह्मविशेषणत्वे एकरूपमित्याश्रयणीयत्योपयोगिविशेषणं च भवति; स्थिरस्वभावम् ; आश्रितसंरक्षणादिप्रतिज्ञायां दृढतरमित्यर्थः । अज्ञानम् - मोक्षोपायज्ञानादन्यत् तद्विरोधि बा; “सा विद्या’ या विमुक्तये” इति वचनात् । यद्वा अज्ञानम् — ज्ञानाभावः; ब्रह्मपर्यन्तत्वाभावेन अयथावस्थितवस्तुविषयत्वात् । ब्रह्मविशेषणत्वे एकवाक्यम् ; ज्ञानविशेषणत्वे वाक्यद्र्यम् । ‘प्रत्यस्तमितभेदम्’ इत्यादिश्लोके प्रत्यस्तमितभेदपदं हृदि निधाय सविशेषत्वे वचनानि दर्शतानि ॥ अथ अगोचरं वचसामित्येतद्व्याचिख्यासया शब्दागोचरत्वे वचनानि दर्शयति शुद्ध इत्यादिना । तत्र अशब्द गोचरस्येत्यादिके पूर्वश्लोके मुक्तात्मनि भगवच्छब्द औपचारिक इत्युक्तम् ; तत् कथमित्यपेक्षायां मुक्तात्मव्यावर्तकं भगवच्छब्दप्रवृत्तिनिमित्तमाह — शुद्ध इति । यत्र प्रवृत्तिनिमित्तपौ कल्यम् तत्रैव हि मुख्यत्वम्, । पौष्कल्यम् नान्यत्रेति भावः । शुद्धे । ‘सिद्धे शब्दार्थसम्बन्धे’ इत्यत्र सिद्धशब्दवच्छु द्वशब्दोऽवधारणगर्मः । शुद्ध एत्रनित्यशुद्धे इत्यर्थः । ‘अम्भक्षः’ इतिवत् सिद्धशब्दस्यावधारणगर्भत्वात् सिद्धशब्दो नित्यपरत्वेन हि व्याख्यातः; तद्वत् । अनेन नित्यशुद्धत्वेन सकलचेत नव्यावृत्तिः; नित्यसिद्धानामपि नित्यशुद्धत्वस्य भगवन्नित्ये च्छायत्तत्वात् । महाविभूत्याख्ये । विभूतिभूतस्य महाविभूतिस्वायोगात् उभयविभूतिशेषित्वं समस्त चेतन व्यावर्तकम् । परे ब्रह्मणीत्यनेन च चेतनव्यावृतिः सिद्धा । अप (व ?)रात्मा हि केवलब्रह्मशब्देनेोक्तः, ‘अशब्द गोचरस्यापि तस्य वै ब्रह्मगो द्विज’ इति । उत्तरत्र तु (?) ‘परमब्रह्मभूतस्य’ इति हि परमात्मा वक्ष्यते । प्रदेशान्तरेऽपि परब्रह्मशब्दः परमात्मपर एव दृश्यते । अतोऽपरमात्मव्यावृत्त्यर्थं, ‘महाविभूत्याख्ये परे ब्रह्मणीत्युक्तम् । सर्वकारणकारणत्वञ्च भगवत एव । जगद्व्यापाररहितो हि मुक्तात्मा । एवमुक्तप्रवृत्तिनिमित्तपैौष्कल्यात् सर्वेश्वर एवं भगवच्छब्दो मुख्यवृत्तः, नान्यत्रेत्यर्थः । इममर्थं विवृण्वन्नक्षरशः समुदायशश्च भगवच्छब्दार्थमाह — सभर्तव्यादिना । शुद्धत्वम्, विना हेयैः इति विवृतम् । भोग्यसम्पद्वाचकेन ऐश्वर्यस्येति श्लोकस्थश्रीशब्देन भोगविभूतेः, सम्भरणाद्युक्त्या लीलाविभूतेश्च दर्शितत्वान्महाविभूति त्रिवृतम् । सर्वकारणकारणत्वं चोपरि स्पष्टम् । अत एव ज्ञानशक्त्यादिभिश्व निरतिशयबृहत्त्वात् परब्रह्मत्वं स्फुटम् । अत उत्तरग्रन्थानां शुद्ध इत्यादिश्लोक विवरणरूपत्वं युक्तम् । भश्च गश्च भगश्च वश्चेति विभज्यार्थ उच्यते । एतेषां पदानां तत्तद्वातुषु ‘अन्येष्वपि दृश्यते’ इति डप्रत्यये टिलोपे च कृते एवं रूपं भवतीति । भार्थमाह समित्यर्द्धेन । सम्भत । संभरणम् – उपकरण संविधानम् । प्रकृतिपुरुषकालान् कार्योत्पत्तियोग्यान् करोतीत्यर्थः । महदादिसृष्टिः अण्डरूपकार्योत्पत्त्युपयुक्ता सम्भरणमिति वा विवक्षा । भर्तास्वामी; धारणस्य वकारवाच्यत्वात् पोषकत्वस्य गकारवाच्यनेतृत्वान्तर्भावात् अपेक्षितविधेरनपेक्षितविधान दौर्बल्याच्च स्वामित्वमिह विवक्षितम् । यद्यपि प्रत्ययविशेषयुक्तस्य भरतेः स्वामिनि रूढत्वम्, तथापि 1. 1 ः नित्यानामनेकत्वात् तद्विषयकं ज्ञानं नैकरूपं भवति । 2 तत् कर्म यन्त्र बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् इति पूर्णश्लोकः ।
११४ १-१-१. भगवच्छन्द निर्वचनम् नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ! ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ” “ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥” “एवमेष महाशब्दो मैत्रेय ! भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ पूर्वोक्तयुक्तिसचिवार्षवचनवलात् धातुमात्रस्य स्वामित्व ?)वाचित्वं निश्चीयते । 1 इतिकरणेन संभतृत्वभर्तृत्वे प्रवृत्तिनिमित्ते निष्कृष्योच्येते । अत एव अर्थद्वयान्वित इत्युक्तम् । उत्तरत्र तु प्रवृत्तिनिमित्तत्रये सत्यपि इतिकरणेन तेषामनिष्कृष्टत्वात् प्रवृत्तिनिमित्तत्रयविशिष्टो धर्मी एक एवार्थ उक्तः । गकारार्थमाह नेतेति । उपसर्गस्फुटीकृतानामर्थानां धातुलीनत्वात् उद्गमयिता सङ्गमयितेत्येवंरूपपदानामर्थमाह नेतेति । स्रष्टेत्यनेन उद्गमयितृशब्दार्थ उक्तः । नेतेति गमयितृशब्दार्थ उक्तः । स्थितिकर्तेत्यर्थः । गमयितृशब्देन सङ्गमयितृशब्दार्थ उक्तः । स च संहारः । यथा " यस्मिन्निदं सञ्च विचैति सर्वम्” इत्यत्र व्येति समेतीति सर्गसंहारावुच्येते, तद्वत् । यद्वा कारणभूतं स्वात्मानं गमयिता; स्वस्मिन् कार्यवर्गस्य लयकर्तेत्यर्थः । उपसर्गाप्रयोगेऽपि अर्थानां धातु लीनत्वादेवं व्याख्यातं भगवता पराशरेण । अथ वकारव्याख्यानात्पूर्वमेव भकारगकारसमुदायस्यार्थमाह ऐश्वर्यस्येति । समग्रशब्दः सर्वत्रान्वेति । परिच्छिन्न चतुर्मुखाद्यैश्वर्यव्यावृत्यर्थः समग्रशब्दः । यशः गुणवत्ताप्रथा । श्रीः भोग्यसंपत् । वैराग्यं विरक्तिः ; परिपूर्णत्वादनादरतेत्यर्थः । यथा ‘अवाक्यनादरः ’ इति । मतुप्प्रत्ययस्य प्रसिद्धार्थत्वाद् न तद् व्याख्यातम् । अथ वकारार्थमाह वसन्तीति । “अन्येष्वपि दृश्यते”” इति उप्रत्ययस्यानेकार्थत्वादधिकरणे कर्तरि च व्युत्पत्तिः । भूतात्मनि भूतानामात्मनि । अखिलात्मनि अखिलशरीर के । यद्वा-भूतशब्देन कार्यमुच्यते ; तस्यात्मनि, अखिलात्मनि कार्याऩन्त भूतानां नित्यमुक्तानामात्मनीत्यर्थः । अथ समुदायशक्तिविषयमर्थमाह ज्ञानशक्तीति । पाठक्रमे तु ‘एवमेष’ इत्यादिश्लोकयानन्तरं ज्ञानशक्तिबलैश्वर्येत्यादिश्लोकः पठ्यते । तथापि प्रवृत्तिनिमित्तवाचित्वसङ्गतिवशात् ‘एवमेष’ इत्यादिश्लोकद्वयात्पूर्व ज्ञानशक्तीत्यादिश्लोक इहोपात्तः ‘उत्पत्ति प्रलयं चैव’ इत्यादिश्लोकस्य प्रस्तुतानुपयुक्तत्वाच्च एवमुपादानं कृतम् कृतम् । भगवच्छब्दवाच्यानि – प्रवृत्तिनिमित्तत्वेन वाच्यानीत्यर्थः । अशेषतः । न प्रत्येक प्रवृत्तिनिमित्तानि ; अपितु समुच्चित्येत्यर्थः । अशेषशब्देन षाड्गुण्यावान्तरभिदारूपं शीलादिगुणजातं च कोडीकृतम् । यद्यप्यैश्वर्यवीर्यज्ञानानि पूर्व कण्ठोक्तानि, तथापि कतिपय समुदाय्यायापोद्वापप्रयुक्तसमुदाय मेदादपुनरुक्तिः । न चात्र समुदायशक्तिः कल्प्यते, येनानुक्तगुणमात्र गोचरता स्यात् । वचनवलादेव शक्तिस्वीकारः । पूर्वमक्षरार्थकथनेन भकारग कारवकाराः व्याख्याताः ; अथ अन् इत्यस्यार्थमाह विनेति । कश्यपः पश्यको भवतीति न्यायात् अन्नित्यनेन नेत्युक्तं भवति; निषेध्यं च है यमित्यर्थः । एवं प्रवृत्तिनिमित्त पौष्कल्याद्भगवत्येव मुख्यवृत्तत्त्वमाह एवमिति । महार्थगर्भत्वान्महाशब्दत्वम् । मुक्तात्मव्यावृत्यर्थं परमब्रह्मे- ः । 1
ननु संभर्तुरेव भर्तृत्वादर्थद्वयं कथमित्यत्राह इतिकरणेनेति । अत्रार्थपदं प्रवृत्तिनिमित्तपरम् । उत्तरत्र ‘गकारार्थ इत्येकवचनं धर्म्येक्यात् । अर्थद्वयान्वितत्वं नाम धर्मद्वयप्रवृत्तिनिमित्तकत्वमिति भावः । 2 धातुलीनत्वात् - उचित पदाध्याहारेण धातुगम्यत्वात् । अर्थत्रयमपि उपसर्ग विनैव सुवचमिति एतद्वाक्यार्थः । अतः पूर्वोक्तात् भेद इति न वाक्यवैयर्थ्यम् ।
२१५ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण अन्यत्र ह्युपचारतः ॥” " समस्ताः शक्तयचैता नृप ! यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ समस्तशक्ति रूपाणि तत् करोति जनेश्वर ! । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया ॥ जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥” “एवम्प्रकारममलं नित्यं स्युक्तम् । कथं तत्रैव मुख्यवृत्तत्वम्; अन्यत्रापि तत्प्रयोगो दृश्यत इत्यत्राह तत्रेति । पूज्यपदार्थोक्तिः पूज्यानामवयवार्थानामुक्तिः; परिभाषा रूढिः; ताभ्यां समन्वितः । योगरूदिभ्यां विशिष्टः । अत एव नोपचारेण । मुख्यवृत्त इस्यर्थः । अन्यत्रामुख्यत्वमुक्तमित्याह अन्यत्र हीति । मुक्तात्मन्यौपचारिकत्वोक्त्या अर्थान्तरप्रयोगेष्वप्यौपचारिकत्वमर्थात् दर्शितमिति हिशब्दाभिप्रायः । भगवच्छब्दप्रयोगविषयेषु सर्वेषु प्रयोगे अन्यथासिद्धेऽपि न हि शक्तिभेदकल्पनं युक्तम् । यत्र ज्ञानादयो निरङ्कुशाः, स एव मुख्यार्थः । गुणलेशयोगादपि प्रयोग संभवादन्यत्र वृत्तिरौपचारिकीत्यर्थः । अथ तस्मिन्नेव योगप्रकरणे उपसंहारेऽपि सविशेषपरवाक्यानि दर्शयन् दिव्यविग्रहवत्वं चाह. समस्ता इति । बद्धो मुक्तः कर्मरूपाविद्या च शक्तयः । तत्तदभिमानिदेवताद्वारेण तत्र तासां प्रतिष्ठितत्वम् ; यत्रेत्यनुवादस्य पुरोत्रादसापेक्षत्वात् ; अस्त्रभूषणाध्याये यथेोक्तप्रकारेण पुरोवादाच्चे । तद्विश्वरूपवैरूप्यमिति संनिवेशवैलक्षण्यमुक्तम् । अन्यदिति द्रव्यान्तरत्वमुक्तम् । महदित्यपरिच्छेद्यत्वम् । विलक्षण संनिवेशस्य सकलेतरविसजातीयस्य कथं चिन्तयितुं शक्यत्वमित्यत्राह समस्तेति । केन हेतुनेत्यत्राह स्वलीलयेति । लीलायाः प्रयोजनत्वात् तदभिसन्धिर्हेतुः । न तु कर्मणेत्यर्थः । किं प्रयोजनमित्यत्राह जगतामिति । न तु स्वकर्मफलभोगायेत्यर्थः । एतद्विवृणोति न सेति । व्यापिनी देशनियमरहिता ; यथा वैदिकपुत्रानयनादिषु । व्यापनशक्तत्वेऽपि प्रतिबन्धः संभवतीत्यत्राह अव्याहतात्मिका । न तस्याः प्रतिहतिरस्तीत्यर्थः । यद्वा व्यापिनीसर्वावतारानुगुणा । अव्याहता [त्मिका १] देशकालवस्तु कृत प्रतिबन्धरहिता । एवं प्रत्यस्तमितेति श्लोकस्य परमात्मपरत्वाम्युमगमेऽपि निर्विशेषस्त्वनिराचिकीर्षया उपक्रमोपसंहारयोस्तस्मिन्नेव प्रकरणे सविशेषपरत्वं दर्शितम् । अथास्य श्लोकस्य परिशुद्ध जीवात्मस्वरूपविषयत्वं प्रत्यस्तमित मेदादिपदानां कतिपयविषयत्वं च विवक्षुः, तदर्थं परमात्मविषयभेद निषेधादीनां कतिपयविषयत्वाभिधार्थीनि वाक्यानि दर्शयिष्यन्, परमात्मविषयकतिपयभेदनिषेधपरत्र च नोदाहरणेन मुक्तात्मविषये किमायातमिति शङ्कायां मुक्तस्य परमात्म साम्यप्रतिपत्तये मुक्तगुणान् परमात्मन्यतिदिशन्तं श्लोकं दर्शयति एवम्प्रकारमिति । एतच्छ्लोकोदाहरणेन प्रत्यस्तमितेत्यादिश्लोकानन्तरं पूर्वपक्षे पठितस्य ‘ज्ञानस्वरूप ‘मित्यादेः प्रथमांशेोपक्रम श्लोकस्य चतुःश्लोक्याश्च सविशेषपरत्वप्रतिपादनाय प्रथमाशोपसंहारेऽपि सविशेषवं दर्शितं भवति । उपसंहारवचनोपादानमुपसंहारस्य बुद्धिस्थ - त्वात् क्रियते । एवम्प्रकारम्’ । मुक्तात्मानं प्रति ‘निर्व्यापारमताख्येयम्’ इत्यादिना यः प्रकार उक्तः तदुपेतमित्यर्थः । एवं भगवति मुक्तात्मगुणातिदेशः कृतः । भेदराहित्यस्य सत्तामात्रत्वस्य वचसामगोचरत्वस्य च मुक्त गुणस्य निर्व्यापारमित्यादिनोक्तस्य भगवत्यतिदिष्टत्वात् भगवति च तेषां निषेधानां कतिपयत्रित्रयत्वस्य प्रामाणिकत्वाच्च ते निषेधा मुक्तात्मन्यपि तथाविधा इति कतिपयविषयत्वं सिद्धमिति भावः । अथ परमात्मनोऽधिकान् गुणानाह । अमलम् - मलप्रतिभटम् । सोपाधिकयविरोधिनमित्यर्थः । नित्यम् — उक्ताकारेण
२१६ १-१-१. परमात्मनो मुक्तादिवैलक्षण्यम् व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥” “परः पराणां परमः परमात्माऽऽत्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ नित्यम् । मलप्रतिभटत्वं नित्यमित्यर्थः । व्यापकम् - स्वरूपेण व्यापकम् । अक्षयम् - स्वत एव धर्मतोऽपि विकाररहितम् । मुक्तस्य हि पूर्वावस्थायां ज्ञानसङ्कोच विकासरूपविकारो विद्यते । नित्यसिद्धानामपि तथात्वं परा (तदा) यत्तमिति तद्व्यवच्छेदः । समस्तहेयरहितम् । पूर्वं हेयप्रत्यनीकत्वमुक्तम् ; अत्र हेयराहित्यमुक्तम् । स्वतो हेयाभावोऽपि मुक्तस्य नास्ति; परमात्मप्रसादाधीनत्वात् तस्य । पद्यत इति पदम् । दिव्यात्मस्वरूपम् — परमपदशब्दस्य दिव्यलोके मुक्तात्मनि च प्रयोगात् वद्यावृत्यर्थं विष्ण्वाख्यमित्युक्तम् । अथ प्रथमांशोपक्रमेऽपि सविशेषपरत्वं दर्शयति परः पराणामिति । अनेन शास्त्रोपक्रमस्यापि सविशेषपरत्वमुक्तं भवति, अनेन प्रत्यस्तमितभेदमित्यादिपदानां कतिपयभेदनिषेधपरत्वं च सिद्धमिति त्रिविधं प्रयोजनम् । अनेन परः पराणामित्यादिप्रन्धजातस्य अविकारायेत्यादिसंग्रह श्लोकविवरणरूपत्वात् ज्ञानस्वरूपमित्यादिश्लोकं प्रति उपक्रमत्वमर्थक्रमेण सिद्धमिति तस्यापि सविशेषपरत्वसिद्धिः । यद्वा प्रथमांशोपक्रमोपसंहारयोः सविशेषपरत्वादुपक्रमोपक्रमभूतस्यापि ज्ञानस्वरूपमिति श्लोकस्य महावाक्यस्वारस्यविरोधो न न्याय्य इति तस्यापि सविशेषपरस्वं सिध्यति । यद्वा नमस्कार श्लोकस्य शास्त्रोपक्रमशेषभूतत्वात् तच्छेषभूतस्तदनुगुणार्थो वर्णनीय इति सिध्यति ॥ उपक्रमोपक्रमभूतनमस्कारश्लोकार्थानुगुणं ‘परः पराणाम्’ इत्यादेरर्थो वर्णनीय इति चेत्, न; तस्याप्युपक्रमभूतप्रश्नोत्तरवर लोभ कथन श्लोकानुगुणं तदर्थस्य वाच्यत्वादित्यभिप्रायः । अत्र ब्रह्मणः कृत्स्नजगत्कारणत्वसिद्ध्यर्थं वेदान्तेषु ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिवाक्यैरानन्त्यमुक्तम् । तच्च त्रिविधपरिच्छेदराहित्यम् । न हि देशकालादिभिः परिच्छिन्नानां घटादीनां कृत्स्नस्य सर्वविध कारणत्वं दृष्टम् । कालत्रयवर्तिकार्यजातकारणत्वे सर्वदेशगत कार्यकारणत्वे च देशतः कालतोऽप्यपरिच्छेदावपेक्षितौ । उपादानत्वसिद्ध्यै वस्त्वपरिच्छेदोऽपेक्षितः । न हि वस्तुतः परिच्छिन्नः कुलाल उपादानं भवति; मृत्पिण्डकुलालयोः सामानाधिकरण्यासंभवात् । अतः कृत्स्नकारणत्वसिद्ध्यर्थं त्रिविधपरिच्छेदराहित्यं विस्तरेण विवक्षुः ‘परः पराणामि’त्यर्धेन तत् सङ्ग्रहेण प्रतिजानीते परः पराणां परम इति । अनेन कालानवच्छेदः सिद्धः; अधिककालवर्तित्वस्य परशब्दवाच्यत्वात् । परमात्मेति देश परिच्छेद उक्तः । आप्नोतीति ह्यात्मशब्दव्युत्पत्तिः । आत्मसंस्थितः –सर्वेषामात्मत्वेन सर्ववस्तुभिर्विशिष्टः । यद्वा आत्मत्वेन सुस्थिततया सर्वशरीरकत्वात् स्वस्मिन् पर्यवस्थितः–खनिष्ठः । अन्यत् सर्वं तन्निष्ठम् ; शरीरतया विशेषणस्यात् । अतः सर्वपर्यवसानभूमिः स्वनिष्ठः इति वस्स्वपरिच्छेद उक्तः । सर्ववस्तुसामानाधिकरण्याईत्वं हि वस्वपरिच्छेदः । इदमिदं न भवतीति हि वस्तुपरिच्छेदः । यद्वा नित्यत्वविभुत्वव्यतिरिक्तगुणैः समाम्यधिकरहितत्वं वस्त्वपरिच्छेदः । स्वनिष्ठं परमात्मानमपेक्ष्य तन्निष्ठानामन्येषां समत्वाभ्यधिकत्वासंभवादात्मसंस्थित इत्यनेन वस्त्वपरिच्छेदसिद्धिः । एवं संक्षिप्तमर्थमुपपादयति-रूपेत्यादिना । तत्र कालापरिच्छदं प्रथमं विवक्षुः कालपरिच्छिन्नेषु वर्तमानं पञ्चकल्पनान्वितत्वं ब्रह्मणि नास्तीत्याह - रूपेति । रूपशब्देन जातिरुच्यते । “जातिगुणौ च रूपिणां रूपे " इति हि नीतिविदः । वर्णशब्दो रूपाख्यगुणविशेषपरः । आदिशब्देन गन्धरसादिः, आसन शयनादिक्रिया, विषाणाद्यवयववस्वं च विवक्षितम् । रूपवर्गादीति पाठे रूपशब्दो नीलपीतत्वादिगुणपरः, वर्गशब्दो
श्रुतप्रकाशिकीपेते श्रीभाष्ये अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदाऽस्तीति केवलम् ॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपच्यते ॥ तद्ब्रह्म परमं नित्यमजमक्षरमव्ययम् । एकस्वरूपं च सदा हेयाभावाच्च निर्मलम् ॥ तदेव सर्वमेवैतव्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥”, २१७ देवमनुष्यादिवर्गपरः ; जातिपरः । इति अर्थः । तन्निबन्धनस्तद्विषयो निर्देशः शब्दः । शब्दवाच्यास्त एव विशेषणानि । तैर्विवर्जितः । यद्वा रूपवर्णादि - तद्वाचिशब्दरूपैर्विशेषणैर्विवर्जितः । एवमनित्यत्वव्यापकं कर्मकृतं रूपादिमत्त्वं ब्रह्मणि नास्तीति कर्मकृतरूपादिनिवृत्त्या तद्व्याप्यकालपरिच्छेद निवृत्तिरित्यर्थः । यद्वा अनित्यत्वव्याप्यकर्म कृतरूपाद्यभावान्नानित्यत्वं ब्रह्मण्यनुमातुं शक्यमित्यर्थः । अनेन ‘प्रत्यस्तमितभेदम् ’ इत्यस्य पदस्य विषयो दर्शितः । अथानित्यत्वव्यापकत्वाद्विकाराणामनित्यत्वनिवृत्तये तव्यापकविकारराहित्यमाह अपक्षयेति । जायते, अस्तीत्यवस्थाद्वयं जन्मशब्देन विवक्षितम् । उत्पत्तिस्थितिनाशानामेकैकत्र विधाद्वयेन विकारपट्कसिद्धिः । तद्विवर्जितत्वात् सदाऽस्तीति वक्तु शक्यते । सदाशब्देन कादाचित्कास्तित्वव्या (नि) वृत्तिः । न तु उत्पद्यत इत्यादिशब्दैरिति केवलशब्दाभिप्रायः । अनेन सत्तामात्रमित्यस्य विषयो दर्शितः । अगोचरं वचसामित्यस्य च विषयो दर्शितो भवति ; रूपवर्णादिप्रवृत्तिनिमित्ताभावादुत्पत्यादिप्रवृत्तिनिमित्ताभावाच्च कल्पनाविकारवाचि - शब्दैर्न वक्तुं शक्यत इति तस्य पदस्यार्थ इत्यभिप्रायः । अगोचरं वचसामिति सर्वशब्दागोचरत्वमुच्यते चेत्, वचसामगोचरं, सत्तामात्रमित्यपि वक्तुं न शक्यते । अथ देशापरिच्छेदं नामनिर्वचनमुखेनाह सर्वत्रेति । ब्रह्मण ईश्वरातिरिक्तत्वनिषेधार्थं देवतान्तख्युदासार्थं च नामनिर्वचनमुखेन तदुक्तिः । औणादिकप्रत्ययस्यानेकार्थत्वादधिकरणे कर्तरि च व्युत्पत्तिर्वासुदेवशब्दस्याच्यते सर्वत्रेति । वेदान्तेषु परब्रह्मणो हि निर्विकारत्वादिकमुक्तम् ; तत् कथं वासुदेवस्योच्यत इत्यत्राह तद्ब्रह्मेति । “शैत्यं हि यत् सा प्रकृतिर्जलस्य” इतिवत् तदिति निर्देशः । ‘निर्दिश्यमानप्रतिनिर्दिश्यमानयेोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददते’ इति हि शाब्दाः । नित्यमिति कार्यमात्रव्यावृत्तिः । अजमक्षरमव्ययम् एकस्वरूपमिति सविकारनित्यप्रधानव्यावृत्तिः । एकस्वरूपशब्देन वृद्धिपरिणामरराहित्यं विवक्षितम् । हेषाभावाच्च निर्मलमिति बद्धव्यावृत्तिः । सदेति मुक्तन्यावृतिः । परममिति नित्यसिद्धव्यावृत्तिः । यद्वा एकस्वरूपमिति बद्धव्यावृत्तिः, सदेत्यादिना मुक्तत्र्यावृतिरिति । एवं स्वव्यतिरिक्तसमस्त वस्तु विलक्षणत्वेनेोपनिषत्सूक्तं ब्रह्म बासुदेव एवेत्यर्थः । त्रिविधापरिच्छेदवाचिनी श्रुतिरपि देवताविशेषं निरचिनोदनन्तमिति । अनन्तशब्दो योगरूढः । अतो नारायणादिशब्दपर्यायः त्रिविधानन्त्ययोगिनि भगवति मुख्यो वर्तते । सत्यज्ञानादिवाक्ये अनन्तमिति पदं पुल्लिङ्गं द्वितीयान्तम् ; यो वेदेति वेदनशब्देनान्वयात् । प्रथमान्तखे तद्यो वेदेति तत्पदाध्याहारः स्यात् ; बाक्यभेदश्च स्यात् । अतस्तत्र यथोक्त एवार्थः । तस्मात् तदनुसारेणात्रापि अपरिच्छेदकथनसमये देवताविशेषो निर्णीतः । वस्त्वपरिच्छेदमाह तदेवेति । सर्वमेवैतदिति व्यक्ताव्यक्तपुरुष कालसमुदाय उच्यते । व्यक्ताव्यक्त- 1 नेति । वक्तुं शक्यत इति शेषः । झु० 28
२१८ १-१-१. विष्णोर्बद्धमुक्तोभयचिच्छरीरकत्वम् “प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्यभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ " “द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते ॥ अक्षरं तत् परं ब्रह्मक्षरं सर्वमिदं जगत् । एकदेशस्थितस्याज्र्ज्योत्स्ना विस्तारिणी यथा ॥ परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ॥”, [ पुरुषकाल ? ] स्वरूपमेतत् सर्वं तद् ब्रह्मेत्यर्थः । अनेन वस्त्वपरिच्छेद उक्तः । सर्ववस्तुसामानाधिकरण्याईत्वं हि वस्त्वपरिच्छेदः । सर्व त्रस्तु सामानाधिकरण्यार्हत्येनैव चिदचिच्छरीरकत्व हेतु भूतव्यापन भरणादिगुणतः समाम्यधिकराहित्यसिद्धेश्च वस्त्वपरिच्छेदसिद्धिः । न हि ब्रह्मभ्यतिरिक्तस्य कस्यचित् समस्तचिदचिच्छरीरकत्व संभवः । एवं शास्त्रोपक्रमे वासुदेवाख्यमुभयलिङ्गं वस्तु प्रतिपाद्यमुक्तम् । शास्त्रोपसंहारे च तथोक्तमिदं दर्शयति प्रकृतिर्येति । परमात्मशब्दस्य कचिज्जीवेऽपि प्रयोगदर्शनात् तद्यावृत्यर्थं साक्षात्परमात्मलक्षणं जगत्कारणत्वमुक्तं लीयेते परमात्मनीति । स चेश्वरानतिरिक्त इति ज्ञापनार्थः परमेश्वरशब्दः । ईश्वरश्व न देवतान्तरमिति ज्ञापनाय विष्णुनामेत्युक्तम् । अत्र परमात्मा आधारः परमेश्वरः इति पदैः शरीरिलक्षणं स्पष्टम् । एवं शास्त्रोपक्रमोपसंहारयोरवान्तरप्रकरणोपक्कमोपसंहारयोश्च हेयप्रत्यनीककल्याणगुणास्पदं नारायण एवं परं ब्रह्मेति प्रतिपाद्यत इति दर्शितम् । अथ अविद्यासम्बन्धादयश्च ब्रह्मण एव हि प्रतिपाद्यन्ते । तत् कथं यथोक्तस्वरूपस्य ब्रह्मण उपपद्यत इति शङ्कायाम् — ‘काठिन्यवान् यो बिभर्ति’ इतिवत् द्वारद्वारिभावेनोपपद्यत इति वक्तुं परमात्मनो जीवानाश्च आत्मशरीरभावेन सम्बन्ध तेषामविद्यासम्बन्धादिकं च वक्ष्यत् प्रथमं जीवब्रह्मणोः शरीरशरीरिभावरूपसम्बन्धं दर्शयति द्वे रूपे इत्यादिना । मूर्तं चामूर्तमेव चेति । बद्धश्च मुक्तश्चेत्यर्थः । । । एतद्विवृणोति क्षराक्षरस्वरूप इति ज्ञानसङ्कोचात्मक क्षरणवत् असङ्कुचितज्ञानं चेत्यर्थः । सर्वभूतेषु च स्थिते । अहर्थिका । सर्वभूतस्थित्य है - सूक्ष्मतरतया व्यापनक्षमे इत्यर्थः । यद्वा बद्धस्य स्वरूपेण सर्वभूतस्थितिः, मुक्तस्य तु धर्म भूतविभुज्ञानद्वारेणेति । अक्षरं तत्परं ब्रह्मेति । तत् मुक्तस्वरूपमक्षरम् । क्षरं सर्वमिदं जगत् – इदं वद्धस्य रूपं क्षरमित्यर्थः । रूपत्वं विशिनष्टि एकदेशेति । शक्तिः-अपृथग्भूतं कार्योपयोगि विशेषणम् । एकदेशस्थितस्य, विस्तारिणीति विशेषणद्वयेन असङ्कीर्णस्वभावस्वमुक्तम् । अस्मिन् श्लोके अखिलं जगदिति चिदचिदात्मकं जगदुच्यते । तुल्यन्यायत्वादक्षरस्यापि शक्तित्वसिद्धिः । यद्वा अखिलजगच्छब्देनाक्षरस्यापि क्र.डीकारः । त्रिपाद्विभूतेरपि लोकशब्दवाच्यत्वात् तत्समानार्थत्वाज्जगच्छन्दस्य ; अखिलशब्दस्य सङ्कोचकाभावाच्च । क्षरं सर्वमित्यत्र क्षरसामानाधिकरण्यमपवादः इह तदभावादक्षरस्याप्यभिधानमुपपद्यते । इदंशब्दस्य प्रकृतव चित्वात् क्षराक्षरपरत्वं युज्यते ॥ नन्वत्र क्षराक्षरशब्दौ कार्य कारण रूपेणावस्थित परब्रह्म परी; प्रब्रह्मशब्द मुख्यार्थसिद्धेः । अन्यथा ब्रह्मशब्दानामेकप्रकरणस्थानामर्थवैरूप्यं च स्यात् । जगतो ज्योत्स्ना स्थानीयत्वश्चोपपद्यते ; प्रभाया शीर्णावयवत्वेन अग्निकार्यस्वोपपत्तेः ॥ नैत्रम् ; ब्रह्मणो रूपे इति व्यतिरेकनिर्देशस्वारस्यभङ्गप्रसङ्गात् । स च कार्यकारणयोर्ब्रह्मव्यतिरिक्कत्वाभावात् । यदि षष्ठीस्वारस्याय मूर्तस्वामूर्तये विवक्षिते, तदा मूर्तीमूर्तशब्दस्वारस्यभङ्गः । भावप्रधानत्वा-
“विष्णुशक्तिः परा प्रोक्ता क्षेत्राख्या तथाऽपरा । अविधा कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ॥ यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप ! सर्वगा । संसारतापानखिलान् अवाप्नोत्यतिसंततान् ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल ! तारतम्येन वर्तते ॥”, ; ; २१९ विवक्षायां रूपशब्दसामानाधिकरण्यायोगः । यद्युच्येत - ब्रह्मणो द्वे रूपे - ब्रह्म हि मूर्तममूर्त चेति — तदा प्रथमान्तब्रहा शब्दाध्याहारदोषः स्यात्; षष्ठ्यन्तब्रह्मशब्दस्य मूर्नामूर्तशब्दसामानाधिकरण्यायोगात् । ’ किंश्च ‘सर्वभूतेषु च स्थिते’ इति चानुपपन्नम् सर्वभूतशब्दस्य कार्यवाचितया तत्र कार्यस्थितावुच्यमानायां स्वस्मिन् स्ववृत्तिप्रसङ्गात् ; कारणस्यापि कार्यादनन्यतया स्ववृत्तिप्रसङ्गाच । अवस्थाद्वयस्य सर्वभूतस्थितिरिति च न वाच्यम् धर्मिपर्यन्तक्षराक्षरशब्द सामानाधिकरण्यायोगात् तयोरप्यवस्थापरत्वे स्वारस्यभङ्गात् । अवस्थावद्वाचि जगच्छन्द ब्रह्मशब्द सामानाधिकरण्यायोगाच्च । तस्मिन् सोढेऽपि कारणावस्थायाः कार्ये विद्यमानत्वायोगाच्च शक्तिशब्दस्य कार्यवाचित्वायोगाच्च श्लोकस्य नायमर्थः । उपचारतोऽपि कार्योपयोगिविशेषणं [हि ] शक्तिशब्देन व्यपदेशमर्हति ; कार्योपयोगिविशेषणत्वस्य सामान्यात् । शक्तिर्हि शक्तं प्रत्यपृथग्भूतं कार्योपयोगिविशेषणम्, कार्य तु न कारणस्यापृथग्भूतं विशेषण कार्योपयोगि च भवति ; कार्यकारणयोरनन्यत्वात् स्वस्य स्वयमेव विशेषणत्वायोगात् ॥ कार्यत्वं विशेषणमिति चेत्, सत्यम्; तथापि धर्मिवाचिनो जगच्छन्दस्य कार्यतावाचित्वाभावात् शक्तिशब्द सामानाधिकरण्यमुपचारतोऽपि नोपपद्यते । कार्योपयेोग्य पृथग्भूतविशेषणं शक्तिरिति मुख्यत्वमस्मन्मते संभवेत् । क्षरशब्दस्य कार्यपरखे दृष्टान्तवैघट्यञ्च यात् ; तश्च ज्योत्स्नाया विशीर्णावयवत्वाभावेनाग्निकार्यवाभावात् । न च “क्षरं प्रधानममृताक्षरं हरः” इति प्रयोगानुसारेण चेतनाचेतनपरत्वं युक्तम् । अचिदंशस्य स्वस्मिन् स्ववृत्तिप्रसङ्गेन सर्वभूतस्थित्यनुपपत्तेः ॥ चिदचित्सङ्घातरूपेषु भूतेषु द्वयोरवस्थानमुपपन्नमिति चेन्न समुदायिनोः समुदायनिष्ठत्वानुपपत्तेः । समुदायो हि समुदायिनिष्ठः । उपरितनग्रन्थवैरूप्यं च स्यात् । उत्तरत्र हि, “भूप मूर्तममूर्तश्च” इति मूर्तीमूर्त शब्दाभ्यां रूपद्वयं प्रस्तुत्य हिरण्यगर्भादीन् निर्दिश्य, “मूर्तमेतद्धरेः रूपं भावनात्रितयान्वितम्” इति मूर्तशब्दवाच्यरूपस्य भावनात्रयान्वयकथनात् । न ह्यचेतनस्य कर्मब्रह्मभावनान्वयः । “सोऽक्षरः परमः स्वराट्” इत्यत्र हीन्द्रादिवद्धविलक्षणवाचित्वात्, ‘स स्वराड् भवति’ इतिवत् मुक्तवाचिस्वराट्छन्दसामानाधिकरण्याच अक्षररब्दो मुक्तात्मपरः । अतस्तदनुरोधेनाक्षर शब्दोऽत्रापि मुक्तात्मपरः 1 ब्रह्मशब्दार्थवैरूप्यं तु, “तपसा चीयते ब्रह्म’, ‘तस्मादेतत् ब्रह्म नामरूपमन्नं च जायते’ इति श्रुताविव अनेकोपपत्तिबलात् युज्यते । अतो यथोक्त एवार्थः । ब्रह्मणोऽविद्य। सम्बन्धद्वारभूते जीवात्मनि अविद्यान्वयं दर्शयति विष्णुशक्तिरित्यादिना । सर्वगा - चतुर्मुखादिपिपीलिकान्त सर्वशरीरस्था । जातावेकवचनम् । यद्वा धर्मभूतज्ञानेन स्वतः सर्वं व्याप्तुं क्षमा, [यया ?] कर्मणा वेष्टिता कर्मणा सङ्कुचितज्ञानेत्यर्थः । तर्हि सर्वे अज्ञाः स्युरित्यत्राह तयेति । कर्मतारतम्यानुगुणं ज्ञानतारतम्ययती क्षेत्रज्ञशक्तिरित्यर्थः । सर्वेषां ज्ञाननित्यत्वस्य मुक्तौ सर्वविषयकत्वस्य च प्रामाणिकत्वात् बद्धावस्थायां सङ्कोचविकासौ सिद्धौ । तत्तारतम्यश्च, “पुंसः ६ 1 वृक्षस्वरूपमित्यादाविव ब्रह्मणो रूपे इत्यस्य ब्रह्मगतधर्मविशिष्ट धर्मिपर्यन्तपरत्वे दोषान्तरमाह किचेति ।
२२० १-१-१. एक पुराणपचनार्धकोटीकारः “प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे ! वृत्तौ संश्रयधर्मिणौ । तयोः सैव पृथग्भावकारणं संश्रयस्य ॥ यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मनः ॥”, " तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशमिकल्पवत् ॥” इत्यादिना परं ब्रह्मं स्वभावत एव निरस्तनिखिलदोषगन्धं समस्त कल्याणगुणात्मकं जगदुत्पत्तिस्थिितसंहारान्तःप्रवेशनियमनादिलीलं प्रतिपाद्य, कृत्स्नस्य चिदचिद्वस्तुनः सर्वावस्थावस्थितस्य पारमार्थिकस्यैव परस्य ब्रह्मणः शरीरतया रूपत्वम्, शरीररूपतन्वंशशक्तिविभूत्यादिशब्दैः तत्तच्छन्दसामानाधिकरण्येन चाभिधाय, । शक्त्युपलक्षितः”, “तच्छक्त्या पशवोऽधिकाः” इति स्पष्टीकृतम् । जातीनामप्यपृथक्सिद्धधर्मत्वेन रूपशब्दवाच्यत्वाच्च तद्यावृत्त्यर्थं प्रस्तुतं रूपत्वं नियाम्यत्वलक्षणमित्याह प्रधानञ्चेति । चिदचितोः परमात्मनियाम्यत्वधार्यत्वव्याप्यत्वानित्यत्वादेः प्रमाणान्तरागोचरतया विहितत्वान्निषेध्यत्वमयुक्तमिति नियाम्यत्वादिधर्माणां पारमार्थ्यांन तदाश्रयभूतयोश्चिदचिंतोश्च पारमार्थ्यात् नित्यत्वोक्त्या च तयोर्भ्रमविषयत्वासंभवश्च दर्शितो भवति । न हि धर्मिसत्यत्वेन विना धर्मसत्यत्वं युक्तम् । नापि बाध्यस्य नित्यत्वं युक्तम् । सर्वभूतात्मभूतया -सर्व भू नव्यापिकयेत्यर्थः । विष्णुशक्तथा विष्णोर्नियमनशक्त्या । अन्यथा, “शक्तिः साऽपि तथा विष्णोः” इत्यनन्तरोक्तिविरोधात् । तया वृतौ व्याप्तौ । नियमनेन च धारणं श्रुतिसिद्धम् । “एतस्य वा अक्षरस्य प्रशासने गार्गि ! द्यावापृथिव्यौ विधुते तिष्ठतः” इति हि श्रयते । अतो बिभर्तीभ्युत्तरश्लोक सामञ्जस्यम् । संश्रयधर्मिणौभगवदपृथक स्थितिधर्मको । पृथग्भाव उपकरणोपकरणित्वलक्षण संबन्धविशेषराहित्यम् ; संहारः । तत्र हि करणकलेवरं नास्ति । संश्रयः-करणकरणित्वेन सम्बन्धः; सृष्टिरित्यर्थः । यद्वा संश्रयः — तयोः सम्बन्धः, संसारः । पृथग्भावो मोक्षः । तत् सर्वं भगवन्नियमनाधीनमित्यर्थः । अत्र दृष्टान्तमाह यथेति । कारणात् कार्यस्य विभागे दृष्टान्तः । जलस्य कणिका? तस्माद्भेदेन विभर्ति वायुः । संयोजकत्ववियोजकत्वयोर्वा दृष्टान्तः । परस्परं सङ्कलिता असङ्कलिताश्च विमर्ति वायुः । यद्वा प्रकृतिपुरुषगत दोष लेशराहित्ये दृष्टान्तः । वायुर्हि कणिकाशतं तत्स्वभावास्पृष्टो बिभर्ति । प्रधानपुरुषात्मनः – प्रधानपुरुषयोर।त्मनः । समस्तचिदचिद्वस्तुजातमिति कर्म अध्याहर्तव्यम् । यद्वा प्रधानशब्दानन्तरपुरुषशब्दो बद्धपरः । आत्मशब्दः प्रकृति संसर्गरहितमुक्तात्मपरः तान् बिमर्तीति । एवंविधस्य जगतः परमार्थस्वमाह तदेतदिति । मिथ्या हि बाध्यत्वेनानित्यम् । पारमार्थ्ये सति हि नित्यत्व संभवः । उदाहृतवचनार्थान् सङ्क्षेपेणाह इत्यादिनेति । निरस्तनिखिलदोषत्वं कल्याणगुणात्मकत्वश्च ‘से सर्वभूतप्रकृतिम्’ ‘‘समस्त कल्याण’ इत्यादि श्लोकार्थः । जगदुत्पत्यादिलीलत्वं भगवच्छन्द निर्वचन सिद्धम् । अन्तः प्रवेश नियमनादीत्यादिशब्देन अध्यक्षत्वानुमन्तृत्वे उच्येते । इत्यादिनेत्यादिशब्देन ‘क्रीडतो बालकस्य’ इत्यादिवचनं विवक्षितम् । तदर्थो लीलाशब्देन विवक्षितः । सर्वावस्थावस्थितस्य ——— कार्यकारणावस्थितस्य, बद्धमुक्तावस्थितस्य चेत्यर्थः । प्रमाणान्तरगोचरस्यार्थस्य हि निषेधार्थं भ्रान्तिसिद्धत्वेनानुवाद संभवः परमात्मनियाम्यत्वादिकं तु प्रमाणान्तरागोचरस्यात् विधित्सितमेवेति विहितस्य निषेधोऽनुपपन्न इत्यभिप्रायेण पारमार्थिकस्यैवेत्युक्तम् । नियन्तृत्वनियाम्यत्वादिप्रतिपादन सिद्धोऽर्थः शरीरतया रूपत्वम् । तदेव सर्वमेवैतदित्यत्र तच्छन्दसामानाधिकरण्यम् । द्वे रूपे ब्रह्मणस्तस्येत्यादि -
२२१ सद्विभूतिभूतस्य चिद्वस्तुनः स्वरूपेणावस्थितिमचिन्मिश्रतया क्षेत्रज्ञरूपेण स्थिति भोक्त्वा, क्षेत्रज्ञावस्थायां पुण्यपापात्मक कर्मरूपाविद्यावेष्टितत्वेन स्वाभाविकज्ञानरूपत्या
ननुसन्धानमचिद्रपार्थाकारतयाऽनुसन्धान प्रतिपादितमिति, ‘परं ब्रह्म सविशेषम् ; तद्विभूतिभूतं जगदपि पारमार्थिकमेव ’ इति ज्ञायते ॥ ‘प्रत्यस्तमितभेदम्’ इत्यत्र देवमनुष्यादिप्रकृतिपरिणामविशेष संसृष्टस्याप्यात्मनः स्वरूपं तद्रवभेदरहितत्वेन तद्भेदवाचिदेवादिशब्दागोचरं ज्ञानसत्तैकलक्षणं स्वसंवेद्यं योगयुमनसो न गोचर इत्युच्यत इति नोक्तमर्थमाह शरीररूपतन्वंशेति । प्रतिपादितमितीति । एवं शास्त्रोपक्रमोपसंहारेष्ववान्तरप्रकरणोपक्रमोपसंहारेषु च प्रतिपादितत्वादित्यर्थः । ज्ञायत इत्यन्तेनोक्त वचनार्थसङ्ग्रहः कृतः । उदाहृतवचनैर्वस्तुनः सविशेषत्वं जगतः सत्यत्वञ्च स्थितम् ॥ 2006 …. अथ परोदाहृतवचनानि पूर्वोदाहृतवचनार्थानुगुण्येन व्याचिख्यासुः प्रथमं प्रत्यस्तमितभेदमित्यादिश्लोकं व्याचष्टे प्रत्यस्तमितेति । “दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः” इति, “पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयेोनयः” इत्यादिषु प्रकृतिर्देवादिशरीरं चोपावित्वेन प्रतीयत इत्युभयविधवचनार्थं संघटयितुं देवमनुष्यादिप्रकृतिपरिणामविशेषेत्युक्तम् । प्रकृतरित्यत्र प्रकृतिशब्द निर्देशः शरीरस्य प्रकृतिपरिणामरूपत्वादित्यभिप्रायः । देवमनुष्यादिशब्देन प्रतिषेध्य भेदस्य शरीरें विद्यमानता दर्शिता ॥
ननु मुक्तानामुपास्यत्वाभावात् उपासकस्वरूपस्य अचित्संसृष्टतया प्रत्यस्तमितभेदत्वायोगाच्च तादृक्त्वोपदेशा योगादस्य श्लोकस्य परिशुद्धात्मविषयत्वानुपपत्तेः परमात्मविषयत्वं स्यादिति शङ्कापरिहाराय चोक्तं देवमनुष्यादिप्रकृतिं परिणाम विशेष संसृष्टस्यापीति । इदानीं संसरतोऽपि स्वाभाविकाकारस्य तिरोहितस्य विद्यमानत्वादाविर्भविष्यतस्तस्यं तथा ( तथात्वा)नुसन्धानायोपदेश इति भावः । ‘तस्यात्मपरदेहेषु सतोऽपि’ इत्येतत् स्मारयितुं संसृष्टस्यापीत्युक्तम् । अपिर्विरोधे । पातकसंसर्गात् पात कितवं भवति; रुमासंसर्गात् पदार्थानां लवणत्वं भवति अतो विरोधः । तद्गत भेदरहितत्वेन । मेदो रूपवर्णादिः । अनेन प्रत्यस्तमितभेदशब्दो व्याख्यातः । प्रत्यस्तमितभेदशब्देन भेदस्यापुनरुदयंविनाशोऽभिप्रेतः । ततश्व प्रलयकालव्यावृत्तिः । तद्भेदवाचिदेवादिशब्दागोचरमित्यनेन अगोचरं वचसामिति पदं व्याख्यातम् । ज्ञानसत्तै कलक्षणमिति ज्ञानपदं सत्तामात्रमिति च पदं व्याख्यातम् । सत्तैकलक्षणमित्यत्र एकशब्देन सत्तामात्रमिति पदगतमात्रजर्थं विवृण्वता जायतेऽस्तीत्यादिविकारा व्यावृत्ताः । सत्तामात्रमित्युक्ते केनाकारेण सत्तेत्यपेक्षायां ज्ञानसत्तैकलक्षणमित्युक्तम् । ज्ञानत्वाकारेण सत्तेत्यर्थः । वचसामगोचरत्वे सत्तान्याघातपरिहारार्थं न्यायवैशेषिको क्तजड स्वरूपतान्युदासार्थं च आत्मसंवेद्यमिति पदस्यार्थमाह स्वसंवेद्यमिति । यद्वा अगोचरं वच सामित्यन्तः पदैः कल्पनाविकारराहित्ये तद्वाचिशब्दागोचरखे चोक्ते भेदकधर्माभावात् कथं स्वव्यावृत्तिग्रहण मिति शङ्कायामाह आत्मसंवेद्यमिति । प्रत्यक्त्वेन भासमानत्वं स्वव्यावर्तक । अन्ये हि इदन्तया भासन्त इत्यर्थः । ज्ञानपदं धर्मधर्मिणोरविशेषेणा जडत्वमाह – धर्मभूतज्ञानस्य बृहत्तया परिशुद्धा मस्वरूपस्य ब्रह्मशब्दवाच्यत्वम्, ‘ब्रह्मणो हि प्रतिष्ठाऽहम्’ इत्यादिष्विवोपपद्यते । योगयुक् — प्रक्रान्तयोगः । एवंप्रकारममलमिति वचनेन परमात्मनि मुक्तस्वभावस्यातिदिष्टत्येन मुक्तस्य परमात्मसाम्यप्रतिपत्तेः, परमात्मनश्च ‘अपक्षयविनाशाभ्पाम्’, ‘रूपवर्णादिनिर्देश’ इत्यादिवचनैः कतिपयमेदराहित्यस्य षड्मावविकारराहित्यस्य च स्पष्टत्वात् तदानु-
११२ १-१-१. भगवद्विमहात्म्यस्य शुभाश्रयत्वाभावः धम न प्रपश्चापलापः । कथमिदमवगम्यत इति चेत-तदुच्यते-स्मिन् प्रकरणे संसारकमेपजतचा योगमभिधाय योगावयवान प्रत्याहारपर्यन्तांत्रोक्त्वा, धारणासिद्ध्यर्थं शुभाश्रयं वक्तुं परस्य ब्रह्मणों विष्णोः शक्तिशब्दाभिधेयं रूपद्वयं मूर्तीमूर्तविभागेन प्रतिपाद्य तृतीयशक्तिरूपकर्माख्याविद्या वेष्टितम् अचिद्विशिष्टं क्षेत्र मूर्खाख्यविभ्रागं भावनात्रयान्वयादशुभमित्युक्त्वा, द्वितीयस्य कर्माख्या विद्या विरहिणोऽचि द्वियुक्तस्य ज्ञानेकाकारस्यामूताख्य विभागस्य निष्पन्नयोगिध्येय तया निष्पन्नयोगिध्येयतया योगयुङ्मनसोऽनालम्बनतया योगयुक्मनसोऽनालम्बनतथा स्वचश्शुद्धि विरहाच गुण्येनानतिविस्तरं श्लोको व्याख्यातः । अस्य श्लोकस्य मुक्तात्मविषयत्वं तस्य च प्रक्रान्तयोगस्यागोचरत्वं च कथं ज्ञायत इत्यभिप्रायेणाह कथमिदमिति । प्रकरणादेवावगम्यत इति परिहरति तदुच्यत इत्यादिना । अस्मिन् प्रकरणे । नायं मुक्तक श्लोकः, अपि तु प्रबन्धस्थः । अतः “पूर्वापरा (पौर्वापर्या) परामृष्टः शब्दोऽम्या कुरुते । मतिम्” इति तत्परिहाराय पूर्वपरपरामर्शेनैवार्थो वर्णनीय इति भावः । संसारकभेषजतया योगमभिधायेति एकशब्देन ’ क्केशानां च क्षयकरं योगादन्यन्न विद्यते’ इत्यस्यार्थोऽभिप्रेतः । वाक्याथज्ञानमात्रस्यापवर्गोपायत्वनिरासश्च स्फोरितः । योगावयवान् प्रत्याहारपर्यन्तानिति, ‘प्राणायामेन पवने प्रत्याहारेण चेन्द्रिये । वशीकृते ततः कुर्यात् स्थितं चेतः शुभाश्रये’ इत्यादिवचनार्थः संक्षिप्तः । परस्य ब्रह्मणो विष्णोः शक्तिशब्दाविधेयमित्ति । ‘विष्णुशक्तिः परा प्रोक्ता’ इत्यत्र विष्णुरेव शक्तिर्ब्रह्मण इति कोचद्वदन्ति; तद्व्यावृत्तये विष्णोरिति व्यासः कृतः “परस्य ब्रह्मणः शक्तिः’, ‘“परमब्रह्मभूतस्य वासुदेवस्य’, ‘ततः स वासुदेवेति’, ‘तद्ब्रह्म परमं नित्यम्’, ‘परमात्मा च सर्वेषाम्’, ‘विष्णुनामा स वेदेषु वेदान्तेषु च’, ‘परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम्’, ‘शक्तिः साऽपि तथा विष्णोः’ इत्यादिभिर्विष्णोरेव परब्रह्मत्वं जगतस्तच्छक्तित्वं तच्छक्तिनि (तन्नि) याम्यत्वं चौक्रमिति तत्प्रतिपादकतत्तद्वचनविरोधात् तदयुक्तमित्यभिप्रायः । शक्तिशब्दामिधेयम् । अपृथक्सिद्धविशेषणं हि शक्तिः । ब्रह्म च न कस्यचिद्विशेषणम् । अतो विष्णोरेव शक्तिः । स हि ब्रह्मशब्दवाच्य इत्यभिप्रायः । अत्र ‘नारायणः परं ब्रह्म’, ‘विष्णुस्तदाऽऽसीद्धरिरेव निष्कलः’, ‘पतिं विश्वस्यात्मेश्वरम्’, ‘न तस्येशे कश्चन’, न तत्समश्चाभ्यधिकश्च दृश्यते’, ‘यस्मात् परं नापरमस्ति किञ्चित्’ ‘न स्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रये’ इत्यादिश्रुतिस्मृतयोऽनुसन्धेयाः । शक्तित्रयाश्रयो दिव्यविग्रह उपास्यत्वेनोच्यते । विष्णुरेव शक्तिश्चेत् कथं विष्णोर्विग्रहैकदेशो विष्णोरेवाश्रयः । तदाश्रयभूतो विग्रहो न हि ब्रह्मणोऽस्तीतिीदं च दूषण फलितम् । शक्तिशब्दाभिधेयं रूपद्वयमिति । पराप(संज्ञस्यास्य रूपद्वयस्योत्तरत्र पर परशब्द समानाधिकरणशक्तिशब्देन परामर्शात् परसंज्ञरूपगोचरः शक्तिसन्दो न परमात्मविषय इत्यभिप्रायः । ‘तच्च विष्णोः परं रूपम्’, ‘विष्णुशक्तिः परा प्रोक्ता’ इति लभ्यते । ‘भूप मूर्तममूर्तश्च’ इत्यादिवचनार्थमभिप्रेत्याह मूर्तीमूर्तविभागेनेति । ‘अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिंरिष्यते’ इत्यस्यार्थमाह तृतीयेति । मूर्तमूर्तविभागेनेत्युक्तत्वात् मूर्तख्यविभागमिति विभज्य निर्देशः कृतः । निष्पन्नयोगिध्येयतयेति । न विध्यर्थे कृत्यप्रत्ययः, अपितु शक्यत्वाभिप्रायः । योगिध्येयं परं पदमित्यत्रापि स एवार्थः । निष्पन्नयोगिध्येयतया प्रक्रान्तयोगस्य ध्यातुमशक्यत्वं फलितम् । स्वतश्शुद्धिविरहादिति । अत्र न शुद्धेरस्वाभाविकत्वमुच्यते ; अपि त्वोपाधिकदोषनिरासे स्वयमशक्तत्वेन भगवत्प्रसाद सापेक्षत्वं विवक्षितम् । शुभाश्रयत्वं प्रतिषिध्येति । स्वतः शुद्धिविरहादित्यनेन शुभत्वं प्रतिषिद्धम्, अनालम्बन तयेत्यनेनाश्रयत्वं
शुतप्रकाशिकोपेते श्रीमाये baa शुभावत्वं प्रतिषिध्य, परशक्तिरूपमिदममूर्तमपरशक्तिरूपं क्षेत्राख्य मूर्त्तश्च परशकिपरवानन क्षेत्रशाशापतिहेतुभूततृतीयशक्त्याख्य कर्मरूपाविद्या वेत्येतच्छक्तित्रयाश्रयो भगवदसाधारणम्, खादित्यवर्ण५’ इत्यादिवेदान्तसिद्धं मूर्तरूपं शुभाश्रय इत्युक्तम् । अत्र परिशुद्धात्मत्वरूपस्य शुभाश्रयतानर्हतां वक्तुम, ‘प्रस्वतामितभेदं यत्’ इत्युच्यते । तथाहि- “न तद्योगयुजा शक्यं नृप ! चिन्तयितुं यतः । द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते (परं पदम् ) ॥ समस्ताः शक्तयश्चैता नृप ! यत्र प्रतिष्ठिताः । तत् विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ " इति च वदति । तथा चतुर्मुखसनकसनन्दनादीनां जगदन्तर्वर्तिनामविद्या वेष्टितत्वेन शुभाश्रयतानर्हतामुक्त्वा, बछानामेव पश्चात् योगेनोद्भूतबोधानां स्वस्वरूपापन्नानाञ्च स्वतः शुद्धिविरहात् भगवता शौनकेन शुभाश्रयता निषिद्धा - “बानास्तम्बपर्यन्ताः जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसार वशवर्तिनः ॥ “यतरसतो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः ॥ पश्चादुद्भूतबोधाश्च ध्याने नैवोपकारकाः । नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥ " तस्मात् तदसलं ब्रह्म निसर्गादेव बोधवत् ॥” इत्यादिना परस्य ब्रह्मणोः विष्णोः स्वरूपं स्वासाधारणमेव शुभाश्रय इत्युक्तम् । अतोऽत्र न भेदापलापः प्रतीयते । प्रतिषिद्धमिति शुभाश्रयत्वप्रतिषेधः । शुभत्वम् - हेयविरोधित्वम् ; न तु हेयराहित्यमात्रम् । “चिन्त्यमात्मविशुद्धयर्थं सर्वकिल्बिषनाशनम्’ इत्युक्तत्वात् । शक्तित्रयाश्रयत्वकथनाय शक्तित्रयमनवदति परेति । अत्र, “समस्ताः शक्तयश्चैताः” इति वचनार्थी विवक्षितः । एताः शक्तय इति बहुवचने सत्यपि समस्तपदं बहुव्यक्तिक्कोडीकारार्थम् । परशक्तिरेव परमात्मनो रूपनिति परशक्तिरूपम् ; परशक्त्यात्मकं वा । एवमुत्तरत्रापि । भगवदसाधारणमिति चतुर्मुखादिशरीरव्यावृत्तिः; भगवदधिष्ठितत्वेऽपि तत्तज्जीवविशेषाभिमानविषयस्वात् तेषां शरीराणाम् । श्रुतिमूलतां दर्शयति आदित्येति । मूर्तरूपमित्यनेन “मूर्ते भगवतो रूपे” इति वचनार्थ उक्तः । उक्तेष्वर्थेष्वयं श्लोकः किंविष्य इत्यत्राह अत्रेति । शुभा त्रयतानईत्वकथनार्थमुच्यते चेत्, अन्यत्रास्णनईत्वकथनं वस्त्वन्तरस्य तदर्हत्वकथनं च द्रष्टव्यमित्यत्राह तथाहीति अस्मिन्नर्थद्वये वचनद्वयमुपादत्ते न तदिति । योगयुजा - प्रक्रान्तयोगेन । अनालम्बनत्यमनेन प्रन्धेनोक्तम्; स्वतः शुद्धिविरहश्च प्रकरणसिद्ध इत्यभिप्रेतः । “अन्ये तु पुरुषव्याघ्र ! चेतसो ये व्यपाश्रयाः । अशुद्धस्ति समस्तास्तु देवाद्याः कर्मयोनयः” इत्यादिना भेगवद्विप्रहव्यतिरिक्तानां हि शुद्धिविरह उक्तः । अन्यस्य रूपस्यार्द्दताकथनं चास्य रूपस्यानर्हत्वविवक्षासूचकमिति चशब्दार्थः । अन्येस्थिति ग्रन्थेन कर्मसंबन्धलक्षणाशुद्धिकथनात् कर्मसंबन्धविर्निर्मुक्तानामपि स्वतः शुद्धिविरहः सूचितः । तेषामपि शुभाश्रयपदस्थशुभशब्देन व्यवच्छेयत्वं स्पष्टयितुमाह तथेति । पश्चादुद्भूतबोधाश्वेत्येतत व्याख्यातं स्वस्वरूपापन्नानामिति पदेन । आत्रास्तम्बपर्यन्ता इत्यत्र आ अभिविधौ; स्तम्बसमभिव्याहारात् । स्तम्बो हि कर्मवश्यः । “पुमान्न देवः” इत्यारभ्य “भूते कर्म योनयः” इत्युक्तेः । " तेषामप्यन्यतो यतः” इत्येवमन्तस्य ग्रन्थस्यार्थः पूर्वमुक्तः । अथ, तस्मात्तदमलं ब्रह्मेत्यादेरर्थमाह परस्येति । स्वासाधारणमित्यस्य पूर्ववदर्थः । प्रत्यस्तमितेत्यादिश्लोकस्य भेदनिषेधपरस्वाभावं निगमयति अत इति ।
२२४ १-१-१. ज्ञानस्वरूपमितिश्लोके परोक्तनिरासः ‘ज्ञानस्वरूपम् इत्यत्रापि ज्ञानव्यतिरिक्तस्यार्थजातस्य कृत्स्नस्य न मिथ्यात्वं प्रतिपाद्यते ; ज्ञानस्वरूपस्याऽऽत्मनो देवमनुष्याद्यर्थाकारेणावभासो भ्रान्तिरित्येतावन्मात्रवचनात् । न हि शुक्तिकाया रजततयाऽवभासं भ्रान्तिरित्युक्ते जगति कृत्स्नं रजतजातं मिथ्या भवति ॥ जगद्ब्रह्मणोः सामानाधिकरण्येनैक्यप्रतीतेः, ब्रह्मणो ज्ञानस्वरूपस्यार्थाकारता भ्रान्तिरित्युक्ते सति अर्थजातस्य कृत्स्नस्य मिथ्यात्वमुक्तं स्यादिति चेत्–तदसत् ; अस्मिन् शास्त्रे परस्य ब्रह्मणो विष्णोर्निरस्ताज्ञानादिनिखिलदोषगन्धस्य समस्त कल्याणगुणात्मकस्य महाविभूतेः प्रतिपन्नतया तस्य भ्रान्तिदर्शनासंभवात् । सामानाधिकरण्येनैक्यप्रतिपादनञ्च बाधासहमविरुद्धचेत्यनन्तरमेवोपपादयिष्यते । अतोऽयमपि श्लोको नार्थस्वरूपम्य बाधकः ॥ अथ ज्ञानस्वरूपमित्यादिश्लोकस्य भेद मिध्यात्व परस्वाभावमाह ज्ञानस्वरूपमितीति । अपिः समुच्चये । कृत्स्नमिथ्यात्वप्रतिपादनाभावमुपपादयति ज्ञानेति । ज्ञानस्वरूपस्यार्थाकारतयाऽवभासे भ्रमे सति अर्थाकारस्य तथास्येनावभासो न भ्रमो भवतीत्यर्थः । तमेव दृष्टान्तेनोपपादयति नहीति । दृष्टान्तात् वैषम्यमुखेन चोद्यं शङ्कते जगदुब्रह्मणोरिति । तत्र हि सर्व रजतजातं न शुक्तिकाशकलेन समानाधिकरणं दृष्टम् ; अपि तु व्यधिकरणत्वेन प्रमाणप्रतिपन्नम् । अतो न कृत्स्नस्य रजतजातस्य शुक्तित्वेन विरोधः; अपि तु समानाधिकरणरजतस्यैव विरोधः । तत्र विरोधात् समानाधिकृतरजतस्य मिध्यात्वम्, अविरुद्धस्यासमानाधिकृतरजतस्यामिथ्यात्वञ्च । अत्र तु ब्रह्मव्यतिरिक्तं कृत्स्नं ब्रह्मसमानाधिकरणं प्रतीयते । अतो ज्ञानाकारस्यार्थीकारस्य च विरोधे कृत्स्नस्यार्थजातस्य मिथ्यात्वं फलितमिति । एतत् परिहरति तदसदिति । तत्र प्रथमं परोक्तार्थस्य प्रबन्धवाक्यार्थविरोधमाह अस्मिन्निति । ब्रह्मणोऽविद्यान्वयेो जगतो मिथ्यात्वं चात्र विरुद्धम् । ‘समस्त हेयरहितं विष्ण्वाख्यं परमं पदम्’, ‘ततः स वासुदेवेति’, ‘तद् ब्रह्म परमं नित्यम्’, ‘हेयाभावाच्च निर्मलम्’, ‘तानि सर्वाणि तद्वपुः’, ‘विभूतयो हरेरेताः” इत्यादिवचनादित्यर्थः ॥ ‘भ्रान्तिदर्शनतः स्थितम्’, ‘विष्णु प्रसिष्णुम्’ इति विष्णोः सगुणस्य भ्रमाश्रयत्वमुच्यते । अतस्तत् युक्तम् ; परब्रह्म हि निर्दोषमिति शङ्काव्यावृत्यर्थं परस्य ब्रह्मणो विष्णोरित्युक्तम, निरस्ताज्ञानादिनिखिलदोषगन्धस्य समस्तकल्याणगुणात्मकस्येत्याभ्यां पदाभ्यामविद्यान्वयानुपपत्तिरुक्ता । अविद्यासंबन्धे सति निरस्तसमस्तहेयत्वं समस्त कल्याणगुणात्मकत्वमपि नुपपन्नं स्यात् । महाविभूतेरिति जगन्मिथ्यात्वानुपपत्तिरुक्ता । जगतो भगवद्विभूतित्वं हि न प्रमाणान्तरसिद्धम्, येन निषेधार्थमनुवादः स्यात् । अतो विधीयत एव । विधिस्तु न भ्रमं जनयति तथा सति निषेधवचनस्यापि संतो, भेदस्यासत्व विषयबुद्धिरूप भ्रमपरत्वस्यानिवार्यत्वात् । प्रामाण्यं हि वाक्यद्वयस्य समानम् । तस्माद्विहितोऽर्थः परमार्थ एवेति न जगन्मिथ्यात्यमित्यर्थः । सामानाधिकरण्येनैक्यप्रतीतौ सत्यां ज्ञानाकारार्थाकारयोर्विरोधादन्यतरमिध्यात्वं स्यात् यथा शुक्तिरेव रजतमित्यत्रेति शङ्कायामाह सामानाधिकरण्येनेति । बाधासहस्-न केवलमाकारद्वये ; अन्यतरबाध निरपेक्षमपि सामानाधिकरण्यं संभवति; किन्तु बाधं न सहते; आकारद्वयासिद्धौ सामानाधिकरण्यलक्षणासिद्धेरित्यर्थः । तर्ह्येकस्मिन् वस्तुन्याकारद्वयविरोधः कथं परिहियत इत्यत्राह अविरुद्ध श्वेतीति । आकारद्वयाङ्गीकारेऽप्यैक्यप्रतिपादन मविरुद्धम् ; सद्वारकत्वादिति भावः । अनन्तरमेव-न त्वधिकरणान्तरे इत्यर्थः । प्रथमश्च शब्दः शङ्का निवृत्तिपरः; द्वितीयः समुच्चयपरः । मिथ्यात्वपरत्वाभावं निगमयति अतोऽयमिति । एवं ज्ञानस्वरूपमिति श्लोकस्य प्रपश्च मिथ्यात्वपरत्वमनुप्रपत्युद्घाटनेन निरस्तम् । अथ श्लोकं स्वपक्षे व्याख्यातुमुपकगते तथा हीति । 7 1
( उपबृंहणस्वरूपम् ) २२५ तथा हि"यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासख, तद्ब्रह्म” इति जगज्जन्मादिकारणं ब्रह्मेत्यवसिते सति - " इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुतात् वेदो मामयं प्रतरिष्यति ॥” इति शास्त्रेण अर्थस्य इतिहासपुराणाभ्यामुपबृंहणं कार्यमिति विज्ञायते । उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिंमसाक्षात्कृतवेदतत्त्वार्थानां वाक्यैः स्वावगतवेदवाक्यार्थव्यक्तीकरणम् । सकलशाखागतस्य । अत्र किमर्थं प्रश्नश्लोकव्याख्यानम् ? ॥ उच्यते - ज्ञानस्वरूपमिति लेोके द्वितीयान्तपदानां विशेष्यो विष्णुरिति न प्रतीयते ; तेषां प्रणम्येति पदेनान्वपश्च न ज्ञायते ; श्लोकस्य विशिष्टार्थ (विशिष्ट) परवं च प्रकरणस्य विशिष्टपरत्वेन विना नावगम्यते ; अतो नमस्कारश्लेोकाः व्याख्यातव्याः । तेषु व्याख्यातव्येषु, द्वितीयाध्यायारम्भे नमस्कारकरणं विनिबन्धनम् ; प्रथमत एव हि कर्तव्यमिति शङ्का जायते शास्त्रस्य प्रश्ननतिवचनरूपेणावतीर्णत्वात् प्रथमं प्रश्नानां सङ्क्षेपेण प्रतिवचनं कृत्वा विस्तारविवक्षायां द्वितीयाध्यायारम्भे नमस्कारः कृतः । अन्यथा प्रश्नानन्तरमेव नमस्यायां क्रियमाणायाम् अस्मत्प्रश्नस्य किमुच्यत इति शिष्यबुद्धेर्व्याकुलता स्यादिति पूर्वोक्तशङ्कानिरसनमुखेन नमस्कार लोकसङ्गतिप्रदर्शनार्थं प्रश्नश्लोका व्याख्याताः । ‘ज्ञानस्वरूपम्’ इत्यस्मिन् उपक्रमग्रन्थे निर्विशेषवस्तुव्यतिरिक्तस्य भ्रान्तिसिद्धत्वदर्शनात् तदनुगुण एवार्थः तदनुगुण एवार्थः उत्तरत्र उत्तरत्र वर्णनीय इति शङ्कापरिहाराय उपक्रमोपक्रम भूतैः प्रश्नोत्तरवरलाभश्लोकैः शास्त्रप्रतिपाद्यः सविभूतिकदेवताविशेषः, न तु ज्ञप्तिमात्रमिति शास्त्रतात्पर्यज्ञापनार्थं च प्रश्न श्लोकव्याख्यानम् व्याचिख्यासितश्लोकोक्त भ्रान्त्यन्व यस्य सद्वारकत्वसिद्ध्ये सामानाधिकरण्यं शरीरशरीरिमात्र निबन्धनमिति यन्मयमिति मयट् प्रत्ययेन ज्ञापनार्थश्च प्रश्नश्लोका व्यख्यायन्ते । 6. तत्र किमयं श्रुनवेदान्तप्रश्नः; उताश्रुतवेदान्तप्रश्नः इति विकल्पे अश्रुतवेदान्तस्य विशेषप्रश्नानुपपत्तिः, श्रुतवेदान्तस्य श्रोतव्याभावात् प्रश्नानुपपत्तिरिति शङ्कायां श्रुतवेदान्तप्रश्न इत्याह येतो वा इमानीत्यादिना । अवसिते सतीत्यनेन ब्रह्ममीमांसाश्रवणं कृतमित्युक्तम् ॥ श्रुतवेदान्तस्य कथं प्रश्नोपपत्तिरिति शङ्कायां श्रुतवेदान्तस्येतिहासपुराणश्रवणविधिं दर्शयति इतिहासेति । इतिहासेत्यादिश्लोके वेदशब्दो वेदान्तपरः । वेदोपबृंहण भूतेषु धर्मशात्रेतिहासपुराणेषु धर्मशास्त्राणि पूर्वभागोपबृंहणानि इतिहासपुराणानि उपरितनभागोपबृंहणपरांणीति विभागः । स च स्मृत्यधिकरणे व्यक्ती भविष्यति । तंत्र धर्मशास्त्रेषु ब्रह्मप्रतिपादनं कर्मणां तदाराधनरूपत्वज्ञापनार्थम् ; इतिहासपुराणेषु कर्मप्रतिपादनं कर्मणां ब्रह्मोपासनाङ्गत्वप्रतिपादनार्थम् । इतिहासस्य पुराणेभ्योऽभ्यर्हितत्वं विशेषः । अल्पाच्तरमिति पुराणशब्दस्य पूर्वनिपाते प्राप्ते, अभ्यर्हितं पूर्व प्रयोक्तव्यमिति पूर्वनिपातितस्येतिहासस्याभ्यर्हितत्वप्रतीतेः । अस्य श्लोकस्य प्रथमार्धं व्याचष्टे उपबृंहणं नामेति । षष्ठ्यन्तविशेषणद्वयेन आगमोत्थं विवेकजं च ज्ञान मस्तीत्युक्तम् । तत्त्वार्थानामिति बहुवचनं कपिलमतादपि इतिहासादीनां प्राबल्यद्योतनार्थम् । व्यक्तीकरणम् – अज्ञातविशेषैः सह स्वावगतार्थ निष्कर्षः । यथा वेदेन कर्तव्यतया त्रिहितस्य संध्योपासनादेः शरीरशुद्धिप्रकारदन्तधावनस्नानादिविशेषैः सह निष्कर्षः, एवमुपनिषद्भागेऽप्यर्थनिष्कर्षः सम्पाद्यः । उपनिषदर्थनिष्कर्षो ब्रह्मविचारसिद्ध इति नोपबृंहणापेक्षेति शङ्कायामुत्तरार्धं व्याचष्टे सकलेति । पूर्वार्धविहितोपबृंहणकार्थतोपपादकमुत्तरार्धम् । उपबृंहणं नाम अनधीत- je 29
२२३ शाखान्तरार्थेः जिज्ञासाधिकरणम् १-१-१ ( उपबृंहयेदित्यत्र विध्यनुवादविचारः) सह अधीतशाखार्थनिष्कर्षः 1 अतो नोपबृंहणविचार नैरपेक्ष्यमित्यर्थः " 1
ननु यथा आपातप्रतीत्या फलवदर्थावगमात् कर्मविचारे, तदनन्तरं ब्रह्मविचारे च रागतः प्रवृत्तिःतथा ‘अधीयमानशाखान्तर्गतेन, “अनन्ता वै वेदाः” इति वाक्येन वेदानामानन्दयावगमादधीतशाखानवगतानां तदविरुद्धानां विरुद्धानां चार्थानां सम्मवात, “स्मृनेच”, “अपि स्मर्यते” इत्यादिसूत्रेषु वेदान्तार्थनिर्णयस्ये।पबृंहणसापेक्षत्वदर्शनाच्चोपबृंहणश्रवणे रागतः प्रवृत्तिरुपपद्यते । तत्र पूर्वभागोपबृंहणेषु धर्मशास्त्रेषु श्रुनेषु उपनिषद्भागोपवृंहणरूपेतिहासपुराणेष्वपि रागात्प्रवृत्तिरिति विधिवैयर्थम् । अप्राप्ते हि शास्त्रस्यार्थवत्त्वम् । न च गुरोरेव श्रोतव्यमिति नियमविधिः अस्मिन् वचने तद्वाचिशब्दाभावात् । इतिहासपुराणयोः श्रवणप्रवृत्तस्य एतद्वचनार्थज्ञानम्, तस्मादितिहासपुराणश्रवणे प्रवृत्तिरित्यन्योन्याश्रयश्च । अतः उपबृंहयेदिति विधिरनुपपन्न इति ॥ सत्यम् ; भारतादिनबन्धविशेषश्रवणाय तन्त्रध्यगतेनानेन न्यायसिद्धं सामान्यत उपबृंहणस्यापेक्षितत्वमनूद्यते । उपबृंहणं कार्यमिति विज्ञायत इत्यस्यायमर्थः, न्यायसिद्धमुपबृंहणस्य करणीयत्वमनेन वचनेनापि ज्ञायत इति । उपबृंहणंनामेत्यादिभाष्येण न्यायप्राप्तिरेव प्रदर्श्यते । यद्वा समन्वय - विरोधपरिहार लक्षणाभ्यामेव तत्रस्थितेनिश्चितत्वात् वस्तुनि विरुद्धाकारासंभवादधीयमानश्रुतिसमन्वय-विरोधपरिहारलक्षणाम्यामेव निर्णीतविरुद्धार्थप्रतिपादक प्रदेशान्तरसंभवे वेदस्य भ्रान्तिजल्पितायमानत्वप्रसङ्गाच्च निर्णीततत्त्वविरुद्धार्थप्रतिपादक प्रदेश [प्रसङ्ग][संभवात्, ब्रह्मण्यनवगतगुणवि भूतिविशेषसद्भावेऽप्युपबृंहणसह सैरपि तदियत्ताप्रति गदनायोगात्, अवगतकतिपयगुणविशेषोपासनेष्वन्यनेनैव पुरुषार्थसिद्ध्युपपत्तेश्च उपबंहण श्रवणनिरपेक्षं प्रति उपबृंहयेदिति विधानं युज्यते ॥
नन्वेवं तर्हि न्यायानुगृहीतवाक्यावगतेष्वर्थेष बृंहणनिष्क्रष्टव्याभावात् निष्क्रष्टव्यांशस्य सूत्रोदाहृतवचनेरेव निष्कृष्टत्वाच्चोपबृंहणविधिरदृष्टार्थः स्यात् । न च दृष्टे संभवति अदृष्टकल्पनं न्याय्यम् । दृष्टार्थत्वञ्च वचनं दर्शयांत ‘मामयं प्रतरिष्यति’ ‘इति । वेदस्य प्रतारणं नाम तदभिप्रेतविपरीतार्थवर्णनमेव । अतस्तन्निवृत्तिरूपं दृष्टफलं वाचनिकम् ) सति तस्मिन् अदृष्टकल्पनमयुक्तम् । तर्हि तदेव दृष्टं फलमिति चेत् — तदप्ययुक्तम् ; तत्त्वविपर्यासप्रतिपादनासंभवस्य त्वयैवोक्तत्वात्; साकल्येन ब्रह्मविभूत्यनवगमस्य समस्ततदवान्तरविशेषानवगमस्य च वेदप्रतारणरूपत्वाभावेन तन्निवृत्तेः फलत्वायोगाच्च ॥ उच्यते । यद्यपि परतत्त्वतदुपासनप्रतिपादनेषु विपर्यासासंभवः—– तथापि “किं ते कृण्वन्ति 1 कीकटेषु गावो नाशिरं दुहे न तपन्ति धर्म (र्म्य) म् । आ नो भर प्रमगन्दस्य वेदो नचाशाखं मघवन् रन्धयानः " इत्यादिवाक्यप्रतिपन्नप्रमगन्दादिवृत्तान्तस्येव परमात्मसृज्य सुरन र तिर्यगादिविशेष तदुत्पत्तितद्वृत्तविशेषाणां श्रुति 2- 1 हे मघवन् ! कीकटाख्यदेशे धेनवः तुभ्यं किं कुर्वन्ति ? न हि सोमप्रवर्ग्यार्थं दुहते; न च तदर्थं घृतं तापयन्ति । अतः प्रमगन्दनाम्नो राज्ञो धनं (वेदः) नः आहर ; रन्धय-वर्धय चेत्यर्थः प्रतीयते । अत्र नीचाशाखनगरस्य प्रमगन्दस्य च न ग्रहणम्, अनित्यत्वात् । अतः प्रमगन्दस्य वार्धुषिकस्य नैचाशाखम असत्कार्योपयुक्तं धनमाहरेत्यर्थ इति कर्ममीमांसकाः 2 ‘परं तु श्रुतिसामान्य [ मात्र ]म्’ इति पूर्वमीमांसासूत्रेण शब्दसाम्यदर्शनात् प्रवाहणिनामा कश्चिदुच्यत इति न भ्रमितव्यम् । प्रकर्षेण वाहन कर्तेत्यादिसामान्य-योगार्थ परत्वादित्युक्तम् । तदत्र विवक्षितम् ।
(सात्त्विकपुराणप्रावल्यम् ) २२७ सामान्यप्रतीतत्वेन वाक्याविवक्षितत्वं मन्यमानः अहल्याजारादिवाक्यानां पण्डितमानिभिरितरैरुक्तमर्थमिव वेदपूर्वभागोपनिषद्भागगतानां मन्त्रार्थवादानामन्यथार्थत्वं मन्यते चेत्, अश्रुतोपबृंहणतया वेदं प्रतारयत्येवायमिति तत्परिहारायोपबृंहणविधिरुपपद्यत इति । न चान्योन्याश्रयः; स्वाध्यायविधिवाक्यस्य स्वाध्यायान्तर्भावेऽपि, अध्ययनाद्विध्यवगमः विध्यवगमादध्ययनमिति यथा नान्योन्याश्रयः, तद्वत् । तत्र हि विध्यभिज्ञपुरुषप्रेरणात्, तदनुष्ठान दर्शनाद्वा माणवकप्रवृत्तिः । एवमुपबृंहणविग्यमिज्ञशिष्ट जनवादप्रसिद्ध्या, तदभिज्ञस्वगुरुवचनेन वा, तेनोपबृंहणाधिगमप्रवृत्त पुरुषान्तरदर्शनाद्वा उपबृंहणज्ञानस्य संपाद्यनाज्ञानात् शिष्यस्य प्रश्नः उपपद्यते । अत उपबृंहणविधिरुपपन्नः । तत्र स्वगुरोः पराशरस्य सार्वश्यप्रसिद्धेः तेनैव सर्वविद्यास्थलेषु स्वस्य कृतशिक्षत्वाच्च मैत्रेयस्य तत्प्रणीत पुराण श्रवणप्रवृत्युपपत्तिः । १.. पुराणान्तरेभ्योऽस्य पुराणस्य वैषम्यं वदन् प्रश्नान् अवतारयति तत्रेति । अस्य तावत् पुराणरत्नस्य प्राच्योदीच्यादिसर्वविद्वज्जनविदितस्य पुराणान्तरेभ्योऽपि प्रसिद्धिप्राचुर्यात्, धर्मशस्त्रेषु मानवस्येव, व्याकरणेषु पाणिनीयस्येव च सजातीयप्रबन्धेभ्यः प्रकर्षातिशयो नापह्नोतुं शक्यते । तत एव प्रसिद्धिप्राचुर्यात् कौर्मादेरिव नष्टकोशत्वशङ्का दूरोत्सारिता । अनतिविस्तरत्वाच्च प्रक्षेपशङ्का नावतरति । 2 अन्यपरोक्तिप्रसिद्धपरिग्रहातिशयं चेदम् “पडइ परासरसद्दम्” (पठति पराशर शब्दम् ) इति । “अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् । यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते’ इति सम्यज्ज्ञाननिष्पादकसत्त्वमूलत्वात्, अन्यथाज्ञानविपरीत ज्ञानहेतु भूतरजस्तमो मूलत्वाभावात् दुष्टकारणपुराणान्तरसाम्यं न संभावनीयम् । सत्त्वस्य यथार्थज्ञानहेतुत्वं रजस्तमसो श्वान्यथाज्ञानविपरीत ज्ञानहेतुत्वम्, “सत्वात् सञ्जायते ज्ञानम्’, ‘अयथावत्प्रजानाति बुद्धिः सा पार्थ ! राजसी’, ‘सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी’ इति च वचनात् प्रसिद्धम् । “सत्वं लघु “सर्वास्ता निष्फलाः प्रेय प्रकाशकमिष्टम् उपष्टम्भकं चलं च रजः । गुरु वरणकमेत्र तमः” इति, “सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः” इति च प्रसिद्धम् ॥
ननु चतुर्मुखशिवादिप्रतिपादकपुराणानां रजस्तमोमूलत्वपरवचनस्य रजस्तमोमूलत्वेन प्रामाण्याभावात् सात्त्विकपुराणप्राबल्यासिद्धिः । अस्य वचनस्य सत्वमूलत्वे प्रमाणं नास्ति । अत एव तद्वचनमात्रस्याप्रामाण्यं वक्तुं युक्तम्, न बहूनां पुराणानाम ; भूयसां बलीयस्त्वात् ॥ उच्यते । न तावदस्य वचनस्यं प्रामाण्ये विमतिर्न्याय्या; बाध कादर्शनात् स्वतस्सिद्धप्रामाण्यस्यानपोदितत्वात् । “यो ह खलु वा अस्य 1 अह्नि लीयते इत्यहल्या - रात्रिः । तां जरयतीति जारः सूर्यः । अर्वाचीना तु गौतमपत्नी नापौरुषेयवेदार्थो भवितुमर्हतीति कर्ममीमांसकाः । 2 असत्काव्यलोले खोपपतौ कालवशात् विष्णुपुराणसक्ते सति तं विहाय खं पतिमेव प्राप्तायाः कस्याश्चिद् गाथेयम् । अत एव एतदर्थ प्रवृत्ततयाऽन्यपरत्वम् । गाथासप्तशतीस्थगाथेयं काव्यमालायाम् अमुद्रिताऽपि अन्यत्र मुद्रिता । भावप्रकाशिकायां पूर्णगाथा द्रष्टव्या ।
२.२८ } जिज्ञासाधिकरणम् १-१-१. (विष्णुपुराणस्य श्रुत्यविरुद्धत्वम् ) राजसोंशः, सोऽसौ ब्रह्मचारिणो योऽयं ब्रह्मा । यो ह खलु वा अस्य सात्त्विकशः, सोऽसौ ब्रह्मचारिणो योऽयं विष्णुः । यो ह खलु वा अस्य तामसोंऽशः, सोऽसौ ब्रह्मचारिणो योऽयं रुद्रः” इति, “महान् प्रभु पुरुषः सत्त्वस्यैष प्रवर्तकः” इति च श्रुत्यानुगुण्येन तत्तद्गुणमयत्वेनावगतस्य तत्तत्तत्वस्य तत्तत्कल्ये तत्तद्गुणमयेन ब्रह्मणा तेषु तेषु पुराणेषु प्रतिपादितत्वपरस्य वचनस्योपपन्नार्थत्वाच्च । सकलशास्त्रार्थव्यवस्थापके महाभारते च मोक्षधर्मे, “जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सास्त्रिकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः (निश्चयः)” इत्यादिना भगवत्कटाक्षण सत्त्वगुणमूल सम्यग्ज्ञाननिश्चयमुक्त्वा, “पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा चास्य मानसं समभिप्लुनम्” इति चतुर्मुखशिवयोः कटाक्षेण रजस्तमोमूलकालुष्य प्रतिपादनाच्च चतुर्मुखशिवप्रतिपादकत्रबन्धानां रजस्तमोमूलमुपपद्यते । अस्य वचनस्य रजस्तमो मूलपुराणस्थत्वेऽपि नाप्रामाण्यं शङ्कनीयम्, ब्रह्मशिवादिप्रतिपादनाभिनिविष्टस्य प्रबन्धस्य भगवत्प्रकर्षोक्तौ आग्रहा संभवेनास्य वचनस्य तत्त्वपरत्वोपपत्तेः । स्वप्रतिपाद्यदेवतायामेव हि वक्तुराग्रहसंभवः, न त्वन्यत्र । तस्मान्नास्य वचनस्य कारणदोषसंभवः । यदुक्तमनेक पुराणाप्रामाण्यात् एतद्वचनमात्राप्रामाण्यं युक्तम; भूयसां बलीयस्त्वादिति - तदयुक्तम् ; साक्षादर्थविरोधाभावात् । न हि विधिशिवप्रतिपादकप्रबन्धानां रजस्तमोमूलत्वं नेति तेषु पुराणेष्ववगम्यते ॥ तत्तत्प्रबन्धेष्वेव प्रमाणतया प्रतिपन्नानां तेषां प्रामाण्यं रजस्तमोमूलत्वं च विरुद्धमिति परम्परया विरोधः फलितः; तत्र भूयसा वलीयस्त्वमिति चेत् यदि केवलमेतद्ववचनमात्रविरोधेन तेषामप्रामाण्यम्, तदा स्यादयं दोषः । पुराणाना परस्परविरोधेन सर्वेषामविशेषेण प्रामाण्येऽनुपपन्ने, सर्वाप्रामाण्यादपि कतिपयप्रामाण्यसिद्ध्यनुगुणनिर्वाहे न्याय्ये सति, कस्याप्रामाण्यं कस्य च प्रामाण्यमित्यपेक्षायां विषयव्यवस्थामात्रपरत्वादस्य वचनस्य ! अतोऽनेन सरखादिमूलत्वे ज्ञापिते सति अदुष्टमूलैः प्रबन्धैर्दुष्टमूलप्रबन्धबाधः । अतो न भूयसांबलीयस्त्वनयेन तद्वचनन्त्राधः ॥ भगवत्प्रतिपादक पुराणेभ्यो विधिशिवप्रतिपादक पुराणबाहुल्यात् तत्प्रामाण्यमिति चेत्, इदं तावत् वचनमबाधितम् ; इह भूयसांवलीयस्त्वनयानवतारात् । एवं बाधकरहितेनानेन वचनेन सत्त्वादिमूलत्थे पुराणानामवगते सति दुष्टमूलपुराणबाहुल्यमदुष्टमूलमेकमपि पुराणं न बाधितुं प्रभवति । न हि भ्रान्तपुरुषसहस्रवचनैरेकस्याभ्रान्तस्य वचनं बाध्यते । अतो भगवत्प्रतिपादकत्वेन सत्त्रमूलत्वान्न कारणदोषः । 1 तथा पुराणान्तराणा मित्रास्य बाधकप्रत्ययो न दृश्यते; नारायणस्यैव परमकारणत्वप्रतिपादनात् । प्रत्यक्षश्रुतिषु हि नारायणस्यैव सामान्यशब्दविशेषशब्दाभ्यां कारणत्वमुक्त्वा, “न चास्य कश्चिज्जनिता न चाधिपः”, “न तत्समश्चाभ्यधिकश्च दृश्यते”, “न ह्येतस्मादिति नेत्यन्यत्परमस्ति”, “यस्मात्परं नापरमस्ति किञ्चित्” इति कारणभूतात् तस्मादन्यस्य परत्वं च निषिध्यते । “न ब्रह्मा नेशानः”, “तत्र ब्रह्मा चर्तुमुखोऽजायत”, “यक्षः शूलपाणिः पुरुषोऽजायत”, “ततो जज्ञ उग्रस्त्वेष नृम्णः”, “विरूपाक्षाय ब्रह्मणः पुत्राय”, “अजस्य नामावध्येकमर्पितम् “, " स प्रजापतिरेकः पुष्करपणे समभवत् “, “यन्नाभिपद्मांदभवन्महात्मा प्रजापतिः” इति ब्रह्मशिवयोश्च नारायणादुत्पत्तिः श्रूयते । लैङ्गे तु ब्रह्मविष्णू प्रति, “युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ” इति रुदोक्त्या रुद्रात् हरिचतुर्मुखयोरुत्पत्यवगमात् पुराणान्तराणां श्रुतिविरोधः स्फुटतरः । यद्यपि कैश्चित् त्रयाणां देवानां साम्यमैक्यं चाभ्युपगतम्, तथाप्ययं विरोधो दुष्परिहरः ; …. (वि. पु. वैलक्षण्यम्) २२९ तुल्यानामेकीभूतानामपि तेषामुत्पत्तिप्रतिपादने भगवतश्चतुर्मुख शिवयोरुत्पत्तिश्रवणात् रुद्रादितरयोरुत्पत्तेः क्वचिदपि वाक्ये श्रवणाभावाच्च । कारणवाचिशिवादिशब्दानामाकाशादिशब्दानामित्र कार्यतयाऽवगतप्रसिद्ध रुद्रादिपरत्वाभावाच्च । “सबै विष्णुमया वेदाः सर्वे विष्णुमया ग ( गुणाः । न हि विष्णुसमा काचिद्गतिरन्या विधीयते । इत्येवं सततं वेदा गायन्ते नात्र संशयः ॥” इति लैङ्गादावपि वेदानां भगवत्परत्वप्रतिपादकत्वाभ्युपगमाच्च । अतो नारायणस्यैव परमकारणत्वपराभिः प्रत्यक्षश्रुतिभिर्बाधकप्रत्ययवद्भयः पुराणान्तरेभ्यो वैलक्षण्यं स्फुटम् । तथा नारायणमेव परमकारणं प्रतिपादयद्भिर्मानवादिधर्मशास्त्रैरख्यैकार्थ्यं स्पष्टम् । “आपो नारा इति प्रोक्ताः’, ’ तद्विसृष्टः स पुरुषो लोको ब्रह्मेति कीर्त्यते’, ‘विद्यात्तु पुरुषं परम्’, ‘नारायणः परोऽव्यक्तात् " इत्यादिभिर्नारायणस्यैव हि कारणत्वं तेषूच्यते । पुराणान्तराणि तु धर्मशास्त्रविरुद्धानि च । तथा वक्तृवैलक्षण्यं च प्रत्यक्षश्रुतिसिद्धम्, “स होवाच व्यासः पाराशर्यः” इति । अत्र पराशरात्मजस्वेन हि व्यासोत्कर्ष उच्यते । तथा लैङ्गेऽपि पराशरवैलक्षण्यं प्रतीयते ; यथा तत्र द्वितीयेऽध्याये, “पराशरस्यावतारो व्यासस्य च शुकस्य च । विनाशं राक्षसानां तु कृतं वै शक्तिसूनुनः” इति । अत्र पराशरस्यावतारः इत्युक्तिर्हि प्रकर्षातिशयार्था । अन्यथा ‘पराशरस्य चोत्पत्तिर्व्यासस्य च शुकस्य च’ इत्यपि हि वक्तुं शक्यते । पुलस्त्यवसिष्ठवरदानलब्धपरदेवतापारमार्थ्यज्ञानवत्त्वं च महत् वैलक्षण्यम् । वरदाने सति एतत्पुराणप्रमाण्यम् तत्प्रामाण्ये सति तत्प्रतिपन्नचरलाभ सत्यत्वमित्यन्योन्याश्रय इति न वाच्यम्; वरलाभवचनस्य ‘पराशरो न लब्धवरः’ इति बाधकप्रत्ययाभावेन स्वतस्सिद्धप्रामाण्यस्यान पोदितत्वात् । लैङ्गे च देवतापारमार्थ्यज्ञानलाभः पराशरस्यावगम्यते । यथा तत्र द्वितीयेऽध्याये, “देवतापारमार्थ्यं च विज्ञानं च प्रसादतः । पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः” इति । तत्रैव त्रिषष्टितमेऽध्याये, “अथ तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः । प्रसादाद्वैष्णवं चक्रे पुराणं वै पराशरः” इति च । तदनन्तरं च, ‘‘षट् प्रकारं समस्तार्थसाधकज्ञान संश्रयम् । दशसाहस्रममितं सर्ववेदार्थसंयुतम्” इत्यनेनास्य पुराणरत्नस्य सर्ववेदार्थसंयुतत्वम्, अत एवं समस्तपुरुषार्थसाधकज्ञानप्रसाधकत्वं चोच्यते । अतो वक्तृवलक्षण्यं प्रबन्धवैलक्षण्यं च पुराणान्तरसिद्धमिति तत् दुरपह्नवम् । इदं चापरं सुमहत् वैलक्षण्यम् — यत् सामान्य प्रश्नपूर्वक विशेषनिष्ठप्रतिवचन रूपत्वम्, “सोऽहमिच्छामि धर्मज्ञ ! श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग ! भविष्यति । यन्मयं च जगत् ब्रह्मन् ! यतश्चैतच्चराचरम् !!” इत्यादिना सामान्येन पृष्टे, “विष्णोः सकाशादुद्भूतम् " इति विशेषनिष्ठप्रतिवचनं ह्यवगम्यते । विशेषे पृष्टे सति, प्रतिवचनस्य पृष्टविशेषपक्षपातेन तदुत्कर्षकथनं प्रशंसामात्रम्, न तत्त्वपरमिति शङ्कनीयं स्यात् । सामान्येन पृष्टे सति प्रतिवचनमर्थवश द्विशेष पर्यवसितमिति तत्त्वपरत्वमेव स्यात् । अतश्च, “तस्माद्भवन्तं पृच्छामः सूत ! पौराणिकाद्य तु । पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसंयुताम् " इति विशेषनिष्ठ प्रश्नोपक्रमतत्प्रतिवचन रूपपुराणान्तरेभ्यः प्रकर्षातिशयः स्पष्टतमः । एतत्पुराणार्थश्च लैङ्गादिषु क्वचित् कचिदङ्गीक्रियते । यथा लैङ्गे द्वितीये पुराणार्थानुक्रमणे, “सर्व वर्तेषु विष्णोश्च जननं लीलयैव तु । विष्णोः प्रसादाजिष्णोश्च विष्णोश्चैव तु सम्भवः ॥”,
२३० जिज्ञासाधिकरणम् १-१-१ (वि. पु. प्रामाण्य हेतु समाहारः) वाक्यार्थस्य अल्पभागश्रवणाद्दुरवगमत्वेन तेन विना निश्चयायोगादुपबृंहणं हि कार्यमेव । तत्र - पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमार्थ्य ‘ज्ञानवतो भगवतः पराशरात् स्वावगतवेदार्थोपवृंहण- तत्र “लीलया चैत्र कृष्णेन स्वकुलस्य च संहृतिः । जरकास्त्रच्छलेनैव गमनं स्वेच्छयैव तु” इति । भगवदवतारस्य भूलोकपरित्यागस्य च लीलामात्रनिवन्धनत्वं हि तत्रोच्यते । अत एव एतत्पुराणार्थस्य अन्यत्राभ्युपगतत्वादप्रकम्प्यत्यमत्रगम्यते ॥ तर्हि एनदैकार्थ्यात् तान्यपि पुराणानि प्रमाणानि स्युरिति चेन्न; कात्स्न्र्त्स्न्येनाविरुद्धत्वाभावात् । भगत्रदुत्कर्षप्रतिपादकांशस्तु आग्रहासंभवादादरणीय इति पूर्वमेत्रोक्तम् । अस्य च पुराणरत्नस्य कार्त्स्न्येनाऽनाग्रहमूलत्वं चोपक्रमगतप्रश्न स्वाभाग्यादवगतमिति चोक्तम् । अतोऽन्यत्र ब्रद्धाग्रहैरप्यादरणीयस्त्रोकार्थत्वमप्रकम्प्यताहेतुः । किञ्च पुराणान्तरेष्विवास्य पुराणस्य न स्वव्याहतार्थप्रतिपादकत्वं दृश्यते; कात्स्न्येन भगवत्प्रकर्षस्यैवावगमात् । पुराणान्तरेषु व्याघातः प्रतीयते ः यथा लैङ्गे, “युवां प्रसूनौ गात्रेभ्यो मम पूर्वं सनातनौ । अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः । वामपार्श्वे च मे विष्णुर्विश्वात्मा हृदयोद्भवः” इति । तत्र, “ततः प्रहृष्टः सुमनाः प्रणिपत्य महेश्वरम् । प्राह नारायणो देवः सलिङ्गं लिङ्गवर्जितम् । यदि प्रीतिः समुत्पन्ना यदि देयों वरश्च नौ । भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी” इति हरिविरिञ्चयोः शिवादुत्पत्तितदाराधन-वरवरणादिकमुक्तम् । तत्र कचित्, “त्वत्कोपसम्भवो रुद्रस्तमसा च समावृत्तः । त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः” इति चतुर्मुखशिवयोर्भगवत्प्रसादकोपसम्भवत्यमुक्तमिति स्वव्याघातः । न च वसुदेवादेरुत्पत्तिवत् कैलासयात्रादिवच्च रुद्रादुत्पत्तितदाराधनरूपलीलोक्तिरित्यविरोधः ; पुराणरत्न - भारतादौ “मनसैव जगत्सृष्टि संहारं च करोति यः । तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः । तथापि यो मनुष्याणां धर्मस्तदनुवर्तनम् । कुर्वन् वलवत। सन्धि होनैर्युद्धं करोत्यसौ । साम चापि प्रदानं च तथा भेदप्रदर्शनम् । करोति दण्डपातं च कचिदे (?) पलायनम् । मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । लीला जगत्पतेस्तस्य च्छन्दतः संप्रतर्तते । ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारमते कर्तुं की नाश इव दुर्बलः । तेन वञ्चयते लोकान् मायायोगेन केशवः। ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥” इत्यादिभिरिव तत्र तत्र प्रसक्तापकर्षपरिहार- रिव तंत्र ग्रन्थादर्शनात् ; भारतादिषु दशरथवसुदेवादीनां रामकृष्णाद्यपेक्षया परत्वस्य जगत्कारणत्यादिमुखेन प्रतिपादनाभावात्, इह च भगवदपेक्षया रुद्रपरत्वस्य प्रतिपादनाच्च । अतः स्वव्याघातो दुष्परिहरः । न च तथा अत्र स्वव्याहतिः प्रतीयत इति इदञ्च महद्वैलक्षण्यम् । उक्कलक्षण प्रकर्षवतो वैष्णवपुराणस्य कारणदोषबाधकप्रत्ययस्वव्याहतिमत्प्रबन्धान्तरस्य च विरोधे सति पुराणरत्नस्य प्राबल्यम्, अन्येषां दौर्बल्यं च सुस्पष्टम् । "
एवं प्रसिद्धातिशय-लब्ध-सजातीय प्रबन्ध-प्रकर्षवत्वात्,
तत एव नष्टकोशत्वाभावात्
अनति-विस्तृतया प्रक्षेप-शङ्का-रहितत्वात्,
अन्य-परोक्ति-[प्र ]सिद्ध-परिग्रहातिशयवत्वात्,
सामान्य–प्रश्न-पूर्व–प्रतिवचन-रूपत्वेन अनाग्रह-मूलत्वात्,
अत एवेदृश-वैलक्षण्य-रहित-कारण–
दोष–बाधक-प्रत्यय–स्व-व्याहतिमत्-प्रबन्धान्तराणाम् एतद्-विरोधे सति
दौर्बल्यस्यावर्जनीयत्वाच् च
श्रीमद्-वैष्णवम् इदं पुराणं प्रमाणतमम् ।
एतत् सर्वं हेतुजातम् अभिप्रेत्य
प्रधान-भूत-युक्तिं कण्ठोक्त्या प्रदर्शयन्
तन्-मुखेन प्रत्रन्धवैलक्षण्यं वदन् प्रश्नमवतारयति - तत्रेति । पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवता-
मिच्छन् मैत्रेयः परिपप्रच्छ— (मैत्रेयप्रश्नार्थः) २३१ " सोऽहमिच्छामि धर्मज्ञ ! श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग ! भविष्यति ॥ “यन्मयं च जगद्ब्रह्मन् यतश्चैतच्चराचरम् । लीनमासीत् यथा यत्र लयमेष्यति यत्र च ॥” इत्यादिना ।
‘पारमार्थ्यज्ञानवत इत्यत्र देवतापारमार्थ्यशब्देन तमः कार्यं धर्म्यन्तरत्वेन धर्म्यन्तरस्य प्रतीतिरूपं विपरीतज्ञानं व्यावर्तितम् । अनेन देवतापारमार्थ्यं चेति वचनं स्मा (स्फो) रितम् । प्रशंसार्थेन मतुप्प्रत्ययेन रजःकार्य प्रकारान्तरोपेतस्य तद्विरुद्धप्रकारान्तरविशिष्टताप्रतीतिरूपमन्यथाज्ञानं व्यावर्तितम् । अनेन यथावदित्यस्यार्थः सूचितो भवति । देवताशब्देन कर्मणा उपासनेन वा आराध्यत्वं फलप्रदत्वं च विवक्षितम् । अनेन सविशेषत्व सिद्धिः । यथावदिति प्रकारकथनेनापि सविशेषत्वसिद्धिः इति वरलाभकथनं सविशेषत्वोपपादकमिव्यभिप्रायः । भगवच्छब्देन ज्ञानवस्त्रमुक्तम् । वरलाभात् तदतिशयसिद्धिः । सोऽहमित्यादि । सोऽहम् — त्वयैव सर्वविद्यासु । । शिक्षितपूर्वोऽहमिति भावः । धर्मज्ञ – “विशेषोऽस्ति न सतां शिष्यपुत्रयोः” इत्येवंरूपधर्मज्ञ । यद्वा “आनृशंस्यं परो धर्मः” इति धर्मज्ञ । आनृशंस्यम् - आश्रित संरक्षण परत्वम् । “आश्रितेत्यानृशंस्यतः” इति वचनात् । महाभाग । परिपूर्णकृत्यं हि पर संरक्षणम् । किञ्चित्कारमप्यनपेक्ष्य रक्षकस्त्वमेवेति भावः । यथा यतो बभूव । ब्रह्मरुद्रादिषु कः कारणमिति ज्ञातुं यत इति प्रश्नः । कि वित्रधिष्ठानत्वं कारणत्वम्, उत परिणामित्वम् ? तत्रापि किं सद्वारकपरिणामित्वम्, उताद्वारकपरिणामित्वमिति प्रकार भेदजिज्ञासा यथेति प्रश्नः । कल्पभेदेन सृष्टिवैषम्यशङ्कया भविष्यतीति प्रश्नः । वृश्चिकस्य गोमयवृश्चिकोपादान कत्वदर्शनात् कल्पभेदेन उपादानादि मेदशङ्का धने । तत्रापि यतो यथेति पदयोः पूर्ववदर्थः । यतो यथा वभूवेति एकप्रश्नत्वशङ्का यन्मयमिति प्रश्नान्तरूपवधानेन निरस्यते । [ तच्च ? ] यथा कारणं ज्ञातत्र्यम्, तथा सृष्टिप्रकारोऽपि प्रथग् ज्ञातव्य इति ज्ञापनार्थम् । ज्ञातव्यत्वेऽपि प्राधान्यद्ये।तनाय प्रकारनश्नः पूर्वमेव कृतः । यत इति हेतौ पञ्चमी । अतो निमित्तोपादानयोस्तन्त्रेण प्रश्नः । अन्तस्थित्याद्युपयुक्तात्मशरीर भावप्रश्नः यन्मयमिति । मयटूप्रत्ययः प्राचुर्यार्थः । अनेन व्याप्तिर्दर्शिता । व्याप्यात् व्यापकप्राचुर्य हि घटाकाशादौ दृष्टम् । आत्मतया हि व्याप्तिः । आत्मत्वञ्च धारकत्वम् । अतोऽन्तर्यामिकृत सत्तानुवृत्तिलक्षणस्थितिप्रश्नः फलितः । यन्मयम् येनान्तर्यामिणा धारकेण प्रचुरं जगत् स्थितमित्यर्थ उक्तो भवति । अन्तः प्रविश्य प्रशासनेन धारकत्वं स्थितिहेतुत्वमिति हि प्रागेव विशदीकृतम् । चशब्दात् बहिर्भूत पोषकादिकृता पोषणादिलक्षणा स्थितिः, मातापित्रादिभिः कार्या इष्टप्राप गानिष्टनिवारणलक्षणा स्थितिश्च पृष्टा भवति । यत इत्युपादानस्यापि पृष्टत्वात् मयट् प्राचुर्यार्थ एव । न च गोबलीवर्दन्यायेन यत इति पञ्चर्म्यर्थः सङ्कोचयितव्यः, बलीवर्दशब्दवत् मयटोऽनन्यथासिद्धत्वाभावात् सङ्कोचकत्वानुपपत्तेः । पदान्तरवैयर्थ्य परिजिहीर्षया पदान्तरार्थसङ्कोचो गोबलीवर्दनय इति हि न्यायविदः । अत्र तु मयटोऽर्थान्तरसंभवात् नायं सङ्कोचकः । यत इति पदं निमित्तमुपादानं च बोधयितुं शक्तम् । स्थितिप्रश्नोऽपेक्षितश्च । अतोऽपेक्षितविधेरनपेक्षितनिधानं दुर्बलम् । 1 1 परदेवतायाः पारमार्थ्यम् – अवैपरीत्यम् । वस्तुतो या परदेवता, तस्यामेव परदेवतात्वज्ञानवतः ।
२३२ जिज्ञासाधिकरणम् १-१-१ (प्रश्नोत्तरयोरद्वैतविषयत्वायोगः) अत्र ब्रह्मस्वरूपविशेष-तद्विभूतिभेदप्रकार तदाराधनस्वरूप - फलविशेषाश्च पृष्टाः । ब्रह्मस्वरूपविशेषप्रश्नेषु यतश्चैतच्चराचरमिति निमित्तोपादानयोः पृष्टत्वात्, यन्मयमित्यनेन सृष्टिस्थितिलयकर्मभूतं जगत् किमात्मकमिति पृष्टम् । तस्य चोत्तरम्, जगच्च स इति । इदञ्च तादात्म्यमन्तर्यामिरूपेणाऽऽत्मतया व्याप्तिकृतम् ; न तु व्याप्यव्यापकयोर्वस्त्वैक्यकृतम् ; यन्मयमिति प्रश्नस्योत्तरत्वात् जगच्च स इति सामानाधिकरण्यस्य । यन्मयमिति मयडत्र न विकारार्थः; पृथक् प्रश्नवैयर्थ्यात् । / ‘यतो वा इमानि’ इत्यादिश्रुतावपि यत इति पदेनैव निमित्तोपादानयोरुक्तत्वात् श्रुतिच्छायानुविधानाच्च यत इति तन्त्रेण प्रश्न इति, यन्मयमिति स्थितिप्रश्न एव क्रियते । अर्थान्तरस्वीकारे अपेक्षितावचनमनपेक्षितवचनं च स्यात् । नापि स्वार्थिको मयट् ; प्रत्ययस्यार्थवत्वे संभवति तत्परिख्यागस्यान्याय्यत्वात् । अतो यथोक्त एवार्थः । लयस्थानप्रश्नो लयप्रकार प्रश्नश्च अनधीतशाखान्तरेषु स्थानभेदप्रकारभेदशङ्कया कृतः । देवतान्तरस्य लयस्थानत्वं तत्रापि सद्वारकत्वाद्वार कत्य कार्यभ्रमनिवृत्तिरूपताख्यप्रकारभेदश्च हि शङ्कास्पदं भवति . भूतभविष्यःप्रश्नश्च कल्पभेदेन लयस्थानप्रकारभेदशङ्कया कृतः । चकारात् लयकर्तृप्रश्नश्च सूचितः । स च कर्तृभेदशङ्कानिबन्धनः । स्वरूपप्रश्न श्लोकद्वयं व्याचिख्यासितश्लोकापेक्षितत्वेनोदाहृत्य आदिशब्देन प्रश्नान्तरश्लोकाः क्रोडीकृताः । विष्णोस्सकाशादिति श्लोकस्यार्थान्तर प्रश्नोत्तररूपत्वशङ्का व्युदासार्थं तेषां श्लोकानामर्थं संप्रहेणाह अत्रेति । ब्रह्मस्वरूपेति स्वरूपशब्दो विभूत्यादिव्यावर्तकः । स्वरूपविशेषशब्दो ब्रह्मादिव्यावर्तकः । विभूतिभेदानां प्रकारो विभूतिभेदप्रकारः । स च ज्योतिश्चक्रभुवनकोशादिप्रश्नेऽन्तर्गतः । वर्णाश्रमधर्मादिप्रश्नेन तदाराधनस्वरूपं पृष्टम् ; प्रतिवचने फलविशेषोक्तिदर्शनात् । ‘प्रतिवचनप्रकारेण प्रश्नार्थो विज्ञायते’ इति नीत्या फलविशेषश्चात्र पृष्टो भवतीति पूर्वोक्तेषु प्रश्नेष्वन्तर्भावित इत्यभिप्रायेण फलविशेषाश्च पृष्टा इत्युक्तम् । प्रयोजनमाराधनं पृष्टमिति तत्र तदन्तर्भावः । अयमेवार्थः सकलश्रुतीतिहासपुराणानां प्रतिपाद्य इति भावः । ततः किं प्रस्तुतश्लोकार्थस्येत्यपेक्षायां यन्मयमिति पदस्यार्थं सोपपत्तिकमाह ब्रह्मस्वरूपेति । सृष्टिस्थितिलयकर्मभूतमिति पदं सृष्टिप्रलययोरुक्तत्वेन स्थितिकथनस्यापेक्षितत्वज्ञापनार्थम् । स्थितिलयशब्दाभ्यां रक्षासंहारौ वित्रक्षितौ स्थितिलययोः प्रयोज्यव्यापारत्वेन तदाश्रयत्वेन तत्कर्मत्वाभावाज्जगतः । सृष्टिस्थितिलय कर्मभूतं जगत् स्थित्यर्थं किमात्मकं भवतीति प्रश्नार्थः । ततः किमित्यत्राह तस्यचेति । जगच्च स इति सामानाधिकरण्यप्रतिपन्नं तादात्म्यं स्वरूपैक्यलक्षणमाशङ्कय परिहरति इदं चेति । इदम् — सामानाधिकरण्यप्रतिपन्नमित्यर्थः । गगनादौ व्याप्तिमात्रेण तादात्म्यं न दृष्टमिति तद्व्यावृत्यर्थमात्मत्वं विवृणोति अन्तर्यामिरूपेणेति । अन्तः प्रविश्य नियन्तृत्वं ह्यात्मत्वम् व्याप्यव्यापकयोरिति । जगद्ब्रह्मणोर्व्याप्यत्वेन व्यापकत्वेन च श्रुतिसिद्धत्वादिति भावः । न तु वस्त्वैक्य कृतमिति प्रतिज्ञामुपपादयति यन्मयमिति । विकारार्थत्वमाशङ्कय परिहरति यन्मयमिति मयडिति । विकारार्थत्वे उपादानं पृष्टं स्यात् । न च तत् प्रष्टव्यम्; यत इति पञ्चम्यन्तपदेन उपादानस्यापि पृष्टत्वात् । अतः G 1 लयस्थानत्वं सद्वारकं वा अद्वारकं वा, लयः कार्यस्य वास्तवतया तन्निवृत्तिरूपो वा, उत कल्पित तया भ्रमनिवृत्तिरूप एव वेति प्रकारेत्यर्थः । ।
२३३ नापि प्राणमयादिवत् स्वार्थिकः; ‘जगच्च स’ इत्युत्तरानुपपत्तेः । तदा हि, विष्णुरेवेत्युत्तरमभविष्यत् । अतः प्राचुर्यार्थ एव । “तत्प्रकृतवचने मयटू” इति मयट् । कृत्स्नं च जगत् तच्छरीरतया तत्प्रचुरमेव । तस्मात् यन्मयमित्यस्य प्रतिवचनं जगच्च स’ इति सामानाधिकरण्यं जगद्ब्रह्मणोः शरीरात्मभावनिबन्धनमिति निश्चीयते । पृथक्प्रश्नवैयर्थ्यम् । न च गोबलीवर्दन्यायः, अर्थान्तरसंभवादिति । अपेक्षितविधेरनपेक्षितविधानं दुर्बलमिति न्यायश्चाभिप्रेतः । ब्रह्माज्ञानत्रादिनोऽभिमतं स्वार्थिकत्वपक्षं दूषयति । न तु भेदाभेदपक्षाभ्युपगतम् । तत्तु दूषयिष्यते । न ह्यर्ये संभवति निरर्थकत्वाश्रयणमुपपन्नमिति भावः । श्रुतार्थस्वीकारेणाश्रुतकल्पनं चितम् ; न तु श्रुतपरित्यागः । ब्रह्माज्ञानवादिनाऽभ्युपगतस्य स्वार्थिकत्वस्य असाधारणं दूषणमाह-जगदिति । स्वार्थिकत्वपक्षे यदिदं जगत् तत्किमित्युक्तं स्यात् । यदिदं जगत् तत्कि - मित्युक्ते ज्ञातस्य जगद्रूपमात्रस्य प्रष्टव्यत्वायोगात् प्रश्तावैयर्थ्याय, तत् किं सत्यम् उत मिथ्या इति पृष्टं भवतीत्यभ्युपेतव्यम् । तत्र मिथ्येत्युत्तरं वक्तव्यम् । तत्रान्यतराकारोपस्थापके आकारान्तरनिषेध के च शब्दे वक्तव्ये आकारद्वयोपस्थापकं सामानाधिकरण्यमनुपपन्नमित्यर्थः । वाधार्थं सामानाधिकरण्यमिति चेत्-तन्नास्ति, माता मे वन्ध्येतिवत् ‘सामानाधिकरण्यं बाधार्थम्’ इति व्याहतत्वादिति भावः । तर्हि कथमुत्तरं स्यादित्यत्राह तदा हीति । विष्णुरित्यन्यतराकारोपस्थापकः शब्दः, आकारान्तरनिषेधकशब्द एवकारः । साक्षादर्थमाह अत इति ।
- स्वार्थिकत्वविकारार्थत्वयोरनुपपन्नत्वादित्यर्थः । शब्दानुशासनानुमति दर्शयति तदिति । प्रकृतम्प्रकर्षेण कृतम् ; प्रभूतम् ; प्रचुरमित्यर्थः । ‘अन्नमयो यज्ञः’, ‘शकटमयी यात्रा’ इति हि तस्योदाहरणम् । किमत्र प्राचुर्यमस्तीत्यत्राह कृत्स्नश्चेति । अन्तर्बहिश्च व्याप्येत्यादिश्रुतेस्तदुपपन्नमिति भावः । सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्वं प्रतिपिपादयिषितमुपसंहरति तस्मादिति ॥ यन्मयमित्यस्य प्राचुर्यार्थत्वेन तस्योत्तरत्वात् जगच्च स इति सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्वम् ; तेन स्वार्थिकत्वनिवृत्या यन्मयमिति मयट्प्रत्ययस्य प्रचुर्यार्थत्वमित्यन्योन्याश्रय इति चेत् — नैवम् ; मयप्रत्ययस्य स्वर्थिकत्वनिवृत्तेः प्राचुर्यार्थत्वनिर्णयस्य च सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्वानपेक्षत्वात् । स्वार्थिकत्वं तावत् अर्थवत्वे सम्भवति निरर्थकत्व स्वीकारायोगादपास्तम् ; जगच्च स इति सामानाधिकरण्येन च अपास्तम् । स्वार्थिकत्वे सति आकारद्वयोपस्थापकं सामानाधिकरण्यस्योत्तरत्वायोगात् ; न तु शरीरात्मभावनिबन्धनत्वायोगात् । न च सामानाधिकरण्यस्य प्रवृत्तिनिमित्त भूताकारद्वयोपस्थापकत्वं मयट्प्रत्ययस्य स्वार्थिकत्वनिवृत्तिसापेक्षम्, सामानाधिकरण्यलक्षणस्वभावादेव तस्याकारद्वयोपस्थापकत्वसिद्धेः अतो मयट्प्रत्ययस्य स्वार्थिकत्वनिवृत्तिः सामानाधिकरण्यस्याकारद्वये।पस्थापकत्वादित्यत्रं नान्योन्याश्रयः । एवं स्वार्थिकत्वे व्युदस्ते, पृथक् प्रश्नवैयर्थ्येन “विकारार्थत्वेऽनुपपन्ने, परिशेषाच्च स्थितेः प्रष्टव्यत्वे सति, स्थितिस्वाभाव्यात् अनुशासनानुरोधाच मयटूप्रत्ययस्य प्राचुर्यरूपार्थविशेषपरत्वसिद्धिः । ततेो जगच्च स इति सामानाधिकरण्यस्य शरीरात्मभावरूप- । सामानाधिकरण्यस्य उत्तरत्वं समानाधिकरणस्य जगच्चस इति वावयस्योतरत्वं न स्यात् एकार्थवाचित्वाभावादित्यर्थः । यदि त्वार्थिकत्वं स्यात्, शरीरात्मभावनिबन्धनत्वं न स्यादिति नोच्यते । किं तर्हि ? यदि स्वार्थिकत्वं स्यात्, प्रत्ययवैयर्थ्यं स्यात्, जगच स इत्यस्य भिन्नार्थवाचितया सामानाधिकरण्यरूपोत्तरत्वं च न स्यात् । न जगत् किं तु स एवेति हि वक्तव्यमिति भावः । श्र० 30
२३४ जिज्ञासाधिकरणम् १-१-१० ( जगच्चस इति मयडर्थगर्भता ) ‘अन्यथा - निर्विशेषवस्तुप्रतिपादनपरे शास्त्रेऽभ्युपगम्यमाने, सर्वाण्येतानि प्रश्नप्रतिवचनानि न सङ्गच्छन्ते; तद्विवरणरूपं कृत्स्नं च शास्त्रं न सङ्गच्छते । तथा हि सति, प्रपञ्चभ्रमस्य किम् अधिष्ठानमित्येवंरूपस्यैकस्य प्रश्नस्य निर्विशेषज्ञानमात्रमित्येवं रूपमेकमेवोत्तरं स्यात् । जगद्ब्रह्मणोरेकद्रव्यत्वपरे च सामानाधिकरण्ये सत्यसङ्कल्पत्वादिकल्याणगुणैकतानता निखिल हेय प्रत्यनी - कता च बाध्येत; सर्वाशुभास्पदं च ब्रह्म भवेत् । आत्मशरीरभाव एवेदं सामानाधिकरण्यं मुख्यवृत्तमिति स्थाप्यते । अतः, “विष्णोः सकाशादुद्भूतं जगत् तत्रैव च स्थितम् । स्थितिसंयमकतोऽसौ जगतोऽस्य जगच्च सः ॥” प्रवृत्तिनिमित्तविशेषसिद्धिरिति नान्योन्याश्रयः । एवं सामानाधिकाण्यस्य मृषावाद्यभिमतैक्यपरत्वे मयडानर्थक्यं सामानाधिकरण्यानुपपत्तिश्चेति दूषणद्वयम् स्वरूपैक्यपरत्वेऽर्थविरोधः यन्मय मित्युक्त प्रश्नोत्तरत्वानुपपत्तिश्चेति दूषणद्वयं च दर्शितं भवति । स्वोक्तार्थपरत्वानभ्युपगमे दूषणमाह अन्यथेति । अन्यथा कथं प्रश्नप्रतिवचने स्यातामित्यत्राह तथा हि सतीति । , सामानाधिकरण्यस्य भेदाभेदवाद्यभ्युपगत कद्रव्यतापरत्वं दूषयति जगदिति । अस्मिन्नपि पक्षे जगत् यन्मयं-जगत् यद्द्द्रव्यमिति पृष्टं स्यात् । तदानीं मयड्वैयर्थ्यमस्तीति द्रष्टव्यम् ; यत इत्युपादानस्य पृष्टत्वात् । अधिकं दूषणमाह सत्येत्यादिना । सत्यसङ्कल्पेत्यादिना जीवगतदोषः, सर्वाशुमेत्यादिना प्रकृतिगतदोषश्च ब्रह्मणि प्रसज्यत इत्युक्तम् । यद्वा उपलिका निर्वताकार प्राप्तिश्वेत्यर्थः । शरीरत्राचिपदस्य शरीरिपरत्वे मुख्यत्वं न स्यादित्यत्राह आत्मशरीरेति । स्थाप्यते - स्थापयिष्यत इत्यर्थः । अनन्तरभावित्वात् स्थाप्यत इत्युक्तम् । ः एवं प्रकृत श्लोकव्याख्यानौपयिकार्थः प्रपञ्चितः । अथ शास्त्रार्थसंग्रहानन्तरं विस्तरोपक्रमे 2 सप्तश्लोकीं नमस्कारविषयामवतार्य व्याख्येयश्लोकस्य नमस्कार श्लोकान्तरैः सङ्गतिं दर्शयितुम् अविकारायेत्यादीनां षण्णां वाक्यार्थमाह अत इति । अतः –प्रश्नप्रतिवचनादिभिः शास्त्रस्य सविभूतिक सगुणवस्तुपरत्वावगमात्, सामानाधिकरण्यस्य विशिष्टवस्तुनि मुख्यवृत्तस्व चेति भावः । अत इत्यस्य व्यष्टिरूपेणावस्थितं च नमस्करोतीत्यनेनान्वयः । यद्वा शास्त्रवाक्यार्थस्यैवं रूपत्वात् ‘विष्णोः सकाशात्’ इत्यस्य सङ्घहरूपत्वम्, ‘परः पराणाम्’ इत्यादीनां विस्ताररूपत्वं च सिद्धमित्यर्थः । विष्णोः सकाशादित्यत्र सकाशादिति पदं षष्ठ्याः पञ्चम्यर्थत्व संपादनार्थम् । यथाअस्य कृते इत्युके, कृते इति शब्दस्य चतुर्थ्यर्थत्वसंपादनपरत्वम्-तद्वत् । यद्वा सकाशात् ———ससङ्कल्पात् । काशनम् - प्रकाशनम्, सङ्कल्परूपज्ञानम्; तद्वत इत्यर्थः । अनेन निमित्तत्वसिद्धिः । यद्वा सकाशशब्दः पार्श्ववचनः । तेनः शरीरमुपलक्षितम् । “सोऽभिध्यायः शरीरात्स्वात् " इतिवत् शरीरादित्यर्थः । तत्रैव च स्थितमिति लयस्थान प्रश्नोत्तरम् । तत्र स्थितमिति स्थितम् निष्ठां गतम् । अनेन जगतो नित्यत्वम् अवस्थानामागमापायित्वं च सूचितम् । उयस्थान प्रश्नस्योत्तरमुक्तम् अथ लयकर्तृप्रश्नस्य बाह्यस्थितिप्रश्नस्य चोत्तरमाह स्थितीति । जगच्च स इति यन्मयमिति फलितस्य कृत्स्नान्तर्यामिरूपकृतसत्तानुवृत्तिलक्षण स्थितिप्रश्नस्योत्तरम् । यद्वा यन्मयमिति फलितस्थितिप्रश्नस्यापि स्थितिसंयमकर्तेत्येवोत्तरम् । जगच्च स इति तु यन्मयमिति कण्ठोक्तस्यार्थस्योत्तरम् । इदं सामानाधिकरण्यमात्मतया व्याप्तिनिबन्धनमिति पूर्वमेवोपपादितम् ॥ 1 अन्यथेतिपदं जगद्ब्रह्मणोरिति वाक्येऽप्यनुषज्यते । 2 सप्तश्लोकी स्मृतिपुराणविचारावसाने द्रष्टव्या ।
(सप्तश्लोक्यर्थः) २३५ इति संग्रहेणोक्तमर्थं ‘परः पराणाम्’ इत्यारभ्य विस्तरेण वक्तुं परब्रह्मभूतं भगवन्तं विष्णुं स्वेनैव रूपेणावस्थितम् ‘अविकाराय’ इति श्लोकेन प्रथमं प्रणम्य, तमेव हिरण्यगर्भ - स्वावतार - शङ्कररूपत्रिमूर्ति - प्रधान-काल-क्षेत्रज्ञसमष्टि व्यष्टिरूपेणावस्थितञ्च नमस्करोति । नतु निष्कर्षकशब्दानां शौक्ल्यादीनां धर्मिपर्यन्तत्वं न दृष्टम् । यन्मयं जगदित्यनेन जगच्छब्दस्य निष्कर्षकशब्दत्वं दृष्टमिति धर्मिपर्यन्ताभिधायित्वाभावात् जगच्च स इति सामानाधिकरण्यमनुपपन्नमिति चेत् — उच्यते । निष्कर्षकशब्दा हि द्विविधा, नियतनिष्कर्षकाः वैवक्षिकनिष्कर्षकाश्च । तत्र शौक्ल्यादिशब्दा नियत निष्कर्षकाः; मनुष्यशुक्लादिशब्दा वैवाक्षिकनिष्कर्षकाः प्रयोगस्य नियामकत्वात् । अन्यथा निष्कर्ष कानिष्कर्षविभागोऽपि नोपपद्यते । तथा जगच्छन्दोऽपि वैवक्षिकनिष्कर्षक इति । अत एव यन्मयमिति वैयांधेकरण्येन प्रश्नस्य जगच्च स इति सामानाधिकरण्येनोत्तरमर्थभेदाभावादुपपन्नम आश्रयः कः इति प्रश्नस्य शुक्लः पटः इत्युत्तरवत् । एवं सङ्क्षेपेणोक्तस्य वक्ष्यमाणमहाविस्तरस्यार्थस्येषद्विस्तररूपेण लोकैर्नमस्कारः क्रियत इति नमस्कार श्लोकसङ्गतिः । स्वैनैव रूपेणावस्थितम् - न तु प्रकृत्यादिविशिष्टमित्यर्थः । परब्रह्मणो हि हेयसंबन्धाभावः, न तु विष्णोरिति शङ्कायाम् ‘विष्णुनामा स वेदेषु,’ ‘समस्तहे यरहितं विष्ण्त्राख्यं परमं पदम्’ इति वचनात् ब्रह्मण एव विष्णुशब्दवाच्यत्वात् विष्णोरेव भगवच्छन्द वाच्यत्वाच्च विष्णायसम्बन्धोऽनुपपन्न इत्यभिप्रायेण परब्रह्म भूतमित्यादिविशेषणमुक्तम् । शुक्लगुणस्य । 1 अविकाराय । विकारशब्दो धर्मिपरो धर्मपरश्च; “षोडशकश्च विकारः” इत्यादिप्रयोगात् । स्वयं कस्यचिद्विकारभूतः - कार्यभूतो न भवतीत्यविकारः । अनेन कार्याचिद्व्यावृत्तिः । यद्वा विकारः——अवस्था महत्वाहङ्कारत्वादिः ; नित्यं तत्सम्बन्धविरहादविकारः । अतो विकारवती प्रकृतिरविकारपदेन व्यावर्त्यते । एवं तत्पुरुषबहुव्रीहिभ्याम् अविकारायेति पदेन कार्यकारणरूपाभयावस्थाचिन्यावृतिः । शुद्धयेति बद्धव्यावृत्तिः । नित्याय शुद्धत्वेन नित्याय । अन्यथा अविकारायेत्यनेन पुनरुक्तिः स्यात् । नित्यमदं नित्य] शुद्धिं विशिषदेव शुद्धिमद्वस्तुविशेषणम् ; यथा महोदार इत्यत्र महच्छद औदार्य विशिषन्नेव दातुर्विशेषणम्, तद्वत् । अतो मुक्तव्यावृत्तिः । परमात्मने इति नित्यमुकव्यावृत्तिः । ते हि परवन्तः । न तु परमाः । ‘प्रधानं पुरुषव्यक्तकालानां परमम्’ इति वक्ष्यमापात्वात् । अविकारायेत्यादिना पदचतुष्टयेन प्रधानपुरुषव्यक्त कालव्यावृत्तिरिति केचित् । निमेषाद्यवस्यकालस्य व्यक्तस्याप्यविकारपदव्यावर्तितत्वात् पुरुषत्रैविध्यस्यैव प्रामाणिकत्वात् विशेषणानां तद्व्यावर्तनसमर्थत्वाच्च यथोक्तानामेवार्थानां व्यावर्तितत्वमुचितम् । विलक्षणविग्रहवत्तयाऽपि समस्तवैलक्षण्यमाह सदैकरूपरूपायेति । प्रथमो रूपशब्दः स्त्रभान्रवाची; एकस्वमात्रमित्यर्थः । परव्यूहविभवादिसर्वावस्थासु सकलहेयप्रत्यनीकत्वमङ्गलास्पदत्वध्येयत्वादिस्वभावोऽप्रच्युत इत्यर्थः । यद्वा एकरूपम् - दिव्यात्मस्वरूपेण समानस्वभावम् । तेनापि हेयप्रत्यनीकत्वादिसिद्धिः । एभिः पदैरीचन्यानन्दमयाधिकरण-अन्तरादिव्यविद्यार्थी विवक्षिताः । पूर्वोक्तमात्मत्वं न’ ‘मृदात्मको घट’ इतिवद्भवतीति तद्वैशद्यमत्रयवशक्त्या क्रियते विष्णुशब्देन, सर्वजिष्णव इति पदेन च । पदद्वयेन नृपनभोव्यावृत्तिः, । अन्तः प्रविश्य नियन्तृत्वं हि शरीरित्वम् । अत एवमात्मत्वं 1 नियतेत्यादिपदद्वये निष्कर्षशब्दात् बहुव्रीहिकप्रत्ययः ।
२३६ जिज्ञासाधिकरणम् १-१-१. (सप्तश्लोक्यर्थः ) विवृतं भवति । विष्णुशब्दस्य रूढत्वाद्देवताविशेषनिर्णयश्च सिद्धः । यद्वा विष्णुशब्देनैव नियमनपर्यन्तव्याप्तिरुक्ता, व्याप्तिकृत तद्गतदोषस्पर्शशङ्कां व्युदस्यति सर्वजिष्णव इति । कथं विष्णोः कारणत्वम् ; हिरण्यगर्भादीनां हि सृष्ट्यादिकारणत्वमवगम्यत इत्यत्राह नम इति । तत्तच्छरीरको विष्णुरेव सष्टयादिकं करोतीत्यर्थः । ‘रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्’ इत्युक्तविष्ण्त्राख्यावतारविग्रहद्वारा भगवत्पर्यन्तो हरिशब्दः । हिरण्यगर्भशङ्करशब्दी जीवद्वारा भगवत्पर्यन्ताविति — “ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा । विष्णुमायामहावर्तमोहान्धतमसावृताः” इति ‘हिरण्यगर्भादिषु च ब्रह्म. कर्मात्मिका द्विधा’ इति ‘हिरण्यगर्भो भगवान्’ इत्यारभ्य ‘मूर्तमेतद्धरे’ रूपं भावनात्रितयात्मकम् । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः” इत्याद्येतत्प्रबन्धस्य श्लोक तात्पर्यनुरोधात, “एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टिसंहारकार कौ”, “तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न प्राह्यः केनचित् कचित्” इति भारतादिवचनैकार्थ्याच्च निश्चीयते । हिरण्यगर्भादिसामानाधिकरण्यं व्याप्तिकृतमिति सूचयति वासुदेवायेति । ब्रह्मशिवमध्यस्थोऽप्यप्रच्युतस्वभाव इत्याह तारायेति । यद्वा तेषु त्रिष्वप्ययमेव मोक्षप्रद इत्यर्थः । “अथ कस्मादुच्यते तारम् ? यस्मादुच्चार्यमाण एव गर्भजन्मजरामरण संसारमहाभयात् तारयति, तस्मादुच्यते तारम्” इति श्रुतेः । " ब्रह्मविष्णुशिवाः ब्रह्मन् ! प्रधानाः ब्रह्मशक्तयः” इत्यादिभिः विष्णोः परं तत्त्वं विष्णोश्चतुर्मुखादिसाम्यं च न शङ्कनीयम् । शक्तिरपृथक्सिद्धविशेषणम् । तत्र धर्मिण्यसमानविभक्तिनिर्दिष्टे धर्मिपर्यन्तस्यापि शब्दस्य धर्ममात्रपरत्वं दृष्टम्, पटस्य शुक्ल इत्यादिषु । तथा विष्णुशब्दो विशेषण भूतविममात्रपरः; असमानविभक्तिना ब्रह्मशब्देन धर्मिणः पृथङ्निर्दिष्टत्वात् । ब्रह्मणः शक्तयो हि ब्रह्मशक्तयः । अतोऽसमान विभक्तिनिर्दिष्टत्वमिति । यद्वा भगवतो देवमनुष्यादिशब्दव्यपदेशवत् शक्तिविभूत्यादिशब्दव्यपदेशोऽपि विभूतिसाजात्यात् । यथाऽऽदुः श्रीवत्साङ्गमिश्राः, “संजीतायस्तेषामिति तु विभवाख्यामपि भजन्” इति । अतो यथोक्त एवार्थः । अथ केवलप्रकृतिकारणव्यावृत्त्यर्थं प्रकृतिविशिष्टं परमात्मानं नमस्करोति एकानेकेति । कारणावस्थायामेकः, कार्यावस्थायामनेकः । अथ धीस्थां कार्यावस्थामाह स्थूलेति । तथा बुद्धिस्थां कारणावस्थामाह अव्यक्तेति । तत्राप्यप्रच्युतस्वभावत्वमाह मुक्तिहेतव इति । अथ कालविशिष्टमाह - सर्गेति । कालस्य वक्ष्यमाणविशेषणोपपत्तेः प्रकरणस्य विशिष्ट परत्वाद्विशेपणान्तरविशिष्टतायाः प्रतिपादितत्वेन कालविशिष्टता कथन पारिशेष्यात् तदप्रतिपादने अपेक्षित विध्यभावप्रसङ्गात् केवलं ब्रह्मस्वरूपकारणपरत्रे अण्डान्तर्गतसर्गादेरु तत्वादण्डबाहि भूततत्व सर्गादिर्वक्ष्यमाणत्वाच्च पौनरुक्त्यप्रसङ्गात् विस्तरे च “ प्रधानपुरुषव्यक्त कालानाम्”, “व्यक्तं विष्णुस्तथाऽव्यक्तः पुरुषः काल एवं च”, “तथा पुरुषरूपेण कालरूपेण च स्थितम्”, “ब्रह्मा दक्षादयः कालः” इत्यादिभिर्व्यक्ताव्यक्तादिभिः सह वक्ष्यमाणत्वादयं श्लोकः कालपर एव । अचिद्विशिष्टवाचि श्लोकानन्तर्यादस्य इलोकस्य कालपरत्वमुचितम् । उत्तरश्लोकः समष्टिजीवररः, व्यष्टिजीव परश्लोक साहचर्यात् । कालस्य सर्गस्थितिविनाशमूलभूतत्वं ‘ब्रह्मा दक्षादयः कालः’ ‘विष्णुर्मन्वादयः कालः’, “रुद्रः कालोऽन्तकाद्याश्च” इत्यादिषु सिद्धम् । जगन्मयः — अवच्छेदकतया अवच्छेद्यतया च जगत्प्रचुरः ।
(चोद्यपरिहारयोरनुपपत्तिः) २३७ तत्र ‘ज्ञानस्वरूपम्’ इत्ययं श्लोकः क्षेत्रज्ञव्यष्ट्रयात्मनाऽवस्थितस्य परमात्मनः स्वभावमाह । तस्मान्नात्र निर्विशेषवस्तुप्रतीतिः । यदि निर्विशेषज्ञानरूपब्रह्माधिष्ठानभ्रमप्रतिपादनपरं शास्त्रम, तर्हि, - “निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते” इति चोद्यम्, “शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रोष्ठ ! पावकस्य यथोष्णता ।” इति परिहारश्च न घटते । तथा हि सति ‘निर्गुणस्य ब्रह्मणः कथं सर्गादिकर्तृत्वम्’, ‘न ब्रह्मणः पारमार्थिकः सर्गः, अपितु भ्रान्तिपरिकल्पितः’ इति चोद्यपरिहारौ स्याताम् । उत्पत्त्यादिकार्यं सत्त्वादिगुणयुक्तापरिपूर्णकर्मवश्येषु दृष्टमिति सत्त्वादिगुणरहितस्य परिपूर्णस्या कर्मवश्यस्य कर्मसंबन्धानर्हस्य कथं सर्गादिकर्तृत्वमभ्युपगम्यत इति चोद्यम् । अथ क्षेत्रज्ञसमष्ट्यात्मनाऽत्रस्थितं नमस्यनि आधारभूतमिति । अचेतनस्य चेतनः स्वरूपेणाधारभूतः " एवमेवैता भूतमात्राः प्रज्ञामात्रास्त्रर्पिताः”, “जीवभूतां महाबाहो ! ययेदं धार्यते जगत्” इति वचनात् । अणीयस्त्वम् - प्रकृतेरपि व्यापनयोग्य सूक्ष्मत्वम् । यद्वा ‘विकासाणुस्वरूपैश्च’ इत्युक्तप्रकारेण सर्गदशायामिव ज्ञानविकासाभावादणीयस्त्वमेवेत्यर्थः । सर्वभूतस्थम् - भवतीति भूतम् ; पृथिव्यन्तेषु सर्वतत्त्वेष्ववस्थितम् । अनन्तरं क्षेत्रज्ञव्यष्टिविशिष्टं नमस्करोति ज्ञानेति । हिरण्यगर्भेव्यादिभाष्ये निर्दिष्टेष्वर्थेष्वयं श्लोकः किंविशिष्टपरमात्मपर इति शङ्कायां समासान्तर्गतं प्रस्तुतश्लोकार्थं विविच्य दर्शयति तत्रेति । परमात्मनः सद्वारेक एव भ्रमान्वयं इत्यर्थः । ततः किमित्यत्राह तस्मादिति । निर्विशेषज्ञानपरत्वे प्रश्नोत्तरवरलाभकथनानुपपत्तिमुखेनोपक्रमविरोध उक्तः । अथोपरितनाध्यायगत चोधपरिहारा
ननुगुणत्वमुच्यते यदीति । यद्वा शास्त्रारम्भोपयोगिप्रश्नोत्तरानुपपत्तिरुक्ता । इदानीमेतत्प्रश्नोत्तरविशेषानुपपत्तिरुच्यते यदीति । पूर्वाध्याये, ‘जुषन् रजोगुणम्’ इत्यादिना गुणान्वये कथितेऽपि निर्गुणस्येति चोदयतोऽयमभिप्रायः——गुणान्वयस्य सङ्घारकत्वात् स्वयं निर्गुण इति । निर्विशेषपक्षे अप्रमेयस्येत्यादिपदवैयर्थ्यम्; निर्गुणस्येति पदेनैव निर्विशेषत्वसिद्धेः परिपूर्णत्वादिगुणानभ्युपगमाच्च । अप्रमेयादिपदान्तर समभिव्याहार एवं निर्गुणपदोपस्थापित निषेधस्य सङ्कुचितविषयत्वसाधकः । न घटत इति । ‘सर्गाद्या भावशक्तयः’ इति सर्वशक्तियोगेन चोद्यस्य परिहारात् निर्विशेषपक्षा
ननुगुणत्वमिति भावः । तर्हि कथं चोद्यपरिहारौ स्यातामित्यत्राह तथा हि सतीति । निर्गुणस्य ब्रह्मण इत्यनेन पदान्तरवैयर्थ्यमभिप्रेतम् । निर्विशेषस्य कर्तृत्वानुपपत्ति चोंधे कृते, ‘कर्तृत्वस्य पारमार्थे सति हि तदनुपपत्तिः, अपरमार्थत्वादूदुर्घटत्वमेव भूषणम्’ इति परिहारो वक्तव्य इत्यर्थः । किमर्थाविमौ चोधपरिहारौ, यद्ययमर्थो न प्रतिपाद्यत इति शङ्कायाम् — स्वयमेव तच्चोद्य परिहारशरीरमाह उत्पत्त्यादीति । निर्गुणस्येत्यादिविशेषणानां विपरीताकारैः कर्तृत्वस्य व्याप्तिं कथमित्यनेनाभिप्रेतां दर्शयति सत्त्वादिगुणयुक्तेत्यादिना । सत्वादिगुणयुक्तापरिपूर्णकर्मवश्यत्वानि निर्गुणत्वादीनां यथाक्रमं विपरीताकाराः । अमलात्मन इत्यस्य विपरीताकारोऽपि कर्मवश्येत्यनेनार्थसिद्धः । अमलात्मत्वम् – अमलस्वभावत्वम्, कर्मसम्बन्धानत्वम् ; तद्विपरीताकारः कर्मसम्बन्धार्द्दत्वम् । तच्च कर्मवश्यशब्देनार्थसिद्धम् । कर्मसम्बन्धार्हत्वकार्यं हि कर्मवश्यत्वम् । निर्गुणस्ये-
२३८ जिज्ञासाधिकरणम् १-१-१. ( परमार्थइति श्लोकार्थः) दृष्टसकलविसजातीयस्य ब्रह्मणो यथोदितस्वभावस्यैव जलादिविसजातीयस्याग्न्यादेरौष्ण्यादिशक्तियोगवत् सर्वशाक्तियोगो न विरुध्यत इति परिहारः । ‘परमार्थस्त्वमेवैकः’ इत्याद्यपि न कृत्स्नस्यापारमार्थ्यं वदति। अपि तु कृत्स्नस्य तदात्मकतया तद्व्यतिरेकेणावस्थितस्यापारमार्थ्यम् । तदेवोपपादयति, “तवैष महिमा येन व्याप्तमेतच्चराचरम्” इति । येन त्वयेदं चराचरं व्याप्तम्, अतस्त्वदात्मकमेवेदं सर्वमिति त्वदन्यः कोऽपि नास्ति । अतः सर्वात्मतया त्वमेवैकः परमार्थः । -→ त्यादिपदानां यथाक्रममर्थमाह सत्त्वादिगुणरहितस्येत्यादिपदैः । कर्मसंबन्धानर्हस्येत्यनेन अमलात्मन इति पदं व्याख्यातं भवति । अकर्मवश्यत्वं मुक्तस्यापि विद्यते । स पूर्वावस्थायां कर्मसंबन्धित्वात् तदर्हः । अतस्तद्यावर्तकं कर्मसंबन्धानत्वममलात्मत्वम् । अकर्मवश्यत्वम् - कनैकृन सुखदुःखभाक्त्वाभावः । कर्मवश्यविसजातीयत्वं कर्मसम्बन्धानर्हत्यम् । सर्गादिकर्तृत्वे गुणत्रयवश्यस्व सापेक्षत्व कर्माधीन फलभाक्त्वकर्मसंबन्धार्हत्वप्रसङ्ग इति विशेषविरोधप्रसञ्जनेन चोद्यम् । अग्नेर्दव्यत्वेऽनुष्णत्वप्रसङ्ग तत्रत् अयं तर्कों धर्मिग्राहकप्रमाणबाधितः । अतो विसजातीयधर्मिणो बिसजातीयधर्मवत्त्वं युक्तम् ; अग्नित्वे सत्यपि वैद्युताग्नेर्जल निर्वाव्यत्वाभाववत् । अतः सर्वविसजातीयस्य ब्रह्मणः सर्वशक्तियोग उपपद्यत इति परिहार इत्यर्थः । शक्तयः सर्वभावानाम् इत्यस्य ग्रन्थस्यायमश्वरार्थः अचिन्त्यज्ञानगोचराः -अतर्क्य प्रमितिसिद्धाः सर्गाद्याः सर्गादिगोचराः, भावशक्तयःवस्तुशक्तयः । ब्रह्मणः वस्तुशक्तय इति निर्देशो ब्रह्मनादात्म्यमितिवत् ! । यद्वा ब्रह्मणे भावशक्तयः———-वस्तुशक्तयः । ब्रह्मणो वस्तुत्वप्रयुक्ताः सत्ताप्रयुक्ता निरुपाधिकाः शक्तय इत्यर्थः । यद्वा भावशब्दः स्वभावपरः; स्वाभाविक्यः शक्तय इत्यर्थः
अथ चतुः श्लोकों व्याचष्टे परमार्थ इति कृत्स्नस्य ब्रह्मपर्यन्तत्वेन तच्छरीरत्वात् कृत्स्नशरीरं ब्रह्मैव परमार्थः; अतत्पर्यन्तो मिध्येत्यर्थः । जगतः पते इत्याकाशव्यावृत्तिः येन व्याप्तमिति नृपव्यावृत्तिः । अनेन जगतः शरीरलक्षणं दर्शितं भवति । नियाम्यत्वधार्यत्वं शेषत्वष्यन्यतमं व्याप्यत्वसहचरं हि शरीरलक्षणद्योतकम् । जगच्छरीरक ! त्वदन्यो मिथ्येत्युक्ते. अत्यन्त स्वतन्त्र वस्त्वन्तरस्यैव मिथ्यात्वं स्यात्, न तु जगतस्तच्छरीरभूतस्य । यथा हे भूपते ! त्वदन्यो नास्तीत्युक्ते, न भूर्मिंध्या मवति, तत्तुल्यराजान्तरस्यैव तुं मिथ्यात्वम्-तद्वत् । यद्वा एकशब्दः प्राचान्यपरः । “एकादा किनिच्च । सहाये” इत्यत्रासहाय पदव्यवच्छेद्य हि 2 प्राधान्यम् । ब्रह्मणश्च प्राधान्यं जगत्प्रति विशेष्यत्वरूपम् । तदानीं नान्योऽस्तीति प्रधान भूतोऽन्यो निषिध्यते; न स्वप्रधानमर्थान्तरम् । उक्तार्थस्योपपादकं व्याप्यत्वप्रतिपादकमुत्तरार्द्धमित्याह तदेवेति । तत्र फलिनमर्थमाह येनेति । येनयस्मादित्यर्थः । त्वदन्यः -अवदात्मकः । त्वया आत्मतया व्याप्तत्वात् सर्वं त्वदात्म के स्वच्छ रिमिति त्वदन्यःअत्वदात्मको नास्ति । तस्मात् सर्वशरीरस्त्वमेव परमार्थ इत्यर्थः । तत्रैष महिमेनि श्लोका देश श्वोक्तार्थोपपादक
- इतिवदिति । ब्रह्मतादात्म्यमित्यत्रैकदेशतच्छब्देन ब्रह्मग्रहणवत् अत्र वस्तु (भाव) शब्देन ब्रह्मग्रहणमित्यर्थः । 2
ननु ‘एकादा किनिच्चासहाये’ इति सूत्रे असहायरूपार्थे एकशब्दात् आकिनिच कन् वा भवति । तस्य लुक् च । तेन एकाकी, एककः, एक इति रुपत्रयमिति कथनात् एकशब्दस्य संख्येव असहायत्वमप्यर्थः प्रतियते ; प्राधान्यरूपार्थे किं मानतित्यत्राह एकादिति 1 असहाये इति पदं नसंख्याव्यवच्छेदाय ; एकाकिनाविति द्विबहुवचन प्रयोगबलादेव तदर्थकत्वाभावसिद्धेः । अतः वारणार्थमेव तदिति, सिद्धः तेनैव सूत्रेण प्रधानादिरूपोऽर्थोपीति भावः । प्रधान्याद्यर्थ- (‘ज्ञान’ ‘येतु’ इति श्लोकद्वयार्थः) २३९ अत इदमुच्यते - तवैष महिमा या सर्वव्याप्तिरिति । अन्यथा तवैषा भ्रान्तिरिति वक्तव्यम् ; जगतः पते त्वमित्यादीनां पदानां लक्षणा च स्यात् । लीलया महीमुद्धरतो भगवतो महावराहस्य स्तुतिप्रकरणविरोधश्च । यतः कृत्स्नं जगत् ज्ञानात्मना त्वयाऽऽत्मतया व्याप्तत्वेन तव मूर्तम्, तस्मात् त्वदात्मकत्वानुभवसाधनयोगविरहिण एतत् केवलदेवमनुष्यादिरूपमिति भ्रान्तिज्ञानेन पश्यन्तीत्याह ‘यदेतद्दृश्यते’ इति । न केवलं वस्तुतस्त्वदात्मकं जगत् देवमनुष्याद्यात्मकमिति दर्शनमेव भ्रमः; ज्ञानाकाराणामात्मनां देवमनुष्याद्यर्थाकारत्वदर्शनमपि भ्रम इत्याह ‘ज्ञानस्वरूपमखिलम्’ इति । ये पुनर्बुद्धिमन्तो ज्ञानस्वरूपात्मविदः सर्वस्य भगवदात्मकत्वानुभवसाधनयोगयोग्य परिशुद्धमनसश्च, ते देवमनुष्यादिप्रकृतिपरिणामविशेषशरीररूपमिदमखिलं जगत् शरीरातिरिक्तज्ञानस्वरूपात्मकं त्वच्छरीरच पश्यन्ती- इत्याह अत इति । 1 महिम्नो व्याप्तिरूपत्वात्, या सर्वव्याप्तिरित्युक्तम् । न तु व्याप्तौ तात्पर्यात् । व्याप्ते हिमत्व एव तात्पर्यम् । यद्वा व्याप्तेरुक्तार्थोपपादकत्वं महिमसमभिव्याहारादित्याह अत इदमुच्यत इति । तस्य परप्रातिकूल्यं दर्शयति अन्यथेति । व्याप्यव्याध्यादेर्मिथ्यात्त्रे, ‘सर्वव्याप्तिस्तव महिम।‘इति न वाच्यम्, अपि तु भ्रान्तिरिति वक्तव्यमित्यर्थः । कृत्स्ना पारमार्थ्यपरत्वे दूषणान्तरद्वयमाह - जगतः पत इति । लक्षणा -अधिष्ठानलक्षणा । अब्रह्मात्मकवेन स्वतन्त्रतायाः प्रत्यक्षसिद्धत्वात् तद्विरुद्धं ब्रह्मपर्यन्तत्वं न शास्त्रं प्रतिपादयति, “आदित्यो यूपः” इतिवदिति शङ्कायाम्, अन्यथासिद्धायाः अपरोक्षरूपाया? अपि स्वतन्त्र्यप्रतिपत्तेः परोक्षरूपाप्यनन्यथासिद्धा पारतन्त्र्यप्रतिपत्तिर्बलीयसीत्यभिप्रायेण द्वितीयश्लोकमवतारयति यतः इति । पारतन्त्र्यप्रतिपत्तिः परमात्मप्रतिपत्तिसापेक्षा, तदभावात् तदभावात् तत्प्रतिपत्त्यभाव इत्यन्यथासिद्धा स्वातन्त्र्यप्रांतपत्तिरित्यर्थः । केवलदेवमनुष्यादिरूपमिति । परमात्मशरीरत्वरहितजगद्रूपमात्रमित्यर्थः । अयमर्थः यथा देहात्मभ्रमोऽपरोक्षोऽपि परोक्षशास्त्रज्ञानेन बाध्यते, तथा स्वातन्त्र्यभ्रमोऽपीतिः। देहातिरिक्तं स्वात्मानमप्यजानतः परमात्मपारतन्त्र्याप्रतिपत्तिः किम्पुनर्न्यायसिद्धेति च दर्शयितुं तृतीयश्लोकारम्भः । तं व्याचष्टे न केवलमिति । चिदचिदात्मके जंगति चेतनरूप जगद्विवक्षितं ज्ञानस्वरूपमखिलं जगदिति जगच्छब्देन यथा, “त्रिभिर्गुणमयेभीवैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम्” इति । अत्र ज्ञानस्वरूपस्य जडरूपार्थस्वरूपत्वबुद्धिर्भ्रम इत्युक्ते, अर्थस्वरूपस्यार्थस्वरूपत्वबुद्धिर्न भ्रमः स्यादितिं च सिद्धम् । देहात्मिभ्रमश्च संसर्गकृतः, जलमुष्णमितिवत् । आत्मासाधारणधर्मज्ञानस्फुरणेऽपि तस्य साधारणत्वाज्ञानात् भ्रमोपपत्तिः ।
चतुर्थं व्याचष्टे ये पुनरिति । विज्ञानश्चाविज्ञानं चेति विज्ञानशब्दस्यात्मवाचित्वात् ज्ञानस्वरूपात्मविद इत्युक्तम् । अबुद्धय इति पूर्वश्लोकोक्कार्थप्रतियोगित्वेन ज्ञानविद इत्युक्तमितिः स्मारयति बुद्धिमन्त इति अयोगिन इत्यस्य प्रतियोगित्वेन शुद्ध चेतस इत्युक्तमिति सूचयति योगयोग्य परिशुद्धमनस इति । योगयोग्यत्वे 1 पूर्वार्धार्थोपपादकत्वमुत्तरार्धोक्तमहिम्न एव । व्याप्तिकथनं विवरणमात्रम् । सर्वाभ्यासाधिष्ठानत्वार्थेऽपि व्याप्तिकथनसंभवात् तस्यां अमुख्यत्वादिति प्रथमपक्षः । महिमशब्दविशदीकृतव्याप्तिरूपार्थविशेष एव पूर्वार्धार्थोपपादक इति द्वितीयः पक्षः । श्लोकभाष्ययोरर्थो भाष्यार्थदर्पणे । 2 अपिशब्देन स्वातन्त्र्यहमात्रम् ; न तु तदापरोक्ष्यमिति ज्ञाप्यते ।
२४० जिज्ञासाधिकरणम् १-१-१ ( तस्यात्मेतिश्लोकार्थः) त्याह ‘ये तु ज्ञानविदः’ इति । अन्यथा श्लोकानां पौनरुक्तत्यम्, पदानां लक्षणा, अर्थविरोधः प्रकरणविरोधः, शास्त्रतापूर्यविरोधच ॥ ‘तस्यात्मपर देहेषु सतोऽप्येकमयम्’ इत्यत्र, सर्वेष्वात्मसु ज्ञानैकाकारतया समानेषु सत्सु - । हेतुः परिशुद्धत्वम् । मनसा तु विशुद्धेन हि भगवत्साक्षात्काररूपोपासननिष्पत्तिः श्रूयते । मनोविशुद्धिश्च कर्मयोगेन । योगेन योग्यता परिशुद्धिरिति वाऽर्थः । पूर्वश्लोके अखिलजगच्छब्देन चेतनरूपं जगत् विवक्षितम् ; अस्मिन् श्लोके अखिलजगच्छब्देन अचिद्रूपं जगत् विवक्षितम् । कृत्स्नापारमार्थ्यं विवक्षितमिति पक्ष प्रथमश्लोक सङ्क्षिप्तदूषणमनुक्तदूषणेन सह विस्तरेण सर्वश्लेोकसाधारणमाह अन्यथेति । स्वान्त्र्यभ्रमो देहात्मभ्रमश्चेति विभागाभावे पौनरुक्त्यमित्यर्थः । लक्षणा - परमेश्वर, जगतः पते, तब, महिमा, स्वमित्यादिशब्दानां लक्षणा । त्वं शब्दो हि. स्वाभिमुखाइमर्थान्तरवाची । अतस्तस्य लाक्षणिकत्वम् । अर्थविरोधः - प्रत्यक्षादिभिरबाध्यत्वेन सिध्यतोऽसत्यत्ये प्रमाणविरोधः; तिरोधानानुपपत्यादिस्तविरोधः, उभयलिङ्गत्वविरोधश्व । प्रकरणविरोधःस्तुतिविरोधः “रोमान्तरस्था मुनयः स्तुवन्ति इति हि प्रकृतम् । स्तोतॄणामद्वै तज्ञानवस्त्रे स्तुत्यनुपपत्तिः; तदभावे च नितराम् । शास्त्रतात्पर्यविरोधः — उपक्रमोपसंहारावान्तरप्रकरणोपक्रमोपसंहारादिविरोधः ॥ J अथादिभरत चतुःश्लोकी परस्परव्यवहितां व्याचष्टे तस्येत्यादिना । ब्रह्माद्वैतं जीवा द्वैतश्चेत्यद्वैतं द्विविधं शास्त्रत्रतिपाद्यम् । तत्र ब्रह्माद्वैतं प्रकार्यद्वैतम् । जीवाद्वैतं ’ प्रकार द्वैतम् ॥ कोऽत्र नियामक इति चेत्उच्यते । ब्रह्मत्रकरणे सामानाधिकरण्येन ब्रह्माद्वैतप्रतिपादनात् सामानाधिकरण्यस्य च प्रकारभेदविशिष्ट - प्रकार्येकत्वपरत्वात्, “एकः सन् बहुधा विचार” इति प्रकार बहुत्वस्य कण्ठोक्तत्वात्, ऐक्यविधिशेषस्य, ‘नेह नानास्ति’ इत्यादिभेदनिषधस्य विहितैक्यविरोधिमेदविषयत्वात्, सामान्यनिषेधस्य च विहितव्यतिरिक्तविषयत्वेन प्रकारिबहुत्वनिषेधपरत्वाते, “न तत्समश्चाभ्यधिकरच दृश्यते” इति ब्रह्मतुल्य प्रकार्यन्तरनिषेधकण्ठोक्तकथा च प्रकार्यद्वैतमेव ब्रह्माद्वैतम् । जीवात्मबहुत्वस्य श्रुतिसिद्धत्वात् अन्यथा बद्धमुक्तव्यवस्थानुपपत्तेः उपदेशानुपपत्तेः सुखादिव्यवस्थानुपपत्तेः “पुमान्न देवो न नशे न पशुर्न च पादपः”, “चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धनः । देवादिभेदेऽपध्वस्ते’’ इत्यादिभिर्भेदविशेषनिषेधस्य कण्ठोक्कत्वात् मुक्तानां साम्यवचनात्, “अहं त्व च तथाऽन्ये ‘तत्र त्वम्हमप्यत्र’, ‘तन्मनः समृतालम्बि’ इत्यादिप्राकरणिकवचनानुरोधात् एको व्रीहिरितियत् एकशब्दस्यैकजातीयृपरखेोपपत्तेः वक्ष्यमाणश्लोकस्थ शब्दस्वभावाच्च जीवद्वैतं प्रकाराद्वैतमेव ॥ “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ” इत्यस्य वाक्यस्य सामविधानपरत्वान्न नित्यत्वबहुत्वयोस्तात्पर्यमस्ति ; अस्ति चेत् वाक्यभेदप्रसङ्गादिति चेत्-न; “यद्राग्नेयोऽष्टाकपालः’ इत्यत्र अष्टाकपालत्वविशिष्टाग्नेयपुरोडाश[यागः] विधिवत् विशिष्टविधिपरत्वाद्वाक्यस्य नित्य बहु चेतन विशिष्टकामप्रदानविधिपर हीदं प्रतीयते । अनित्यांना मल्पानां कामप्रदानादपि नित्यानां बहूनां कामप्रदाने कथिते हि कामप्रदानस्यातिशयो भवेति । जीवबहुत्वस्य लोकसिद्धत्वान्न तत्र शास्त्रस्य तात्पर्यम् ; अप्राप्ते हि शास्त्रमर्थवदिति चेन्न - संसृष्टस्य हि बहुत्वप्रतीति लोकसिद्धा । परिशुद्धात्मस्वरूपबहुत्वस्य लोकसिद्धत्वाभावात् तत्र हि शास्त्रतात्पर्य 1 प्रकार्यद्वैतम् प्रकारिणः ऐक्यम् । प्रकाराद्वैतम् — प्रकारेणाद्वैतम् ऐक्यम् – एकप्रकारकत्वमिति यावत् ।
२४१ वैषमनुष्यादि प्रकृतिपरिणामविशेषरूपपिण्डसंसर्गकृतमात्मसु देवाद्याकारेण द्वैतदर्शनमतथ्यमित्युच्यते । विण्डगतमात्मगतमपि द्वैतं न प्रतिषिध्यते । देवमनुष्यादिविविधविचित्रपिण्डेषु वर्तमानं सर्वमात्मवस्तु सममित्यर्थः ; - यथोक्तं भगवता, “शुनि चैव श्वपाके च पण्डिताः समदर्शिनः”, “निर्दोषं हि समं ब्रह्म” इत्यादिषु । - ’ तस्यात्मपरदेहेषु सतोऽपि’ इति देहातिरिक्ते वस्तुनि स्वपरविभागस्योक्तत्वात् ।…. ‘यद्यन्यो- 1 संभवति । औपाधिकाकारस्यानित्यत्वात् निष्कृष्टस्वरूपस्य नित्यत्वात् नित्यत्वसमानाधिकरणबहुत्वेऽभिहिते परिशुद्धात्मस्वरूपबहुत्वं ह्यक्तं भवति । उपदेशोऽपि न संभवति । गुरुर्भ्रान्तश्चेत्-नोपदेशः । अभ्रान्तश्चेत्-द्वैतप्रतीत्यभावान्नतराम् द्वैतप्रतीतावपि दर्पणस्थं स्वात्मनः प्रतिविम्बं प्रति विवक्षितस्य नोपदेशः संभवतीति । सुखदुःखादिव्यवस्थया चात्मभेदसिद्धिः ॥
ननु सुखदुःखयवस्था नाम किं सुखदुःखव्यक्तिबहुत्वम्, उत तदाश्रयबहुत्वम् । एकस्यैवाने कसुखदुःखञ्यक्तिदर्शनात् सुखादिस्वरूपबहुत्वं नाक्यविरोधीति न व्यवस्था । आश्रयभेदश्चेत्, साध्याविशिष्टों हेतुरिति चेत्-न ;त्वदुक्तो भयप्रकार विलक्षणत्वाद्व्यवस्थायाः । संप्रतिपन्नैकाश्रयेषु सुखदुःखादिषु प्रतिसंघानं दृष्टम् ; प्रतिबन्धकामाचे सति एकाश्रयत्वेन सुखदुःखप्रतिसन्धानाभावो व्यवस्थेति परिहारः । एकमयमित्यत्र मयट् स्वार्थिकः । यद्वा एकशब्दो भावप्रधानः, ऐक्यम् तत्प्रचुरमेकमयम् । शुद्धावस्थात्मनो क्यप्राचुर्यम् ; न तु संसृष्टस्य; तस्य बुद्धिसुखदुःखाद्यान्तरभेदेन देवत्यादिवाह्मभेदेन चैक्यप्राचुर्याभावात् । एकशब्दः समानवाची; “एको नीहिः सुनिष्पन्नः सुपुष्ट (टाः कुरुते प्रजाः " इत्यादिषु तथा प्रयोगदर्शनात् । देवमनुष्यादिप्रकृतिपरिणाम विशेषरूपेव्यनेन दुःखाज्ञान मला धर्माः प्रकृतेस्ते न चात्मनः’, ‘पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः’ इति वचनयोरैकार्थ्यं दर्शितम् । “पिण्डः पृथक् यतः पुंसः शिरःपाण्यादिलक्षणः” इति प्राकरणिकवचनं स्मारयति पिण्डशब्दः ॥ एकमयमित्यात्मन्येकत्वं विधाय भेदे निषिध्यमाने आत्मस्वरूपभेद एव निषेध्यः स्यादिति चेत् —–स्ह्यादेवम्, यदि विधीयमानमेकत्वं व्युक्त्यैक्यं स्यात् । तत्तु प्रकारैक्यम् । अतो भेदनिषेधो वैजात्यनिषेध एवेति भावः ॥ ’ द्वैतिनोऽतथ्यदर्शिनः’ इति सामान्येनोक्त कथं देवादिद्वैतनिषेध इत्युच्यत इति चेत् —–कथं सामान्येन द्वैतनिषेधे प्रतीते आत्मद्वैतनिषेध इत्युच्यते ; न पिण्डात्मनोर्भेदनिबेधः ॥ पिण्डात्मनोर्भेदस्य प्रामाणिकत्वादिति चेत् -आत्मभेदस्यापि प्रामाणिकत्वान्न तद्भेदनिषेधः, अपितु देवादिभेदनिषेध इति भावः । आत्मगतद्वैतमप्रतिषिद्धं चेत् — “आत्मा शुद्धोऽक्षरः शान्तः’, ‘विज्ञानं यज्ञं तनुते’ इत्येकवचनं नोपपद्यते ; जातावेकवचनं चेत् — देहशब्देऽप्येकवचनं स्यादिति शङ्का च देवमनुष्यादिपदेन परिहृता । देवादिष्ववान्तरमेदविवक्षया विविधशब्दः । तत्राप्यनेकविधत्वविवक्षया विचित्रशब्दः । आत्मसु जात्येकत्वादेकवचनम् पिण्डेष्ववान्तरजातिबखाद्बहुवचनमित्यभिप्रायः । साम्ये प्रमाणमाह यथोक्तमिति । वहुत्वस्य विहितत्वात् साम्यप्रतिपादनाचाऽऽत्मव्यक्तिभेदनिषेधोऽनुपपन्न इत्यर्थः । हेत्वन्तरं चाह तस्येति । अन्यथाऽर्थश्चेत्, एतच्छलोकस्थादानां व्याघातः स्यादित्यर्थः । उक्तत्वादिति । सममित्यर्थ इत्यन्वयः । 1 एकवचनोक्तौ हि जातावेकवचनमिति निर्वाहः; अन्यनिषेधपरस्य वचनस्यान्यथानिर्वाहायो- शङ्कायां यद्यन्योऽस्तीत्यादि (देः) श्लोकस्यार्थमाह गादात्मैकत्वासिद्धिरिति च 31
यदीति । एकस्मिन्नर्थे २४२ १-१-१. पुराणवचनानामात्मैक्यपरत्वायोगः ऽस्ति परः कोऽपि’ इत्यत्रापि नात्मैक्यं प्रतीयते ; ‘यदि मत्तः परः कोऽप्यन्यः’ इति एकस्मिन्नर्थे परशब्दान्यशब्दयोः प्रयोगायोगात् । तत्र परशब्दः स्वव्यतिरिक्तात्मवचनः, अन्यशब्दस्तस्यापि ज्ञानैकाकारत्वादन्याकारत्वप्रतिषेधार्थः । एतदुक्तं भवति -यदि मद्वयतिरिक्तः कोऽप्यात्मा मदाकारभूतज्ञानाकारादन्याकारोऽस्ति - तदा, ‘अहमेवमाकारः, अयञ्चान्यादृशाकारः’ इति शक्यते व्यपदेष्टुम् । न चैवमस्ति ; सर्वेषां ज्ञानैकाकारत्वेन समानत्वा देवेति । वेणुरन्धविभेदेन इत्यत्रापि - आकारवैषम्यमात्मनां न स्वरूपकृतम्, अपि तु देवादिपिण्डप्रवेशकृत मित्युपदिश्यते ; नात्मैक्यम् । दृष्टान्ते चानेकरन्ध्रवर्तिनां वाय्वंशानां न स्वरूपैक्यम् ; अपि त्वाकारसाम्यमेव । तेषां वायुत्वेनैकाकाराणां रन्ध्रभेदनिष्क्रमणकृतो हि षड्जादिसञ्ज्ञाभेदः; एवमात्मनां देवादिसंज्ञाभेदः । द्वौ द्वौः शब्दौ प्रयुक्तौ स्थानत्रये; तेषामन्यतरशब्दस्याकारपरत्वान्नात्मभेद निषेध इति परिहियते । तत्र द्वयोः शब्दयोः कोऽर्थ इत्यत्राह तत्रेति । परशब्देन धर्मिणमनूद्य तस्य शब्दान्तरोपस्थापिताकारान्तरान्बयो निषिध्यत इत्यर्थः ॥ एषोऽहम् अयश्चान्य इति वक्तुमशक्यत्वं कथम्, प्रत्यक्त्वपराकःचे भेदकधर्मौ हि विद्येते इति चेत्-नैषम् ; प्रत्यक्त्वपराक्त्वयोः स्वपरापेक्षया सर्वात्मनां (ना) साधारणतया व्यावर्तकत्वाभावात् । पूर्वं देवादिष्यन्यतमोऽयमित्यभिप्रायेण तद्विशेषबुभुत्सया हि सौवीरराजेन आदिमरतः पृष्टः ॥ अतो देवाथाकारनिषेधपरा इमे शब्दा इति भावः । एवं पदार्थों सति श्लोकेन किमुक्तं भवतीति शङ्कायां वाक्यार्थ योजयति एतदुक्तमिति । एष इति शब्दस्यार्थमाह एवमाकार इति । अन्यशब्दार्थमाह अन्यादृशाकार इति । आकारैक्यं नाम आकाराणां सौसादृश्यमित्यभिप्रायेण एवमाकारः अन्यादृशाकार इत्युक्तम् । अन्यथा स्त्ररूपमात्रप्रतिपत्तिरेकेनैव पदेन सिद्धेति पदान्तरवैयर्थ्यप्रसङ्गात् पदान्तरमाकारपरमित्यर्थः । अस्यार्थस्य विपर्यये पर्यवसानमुत्तरश्लोकोक्तम् । सोऽनुदाहृतः । तदर्थमाह न चैवमिति । अयं हि स श्लोकः, “यदा समस्तभूतेषु पुमानेको व्यवस्थितः । तदा हि को भवान् सोऽहमित्येतत् विफलं वचः” इति । अत्रैकशब्द आकारैक्यपरः । स्वयम्प्रकाशत्वनित्यत्वात्वादिः सर्वात्मसाधारणः । व्यावर्तकदेवाद्याकारस्तु नात्मन्यस्ति । व्यावर्तकाभावात् तद्वाचिशब्देन निर्देशोऽनुपपन्नः । प्रत्यक्त्वं पराक्त्व परोक्षत्वा परोक्षत्वादीनि न व्यावर्तकानीति को भवानिति प्रश्नस्तदतिरिक्त काराभिप्रायः । न हि भवानिति’ प्रश्नः । भवच्छब्दो धर्मिमात्रपरः । किंशब्दों व्यावर्तकदेवाद्याकारपरः । तस्मात् तदारिक्ताकाराभावेन न तद्वाचिशब्देन निर्देश उपपद्यत इत्यर्थः ज्ञानका कारत्वेन समानत्वादेवेति । अन्यथा पूर्वोक्तादेवेति भात्रः । उक्तनिर्वाहा गोचरदृष्टान्त मुखेनाद्वैतपरत्वेन परोकस्य श्लोकस्यार्थमाह वेणुरन्ध्रेति । स्वत एकाकाराणामुपाधिवशादवान्तर भेदसद्भावमात्रे दृष्टान्तोपन्यासः सर्वथा साधर्म्याभ्युपगमे हि आत्मनोऽचित्वा काश कार्यत्वादिकमपि स्यात् । तद्धि प्रमाणान्तरविरोधात् व्यज्यते ; तथा दृष्टान्तगतमाकारान्तरमपीति भावः । तथाऽसौ परमात्मन इत्युक्ते षड्जादिसञ्ज्ञाभेदो मा भूदित्यभिप्रायेणाह एवमात्मनां देवादिसञ्ज्ञाभेद इदि । भेदष्बड्जादिसञ्ज्ञित इति पाठे 1 नहीति । धर्मिमात्रप्रश्नो न संभवतीत्यर्थः । 2 तथा इत्युक्तत्वात् आत्मनोपि षड्जादिसंज्ञा भेद इष्ट इति न मन्तव्यमित्याशयेनान्यसंज्ञाभेदमाहेत्यर्थः ।
२४३ [यथा ] तैजसाप्यपार्थिवद्रव्यांशभूतानां पदार्थानां तत्तद्द्रव्यत्वेनैक्यमेव ; न स्वरूपैक्यम् । तथा वायवीयानामंशानामपि स्वरूपभेदोऽवर्जनीयः । ‘सोऽहं स च त्वम्’ इति सर्वात्मनां पूर्वोक्तं ज्ञानाकारत्वं (रं) तच्छब्देन परामृश्य तत्सामानाधिकरण्येन अहंत्वमित्यादीनामर्थानां ज्ञानमेवाऽऽकार इत्युपसंहरन् देवाद्याकारभेदेनात्मसु भेदमोहं परित्यजेत्याह । सत्यपि षड्जादिसब्ज्ञाभेद’ इति व्याख्यातम्, दुखगमपद्जादिरूपभेदप्रतिपत्तिसौकर्यस्य सञ्ज्ञाभेदाधीनत्वादिति भावः (१) दाष्टन्तिकेऽपि तथैव । दृष्टान्ते व्यक्ति बहुत्वं किमस्तीति शङ्कायां वाय्वंशानामनेकत्वं तर्केण साधयति तैजसेति । स्पर्शवद्रव्यत्वादिति भावः । यत्र त्वाकाशदृष्टान्त उक्तः, तत्राप्येकस्यात्मनो दृष्टान्तत्वेनाकाशमुक्त्वा” आत्मान्तरे तथात्यमिति मन्तव्यम् — ‘सितनीलादिभेदेन यथैकं दृश्यते नमः । भ्रान्तदृष्टिभिरात्मापि तथैकस्सन् पृथक् पृथक्” इति । नभसः सितनीलादिभेदः शरत्प्रावृट् सन्ध्यासमयेषु मेघोपश्लिष्टस्य तस्य यथा क्रमभावी -तथैकस्यात्मनोऽपि देवादिभेदः क्रमभावीति । यद्वा तत्रापि प्रदेशभेदाङ्गीकारण सर्वात्मनां दृष्टान्तः स्यात्. आकाशस्य प्रदेश भेदानभ्युपगमे घटादेर्विभुत्वमाकाशस्याल्पत्वं वा प्रसजेत् । किं घटादेः कृत्स्नाकाशेन सम्बन्धः, उत प्रदेशभेदेन? पूर्वस्मिन् पक्षे घटादेर्विभुत्वमाकाशस्याल्पपरिमाणत्वं वा । द्वितीये प्रदेशभेदाङ्गीकार इति । वेदान्तिभिर्नभसो निरवयवत्ववादोऽपसिद्धान्त ; वेदान्तेषु तस्यांशभेदेन पञ्चीकरणोपदेशात् एकांशेन वायुत्वेन परिणामवादात्; उत्पत्तिलयदर्शनाच्चेति । अत एव “घटध्वंसे घटाकाशो न भिन्नो नभसो यथा । ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन तथा पुमान्” इति शौनकवचनमपि, नमस्यशाभेदाभिपोयण जीवस्य परस्मादात्मन औपाधिकवैषम्यविरहे दृष्टान्तसमर्पणपरं वेदितव्यम्; यथाऽग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत्’ इति तत्रैव साम्यदृष्टान्ताभिधानात् । अथाऽऽदिभरतनिगमनश्लोकमाह सोऽहमिति । पूर्वोक्तम् अध्याग्रचतुष्टयोक्तम् । स इति पदस्य ज्ञानाकारविशिष्टत्रस्तुत्राचित्वेऽपि विशेषणांशे तात्पर्यं दर्शयितुं सर्वात्मना ज्ञानाकार (त्व) मिति विशेषणांशस्य निष्कृष्य निर्देशः । अन्यथा तत्सामानाधिकरण्येनेत्यनन्तरोक्तिविरोधात् । ज्ञानमेवाकार इत्युपसंहरनिति । सोऽहमित्यादिश्लोकानन्त(पूर्वश्लोके, “एक (कं) समस्तं यदिहास्ति किश्चित् तदच्युतो नास्ति परं ततोऽन्यत्” इत्यर्धेन सर्वात्मनां भगवच्छरीरत्वस्योक्तत्वात् सोऽहमित्यादिश्लोकस्य भगवदात्मकत्वनिगमनपरत्वशङ्कां स्यात् । तच्चायुक्तम् ; प्रकरणस्य शरीरात्मविवेकपरत्वात् । तन्निगमनस्य चापेक्षितत्वात् तन्निगमनपरश्लोकान्तराभावादपेक्षितविधेरनपेक्षित विधानायोगाच्च आत्मनां देहन्यावर्त के काकारत्वनिगमनपरोऽयं श्लोक इत्यभिप्रायः । त्यज भेद मोहमित्यंशस्यार्थमाह देवाद्याकारमेदेनात्मसु भेदमोहं परित्यजेति । देवादिशब्दो भेदशब्द विवरणरूपः । देहगतदेवत्वाद्याकारमेद आत्मनि भेदमोहहेतुः ; तं भेदमोहं परित्यजेत्यर्थः. तं भेदमोह ः परित्यजेत्यर्थः कृत्स्नभेदनिषेध- । 1 पुराणे भेदशब्देनार्थभेदस्यैवोक्तत्वात् भाष्ये संज्ञाभेद इति कथमुच्यत इत्याशंक्य परि हरति भेद इति । तथा च संज्ञाभेद इत्यस्य संज्ञानामपर्यायत्वमित्यर्थ इति भावः । टीकायाम् ‘इति’ भाव’ इति पदद्वयं व्यर्थम् । किञ्चित्पाठभ्रंशो वा ।
ननु षड्जादिपदस्य कथं कथं वायुवांचित्वम्-न; तदुत्पन्नशब्दवाचित्व एव तात्पर्यात् । 2 उक्त्वेति । एकैकस्मिन्नप्यात्मनि पृथक् आकाशवत् नानात्वमुपपादनीयमित्यर्थः ; तदाह सिते त्यादिना ।
२४४ १-१-१. पुराणवचनानामात्मभेददर्शित्वम् 1 अन्यथा देहातिरिक्तात्मोपदेश्यस्वरूपे अहं त्वं सर्वमेतदात्मस्वरूपमिति भेदनिर्देशो न घटते । अहंत्वमादिशब्दानामुपलक्ष्येण सर्वमेतदात्मस्वरूपमित्यनेन सामानाधिकरण्यादुपलक्षणत्वमपि न सङ्गच्छते । सोऽपि यथोपदेशमकरोदित्याह, ‘तत्याज भेदं परमार्थदृष्टिः’ इति । कुतचैष निर्णय इति चेत्- देहात्मविवेकविषयत्वादुपदेशस्य । तच्च “पिण्डः पृथग् यतः पुंसः शिरः पाण्याादिलक्षणः” इति प्रक्रमात् । विभेद- परत्वेऽनिष्टमाह अन्यथेति । न च अहंत्वमादिशब्दाः देहपराः । न हि तच्छब्देनात्मानं परामृश्य तेनाऽऽत्मना देहानामैक्यमुपदिश्यते । नाप्यन्तःकरणपराः । न ह्यन्तः कारणानां परमात्मनैक्यं परस्परैक्यं वोपदिश्यते । नापि देहविशिष्टान्तःकरणपराः । न हि देहविशिष्टानामन्तः करणानामैक्यमुपदिश्यते (पद्यते ?)। अतोऽहंत्यमादिशब्दाः देहातिरिक्तात्मपरा इत्यभिप्रायेण देहातिरिक्तेत्युक्तम् । अहंत्वमित्यादिपदानामुपलक्षणत्वादुपलक्ष्ये वस्तुनि न भेद इत्याशङ्क्य परिहरति अहमिति । अहंत्वमादीति आदिशब्देन सर्वशब्दो विवक्षितः । उपलक्ष्येणेत्यैौपचारिक निर्देशः ; उपलक्ष्यवाचिपदेनेत्यर्थः । सर्वमेतदात्मस्वरूपमित्यनेनेति । अहं त्वं सर्वमिति त्रयाणामपि पदानामात्मस्वरूपशब्देन सामानाधिकरण्यं फलितम्, तेष्वन्यतमेन अहंत्यमर्थस जातीयार्थवाचिना सर्वमेतदिति पदेन आत्मस्वरूपशब्दस्य सामानाधिकरण्यनिर्देशात् इति ज्ञापनार्थं सर्वमेतदात्मस्वरूपमित्युपादानं कृतं भाष्ये । श्लोके सर्वमेतदात्मस्वरूपमिति प्रदर्शनार्थमुक्तम् । अतोऽस्यमादिशब्दानामुपलक्ष्यवाचकामिमतात्मस्वरूप शब्देन सामानाधिकरण्याद्रहंस्वमादिशब्दवाच्यानामर्थानामुपलक्षण वमसङ्गतम् । न हि, चन्द्रः शाखा, सारसः केदार इत्युपलक्षणोपलक्ष्यत्राचिशब्दांनां सामानाधिकरण्यं मुख्यतया दृष्टमित्यर्थः । लक्षणयाऽस्त्विति चेत् — लक्षणैव दोष इति भावः । यद्वा अनेनेति पदमुपलक्ष्यविशेषणम् । सर्वमेतदात्मस्वरूपमित्यात्मशब्द निर्दिष्टेना ने नोपलक्ष्येणाहंत्वमादिशब्दानां सामानाधिकरण्यादुपलक्षणत्वमसङ्गतमित्यर्थः । अस्यां योजनायामहत्वमादि सजातीयार्थवाचि सर्वपदसामानाधिकरण्यनिर्देशस्य हेतुत्वमर्थसिद्धम् । यदि अहंत्वमादिशब्दा उपलक्ष्यपर्यन्तवृत्तयः, तदानीमेवमर्थतया उपलक्ष्यवाचिना आत्मस्वरूपमिति पदेन स इति पृथक्सामानाधिकरण्यदर्शनादुपलक्षणवाच काहत्वमादिसामानाधिकरण्यवैयर्थ्यमिति । अहशब्दस्यापेक्षिक प्रत्यक्त्वं प्रवृत्तिनिमित्तम् ; वंशब्दस्य च चेतनत्वे सति अभिमुखत्वम्; आत्मशब्दस्य च व्यापनक्षमत्वम्; स इति पदस्य प्रकृतज्ञानाकारः ॥
ननु स च सर्वमेतदात्मस्वरूपमित्यत्र कथमात्मस्वरूपविशेषणस्य तच्छब्दस्य पुंल्लिङ्गत्वम् ॥ उच्यते । “आत्मा शुद्धोऽक्षरः शान्त (न्तो निर्गुणः प्रकृतेः परः ?)” इत्यादिषु [ प्रकृति ? ] परज्ञानमयत्वेन प्रकृत आत्मा हि तच्छब्देन परामृश्यते । अतो न विरोध इति । अचित्संसृष्टं देवादिरूपेण प्रतीयमानं सर्वमेतदात्मस्वरूपं ज्ञनिकाकारः स आत्मेत्यर्थः । चतुर्थपादं व्याचष्टे सोपीति । न जीवब्रह्माद्वैतपरमिदं प्रकरणम् ; न चात्मस्वरूपबहुत्वनिषेवपरम् ; प्रकारैक्यपरम्-इति कथं ज्ञायत इत्यभिप्रायेणाह कुतश्चेति । परिहरति देहात्मेति । तदपि कुत इत्यत्राह तच्चेति । " देहात्मविवेकपरत्वोपपादनेन जीवपरैक्यपरत्वमात्मवत्वनिषेधपरत्वं च दत्तोत्तरमेव । अथः शास्त्रोपसंहारगतस्य विभेदजनक इत्यादिश्लोकस्यार्थं वक्ष्यन् अर्थान्तरपरत्वं व्युदस्यति विभेदेत्यादिना । प्रथमं किम् आत्मस्वरूपैक्यपरम् उत जीव परैक्यपरमिति विकल्प्य दृष्यते । अत्र चशब्दाभावादात्मब्रह्मशब्दयोः सामानाधिकरण्यं सम्भावितम् । तथासति ब्रह्मशब्दः शुद्धावस्थपरः स्यात् । एवं शुद्धावस्था ( स्थात् ) जीवस्य
१४५ जनफेऽज्ञाने’ इति च नाऽऽत्मस्वरूपैक्यपरम् ; नापि जीवपरयोः । आत्मस्वरूवैक्यमुक्तरीत्या निषिद्धम् । जीवपरयोरपि स्वरूपैक्यं देहात्मनोरिव न संभवति ; तथा च श्रुतिः“द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वस्यननन्नन्यो अभिचाकशीति”, / भेदो नास्तीति जीवस्वरूपैक्यमुक्तं स्यात् । अतः शङ्कास्पदीभूतमात्मैक्यपरत्वं दूषयति आत्मेति । उक्तरीत्या - श्रुतिस्मृत्यर्थापत्तिलौकिकार्थी पस्यादिभिरित्यर्थः । द्वितीयं पक्ष दूषयति जीवेति । देहात्मनोरिवेति । विरुद्धधर्मस्वादित्यर्थः । प्रत्यक्त्वपराक्त्वा जडत्व जडत्व नित्यत्वपरिणामित्वादिभिर्विरुद्धधर्मैर्यथा देहात्मनोर्भेदः, तथा जीवपरयोरपि हेयाईत्वाभयलिङ्गस्वनियाम्यत्वनियन्तृत्वादिविरुद्धधर्मरैक्यं हि नोपपद्यते । विरुद्धधर्मत्वे प्रमाणमाह तथाचेति तथा - विरुद्धधर्मत्व इत्यर्थः । चो ह्यर्थः हेतुवाची । वक्ष्यमाणहेतूनां पञ्चमी प्रयुक्ता ; तत्स्थानीयोऽयं चशब्दः । समानं वृक्षम् - शरीरम् । पिप्पलम् – कर्मफलम् । अभिचाकशीति - स्वयम नश्नत्वादाशयितृत्वाच्च भृशं भातीत्यर्थः ॥
ननु कथमस्य मन्त्रस्य जीवपरमात्मभेदपरत्वम् ? अन्तःकरणजीवपरो ह्ययं मन्त्रः, वैङ्गिरहस्यब्राह्मणेन अस्य मन्त्रस्य तथा व्याख्यातत्वात् । यथा - " तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् । अनश्नन्नन्यो अभिचकशीति अनश्नन्नन्योऽभिपश्यतीति [ क्षेत्र ] ज्ञः ’ । तावेतौ सत्त्वक्षेत्रज्ञौ” इति । स्वाद्वत्तीत्यन्तेन सत्त्रमुक्तम् . अभिचाकशीतीत्यन्तेन वाक्येन अनश्नन्नन्यो….ज्ञ इति क्षेत्रज्ञो ऽभिपश्यतीत्युक्तमिति व्याख्यातत्वमवगम्यते । न च–सत्वशब्दो जीवपरः, क्षेत्रज्ञशब्दः परमात्मपरःइति वाच्यम् ; सरत्रक्षेत्रज्ञ शब्दयोरन्तःकरणजीवपरतया प्रसिद्धत्वात्, “तदेतत् सत्वं येन स्वप्नं पश्यति । अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः । तावेतौ सत्वक्षेत्रज्ञौ” इति सत्वक्षेत्रज्ञ शब्दयोरन्तःकरण जीवपरत्वेन तत्रैव व्याख्यातत्वाच्च । येन पश्यतीति करणखप्रतीतेः सत्त्वं ह्यन्तःकरणम् ; स्वप्नद्रष्टृत्वादितरः क्षेत्रज्ञो हि जीवः । अतः द्वा सुपर्णा इति मन्त्रोऽयमन्तः करणंजीवपरः ; न तु जीवपरमात्मपर इति ॥ उच्यते । न तावत् जीवपरमात्मपरत्वमस्य मन्त्रस्यापवदितुं शक्यते । अनेन मन्त्रेण तुल्यार्थतया प्रत्यभिज्ञायमाने, ‘समाने वृक्षे पुरुषो निमग्नः’ इत्यनन्तरमन्त्रे जीवपरमात्मनोः प्रतिपन्नत्वात् ; अस्य मन्त्रस्य तदैकार्थ्याच्च । ‘समानं वृक्षं परिषस्वजाते’, ‘समाने वृक्षे पुरुषों निमग्नः” इति तयेोरेकार्थ्यं हि प्रतीयते । समाने वृक्षे’ इति मन्त्रे च पुरुषो जीवः । अन्तःकरणस्य पुरुषशब्दवाच्यत्वाभावात् । ‘शोचति मुह्यमानः’, ‘पश्यति वीतशोकः’ इति पदानामस्वारस्यप्रसङ्गाच्च । अन्यश्च परमात्मा ; ईशशब्दवाच्यत्वात् ; स्थविषयज्ञानेन वीतशोकत्वहेतुत्वाच्च । न केवलमुत्तरमन्त्रैकार्थ्यात् द्वासुपर्णेतिमन्त्रस्य जीव परमात्मपरत्वम्; किन्तु तस्मिन्नेव, ‘स्वाद्वत्ति’, ‘अनश्नन्नन्यः’ इति भोक्तृत्वाभोक्तृत्व श्रवणाच्च तदवसीयते । चक्षुः श्रोत्रादीनां द्रष्टृत्व श्रोतृत्वादिवत् अन्तःकरणस्यापि करणत्वादेव भोक्तृत्वं न संभवति । जीवस्य च वृक्षशब्दोतदेह परिष्वङ्गदशायामेव अनश्नस्वमपि नोपपद्यते ॥ तर्हि पैङ्गिरहस्यब्राह्मणस्य कोऽर्थः 11 उच्यते । सत्त्वं बद्धजीवः ; “द्रव्यामुव्यवसायेषु सखमस्त्री तु जन्तुषु” इति नैघण्टुकपाठात् जन्तुपरत्वावगतेः । जन्तुः — चेतनः; “प्राणी
२४६ १-१-१. जीवपर भेदपर श्रुतिस्मृती “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थ्ये । छायातपौ ब्रह्मविदो वय पवान्नयो ये च त्रिणाचिकेताः”, “अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा” इत्याद्या; अस्मिन्नपि शाखे, “स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीतः । अतीत सर्वावरणोऽखिलात्मा तेनाऽऽस्तृतं यद् भुवनान्तराले ॥”, ‘समस्त कल्याणगुणात्मकोऽसौ परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे”, “अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप ! सर्वगा” इति .. तु चेतनो जन्मी जन्तुजन्यशरीरिणः” इति पाठात् । “न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः” इति प्रयोगात्, “वन्यान् विनेष्यन्निव दुष्टसत्त्वान्” इत्यर्वाचीनप्रयोगाच्च । क्षेत्रज्ञशब्दश्चात्र परमात्मपरः, अर्थान्तरप्रसिद्धाकाशप्राणशब्दवत् अर्थानुपपत्या परमात्मपरत्वोपपत्तेः; “विष्णोर्नामसहस्रं मे’ इत्युपक्रम्य - ‘क्षेत्रज्ञोऽक्षर एव च’’ इति प्रयोगात् ; क्षेत्रं जानातीत्यवयवार्थस्य तस्मिन्नेव पुष्कलत्वाच्च । मोक्षधर्मे, “ततस्त्रगुण्यहीनास्ते परमात्मानमञ्जसा । प्रविशन्ति द्विजश्रेष्ठ ! क्षेत्रज्ञ निर्गुणात्मकम् ।”, “सर्वांवासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः “, " विश्वमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते” इति प्रयोगात ; “योऽस्याऽऽत्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति च कर्माणि स भूतात्मेति चोच्यते” इति प्रयोगाच्च । येन स्वमं पश्यतीत्यत्र येनेतीत्थम्भावे तृतीया । येन विशिष्टः परमात्मा स्वप्नं पश्यतीत्युच्यते । ततश्च “काठिन्यवान् यो बिभर्ति” इति पृथिवीद्वारा काठिन्यवत् स्वप्रद्रष्टृत्वं जीवात्मद्वारा परमात्मविशेषणं भवतीति न विरोधः । शारीरशब्दश्व, ‘तस्यैष एव शारीर आत्मा’ इतिवत् स्वव्यतिरिक्त समस्त चिदचिद्वस्तुशरीर के परमात्मन्युपपद्यते । उपद्रष्टेति निरुपाधिकद्रष्टृत्वं च सर्वज्ञस्य तस्यैवोपपद्यते । अतो द्वा सुपर्णेति मन्त्रो जीवपरमात्मपरः ॥ . ऋतं पिबन्ताविति । पानक्रियायां जीवपरयोः प्रयोज्यप्रयोजकभावेनान्वयः । पिबन्ताविति शतृप्रत्ययः कर्तृमात्रपरः; न तु कर्तृविशेषपरः । तेन प्रयोज्यप्रयोजकौ द्वावपि कर्तृविशेषाविति तावविशेषेण कोडीकृतौ भवतः । अन्यथा अनश्नन्नित्यादिविरोधः स्यात् । यद्वा छत्रिणो गच्छन्तीतिवदजहल्लक्षणा । सुकृतस्य ऋतम् — फलम् । यद्वा सुकृतस्य लोक इत्यन्वयः, तदा सुकृतम् ऋतम् । तत्फलमुच्यते लक्षणया, “एवं पुण्यस्य कर्मणो दूराद्गन्धो वाति” इत्यत्र “एवमनृतादात्मानं जुगुप्सेत्” इति पुण्यप्रतियोगित्वेन अनृतशब्दप्रयोगात् । गुहाम्हृदयगुहाम् । परमे परायें इति लोकविशेषणम् । जीवपरविशेषणं वा ; छान्दसत्वात् लिङ्गव्यत्ययः । छायातपौ – अज्ञसर्वज्ञी, “ज्ञाज्ञौ द्वावजावीशनीशौ” इत्यनेनैकार्थ्यात् - ब्रह्मविदः – अध्यात्मविदः । पञ्चाग्नयः त्रिणाचिकेताश्च कर्मविशेषनिष्ठाः । ते वदन्ति ; यथा, “ये च वेदविदों विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्म सनातनम् " इति । ऋतं पिबन्तावित्येतद्वैशथायाह अन्तः प्रविष्ट इति । इत्याद्या श्रुतिरित्यन्वयः । न केवलं श्रुतिस्वारस्यात् ; अस्मिन्नपि प्रबन्धे दृश्यते इत्याह अस्मिन्नपीति । स सर्वभूतेत्यादिना हेयप्रत्यनीकत्वकल्याणगुणाकरत्ये कथिते । जीवस्य हेयास्पदत्वमविद्येत्यादिना ‘तक्तम् । सर्वगेति भेदव्यपदेशादिति पूर्वेण सम्बन्धः । 1
२४७ भेदव्यपदेशात् । “उभयेऽपि हि भेदेनैनमधीयते”, “भेदव्यपदेशाच्चान्यः”, “अधिकं तु भेदनिर्देशात् " इत्यादिसूत्रेषु च, “य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति”, “प्राज्ञेनात्मना संपरिष्वक्तः”, “प्राज्ञेनाऽऽत्मनाऽन्वारूढः” इत्यादिभिरुभयोरन्योन्यप्रत्यनीकाकारेण स्वरूपनिर्णयात् ॥ नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्यसंभवः, अविद्याश्रयत्वयोग्यस्य तदनर्हत्वासंभवात् । यथोक्तम्- “परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्रव्यं हि नैति तद्द्द्रव्यतां यतः ॥” इति । न तु सूत्रोपादानम् ; उपर्यस्य सूत्रस्य विषयवाक्यानुपादानात्; उदाहृनपुराणवचनानां हेतुत्वकथन सापेक्षवाच । श्रुतिवाक्यस्य हेतुत्वं हि चशब्देनोकम् । उमयेऽपीत्याद्युपात्तसूत्रद्वयस्य विषयवाक्यं य आत्मनीति । अधिकं स्विस्यादिसूत्रस्य विषयवाक्यं प्राज्ञेनेति । सूत्रेष्वाभिः श्रुतिभिरेवमर्थनिर्णयादित्यर्थः । एवमुपनिषत्पुराणसूत्रैर्जीव परयोर्विरुद्धधर्मत्वमुपपादितम् । अथ, ब्रह्म वेद ब्रह्मैव भवतीत्यादिवाक्यानि हृदि निधाय अस्यान्ययासिद्धिं शङ्कते नापीति । तत् दूषयति अविद्याश्रयत्वेति । अविद्याश्रयत्व योग्यत्वम् । अविद्याशब्दः समस्तहेयप्रदर्शनार्थः; आश्रयत्वशब्दः सम्बन्ध परः; हेयसंबन्धात्यन्ताभावानधिकरणत्वं तद्योग्यत्वम् । हेयसम्बन्धात्यन्ताभावाधिकरणत्वं तदनत्वम् । ‘अनश्यन्नन्यः’ इति श्रुत्या परमात्मनस्तदन र्हखं सिद्धम् । देशकालसन्निकर्षे सत्यपि तदस्पर्शो हि स्वभावसंन्निकर्षाभावात् । स्वभावसंनिकर्षाभाव एक ह्ययोग्यत्वम् । यथा नभसः क्लेदनदहनाद्यनत्वम् । अतो हेयार्हतदन ईयेोहैयापगमेऽपि न स्वरूपैक्यं संभवति । निग्राह्यस्य पश्चादनुगृहीतस्य हि निग्राह्यत्वापगमेऽपि निग्रहानुग्रहकर्त्री पुरुषेण नैकत्व संभव इत्यर्थः (?) कारागृहनिर्मुक्तस्य नियन्त्रा नरपतिना स्वरूपैक्थं न संभवतीत्यर्थः । अस्मिन्नर्थे पुराणवचनमाह यथोक्तमिति । योग शब्द ऐक्यपरः । अन्यथा, अन्यद्रव्यं हि तद्द्रव्यतां नैतीति प्रतिक्षेपानुपपत्तेः ।
ननु मिथ्यैतदित्युत्तरत्रान्वयः, परमात्मात्मनोर्योगः परमार्थः, अन्यद्द्द्रव्यं तद्द्द्रव्यतां नैतीत्येतत् मिथ्येत्यर्थ इति चेत्-नैवम्; अन्यस्यान्यद्रव्यतानापत्तेस्सत्यत्वात् । इतरथा जडाजडयेोस्तादात्म्यप्रसङ्गः । ‘ऋग्यजुस्सामनिष्पार्थः यज्ञकर्म मतं तत्र’ इतिवत् इष्यत इत्यनेन पूर्वार्धोक्तार्थस्य परमतत्वद्योतनात् । अन्यथा इष्यत इति पदवैयर्थ्यात् । किञ्च “परमार्यस्तु भूपाल ! सङ्क्षेपाच्छ्रयताम्” इति वक्ष्यमाण- ! पक्षव्यतिरिक्तपक्षाणां निराकरणपरत्वाच प्रकरणस्य; एतच्छ्लोक पूर्वार्धोक्तक्यं समर्थन परत्वमुत्तरार्धस्य नोपपद्यते । “धर्माय त्यजते” इत्यादिग्रन्थैस्तत्तदर्थानां परमार्थत्वं हि निरस्यते । स्वतः प्रकृतार्थे स्वरसस्य एतच्छब्दस्य प्रकृतार्थे सत्यपि वक्ष्यमाणपरत्वाश्रयणमप्ययुक्तम् । किञ्च अन्यद्द्रव्यं तद्द्द्रव्यतां नैतीति यत्, एतन्मिथ्येति हि तदानीमर्थः । तथासति यतश्शब्दस्वारस्यभङ्गः । यतश्शब्दस्य हि हेतु परत्वं । स्वरससिद्धम्, न तु यच्छब्दवत् यच्छब्दवत् प्रकृतार्थ शरीर मात्र परामर्शित्वम् । अन्यदूद्रव्यं तद्द्रव्यत नैतीत्येतन्मिथ्येति यतः, तत ऐक्यं परमार्थ इत्यन्वये इतिशब्दद्वयाध्याहारपसङ्गः । स चानध्याहारेण निर्वा
- सर्वगेतीत्यत्र वाक्यं छित्वा भेदव्यपदेशादिति सूत्रोपादानम् उपर्युने कसूत्रपाठवत् इति न मन्तव्यमित्यर्थः ।
२४८ १-१-१. मुक्तावपि भेदे प्रमाणम् मुक्तस्य तु तद्धर्मतापत्तिरेवेति भगवद्गीतासूक्तम्,- “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥” इति । इहापि - “आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने! । विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ” इति ।
सति नोपपद्यते ॥ यदुच्येत – पूर्वं पृथग्भूतयोः परमात्मात्मनोरैक्यं परमार्थ इतीष्यत इति चेत् — मिथ्यैतत् ; अन्यद्रव्यं हि तद्द्रव्यतां नैतीति यतः । तस्मात् पूर्वमपि परमात्मात्मनोर्भेदो नास्तीति – नैवम् ; पूर्व भ्रान्त्या पृथग्भूतयोरित्यस्याश्रु तत्वेनाध्याहारप्रसङ्गात् । स चानध्याहारेण निर्वाहे संभवति नोपपद्यते । किञ्च ‘तस्मात् पूर्वमपि भेो नास्ति’ इत्यश्रुतवाक्यान्तराध्याहोरण वाक्यस्य पूरणीयत्वं स्यात् । तच्च तन्निरपेक्षनिर्वाहे संभवति नोपपद्यते । तस्मात् प्रागपि भेदो नास्तीति वाक्यं नाध्याहर्तव्यम् ॥ [नाध्याहर्तव्यम् ; ] पूर्व भिन्नयोः परमात्मात्मनोः पश्चादभेद इति पक्षनिराकरणमात्रपरत्वादू ग्रन्थस्य इति चेत् — किं तेन प्रयोजनम् ॥ पूर्वमप्यैक्यसिद्धिरिति चेत् न, पूर्व पृथग्भूतयोः पश्चदिक्यायोगेऽभिहिते सति पश्चादपि भेदसिद्धेः । अतः स्वरससिद्ध एवार्थः स्वीकार्यः । अथ — ब्रह्म वेद ब्रह्मैव भवतीत्यादिवाक्यनिर्वाहं बहुश्रुत्यन्तराविरोधेन वक्ष्यन् मुक्तस्य साम्यापत्तिमाह मुक्तस्येति । तत्रैक्यश्रुतेः प्रतिकूलार्थी साम्यश्रुतिर्दर्शयिष्यत इति मत्वा, व्याख्येयतया प्रकृतस्योपबृंहणवचनस्य सजातीय पराभिमतार्थप्रतिकूलार्थं स्मृतिवचनं दर्शयति इदमिति । मुक्तपरत्ववैशद्यायोपादानं सर्गेऽपीति । न केवलं शास्त्रान्तरे, अत्रापि मुक्तस्य भेदप्रतिपत्तिरस्तीत्याह इहापीति । इहयोगप्रकरणे योगसङ्क्षेपकथनारम्भ इत्यर्थः । " सङ्क्षेपविस्तराभ्यां तु; किमन्यत् क्रियतां तव” इति एकम् । आत्मनः शक्त्या विकार्यम् – अवस्थान्तरं नेयम्, ध्यायिनमेनं तद्ब्रह्म आत्मभावं नयति, आत्मनः शक्त्या विकार्यं लोहमाकर्षको यथेत्यन्वयः । आकर्षको वहिः; दोषमाकर्षतीति व्युत्पत्या । “यथाऽनिरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुयोगिनां सर्वकिल्विषम् " इति ह्युत्तरत्र वक्ष्यते ; श्रीविष्णुधर्मे च, “यथाग्निसङ्गात् कनकमपदोषं प्रजायते” इति । सोऽग्निः आत्मभावम् आत्मनः स्वभावम् निर्दोषत्वं लोहं नयति ; तथेत्यर्थः 1 अयं सम्यगर्थः । यद्वा आत्मशब्दः स्ववाची सन् अन्ययोगव्यतिरेकपरः । यथाऽग्निर्लोहम् आत्ममावम्-स्वभावम्-स्वतः सिद्धरूपं नयति, तद्वदिव्यर्थः । यद्वा आकर्षकः अयस्कान्तः, लोहमात्मभावं नयति-स्वम्यापारं छोटं कारयति ; स्वमनुकारयति. “स्थितः स्थितामुच्चलितः प्रयाताम् ” इतिवत् । अयस्कान्तस्तिष्ठति चेत्, छोहस्तिष्ठति ; धागति चेत्; तमनुधावति; एवं ‘कामान्नी कामरूप्यनुसञ्चरन्’, ‘सर्वेषु कामचारो भवति’ इत्यादिश्रुत्यनुगुणं परमात्मा उपासकं स्वचेष्टामनुकारयति ; समानचेष्टितं करोतीत्यर्थः । यद्वा आत्मशब्दः स्ववाची निष्कृष्टस्वरूपपरः । उपासकं परमात्मा आत्मभावं नयति — प्रकृतिसंबन्धराहित्येन शुद्धतां नयति, केवलतां नयति । यथा अयस्कान्तो दारुनिमग्नं लोहं तस्मात् दारुण उद्धृत्य केवलतां नयति तद्वदित्यर्थः । यद्वा’भूः प्राप्तावात्मनेपदी’ इति वचनात् मावशब्दः प्राप्तिवचनः । आत्मप्राप्ति नयति, यथा लोहमयस्कान्तः स्वप्राप्तिं नयतीत्यर्थः । प्राप्तिं नयतीति निर्देशः ओदनपाकं पंचतीतिवत् । जीवस्य परमात्मशक्त्या विकार्यत्वं युक्तम् ; जीवस्य बन्धमोक्षयोर्ज्ञानसङ्कोच विकासरूपविकाराईत्वात् ।
२४९ आत्मभावम् — आत्मनः स्वभावम् । न ह्याकर्षक स्वरूपापत्तिराकृष्यमाणस्य । वक्ष्यति च, “जगद्व्यापारवर्ज प्रकरणाद संनिहितत्वाच्च”, “भोगमात्र साम्यलिङ्गाच्च”, “मुक्तोपसृप्यव्यपदेशाच्च” इति । वृत्तिरपि, “जगव्यापारवर्ज समानो ज्योतिषा” इति । द्रमिडभाष्यकारच, “देवता सायुज्या दशरीरस्यापि देवतावत् सर्वार्थसिद्धिः स्यात्” इत्याह । श्रुतयश्च, “य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति”, “ब्रह्मविदाप्नोति परम् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता”, “एतमानन्दमयमात्मानमुपसङ्क्रम्य, इमाल्ँलोकान् कामान्नी कामरूप्यनुसञ्चरन्”, “स तत्र पर्येति”, “रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति”, “यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्”, “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ” इत्याद्याः । । …. अत्र श्लोके तादात्म्यप्रतिपत्यभावं दर्शयति न हीति । आकर्षक स्वरूपापत्तिराकृष्यमाणस्येति निर्देशः उक्तसर्वार्थसाधारणः । अग्निसुवर्णदृष्टान्तविवक्षायामाकृष्यमाणशब्दो विकार्यपरः । समानो ज्योतिषेति । ज्योतिः परं ब्रह्म ; “परं ज्योतिरूपसम्पद्य”, “अथ यदतः परो दिवों ज्योतिर्दीप्यते” इति श्रुतेः । द्रमिडेति । अशरीरः — मुक्तः ; कर्मकृतशरीराभावात् । सिद्धिः - अनुभवः । मुक्तौ जीवपरयोर्भेदश्रुतीदर्शयति श्रुतयश्चेति । आप्नोति — परमनुभवतीत्यर्थः । एतद्विवरणरूपं वाक्यं दर्शयति सोऽश्नुत इति । अनुसञ्चरन्नित्यनेन भेदो दर्शितः । रसो वै स इत्यनेन साम्यम् आनन्दित्वाकारेणेत्युक्तं भवति । परमसाम्योपयोगिनीं वैधर्म्यनिवृत्तिं दर्शयति यथा नद्य इति । नदीना नदीत्वाकारप्रहाणेन समुद्रसंसर्गात् वैधर्म्य - प्रहाणेन संसर्गे दृष्टान्ते उपजीव्यः । प्राकृतनामरूपप्रहाणपूर्विका हि परमात्मप्राप्तिः । न च तावता भेदनिवृत्तिः, ‘पुरुषमुपैती’ति कर्मकर्तृभावावगमात् । साम्यापत्ति दर्शयति तदेति ।
ननु परमं साम्यमुपतीत्यैक्यापत्तिरुच्यते, समशब्दस्य समानशब्दपर्यायत्वात् ; समानशब्दवदैक्ये प्रयोगाश्च । समशब्दस्यैक्ये प्रयोगो दृश्यते, समकालवर्तीत्यादिषु । तथा समशब्दपर्यायतयाऽवगत समानशब्दोऽध्यैक्ये प्रयुज्यते, “समानं वृक्षं परिषखजाते” इति; “एकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् " इति च । ऐकाधिकरण्यं हि सामानाधिकरण्यम्; एकस्मिन्नर्य इत्युक्तेः । तत्पर्यायश्च समशब्दः । यद्यपि सादृश्यस्यापि समशब्दो वाचकः, तथापि मुक्तिवाक्यस्यसाम्यशब्द ऐक्यपरः, ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुत्यन्तरै कार्थ्यात्, लयसायुज्यशब्द श्रवणात् ; नदी समुद्रघटाकाशमहाकाशादिदृष्टान्तश्रवणाच्च । “साधर्म्यमागताः” इति स्मृतिस्तु सगुणप्राप्तिविषयः । अन्यथा प्रत्यक्षश्रुतिविरोधे स्वरूपैक्य विषयबहुश्रुतिविरोधे च तद्दौर्बल्यात् । अत ऐक्यापत्तिरेव अनेन वाक्येन प्रतिपादिता । ऐक्यस्य च पारम्यं नाम पुनर्भेद भ्रम प्ररोहविरहितत्वमिति ॥ अत्रोच्यते । अत्र साम्यशब्दः सादृश्यमेवाभिधत्ते, न स्वैक्यम्; ऐक्यस्य मुख्यार्थत्वेऽभ्युपगतेऽपि स्वारस्याभाषात् । सादृश्य एव हि (च) समशब्दस्य प्रसिद्धिप्राचुर्यम् । तस्य चापवादाभावे सति अस्वरसार्थस्वीकारोऽनुपपन्नः । अपवादहेतवश्व स्वदुक्ता अनन्तरमेव परिहियन्ते । न च समादिशब्दानामैक्यं मुख्यार्थः५ एकत्व विवक्षायामेको घट इत्यादौ समो घट इत्यादिप्रयोगामागात ; मुख्यत्वे हि एकशब्दस्येत्र प्रतियोगिलिय पेक्षप्रयोगः प्राप्नोति । यस्तु’सामानाधिकरण्यं’ ‘समकालवर्ती’ स्यादिषु समादिशब्दप्रयोगः, स तु साधारण्यार्थः, श्रु०. 32
२५० १-१-१. साम्यसायुज्यशोधनम् न त्वैक्यार्थः । साधारण्येऽपि प्रयोगो न मुख्यः, प्रयोगेऽन्यथासिद्धे शक्तिकल्पनानुपपत्तेः । तथा हिअनेकप्रतियोगिकैकरूपसम्बन्धवत्त्वं साधारण्यम् । यथा— धनं देवदत्तयज्ञदत्तौ प्रति शेषत्वेन सम्बन्धितया साधारणम् । तयोश्च धनं प्रति शेषितयाऽऽस्ते सादृश्यम् । ताभ्यां सम्बन्धि धनम् । तथा नीलोत्पलत्वे अपेक्ष्य आधारतया संबन्धि द्रव्यं साधारणम् । तयोश्च द्रव्यं प्रति आधेयतयाऽऽस्ते सादृश्यम् । ताभ्यां सम्बन्धि द्रव्यम् । तथा द्वाभ्यां संयोगित्वेनावच्छेद्यावच्छेदकभावेन वा सम्बन्धी कालस्तयोः साधारणः, तत्कालसम्बन्धित्वाकारेण तयोरपि सादृश्यमस्ति । ताभ्यां संबन्धी कालः । अतो मिथस्सदृश पदार्थ संबन्धितया द्रव्यकालादिषु समसमानादिशब्दा लक्षणया वर्तन्त इति न मुख्याः । अत ऐक्ये प्रयोगाभावात् समशब्दस्यैक्यं न मुख्यार्थः । मुख्यार्थे संभवति लाक्षणिकार्य स्वीकारो नोपपद्यते । अतः साम्यशब्दः सादृश्यमेवाभिधत्ते । मुक्तात्मगोचरसामानाधिकरण्योपपत्तिश्चानन्तरमेव भाष्ये वक्ष्यते । यदुक्तं सायुज्यशब्देन मुक्तावभेद इति - तदयुक्तम् ; सायुज्यशब्दस्य समानगुणयोगवाचित्वात् । युज्यत इति युक्छन्दो गुणपरः । धर्मिणि हि गुणः संबध्यते । समानगुणकः सयुक्, तस्य भावः सायुज्यमिति हि व्युत्पत्तिः । प्रयोगविरोधाच्च नैक्यं सायुज्यम; “एतासामेव देवतानां सायुज्यं साष्र्ष्टितां समानलोकतामाप्नोति” इति बहीभिर्देवताभिरेकस्य सायुज्यापत्तिः श्रूयते । न ह्येकस्य निरवयवस्याच्छेद्यस्यात्मनो बह्वीभिर्देवताभिरैक्यं संभवति । क्रमभावित्वाद विरोध इति चेत्, तग्निन की भूतस्य वरुणसायुज्यापत्तौ अग्नित्योपाधेः प्रहाणादग्नेर्देवताया अभावः स्यात् । अग्नित्योपाधौ स्थिते, वरुणैक्यापत्त्यनुपपत्तिः । औपाधिकभेदप्रहाणं ह्यैक्यापत्तिः । न तु पूर्वमविद्यमान मैक्यमुत्पद्यते ॥ अग्नौ स्थितः एव ततः पृथग्भूतस्य वरुणसायुज्यमिति चेत्, एकीभूतस्य पृथग्भावो ह्यपाधितः स्यात् । उपाधिश्च देहान्तःकरणादिः । तत्सम्बन्धस्याहेतुकत्वेऽतिप्रसङ्गात् हेतुर्वाच्यः ॥ कर्मैव हेतुरिति चेत्, अग्निसायुज्यापत्तिदशायां तत् कर्म नष्टं न वा नष्टं चेत् पुनरुपाध्यनु दयेनाग्नितः पृथग्भावायोगात् अनित्योपाचे श्वाप्राणात् पूर्वोपाधिप्रहाणरूपवरुण सायुज्यापत्तिः क्रमेणापि नोपपद्यते । अनष्टं चेत्-तत्कृतोप घेरनष्टत्वात् नाग्निनैक्यापत्ति संभवः; औपाधिकभेदस्य तत्प्रहाणरूपैक्यापत्तिविरोधित्वात् ॥ अनष्टमपि तत्कर्म अग्निसायुज्यापत्तिदशायां ततो भेदकमुपाधिं न जनयति कर्मणां कार्यकारित्वस्य कालविशेषनियतत्वादिति चेत् — तथापि व्यवस्थितकर्मविशेषपरिष्वक्तस्य जीवस्य तत्कर्मापरिष्वकादग्नितस्तदेव कर्म मेदकमिति नाग्निनैक्यापत्तिरुपपन्ना । किञ्च पृथिव्या एकीभूत पृथग्भूतघटस्येव अग्निना एकीभूतपृथग्भूतजीवस्याजत्वनित्यत्वानुपपत्तिश्च । अतो भेदे स्थित एव अग्न्यादिसायुष्यम् । समान लोकता साहचर्याच्च नैक्यं सायुज्यम्, न ह्येकस्य स्वेन समानलोकत्वसंभवः । अतः समान लोकत्ववत् भेदे सिद्ध एव सायुज्यं भवति ॥ समान लोकताप्राप्त्यनन्तरं सायुज्यापत्तिः, न तु युगपदेव; अतस्तयोरविरोध इति चेन्न, ‘सायुज्यं सार्टितां समानलोकताम्’ इति सायुज्यस्य पूर्वश्रुतत्वात् ॥ अर्थक्रमेण पाठक्रमबाध इति चेन्न ; अवयवशक्त्युपस्थापितार्थस्य पाठक्रमानुगुणत्वात् अर्थान्तरकल्पनस्याहेतुकत्वाच्च । यदि पाठक्रमबाधार्थं सायुज्यशब्दस्य ऐक्यापत्तिलक्षणार्थविषया रूढिशक्तिः कल्प्यते, तदाऽन्योन्याश्रयः स्यात् — सायुज्यस्यैक्यापत्तिलक्षणत्वनिश्चये पाठक्रमबाधः, पाठक्रमबाधे सति सायुज्य-
२५१ स्यैक्यापत्तिलक्षणत्वनिश्चय इति ॥ ‘एतेषामेव सलोकतां सायुज्यमश्नुते’ इति वाक्यात् पूर्वोदाहृतवाक्यस्थक्रमबा इति चेत्, न ; विरुद्धार्थविषयाया रूढिशक्तेरक्लून तया विरोधास्फुरणात् । किश्व “अग्नेर्वा एतानि नामधेयानि । अग्नेरेव सायुज्यं सलोकतामाप्नोति… वायोरेव - इन्द्रस्यैवबृहस्पतेरेव प्रजापतेरेव-ब्रह्मण एव सायुज्यं सलोकतामामोति” इति भूयसां वाक्यानां बलीयस्त्वात् त्वदुक्तक्रम एव बाध्यः । किञ्च “एतेषामेव सलोकतां सायुज्यमश्नुते । अग्नेरेव सायुज्यं सलोकतामाप्नोति” इत्यादिवाक्यानि कर्मविधिशेषार्थवादरूपाणि । कर्मफलत्वाच्चाग्न्यादित्यादिदेवता सायुज्यमनित्यम् । अतः कर्मफलावसानेऽग्न्यादिभ्यः तत्सायुज्यं प्राप्तानां पृथग्भावस्यावर्जनीयत्वात् आमोक्षाज्जीवभेदस्थितेर्भवतामपीष्टत्वात् अग्न्यादिसायुज्यदशायामपि भेदस्थितिरवर्जनीया ॥ अग्न्यादिसायुज्यं गतानां ततः पृथग्भावः पुनरप्युपाधित इति चेत् — दत्तमुत्तरम् । न चाग्न्यादिसायुज्योतिरर्थवादत्वादनादरणीयेति वाण्यम् वेदान्ति मिरर्थवादानां प्रतीयमानार्थे प्रामाण्याभ्युपगमात् । अतो न सायुज्यमैक्यम्, अपि तु समानगुणयोग एव । लयोऽपि न स्वरूपैक्यम्; लयशब्दस्य तदर्थत्वाभावात् । प्रयोगानुगुणं शब्दार्थव्यवस्थापनं कार्यमिति । नित्यनैमित्तिकमहाप्रलयेष्वपि लयशब्दः प्रयुज्यते ; न तत्र स्वरूपैक्यापत्तिः । न तावन्नित्यप्रलये ; स्वर्गनरकादिगमनागमनशास्त्रात् । नापि नैमित्तिके; पूर्वकल्पप्रलीनानां नारदादीनां प्राग्जन्म प्रत्यभिज्ञानवतामेव पुनरुत्पत्यवगमात् । नारदेन पूर्वकल्पे स्वजन्मवृत्तादिकमिह कल्पेऽभिहितमिति पुराणेष्ववगम्यते । नापि महाप्रलये ; वैषम्यनैर्धृण्यपरिहाराय जीवनित्यत्वत्र हुत्व कर्मवासनानां तदानीं विद्यमानताया अभ्युपगन्तव्यत्वात् । तथा “प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्यभावेतौ लीयेते परमात्मनि” इति वदता भगवता पराशरेणैव, “हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते”, “प्रधानकारणीभूता यतो वै सृज्यशक्तयः”, “तेषां ये यानि कर्माणि प्राक् सृष्टयाः प्रतिपेदिरे” इत्यादिभिस्तदानीं सवासनकर्मान्वितजीवबहुत्वं च दर्शितम् । अत एव भेदप्रहाणं च न लयशब्दार्थः । न च प्राकृतप्रतिसञ्चरमोक्षविषय प्रलयशब्दयोरर्थवैरूप्यं वक्तुमुचितम् ; शक्तिभेदकल्पनअमुख्यत्वयोरन्य-. तरप्रसङ्गात् । न च तत्रापि महाप्रलयादिषु लयशब्दस्यामुख्यत्वं वाच्यम्; बहुष्वर्थेष्वमुख्यत्वाश्रयणादपि मुक्तिमात्रविषयप्रलयशब्दस्यैवामुख्यत्वाश्रयणोपपत्तेः । अतः सर्वप्रयोगानुगुणोऽर्थः स्वीकार्यः । अतो विसदृशावस्थाप्रहाणेन कारणत्वधर्मिणा द्रव्येण विभागस्यापादान, भूतेन संश्लेषो लयः ॥ तस्मात् ऐक्यं न लयशब्दार्थः । " घटाकाशादिदृष्टान्तोपन्यास चौपाधि कवैषम्या भावनिबन्धनः । आकाशादितत्त्वानामपि सांशत्वात् । तेषां पश्चीकरणवचनेन प्रदेशभेदवत्ता हि वेदान्तिभिरभ्युपेत्या । अतो मोक्षविषयासु श्रुतिषु स्वरूपैक्यं कचिदपि नावगम्यतेः । निर्गुणप्राप्तिविषया श्रुतिः काचिदपि नास्तीत्ययमर्थः अनन्तरमेवोपपाद्यते । अतः, ‘साधर्म्यस्मरणस्य सगुणप्राप्तिविषयत्वान्न परममोक्षविषयत्वम् ; अन्यथा निर्गुणप्राप्तिविषयश्रुतिविरोधे स्मृते दैवल्यप्रसङ्गात् इत्यपि दुरुक्तम्
- दौर्बल्य प्रसंगादिति । अप्रामाण्यापत्तेरिति शेषः । तत्रान्यथेत्यस्यान्वयः । 149. पुटेऽप्येवम् ।
२५२ १-१-१. निर्गुणपरविद्यानास्तिता 1 ‘परविद्यासु सर्वासु सगुणमेव ब्रह्म उपास्यम् ; फलं चैकरूपमेव । अतो विद्याविकल्पः’ इति सूत्रकारेणैव ‘आनन्दादयः प्रधानस्य’, ‘विकल्पोऽविशिष्टफलत्वात्’ इत्यादिषूक्तम । वाक्यकारेण च सगुणस्यैवोपास्यत्वं विद्याविकल्पश्वोक्तः, “युक्तं तद्गुणकोपासानात्” इति । भाष्यकृता व्याख्यातञ्च, “यद्यपि सचित्तः " इत्यादिना ’ । ‘ब्रह्म वेद ब्रह्मैव भवति” इत्यत्रापि, “नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्”, “निरञ्जनः परमं साम्यमुपैति”, “परं ज्योतिरुपसंपद्य त्वेन रूपेणाभिनिष्पद्यते” इत्यादिभिरैकार्थ्यात् प्राकृतनामरूपाभ्यां तस्मात् यदा पश्यः इति वाक्ये साम्यशब्दः सादृश्यपरः । येनाकारेण साम्यम्, तस्याकारस्य निरवधिकत्वं परमशब्दाभिप्रेतम् । अत इदं वाक्यं परब्रह्मप्राप्तिरूपं परममोक्षं तत्साम्यापत्तिलक्षणमेव प्रतिपादयति । अथ गुणोपासकस्य संगुणब्रह्मप्राप्तिं वदन्त्येताः श्रुतयः, न तु [पर] ब्रह्मविदः परब्रह्मप्राप्तिमिति शङ्कायामाह परविद्यास्विति । परविद्यासु — ब्रह्मविद्यास्त्रित्यर्थः । सर्वासु – परेण सगुणविषयत्वेन निर्गुणविषयत्वेन चोक्तासु दहरविद्यासद्विद्याक्षरविद्यादिष्वित्यर्थः । ‘अदृश्यत्वादिगुणकः’ इति परविद्यावाक्यविषयसूत्रस्वारस्यात् तस्याः सगुणविषयत्वं प्रतीयते । आनन्दादयः प्रधानस्य इति सूत्रमुपास्यस्य सगुणत्वायोदाहृतम् । विकल्पोऽविशिष्टफलत्वात् इति सूत्रं प्राप्यस्य सगुणत्वायोपात्तम् । अयमर्थः - परेण निर्गुणविषयत्वेनाभिमतानां ‘सत्यं ज्ञानम्’, ‘आनन्दो ब्रह्म’ इत्यादिवाक्यानामानन्दादिगुणविशिष्टविषयत्वं तेषां च गुणानां सर्वविद्यानुयायित्वं चोक्त्वा, तारखेकैव विद्या फलायालमिति विद्याविकल्पवोक्तः । अतः परेण निर्गुणसगुणाविषयत्वेनाभिमतासु सद्विद्यादहर विद्यादिषूपास्यं फलं च सगुणमिति सगुण प्राप्स्यतिरेकेण निर्गुणप्राप्तिः प्रमाणशून्या । अतो मुक्तौ भेदपराणां श्रुतीनामन्यथासिद्धिर्नोपपद्यते, प्राप्यवैषम्याभावादिति । सूत्रकार भिप्रायविदामुक्ति, दर्शयति वाक्येति । युक्तं तद्गुणकोपासनादिति । युक्तम् - गुणयुक्तमेव प्राप्यम् ; कुतः? तद्गुणकोपासनादित्यर्थः । विद्याविकल्पश्च तत्रैव द्रष्टव्यः । सच्चित्तः सद्विधानिष्ठः । तर्हि मुक्तावभेदश्रुतेः कोऽर्थ इत्यत आह ब्रह्मेति । “सयो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति” इति, प्रकृतस्य वेदितुर्ब्रह्मपर्यन्तस्वरूपाविर्भावपरमिदं वाक्यमिति यथा सेत्स्यति, तथा वक्ष्यते । इह त्वर्थान्तरमुच्यते । प्राकृतनामरूपप्रहाणज्ञापनाय नामरूपाद्विमुक्त इति श्रुतिरुदाहृता । साम्यप्रतिपत्यर्थं निरञ्जन इति वाक्यमुपात्तम् । तस्यैव साम्यस्य स्वाभाविकत्वज्ञापक पर ज्योतिरिति वाक्यम् । तर्ह्यमुख्यत्वं स्यादित्यत्राह प्रकारैक्ये चत ॥ ब्रह्मपदमिदं
- वेदार्थसंग्रहे इदं पूर्ण लिखितम् । अत्राप्युपोद्घाते द्रष्टव्यम् ।’ 2 सेत्स्यतीति । पूर्व परममिति पूर्व परममिति ब्रह्मणो विशेषणात् ब्रह्मैवेत्यत्राविशेषणात् जीवपरमिति ज्ञायते तथाच ब्रह्मैव भवति - देहात्मभ्रमादिसामग्रीरहितशुद्धब्रह्मैव भवतीति अद्वैतमते इव एवकारेण विपरीत सामग्री राहित्योक्तौ ब्रह्मपर्यन्तस्वरूपाविर्भावः सेत्स्यति । अत्र पक्षे ब्रह्मशब्दः जीवसाधारण्यात् जीवव्यक्तिपर एव । ब्रह्मशदस्य परमात्मपरत्वेऽपि एवकारस्य सादृश्यार्थकत्वानुशासनात् ब्रह्मैव ब्रह्मसदृशं नित्यप्रत्यक्षितस्वरूपमिति प्रकृतार्थः सेत्स्यतीत्यर्थः । अत्र तु भाष्ये सेयं गौरिति एवकाररहितवाक्योदाहरणात् परमात्मपरे ब्रह्मशब्द एव प्रवृतिनिमित्तान्तर्गतगुणकृतबृहत्त्वविवक्षा ज्ञायते । एवमप्यप्रवृत्तिनिमित्तधर्मपरं सिंहइछात्र इति बावयमिव नामुख्यमिति । 3 वक्ष्यत इति । अदृश्यत्वादिगुणकाधिकरणब्राह्माधिकरणादाविति भाव्यम् ।
प्रकाशिकोपेते श्रीमाये विनिर्मुक्तस्य निरस्ततत्कृतभेदस्य ज्ञानैकाकारतया ब्रह्मप्रकारतोच्यते । प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव, यथा, सेयं (सोऽयं ) गौरिति । अत्रापि - " विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः” इति - परब्रह्मध्यानादात्मा परब्रह्मवत् प्रक्षीणाशेष[कर्म] भावनः– कर्मभावनाब्रह्मभावनोभयभावनेति भावनात्रयरहितः प्रापणीय इत्यभिधाय- " क्षेत्रज्ञः करणी ज्ञानं करणं तस्य वै द्विज ! (तेन तत्) । निष्पाद्य मुक्तिकार्य हि (वै) कृतकृत्यं निवर्तयेत् (र्तते ) " इति करणस्य परब्रह्मध्यानरूपस्य प्रक्षीणांशेषभावनात्मस्वरूप प्राप्त्या कृतकृत्यत्वेन निवृत्तिवचनात् ‘यावत्सिद्भयनुष्ठेयम्’ इत्युक्त्वा - “तद्भावभावमापन्नस्तथाऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत्” इति सोऽयं व्रीहिरित्यादेरुपलक्षणमिदमुदाहरणम् । ‘यथर्तुवृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु’ इत्यादिप्रयोगो भारतादिषु द्रष्टव्यः । दृष्टान्ते प्रकारैक्येऽपि तत्ताव्यवहारो मुख्योऽप्यस्वरस’, पूर्वदृष्टे गवि व्यक्त्यंशप्रहाणादस्वारस्यम् जात्यंशस्य सौसादृश्यलक्षणैक्यान्मुख्यत्वम् ; दाष्टिन्तिके तु गङ्गायां घोष इति गङ्गापदवत् कात्स्न्र्त्स्न्येन प्रवृत्तिनिमित्तप्रहाणाभावात् परमात्मनीव प्रवृत्तिनिमित्त पैौष्कल्याभावाच्च प्रवृत्तिनिमित्तैकदेशान्वयिनि मुक्तात्मनि मुख्यकोटिरित्यभिप्रायेण मुख्य एवेत्युक्तम् । लाक्षणिकगङ्गापदवन्नात्यन्तामुख्य इत्यर्थः । न हि मुक्तस्यापरिच्छिन्न ज्ञानानन्दत्वेऽपि जगत्कारणत्वानुगुणगुणबृहत्सं स्वरूपबृहत्वं चा(वाड)स्ति । आकारैक्येऽपि तत्ता व्यवहारस्यात्यन्ता मुख्यत्वाभावे सेयं (सोऽयं) गौरिति दृष्टान्तः । न केवलं योगसङ्ग्रहारम्भे; विस्तरेऽप्यव्यवहितेषु पूर्वश्लोकेषु भेदप्रतिपत्तिरस्तीत्याह अत्रापीति । न केवलं मुक्तविषयप्रकरणान्तरेषु; अस्मिन् प्रकरणेऽपीति वार्थः । अस्मिन् श्लोके तथैवेति ब्रह्मसाधम्र्योपदेशे उपयुज्यते । तथैवेत्येतव्याख्यानं परब्रह्मवदित्यादि । प्रक्षीणाशेषभावनशब्दं व्याचष्टे कर्मभावनेति । परब्रह्मवत् प्रक्षीणाशेषकर्मभावन इति पाठे कर्मशब्दो यागादिक्रियोपासन साधारणानुष्ठेयमात्रपरः । तदा कर्मशब्देन ‘त्रिविधा भावभावना’ इत्यत्र भावशब्दो व्याख्यातो भवति । अत्रायमर्थः प्राप्यपरब्रह्मविषयज्ञानस्य प्रापकत्वात. शुद्धस्वस्वरूपमपि प्राप्यमिति तदनुसन्धेयमिति । अयं च, “व्यतिरेकस्तद्भावभावित्वात्’ इत्यधिकरणार्थः । तत्र बद्धखरूपं चिन्त्यमिति पूर्वपक्षीकृत्य मुक्तस्वरूपं चिन्त्यमिति हि सिद्धान्तितम् । अस्य श्लोकस्यैकप्रकरणत्वज्ञापनायानन्तरश्लोकोऽपि व्याख्यायते क्षेत्रज्ञ इति । यावत् क्षेत्रज्ञावस्थः तावत् करणी उपासकः, तस्य करणं ज्ञानम्, करणभूतं ज्ञानं मुक्तिकार्य निष्पाद्य निवर्तयेत्, न तु मुक्तेः पूर्वमेव निवर्तयेदित्यर्थः । न हि मुक्तस्योपासनानिवृत्तिर्विधेया । अतो यावन्मोक्षमनुष्ठेयत्वमुक्तमिति भावः । तद्भावभावशब्देन ब्रह्मसौम्यापत्तिज्ञापनार्थम्, ‘विभेदजनकेऽज्ञाने’ इत्यत्र ज्ञाने इति पदच्छेदशङ्का व्युदासार्थं च तद्भावभावमिति श्लोको व्याख्यायते । तद्भावेतिश्लोके तद्भाव इत्युपमानबहुव्रीहिः । तद्भाव इति पदान्तर्गतौ तच्छब्दभावशब्दौ व्याख्यातुमाह तद्भाव इति । माण्यस्थस्तद्भायशब्दो न बहुव्रीहिः; किन्तु तत्पुरुषः, समासे व्याचिख्यासिते सति हि बहुव्रीहिविशिष्टरूपेण पदोपादानम् ; तच्छन्द-भावशब्दमात्रस्य व्याचिख्यासितत्वात् बहुव्रीहिविशिष्टरूपेण पदस्यानुपादानम् । तच्छब्देन ब्रह्मोच्यते, प्रथममावशब्देन स्वभाव उच्यत इत्यर्थः । “भावो लीलाकिया चेष्टा मूल्यभिप्राय जन्तुषु । पदार्थमात्रे सत्तायामात्मयोनिस्वमावयोः” इति नैघण्टुकाः ।
२५४
१-१-१. मुक्तौ अभेदपरपुराणवाक्यार्थः मुक्तस्य स्वरूपमाह । तद्भावः ब्रह्मणो भावः, स्वभावः ; न तु स्वरूपैक्यम् ; ‘तद्भावभावमापन्नः’ इति द्वितीयावशब्दानन्वयात् ; पूर्वोक्तार्थविरोधाच्च । यत् ब्रह्मणः प्रक्षीणाशेषभावनत्वम्, तदापत्तिः तद्राच• भावापतिः । यदैवमापन्नः, तदाऽसौ परमात्मना अभेदी भवति-भेदरहितो भवति । ज्ञानैकाकारतया परमात्मनैकप्रकारस्यास्य तस्माद्भेदो देवादिरूपः; तदन्वयोऽस्य कर्मरूपाज्ञानमूलः, न स्वरूपकृतः; स तु देवादिभेदः परब्रह्मध्यानेन मूलभूताज्ञानरूपे कर्मणि विनष्टे हेत्वभावात निवर्तत इत्यभेदी भवति । यथोक्तम्– “एकस्वरूपभेदस्तु बाह्यकर्मवृतिप्रजः । देवादिभेदेऽपध्वस्ते ‘नास्त्यना (नास्त्येवा) वरणो हि सः ॥ " इति । यद्वा भाष्यस्थः तद्भावशब्दोऽपि बहुव्रीहिविशिष्टः । तद्भावः — ब्रह्मणो भावः स्वभाव इति । तद्भाव इति पदे तच्छन्दवाच्यब्रह्म सम्बन्धितया प्रतिपन्नो भावः स्वभाव इत्यर्थः । अथवा श्लेोकेऽपि तद्भावशब्दस्तत्पुरुषः । द्वितीयभावशब्दः सत्तावाची । व्यावर्त्यमाह न त्विति । कुत इन्यत्राह तद्भावेति । हेत्वन्तरमाह पूर्वोक्तार्थ - विरोधाचेति । हेयप्रत्यनीकत्व हे या ईत्यादि विरोधोऽर्थविरोधः । एवं शब्दपर्यालोचनया अर्थपर्यालोचनया च भावशब्दस्य स्वभाववाचित्वमुपपादितम् । स्वभावशब्दवाच्यश्च पूर्वश्लोकोक्तं प्रक्षीणाशेषभावनत्वमित्याह यदिति । तच्छन्दसामर्थ्यात् यद्वत्तमाक्षिप्य व्याचष्टे यदैवमिति । अमेदीत्यत्र भेदशब्दव्याख्यानार्थ मेदशब्दं नञ्प्रत्ययाभ्यां विभज्यः निर्दिशति भेदरहितो भवतीति । यद्वा भेदरहितो भवति — न तादात्म्यवानिति भावः । अन्यथा भेदश्च तस्याज्ञानकृतः इत्यनन्तरनिर्देशो न घटते । देवादिभेदाभावः कथमिति शङ्कायां भेदश्च तस्येत्यादि व्याचष्टे ज्ञानैकाकारतयेति । ‘परमात्मना भवत्यभेदीति परमात्मनः प्रस्तुतत्वात् आत्मनो ब्रह्मण इत्यत्रापि पञ्चमं विवक्षया च तस्माद्भेद इत्युक्तम् । ब्रह्मणो मुक्तात्मनश्चाकारान्तरेण भेदस्य प्रमाणसिद्धत्वात् निरसनीय मेदविशेषस्य वचनान्तर सिद्धत्वाच्च भेदो देवादिरूप इत्युक्तम् । कर्मरूपशब्देन अज्ञानशब्दो व्याख्यातः । ज्ञानविरोधीति व्युत्पत्तिरित्यर्थः । ‘अविद्यया मृत्युं तीर्त्वा’ इति हि श्रुतिः । अत्रापि, ‘अविद्या कर्मसंज्ञाऽन्या’ इति हि पठ्यते । ततः किं भेदराहित्यस्येति शङ्कायां भेदश्च तस्याज्ञानकृतो भवेदित्यनेनार्थसिद्धमभिप्रेतं कारणाभावं विशदयन् कार्यामात्रमुपपादयति स खिति । भेदस्य देषादिरूपत्वे अज्ञानशब्दस्य च कर्मपरत्वे प्रमाणमाह यथोक्तमिति । आदिभरतचरितेऽयं श्लोकः । तत्र पूर्व देहेन्द्रियादि बाह्य भेदरहितत्वमात्मन उक्त सितनी लादीत्यादिना । अस्मिन् लोके बुद्धिसुखदुःखेच्छाचान्तरमेदोऽपि नास्तीत्युच्यते । एकस्वरूपेति । कर्मैव वृतिः कर्मवृतिः । बाह्यमान्तरं च कर्म द्विविधम् । आन्तरमात्मप्रावण्यहेतुः कर्म । बाह्यं बहिर्विषयप्राण्यहेतुः कर्म । यद्वा बाह्यम्-अस्वाभाविक कर्म । तदेव वृतिः । तया प्रकर्षेण जातः एकस्वरूपभेदः । बाह्यकर्म शरीरद्वारक मेमके स्वरूपस्यात्मन आन्तरं भेदं करोतीत्यर्थः । द्वारभूतदेवादिशरीरभेदे नष्टे सति आन्तरो भेदो नास्ति ॥ कथं वा देवादिभेदे नष्टे कर्मवृतिहेतुकान्तरभेदनाश इत्यत्राह अनावरणो हि स इति । सः - निवृत्तदेवादिभेद आत्मा, कर्मावरणरहितो । । 1 श्रीभाष्यस्वारस्य श्रीविष्णुचित्तीयानुरोधेन क्षेत्रज्ञ इति पूर्वलोके, एकस्वरूपेत्यस्मिन् लोके च पाठभेदार्थ भेदविचारो भाष्यार्थदर्पणे द्रष्टव्यः ।
श्रुतप्रकाशिकोपेते श्रीमाये २५५ एतदेव विवृणोत्ति, “विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति” इति । विभेदः - विविधो भेदः, देवतिर्यङ् मनुष्यस्थावरात्मकः । यथोक्तं शौनकेनापि, “चर्तुविधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धनः” इति । आत्मनि ज्ञानरूपे देवादिरूपविविध भेदहेतुभूतकर्माज्याज्ञाने परब्रह्मध्यानेनात्यन्तिकनाशं गते सति हेत्वभावादसन्तं परस्मात् ब्रह्मणः आत्मनो देवादिरूपभेदं कः करिष्यतीत्यर्थः । ‘अविद्या कर्मसंज्ञाऽन्या’ इति ह्यत्रैवोक्तम् ।
100 , ह्रीत्यर्थः । यद्वा कर्मवृतिः — कर्मजन्या वृतिः, देवादिशरीरम् तत्संबन्धजः आन्तरभेदः । देवादिभेदेऽपध्वस्ते स नास्ति । कथं कर्मजन्यवृतिहेतुकान्तरभेदो देवादिभेदापध्वंसे नास्तीत्यत्राह - अनावरणो हि स इति । कर्मजन्यवृत्तिर्देवादिशरीरभेदरूपेत्यर्थः । एतदेव – भेदश्व तस्याज्ञानकृतो भवेदित्युक्तमेवार्थम् । ‘विभेदजनक’ इत्यादिश्लोकेन ‘अनावृत्तिः शब्दात् ’ ’ इत्यधिकरणार्थ उच्यते; परस्माद्ब्रह्मण आत्मनो देवादिभेदस्य प्रनष्टस्य पुनरावृत्ति कः करिष्यतीत्युच्यते । विभेदशब्दं व्याचष्टे विभेदो विविधो भेद इति । भेदस्य देवादिरूपत्वे प्रमाणान्तरमाह यथोक्तमिति । मिथ्याज्ञाननिबन्धनः –मिथ्याज्ञानम् आत्मविषयभ्रान्तिज्ञानम् । तत् कर्मद्वारा उत्तरोत्तरदेवा दिभेदहेतुरित्यर्थः । अस्योत्तरार्द्धम, ‘देवतिर्यमनुष्याख्यस्तथैव नृप ! नारकः’ इति । व्याख्येयश्लोकस्य वाक्यार्थमाह आत्मनीति । ब्रह्मण इति पदस्य पञ्चम्यन्तत्वसूचनाय परस्मादित्युक्तम् । उभयोरपि पदयोर्वैयधिकरण्येन षष्ठ्यन्तत्त्रमयुक्तम् ; चशब्दाभावात् । अनन्तर - पूर्वश्लेोके परमात्मना भवत्यभेदीति परमात्मनः प्रतियोगितया निर्देशाच्च । अत एव समानाधिकरणषष्ठ्यन्तत्वमध्ययुक्तम् ; पूर्वप्रपश्चितार्थविरोधाच्च ॥ पश्ञ्चम्यन्तत्वं षष्ठ्यन्तत्वं च विपर्ययेण स्यादिति चेन्न; परब्रह्मणोऽपि - हेयार्हत्वापत्तेः स्वाभाविकत्वप्रसङ्गात् । अतः परस्मात् ब्रह्मण इत्युक्तम् । असन्तम् — सच्छन्दः परमार्थपर्यायः, ‘अनाशी परमार्थश्च’ इति जत्रैव ह्युक्तम् — अनित्यमित्यर्थः । तेन स्वाभाविकनित्यभेदव्यावृत्तिः । अनित्यत्वं कादाचित्कत्वम् । अनित्यत्वात् हेत्यपेक्षा देवादिमेदः । तं कः करिष्यति न कश्चिदपि । हेत्वभावात्कर्मरूपहेत्वभावादित्यर्थः । न केवलमेकार्थविषये ‘बाह्य कर्मवृतिप्रजः’, ‘अज्ञानकृतो भवेत्’ इत्यज्ञानकर्मशब्दयोः प्रयोगादज्ञानशब्दस्य कर्मार्थत्वम्; अस्मिन् प्रकरणे च कण्ठोक्कमित्याह अविद्या कर्मसंज्ञाऽन्येति ह्यत्रैवोक्तमिति । आत्मन औपाधिकभेदः उपाध्यपगमें नश्यतीति श्लोकार्थः । उपाध्यभावादविद्यमानं मेदं क उत्पादयेदिति वाऽर्थः । अयं श्लोको मृषावादिनामत्यन्तास्वरसः, तथा हि-विभेदजनक इत्यत्र जनकशब्द उत्पादके स्वरसः; न त्वध्यासहेतौ । अज्ञानशब्दस्य अनिर्वचनीयपरत्वं लोकतः शास्त्रतश्च न व्युत्पन्नम् । कर्मत्राचिश्वव्युत्पत्तिरस्मिन् प्रबन्ध एवं दर्शिताः । नाशशब्दस्य बाघवाचित्वममुख्यम् । असन्तमिति पदच व्यवच्छेद्याभावादफलम् ; सतो भेदस्यानभ्युपगमात् । तदभ्युपगमे हि तत्साफल्यम् । करिष्यतीति पदमध्यस्वरसम्; अध्यासवाचित्वाभावात् । 10 1 अधिकरणार्थः अधिकृतसूत्रार्थ इत्यर्थः । सिद्धान्ते तस्य पृथगधिकरणत्वाभावात् । अस्य पृथगधिकरणत्वपक्षोऽप्यस्तीति तत्रत्यटीकावाक्यादेव ज्ञायते ।
२५६ १-१-१. बीवाया अम्सर्षामितयैक्यपरत्वम क्षेत्रनं चापि मां विद्धि’ इत्यादिना अन्तयामिरूपेण सर्वस्यात्मतयैक्याभिधानम् । अन्यथा, “वरा सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते, उत्तमः पुरुषस्त्वम्यः” इत्यादिभिर्विरोधः । अन्तर्यामिरूपेच सर्वेषामात्मत्वं तत्रैव भगवताऽभिहितम्, “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति”, “सर्वस्य चाहं हृदि संनिविष्टः” इति च । “अहमात्मा गुडाकेश ! सर्वभूताशयस्थितः” इति च तदेवोच्यते । भूतशब्दो ह्यात्मपर्यन्तदेहवचनः । यतः सर्वेषामयमात्मा, तत एव सर्वेषां तच्छरीरतया पृथगवस्थानं प्रतिषिध्यते, " न तदस्ति विना यत् स्यात्” इति । भगवद्विभूत्युपसंहारश्चायमिति तथैवाभ्युपगन्तव्यम् । तत इदमुच्यते- “ययत् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्” इति । अतः शास्त्रेषु न निर्विशेषवस्तुप्रतिपादनमस्ति ; नाप्यर्थजातस्य भ्रान्तत्वप्रतिपादनम् ; नापि चिदचिदीश्वराणां स्वरूपभेदनिषेधः ॥ ( इति महासिद्धान्ते निर्निशेषब्रह्म निराकरणम्) व अथाद्वैतपरत्वेन परोक्तं भगवद्गीतावचनं व्याचष्टे क्षेत्रज्ञं चापीति । पराभिमतार्थस्य पूर्वापरविरोधं दर्शयति अन्यथेति । न केवलम् ‘उत्तमः पुरुषस्त्वन्यः’ इति भेदप्रतिपादनात् तद्विरोधेन स्वरूपैक्यपरत्वाभावः, सामानाधिकरण्योपपादकमन्तर्यामित्वं कण्ठोत्तमपीत्याह अन्तर्यामीति । “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति” इत्यत्र भूतशब्दस्यात्मपर्यन्त देहपरत्वम् ‘भ्रामयन् सर्वभूतानि’ इति अस्योत्तरार्धेनावगम्यते ; ‘न हिंस्यात् सर्वा भूतानि’ इत्यादिप्रयोगाच्च । “सर्वस्य चाहं हृदि संनिविष्टः " इत्यत्रापि सर्वशब्दस्यात्मपर्यन्तत्वं “मत्तः स्मृतिर्ज्ञानमपोहनं च” इत्यनेनावगम्यते । हृद्देशे - हृद्देशस्थे आत्मनीत्यर्थः । ‘सर्वस्य चाहं हृदि’ इत्यपि तथा । ’ अहमात्मा गुडाकेश’ इत्यत्राप्यन्तर्यामित्वपरतामा अहमिति । कुत इत्यत्राह भूतशब्दो हीति । पूर्वदर्शित सर्वशब्देकार्थ्याच्चेति भावः । अन्वयरूपेणोक्तस्य सर्वेषां भगवदात्मकत्वस्य शेषभूतोऽयं ‘नं तदस्तीति व्यतिरेक निर्देशस्तदनुगुण एवेत्यभिप्रायेणाह यतः सर्वेषामिति । अविनामावशब्दस्य संबन्ध नियमवाचित्वादिति भावः । हेत्वन्तरचाह भगवदिति । “एत विभूति योगं च” इति प्रक्रमात् विभूतिपरत्वमवगम्यते । अतः उपक्रमानुगुण एव उपसंहार इत्यर्थः । न हि विभूतित्वं विधाय तदेव निषेद्धुं शक्यमिति भावः । प्रकरणस्य विभूतिपरस्त्रं दर्शयति यद्यदिति । विभूतिमत् — नियाम्यवत् । श्रीमत् - भोग्यसमृद्धिमत् । ऊर्जितम् - बलवत्; कल्याणगुणारम्भेषु उद्यतम् । तेजः – पराभिभवन सामर्थ्यम् - प्रशासनम् तेजोशसंभवम् - नियमनशक्ति मदाज्ञालवाधीन- । - मित्यर्थः । शास्त्रस्य परोक्तार्थपरत्वाभावमुपसंहरति अत इति । अतः श्रुतियोजनाप्रमृति प्रति पादितै ययैरित्यर्थः । भ्रान्तत्वं भ्रान्तिसिद्धत्वम् । जगद्ब्रह्मणोरेकद्रव्यत्वपक्षे ब्रह्मणः सविशेषत्वं जगासस्यत्वश्ञ्चोपपन्नमिति शंकाय तद्वद्युदासार्थमाह नापीति । चेतनेष्वचिद्धर्मबुद्धिः परतन्त्रेषु स्वतन्त्रबुद्धिश्व भ्रमः ; न तु स्वरूपभेदधीरित्यभिप्रायेण न स्वरूपभेदनिषेध इत्युक्तम् । अथवा मृषावादिनमेवोद्दिश्य जीवपरयो स्वरूपभेदनिषेधाभावमाह नापीति । अचिदुपादानं दृष्टान्ततया ॥
१-१-१ जिज्ञासाधिकरणम् (संपुट-२) महासिद्धान्ते अविद्याभङ्गभाग उत्तरः यदप्युच्यते - निर्विशेषे स्वयम्प्रकाशे वस्तुनि दोषपरिकल्पितमीशे (श्वरे ) शितव्याद्यनन्त विकल्पं सर्व जगत् । दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या । सा चावश्याभ्युपगमनीया, “अनृतेन हि प्रत्यूढाः” इत्यादिभिः श्रुतिभिः ब्रह्मणः तत्त्वमभ्यादिवाक्यसामानाधिकरण्याचगतजीवैक्यानुपपत्त्या च । सा तु न सती; भ्रान्तिवाधयोरयोगात् । ख्यातिबाधयोश्चायोगात् । अतः कोटिद्वयविनिर्मुक्तेयमविद्येति तत्त्वविद इति । नाप्यसतो ; । तदयुक्तम् ; - सा हि किमाश्रित्य भ्रमं जनयति ? न तावत् जीवमाथित्य, अविद्यापरिकल्पितत्वाजीवभावस्य । नापि ब्रह्माश्रित्य ; तस्य स्व [यं ] प्रकाशज्ञानस्वरूपत्वे विद्याविरोधित्वात् । सा हि ज्ञानवाध्याऽभिमता- “ज्ञानरूपं परं ब्रह्म तन्निवर्त्य मृषात्मकम् । अंज्ञानं चेत् तिरस्कुर्यात् कः प्रभुस्तन्निवर्तने ॥ ज्ञानं ब्रह्मेति चेत् ज्ञानमज्ञानस्य निवर्तकम् । ब्रह्मवत् तत्प्रकाशत्वात् तदपि हानिवर्तकम् ॥ ज्ञानं ब्रह्मेति विज्ञानमस्ति चेत् स्यात् प्रमेयता । ब्रह्मणोऽ
ननुभूतित्वं त्वदुक्तथैव प्रसज्यते ॥” अथाविद्यां दूषयितुं तद्विषये परोक्तमर्थमनुवदति । यदपीति । निर्विशेषस्य कथं श्रमसंभव इत्यत्राह दोषेति । ब्रह्मव्यतिरिक्तदोषोऽस्ति चेत्, अद्वैतहानिरित्यवाह दोषश्चेति । अस्मिन्नर्थे परोक्ताः श्रुतिस्मृत्यर्थापत्तीदर्शयति अनृतेनेति । सदसद्विलक्षणत्वमुपपादयति सा त्विति । भ्रान्तिवाधयोरयोगात्भ्रान्तिविषयत्वबाधविषयत्वयोरयोगात् । प्रमितिभ्रान्तिबाधान्यथानुपपत्त्या सदसदनिर्वचनीयत्वमित्यर्थः । ‘सद्भाव एवं भवतो मयोक्तः’ इतिवत्, न परमतमिति दर्शयितुं तत्त्वविद इत्युक्तम् ।
दूषयति तदयुक्तमिति । आश्रयानुपपत्ति-तिरोधानानुपपत्तिखरूपानुपपत्ति-अनिर्वचनीयत्वानुपपत्ति प्रमाणानुपपत्ति. निवर्तकानुपपत्ति-निवृत्त्यनुपपत्तिभिर्दूषयिष्यन् प्रथममाश्रयानुपपत्तिमाह सा हीति । किमाश्रित्य । न किञ्चिदपीत्यर्थः । किं जीवमाश्रित्य, उत भ्रम इति विकल्पाभिप्रायेणाह न तावदिति । जीवे सिद्धे अविद्यासिद्धिः, अविद्यासिद्धौ जीवसिद्धिरित्यन्योन्याश्रय इत्यर्थः । जीवाज्ञानवादनिरासः उत्तरत्र विस्तरेण वक्ष्यत इति अत्र संक्षेपः । अथ ब्रह्माश्रयत्वपक्ष दूषयति नापीति । विरोधित्वं कथमित्यत्राह सा हीति । ब्रह्मविषयाज्ञानस्य तत्प्रकाशबाध्यत्वात् विरोधः । । अत्र नाथमुनिभिरुक्तान् श्लोकांना ज्ञानरूपमिति । स्वप्रकाशत्वं विवक्षितम् । ज्ञान निवर्त्यत्वे हेतुमाह मृषात्मकमिति । न हि स्वरूपज्ञानमज्ञानविरोधि, अपि तु प्रमाणज्ञानमेवेति पक्षमनूद्य दूषयति ज्ञानमिति । ब्रह्मवत् तत्प्रकाशत्वात् – स्वरूपानतिरिक्तप्रकाशत्वादित्यर्थः । न हि शुक्लभाखरद्रव्ये गृहीते, आप्तवाक्यादिभिः शुक्कुंभा स्वरद्रव्यमित्येतावति शतशः प्रतिपन्नेऽपि भ्रमनिवृत्तिः । दूषणान्तरञ्चाह ज्ञानमिति । ततः किमित्यत्राह ब्रह्मण इति । एषु श्लोकेषु प्रथमश्लोकस्यार्थः पूर्व 2-1
२ श्रुतप्रकाशिकोपेते श्रीमाष्ये ( सप्तविधानुपपत्तौ आश्रयानुपपतिः) ज्ञानस्वरूपं ब्रह्मेति ज्ञानं तस्या अविद्याया बाधकम् न स्वरूपभूतं ज्ञानमिति चेत्–न; उभयोरपि ब्रह्मस्वरूपप्रकाशत्वे सति अन्यतरस्याविरोधित्वमन्यतरस्य नेति विशेषानवगमात् । एतदुक्तं भवति - ज्ञानस्वरूपं ब्रह्मेत्यनेन ज्ञानेन ब्रह्मणि यः स्वभावोऽवगम्यते ; स ब्रह्मणः स्वयम्प्रकाशत्वेन स्वयमेव प्रकाशत इति अविद्याविरोधित्वे न कश्चिद्विशेषः स्वरूपतद्विपयज्ञानयोरिति । किञ्च अनुभवस्वरूपस्य ब्रह्मणोऽनुभवान्तरा
ननुभाव्यत्वेन भवतो न तद्विषयं ज्ञानमस्ति । अतो ज्ञानमज्ञानविरोधि चेत्, स्वयमेव विरोधि भवतीति नास्या ब्रह्माश्रयत्व संभवः । शुक्त्यादयस्तु स्वयाथात्म्यप्रकाशे स्वयमसमर्थाः स्वाज्ञानाविरोधिनः, तन्निवर्तने च ज्ञानान्तरमपेक्षन्ते । ब्रह्म स्वानुभवसिद्धस्वयाथात्म्यमिति स्वाज्ञानविरोध्येव, तत एव निवर्तकान्तरं च नापेक्षते ॥
1 ज्ञानबाध्याभिमतेत्यन्तेन भाष्येणोक्तः । द्वितीयश्लोकं व्याचष्टे ज्ञान स्वरूपमिति । ब्रह्मस्वरूप प्रकाशत्वे सति–स्वरूपविषयज्ञानत्वे सतीत्यर्थः । विशेषानवगमात् – विषयवैषम्याभावादित्यर्थः ॥ कथं विशेषानवगमः; प्रमाणजन्यत्वं विशेषोऽस्तीति चेत् — किं तेन ? विषयवैषम्यं हि न विद्यते । किं स्वरूपभूतज्ञानान्निवर्तकज्ञानस्य विषयवैषम्यम् ? अस्ति वा । न वा । अस्ति चेत् सविशेषत्वम् । नो चेत् स्वरूपमेव निवर्तकं स्यात् । प्रमाणजन्यज्ञानमनिवर्तकं वा स्यात्, पुरोऽवस्थितभास्वरवस्तुविषयज्ञानवत् । प्रमाणजन्यज्ञानत्वं न निवर्तकत्वे प्रयोजकम् ; इदं शुक्लमास्वरद्रव्यमिति वाक्यजन्यस्य ज्ञानस्य निवर्तकत्वाभावात् । तस्मात् भ्रमसहकारादतिरिक्ताकारविषयत्वं निवर्तकत्वे प्रयोजकम् ॥ दृष्टः;
ननु, विषयवैषम्याभावेऽपि कस्यचित् ज्ञानस्य भ्रमाविरोधित्वं कस्यचिद्भ्रमविरोधित्वं च दृष्टमभिज्ञाप्रत्यभिज्ञयोः । अयमेको देवदत्त इत्यभिज्ञाया एक विषयत्वेऽपि पूर्वदृष्टादयमन्य इति पुरुषद्वित्वभ्रमो प्रत्यभिज्ञायास्तु सोऽयमेको देवदत्त इति देवदत्तैक्यविषयत्वेऽपि द्वित्वविरोधित्वं दृष्टम् इति विषयवैषम्याभावेऽपि प्रमाणज्ञानस्य भ्रमनिवर्तकत्वं युक्तमिति शङ्कायामाह एतदुक्तमिति । सत्यत्वज्ञानत्वादिखभावोऽस्तीति चेत् —स’ च स्वरूपानतिरिक्त इति दर्शयितुं स्वभावशब्दः । अनेनाभिज्ञाप्रत्यभिज्ञयोरपि विषयवैषम्यमुक्तं भवति । अभिज्ञायामेकस्य धर्मिण एकदेशकालसंबन्धित्वं प्रतिपन्नम्, न तु कालद्वयदेशद्रयसंबन्धित्वम् । तत्तु प्रत्यभिज्ञायां प्रतिपन्नम् । एकदेश काल संबन्धित्वप्रतीतिर्न द्वित्वविरोधिनी । एकस्य घर्मिणः कालद्वयदेशद्वय संबन्धित्वं यैक्यम् । तत्तु द्वित्वविरोधीति तत्प्रतिपत्तिर्द्वित्वभ्रमं निवर्तयति । अतस्तत्रापि विषयवैषम्यमस्तीति फलितम् । अथ तृतीयश्लोकार्थस्य विपर्यये पर्यवसानमाह किञ्चेति । प्रमाणज्ञानत्वं निवर्तकत्वव्यापकम् । अतोऽधिष्ठानभूतत्रह्मस्वरूपस्य प्रमाणज्ञानत्वाभावान्न भ्रमनिवर्तकत्वम् । अधिष्ठानत्वात शुक्त्यादिवत् ब्रह्मस्वरूपं न श्रमविरोधीति प्रमाणान्तरज्ञानमपेक्षत इति शङ्कयामाहं शुक्तचादयस्त्विति । अधिष्ठानत्वस्य ज्ञानान्तरविषयत्वं व्यापकम् । अतो व्यापक निवृत्त्या अधिष्ठानत्व निवृत्तिरिति, अधिष्ठानत्वादेव ब्रह्म स्वरूपस्फुरणेऽपि प्रमाणान्तरमपेक्षेत ॥ नैवम् । जडत्वादेव हि शुक्त्यादेः स्वरूपस्फुरणेऽपि प्रमाणान्तरापेक्षा, नाधिष्ठानत्वात् । अतोऽधिष्ठानत्वं सोपाधिकम् । अत्र त्वजडत्वात् स्वरूपस्फुरणे प्रमाणन्तरापेक्षा नास्तीति चेत् तर्हि जडत्वादेव भ्रमनिवृत्तौ शुक्त्यादेर्ज्ञानान्तरापेक्षा, नाधिष्ठानत्वात्
‘अथोच्येत - ब्रह्मव्यतिरिक्तस्य मिथ्यात्वज्ञानमज्ञानविरोधी ति-न । इदं ब्रह्मव्यरितिक्तमिथ्यात्यज्ञानं किं ब्रह्मयाथात्म्याज्ञानविरोधि, उत प्रपञ्चसत्यत्वरूपाज्ञानविरोधि इति विवेचनीयम् । न तावत् ब्रह्मयाथात्म्याज्ञानविरोधि; अतद्विषयत्वात् । ज्ञानाज्ञानयोरेकविषयत्वे (त्वेन ) हि विरोधः । प्रपञ्चमिथ्यात्वज्ञानं तत्सत्यत्वरूपाज्ञानेन विरुध्यते । तेन प्रपञ्चसत्यत्वरूपाज्ञानमेव वाधितमिति ब्रह्मस्वरूपाज्ञानं तिष्टत्येव ॥ ब्रह्मस्वरूपाज्ञानं नाम तस्य सद्वितीयत्वमेव । तत्तु तद्यतिरिक्तस्य मिथ्यात्वज्ञानेन निवृत्तम् । स्वरूपं तु स्वानुभवसिद्धमिति चेत्-न; ब्रह्मणोऽद्वितीयत्वं स्वरूपं स्वानुभवसिद्धमिति तद्विरोधि सद्वितीयत्वरूपाज्ञानं तद्वाधश्च न स्याताम् । अद्वितीयत्वं धर्म इति चेत्-न; अनुभवस्वरूपस्य ब्रह्मणोनुभाव्यधर्मविरहस्य भवतैव प्रतिपादितत्वात् । अतो ज्ञानरूपस्य ब्रह्मणो विरोधादेव नाज्ञानाश्रयत्वम् ॥ किञ्चाविद्यया प्रकाशैकस्वरूपं ब्रह्म तिरोहितमिति वदता स्वरूपनाश एवोक्तस्स्यात् । प्रकाशतिरोधानं नाम प्रकाशोत्पत्तिप्रतिबन्धः, विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वा’ भ्युपगमेन प्रकाशतिरोधानं प्रकाशनाश एव ॥ -X- अतस्तत् सोपाधिकम् । तस्मादजडे तु प्रमाणान्तरापेक्षा भ्रमनिवृत्तौ च न स्यादित्यभिप्रायः । शुक्त्यादयस्त्वित्यत्र तुशब्दो ब्रह्मणः शुक्त्या दिव्यावृत्तिपरः । द्वी द्वैतिनां गतिः - ब्रह्मविषयप्रमाणज्ञानं भ्रमनिवर्तकम्, प्रपञ्च मिथ्यात्वविषयज्ञानं भ्रमनि वर्तकमिति च । तत्र प्रथमपक्षो दूषितः । अथ द्वितीयपक्षं दूषयितुं शङ्कते अथोच्येतेति । दूषयति नेत्यादिना । इदमिति ॥
ननु कथं प्रपञ्चसत्यत्वमज्ञानमित्युच्यते ? अज्ञानं हि ज्ञानप्रबन्धकम्। न हि प्रपञ्चसत्यत्वं कस्यचित् ज्ञानं प्रतिबध्नाति ॥ सत्यम् ; आच्छादकाज्ञानमेवम्भूतम् । प्रपञ्च सत्यत्वं तत्प्रतिभासश्च विक्षेपरूपाज्ञानमिति पराभ्युपगमादेवमुक्तम् । प्रथमं शिरो दूषयति अतदिति । कथमतद्विषयत्वात् ब्रह्मस्वरूपाज्ञानाविरोधित्वमित्यत्राह ज्ञानाज्ञानयोरिति । विरोधे हि निवृत्तिरित्यर्थः । द्वितीय शिरो दूषयति प्रपश्चेति । प्रपञ्च मिथ्यात्वज्ञानेन ब्रह्मस्वरूपाज्ञाननिवृत्तेः फलितत्वमाशङ्कते ब्रह्मस्वरूपेति । सद्वितीयत्वम्सद्वितीयत्वज्ञानमित्यर्थः । न हि सत्तया सद्वितीयत्वं ब्रह्मस्वरूपाज्ञानं भवति, अपारमार्थ्यात् सद्वितीयत्वविशिष्टब्रह्मगोचराज्ञाने निवृते विशेष्यांशगोचरमपि ज्ञानं निवृत्तमिति स्वरूपसिद्धिः कथमित्यत्राह स्वरूपं त्विति । दूषयति नेति । अद्वितीयत्वं किं स्वरूपम्, उत धर्मः इति विकल्पाभिप्रायेण प्रथमं स्वरूपपक्षं दूषयति नेति । धर्मपक्षे अपसिद्धान्तमाह अद्वितीयत्वमिति । आश्रयानुपपत्ति निगमयति अत इति । विरोधादेव – पूर्वोक्तादेवेत्यर्थः । एवमाश्रयानुपपतिरुक्ता ॥ / अथ तिरोधानानुपपत्तिमाह किचेति ।
ननु भवत्पक्षेऽपि क्षेत्रज्ञानां नित्यं स्फुरणमस्ति । तथापि तेषां स्वरूपतिरोधानेन विना न देहात्मभ्रम इति तुल्या अनुपपत्तिः ॥ सत्यम् । स्वरूपस्फुरणमस्त्येव । न तस्य तिरोधानमभ्युपगम्यते । न च स्वरूपस्फुरणं भ्रमविरोधि; किं तु नित्यत्वा णुत्वनिरवयवत्वादीन्येव श्रमविरोधीनि । ताभ्यागमगम्यानि । तेषां तिरोधिः तद्विषयज्ञानप्रसराभावरूपः सङ्कोचः । अतः स्वरूपातिरिक्ताकारान्तरतिरोधानाभ्युपगमात् ‘नाऽऽत्मनो नाशप्रसङ्गः ॥ ज्ञानस्यात्मासाधारणाकारस्य स्फुरणामांनुपपत्तिरिति चेन्न ; तस्यासाधारणत्वास्फुरणात् । असाधारणतया
मुतंप्रकाशिकोपेते श्रीमान् समानुपपत्तिः) अपिच - निर्विषया निराश्रया स्वप्रकाशेयमनुभूतिः स्वाश्रयदोषवशादनन्ताश्रयमनन्तविषयमात्मानमनुभवतीत्यत्र किमयं स्वाश्रयदोषः परमार्थभूतः, उतापरमार्थभूत होते विवेचनीयम् । न तावत् परमार्थः ; अनभ्युपगमात् । नाप्यपरमार्थः, तथा सति हि द्रष्टृत्वेन वा दृश्यत्वेन बा दृशित्वेन वाऽभ्युपगमनीयः । न तावद्हशिः ; दृशिस्वरूपभेदानभ्युपगमात् । भ्रमाधिष्ठानभूतायास्तु साक्षाद्द्द्दशेर्माध्यमिकपक्षप्रसङ्गेनापारमार्थ्यांनभ्युपगमाच्च । द्रष्टदृश्ययोस्तदवच्छिन्नाया दशेश्व काल्पनिकत्वेन मूलदोषान्तरापेक्षयाऽनवस्था स्यात् । अथैतत्परिजिहीर्षया परमार्थसती अनुभूतिरेव ब्रह्मरूपा दोष इति चेत् — ब्रह्मैव चेद्दोषः, प्रपञ्चदर्शनस्यैव तत् मूलं स्यात्; किं प्रपञ्चस्फुरतो हि धर्मस्य भ्रमविरोधित्वं दृष्टम् । यथा शुक्तित्वादेः । शुक्तित्वं हि शुक्त्यसाधारणतया पूर्व ज्ञातं पश्चात् भ्रमं निवर्तयति । न तावत् ज्ञानं देहातिरिक्तात्मा साधारणधर्मत्वेन कचिद्दष्टचरम् । अतो भ्रमः संभवति । आत्मासाधारणधर्मत्वादर्शनादध्यासः, अध्यासादसाधारणधर्मत्वाग्रहणमित्यन्योन्याश्रयोऽनादितया परिहृतः ॥ धर्मभृतज्ञानस्य नित्यत्वं तिरोधानं च भवद्भिरभ्युपगम्यते, तदा ज्ञाननाशप्रसङ्ग इति चेन्न । ज्ञानं हि द्रव्यम् । तस्य स्वरूपातिरेकेण सङ्कोचविकासात्मकमवस्थाद्वयमभ्युपेतम् । अतस्ततिरोधानं कर्मणा तत्सङ्कोचः । तन्निवृत्तिस्तु प्रसरः । स एव प्रकाशः । स चानित्यः । तस्यानित्यत्वेऽपि नित्यस्य ज्ञानद्रव्यस्य स्वप्रकाशत्ववादः स्वप्रकाशनरूपप्रसरणार्हत्वनिबन्धनः । अतोऽवस्थाद्वयस्याऽऽगमापायित्वात् द्रव्यं नित्यमेव । अस्मदवस्थास्थानीयो हि भवतः प्रकाशः । स एव स्वरूपम् । तस्मात् तिरोधानं तन्निवृत्तिरेव — इतीममर्थमभिप्रेत्य प्रकाशैकस्वरूपं ब्रह्मेत्युक्तम् । अतः स्वरूपातिरेकिप्रकाश तिरोघानाख्यावस्थाद्वयानभ्युपगमात् स्वरूपनाश एव तिरोधानं स्यादित्यर्थः ॥ अथ स्वरूपानुपपत्तिमाह अपिचेपि । ज्ञातृत्वादीनामपरमार्थतया हि दोषान्तरापेक्षा ॥ तद्वदिहापीति दृष्टान्ततया वक्ष्यमाणानवस्थोपयोगित्वेन निर्विषयेत्यादिपरिपाटी प्रकटनं कृतम् । यद्वा विषयाश्रयमेदानामसत्त्वप्रतिभासयोरुक्तिर्दोषकल्पना कारणत्वेन कृता। अनभ्युपगमादिति । परमार्थत्वे ह्यद्वैत हानिप्रसङ्ग इति भावः । अपरमार्थपक्षं दूषयितुं कोटित्रयमेव संभावितमित्याह तथासतीति । अपरमार्थत्वात मूलदोषान्तरापेक्षयाऽनवस्थेति दूषणं कोटित्रयस्यापि साधारणम् । दृशित्वपक्षे अधिकं दूषणमस्तीति दर्शयति न तावदिति । किमनवच्छिन्ना दृशिः, उतावच्छिन्ना ? हशेरनवच्छिन्नत्वे किं स्वरूपातिरिक्ता, उत स्वरूपमेवेति विकल्पमभिप्रेत्य, अनवच्छिन्नपक्षे स्वरूपातिरिक्तपक्षं दूषयति दृशिस्वरूप मेदानभ्युपगमादिति । अनवच्छिन्नदृशिद्वयानभ्युपगमादित्यर्थः । अनवच्छिन्नपक्षे स्वरूपदृशिपक्षं दूषयति भ्रमेति । अवच्छिन्नदृशिदूषणत्वेन वक्ष्यमाणानवस्था अनवच्छिन्नपक्षेऽपि समाना; अत्राधिकदूषणद्वयसद्भावात् सा नोक्ता । अवच्छिन्नदृशित्वेन द्रष्टृत्वेन दृश्यत्वेन चाभ्युपगमं दूषयति द्रष्टृदृश्य योरिति । काल्पनिकत्वेन –अपरमार्थत्वेनेत्यर्थः । दोषान्तरापेक्षाहेतुरिदं काल्पनिकत्वम् । अवच्छिन्नदृशिपक्षेऽपि स्वरूपतद्व्यतिरिक्त विकल्पे स्वरूपपक्षेपि तुल्यमनभ्युपगमदूषणम् ; ब्रह्मस्वरूपस्यावच्छिन्नत्वापारमार्थ्यानभ्युपगमात् । अतोऽवच्छिन्नपक्षे न विकल्पितम् ; स्वरूपातिरिक्तपक्षेऽनवस्थोक्ता । अथैतदिति । अपरमार्थत्वेऽनवस्था, परमार्थत्वे अद्वैतहानिरित्येतद्दोषपरिजिहीर्षयेत्यर्थः । अनुभूतेरेव दोषत्वान्नाद्वैत हानिः, तस्याः पारमार्थ्यात नानवस्थेति च भावः । एतद्दषयति ब्रह्मैवेति । अपारमार्थ्याद्दोषान्तरसापेक्षत्वसाम्य-
१-१-१ जिज्ञासाधिकरणम् (स्वरूपानुपपत्तिः) ५ तुल्याविद्यान्तरपरिकल्पनेन ? ब्रह्मणो दोषत्वे सति तस्य नित्यत्वेनानिर्मोक्षश्च स्यात् । अतो यावत् ब्रह्मव्यतिरिक्तपारमार्थिक दोषानभ्युपगमः, न तावत् भ्रान्तिरुपपादिता भवति ॥ मभिप्रेत्य प्रपञ्चतुल्यशब्द उक्तः । अतः - प्रतिशिरोऽभिहितैर्दृषणैरित्यर्थः । अनिर्मोक्षप्रसङ्गपरिहाराय ब्रह्मव्यतिरिक्तत्वम्, अनवस्थापरिहाराय पारमार्थिकत्वम् । परैरनवस्था त्रिधा परिहृता । जीवाज्ञानवादिना वीजाङ्कुरन्यायात् प्रवाहानादित्वेन परिहृता ; अविद्यया जीवः जीवादविद्येति हि तन्मतम् । ब्रह्माज्ञानवादिना स्वरूपानादित्वेन परिहृता । उभाभ्यां च दुर्घटत्वेन परिहृता — दुर्घटत्वमविद्याया भूषणम्, न तु दूषणमिति । परनार्थस्य ह्य्पपत्त्यपेक्षा । प्रासादनिगरणादिष्वल्पास्येन विपुलप्रासादनिगरणमनुपपन्नमिति युक्तिर्न प्रवर्तते । अत उपपत्तिनिर पेक्षत्वमपारमार्थसाधकम् । दोषस्य स्वपर निर्वाहकत्वेन दोषान्तरनैरपेक्ष्याच्च नानवस्थेति ॥ अत्रोच्यते— प्रवाहानादित्वं ब्रह्माज्ञानवादिनैव दत्तोत्तरम्, जीवनित्यत्वधतिभिरकृताभ्यागमकृतवि प्रणाशादिरूपश्वत्यर्थापत्त्या च आमोक्षाज्जीवस्य स्थायित्वमिष्टं हीयेतेति । अपारमार्थ्ये स्वरूपानादित्वमपि नानवस्था परिहारः; तथासति माध्यमिक पक्ष विजयप्रसङ्गात् । तत्र, ‘अधिष्ठानस्य भ्रान्तिसिद्धत्वे तस्याः भ्रान्तेरधिष्ठानान्तरापेक्षा स्यात्, तस्यापि भ्रान्तिसिद्धत्वे अनवस्था स्यात् ’ इत्यनवस्थया द्यधिष्ठानपारमाध्य साधितम् । माध्यमिकेनापरमार्थाधिष्ठानस्य स्वरूपानादित्वे स्वीकृते अनवस्था परिहृतेत्यधिष्ठानापारमाध्यमे व स्यात् । किञ्च स्वरूपानादित्वेऽपि मूलदोषापेक्षाऽस्त्येव, जीवस्यानादित्वेऽप्यविद्यापरिकल्पित्तत्वस्य भवद्भिरङ्गीकृतत्वात् । दुर्घटत्वं चानुपपन्नम् । दुर्घटत्वं नाम उपपत्तिनिरपेक्षत्वम् । तत् अपारमाध्यसाधकं चेत्-अपरमार्थस्य प्रपञ्चस्य दुर्घटत्वेनोपपत्तिनिरपेक्षत्वान्मूलदोषापेक्षा च न स्यात् । निवर्तकज्ञाने सत्यपि साऽवतिष्ठेत ॥ विरोधान्न तिष्ठतीति चेत्; तर्ह्यपपत्त्यनुवर्तिन्यविद्या स्यादिति ॥ परमार्थत्वप्रयुक्तोपपतिरपरमार्थत्वप्रयुक्तोपपतिरिति द्विविधा उपपत्तिः ; तत्र दुर्घटत्वं नाम परमार्थत्वप्रयुक्तोपपत्तिनिरपेक्षत्वम् ; अपरमार्थस्वप्रयुक्तोपपतिर्हि दोषापेक्षा ; अतः प्रपञ्चस्य मूलदोषपरिकल्पनं युक्तमिति चेत् ती परमार्थत्वप्रयुक्तोपपत्तिरूपदोषापेक्षा अपरमार्थभूतदोषस्यापि स्यात् । ततोऽनवस्था तदवस्थैव । दुर्घटत्वभनव स्थापरिहारश्चेत्अधिष्ठानापारमार्थ्येप्यनवस्था परिहृता स्यात् । तत्रापारमार्थ्यप्रयुक्तोपपत्तिरवर्जनीयेति अधिष्ठानापेक्षा स्यादेवेत्यनवस्थितिरिति वक्तव्यम् । तदत्र दोषेऽपि तुल्यमित्यनवस्था दुप्परिहरा । प्रवाहानादित्वपक्षेऽप्यधिष्ठानापारमार्थेऽप्यनवस्था सुपरिहरा पितृपुत्रादिपरम्परावदधिष्ठानपरम्परानादित्वाभ्युपगमाद । १ जीवाज्ञानवादिनं प्रति ब्रह्माज्ञानवादिना यज्ञ दुर्घटत्वे दूषणमुक्तम्, तद् ब्रह्माज्ञानवादेपि तुल्यम् । यथा अविद्याया दुर्घटत्वं चेत् — मुक्तान् परं ब्रह्म चाश्रयेदविद्या ॥ शुद्धस्वरूपं ब्रह्म अशुद्धस्वरूपा अविद्या विरोधान्नाश्रयतीति चेत्तर्ह्यपपत्तिमती अविद्या । तस्मादुक्तान्योन्याश्रयणादिदूषणानि आपतेयुरिति युक्तम् । तत् तवापि तुल्यम् । मोक्षेऽपि ब्रह्माश्रयेदविद्या । न हि 1 त्रिधा -स्वरूपानादित्वप्रवाद्दानादित्वान्पतर रूपमनादित्वं, दुर्घटत्वं, स्वपर निर्वाहकत्वञ्चैर्ति ।
t भूतप्रकाशिकापेते श्रीमान् (अनिर्वचनीयत्वानुपपत्तिः) अनिर्वचनीयत्वञ्च किमभिप्रेतम ? सदसद्विलक्षणत्वमिति चेत्; तथाविधस्य वस्तुनः प्रमाण शून्यत्वेना निर्वचनीयतेव स्यात् । एतदुक्तं भवति - सर्व हि वस्तुजातं प्रतीतिव्यवस्थाप्यम् । सर्वा च प्रतीतिः सदसदाकारा । सदसदा कागयास्तु प्रतीतेः सदसद्विलक्षणं विषय इत्यभ्युपगम्यमाने सर्व सर्वप्रतीतेर्विषयः स्यात् - इति ॥ बाघकज्ञाने सति अपरमार्थभूता अविद्या तिष्ठतीति चेत् — बाधकसंनिधौ न बाध्यसिद्धिरित्येवंरूपोपपतिमत्येवाविद्येति अस्मदुक्तानि अनवस्थादिदूषणान्यापतेयुरिति हि वक्तुं शक्यते ॥ दोषस्य स्वपरनिर्वाहकत्वे अधिष्ठानमपि तथा स्यात् ॥ परं प्रत्यधिष्ठानत्वे सिद्धे हि स्वनिर्वाहकत्वमिति चेत् — परं प्रति दोषत्वे सिद्धे हि स्वनिर्वाहकत्वम्, तदेव नास्तीति तुल्यं स्यात् ॥ अधिष्ठानारोप्ययोर्भेदो दृष्टः । तत्राधिष्ठानस्य स्वपर निर्वाहकले अधिष्ठानाध्यस्तयोरैक्यप्रसङ्ग इति चेत् — दोषतत्कार्ययोरपि तिमिरचन्द्रद्वित्वयोर्भेदो दृष्टः । दोषस्य स्वपरनिर्वाहकत्वे दोषाध्यस्तयोरैक्यप्रसङ्ग इति तुल्यमिति । एतदभिप्रायेण यावद्दशव्यतिरिक्तपारमार्थिकदोषानभ्युपगमः, न तावद्भान्तिरुपपादिता मवतीत्युक्तम् । यथोक्तमाचार्यपादैः- “स्वरूपानादित्वखपरघटने दुर्घटनता प्रवाहानादित्वं पुनरिति चतस्रो हि गतयः । असत्याविद्याया गदितुमनवस्था परिहृतौ मता स्वेतास्तुल्बाः स्फुटमसदधिष्ठानसरणौ ॥” इति ॥ अथानिर्वचनीयत्वानुपपत्तिमाह अनिर्वचनीयत्वञ्चेति । अनिर्वचनीयता - विद्वत्सन्निधौ दुरुपपादत्वम् । कथं प्रमाणशून्यत्वमित्यत्राह एतदुक्तमिति । सर्वं सर्वप्रतीतेर्विषयः स्यादिति । सदसद्विलक्षणमिति या प्रतीतिः; तत्रापि सदसदेव विषयः स्यादित्यर्थः । प्रतीत्यनुगुणं हि नीलपीतादि व्यवस्थाप्यते । तस्मात् सदसदाकारायाः प्रतीतेः सदसदाकार एव विषयः, न सदसद्विलक्षणः । यथा ख्यातिविवेके, “न धन्यत अवभास्यम्, अन्यो विषयः; अवभासनव्यवस्थाप्यत्वाद्विषयस्य " इति ॥ एकस्य विषयस्य सदसदा कारत्वमनुपपन्नम्, व्याप्तिविरोघादिति चेत् — सदसद्विलक्षणत्रं च व्याप्तिविरोधादनुपपद्मम् । सतोऽसद्विलक्षणत्वमसतस्स द्विलक्षणत्वञ्च हि दृष्टम्, न त्वेकस्योभयवैलक्षण्यं दृष्टमिति व्याप्तिविशेषः । अयं विशेषः सदसद्विलक्षणत्वं कचिदपि न दृष्टम्, सदसदात्मकत्वं दृष्टमिति । यथा संवित्सिद्धौ “नासत प्रतीतेर्बाषाञ्च न संदित्यपि यन्न तत् । प्रतीतेरेव सत् किं न बाधान्नासत कुतो जगत् ॥” इति । अर्थस्थित सत्त्वमसत्त्वं वा स्यात् ; न तद्विलक्षणत्वम् ॥ सतो घटादेः सदसद्विलक्षणत्वं दृष्टमिति चेत्–न; तथासति ब्रह्मणोऽपि सदसद्विलक्षणत्वप्रसङ्गात् ॥ अन्यतरत्वसहं सदसद्विलक्षणत्वमिष्टमेवेति वेद-तुल्यम् । ईदृशं सदसद्वैलक्षण्यं वदता, शब्दान्तरेण सत्त्वमेवाङ्गीकृतं भवति । अतस्त्वदभिमत सदसद्विलक्षणत्वं विरोधादपास्तम् ॥ अस्तीति प्रतिपन्नत्वं सत्त्वम्, नास्तीति धीविषयत्वं नाबितत्वमित्येकस्यैव सत्त्वासत्त्वविरोधः सदसद्विलक्षणत्व कल्पकश्चेत् — सर्वत्र पूर्व पक्षसिद्धान्तप्रतीत्योः परस्परविरुद्धाकारविषयत्वादुभयाकार विलक्षण एवार्थः साध्यत इति सिद्धान्तसमर्थनवैरथ्यं स्यात् । लवकर मेदः सुनिरूप इति पूर्वपक्षीकृत्य दुर्निरूप इति त्वया सिद्धान्तिते प्रतीतिदयविशेषात्
अथ १-१-१ जिज्ञासाधिकरणम् । ( प्रमाणानुपपत्तौ परमतोपन्यासः) स्यात् - वस्तुस्वरूपतिरोधानकरमान्तरवा ह्यरूपविविधाच्यासोपादानं सदसदनिर्वचनीयम विद्याऽज्ञानादिपदवाच्यं वस्तुयाथात्म्यज्ञाननिवर्त्य ज्ञानप्रागभावातिरेकेण भावरूपमेव किञ्चिद्वस्तु प्रत्यक्षानुमानाभ्यां प्रतीयते । तदुपहितब्रह्मोपादानश्च अविकारे स्वप्रकाशचिन्मानवपुषि सुनिरूपदुर्निरूपविलक्षणः स्यात् । एवं संवित्सत्यत्वमिथ्यात्व जडत्वाजडत्वनित्यत्वानित्यत्वादिवादेषु पूर्वपक्षसिद्धान्ताकार विलक्षणत्वं संविदः स्यात् । तच्चानभिमतम् । अतः परस्परविरुद्धाकारप्रतीत्योः प्रतिपन्नाकारवैलक्षण्यकल्पकत्वं व्याप्तिविरुद्धमिति न सदसद्वैलक्षण्यसिद्धिः ॥ तर्हि ख्यातिबाधान्यथानुपपत्तेः कः परिहार उक्त इति चेत् — अन्यथैवोपपत्तिरुक्ता भवति सत्वे सति अन्यथाख्यानादिभिस्तत्तद्वाद्यभिमतैरेव ख्यातिबाधोपपत्तेः ॥ सतः कथं बाधः ॥ अन्यत्र ’ ख्यातत्वाद् ॥
नन्वन्यत्र सच्चेत्, न बाधः; न सच्चेत्, असत्ख्यातिप्रसङ्ग इति चेन्न - अन्यत्र सत्त्वात् । अन्यत्र सतोऽन्यत्र रूयात्तत्वं ह्यन्यथाख्यातत्वम् । अन्यत्र सतोऽन्यत्र ख्यातिर्दोषवशात् ॥ दोषस्यान्यत्र ख्यातिहेतुत्वं न दृष्टमिति चेत् — दोषस्यानिर्वचनीया (यतया ) वभासहेतुत्वं च न कचिद्विमतिपदादन्यत्र दृष्टमिति तुल्यम् । मिथो विरुद्ध प्रतिपन्नाकारद्वय वैलक्षण्य मे कस्याविरुद्धमित्येतत् तवाधिक्रम् । अख्यातिपक्षे सत्त्वे सति भेदाग्रहेण ख्यातिवावोपपत्तिः । स एवागृहीतभेदतया ख्यातिः । भेदग्रहश्च बाधः । बाध्यत्वं च प्रवृत्तेः । यथार्थख्यातिपक्षे तु शुक्तिरजतस्वामार्थादौ सत्त्वात प्राचुर्याभावात् स्थिरत्वतदेकानुभाव्यत्वाग्रहाच्च ख्यातिबाधोपपत्तिः ! पुरोवर्तिनि सत एव रजतस्य ख्यातिः । शुक्तिप्राचुर्यग्रहो बाघः । तेन प्रवृत्तिर्वाध्या । तद्वाधश्च प्रवृत्त्यनुपपत्तिः । ‘अलातचक्रादौ तु अख्यातिपक्ष इव तदुपपत्तिः । अतोऽन्यथैवोपपत्तिः सिद्धेत्यनिर्वचनीयत्व कल्पनमयुक्तम् । एवमाश्रयतिरोधानस्वरूपानिर्वचनीयत्वानुपपत्तयं उक्ताः । अथ ‘न हि दृष्टेऽनुपपन्नं नाम’ इति न्यायात् प्रमाणसिद्धार्थस्य तर्केण बाधो न युक्त इत्यभिप्रायवता परेण प्रमाणप्रतिज्ञा शङ्क्यते । अथ स्यादिति । पूर्वदूपिताकारान् साधयितुमाह वस्तुस्वरूपेति । अनेन तिरोधानमुक्तम् । आन्तरबाह्येति स्वरूपमुक्तम् । अध्यासोपादानत्वेन हि मिथ्यात्वं फलितम् । सदसदिवि अनिर्वचनीयत्वमुक्तम् । शास्त्रप्वेतत्प्रतिपादकशब्दप्रत्यभिज्ञानार्थम् अविद्याज्ञानादिपदवाच्यमित्युक्तम् । सिद्धान्तिना दूषयिष्यमाणमाकारान्तरमपि साध्यत्वेनाह वस्तुयाथात्म्यज्ञानेति । तदुपहितेति आश्रयश्च । आन्तराध्यासः कः, बाह्यः कः, कथं चाविद्योपादानत्वे ब्रह्मण उपादानत्वमित्यत्राह तदुपहितेति । निष्कृष्टब्रह्मण उपादानत्वानुपपत्ति सूचयति अविकारे स्वप्रकाशचिन्मात्रवपुषि प्रत्यगात्मनीति । अविकारत्वात् स्वप्रकाशत्वात प्रत्यक्ताश्च विकारास्पदजडपराग्रूपपरिणामो नोपपद्यत इत्यर्थः । स्वप्रकाशस्य कथमध्यासंसंभव इत्यत्राह तिरोहितस्वरूप इति । तिरोघायकं किमित्यत्राह
- अन्यत्र = तहितस्थलें तस्य ख्यातत्वात् बाधः इति समाधानम् । 2
ननु पृथक्पृथक् इदमर्थग्रहे रजतप्रतीतौ च भेदाग्रहस्य कारणत्वाभावात् बाधं प्रति सुतरां तस्याकारणत्वात् कथं भेदाग्रहणस्यातिवाधोपपत्तिरुच्यत इत्यत्राशयमाह सत एवेति । मेद। ग्रहविशिष्टरजतप्रतीतिरेव रूपातिरित्यादी तात्पर्यम् । 9 अलातचक्रादौ परमार्थचक्राभावेन यथार्थख्यात्यसंभवात् अख्यातिपक्ष एवेत्यर्थः ।
( परमताविद्या प्रमाणोपन्यासः ) तेनैव तिरोहितस्वरूपे प्रत्यगात्मनि अहङ्कार ज्ञानज्ञेयविभागरूपोऽध्यासः । तस्यैवावस्थाविशेषेणाध्यासरूपे जगति ज्ञानवाध्यसर्परजतादिवस्तु तत्तज्ज्ञानरूपाध्यासोऽपि जायते । कृत्स्नस्य मिथ्यारूपस्य तदुपादानत्वं च मिथ्याभूतमेव कारणं भवितुमर्हतीति हेतुवलादवगम्यते ॥ कारणाज्ञानविषयं प्रत्यक्षं तावत् - अहमज्ञः मामन्ये च न जानामीत्यपरोक्षावभासः । अयं तु न ज्ञानप्रागभावविषवः । स हि पष्ठप्रमाणगोचरः; अयं तु, अहं सुखीतिवदपरोक्षः । अभावस्य प्रत्यक्ष [गोवर] त्वाभ्युपगमेऽप्ययमनुभवो नात्मनि ज्ञानाभावविषयः ः अनुभव वेलायामपि ज्ञानस्य विद्यमानत्वात्; अविद्यमानत्वे ज्ञानाभावप्रतीत्यनुपपत्तेश्च । एतदुक्तं भवति - अहमज्ञ इत्यस्मिन्
ननुभवे अहमित्यात्मनोऽभावधर्मितया ज्ञानस्य च प्रतियोगितयाऽवगतिरस्ति वा? न वा ? । अस्ति चेत्, विरोधादेव न ज्ञानाभावानुभवः संभवः । नो चेत्, धर्मिप्रतियोगिज्ञानसव्यपेक्षो ज्ञानाभावानुभवः
तेनैवेति । तेनैव अध्यास हेतुनैवेत्यर्थः । अहङ्कारोऽज्ञानं चान्तराध्यासः, ज्ञेयं वाह्याध्यासः 1 अध्यासरूपे - अध्यस्तरूपे कर्मणि घञ - तस्यैव — दोषस्यैव अवस्थाविशेषेण - कादाचित्कावस्थाविशेषेण रज्जुसर्पाद्यध्यासः [ इत्यन्वयः?] । एवं निष्कृष्टत्रह्मण उपादानत्वानुपपतिरुक्ता । दोषस्योपादानत्वे उपपत्तिमाह कृत्स्त्रस्येति । सुवर्णजातीयस्य भूषणस्य स्वर्गमेव ह्यपादानं दृष्टम्, तद्वदिति भावः । हेतुवलात् –कार्यकारणयोरस जातीयत्वं ददर्शनलक्षणात् ॥ अथ प्रत्यक्षम् ह कारणेति । अहमज्ञ इत्यस्य विवरणम् मामन्यं च न जानामीति । अहमज्ञ इत्यज्ञानस्वरूप कीर्तनम् । तस्य मामन्यं च न जानामीत्याच्छादनरूपकार्यकथनम् । कारणशब्देन कार्यरूपाज्ञानव्यावृत्तिः । तस्मात् सौषुप्तिकमज्ञानं विवक्षितम् । जागरिताद्यवस्थायां घटाद्यवच्छिन्नमज्ञानं प्रतीयते सविकल्पकप्रत्यक्षेण; सुषुप्तौ तु अनवच्छिन्नकारणाज्ञानप्रतीतिरिति तत्त्वशुद्धिकारादिमिरुक्तम् । जागरितावस्थायामेवाज्ञानानुभवोऽयमिति सम्प्रदायः; अन्यं च न जानामीत्युक्तेः न हि स्वाप्रेऽन्यपरामर्शः । न जानामीत्याच्छादकतया प्रतीयमानस्याज्ञानस्य कारणत्वात् कारण । ज्ञानविषयमित्युक्तम् । अपरोक्षावभास इति परोक्षरूपानुमानादिप्रमाणन्यावृत्त्यर्थमुक्तम् । ज्ञानप्रागभावविषयत्वमाशंक्य परिहरति अयंत्विति । भवत्वयमपि षष्ठप्रमाणविषय इत्याशङ्क्याह अयं त्विति । परोक्षप्रमाणानि प्रत्यक्षव्यतिरिक्तानि । तस्मात् परोक्षप्रमाणविषयः प्रागभावो नापरोक्षप्रमाण विषयभूतमज्ञानं भवितुमर्हतीत्यर्थः । भावग्राहिप्रमाणेनाभावस्य वेद्यत्वेऽपि दूषणमाह अभावस्येति । हेतुमाह ः अनुभवेनि । अभावस्यानुभव वेलायां ज्ञानं विद्यते, न वा ? विद्यते चेत्, ग्राह्याभावान्नाभावप्रतीतिः । न चेत्, ग्राहकाभावान्न तदभावप्रतीतिरित्यर्थः । भावाभावयोरेकविषयत्वे हि विरोधः । अत्र विरोधो नास्ति । अभावविषयकज्ञानस्य विद्यमानस्य ग्राहकत्वात् इतरविषयज्ञानस्याभावप्रतियोगित्वेना विद्यमानत्वादिति शङ्कां परिहरन् — अनुभववेलायां ज्ञानस्य विद्यमानत्वम्, अविद्यमानत्वे ज्ञानाभावप्रतीत्यनुपपत्तिम्, भावरूपत्वे विरोधाभावं च विवृणोति एतदुक्तं भवतीति । ज्ञानप्रागभावस्य ग्राह्यत्वे अनिच्छयापि भावाभावयोरेक विषयत्वमापतितमित्यभिप्रायेणाह अहमिति । ज्ञानस्य चेति । ज्ञानशब्द आत्मविषयघटादिविषयज्ञानसाधारणः । इह भूतले घटो नास्तीत्यादिषु अभावग्रहणे प्रतियोगिधर्मिणोर्ज्ञानापेक्षा दृष्टा । तस्मादत्राप्यभावधर्मितया आत्मनो ज्ञानमस्तीति वक्तव्यम् ।
१-१-१ जिज्ञासाधिकरणम् (अभावरूपाज्ञानस्य ग्राह्यत्वायोगः ) सुतरां न संभवति । ज्ञानाभावस्यानुमेयत्वे अभावाख्यप्रमाणविषयत्वे चेयमनुपपत्तिः समाना । अस्याज्ञानस्य भावरूपत्वे धर्मिप्रतियोगिज्ञानसद्भावेऽपि विरोधाभावादयमनुभवो भावरूपाज्ञानविषय एवाभ्युपगन्तव्यः - इति ।
ननु च भावरूपमप्यज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचैतन्येन विरुध्यते ॥ मैवम् । साक्षिचैतन्यं न वस्तुयाथात्म्यविषयम्, अपि त्वज्ञानविषयम्; अन्यथा मिथ्यार्यावभासानुपपत्तेः । न ह्यज्ञानविषयेण ज्ञानेनाज्ञानं निवर्तत इति न विरोधः ॥
ननु चेदं भावरूपमप्यज्ञानं विषय- अभावव्यतिरिक्तो ह्यात्मा । अतः तद्विषयज्ञाने सत्यपि अभावव्यतिरिक्तविषयज्ञानमभावप्रतियोगी ‘ति वचनं व्याहतं स्यात् । अभावधर्भिप्रतियो गिरूपत्रितयव्यतिरिक्तविषयज्ञानमभावप्रतियोगीति चेत्तदानीमभावप्रतियोगितया ज्ञानस्यापि प्रतीतिरस्तीति वक्तव्यम् । प्रतीयमानं ज्ञानं स्वविषयावच्छिन्नं प्रतीयत इति विषयाणामपि प्रतीतिरस्ति । एवमभावप्रतियोगिज्ञानावच्छेदकतया विषयेषु ज्ञायमानेषु तद्विषयज्ञानाभावोऽनुपपन्न इति भावः । अभावस्य प्रमाणान्तर विषयत्वेऽप्युक्तदूषणमतिदिशति ज्ञानाभावस्येति । प्रमाणान्तराणां विद्यमानविषयत्वनियमाभावेऽपि विद्यमानतया दर्शयितुमशक्यमिति (?) भावः । अहमज्ञ इति वर्तमानतया ह्यज्ञानं प्रतीयते । अस्मिन् पक्षे अधिकं दूषणान्तरं पूर्वमुक्तम् अपरोक्षस्य परोक्षरूपप्रमाणविषयत्वानुपपत्तिरूपमर्थसिद्धम् । भावरूपत्वेः उक्तदूषणं नास्तीत्याह अस्येति । धर्मिप्रतियोगिविषयज्ञानं धर्मिंप्रतियोगिज्ञानम् । न तेन भावरूपाज्ञानस्य विरोधः, घटाच्छादकमज्ञानं घंटज्ञानेन हि विरुध्यते, न तु घटज्ञानविषयज्ञानेन, धर्मिज्ञानेन चेत्यर्थः । वस्तुयाथात्म्यज्ञाननिवर्त्यमज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचैतन्येन विरुध्यत इति चोदयति
ननु चेति । परिहरति मैवमिति । याथात्म्य शब्देन निष्कृष्टमद्वितीयत्वलक्षणं स्वरूपं विवक्षितम् । प्रपञ्चमिथ्र्यात्व सिद्धवत्कारेण हेतुमाह अन्यथेति । अन्यथा - स्वसाक्षिस्वरूप प्रकाशमात्रस्यैव वस्तुयाथात्म्यविषयत्वे इत्यर्थः । [अज्ञानविषयत्वाभावे इति वा?] अज्ञानविषयत्वमस्तु ततः किमित्यत्राह नहीति । न हि रजतविषयज्ञानेन रजतं निवर्त्यमित्यर्थः । दृश्यविशेषणस्य रूपादेरपि दृश्यत्वं दृष्टम् । दृश्याज्ञानावच्छेदकस्यास्मदर्थस्य दृश्यत्वानभ्युपगमात् अस्मदर्थावच्छिन्नमज्ञानं न विषयीक्रियत इत्यभिप्रायेण पुनश्चोदयति
ननु चेद- ‘1 अभावप्रतियोगीतीति । नास्तीतीत्यर्थः । 2 नंनु भावस्याभावेन साक्रमेव विरोधात् धर्मिज्ञान प्रतियोगिज्ञानाभ्यामिव घटज्ञानेनापि न विरोधः । किं तु घटाज्ञानाभावेन सहैवेति चेत् — अत एवात्र भावप्रकाशिकायां घटज्ञान इति सप्तम्यन्तं छित्वा नेति पृथक्कृत्य अविरोध एव वाक्यार्थत्वेन दर्शितः । यदि रजतत्वं प्रति शुक्तिवस्येव भावस्यापि विरोधित्वमिष्टमावश्यकञ्च, तदाऽस्यैवं भावःअभावात्मकाज्ञानस्य ज्ञानसामान्याभावरूपत्ववत् सामान्यरूपं भावरूपमज्ञानं किञ्चिन्नास्ति ; किं तु घटपटात्मादिविशेषाज्ञानमेव । तस्य च न ज्ञानसामान्यं विरोधि ः किं तु घटादिज्ञानमेवेति ।
ननु घटज्ञानज्ञानमति घटरूपविषया वलीढमेवेति तदपि घटज्ञानमेवेति चेत्तादृश दे चारोत्रैवोपरि समाधाने भविष्यति । 3 स्थितमप्यविहाय भावप्रकाशिकानुसारादेवं पाठोल्लेखः । 2-2
१०
विशेषव्यावृत्तमेव साक्षिचैतन्यस्य विषयो भवति । स विषयः प्रमाणा [न]धीनसिद्धिरिति कथमिव साक्षिचैतन्येनास्मदर्थव्यावृत्तमज्ञानं विषयीक्रियते ॥ 1 नैष दोषः । सर्वमेव वस्तुजातं ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषयभूतम् । तत्र जडत्वेन ज्ञाततया सिध्यत एव प्रमाणव्यवधानापेक्षा । अजडस्य तु प्रत्यग्वस्तुनः स्वयं सिध्यतो न प्रमाणव्यवधानापेक्षेति सदैवाज्ञानस्य व्यावर्तकत्वेनावभासो युज्यते । तस्मात् न्यायोपबृंहितेन प्रत्यक्षेण भावरूपमेवाज्ञानं प्रतीयते ।
तदिदं भावरूपमज्ञानमनुमानेनापि सिध्यति विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभाव- मिति । विषयविशेषः — अवच्छेदकविशेषः । स इति स एव परामृश्यते । परिहरति नैष दोष इति । अस्मदर्थोऽपि सर्वशब्दवाच्यान्तर्भूतः । ज्ञाततया अज्ञाततया वा - ज्ञानान्तरसापेक्षं तन्निरपेक्षं वा । साक्षिचैतन्यस्य विषयभूतम् साक्षिचैतन्येन प्रतिभातीत्यर्थः । अस्मदर्थस्य साक्षिचैतन्यविषयत्वमौपचारिकम् ; स्वयम्प्रकाशस्य स्वस्य विषयत्वायोगात् । जडस्य स्वयम्प्रकाशत्वायोगात् प्रमाणाधीनसिद्धि सत् [तत् ?] दृश्यविशेषणं भवति । अस्मदर्थस्तु स्वयम्प्रकाशतया स्वयमेव सिध्यन् अज्ञानावच्छेदक इत्यर्थः । दृश्यावच्छेदकत्वादृश्यमिति चोद्यम्; तत् जडत्वप्रयुक्तमिति सोपाधिकमिति परिहारः । तस्मात् - अभावरूपत्वपक्षे, उक्तविरोधात् भावरूपत्वपक्षे तदभावाच्चेत्यर्थः । न्यायोपबृंहितेनेति । पक्षद्वयेऽपि विरोधतदभाव रूपन्यायानुगृहीतेनेत्यर्थः । एवं प्रत्यक्षेण न्यायानुगृहीतेनाज्ञानस्य भावरूपत्वम्, न जानामीत्यनेनात्माश्रयत्वं च सिद्धम् । शास्त्रेष्वज्ञानशब्दवाच्यतया पराभिमतकर्मव्यावृत्तिःः ’ प्रत्यक्षतया सिद्धा । अस्य च शास्त्रेप्वज्ञानादिशब्दवाच्यत्वं ज्ञानविरोधित्वात्, अहमज्ञ इति प्रतिपन्नतया च सिद्धम् । अथ स्वविषयावरणत्वस्वनिवत्यत्वाभ्यां सह उपपादिताकारविशिष्टं चाज्ञानमनुमानेनापि साध्यते विवादाध्यासितमित्यादिना । ज्ञानमित्युक्ते ब्रह्मस्वरूपस्य वस्त्वन्तरपूर्वकत्वासंभवात् तद्यावृत्त्यर्थं प्रमाणज्ञानमित्युक्तम् । तथाऽपि धारावाहिकज्ञाने उत्तरोत्तर विज्ञानानां सिषाधयिषितवस्त्वन्तरपूर्व-
- अयं भाष्यग्रन्थः शतदूषणीभावप्रकाशिकानुसारेण पञ्चपादिकाद्य द्वैतग्रन्थानुगुणतया भाष्यार्थदर्पणे द्वेधाऽस्माभिर्व्याख्यातः । यथाश्रुतश्रुतप्रकाशिकानुसारात्तु अयमर्थः - अज्ञानस्य सविषयकत्वात् विषयसिद्धेश्च प्रमाणाधीनत्वात्; अज्ञानकाले च विषयः प्रमाणाधीन सिद्धिर्नेति कथं विषयाभाने विषय विशिष्टाज्ञानग्रहणम् । अतोऽस्मदर्थभूतात्मस्वरूपाज्ञान प्रत्यक्षं दुर्ववचमिति शंका । परिहारस्तु घटादिकं जडत्वात् मानाधीनज्ञाने सति साक्षिभास्यम् । अस्मदर्थस्तु अजडत्वात् ज्ञानं विनाऽपि । एवञ्चाज्ञानविशेषणत्वमपि तस्य घटते इति । एतावान् भाष्यार्थः । एतदुपरि जडभूतघटाद्यज्ञानभानं कथमिति शंका स्यात् । तत्र जडविषये अज्ञानं नेष्यत इति परिहारो निगूढः टीकेष्ट इव । टीकायां ज्ञानान्तरसापेक्षमितींद जडविषयकम् । तन्निरपेक्षमितीदम्, आत्मविषयकम् । पूर्णाद्वैत्यभिप्रायप्रदर्शित्वेन भाष्यव्याख्याने तु ज्ञातयेत्यस्य ज्ञानविशेष - णतयेति, अज्ञाततयेत्यस्य अज्ञानविशेषणतयेति चार्थः, इत्यलम् । 2 विषयविषयिभावो विभिन्नयोरेव भवति ; न तु स्वं प्रति स्वस्येत्यर्थः 1 3 पुण्यापुण्यरूपकर्मणोऽप्रत्यक्षत्वादिति भावः ।
१-१-१ जिज्ञासाधिकरणम् (भावरूपाज्ञानेऽनुमानम् ) ११ व्यतिरिक्त स्वविषयावरण-स्वनिवर्त्य - स्वदेशगतवस्त्वन्तरपूर्वकम् अप्रकाशितार्थप्रकाशकत्वात्ः; अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत् - - इति ॥ आलोकाभावमानं वा रूपदर्शनाभावमात्रं वा तमः ; कत्वाभावात् तद्व्यावृत्त्यर्थं विवादाध्यासितमित्युक्तम् । तज्ज्ञानं किमित्यपेक्षायां व्यक्त्यर्थं प्रमाणज्ञानमित्युक्तम् । अयं (एवं?) धर्मी दर्शितः । अथ साध्यधर्ममाह स्वप्रागभावेत्यादिना । वस्त्वन्तरपूर्वकमित्युक्ते घटादिखविषयपूर्वकत्वेन सिद्धसाधनं स्यादिति तद्व्यावृत्त्यर्थमाह स्वदेशगतेति । स्वाश्रयगतेत्युक्ते दृष्टान्तस्य साध्यवैकल्यं स्यात् । न हि तमो दीपगतम् । अतः स्वदेशगतेत्युक्तिः । धर्माधर्मव्यावृत्त्यर्थमाह स्वनिवत्यैति ॥
ननु कथं स्वनिवर्त्यशब्देन धर्माधर्मव्यावृत्तिः ? ज्ञानोत्पत्तिहेतुभूतमदृष्टं ज्ञानोत्पत्त्या हि नश्यति ॥ मैवम् सर्वेषां धर्माधर्माणां ज्ञानफलकत्वाभावात् ज्ञानोत्पादकव्यतिरिक्तधर्मादीनां पूर्वक्षणे खदेशे विद्यमानत्वाच्च । यद्वा स्वनिवर्त्यपदेन संस्कारव्यावृत्तिः ; न हि संस्कारो ज्ञानेन निवर्त्यः । भयादिव्यावृत्त्यर्थमाह स्वविषयावरणेति । प्रागभावस्यैवंविधत्वात् तद्व्यावृत्त्यर्थमाह स्वप्रागभावव्यतिरिक्तेति । इयं प्रतिलोमव्यावृत्तिः । बस्त्वन्तरपूर्वक मित्युक्ते अभावस्यापि पदार्थत्वेन वस्तुशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थमाह खप्रागभावव्यतिरिक्तेति । घटादिस्वविषयव्यावृत्त्यर्थमा स्वविपयावरणेति । कुड्या दिव्यावृत्त्वर्थमाह स्वनिवर्त्येति । वेद्यगतवित्यभिव्यक्तिप्रागभादव्यावृत्यर्थमाह स्वदेशगतेति । प्रमाणज्ञानेनाज्ञाने निरस्ते वेद्यगतचैतन्यमभिव्यक्तं भवतीति हि तत्परिपाटी । अभिव्यक्तिप्रागभावस्य विपयावरणत्वं प्रकाशविरोधित्वम् ; न तु तत्प्रतिबन्धकत्वम् । - इत्यनुलोमच्यावृत्तिः । ; । हेतुमाह अप्रकाशितेति । साक्षाद्वा परम्परया वा अवाध्यव्यवहारानुगुण्यहेतुत्वं प्रकाशकत्वमिह विवक्षितम् । साक्षाद्वा परम्परया वेत्युक्ते हि दीपप्रभायां ज्ञाने च हेत्वनुगमसिद्धिः । इदं रजतमिति ज्ञानेऽतिव्याप्तिपरिहाराय अवाध्यव्यवहारानुगुण्यहेतुत्वमित्युक्तम् । प्रकाशकत्वादित्युके धारावाहिकज्ञाने उत्तरोत्तरज्ञानानां प्रकाशकत्वेऽपि सिषाधयिषितधर्माभावात् हेतोरनैकान्तिकत्वं स्यादिति तव्यावृत्त्यर्थमाह अप्रकाशितार्थप्रकाशकत्वादिति । इन्द्रियेण्वनैकान्तिकत्वव्यावृत्त्यर्थं मासमानत्वे सतीति हेतुर्विशेष्यत इति मन्तव्यम् । दृष्टान्तमाह अन्धकार इति । प्रदीप्रभावदित्युक्ते उत्तरोत्तर प्रभाणामप्रकाशितार्थप्रकाशकत्वाभावात् साधनविकलता स्यात्, स्वनिवत्यैवस्त्वन्तरपूर्वकत्वाभावात् साध्यविकलता च स्यात् इति वद्युदासार्थ प्रथमोत्पन्नप्रदीपप्रभावदित्युक्तम् । तथापि दिवा दीपप्रभायास्तथाविधत्वादर्शनात् तद्यावृत्त्यर्थमन्धकार इत्युक्तम् ॥ दृष्टान्तस्य साध्यविकलतामाशक्य परिहरति आलो केल्यादिना । आलोके सति उलूकादीनामन्धकारसंभवादनुयायिनमा कारमाह रूपदर्शनाभावमात्रं वेति । यद्वा निमीलिताक्षस्य तमः प्रतिप्रतिनिर्वाहार्थमाह रूपदर्शनेति । अत्र नैयायिकादिभिरुक्तं दूषणमनुसंधते तत्र उत्पाद कज्ञापकानुपपत्त्या द्रव्यान्तरत्वं दूषितम् । रूपवत्त्वेऽपि परमाणूनामेव अनुत्पाद्यत्वम् । तमसस्तु रूपवत्त्वाद्वहच्चाच्चोत्पाद्यत्वं स्यात् । तत्र रूपवत्त्वात् तद्रहितानि वाय्वाकाशादीनि नोत्पादकानि भवन्ति । स्पर्शरसगन्धविरहात् नान्यान्यपि द्रव्याणि । कारणगुणप्रक्रमेण हि कार्ये वैशेषिकगुणारम्भः । इयमुत्पत्यनुपपत्तिः । आलोका
ननुगृहीतत्वात् चक्षुर्न ग्राहकम् । आलोकसंनिधौ अनवस्थानान्नास्य ब्राह्मत्वम् । रूपवत्त्वप्रतीतिस्तु आन्तिरेव, निमीलने नीलप्रतिभासवदिति ज्ञप्त्यनुपपत्तिः । अत्र परिहारो वार्त्तिककारैरुकः, “तमः खलु चलं 1 1 इति शप्त्यनुपपत्तिरितीदं ‘नास्यग्राह्यत्व’ मित्येतदनन्तरं स्थातुमर्हम् ।
१२
न द्रव्यान्तरम् (द्रव्यम्) । तत् कथं भावरूपाज्ञानसाधने निदर्शनतयोपन्यस्यत इति चेत् — उच्यते । बहुलत्वविरलत्वाद्यवस्थायोगेन रूपवत्तया चोपलब्धेर्द्रव्यान्तरमेव तमः -इति निरवद्यम् - - इति ॥ अत्रोच्यते-‘अहमज्ञो मामन्यं च न जानामि’ इत्यत्नोपपत्तिसहितेन केवलेन च प्रत्यक्षेण ; ; । नीलं परापरविभागवत् । प्रसिद्धद्रव्य (धर्म) वैधर्म्यान्नवभ्यो मेत्तुमर्हति” इति । स एवात्रोच्यते । तत्र परापरशब्दार्थो बहुलत्वविरलत्वशब्देनोक्तः ः आदिशब्देन चलत्वम्; रूपवत्तयेति नीलशब्दार्थ उक्तः ; ‘द्रव्यान्तरशब्देन दशमद्रव्यत्वमुक्तम् । नवद्रव्यस्वीकारो हि तेषां पृथिव्यादीनां द्रव्याणामन्योन्यवैघर्म्यात् ‘स्त्री (?) क्रियते । अन्यथा पृथिव्येव द्रव्यं नान्यत् गन्धवत्त्वाभावादिति वक्तुं शक्यते । एवं द्वे द्रव्ये इत्यादि । तथानभिमतम् द्रव्याणां परस्परवैधर्म्यात् — एवं नवद्रव्यवैधर्म्यात् दशममङ्गीकार्यमिति वार्त्तिकार्थः ॥ निमीलने नीलप्रतिभानं बाघितविषयम्; इदं त्वबाधितत्वान्न तथा भवितुमर्हति ॥ तथापि रूपोपलब्धिवेलायामनुपलब्धेर्निमीलनवदपि संभवतीति शङ्कितं प्रत्यक्षमिति चेत् -न उल्कादीनामस्मदादिरूपोपलब्धिवेलायां रूपानुपलब्धौ तद्रूपोपलब्धेरपि शङ्कितत्वापातात् ; उलूकादिरूपोपलब्धिवेलायामस्मदादेः रूपानुपलब्ध्या अस्मदादिरूपोपलब्धेरपि शङ्कितत्वप्रसङ्गात् । आगमस्वारस्याच्च शङ्काया निरस्तत्वात् तमसो दशमद्रव्यत्वमवसीयते – ‘तमः ससर्ज भगवान्’, ‘नाहो न रात्रिर्न नभो न भूमिर्नासीत् तमो ज्योतिरभून्न चान्यत्”, ‘यस्य तेजः शरीरम्”, “यस्य तमः शरीरम्” इति सृज्यत्वसंहार्यत्वशरीरत्वादीनि हि श्रयन्ते । आलोकनैरपेक्ष्यं यथा ज्ञातृविशेषपयुक्त दृश्यते तथा ज्ञेयविशेषप्रयुक्तमप्युपपद्यते । कार्य हि यथा लोके प्रतीतं तथा कारणकल्पनायां प्रमाणम् ; न पुनः स्फुटावधारितं कार्यं कारणनिरूपणाया पहवमर्हतीति न्यायादबाधितप्रतीतिसिद्धस्य तमस उत्पादकं कल्प्य मिति नोत्पादकानुपपत्तिर्ज्ञापकानुपपत्तिर्वा । यथा [आहुरस्मदाचार्याः १] a “तमो नाम द्रव्यं बहुलविरलं मेचकचले प्रतीमः (तं) केनापि क्वचिदपि न बाधश्च ददृशे । अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते निरालोकं चक्षुः प्रथयति हि तत् दर्शनवशात् ॥” तमो द्रव्यमित्येव भाष्यकारमतम् ; सिद्धान्ते तस्यादूषितत्वात् ; सृज्यत्वसंहार्यत्वशरीरत्वश्रवणाच्च । स्वच्छद्रव्यत्वादाकाशकायै तमः । रूपवत्त्वं पञ्चीकरणादुपपद्यते । यद्वा तेजः कार्यं तमः ; रूपवत्त्वात् ; स्पर्शानुपलम्भः स्वच्छद्रव्यत्वादिति । इति निरवद्यमिति प्रमाणसिद्धत्वेन तर्कबाधानुपपत्त्या निरवद्यमित्यर्थः ॥ अथ सिद्धान्तं वक्तमुपक्रमते अत्रोच्यत इति । केवलेन च प्रत्यक्षेणेति दृष्टान्ततयोक्तम् । उपपत्तिदूषणे कृते केवलप्रत्यक्ष न साधकमित्यर्थः । उपपतिर्हि ज्ञानप्रागभावविषयत्वे विरोधः ; स 1 वार्त्तिके नवभ्यो भेद एवोक्तः । स तमस्यभावरूपे तार्किकेट एव । अतस्तस्य गुणकर्मवत्त्ववचनात् दशमद्रव्यत्वे तात्पर्यमिति विशेषो भाष्यस्थद्रव्यान्तरपदेन ज्ञापित इत्यर्थः । वेदान्ते तु द्रव्यत्वेऽपि न दशमत्वम् । 2 स्वी इति न स्यात् । तैरिति स्यान्नाम । 3 भ्रमत्वेन शङ्कितमित्यर्थः ।
१३ न भावरूपमज्ञानं प्रतीयते । यस्तु ज्ञानप्रागभावविषयत्वे विरोध उक्तः, स हि भावरूपाशानेऽपि तुल्यः । विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यार्तकतया प्रत्यगर्थः प्रतिपन्नो वा अप्रतिपन्नो वा । प्रतिपन्नश्चेत्–तत्स्वरूपज्ञाननिवर्त्य तदज्ञानं तस्मिन् प्रतिपन्ने कथमिव तिष्ठति । अप्रतिपन्नश्चेत्व्यावर्तकाश्रयविषयज्ञानशून्यमज्ञानं कथमनुभूयेत ॥ अथ विशदस्वरूपावभासोऽज्ञानविरोधी ; अविशदस्वरूपं तु प्रतीयत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोधः इति - हन्त तर्हि ज्ञानप्रागभावोऽपि विशदस्वरूपंविषयः आश्रयप्रतियोगिज्ञानं तु अविशदस्वरूपविषयमिति न कश्चिद्विशेषो ऽन्यत्राभिनिवेशात् । भावरूपत्वेऽपि तुल्य इत्याह यस्त्विति । तुल्यत्वमुपपादयति विषयत्वेनेति । प्रतिपन्नशब्देव भासनमुच्यते । तत्स्वरूपज्ञाननिवत्यमिति । स्वरूपज्ञानम् -स्वरूपावभासः । स्वतो वा प्रमाणान्तरेण वा स्वरूपावभासनिवर्त्यमित्यर्थः । इदं रजतमित्यत्र इदं शुक्लभास्वरमित्येवंरूपप्रमाणज्ञानशते जातेऽपि भ्रमानिवृत्तिदर्शनात् प्रमाणज्ञानत्वमप्रयोजकमिति सिद्धवत्क रेण तत्स्वरूपज्ञान निवर्त्यमित्युक्तम् । व्यावर्तकाश्रयविषयज्ञानशून्यम् - आश्रयतया विषयतया च व्यावर्तकः प्रत्यर्थिः ; तदवभासशून्यम् । विषयस्वेनेत्यादिना भाष्येण स्वात्मविषयाज्ञानप्रतिपत्तौ विरोधतुल्यत्वं दर्शितम् । ‘घटादिविषयाज्ञानप्रतीतावपि अज्ञानस्य विषयत्वेन व्यावर्तकतया घटः प्रतिपन्नः, न वा । प्रतिपन्नश्चेत्, घटखरूपज्ञाननिवत्यं घटाज्ञानं तस्मिन् घटे प्रतिपन्ने कथमिव तिष्ठति ; घटोऽपतिपन्नश्चेत्, व्यावर्तकविषयज्ञानशून्यमज्ञानं कथमनुभूयेतेत्यर्थसिद्धो विरोधो द्रष्टव्यः । एवं परेण भावाभावयोर्विरोधे दर्शिते तत्प्रतिबन्दीत्वेन निवर्त्यनिवर्तक बिरोध उक्तः । अथ विशदाविशदविभागादविरोधं शङ्कने अथेति । प्रत्यगर्थस्य प्रमाणज्ञानेनावभासो विशदावभासः; स खपक्षेऽपि तुल्य इत्याह-हन्त तर्हीति । विशंदस्वरूपमवच्छेदकं यस्य स विशदस्वरूपविषयः । विशदस्वरूपस्य प्रागभावावच्छेदकत्वं स्वविषयज्ञानद्वारा । ज्ञानप्रागभावोऽपि विशदत्वरूपज्ञानावच्छिन्न इत्यर्थः । ज्ञानस्य चाभावावच्छेदकत्वं प्रतियोगितया । विशदस्वरूपज्ञानं प्रागभावप्रतियोगीति यावत् । अविरोधसिद्ध्ये विद्यमानज्ञानस्य ततोऽर्थान्तरत्वमाह - आश्रयेति । आश्रयप्रतियोगिनोर्ज्ञानमाश्रयप्रतियोगिज्ञानम् । अविशद स्वरूपविषयमिति । आश्रयज्ञानस्याविशदस्वरूपविषयत्वम् अविशदप्रत्यगर्थविषयत्वम् । प्रतियोगिज्ञानस्या विशदस्वरूपविषयत्वम् अभावप्रयोगिभूताविशदज्ञानविषयत्वम् । स्व (स) विषयं निवर्तकज्ञानम् अभावप्रतियोगित्वेनेदानीं ज्ञानमवलम्बते । तत्र 1 भात इत्यनुक्त्वा प्रतिपन्नशब्द प्रयोगेण भाष्ये सूचितं दर्शयति घटादीति । 2 प्रतियोगिभूतज्ञानस्य विशदस्वरूपविषयकत्वे तज्ज्ञानविषयक ज्ञानस्याविशदस्वरूपविषयकत्वं कथमित्यत्रोपपादयति प्रतियोगीति । अविशदज्ञानेति अवर्तमानज्ञानेत्यर्थः । समाधानस्यास्पष्टत्वात् विवृणोति सविषयमिति । यथा विषयस्याविशदभानमात्रेण विशद विषयस्वरूपावच्छिन्नभाव रूपाज्ञानभानम्, तथा विशदविषयावच्छिन्नज्ञानस्याभावप्रतियोगितया भानमविशदविषयभानमात्रेऽपीतीष्यताम् । तत् सिद्धं प्रतियोगिभूतनिवर्तकज्ञानस्याविशदस्वरूप विषयत्वम् । अत एव संभवाद्विद्यमानत्वरूपमवैशद्यं ज्ञानगतमप्याह ।
१४
निवर्तकज्ञानविषयस्य प्रत्यगर्थस्येदानीमविशदत्वात् निवर्तकज्ञानस्येदानीमविद्यमानत्वाच्च प्रतियोगिनो ज्ञानस्याविशदत्वम् । विद्यमानं हि साश्रयं ज्ञानमपरोक्षावभा - सरूपम् । अतस्तस्या विशदत्वमविद्यमानतया भवति । एवमाश्रयतया भासमानं स्वरूपमविशदम्, प्रतियोगितया स्मर्यमाणं ज्ञानमिदानीमविशदविषयत्वादविद्यमानत्वाच्च अविशदमिति तदुभयविषयं ज्ञानमविशदस्वरूपविषयम् । तच्च विद्यते । विशदज्ञानं त्वविद्यमानमभावप्रतियोगीति न विरोध इत्यर्थः । अयमर्थः – अज्ञाननिवर्तकाभिमतप्रमाणज्ञानाभावस्तावत् त्वयाऽभ्युपगन्तव्यः ; अन्यथा प्रमाणज्ञाननिवर्त्यज्ञानानुभवासंभवात् । ततश्च त्वदभ्युपगतः प्रमाणज्ञानामाव एव अहमज्ञ इति प्रतिपत्तेर्विषयो भवितुमर्हतीति नाभावग्रहणानुपपत्त्या भावरूपत्वं कल्प्यमिति ॥ पूर्वपक्षोक्तविरोधः कथं परिहृतो भवतीति चेत् -इत्थम् । -तत्र हि यदर्थावच्छिन्नं ज्ञानमभावप्रतियोगितयोच्यते, अभावप्रतियोगिज्ञानावच्छेदकतदर्थप्रतिपत्तौ सत्यां तज्ज्ञानाभावोऽनुपपन्न इति हि विरोधः । तत्रायं परिहारः अभावप्रतियोगिज्ञानं स्मृत्यारूढं प्रतिषिध्यते । यथा घटसाक्षात्कारो नास्तीति निषेधे घटसाक्षात्कारः स्मर्यते । स्मर्यमाणस्य स्मृतिसमकालवर्त्तित्व नियमाभावान्निषेधवेलायां स्मर्यमाणम्य नामावप्रतियोगित्व विरोधः । त्वया च स्मृत्यारूढस्य निवर्तकज्ञानस्य स्मृतिसमकालवर्तित्वाभावादज्ञानावच्छेदकतया प्रतिपत्तावपि स्मृत्यारूढ निवर्तकज्ञानं नाज्ञानविरोधीति नाज्ञानविरोधीति वक्तव्यम् ;. तस्मादात्मविषयं घटादिविषयकञ्च प्रमाणज्ञानं स्वविषयेणात्मना घटादिभिश्च सह स्मृत्यारूढमविशदतवा प्रतिपन्नमभावप्रतियोगि भवतीत्युपपन्नतरमिति ॥ अनुभूतस्य हि स्मरणसंभवः, प्रमाणज्ञानं “केनानुभूतमिति चेत् भवतो वा निवर्तकज्ञानं केनानुभूतम् ॥ आगमादिति चेत् — अस्माकमप्यात्मसाक्षात्कारस्तद्विधायकवावयावगतः । घटादिसाक्षात्कारस्तु प्रत्यक्षादिषु येन केनाप्यनुभूतः ॥ मेरुसाक्षात्कारः कथं निषिध्यते ? स हि न केनापि सानेन पूर्वमनुभूतः ॥ उच्यते । इहादृष्टचर (ष्टचत्वर) द्विरदेन पुरुषेण कथमिह चत्वरे गजो 5 ( चत्वरगजो ?) नास्तीत्युच्यते । संसर्गा
ननुभवेपि संसर्गिणोरनुभवमात्रेणान्यत्रान्यतरनिषेध उपपद्यत इति चेत् — एवं तर्हि सुमेरुसाक्षात्कार संसर्गा
ननुभवेऽपि मेरुसाक्षात्कारयोः केनाप्यवगमात् तत्संसर्गनिषेध उपपद्यते ॥ ’ प्रमाणज्ञानानामभावप्रतियोगित्वादभावस्य 1 प्रत्यगर्धतत्त्वज्ञानस्य साक्षात्काररूपत्वात् प्रकृताभिप्रायेणेदम् । अभावप्रतियोगि भूतज्ञानस्य नापरोक्षत्वनियमः । तस्य विशदस्वरूपविषयकत्वात् अज्ञानकाले अविद्यमानत्वं परं नियतम् । 2 भावरूपाज्ञानवादिमार्गेणैव प्रतिबन्द्या समाधान भाष्योक्तम् । स्वयमन्यदपि संभवत् वक्तुं पृच्छति पूर्वपक्षेति । 3 अज्ञानावच्छेदकतया-अभावविशेषणतया । 4 केनेति । प्रत्यक्षेणानुभूतत्वे निवर्तकज्ञानस्य वर्तमानत्वधौव्यादज्ञानायोग इत्याशयः । 5 चरद्विरदेनेत्यत्र चत्वरद्विरदेनेति पाठं हटवा चत्वरयद्विरदेनेति भा० प्र० । तदोपर्यपि तथा स्यात् । 6
ननु घटाशनं नाम घटविषयक सर्वप्रमाणज्ञानाभावः; न तु साक्षात्कारमात्राभावः । स कथं गृह्येतेत्यत्राह प्रमाणेति । विस्तरोऽन्यत्र ।
१-१-१ जिज्ञासाधिकरणम् । (अज्ञानशब्दार्थव्युत्पादनम् ) १५ भावरूपस्याज्ञानस्यापि ह्यज्ञानमिति सिध्यतः प्रागभावसिद्धाविव सापेक्षत्वमस्त्येव । तथा हि-अज्ञानमिति ज्ञानाभावः, तदन्यः, तद्विरोधी वा । त्त्रयाणामपि तत्स्वरूपज्ञानापेक्षा अवश्याश्रयणीया । यद्यपि तमःस्वरूपप्रतिपत्तौ प्रकाशापेक्षा न विद्यते ; तथापि प्रकाशविरोधीत्यने. नाऽऽकारेण प्रतिपत्तौ प्रकाशप्रतिपत्यपेक्षाऽस्त्येव । भवदभिमताज्ञानं न कदाचित् स्वरूपेण सिद्ध्यति ; अपि त्वज्ञानमित्येव ; तथा सति ज्ञानाभाववत् तदपेक्षत्वं समानम् । तदानीं ग्राहकं नास्तीति यदुक्तम् — तत् सर्वप्रमाणज्ञानाभावानां युगपदनुभवासंभवात् कतिपयमानज्ञानाभावस्य मानान्तरेण ग्रहणोपपत्तेश्च परिहृतम् । एवं भावरूपपक्षे विरोधपरिहारसाम्यं दर्शितम् 1
ननु विरोधसाम्यं वक्तुमशक्यम् । अज्ञानस्य नञर्थप्रतियोग्यवच्छिन्नतयैवाव गन्तव्यत्वे सति हि नञर्थ प्रतियोगिनस्तस्य ज्ञानस्य स्वविषयाश्रयभूतप्रत्यगर्भावच्छिन्नत्वेन भातत्वात् विषयाश्रयभूतप्रत्यगर्थज्ञाने सति तन्निवर्त्याज्ञानस्थितिविरोधः । न हि भावरूपस्याज्ञानत्य ज्ञानप्रतिपत्त्यपेक्षा ; खरूपेणैव प्रतिपत्तिसंभवात् न हि भावरूपस्य घटस्य आश्रयप्रतियोगिज्ञानसापेक्षत्वं दृष्टम् इत्यत्राह भावरूपस्येति । कथं सापेक्षत्वमित्यत्राह तथा हीति । अभावस्य नञर्थत्वसंभवात् तदुक्तिः । प्रमाणज्ञानादन्यत प्रमाणज्ञानविरोधीति वा तत्प्रतिपत्तिः । तदा तस्य ज्ञानस्य च विषयावच्छिन्नत्वेन प्रतिपन्नत्वात् प्रत्यगर्थस्य घटादेर्वा ज्ञाने सति तन्निवर्त्यमज्ञानं न गृह्येतेत्यर्थः । यथा प्रकाशविरोधित्वेऽपि तमसः तत्प्रतिपत्तौ न प्रकाशापेक्षा, तद्वदिहापरीत्यत्राह यद्यपीति । भावरूपमज्ञानमपि स्वरूपेण सिध्यतीत्यत्राह भवदभिमतेति ॥ मुग्धोऽस्मि, मूढोऽस्मीति स्वरूपेण सिद्धिरिति चेन्न ; कस्यचित्पुरुषस्य कस्मिंश्चिद्विषये हि मोहः । “स विमलमतिरेति नात्ममोहम् “, " दिङ्मोहालातचक्रादिभ्रान्तयश्च कथं पुनः” इत्यादिषु विषयाश्रयावच्छिन्नत्वेन हि मोह उपलभ्यते । मुग्धोऽस्मीत्यनेनाश्रयावच्छिन्नत्वं प्रतीयते । विषयोऽप्यर्थवशात् सिद्धः । इदं दूषणं “संवित् सिध्यति वा न वा” इत्यत्रोक्तया दिशा फलितम् । ततश्च स्वात्मविषयमज्ञानं विषयांश्रयभूतपत्यगर्थप्रतिपत्तिसद्भावहतम् । घटाद्यज्ञानं तु विषयभूतघटाद्यवगमविरुद्धम् ॥ मायाशब्दादिभिरज्ञानप्रतिपत्तौ विषयाश्रयापेक्षा नेति चेन्न, मायादिशब्दानामपि व्युत्पत्तिनैरपेक्ष्येण बोधकत्वासंभवादज्ञानादिपद पर्यायत्वेन च व्युत्पन्नत्वात् स्वरूपेण सिद्धिर्दुर्वचा - इत्यभिप्रायेण न कदाचित्स्वरूपेण सिध्यतीत्युक्तम् ।
ननु स्वरूपावच्छिन्नाज्ञानप्रतीतौ नञर्थप्रतियोगिज्ञानावच्छिन्नतया सिद्धावपि न निवर्त्यनिवर्तकविरोधः; स्वरूपभूतज्ञानादन्यतया ’ तत्सिद्धेः । स्वरूपज्ञानं हि नाविद्यानिवर्तकम्, किंतु प्रमाणज्ञानमेव; अतो न विरोध इति ॥ नैवम्; मामन्य च न जानामीति विषयाश्रयसंबन्धिज्ञानावच्छिन्नतया पतीतेः । न हि स्वरूपभूतज्ञानं साश्रयं सविषयं च तव मतम् । “स्वरूपं किम् आश्रयतयैवाज्ञानस्यावच्छेदकम् उत विषयतयापि ? आद्ये, न त्वदभिमतसिद्धिः । तदानीं प्रत्यगर्थस्य स्वस्मादन्येन केनापि विशिष्टत्वमेव हि सिध्यति । विषयतयाऽवच्छेदकत्वे प्रत्यगर्थस्याज्ञानमावरणं स्यात् । आवरणत्वं च तद्विषयकज्ञानप्रतिबन्धकत्वम् । अतस्तद्विषयप्रमाणज्ञानप्रतीत्यवश्यम्भावादुक्तविरोधोऽनतिवृतः । अतः स्वरूपभूतज्ञानावच्छिन्नप्रतीत्यभ्युपगमोऽनुपपन्नः । 1 अन्यतयेति । प्रत्यगर्थाज्ञानमित्यस्य प्रत्यगर्थरूपज्ञानान्यदित्यर्थ इति भावः । 2 दोषान्तरमाह स्वरूपमिति ।
१६
ज्ञानप्रागभावस्तु भवताऽप्यभ्युपगम्यते, प्रतीयते चेत्युभयाभ्युपेतो ज्ञानप्रागभाव एव ‘अहमज्ञो मामन्यं च न जानामि’ इत्यनुभूयत इत्यभ्युपगन्तव्यम् ॥ नित्यमुक्तस्व प्रकाराचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न संभवति ः स्वानुभवस्वरूपत्वात् ॥ . ; उभयत्र साधनदूषणयोस्तुल्यत्वाद्भावरूपमज्ञानं परिगृह्यतामित्याशङ्कय लाघवन्यायेन परिहरति ज्ञानप्रागभावस्त्विति। अभ्युपगम्यते । अहमज्ञ इति प्रतिपन्नस्य अभावरूपत्वे हि विप्रतिपत्तिः न त्वभावानभ्युपगमः । अन्यथा प्रमाणज्ञानस्य प्रागभावाभावादनादित्वेन तन्निरसनीयभावरूपाज्ञानानुदयप्रसङ्गात् । अतो ज्ञानाभावस्त्वयाऽभ्युपगत इत्यर्थः । प्रतीयते च । लोके ततज्ज्ञानाभावविवक्षया ज्ञानं नास्तीति व्यवहारदर्शनात् अप्रतिपन्ने च विवक्षानुपपत्तेः ज्ञानाभावप्रतीतिरस्त्येवेत्यर्थः । अतः संप्रतिपन्नेन ज्ञानाभावेनैव अहमज्ञ इति प्रतीत्युपपत्तेरतिरिक्तकल्पने हेत्वभावाल्लाघवेन स एव अहमज्ञ इति प्रतीतेर्विषयतयाऽभ्युपगन्तव्य इत्यर्थः ॥
ननु उभयाभ्युपगतोऽभावो नाम कश्चिन्नास्ति । भावान्तरमभावः स्वमते ; परमते तु भावातिरिक्तः । तत कथमुभयाभ्युपगतेन अहमज्ञ इति प्रतीत्युपपत्तिः ॥ उच्यते । न ह्युभयाभ्युपगत इत्युक्तम्; किन्तु भवताऽभ्युपगम्यत इत्युक्तम् । ‘अभावशब्दवाच्यत्वेन कश्चिदर्थं उभाभ्यामभ्युपगतः । स च भावरूपस्तदतिरिक्त इति इयदेव विमत्तम् । अत्र भावत्वेन यः स्वाभिमतः यश्च तदतिरिक्तत्वेन अभावशब्दवाच्यतया पराभिमतः, तयोरन्यतरेणाहमज्ञ इति प्रतीत्युपपपत्तेस्तदुभयातिरिक्तार्थकल्प नमनुपपन्नमित्युक्तं भवतीति न विरोधः ॥
ननु भावान्तरमभावमिच्छता त्वया ज्ञानप्रागभावशब्देन भावरूपाज्ञानमङ्गीकृतं स्यात् ॥ मैवम्; सिद्धान्तद्वयानभिज्ञानकृतं हीदं चोद्यम् । स्वयंप्रकाशस्यैव ज्ञानस्य सङ्कोचरूपमवस्थान्तरं प्रागभावशब्दवाच्यतयाऽस्मदभिमतम् ; स्वप्रकाशज्ञानव्यतिरेकेण भावरूपमज्ञानं पराभिमतम् ; अतस्तयोः कथमैक्यम् ॥ तर्हि ज्ञानसङ्कोचरूपावस्थां परित्यज्याज्ञानशब्दवाच्यत्वेन परोक्तं भावरूपमज्ञानं स्वीक्रियताम् भावरूपत्वाविशेषादिति चेत् - प्रामाणिकं परित्यज्य अप्रामाणिकं स्वीक्रियतामितीदमनुपपन्नम् । “न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते”, ‘सर्व ह पश्यः पश्यति’, ‘तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल ; तारतम्येन वर्तते’, ‘अप्राणिमत्सु स्वल्पा सा’ इत्यारभ्य - ‘हिरण्यगर्भोऽतितरां पुंसः शक्त्युपलक्षितः’ इति श्रुतिस्मृतिसिद्धत्वात् ज्ञाननित्यत्वं तत्सङ्कोचादिकञ्च प्रामाणिकं कथं त्यज्येत ? भावरूपाज्ञानं तु करूप्यम् । कल्पकं चान्यथासिद्धमिति तदप्रामाणिकं कथं स्वीक्रियते । कल्पनायां हि लाघवन्यायश्च प्रवर्तते, न तु प्रमाणप्रतिपन्नेऽर्थे । अतोऽहमश इति ज्ञानप्रागभाव एव प्रतीयते । " । एवमहमश इति प्रत्यक्षस्य भावरूपाज्ञानविषयत्वे भावरूपपक्षोपपत्तिअभाव रूपपक्षानुपपतिरूपानुकूलतर्काभाव उक्तः; अथ प्रतिकूलतर्क पराहतिरुच्यते नित्येति । नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्येति पदं हेतुगर्भम् । नित्यमुक्तत्वम् परमार्थतो दोषासंस्पृष्टत्वम् । अतः परमार्थदोषो न संभवति । स्वानुभवस्वरूपत्वादपरमार्थपरानुभवो न संभवतीत्यर्थः अन्यानुभवरूप प्रदेश भेदाभावाचेति एकशब्दाभिप्रायः । एकशब्देन ज्ञेयत्वाभावश्व विवक्षितः । अभिप्रेतं हेतुगर्भत्वं विवृणोति स्वानुभवस्वरूपत्वादिति । अविद्य/निवृत्तिदशायामनुवर्तमानम् अविद्यावभासप्रत्यनीकं . 1
नन्वनन्तरवाक्ये उभयाभ्युपेत इत्युक्तमित्यत्र तदाशयमाह-अभावेति ।
स्वानु- १११ जिज्ञासाधिकरणम् (अनुभवतिरस्कार क्रमादि दूषणम् ) १७ स्वानुभव स्वरूपमपि तिरोहितस्वरूपमज्ञानमनुभवतीति चेत् किमिदं तिरोहितस्वरूपत्वम् ? अप्रकाशितस्वरूपत्वमिति चेत् -स्वानुभवस्वरूपस्य कथमप्रकाशितस्वरूपत्वर ? स्वानुभवस्वरूपस्याप्यन्यतोऽप्रकाशित स्वरूपत्वमुपपद्यत इति चेत्-एवं तर्हि प्रकाशाख्यधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात् अन्यतः स्वरूपनाश एव स्यादिति पूर्वमेवोक्तम् ॥ किञ्च - ब्रह्मस्वरूपतिरोधानहेतुभूतमेतदज्ञानं स्वयमनुभूतं सत् ब्रह्म तिरस्करोति । ब्रह्म तिरस्कृत्य स्वयं तदनुभवविषयो भवतीत्यन्योन्याश्रयणम् ॥ अनुभूतमेव तिरस्करोतीति चेत् — यद्यतिरोहितस्वरूपमेव ब्रह्म अज्ञानमनुभवति, तदा तिरोधानकल्पना निष्प्रयोजना स्यात्, अज्ञानस्वरूप कल्पना च; ब्रह्मणोऽज्ञानदर्शनवत् अज्ञानकार्यतयाऽभिमतप्रपञ्चदर्शनस्यापि संभवात् ॥ किञ्च - ब्रह्मणोऽज्ञानानुभवः किं स्वतः, अन्यतो वा स्वतश्चेत् — अज्ञानानुभवस्य स्वरूपप्रयुक्तत्वेनानिर्मोक्षः स्यात् । अनुभूतिस्वरूपस्य ब्रह्मणोऽज्ञानानुभवस्वरूपत्वेन, मिथ्यारजतबाधकज्ञानेन रजतानुभवस्यापि निवृत्तिवत् निवर्तकज्ञानेनाशानानुभूतिरूपब्रह्मस्वरूप निवृत्तिर्वा । अन्यतश्चेत्किं तदन्यत् ? अज्ञानान्तरमिति चेत्-अनवस्था स्यात् । ब्रह्म तिरस्कृत्यैव स्वयमनुभवविषयो भवतीति चेत् तथा सति इदमज्ञानं काचादिवत् स्वसत्तया ब्रह्म तिरस्करोतीति ज्ञानबाध्यत्वमज्ञानस्य न स्यात् ॥ अथेदमज्ञानं स्वयमनादि, ब्रह्मणः स्वसाक्षित्वं ब्रह्मस्वरूपतिरस्कृतिं च युगपदेव करोति । भवैकस्वभावत्वं हेतुतया विवक्षितम् ; न तु भ्रमवेलायामपि विद्यमानं स्वयंप्रकाशत्वमात्रम् अतः स्वानुभवैकस्वभावत्वस्य प्रागपि विद्यमानत्वादित्यर्थः । स्वानुभवस्वरूपस्यापि तिरोधानादज्ञानानुभवः संभवतीति शङ्कते स्वानुभवेति । अभिप्रेतं विवरीतुं तिरोधानशब्दस्यार्थान्तरं नास्तीति ज्ञापनार्थ प्रश्नपूर्वकं तिरोधानशब्दार्थमाह किमिदं तिरोहितस्वरूपत्वम् १ अप्रकाशित स्वरूपत्वमिति चेदिति । स्वानुभवखरूपस्याप्रकाशितत्वं व्याहतमिति बुद्धया दूषयति स्वानुभवेति । अन्यत इति परिहारं शङ्कते स्वानुभवेति । अन्यतोऽप्रकाशितस्वरूपत्वे पूर्वोक्तदूषणमतिदिशति एवं तर्हीति । दूषणान्तरमाह किश्चेति । अपरमार्थत्वान्न सत्तया तिरस्कारकम् अपि तु प्रतीयमानतया तिरस्कारकमिति अनुभवपूर्वक स्तिरस्कारः; तिरस्कारपूर्वकोऽनुभवः अतिरस्कृतस्य ‘स्वानुभवस्वरूपस्य ब्रह्मणोऽज्ञानानुभवासंभवात् इत्यन्योन्याश्रयणमित्यर्थः । एतत्परिजिहीर्षया अनुभवपूर्वकं तिरस्कारं शङ्कते अनुभूतमेवेति । तत्र दूषणमाह यदीति । अतिरोहितस्याप्यज्ञानानुभवसंभवात् तदर्थतिरोधानकल्पना तदर्थमाच्छादका विद्या कल्पना च निष्फलेत्यर्थः । तदुपपादयति ब्रह्मण इति । यथा अतिरोहितस्वरूपस्यापि अपरमार्थभूताश्चानानुभव संभवः, तथा अपरमार्थभूतप्रपञ्चानुभवोऽप्यतिरोहितस्य संभवतीति तदर्था तिरोघानकल्पना तदर्थाच्छादकाविद्या कल्पना च निष्फलेत्यर्थः । अनुभवपूर्वक तिरस्कारपक्ष एव विकल्पमुखेन दूषणमाह किश्चेति । स्वतःपक्षे दूषणद्वयम् अनिर्मोक्षो ब्रह्मस्वरूपनिवृत्तिश्च । रजतानुभवस्यापीत्यपिशब्देन रजतस्य च निवृतिः सूचिता । अन्यतः पक्षेऽनवस्था । तिरस्कारपूर्वकानुभवपक्षं शङ्कते ब्रह्मेति । तिरस्कृत्यानुभवविषय इत्युक्ते सत्तया तिरस्कारकमित्युक्तं स्यात्, न तु प्रतीयमानतया । तदानीं काचादिवत् परमार्थत्वेन ज्ञाननिवर्त्यत्वं न सिध्यतीत्यर्थः । अथ तिरस्कारानुभवयोर्यौगपद्यं शङ्कते अथेदमिति । नैतदित्यादिना 2-8
१८ श्रुतप्रकाशिकोपेते श्रीमाण्ये अतो नानवस्थादयो दोषा इति ॥ नैतत् ; स्वानुभवस्वरूपस्य ब्रह्मणः स्वरूपतिरस्कृतिमन्तरेण साक्षित्वापादनानायोगात् ॥ हेत्वन्तरेण तिरस्कृतमिति चेत्-तर्ह्यस्यानादित्वमपास्तम्ः अनवस्था च पूर्वोक्ता । अतिरस्कृतस्वरूपस्यैव साक्षित्वागदने ब्रह्मणः स्वनुभवैकतानता च न स्यात् ॥ अपिच - अविद्यया ब्रह्मणि तिरोहिते तद्ब्रह्म न किञ्चिदपि प्रकाशते; उत किञ्चित्प्रकाशते ! पूर्वस्मिन् कल्पे, प्रकाशनात्रस्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिरसकृदुक्ता । उत्तरस्मिन् कल्पे, सच्चिदानन्दैकर से ब्रह्मणि कोऽयमंशः तिरस्क्रियते, को वा प्रकाशते । निरंशे निर्विशेषे प्रकाशमात्रे वस्तुन्याकारद्वयासंभवेन तिरस्कारः प्रकाशश्च युगपन्न सङ्गच्छेते ॥ अथ सच्चिदानन्दैकरसं ब्रह्म अविद्यया तिरोहितस्वरूपमविशदमिव लक्ष्यत इति ॥ प्रकाशमात्र स्वरूपस्य विशदताऽविशदता या किरूपा ? एतदुक्तं भवति - यः सांशः सविशेषः प्रकाशविषयः, तस्य सकलावभासो विशदावभासः, कतिपयविशेषरहितावभासश्च अविशदावभासः । तत्र य आकारोऽप्रतिपन्नः तस्मिन्नंशे प्रकाशाभावादेव प्रकाशावैशद्यं न विद्यते । यश्चांशः प्रतिपन्नः, तस्मिन्नंशे तद्विपयप्रकाशो विशद एव । अतः सर्वत्र प्रकाशांशे अवैशद्यं न संभवति । विषयेऽपि स्वरूपे प्रतीयमाने तद्गतकतिपय- दूषयति । स्वानुभवस्वरूपस्येति हेतुगर्भविशेषणम् । स्वानुभवस्वरूपत्वं स्वाभाविकमिति परानुभवो हेतुना विना नोपपद्यतः इत्यर्थः । हेत्वन्तरेण तिरस्कृतिमाशङ्कय दूषयति हेत्विति । यौगपद्यपक्षे पूर्वोक्तपक्षद्वयदूषणमप्यापततीत्यभिप्रायेणाह अनवस्था च पूर्वोक्तेति । ज्ञानानिवर्त्यत्वदूषणस्याप्युपलक्षणमियमनवस्था ; अनन्तरपूर्वोक्तेः । स्वरूपतिरस्कृतिमन्तरेण साक्षित्वापादनेऽनिष्टमाह अतिरस्कृतेति । पूर्व विशदाविशदावभासमभ्युपगम्य दूषणमुक्तम्, इदानीं तु तमेव दूषयितुमुपक्रमते अपिचेति । विकल्पयति अविद्ययेति । पूर्वोक्तं दूषणमतिदिशति पूर्वस्मिन्निति । उत्तरस्मिन्निति । किंशब्दः क्षेपे । अनुपपन्नमित्यर्थः । सच्चिदानन्दादिशब्दानामपि स्वरूपमात्र परत्वेनाभ्युपगमात् तिरस्कृतातिरस्कृत विभागोऽनुपपन्न इति भावः । कोऽयमंशः तिरस्क्रियते को वा प्रकाशत इति । ‘को वा विशेषस्तिरस्क्रियते को वा प्रकाशते’ इत्यस्याप्युपलक्षणार्थमिदम्; निरंशे निर्विशेषे इत्यनन्तरोक्तेः । कोऽयमंश इति । अंशभेदो वक्तुमशक्य इत्यभिप्रायः । तदुपपादयति निरंश इति । प्रकाशमात्रे । मात्रचा अविषयत्वं विवक्षितम् । अविषयभूत इत्यर्थः । युगपन्न सङ्गच्छेते इति । न हि त्वया कालभेदेन प्राकशतिरस्कारावुच्येते; अपि तु युगपदेव । तदानीमंशभेदाभावादाकार भेदाभावाच तौ न सङ्गच्छेते इति भावः । एवं प्रकाशतिरस्कारयोर्यौगपद्यानुपपत्तौ सत्यामप्यविशदशब्देन ’ प्रत्यवतिष्ठते अथेति । अथशब्दोऽनुमतिप्रदाने वर्तते । दूषयति प्रकाशेति । किंरूपा । अनुपपन्नेत्यर्थः । कथमनुपपत्तिरिति शङ्कायां वैशद्या वैशद्यस्वरूपं शिक्षयितुम् अत्र तदनुपपत्तिञ्च दर्शयितुमाइ एतदुक्तमिति । वैशद्यावैशद्यस्वरूपं शिक्षयति यस्सांश इत्यादिना । ज्ञाने तदनुपपत्तिमाह तत्रेति । प्रकाशाभावादेव प्रकाशावैशद्यं न विद्यत इति । घर्म्यभावाद्धर्माभाव इत्यर्थः । ज्ञेयेऽपि शतांशस्य विशदत्वादशातांशस्याज्ञातत्वाच्च कचिदप्यवैशद्यं न संभवतीत्याह विषयेऽपीति । एकस्मिन्
-
- अंशभेदाभावस्योकत्वात् विशदाविशदविचारस्य न प्रसक्तिः । विशदशब्दार्थाज्ञानात् अविशदशब्दमादायाथ शंका । एवमुत्थित्यनर्द्दस्यानुमतिर्दीयते खण्डनार्थमित्यर्थः ।
१-१-१ जिज्ञासाधिकरणम् (अपरमार्थाज्ञानबाधकानि) १९ विशेषाप्रतीतिरेवा वैशद्यम् । तस्मादविषये निर्विशेषे प्रकाशमात्रे ब्रह्मणि, स्वरूपे प्रकाशमाने कतिपय विशेषाप्रतिपत्ति (तीति) रूपावैशद्यं नाम अज्ञानकार्य न संभवति इति ॥ अपिच -इदमविद्याकार्यमवैशद्यं तत्त्वज्ञानोदयान्निवर्तते, न वा । अनिवृत्तौ अपवर्गाभावः । निवृत्तौ च वस्तु किंरूपमिति विवेचनीयम् । विशदस्वरूपमिति चेत्-तत् विशदस्वरूपं प्रागस्ति, न वा । अस्ति चेत्-अविद्याकार्यमवैशद्यं तन्निवृत्तिश्च न स्याताम् । नो चेत्–मोक्षस्य कार्यतया अनित्यता स्यात् । अस्याज्ञानस्याश्रयानिरूपणादेवासंभवः पूर्वमेवोक्तः । अपिच - अपरमार्थदोपमूलभ्रमवादिना निरधिष्ठानभ्रमासंभवोऽपि दुरुपपादः ; भ्रमहेतुभूतदोषदोषाश्रयत्ववत् अधिष्ठानापारमार्थेऽपि भ्रमोपपत्तेः । ततश्च सर्वशून्यत्वमेव स्यात् ॥ वस्तुनि कतिपयांशस्य कतिपयाकारस्य वा अनवभासः समुदितरूपस्यावैशद्यम् ; न तु तत्रापि प्रकाशमानांशस्येत्यर्थः । तस्मादिति । स्वरूपे प्रकाशमान इत्यस्य न ब्रह्मणीति पूर्वत्रान्वयः ; अपि तूतरत्र । वस्तुस्वरूपे प्रकाशमाने कतिपय विशेषाप्रतिपत्तिरूपमवैशद्यं ब्रह्मणि न संभवतीत्यर्थः कतिपय विशेषाप्रतिपत्तिशब्दः कतिपयांशा पतिपत्तेरप्युपलक्षणार्थः । मुखान्तरेण दूषणमाह अपिचेति । अविद्याकार्य …. तन्निवृत्तिश्च न स्यातामिति । विशदस्वरूपस्याविद्याविरोधित्वादिति भावः । मोक्षस्य कार्यतयेति । मोक्षस्य – 1 मुक्तखरूपस्य । भावरूपत्वे सति कार्यं नित्यम् !, वैशद्यं च भावरूपम् । अतः परमते त्वयोक्तं दूषणं तवैवापततीत्यर्थः ॥ प्रागसतः पश्चादुत्पन्नस्य वैशद्यस्यानित्यत्वप्रसङ्गः कालात्ययापदिष्टः, शास्त्रेण तस्य नित्यतया प्रतिपादितत्वादिति चेत् — तदा ब्रह्मणः सविशेषत्वं स्यादित्यभिप्रायः ।
पूर्वोक्तामाश्रयानुपपत्ति परोक्तप्रत्यक्षप्रमाणस्य प्रतिकूलतर्कत्वेनाह अस्येति । खरूपानादित्वादिमुखेन (सं-२-६) परिहाराणां प्रतिबन्दीत्वं हृदि निधाय दूषणान्तरमाह अपिचेति । यथा दोषदोषाश्रमत्वादेरपारमार्थ्येऽपि भ्रमसंभवः, तद्वदधिष्ठानापारमार्थ्येऽपि भ्रमः संभवति ॥ अधिष्ठानापारमध्ये तस्यापि प्रपञ्चवदपारमार्थेन अधिष्ठानान्तरापेक्षयाऽनवस्था स्यादिति चेत् तर्हि दोषस्यापि प्रपञ्चवदपारमार्थ्येन दोषान्तरापेक्षयाऽनवस्था स्यात् ॥ दोषस्यापारमार्थ्येपि स्वरूपानादित्वान्नानवस्थेति चेत् तर्हि अधिष्ठानांपारमार्थेऽपि स्वरूपानादित्वान्नानवस्थेति । प्रवाहानादित्वेन दुर्घटत्वेन च परिहारोऽपि तुल्यः ॥ दोषः प्रपञ्चदर्शनस्य स्वदर्शनस्य च स्वयमेव निर्वाहक इति न दोषान्तरापेक्षया अनवस्थेति चेन्न - अपरमार्थस्यास्य स्वपर निर्वाहकत्वासंभवात् । न हि स्वप्ने द्विचन्द्रज्ञानहेतुभूतोऽङ्गुल्यवष्टम्भः स्वकल्पने दोषनिरपेक्षः । अपरमार्थस्य स्वपरनिर्वाहकत्वं संभवतु ; तथासति अधिष्ठानापारमार्थ्येऽपि स्वपरनिर्वाहकत्वादनवस्था न स्यात् ॥ अपरमार्थस्य परं प्रति अधिष्ठानत्वे सिद्धे हि स्वनिर्वाहकत्वसिद्धिरिति चेत् - अपरमार्थस्य परं प्रति दोषत्वे सिद्धे हि स्वनिर्वाहकत्वमिति तुल्यम् ॥ मिथ्याभूतजगदवभासात् दोषत्वं सिद्धमिति चेत् तर्हि तत एवाधिष्ठानत्वमपि सिद्धमिति स्वपरनिर्वाहकत्वमधिष्ठानस्य सिध्यति ॥ अधिष्ठानापारमाध्ये भ्रमो न दृष्ट इति चेत् — दोषदोषाश्रयत्वापारमार्थ्येऽपि भ्रमो न दृष्ट इति तुल्यश्चर्च इत्यभिप्रायः । ततः किमित्यत्राह ततश्चेति । एवम् अहमज्ञो मामन्यं च न जानामीति प्रत्यक्षस्य प्रतिकूलतर्क पराहतिरुक्ता । 1 मुक्तस्वरूपस्येति । विशदस्वरूपस्येत्यर्थः ।
२० श्रुतप्रकाशिकोपेते श्रीमाध्ये ; अत्र केचिदाहुः - सुप्तोत्थितस्य न किञ्चिदवेदिषमिति परामर्शान्यथानुपपत्तिः भावरूपाज्ञाने प्रमाणम् ॥ कथमन्यथानुपपत्तिः ॥ इत्थम् । न किञ्चिदवेदिषमिति परामर्शो न ज्ञानाभावविषयः ; स्वापे ज्ञानाभावस्या
ननुभूतत्वात् । ज्ञानाभावानुभवे हि प्रतियोगिभूतज्ञानस्य विषयावच्छिन्नस्यावभासोऽभ्युपगन्तव्यः । तदभ्युपगगमे सुषुप्तिव्याघातः । न चास्मरणलिङ्गजन्यं ज्ञानाभावविषयमनुमितिरूपज्ञानमिदमिति वाच्यम्; अस्मरणस्या
ननुभवव्याप्यत्वाभावात् । पथि गच्छता स्पृष्टं हि तृणादिकं न स्मर्यते । सुषुप्ता
ननुभूतं भावरूपमज्ञानं स्मर्यते, न किञ्चिदवेदिषमिति । अतस्तदन्यथानुपपत्त्या भावरूपाश्शान सिद्धिरिति ॥ अतः " नैतदुपपद्यते -मावरूपत्वेऽप्यज्ञानस्य प्रतियोग्यपेक्षत्वोपपादनात् प्रतियोगिनश्च सुषुप्तावनवभासात् अज्ञानानुमनाभावेन तत्स्मरणानुपपत्तेः । प्रतियोग्यवभासे सुषुप्तिव्याघातस्त्वयैवोक्तः । न च तदन्यवाचिनञर्थप्रतियोगिस्वरूपभूतं ज्ञावं तदानीमवभातमिति वाच्यम् न किञ्चिदवेदिपम् मामन्यं च न जानामीति विषयावच्छिन्नज्ञानस्य प्रतियोगित्वावगमात् । अतस्तदनवभासे अज्ञानानुभवायोगात् तत्स्मरणानुपपत्तिः । किञ्च सुषुप्तौ निर्विकरूपकेन वा सविकल्पकेन मनोव्यापारेण वा भावरूपाज्ञानानुभवः ? प्रथमे, स्वाभिमतनिर्विकल्पकस्य साक्षिचैतन्यावभासरूपस्य संस्काराधायकत्वानभ्युपगमात् प्रतिसन्धानमनुपपन्नम् । न द्वितीयः सुषुप्तिविरोधेन तदा मनोव्यापारासंभयात् । अतः, अतः, न किञ्चिदवेदिषमिति ज्ञानं न स्मरणम् किन्तु अस्मरणलिङ्गकं ज्ञानामावविषयमनुमितिरूपम् । न च पथि गच्छता स्पृष्टत्तृणाद्यस्मरणेन व्यभिचरः; अन्यव्यासङ्गादि-संस्कारविरोध्यभावविशेषितस्यास्मरणस्य व्यभिचाराभावात् । “तदन्यधीरतात्पय पटुत्वविरहो धियः । दुःखादि तीव्रमुन्मादोऽनभ्यासो दीर्घकालता ॥ एतैश्वादृष्टवैगुण्यं कल्प्य संस्काररोचिषु । एतेष्वसत्त्वस्मरणात् ज्ञानाभावोऽनुमीयते ॥ " पथि गच्छता स्पृष्ट तृणादिकं पटुतरसंस्कारोदयविरोधिसद्भावान्न स्मर्यते, पथि गच्छन् हि गन्तव्य देश कार्य चिन्तादिव्यासक्तो भवति । तृणादावादरश्च नास्ति; प्रयोजनाभावात् । तदभावेऽपि गनादिदर्शनस्येव न पटुतरत्वं तृणादिज्ञानस्य ; विषयवैपुल्यवैचित्र्याद्यभावात् । जन्मान्तरानुभव जसंस्कारस्तु ‘प्रायण नरक-प्रसूतिजन्य तीनदुःखाभिभवादनुद्बुद्धः । उन्मादश्च संस्कारोद्बोधविरोधी । अनभ्यासश्च तस्य विस्मरणहेतुत्वदर्शनात् । कालदैर्घ्यमपि तत्प्रमोषकं दृष्टम् बाल्येऽनुभूतानां वृद्धावस्थायामस्मरणात् । न चैते हेतवः सुषुप्तौ सन्ति । न च किमप्यदृष्टं संस्कारोद्बोधविरोधि करुप्यम् ; कल्पकाभावेन सौषुप्तिकाशानस्य तद्विषयार्थस्मरणविरोध्यदृष्टस्य च कल्पनायोगात् । यदि किञ्चित्कल्पकतयोत्प्रेक्ष्येत, तदाप्यक्लृप्त्या निर्वाहे संभवति न कल्पनमुपपद्यते । एवमन्यपरत्वादिसंस्कार निरो- तथा ; ; 1 उपरि मनोव्यापारेणेत्युक्त्या मनोव्यापार भिन्नं ज्ञानं निर्विकल्पत्वेन विवक्षितम् । स्वमते हि सप्रकारकमपि संस्कारानधीनं निर्विकल्पकम् । मनोव्यापारपदं संस्कारापेक्षपरम् । 2 उक्तकारिकाद्वयार्थमाह पथीत्यादिना । 8 उकं हि, प्रायणान्नर कक्लेशात् प्रसूतिव्यसनादपि न स्मृतिगोचराः इति ।
१-१-१ जिज्ञासाधिकरणम् (भावरूपाज्ञानानुमानदूषणम् ) प २१ यदुक्तम् - अनुमानेनापि भावरूमज्ञानं सिद्ध्यतीति । तदयुक्तम्; अनुमानासंभवात् ॥ ननूक्तमनुमानम् ॥ सत्यमुक्तम् ; दुरुक्तं तु तत्; अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन विरुद्धः त्वात् हेतोः । तत्राज्ञानान्तरासाधने हेतोरनैकान्त्यम् । साधने च, तदज्ञानमज्ञानसाक्षित्वं निवारयति । ततश्चाज्ञानकल्पना निष्फला स्यात् । घकहेतुविरह विशेषितास्मरण लिनेन ज्ञानाभावानुमितिरूपमिदम्, ‘न किञ्चिदवेदिषम्’ इति शानम्। त्वयाऽपि ज्ञानाभावः सुषुप्तावभ्युपगतः । स चोक्तलिङ्गानुमेय एवेत्यभ्युपगन्तव्यम् । तदस्माकमपि तुल्यम् । अतः स्मृतित्वानुपपत्तेरनुमितिरूपत्वोपपादनाच्च न किञ्चिदवेदिषमिति ज्ञानमन्यथैवोपपन्नमिति न ततो भावरूपाज्ञानसिद्धिरिति । ईदृशदुर्वादानामनुपपन्नत्वं भावरूपाज्ञानविषयप्रत्यक्षप्रतिक्षेपतः सिद्धम् ॥ तस्य अथानुमानं दूषयति यदुक्तमित्यादिना । अनुमानासंभवादिति । त्वदुक्तमनुमानमामास इति भावः । कथं दुरुक्तत्वमित्यत्राह अज्ञानेऽपीति । कथमज्ञानान्तरसाधनमवश्यम्भावि कथमनभिमतत्वम् इत्याशङ्कायां तदवश्यम्भावमुपपादयति तत्रेति । अज्ञानस्यानभिमतत्वमुपपादयति साधने चेति । ततः किमित्यत्राह ततश्चेति । अस्य प्रमाणज्ञानस्य अप्रकाशितार्थप्रकाशकत्वात् स्वविषयावरणाज्ञानान्तरसाधकत्वे सति तदज्ञानं ब्रह्मस्वरूपाच्छादकं सिषाधयिषितमज्ञानमावृणोति । तेनाऽऽवृतत्वात् तदज्ञानं ब्रह्मणा न साक्षात्क्रियते । अपरमार्थस्याप्रतीयमानस्य कार्यकरत्वायोगादज्ञानकल्पना निष्फला [स्यात् ] । तिरोधानरूपकार्यार्थ हि तत्कल्पना । यदि असाक्षात्कृतमेव कार्यकरम्, तदा सत्तया कार्यकरमिति काचादिवत् सत्यत्वात् ज्ञाननिवर्त्यं न स्यात् । एवमज्ञानस्य ज्ञानानिवर्त्यत्वनिष्फलत्वे, कारणतयाऽनभिमताज्ञानान्तरसाधकत्वम्, तदसाधने चानैकान्त्यमुक्तम् ॥
ननुक्तहेतुजन्यं ज्ञानं सम्यङ्निश्चयरूपं चेत्-तद्विरोषादेव न हेतोरनैकान्त्यम् । यदि न सम्यकू, तथापि न हेत्वनैकान्त्यम्, अप्रकाशितार्थप्रकाशकत्वहेतोस्तत्र वृत्त्यभावात् ॥ उच्यते । " हेत्वनैकान्त्यपरिहारः साध्यविषयज्ञानस्य प्रमितिरूपत्वं प्रतिक्षिपति; ज्ञानसम्यक्त्वं तु हेत्वनैकान्त्यपरिहारं प्रतिक्षिपति । अतो ज्ञानस्य सम्यकृत्वे तस्योक्त हेतु जन्यत्वं व्याइतम्; हेतोरनैकान्त्यात् । न हि सम्यगुनानं दुष्टहेतुजन्यम् । उक्तहेतोरनैकान्त्यं न न चेत् तस्यासम्यङ्निश्चयरूपज्ञानजनकत्वं न्याहतम् ; अदुष्टहेतोरसम्यग्ज्ञानजनकत्वायोगात् । एवं हेत्वनैकान्त्यपरिहार ज्ञानसौष्ठवयोः परस्परविरोधेन तयोरिह समुच्चित्यासिद्धेरन्यतराभावेऽपि साध्यसिद्ध्यभावादनुमानमसमन समित्यभिप्राय इति ॥
ननु न हेत्वनैकान्त्यम्; साध्यविषयज्ञाने हेतोरवृत्तेः । न प्रकाशितमज्ञानमनेन प्रकाश्यते ॥ कि तर्हि ? साक्षिचैतन्यसिद्धस्यैवाज्ञानस्य, अभावाद्विवेचनमात्रं क्रियते ॥ नैवम्; अहमर्थधर्मभूत1 ज्ञानस्य सम्यक्त्वे तस्य प्रकृतहेतुत्वात् हेतोरनैकान्त्यं नेति यदुच्यते तन्न, ज्ञानस्य सम्यक्त्वे प्रकृतहेतुजत्वमेव न, अनैकान्त्यादित्युच्यमानत्वादित्याशयः । 2 8 प्रकृतानुमितिरूपशानस्य साध्यरहितत्वं स्थिरम् अज्ञानावरण भूताज्ञानाभावात् । तत्रास्य प्रमात्वे हेतोरनैकान्त्यं दुष्परिहरम् । अनैकान्स्याभावे ज्ञानस्यास्य प्रमात्वं दुःसाधमिति ।
२२
दृप्रान्तश्च साधनविकलः दीपप्रभाया अप्रकाशितार्थप्रकाशकत्वाभावात् । सर्वत्र ज्ञानस्यैव हि प्रकाशकत्वम् । सत्यपि दीपे ज्ञानेन विना विषयप्रकाशाभावात् । इन्द्रियाणामपि ज्ञानोत्पत्ति हेतुत्वमेव ः न प्रकाशकत्वम् । प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानमुत्पादयतो विरोधितमोनिरसनद्वारेणोपकारकत्वमात्रमेव । प्रकाशकज्ञानोत्पत्तौ व्याप्रिप्रमाणचक्षुरिन्द्रियोपकारकहेतुत्वमपेक्ष्य दीपस्य प्रकाशकत्वव्यवहारः ॥ नास्माभिर्ज्ञानतुल्यप्रकाशकत्वाभ्युपगमेन दीपप्रभा निदर्शिता अपि तु ज्ञानस्येव (स्यैव) स्वविषयावरणनिरसनपूर्वक (ज्ञानस्येय स्वविषयावरणनिरसन रूप) प्रकाशकत्वमङ्गीकृत्येति चेत्-न; न हि विरोधिनिरसनमात्र प्रकाशकत्वम् ; अपि त्वर्थपरिच्छेदः; व्यवहारयोग्यतापादनमिति यावत् । तत्तु ज्ञानस्यैव । यदि उपकारकाणामप्यप्रतहींन्द्रियाणामुपकारकतमत्वेनाप्रकाशितार्थप्रकाशकत्वमङ्गी काशितार्थप्रकाशकत्वमङ्गीकृतम्, करणीयम् । तथा सति तेषां स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावात् हेतोरनैकान्त्यमित्यलमनेन ॥ प्रकाशोत्तीर्णेन स्वरूपचैतन्येनाज्ञान सिद्धावनुमानप्रामाण्यम्, तत्प्रामाण्येन भावरूपाज्ञानसिद्धिः, तत्सिद्धौ ज्ञातुरपि तत्कल्पितत्वात् तदुत्तीर्णसाक्षिचैतन्येनाज्ञानानुभव सिद्धि रिति चक्रकापत्तेर्दुस्तरत्वात् । चत्वारः उत ः दूषणान्तरमाह दृष्टान्तश्चेत्यादिना । तत्र किं साक्षात्प्रकाशकत्वम् उत परम्परया, साक्षांद्वा परम्परयां वा प्रकाशकत्वमात्रम्, उत स्वविषयावरणनिरासकर्त्य प्रकाशकत्वमिति कल्पाः । तत्र प्रथमे कल्पे दृष्टान्तः साधनविकलः । द्वितीये तु, पक्षे असिद्धिः । तृतीये तु, इन्द्रियेष्ववैकान्त्यम् । तेषां स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावात् ; साक्षाद्वा परम्परया वा प्रकाशकयोरन्यतरत्वात् तेषाम् । इन्द्रियाण्यपि पक्षीकृत्य तेषामपि तथाविधवस्त्वन्तरपूर्वकत्वकल्पनमयुक्तम् । आहङ्कारिकाणामिन्द्रियाणामुत्पत्तेः स्वविषयावरण स्वदेशगतवस्त्वन्तरपूर्वकत्वाभावात् । आलोक एव हि तादृशः । चतुर्थपक्षे तु, साध्याविशिष्टता इत्यभिप्रेत्य प्रथमकरूपे दूषणमाह दृष्टान्तश्च साधन विकल इति । कथं ज्ञानस्यैव साक्षात्प्रकाशकत्वमिति शङ्कायां तदुपपादयति सत्यपीति । ज्ञानस्यैव हि प्रकाशकत्वमित्यनेन द्वितीयकरूपे हेतोः पक्षे असिद्धिः फलिता । इन्द्रियाणामित्यनेन तृतीयपक्षे इन्द्रियेष्वनैकान्त्यं विवक्षितम् । दीपप्रभायाः परम्परयाऽपि प्रकाशकत्वं दूरत इत्याह प्रदीपेति । प्रकाशकत्वव्यवहारः कथमित्यत्राह प्रकाशकेति । चतुर्थपक्षं शङ्कते नास्माभिरिति । निरसनपूर्वकेति । “निरसनद्वार केत्यर्थः । साध्याविशिष्टत्वमाह न हीति । ज्ञानस्य विषयावरण निरसनरूपं प्रकाशकत्वं न ह्यस्ति । तद्धि साध्यम् ; न संप्रतिपन्नमित्यर्थः । मात्रचाऽर्थपरिच्छेदव्युदासः । हिशब्देन विषयावरणनिरासंकत्वस्य साध्यत्वं फलितम् । तत्र संप्रतिपन्नं प्रकाशकत्वमाह अपित्विति । परिच्छेदशब्दस्य परिमितिपरत्वशङ्का व्यावृत्त्यर्थमाह व्यवहारेति । व्यवहार योग्यता —-व्यवहारप्रतिसंबन्धित्वम् ॥
ननु न साध्याविशिष्टत्वं हेतोः । स्वप्रागभावनिरासकत्वं स्वविषयावरणनिरसनशब्देन विवक्षितम् । तेन भावरूप- 1 सिद्धिरिति । ज्ञातुरिति शेषः । अतश्चक्रकसंपत्तिः । 2 निरासकत्वं नाम निरासजनकत्वम् । तस्य निरासघटितत्वात् निरासपूर्वकमित्युच्यते । इदमेव निरासकत्वं प्रकाशकत्वम् । किमर्थमेवं क्लिष्टार्थवर्णनमिति चेत् — निरसनमात्र प्रकाशकत्वमित्युपरितनभाग्यै करस्याय । पाठान्तरे तु न, क्लेशः । शेषं भाष्यार्थदर्पणे ।
२३ प्रतिप्रयोगाश्व - विद्यादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम्, अज्ञानत्वात्, शुक्तिकाद्यज्ञानवत्; ज्ञात्राश्रयं हि तत् ॥ विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्मावरणम्, अज्ञानत्वात्, शुक्तिकाद्यज्ञानवत्ः विषयावरणं हि तत् ॥ विवादाध्यासितमज्ञानं न ज्ञाननिवर्त्त्यम्, ज्ञानविषयानावरणत्वात् यत् ज्ञाननिवर्त्त्यम् अज्ञानम्, तत् ज्ञानविषयावरणम् ; यथा शुक्तिकाद्यज्ञानम् ॥ ब्रह्म नाज्ञानास्पदम्, ज्ञातृत्वविरहात् ; घटादिवत् ॥ घ्रह्म नाज्ञानावरणम्, ज्ञानाविषयत्वात् । यत् अज्ञानाचरणं तत् ज्ञानविषयभूतम्, यथा शुक्तिकादि ॥ ब्रह्म न ज्ञाननिवर्त्त्याज्ञानम् ; ज्ञानाविषयत्वात् । यत् ज्ञाननिवर्त्याज्ञानम् तत् ज्ञानविषयभूतम्, यथा शुक्तिकादि ॥ विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावातिरिक्ताज्ञानपूर्वकं न भवति, प्रमाणज्ञानत्वात्, भवदभिमताज्ञानसाधनप्रमाणज्ञानवत् ॥ ज्ञानं न वस्तुनो विनाशकम, शक्तिविशेषोपबृंहणविरहे सति ज्ञानत्वात् । यत् वस्तुनो विनाशकम्, तत् शक्तिविशेषोपवृंहितज्ञानमज्ञानं च दृष्टम्, यथेश्वरयोगिप्रभृतिज्ञानम्, यथा च मुद्गरादि ॥ निरसनीयपूर्वकत्वं साध्यमिति ॥ न ; स्वप्रागभावनिरासकत्वस्य हेतोरिन्द्रियसंप्रयोगे अनैकान्तिकत्वात् । भासमानत्वे सति अप्रकाशितार्थप्रकाशकत्वादिति हेतौ विशेषितेऽपि पूर्ववद्विकल्पः स्यात् । तत्र साक्षात्पक्षे दृष्टान्तः साधनविकलः । प्रणाड्येति पक्षे हेत्वसिद्धिः । तृतीये लिङ्गादौ व्यभिचारः । चतुर्थे साध्या विशिष्टता; भासमानत्वविशेषितस्य विषयावरण निरासकत्वस्यासंप्रतिपत्तेः । अथास्यानुमानस्य प्रतिकूलतर्कपराहतिमाह प्रतिप्रयोगाश्चेति । तर्कस्यापि व्याप्तिमूलत्वात् प्रयोगा इत्युक्तम् । स्वदेशगतत्वस्व विषयावरणत्वस्वनिवर्त्यत्वानां प्रतिकूलं यथाक्रममनुमानत्रयम् अज्ञानं पक्षीकृत्योच्यते । विवादाध्यासितम् — ब्रह्माश्रयमतदाश्रयमिति विवादध्यासितमित्यर्थः । ततश्च शुक्तयाद्यज्ञानव्यावृत्तिः । तद्धि जीवाश्रयम्, अप्रामाणिकमपि भावरूपमज्ञानम्, ज्ञानमात्रं ब्रह्म चाभ्युपगम्य प्रतिकूलतर्का उच्यन्ते । शुक्त्याद्यज्ञानस्य ज्ञानानाश्रयत्वं कथमित्यत्राह ज्ञात्राश्रयमिति । एवं व्याप्तिर्दर्शिता । अज्ञानत्वे ज्ञानानाश्रयत्वप्रसङ्ग इत्युक्तं भवति । प्रतिकूलतर्कान्तरमाह विवादेति । व्याप्तिं दर्शयति विषयावरणमिति । अज्ञानत्वे ज्ञानानावरणत्वप्रसङ्ग इत्यर्थः । तृतीयेपि प्रयोगे, ज्ञेयानावरणत्वे ज्ञानानिवर्त्यत्वप्रसङ्ग इत्यर्थः ॥ अथ ब्रह्म पक्षीकृत्य प्रतिकूलतर्कत्रयमुच्यते ब्रह्मेत्यादिना । अज्ञानाश्रयत्वे ब्रह्मणो ज्ञातृत्वप्रसङ्ग इत्यर्थः । द्वितीयेऽपि प्रयोगे, ब्रह्मणोऽज्ञानवरणत्वे ज्ञेयत्वप्रसङ्गइत्यर्थः । तृतीयेऽपि ब्रह्मणो ज्ञाननिबर्त्याज्ञानत्वे ज्ञेयत्वप्रसङ्ग इत्यर्थः । 1 अथ प्रमाणज्ञानं पक्षीकृत्य प्रागभावव्यतिरिक्तत्वस्य प्रतितर्कमाह विवादाध्यासितमिति । प्रमाणज्ञानदे प्रागभावातिरिक्ताज्ञानपूर्वकत्वाभावप्रसङ्ग इत्यर्थः । यद्वा अनुमानमेवेदम् । धारावाहिकज्ञानेषु प्रथमस्य पक्षत्वमुत्तरज्ञानानां सपक्षत्वमपि ह्युपपद्यते । ज्ञानं न वस्तुनो विनाशक मित्यादिना व्यतिरेक्यनुमानमुक्तम् ; व्यतिरेकव्याि द्विघा दर्शयति यद्वस्तुन इति । शक्तिविशेषोपबृंहणविरहे सति ज्ञानत्वादिति विशिष्टो हि हेतुः । तत्र शक्तिविशेषानुपबृंहितज्ञानव्यतिरिक्तत्वाविशेषात् शक्तिविशेषोपबृंहितं ज्ञानं शक्तिविशेषानुपबृंहितमज्ञानं च द्वयमपि व्यतिरेकव्याप्तिभूमिरित्युभयत्र व्याप्तिर्दर्शिता ।
२४ श्रतप्रकाशिकोपेते श्रीभाष्ये भावरूपमज्ञानं न ज्ञानविनाश्यम्, भावरूपत्वात्, घटादिवदिति । अथोच्येत - बाधक ज्ञानेन पूर्वज्ञानोत्पन्नानां भयादीनां विनाशो दृश्यते–इति - नैवम् ; न हि ज्ञानेन तेषां विनाशः, क्षणिकत्वेन तेषां स्वयमेव विनाशात्, कारणनिवृत्त्या च पश्चादनुत्पत्तेः । क्षणिकत्वं च तेषां ज्ञानवदुत्पत्तिकारणसंनिधान एवोपलब्धेः, अन्यथाऽनुपलब्धेश्वावगम्यते ; अक्षणिकत्वे च भयादीनां भयादिहेतुभूतज्ञानसन्ततावविशेषेण सर्वेषां ज्ञानानां भयाद्युत्पत्तिहेतुत्वेनानेकभयोपलब्धिप्रसङ्गाच्च ॥ भावरूपमज्ञानं पक्षीकृत्याह भावरूपमिति । भावरूपत्वे ज्ञानमात्रनिवर्त्यत्वं न स्यादित्यर्थः । भावरूपत्वज्ञाननिवर्त्यत्वयोर्न व्याप्तिः ; भयादेर्भावरूपस्य ज्ञाननिवत्यत्वदर्शनादिति व्याप्तिभङ्गमाशङ्कते अथोच्येतेति । पूर्वज्ञानोत्पन्नानाम् — पूर्व भ्रान्तिज्ञानोत्पन्नानामित्यर्थः । बाघकज्ञानोदयात् प्राक् भयानुवृत्तेः, तदुत्पत्तेः पश्चाद्भयादिनिवृतेश्चेति भावः । परिहरति नैवमिति । फलविनाश्यानि हि स्वाश्रयविनाशाधीननश्वर (धीननाशवद् ? ) व्यतिरिक्तक्षणिकानि । उक्तविशेषणेन ज्यालाव्यावृत्तिः । तथा भयाद्यपि कम्पादिकाय - जनयित्वा 1 स्वयं नश्यतीत्यर्थः ॥ स्वयं न भयादेः क्षणिकत्वम्, चिरोपलब्धेरिति चेन्न ; कारण भूतभ्रान्तिज्ञानाद्यनुवृत्त्या भयादिसंतत्युत्पत्तेर्हि चिरोपलब्धिः ॥ तर्हि सदा भयसन्ततिरुपलभ्येतेति चेदवाह कारणनिवृत्त्या च पश्चादनुत्पत्तेरिति । कारणभूतभ्रान्तिज्ञानादिनिवृत्त्या कार्यमूतभयादिसन्तत्यनुत्पत्तेर्न सदोपलब्धिरित्यर्थः । पश्चादनुत्पतेरिति पश्ञ्चम्याः क्षणिकत्वेनेति पूर्वत्रान्वयः । कारण निवृत्त्या च पश्चादनुत्पत्तेः सिद्धेन क्षणिकत्वेन स्वयमेव विनाशा - दित्यर्थः । यद्वा न क्षणिकत्वमिति शङ्कायाम् उपपन्नं क्षणिकत्वमित्यर्थवशादाकृष्टेन वाक्येनान्वयः । एवं क्षणिकत्वानुबन्धिचोद्यपरिहारः कृतः । यद्वा-नैवमिति दूषणप्रतिज्ञामुपपादयितुम्, यावद्वाधं मयस्वरूपानुवृत्तेर सिद्धिमाह क्षणिकत्वेनेति, बाघकज्ञानानन्तर निवृत्तेरन्यथासिद्धिमाह कारण निवृत्त्या चेति । तत्क्षणिकत्वं कुतः सिद्धमिति शङ्कायां तदुपपादयति क्षणिकत्वं चेति । स्थायिनो हि घटादयो दण्डचकादिकारण निवृत्तावप्युपलभ्यन्ते न तथा ज्ञानदीपज्वालादिः । तथा भयादेरपि कारणसंनिधानतन्निवृत्त्यनुविधायिसद्धीवा सद्भावतया क्षणिकत्वं निश्चितमित्यर्थः । विपक्षे बाघमाह अक्षणिकत्वे चेति । स्थायिनो हि घटादयः प्रतिक्षणमुत्पद्यमाना बहवो युगपदुपलभ्यन्ते ; तथाऽत्रापि प्रसजेदिति भावः । अतो न भयादिकं ज्ञाननिवर्त्यम्; स्वयमेव क्षणिकतया नश्यति । भयसन्तत्युच्छेदो भ्रान्तिज्ञानपरम्परारूपकारण निवृत्त्या । तन्निवृत्तिश्च दोषनिवृत्त्या । नायं सर्पो रज्जुरेषेति ज्ञानं स्वविषय व्यवहारहेतुः ; न तु साक्षाद्रयादिनिवृत्तिहेतुः । रज्जुत्वं हि सर्पव्यावृत्तिः । अतः सर्पव्यावृत्तिरूपरज्जुत्वज्ञानाभावेन सर्पबुद्धधनुवृत्त्या पाश्चात्यमयानुवृत्तिः, सर्पव्यावृत्तिरूपरज्जुत्वज्ञानेन सर्पपारमर्थ्याभिमाननिवृत्त्या भयनिवृत्तिरिति ‘सर्वाम्युपगतप्रकारेण दूषणमुक्तम् । स्वपक्षे तु ज्ञानविशेष एव भयादिः क्षणिकतया स्वयं नश्यति । भयादिरूपज्ञानानुवृत्तिस्तु दोषात् सर्पादिभ्रमानुवृत्तिमूला ; तन्निवृत्त्या च तत्संततिनिवृत्तिरिति परिहारः । 1 स्वयमिति । फलभूतकम्पाद्यतिरिक्तकारणानपेक्षमित्यर्थः । 2 उपपादयितुमित्यस्य द्वितीयेनापि आहेत्यनेनान्वयः । तथा च नैवमित्यत्रैव अनुत्पत्तेरित्यस्यान्वयात् नाध्याहारादिक्लेश इति । 8 भयं नाम दुःखविशेष इति स्वस्वेतर सर्वसंमतम् । दुःखं ज्ञानातिरिक्तमिति स्वेतरे ।
१-१-१ जिज्ञासाधिकरणम् (दृष्टार्थापत्तिनिरसनम् ) २५ स्वप्रागभावव्यतिरिक्तवस्त्वन्तरपूर्वकमिति व्यर्थविशेषणोपादानेन प्रयोगकुशलता चाऽऽविष्कृता । अतोऽनुमानेनापि न भावरूपाज्ञानसिद्धिः । श्रुतितदर्थापत्तिभ्यामज्ञानासिद्धिरनन्तरमेव वक्ष्यते । मिथ्यार्थस्य मिथ्यैवोपादानं भवितुमर्हतीत्येतदपि “न विलक्षणत्वात्” इत्यधिकरणन्यायेन परिहियते । अतोऽनिर्वचनीयाज्ञानविषया न काचिदपि प्रतीतिरस्ति । प्रतीतिभ्रान्तिवाधैरपि न तथाभ्युपगमनीयम् । प्रतीयमानमेव हि प्रतीतिभ्रान्तिवाधविषयः । आभिः प्रतीतिभिः प्रतीत्यन्तरेण चानुपलब्धमासां विषय इति न युज्यते कल्पयितुम् ॥ शुक्त्यादिषु रजतादिप्रतीतेः प्रतीतिकालेऽपि तन्नास्तीति वाधेन च, अन्यस्यान्यथाभानायोगाच्च सदसदनिर्वचनीयमपूर्वमेवेदं रजतं दोषवशात् प्रतीयत इति कल्पनीयमिति चेत्- एवमर्थदूषणमुक्तम् ; अथ प्रयोगदूषणमाह स्वप्रागभावेति । स्वशब्दः प्राक्शब्दोऽभावव्यतिरिक्त शब्दोऽन्तरशब्दश्च निरर्थकाः । वस्तुशब्दो हि भाववाची । अनुमानेन भावरूपाज्ञानासिद्धि निगमयति अत इति । श्रुत्यर्थापत्तिभ्यां तत्सिद्धिमाशङ्कयाह श्रुतीति ।
। अनिर्वचनीयत्वे परोक्तहेतुं विस्तरेण दूषयति प्रतीतीति । प्रतीतिः भ्रान्त्यभ्रान्तिसाधारणरूपा । भ्रान्तिः विद्यमानभेदाग्रहणपूर्वक साधारणाकारग्रहणजन्या स्वविषयान्यथात्वविशेषिता प्रवृत्त्यादिहेतुभूता । बाधः आरोपितविरुद्धाधिष्ठानाकारावगाहिनी बुद्धिः । न तथाभ्युपगमनीयम् - नानिर्वचनीयत्वेनाभ्युपगमनीयमित्यर्थः । प्रतीतिभ्रान्तिवाधानां स्वविषयोल्लेखमात्रेण वा अन्यधानुपपत्त्या वा अनिर्वचनीयसिद्धिरिति विकल्पमभिप्रेत्य प्रथमं दूषयति प्रतीयमानमिति । प्रतीयमानं प्रतीत्युल्लिख्यमानम् । न हि नीलोल्लेखः पीतोल्लेखतया अङ्गीकार्य ः ; तथा सति सर्वोपप्लवप्रसङ्गादिति भावः । द्वितीय दूषयति आभिरिति । अभिः — प्रतीतिभ्रान्तिचाधशब्दोपात्ताभिः प्रत्यक्षप्रतीतिभिः । प्रतीत्यन्तरेण- । प्रमाणान्तरजन्येन । यद्वा आभिः लौकिकप्रतीतिभिः । प्रतीत्यन्तरेण - आगमजन्येन । यद्वा आभिः प्रतीतिभिः । एकाधिष्ठाने सर्पभूदलनाम्बुधारादिबहुत्वाभिप्राय बहुवचनम् । प्रतीत्यन्तरेण - वाघज्ञानेन । सङ्क्षिप्तस्य दूषणस्य विरतरार्थं परमतमनुवदति शुक्त्यादिष्विति । अन्यस्यान्यथाभानायोगाचेति ॥
ननु कथमन्यथाभानायोगः ॥ उच्यते । न तावत् धर्मधर्मिणोर्मिथस्तादात्म्यमानमन्यथाख्यानम् । पुरोऽवस्थित शुक्लभास्वरशकलं न रजतत्वजातितया प्रतीयते । रजतत्वञ्च न भाखरशकलतयां प्रतीयते । शकलं च शकलत्वेन, जातिश्च जातित्वेन प्रतीयते । तस्मान्नानयोरन्यतरस्य तदितरत्वभानमिति । नापि धर्म्यन्तरस्य “धर्म्यन्तरतादात्म्यमन्यथात्वम् । तत् किं विषयगतम्, उत ज्ञानगतम् । विषये तदन्यथात्वमस्ति चेत् — यथार्थैव प्रतीतिः । नास्ति चेत् — असत्ख्यातिप्रसङ्गः । यदि ज्ञानगतम्, विषयोऽन्यः ज्ञानमप्यन्यदेवेति नोपपद्यते । न हि घटज्ञानस्य पटज्ञानत्वसंभवः । आत्मख्यातिप्रसङ्गश्च, ज्ञानाकारत्वाद्रजतादेः ॥ स्वस्मिन् असता आकारेण ख्यानमन्यथाख्यानमिति चेन्न; असत्ख्यातिप्रसङ्गात् ॥ अन्यत्र सतोऽन्यत्र ख्यानं ख्यानस्यान्यथात्वमिति चेन्न ; खण्डे दृष्टस्य गोत्वस्य मुण्डे दर्शनस्यापि भ्रमत्वापातात् । अन्यत्रैव सतोऽन्यत्र ख्यानमन्यथात्वमिति चेत् — अन्यत्रैव सत्त्वं कथं निश्चीयते ॥ 2-4
२६ श्रुतप्रकाशिकोपेते श्रीमाष्ये ( प्रमाणानुपपत्तौ ) म; तत्कल्पनायामप्यन्यस्यान्यथाभानस्यावर्जनीयत्वात्; अन्यथाभानाभ्युपगमादेव ख्यातिप्रवृत्तिबाघभ्रमत्वानामुपपत्तेरत्यन्तापरिहणकारणकवस्तु कल्पनायोगात् । । कल्प्यमानं हीदमनिर्वचनीयम्, न तावदनिर्वचनीयमिति प्रतीयते ; अपि तु परमार्थरजतमित्येव । अनिर्वचनीयमित्येव प्रतीतं चेत्, भ्रान्तिवाधयोः प्रवृत्तेरप्यसंभवः । अतोऽन्यस्यान्यथाइह बाधादिति चेन्न; भ्रान्तिज्ञानवाधितस्य सत्यरजतस्याप्यत्रासत्त्वनिश्चयप्रसङ्गात् ॥ प्रवृत्तिबाधादन्यत्रैव सत्त्वनिश्चय इति चेन्न; मन्त्रौषधादिप्रतिवद्धस्यामेरपि स्फोटजननादिप्रवृत्तिबाधेन मिथ्यात्वनिश्चयप्रसङ्गात् ॥ दुष्टकारणजन्यज्ञानविषयत्वादिह बाध्यत इति चेत् — कथं दुष्टकारणजन्यत्वनिश्चयः ॥ बाधकज्ञानोदयादिति चेत् — पूर्वज्ञानमेव बाधकं स्यात् । परत्वस्याकिञ्चित्करत्वं हि दर्शितम् । पूर्वज्ञानस्य दुष्टकारणजन्यत्वे निश्चिते पाश्चात्यज्ञानस्य बाधकत्वनिश्चयः, तस्य बाधकत्वे निश्चिते पूर्वस्य दुष्टकारणजन्यत्वनिश्चयः इत्यन्योन्याश्रयश्च स्यात् । किञ्च यत् तावत् रजतं पुरोवर्तिनि भातम्, तस्यैवान्यत्र सत्त्वे किं प्रमाणम् ? न तावत् पूर्वज्ञानम् अत्र सत्त्वेन हि तदवगमयति । न बाघकज्ञानश्च ; तद्धि पुरोवर्तिन्यसत्त्वमवगमयति । नापि रजतग्राहकप्रमाणम् ; तत् खल्वापणे रजतसत्तामवगमयति ; न तु तस्य पुरतः ख्यातस्य चैक्यम् ॥ क्वचिदप्यसतः ख्यानायोगात् अन्यत्र सत एव ख्यातत्वं निश्चीयत इति चेन्न ; असतः ख्यानायोगस्य संबन्धे परित्यक्तत्वात् । न हि पुरोवर्तिनि रजतधर्मिसंबन्धो रजतत्वजातिसंबन्धो वा अन्यत्र विद्यते ॥
ननु - अन्यत्र संबन्धमात्रमस्ति । तदिह प्रकाशते इति अन्यत्र संत एवान्यत्र ख्यानमिति चेन्न – संवन्धद्वयानवभासात् । अन्यत्र सतः संबन्धस्यान्यत्र ख्याने संम्बन्धिन इव संबन्धान्तरमपेक्षितम् । संबन्धान्तरावभासे चान्यत्र सतः ख्यानं न स्यात् ; द्वितीयसंबन्धस्य कचिदप्यसत्त्वात् ॥ संबन्धस्य संबन्धान्तरानपेक्षत्वात् संबन्धान्तराभावेऽपि पुरोवर्तिनि भानं युक्तमिति चेत् एवं तर्हि संबन्ध्यन्तरसंबन्धः पुरोवर्ति च निरन्तरं मातमिति यथार्थख्यातिरेवोक्ता स्यात् ; ख्यातांशस्य सत्त्वात् असतः कस्यचित् ख्यातत्वाभावाच । किञ्च शुक्तिशकलस्यैव रजतज्ञानविषयत्वं रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वादिति साधयितुमप्ययुक्तम् । तथा हिइदमर्थस्य रजतत्वजातिविशिष्टताज्ञानविषयत्वं हि साध्यम्, तत् अबाधितप्रवृत्तिविषयत्वप्रयुक्तमिति हेतोस्सोपाधिकत्वम् । शुक्तिन रजततया भाति शुक्तित्वात् सम्प्रतिपन्नवदिति च बाधः । एवमादिदूषणाभिप्रायेण अन्यस्यान्यथामानायोगाचेत्युक्तम् । दूषयति नेति । अन्यत्रैव सता आकारेण पुरोवर्तिनो विशिष्टताज्ञानम् अन्यथाभानम् । प्रतिपन्नाकारस्य पुरोवर्तिन्यभावनिश्चयश्च प्रवृत्तिबाघसचिवात् नास्तीति’ प्रत्ययात् । न हि प्रतिबद्धामेरमित्वं नास्तीति प्रत्यय इति प्रसिद्धम् ॥ कथं तत्कल्पनायामप्यन्यथा भानस्यावर्जनीयत्वमित्यपेक्षायामाह कल्प्यमानं हीति । अनिर्वचनीयमित्येव प्रतीत्यभ्युपगमे प्रतीतेर्भ्रमरूपत्वं बाधः प्रवृत्तिश्च न स्युः । अनिर्वचनीयं निर्वचनीयत्वेन प्रतीतं चेत् — अन्यस्यान्यथावभासोऽवर्जनीयः स्यादित्यर्थः । 1 नास्तीतिप्रत्ययात्-बाधकप्रमाणादित्यर्थः । अतो न कार्याविशिष्टता । प्रवृत्तिवैफल्यमात्रं नाभावनिश्चायकम् ; मण्यादिप्रतिवद्धेऽग्नौ दाहप्रवृत्तिवैफल्येऽप्यग्नित्वाभावानिश्चयात् ।
१-१-१ जिज्ञासाधिकरणम् (अनिर्वचनीय कल्पनानुपपत्तिः ) २७ भानविरहे प्रतीतिप्रवृत्तिबाधभ्रमत्वानामनुपपत्तेः तस्यापरिहार्यत्वाच्च, शुक्तयादिरेव रजताद्याकारेणावभासत इति भवताऽभ्युपगन्तव्यम् ॥ ख्यात्यन्तरवादिनाञ्च सुदूरमपि गत्वाऽन्यथावभासोऽवश्याश्रयणीयः - असत्ख्यातिपक्षे सदात्मना ; आत्मख्यातिपक्ष अर्थात्मना ; अख्यातिपक्षेऽपि अन्यविशेषणमन्य विशेषणत्वेम, ज्ञानद्वयमेकत्वेन च ; विषयासद्भावपक्षेऽपि विद्यमानत्वेन ॥
किञ्च –अनिर्वचनीयमपूर्वरजतमंत्र जातमिति वदता तस्य जन्मकारणं वक्तव्यम् ; न तावत् तत्प्रतीतिः, तस्यास्तद्विषयत्वेन तदुत्पत्तेः प्रागात्मलाभायोगात् । निर्विषया जाता तदुत्पाद्य तदेव तस्यापरिहार्यत्वाच्चेति । तस्य — अन्यथाभानस्य । अयमभिप्रायः – ‘नान्यस्यान्यथाभानम् ; विद्यमानस्यैव प्रतीनेः । अलौकिकं सत् लौकिकं सच्चेति द्विविधं सत् । अनिर्वचनीये चालौकिकं सत्त्वमस्ति । अत्र तदलौकिकं सत् रजतं प्रतीयते’ इति चेत् — किमलौकिकं सत् अलौकिक सत्त्वेन प्रतीयते, उत लौकिकसत्वेन ? प्रथमे भ्रमत्वबाध प्रवृत्यसंभवः । अलौकिकं लौकिक सदिति प्रतीत चेत्—अन्यस्यान्यथाख्यानं स्यात् ॥ अलौकिकसतो लौकिकसता भेदाग्रहात् प्रवृत्त्यादिसंभव इति चेत् — तर्हि तत्रानिर्वचनीयं वस्तु कल्पयित्वा तत्र भेदाग्रहेण प्रवृत्तिबाधभ्रमत्वोपपादनादपि प्रथमत एव संप्रतिपन्नरजताच्छुक्तित्वरूप भेदाग्रहेण प्रवृत्तिबाधभ्रमत्वोपपादने कल्पनालाघवादनिर्वचनीयं वस्त्वनुपपन्नम्—इत्यादिपदकपरम्परामभिप्रेत्य तस्यापरिहार्यत्वाच्चेत्युक्तम् ॥ यथार्थख्यातिव्यतिरिक्तपक्षेप्वन्यथाख्यातिपक्षः प्रबल इत्यभिप्रायेणाह ख्यात्यन्तरेति । सुदूरमपि गत्वा पदक परम्परा मुक्तापदकपरम्परामुक्ताऽपीत्यर्थः । तदुपपादयति असदिति । अयं माध्यमिकपक्षः । किमसदित्येव प्रतीयते, उतं सदिति ॥ असदितीति चेत्, भ्रमत्वबाघप्रवृत्त्यसंभवः । सदितीति चेत्, अन्यस्यान्यथामानं स्यादित्यर्थः । आत्मेति । अयं योगाचारपक्षः । आत्मशब्दो ज्ञानपरः । किं ज्ञानमित्येव प्रतीतम्, उतार्थ इति । प्रथमें प्रवृत्तिबाधभ्रमत्वा संभवः । द्वितीयेऽन्यस्यान्यथाभानमित्यर्थः । अख्यातिपक्ष इति । इदं रजतमिति किमेक ‘ज्ञानम् ; उत ज्ञानद्वयमिति विकल्पमभिप्रेत्य एकज्ञानमिति पक्षे ज्ञेये अन्यथाख्यातिं प्रसञ्जयति अन्यविशेषणमन्यविशेषणत्वेनेति । इदं रजतमित्येकत्वेन’ संप्रतिपन्नसम्यग्र जतवत् आरोप्यलिङ्गानुविधायिप्रयोगानुगुणसामानाधिकरण्येन प्रतीतत्वादन्यविशेषणमन्यविशेषणत्वेन प्रतीयत इत्यापादितम् ; न तु तत्पक्ष उपन्यस्तः । ज्ञानद्वयमितिपक्षे ज्ञानेऽन्यथाख्यातिं प्रसञ्जयति ज्ञानेति । ज्ञानद्वयं किं ज्ञानद्वयमित्येव प्रतीतम् ; उतैकमिति इति विकल्पे पूर्ववदूषणम् । विपयासद्भावेति । किमविद्यमानत्वेन प्रतीयते ; उत विद्यमानत्वेन प्रतीयते ? प्रथमे प्रवृत्त्याद्यसंभवः । द्वितीयेऽन्यथामान मित्ययैः ॥ अथ अकारणत्वमुपपादयति किञ्चेति । तस्याः —प्रत्यक्षप्रतीतेः । तद्विषयत्वेन — विद्यमान-
- एकत्वेन - अभिन्नत्वेन । आरोप्यलिङ्गं रजतपदक्लीबत्वादि । सामानाधिकरण्येन -समानविभक्तिकत्वेन । 2 ग्रहणस्मरणरूपतया प्राय एकज्ञानत्वा संभववादितन्मतेऽपि हस्ते निगूझ इदं रजतमिति स्मृत्वा व्यवहारे उभयविषयकैकस्मरणं सुवचमित्याशयः । * ज्ञानद्वित्वपक्षेऽपि ज्ञानद्वयैकत्वग्रहाधीनः अन्यविशेषणत्वेनावभासो भवति, न तु स एकत्वावभासात् प्रागिति विशेषः।
२८ ( प्रमाणानुपपत्तौ ) " ; तस्य विषयीकरोतीति महतामिदमुपपादनम् । अथेन्द्रियादिगतो दोषः, तन्न तस्य पुरुषाश्रयत्वेनार्थ’गत कार्यस्थोत्पादकत्वायोगात् । नापीन्द्रियाणि तेषां ज्ञानकारणत्वात् । नापि दुष्टानीन्द्रियाणि, तेषामपि स्वकार्यभूते ज्ञान एव हि विशेषकरत्वम् । अनादिमिथ्याज्ञानोपादानत्वं तु पूर्वमेव निरस्तम् ॥ किञ्च -अपूर्वमनिर्वचनीयमिदं वस्तुजातं रजतादिबुद्धिशब्दाभ्यां कथमिव विषयी - क्रियते, न घटादिवुद्धिशब्दाभ्याम् । रजतादिसादृश्यादिति चेत्; तर्हि तत्सदृशमित्येव प्रतीतिशब्दौ स्याताम् । रजतादिजालियोगादिति चेत्; सा किं परमार्थभूता, अपरमार्थभूता वा? विषयकारणकत्वेन । कारणं हि नियतपूर्वभावीति भावः । महतामिदमुपपादनमिति । वृत्तिज्ञानस्य विषयरहितावस्था स्वीकारेण कारणत्वाभ्युपगमेऽपसिद्धान्तापातातू, निर्विषयख्यातिवादिनामिव तत्प्रभावेन प्रवृत्त्यादिसिद्धौ अनिर्वचनीयवलुप्तिवैयर्थ्यात् विषयरूपकारणेन विनोत्पत्तिवचनात्, विरम्यव्यापारवचनाच्चात्यन्तमनुपपन्नमित्यर्थः । अथेन्द्रियादीति । आदिशब्देन विषयगतदोषः, पुरुषस्यानवधानं वा गृह्यते । तस्य पुरुषाश्रयत्वेनेति । दूरत्वादिदोषस्य विषयगतत्वेऽपि पुरुषगतत्वस्यापि संभवादुभयत्र कार्यमुत्पाद्यम् ; न विषयमात्रे; नियामकाभावात् । अतः पुरुष इव विषये ऽपि न संभवतीत्यभिप्रायः ॥
ननु चक्षुषः पुरुषाश्रयत्वेऽपि चाक्षुषरश्मेः प्रसृतस्य विषयसंबद्धस्य तत्र कार्यकरत्वं दृष्टम् ॥ न ; तत्कार्यस्य ज्ञानस्य पुरुषाश्रितत्वात् दोषांशस्याकार्यकरत्वात् ॥
ननु विषयमात्रगताः सादृश्यादयो दोषाः सन्ति । तेषां तत्रैव कार्यकरत्वमुपपद्यते ॥ मैवम् सादृश्यादेर्यावद्द्रव्यभाविनः सदोत्पादकत्वप्रसङ्गात् । आगन्तोरन्यस्य तत्रादृष्टेः । इन्द्रियसंयोगस्य पुरुषगतज्ञानातिरिक्तहेतुत्वासिद्धेः । दृष्टिविषादिन्यायस्यात्रासंभवात् । संभवेऽपि सर्वैरुपलम्भप्रसङ्गाच्च ।
नन्विन्द्रियाणि यथा पुरुष विशेषसंबन्धात् तत्रैव कार्यविशेषमुत्पादयन्ति एवं विषयविशेषसंबन्धात् तत्रैव किञ्चिज्जनयन्तु । तत्राह नापीन्द्रियाणीति । पुरुषगतज्ञानाख्यकार्यकरत्वमन्वयञ्यतिरेकावसितम् । विषये त्विन्द्रियजन्यं कार्यान्तरं न दृष्टम् । तत्कुल प्रिन्ययैवोपपत्त्या निरस्तेति भावः । तथापि दुष्टपुरुषसंनिधानात् यथा देशादिषु दोषाः प्रादुष्युः, तथा दुष्टेन्द्रियसंनिधानाद्विषये कार्यविशेषः स्यादित्यत्राह नापि दुष्टानीति । अन्वयव्यतिरेकादिकमविलङ्घय दृष्टान्तमात्रेण न किञ्चित् साधयितुं शक्यमिति भावः । किमत्र हेत्वन्तरगवेषणया ? अनादिभावरूपाज्ञानमेव विश्वोपादानभूतं शुक्तिरजताद्यपि विचित्रकार्यं जनयेदित्यत्राह अनादीति । तस्य स्वरूपानादित्वात् । कार्यमपि प्रागेव स्यात् । सहकारित्वेन शङ्कनीयमिन्द्रियादिकं तु निरस्तम् । मिथ्याभूतस्य चार्थक्रियाकारित्वमयुक्तम् । आश्रयानुपपत्त्यादयश्च पूर्वमेवोक्ता इति भावः ॥ एवमनिर्वचनीयस्य रजतादेरुत्पादकानुपपत्तिमुक्त्वा तदुत्पत्तावपि रजतादिबुद्धिशब्दान्वयनियमानुपपत्तिमाह किश्चेति । तद्व्यवस्थापकं शङ्कते रजतादीति । प्रातिभासिकस्य रजतादेरर्थक्रियाकारिव्यावहारिकरजतादिसादृश्यादित्यर्थः । उक्तस्य व्यवस्थापकत्वाभावमभिप्रेत्य सादृश्यस्य यथादर्शनं साध्यः न्तरमाह तर्हीति । यदि तत्सदृशे तद्बुद्धिः, तदा गवये गोबुद्धिवदन्यथाख्यातिः स्यादित्येवकाराभिप्रायः । सादृश्यस्यानिर्वाहकत्वेऽपि तज्जातियोगस्य तद्बुद्धिनिर्वाहकत्वं दृष्टमिति शङ्कते 1 दृष्टिविषाः सर्पाः दृष्टिविषये विषमुत्पाद्य जन्तीति भावप्रकाशिका । एवं केषाश्चित् इष्टौ पतितायां सम्यश्चि वस्तूनि आभासीभवन्तीत्यप्यत्र ग्राह्यम् ।
११.१ जिज्ञासाधिकरणम् (सर्वविज्ञानयाथार्थ्यम्) २९ न तावत् परमार्थभूता, तस्या अपरमार्थान्वयायोगात् । नाप्यपरमार्थभूता, परमार्थान्वयायोगात् । अपरमार्थे परमार्थबुद्धिशब्दयोर्निर्वाहकत्वायोगाच्चत्यलंमपरिणत कुतर्कनिरसनेन ॥… अथ वा-
यथार्थ सर्व विज्ञानमिति वेदविदां मतम् । श्रुतिस्मृतिभ्यः सर्वस्य सर्वात्मत्वप्रतीतितः ॥ “बहु स्या”मितिसङ्कल्पपूर्वसृष्ट्याद्युपक्रमे । “तासां त्रिवृतमेकैका मिति श्रुत्यैव चोदितम् ॥ रजतादीति । सा - रजतादिजातिः । अपरमार्थान्वयायोगात् – अपरमार्थव्यक्त्यन्वयायोगादित्यर्थः । व्यक्तिबाधेऽपि जातेरबाधितत्वप्रसङ्ग इति भावः । जातिरपि हि बाध्यते । न हि, व्यक्तिर्नास्ति जातिरस्तीति प्रतीतिः । जातिरपि नास्तीत्येव हि प्रतिपतिः । न च प्राक्प्रतिपन्नाया अपि जातेः पश्चादप्रतीतिरभिव्यञ्ज कव्यक्त्यभावात् न तु जात्यभावादिति वाच्यम्; अभिव्यञ्जक बति पूर्वकाले प्रतिपन्नाया अपि जातेस्तत्कालसंबन्धितयैव नास्तितागोचरत्वाद्वाधकप्रत्ययस्य । प्रतिपन्नोपाधी नास्तीति प्रत्ययो हि बाधः । अपरमार्थपक्षं दूषयति नापीति । परमार्थान्वयायोगात् - आपणस्थरजतव्यक्त्यन्व या योगादित्यर्थः । व्यक्त्यवस्थानेऽपि जातेः कदाचिद्वाधितत्वप्रसङ्ग इति भावः । न हि कदाचिदप्यापणस्थरजते रजतत्वं बाध्यते । परमार्थव्यक्त्यनन्वये बाधकमाह अपरमार्थ इति । परमार्थबुद्धिशब्दयोः । परमार्थव्यक्तौ जातिरनन्विता चेत् तस्याः क्वचिदपि परमार्थबुद्धिशब्दहेतुत्वादर्शनात् भ्रान्तिस्थलेऽपि परमार्थबुद्धिशब्दनिर्वाहकत्वं न स्यादित्यर्थः । यद्वा जात्यपारमार्थ्य एव दूषणान्तरं बुद्धिशब्दान्वयानुपपत्तिमाह अपरमार्थ इति । तदानीम् परमार्थबुद्धिशब्दयोः - परमार्थभूतबुद्धिशब्दयोरित्यर्थः । असत्यात् सत्योत्पत्तिनिरासमुपजीव्येदं दूषणमुच्यते । व्यक्तेस्तन्निर्वाहकत्वायोगं दर्शयितुमपरमार्थ इत्युक्तिः । अपरमार्थजातेः परमार्थ भूतबुद्धिशब्दनिर्वाहकत्वायोगात् जात्यपारमाध्यमयुक्तमित्यर्थः । बुद्धिशब्दयोश्च पारमाध्यं तद्वाघकादर्शनादेव सिद्धम् ॥ अथ वक्ष्यमाणाया यथार्थख्यातेः खसिद्धान्तत्वं दर्शयति अथवेति । तस्याः साम्प्रदायिकत्वं दर्शयन् तां प्रतिजानीते यथार्थमिति । वेदविदाम् – भगवद्बोधायननाथमुनि [यामुन १] मिश्रादीनामित्यर्थः । कुत इत्यत्राह श्रुतिस्मृतिभ्य इति । श्रुतिं दर्शयति बहु स्यामितीति । आदिशब्देन नामरूपव्याकरणमुच्यते । यद्वा सन्मूला इत्यादिवाक्योक्तं स्थितिप्रलयादिकं गृह्यते । सृष्टयादिरुपक्रमो यस्य प्रकरणस्य तस्मिन् सृष्टया युपक्रमे । इदं श्लोका किमर्थमिति चेत् — उच्यते । पाठकमेणाण्डसृष्टेः पश्चात् त्रिवृत्करणमिति ज्ञायते । अण्डसृष्टेः प्रागपि त्रिवृत्करणमस्ति; अण्डसृष्टयर्थत्वात् त्रिवृत्करणस्य । त्रिवृत्करणमुपायः ; अण्डसृष्टिः फलम् । उत्पत्तौ तत्फलं पश्चाद्भवति ; संङ्कल्पे तु पूर्वभावि । उपायस्तूत्पत्तौ पूर्वभावी, संकल्पे 1 ज्ञायत इति । तन्न युक्तमिति शेषः । 2 उत्पत्तिक्रमादरणे, फलोक्तिः पश्चात् उपायोक्तिः पूर्वम् । इच्छारूपसंकल्पकमादरणे तु फलोक्तिः पूर्वम्, उपायोक्तिः पश्चात् । किमितिफलाकाक्षानन्तरमेव केनेत्युपायाकांक्षा लोके इत्यत एव किल मीमांसकैस्तथोतिरित्यर्थः ।
३० ( प्रमाणानुपपत्तौ ) त्रिवृत्करणमेवं हि प्रत्यक्षेणोपलभ्यते । यदग्ने रोहितं रूपं तेजसंस्तदपामपि ॥ शुक्लं कृष्णं पृथिव्याश्चेत्यग्नावेव त्रिरूपता । श्रुत्यैव दर्शिता तस्मात् सर्वे सर्वत्र सङ्गताः ॥ पुराणे चैवमेवोक्तं वैष्णवे सृष्टधुपक्रमे । “नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन् प्रजाः स्रष्टुम समागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्ड” मित्यादिना ततः ॥ पश्धाद्भावीति लोकसिद्धम्, किं केन कथमित्यादौ । अतः, “नामरूपे व्याकरवाणि । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” इत्यस्मिन् व्यष्टिसृष्टिसङ्कल्पवाक्ये पश्चान्निर्दिष्टमण्डसृष्टद्युपायभूतं त्रिवृत्करणम् । " नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोत् " इत्युत्पत्तिवाक्ये पूर्वनिर्दिष्टस्यापि नामरूपव्याकरणस्य फलभूतत्वात् त्रिवृत्करणस्य फलरूपसृष्टेः पूर्वभावो निश्चीयते ; अर्थक्रमेण पाठक्रमबाधस्य न्याय्यत्वात् । अग्निहोत्रं जुहोति यवागूं पचति " इतिवत् । अस्मिन्नर्थे निदर्शनम्, उपक्रमे ‘बहु स्यां प्रजायेय’ इति वाक्यम् । अत्र, बहु स्यामिति फलसङ्कल्पः ; प्रजायेयेति तदुपायसङ्कल्पः अनेन, न केवलम् किं केन कथमित्यादिलोकप्रसिध्द्या अत्र त्रिवृत्करणस्य फलभूतसृष्टेः पूर्वभावित्वनिश्चयः, उपक्रमभूतसङ्कल्पवाक्यानुगुण्याच्चेति ज्ञापितम् । एवं त्रिवृत्करणस्याण्डसृष्टेः प्राक सद्भावं ज्ञापायितुमुपक्रमगतसङ्कल्पवाक्यस्य तदनुगुणत्वज्ञापनाय बहु स्यामित्याद्यर्धमुपात्तम् । CC र 2 अण्डान्तर्वर्त्यग्न्यादिषु त्रिवृत्करणस्य प्रदर्शनादण्डसृष्टेः पञ्चात् त्रिवृत्करणमिति शङ्कायां श्रतेरर्थमाह एवं हि प्रत्यक्षेणोपलभ्यत इति । अन्यादिषु कतिपयव्यक्तिषु त्रिरूपत्वप्रदर्शन नेयत्ताबुद्ध्या ; अपित्वण्डान्तर्भूतस्यैव प्रत्यक्षयितुं योग्यत्वात् पूर्वोक्तत्रिवृत्करणसंभावना प्रदर्शनार्थमिति भावः । अण्डसृष्टेः प्रागेव त्रिवृत्करणमस्तीति स्पष्टं ज्ञापयति पुराणे चेति । अस्यामुपनिषदि भूतत्रयसृष्टेरुक्तत्वात् सृष्टतयोक्तानां मिश्रणमुक्तम् । इदं तत्त्वान्तरसृष्टिप्रतिपादनप्रकरणेषु तेषामपि मिश्रणस्य प्रदर्शनार्थमिति ज्ञापनाथ [च] पुराणवचनोदाहणम् । वैष्णव इत्यनेन सात्त्विकत्वात् प्रामाण् सूचितम् ; “सात्त्विकेषु च सर्वेषु विष्णोर्माहात्म्यमिष्यते” इति वचनात् । संहतत्वं समागतत्वञ्चेति अवस्थाद्वयमस्ति । संहतत्वं नाम पृथक स्थित्य संयोगमात्रम् समागतत्वं पृथक स्थित्यनर्हसंश्लेषविशेष), एतद्द्वयाभावात् त्रष्टुं नाशक्नुवन्नित्याह नानावीर्या इति । एतदुभयप्राप्त्या असृजन्नित्याह समेत्येति । एकैकस्मिन् भूते सर्वभूतानि सन्ति चेत्, सर्वे शब्दाः सर्वत्र प्रयुज्येरन्नित्यत्राह परस्परसमाश्रया इति । अन्येषां भूतानां समाश्रितानामेकं भूतं समाश्रयः । आश्रिताश्रयभावश्च म्यूनाधिकभावनिबन्धमः । तत्कृता शब्दव्यवस्थेति भावः । उपात्तवचनानन्तरं ‘सम्प्राप्यैक्यमशेषतः ’ इति कृत्स्नशः समागतत्वमुक्तम् । महदादय इति पाठे सत्यपि वृत्तभङ्गपरिहाराय . खसन्दर्भे महदाद्या । 1 नामरूपव्याकरणत्रिवृत्करणयोः पाठक्रमदर्शनात् तत्तत्संकल्पयोरपि स एव क्रमोऽस्तु । एवश्च व्याकरणानन्तरनिवृत्करणमग्न्यादिकतिपयमात्र विषयमिति न शुक्तथादौ रजतादिसंकरप्रसक्तिरिति पूर्वपक्ष्याशयः । लोके फलसंकल्यस्योपाय संकल्पपूर्व भावित्वप्रसिद्ध्या बहुस्यामिति वाक्ये फलोपाययोः क्रमेण निर्देशः सिद्धः ; पाठक्रमादिबाधकादर्शनात् । तदनुसारेण व्याकरणत्रि वृत्करणसंकल्पवाक्येऽपि तथात्वमुचितम् । उपक्रमानुरोधात् पाठक्रमबाधः । अतो व्यष्टौ सर्वनिवृत्कृतमिति सिद्धम् । 2 अतो वैष्णवत्यात् सात्विकत्वमिति ।
2 १-१-१ जिज्ञासाधिकरणम् (एकत्रान्यावयवसद्भावे प्रमाणानि ) ३१ सूत्रकारोऽपि भूतानां त्रिरूपत्वं तथाऽवदत् । ‘ज्यात्मकत्वात्तु भूयस्त्वा’ दिति तेनाभिधाभिदा । सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादिति · न्यायविदो विदुः ॥ व्रीह्यभावे च नीवारग्रहणं ब्रीहिभावतः । तदेव सदृशं तस्य यत् तद्द्द्रव्यैकदेशभाक् ॥ शुक्रूयादौ रजतादेश्व भावः श्रुत्यैव वोधितः । रूप्यशुक्त्यादिनिर्देश मेदो भूयस्त्वहेतुकः ॥ रूप्यादिसदराश्वायं शुक्त्यादिरुपलभ्यते । अतस्तस्थात्र सद्भावः प्रतीतेरपि निश्चितः ॥ कदाचिचक्षुरादेस्तु दोपाच्छुक्त्यंशवर्जितः । रजतांशो गृहीतोऽतो रजतार्थी प्रवर्त्तते ॥ दोपहानौ तु शुक्त्यंशे गृहीते तन्निवर्तते । अतो यथार्थ रूप्यादिविज्ञानं युक्तिकादिषु ॥ वाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते । शुक्तिभूयस्त्वत्रै फल्यसाकल्यग्रहरूपतः ॥ इत्युक्तं ’ भाष्यकारैः ! अयमेव श्रत्यभिप्राय इति स्थापयितुं सूत्रकारोक्तिं दर्शयति सूत्रेति । ततः सूत्रकारोऽप्यवददित्यन्वयः । ततः - अस्यार्थस्य श्रुतिस्मृतिसिद्धत्वादित्यर्थः । एवं प्रथमं भूले भूतान्तरसद्भाव उक्तः, वक्ष्यमाणस्य सदृशे सदृशान्तर सद्भाव स्योपयोगित्वात् । तेनाभिधाभिदा –भूयस्त्वेनाभिधानव्यवस्थेत्यर्थः । सदृशे सदृशान्तरसद्भावमाह सोमेति । न्यायविदःपरीक्षकाः । “सोमाभावे पूतीकानभिषुणुयात्” इत्ययं विधिर्नियमार्थः । सोमाभावे तत्सदृशद्रव्यान्तरेषु स्वतः प्रवृत्तेः । एतत्तुल्यन्यायसिद्धार्थमाह श्रीहीति । त्रीहिभावतः -त्रीह्मश्यवसद्भावतः । ततः कथं सदृशे सदृशान्तरसद्भाव इत्यत्राह तदेवेति । अनेन शुक्त्यादौं रजताद्यवयवसद्भावः फलित इत्याह शुक्त्यादाविति । श्रुत्यैव बोधितः -प्रतिनिधिश्रुत्यैवाभिहितत्वेन फलितः । यद्वा त्रिवृत्करणश्रुत्यैव चोधितत्वं फलितम् । तेनः प्रचुररूप्यांशः शुक्तौ त्रिवृत्करणात् सिध्यतीत्यर्थः । कथं शब्दव्यवस्थे त्यत्राह रूप्येति । शुक्तिरूप्ययोः सादृश्ये सति हि शुक्तौ रूप्यसद्भावसिद्धिः, शब्दव्यवस्थाया भूयस्त्वहेतुकत्व सिद्धिश्चेत्यत्राह रूप्यादीति । यद्वा शुक्तौ रजतैकदेशसद्भावे प्रमाणान्तरमाह रूप्यादीति । ततः किमित्यत्राह अत इति । प्रतीतेःरूप्यसदृशतया प्रतीतेः । शुक्त्यादौ रजताद्यवयवसद्भावश्चेत् सदा गृह्येत; प्रवृत्तिश्ध सदा स्यात्; बाघश्च नोपपद्येतेत्यत्राह कदाचिदिति । ‘दोषः शुक्त्यंशाग्रहहेतुः। प्रचुरग्रहणाभिभूतत्वाभावाददृष्टवशाच रजतग्रहणम् ॥ अदृष्टवशाच्चाम्बुनो ग्रहणादिति हि वक्ष्यते । उदाहरणान्तरेष्वप्युपजीव्यत्वाय हि तत्र तदुक्तिः । भूयस्त्वेन बाध्यबाधकभाव इति । शुक्तिभूयस्त्वेन तज्ज्ञानस्य बाधकत्वम् । ततं एव रजताल्पत्वं सिद्धम् । तेन रजतज्ञानस्य बाध्यत्वमित्यर्थः । भूयस्त्वेनेत्युक्ते भ्रान्तिज्ञानस्य रजतभूयस्त्वात् तेन शुक्तिज्ञानस्य बाध्यत्वशङ्काव्यावृत्त्यर्थं भूयस्त्वेन बाध्यबाधकत्वमुपपादयति शुक्तीति ॥
ननु साकल्ये सत्यपि वैकल्यं गृहीतं चेत् — अन्यथाख्यातिरिति ॥ नैवम् । न हि वैकल्यस्य ग्रहो वैकल्यग्रहः; किन्तु शुक्तिभूयस्त्ववैकल्येन ग्रहः तत्सहिततया ग्रहः । तयोर्ग्रहयोः रूपात् खभावात् तथाविध- 1 1 अनेन कारिका इमाः भाष्यकृतामेवेत्याशयः स्पष्टः । ।
2 सोमाभावे पूतीकविधिर्नापूर्वविधिः । तदभावे तत्सदृशद्रव्यग्रहणस्य न्याय सिद्धतया वचनं विनैव प्राप्तेरित्यर्थः । एवं वदन्तो मीमांसकाः एकत्त्रान्यावयवं संमन्यन्त इति सिद्धमिति । 3 अत्र भाष्यार्थ दर्पणगतिरन्या । 1
३२ ( प्रमाणानुपपत्तौ ) नातो मिथ्यार्थसत्यार्थविषयत्वनिबन्धनः । एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ॥ ग्रहणात्मकत्वादित्यर्थः । बहुव्रीहिर्वा । भावप्रधानो निर्देशः । पूर्वोत्तरज्ञानयोस्तथारूपत्वात् बाध्यबाधकभाव इत्यर्थः । ज्ञानस्य बाध्यत्वं न स्वरूपतः ; न च विषयतः ; किन्तु बाध्यप्रवृत्तिकत्वम् । उत्तरज्ञानस्य च बाधकत्वं - - पूर्वज्ञानजन्यप्रवृत्ति निवारकत्वम् । अन्यथाख्यातिवादेऽपि ज्ञानस्य स्वरूपेण बाध्यत्वमनभिमतम् ; किन्तु विषयबाध्यत्वमेवाभिमतम् । अस्माकं तु ज्ञानफलभूत प्रवृत्तेर्बाध्यत्वमिति भिदा । प्रवृत्तेश्व बाधितत्वं प्रतिबद्धोत्पतिकत्वं विफलत्वं वा । नात इति । मिध्यार्थसत्यार्थशब्दाभ्यां पराभिमत मिथ्यात्व सत्यत्वे विवक्षिते । एवमिति । सर्वस्य सर्वत्वेऽमि व्यवहारव्यवस्थितिःहानोपादानादिनियमः एवम् — भूयस्त्वसाकल्यवैकल्याभ्यामित्यर्थः । साधारणाकारग्रहण-भेदाग्रह - दोषादृष्टानि सर्ववादिभिरभ्युपेतव्यानि । तावता प्रवृत्त्यादिसंभवेऽपि अधिककल्पनायामन्येषां गौरवं स्यात् । तत्रेष्टरूपरूपिनिरन्तरमानात्प्रवृत्तिः ; द्विष्टरूपरूपिनिरन्तरभानानिवृत्तिः । रूपरूपिणोधर्म्यन्तरनिष्ठत्व-विरोधिधर्मान्तराश्रितत्वभानविरहेण भानं निरन्तरभानम् ; अत एव, ‘भेदग्रहात्प्रवृत्तिश्चेत्, रज्जुसर्पभेदाग्रहे निवृत्तिर्न स्यात्’ इत्यादीनि चोद्यानि नावकाशं लभन्ते । यः परमते ख्यात्यन्तर हेतुरभ्युपेतः, स एवास्माकं प्रवृत्त्यादिहेतुः । प्राभाकरैर्मन्त्रार्थवादार्थतात्पर्यानभ्युपगमात् केवलभेदाग्रहेणैव निर्वाहः कृतः । अत्र तु मन्त्रार्थवादयोः प्रतीयमानार्थे प्रामाण्याभ्युपगमादुपनिषद्भागावगतं त्रिवृत्करणं तत्प्रदर्शितं पञ्चीकरणम् ईश्वरकर्तृकं सर्गविशेषं तथा प्रतिनिधिन्याय मेदाग्रहमप्युपजीव्य निर्वाहः कृत इति वैषम्यम् । तत्र भूते भूतान्तरभ्रमस्य त्रिवृत्करणेन निर्वाहः स्फुटतरः । सदृशे सदृशान्तरभ्रमस्य तु प्रतिनिघिन्यायेनैव निर्वाहः, न तु त्रिवृत्करणेनोपयोग इति केचिदाचार्याः । त्रिवृत्करणमपि विजातीयभूतारब्धे सदृशे विजातीयभूतारब्धसदृशान्तरभ्रमनिर्वाहोपयिकमिति च सम्प्रदायः । श्रतिस्मृतिभ्यः सर्वस्येत्यादिग्रन्थानां स्वारस्यात् तथऽावगम्यते । अतस्त्रिवृत्करणश्रवणपञ्चीकरणस्मरणाभ्यां प्रतिनिधिन्यायाच्च सदृशे सदृशान्तरबुद्धियाथार्थ्य निरूप्यते ॥
ननु कथं सदृशे सदृशान्तरभ्रमस्य त्रिवृत्करणेनोपयोगः । न हि त्रिवृत्करणात्पूर्व रजताद्यवयवाः सन्ति । तथासति हि त्रिवृत्करणनिबन्धनं शुक्तौ रजतादिसंमिश्रणं स्यात् । न च तदस्ति ; त्रिवृत्करणस्याण्डसृष्टेः पूर्वभावित्वात् ॥ उच्यते; पाञ्चभौतिकेष्वपि पदार्थेषु किञ्चित्कार्य केनचित्प्रचुरेण भूतेन परिणामविशेषवता आरब्धम् । तत्र यादृशपरिणाम युक्त यद्धतप्रचुरं यत् कार्यम्, तस्य तादृशपरिणामवतो भूतस्य कार्यान्तरेष्वपि विद्यमानत्वात् तेषु तथाविधतद्भूतप्रचुरतत्कार्यविषयबुद्धिरुपपद्यते । यद्यप्यवान्तराकारविशेषस्त्रिवृत्करणदशायां नास्ति, तथापि त्रिवृत्करणेन कार्यानुप्रविष्टस्य तस्य भूतस्य कार्यान्तरावयवसमानपरिणामसंभवाद्भौतिकान्तरे भौतिकान्तरबुद्धेर्याथार्थ्यं घटते । तथा (तथा च ?) त्रिवृत्करणेन शुक्तावन्तर्गतस्य तेजोंशस्य शुक्तभास्वररूपेण परिणामवतो रजतसौसादृश्यात रजतावयवत्वमुपपन्नम् । तादृशा कारयुक्तततद्भुत विशेषवन्त एव हि सम्यग्रजतादयो निरीक्ष्यन्ते । अतः शुक्त्यादौं रजताद्यवयवसद्भाव उपपद्यते ॥
ननु कथं शुक्त्यादिषु प्रतीयमानानामवयवानां रजताद्यवययत्वम् । न हि ते रजतादिभ्य आनीय निवेशिताः ॥ उच्यते । सम्प्रतिपन्नरजताद्यवयवसु सदृशा कारत्वमेव
३३. तैषां रजताद्यवयवत्वम् ; न तु रजतादिभ्य आनीय निवेशितत्वम् । यथा संप्रतिपन्नरजताद्यवयवानाम् न ह्यापणस्थरजताद्यवयवाः कुतश्चिद्रजतान्तरादेरानीय निवेशिताः । एवमेव पूतीकादिषु प्रतीयमानानां सोमलताद्यवयवानामपि सोमाद्यवयवत्वं नाम सम्प्रतिपन्न सोमलताद्यवयवसुसदृशत्वमेम । तच्च स्फुटतर्प्रतीतिसिद्धमबाधितञ्च । न हि शुक्तिशकलपूतीकादिषु रजतसोमलतादिसादृश्यं नास्तीति बाधकप्रत्यये उदेति । तेषामवयवानां विजातीयावयवप्राचुर्यादकार्यकरत्वम्, प्रचुरक्षीरनिविष्टारूप सलिलस्येव प्रचुरकनकसंसृष्टास्परजतस्येव च संभवति ॥ । नन्वेवं शुक्तितयाऽभिमतपुञ्जस्य शुक्तित्वमपुष्कलं स्यात्, विजातीयावयवसंसर्गात् पुरुषमृगे पुरुषत्ववत् ॥ पुरुषमृगत्वं नाम पुरुषत्वमृगत्वविलक्षणं जात्यन्तरम्, न तु विकलं पुरुषत्वं मृगत्वं चेति चेत्-तर्हि शुक्तितयाऽभिमतपुञ्जस्यापि शुक्तित्वरजतत्वविलक्षणजात्यन्तरवत्त्वं स्यात् । ततश्च पुरुषमृगे पुरुषव्यवहारवत् शुक्तिव्यवहारो न मुख्यः स्यात् । विजातीय संसृष्टायाः भ्रमाधिष्ठानभूतायाः’ शुक्तेः, पुरुषेण पुरुषमृगस्येव, शुवत्यन्तरेण सौसादृश्याभावात् । सौसादृश्ये सति हि तत्ताज्यवहारस्य मुख्यत्वम् । तदभावाद्धि सिंहो देवदत्त इत्यस्या मुख्यत्वम् ॥ शुवत्यवयवप्राचुर्याच्छुक्तित्वं पुष्कलम् ; तत एव तद्व्यवहारश्च मुख्य इति चेत् — तर्हि रजतांशस्याप्रचुरत्वादेव रजतत्वं नास्तीति रजतबुद्धेर्याथार्थ्य न स्यात् ॥ . उच्यते । पुरुषत्ववत् शुक्तित्वस्यावयवसंघात विशेषवृत्तित्वाभावादणुमात्रेऽपि शुक्तित्वं पुष्कलम् । पुरुषत्वस्य तु सङ्घातविशेषवृत्तितया सङ्घातवैकल्यात् तदपौष्कल्म्; जात्यन्तरं वा तंत्र स्यात् ; शुक्तित्वं तु न तथेत्युक्तम् । अतः शुक्स्यवयवेषु शुक्तित्वतद्वयवहारावुपपन्नौ । तत्र विरुद्ध जात्यन्वयाभावात् । शुक्तितयाऽभिमतसङ्घाते तु शुक्त्यवयवप्राचुर्यादयकियाव्यवस्था शब्दव्यवस्था चोपपद्यते । प्रचुर शुक्त्यभिभूतत्वेन रजतांशस्यागृहीतत्वात् गृहीतशुक्तिविवक्षया तद्विषयत्वेन प्रयुक्तः शब्दो मुख्य इत्युपपन्नम् । न च भ्रमाधिष्ठानभूतायाः शुक्तेर्विजातीयावयवयोगितया शुक्त्यन्तरसौसाहयहानिः शुक्त्यन्तरस्याप्यल्परजतांशमिश्रत्वात् । रजतांशाभिभवेन शुक्त्यन्तर सौ सादृश्यप्रतीतिरुपपद्यते । शुक्त्यवयवानां तु परस्पर सौसादृश्यमुपपन्नतरम् । उक्तरीत्या रजतांशस्य च रजतत्वं मुख्यम् । तस्मिन्नशे विरुद्धजात्यन्वयाभावात् रजतान्तरावयवसौसादृश्यं च । श्रमदशायां गृह्यमाणस्य तस्य प्रचुरशुक्तिग्रहणाभिभूतत्वाभावाद्रजतान्तरावयवसौ सादृश्यप्रतीतिरुपपद्यते । अत एव रजतव्यवहारश्च मुख्यः । अतः शुक्त्यादौ रजतादिबुद्धेर्याथार्थ्यमुपपन्नम् ॥ अल्पस्य रजतस्य प्रचुरतया ग्रहणेऽन्यथाख्यातिप्रसङ्ग इति चेन्न ; प्राचुर्यग्रहणामाचात्, अल्पत्वाग्रहणमेव हि तत्र विद्यते । प्राचुर्यस्य प्रतियोग्यपेक्षत्वात् प्रतियोगिभूतशुत्रत्यग्रहणात् तद्ग्रहणे प्रवृत्त्यसंभवाच्च शुक्त्यपेक्षया रजतांशस्य प्राचुर्यं न गृहीतमिति नान्यथाख्यातिः ॥
नन्वल्पत्वाग्रहणं नाम प्रचुरत्वग्रहणं स्यात् । भवन्मते हि भावान्तरमभावः । अतोऽन्यथाख्यातत्वमिति चेत्-न; अल्पत्वाग्रहणं नाम न प्राचुर्यग्रहणम्, अपि तु अल्पत्वविषयज्ञानसङ्कोच इति अन्यथाग्रहाभावात् ॥ नेदं रजतमित्यत्र नञर्थः कः इति चेत् —शुक्तित्वमेवेति ब्रूमः । यदाकारग्रहणेन पूर्वज्ञानोत्पन्नायाः 2—5 · ·
३४ ( प्रमाणानुपपत्तौ स्वाप्नसत्यत्वम् ) . स्वप्ने च प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्यास्तत्तत्काल वसानास्तथाभूताश्चार्थाः सृज्यन्ते । तथा हि श्रुतिः स्वप्नविषया, “न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो भवन्ति । अथाऽऽनन्दान् जुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति । अथ वेशान्तान् पुष्करिण्यः स्रवन्त्यः सृजते । स हि कर्ता” इति । यद्यपि सकलेतरपुरुषानुभाव्यतया तदानीं न भवन्ति - तथापि तत्तत्पुरुषमात्रानुभाव्यतया तथाविधान् अर्थान् ईश्वरः सृजति । स हि कर्ता । तस्य सत्यसङ्कल्पस्याऽऽ. श्चर्यशक्तेस्तथाविधं कर्तृत्वं संभवतीत्यर्थः । “य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिल्ँलोकाः श्रिताः सर्वे तदु नात्येति कश्चत” इति च । सूत्रकारोऽपि - " सन्ध्ये सृष्टिराह हि”, “निर्मातारं चैके पुत्रादयश्च” इत्ति सूत्रद्वयेन, ‘स्वालेष्वर्थेषु जीवस्य स्वाभाविक सत्यसङ्कल्पत्वादेः कृत्स्नस्य संसारदशायामनभिव्यक्त स्वरूपत्वात् ईश्वरस्यैव तत्तत्पुरुष- प्रवृत्तेर्निवृत्तेर्वा निवारणम्, स एवाऽऽकारो नञर्थः । स चाऽऽकारः प्रतियोगिसापेक्षैः नेदं रजतमित्यादिशब्दैः, तदनपेक्षैः शुक्त्यादिशब्दैश्च व्यवह्रियते ॥
; एवं भूते भूतान्तरसद्भावात्, सदृशे सदृशान्तरसद्भावाच्च शुक्तिरूप्यादिबुद्धेर्यायायमुपपादितम् ; न हि खप्नार्थानां सदृशे सहशान्तरसद्भावो वा भूते भूतान्तरसद्भावो वक्तुं शक्य इत्यत्राह स्वप्ने चेटि । कथं केचित् सुखरूपाः केचित् दुःखरूपा इत्यत्राह पुण्यपापानुगुणमिति ः भगवतैव - जगत्स्रप्टैव । तर्ह्यन्यैरप्युपलभ्येत, सदा चोपलभ्येतेत्यत्राह तत्तदिति । कथं दृष्टविसजातीयाः इत्यत्राह तथाभूता इति । श्रुतिं दर्शयतितथाहीति । स्वप्नविषयत्वमस्य वाक्यस्य कथमिति शङ्कायां स्वमं पश्यतीति पूर्ववाक्यं स्मारयति स्वमचिषयेति । स्थयोगाः - अश्वादयः । न भवन्ति - दृष्टसजातीया न भवन्तीत्यर्थः । आनन्दा मुदः प्रमुद इति । साधारणभोग्यदर्शनजा प्रीतिर्मुत्; असाधारणभोग्यत्वज्ञानजा प्रीतिः प्रमुत्; विनियोगजा प्रीतिरानन्दः । यद्वा विलक्षणविषयदर्शनजा प्रीतिर्मुत्; तस्य स्वविनियोग। ईत्वज्ञानजन्या प्रीतिः प्रमुत्; विनियोमजा प्रीतिरानन्द इति । एतैः शब्दैर्विषयाः लक्ष्यन्ते । मुख्यार्थत्वे दृष्टविसजातीयत्वायोगात् । वेशान्ताः – गृहाः । यद्वा वेशान्ता. -[वेशन्ताः ?] पल्वलानीत्यर्थः । कथमुपपद्यत इत्यत्राह - स हि कर्तेति । सर्वशक्तिर्हि कर्ता; किमनुपपन्नमिति भावः । तच्छब्दो न प्रकृतजीवपरः; अपि तु प्रसिद्ध परमात्मपरः । व्याघातपौनरुक्तयशङ्कापरिहारार्थमस्याः श्रतेरर्थमाह यद्यपि सकलेति । सृजत इति पदविरोधपरिहाराय न भवन्तीति निषेघस्य सङ्कोचो हि उत्सर्गापवादन्यायेन कृतः । अतः कालान्तरस्थायित्वपुरुषान्तरानुभाव्यत्वाकारविषयो निषेधः ; न तु तत्कालतत्पुरुषमात्रानुभाव्यत्तया स्वरूपनिषेधः । अतो जाग्रदवस्थानुभूतवस्तु सजातीयाः अनेक पुरुषानुभाव्याः कालान्तरस्थायिनश्च न भवन्तीत्यर्थः । स हि कर्तेत्येतत्खण्डम् उक्तार्थोपपादकत्वेन व्याचष्टे तस्येति । स्वामार्थसृष्टेरीश्वरकर्तृकत्वस्फुटीकरणार्थं श्रुत्यन्तरमाह य एषु सुप्तेष्विति । स्वामार्थानां पारमाध्यं पूर्वपक्षीकृत्यापारमार्थ्यं सूत्रकारेण सिद्धान्तितमिति व्याख्यातृमतभेदेन अस्याः श्रुतेनयमर्थ इति शङ्काव्युदासार्थमुक्तार्थस्य सूत्रकाराभिमतत्वमाह सूत्रेति । सूत्रार्थमाह स्वाप्नेष्विति । जीवस्यापि
१-१-१ जिज्ञासाधिकरणम् ( वीतशंखादिग्रहयाथार्थ्यम् ) ३५ मात्रानुभाव्यतया आश्चर्यभूता सृष्टिरियम् । " तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन” इति परमात्मैव तत्र स्रष्टेत्यवगम्यते’ इति परिहरति । अपवरकादिषु शयानस्य स्वप्नदृशः स्वदेहेनैव देशान्तरगमन राज्याभिषेकशिरश्छेदादयश्च पुण्यपापफलभूताः शयान देहस रूप संस्थान देहान्तरसृष्टयोपपद्यन्ते ॥ पीतशङ्खादौ तु नयनवर्तिपित्तद्रव्यसंभिन्नाः नायनरश्मयः शङ्खादिभिः संयुज्यन्ते । तत्र पित्तगतपीतिमाभिभूतः शङ्खगतशुक्तिमा न गृह्यते । अतः सुवर्णानुलिप्तशङ्खवत्, पीतः शङ्ख इति प्रतीयते । पित्तद्रव्यं तद्वतपीतिमा चातिसौक्ष्म्यात् पार्श्वस्थैर्न गृह्यते । पित्तोपहतेन तु स्वनयननिष्क्रान्ततयाऽतिसामीप्यात् सुक्ष्ममपि गृह्यते । तद्ग्रहणजनित संस्कारसचिवनायनरश्मिभिर्दूरस्थ - मपि गृह्यते ॥ जपाकुसुमसमीपवर्ति स्फटिकमणिरपि तत्प्रभाभिभूततया रक्त इति गृह्यते । जपाकुसुमप्रभा विततापि स्वच्छद्रव्यसंयुक्ततया स्फुटतरमुपलभ्यते इत्युपलब्धिव्यवस्थाप्यमिदम् । मरीचिकाजलज्ञानेऽपि तेजःपृथिव्योरप्यम्बुनो विद्यमानत्वादिन्द्रियदोषेण तेजः पृथिव्योरग्रहण त् अदृष्टवशाच्चाम्बुनो ग्रहणात् यथार्थत्वम् । अलातचक्रेऽप्यलातस्य द्रुततरगमनेन सर्वदेश संयोगादन्तरालाग्रहणात् तथाप्रतीतिरुपपद्यते । चक्रप्रतीतावप्यन्तरालग्रहणपूर्वकतत्तद्देश संयुक्ततत्तद्वस्तु- स्वप्नदशायां सत्यसङ्कल्पत्वाद्याविर्भावः कल्प्यत इत्यत्राह - तस्मिलोका इति । अनन्यथासिद्धस्यैव हि करूपकत्वम् । परमात्मलिङ्गश्रवणेन स्वाप्नार्थसृष्टेः परात्मनैवोपपन्नत्वात् न जीवस्य स्वरूपाविर्भावः कल्प्यत इत्यर्थः । कथंमपवरके शयानस्य देशान्तरगमनादेः पारमाध्यमुपपद्यत इत्यत्राह अपवरकादिष्विति । स्वयमेव स्वदुःखावहवस्तुसृष्ट्यनुपपत्तेश्च न तदा जीवस्य स्वरूपाविर्भावः कल्प्यत इति चार्थसिद्धम् ; शिरश्छेदादय इत्युक्तत्वात् । सरूपे देहान्तरे शयानदेहव्यवहारो भेदा ग्रहकृतः ; न त्वन्यथाख्यातिकृतः । एवं स्वाप्नार्थेषु तत्तदेकपुरुषानुभाव्यत्व तत्तत्कालावसायित्वरूपभेदाग्रहात् प्रवृत्त्या द्विर्भवति ॥ पीतशङ्खादावीश्वरसृष्टत्वश्रुतिर्दशयितुं न शक्यत इत्यत्राह पीतेति । वीतिमवत् शौकल्यमपि प्रतीयेतेत्यत्राह तत्रेति । तर्हि पार्श्वस्थैरपि पितद्रव्यं प्रायमित्यत्राह पित्तेति । तर्हि सूक्ष्मत्वात् तेनापि न पित्तं ग्राह्यमित्यत्राह पित्तोपहतेन त्विति । दूरस्थशङ्खस्यातिसामीप्याभावात् कथं तत्रस्थं पित्तद्रव्यं गृचत इत्यत्राह तद्ग्रहणेति । यथा अतिदूरमुत्पतितः पतगो न द्रष्टुं शक्यते, तथापि संनिकर्षोत्पतनकालादारभ्य निरन्तरमवेक्ष्यमाणस्तज्जनितसंस्कारवद्भयां चक्षुर्भ्यां दूरेऽपि गृह्यते—तद्वदित्यर्थः । प्राभाकरैः पित्तपीतिमा शङ्खद्रव्यं च निरन्तरं गृह्येते इत्युक्तम् ; अत्र तु रूपवद् द्रव्ये चक्षुषः सामर्थ्यात् पितद्रव्यं गृह्यत इत्युक्तमिति विशेषः । सुवर्णानुलिप्तशङ्खवदिति दृष्टान्ते चायं भावः ।
ननु यदि पित्तद्रव्यशङ्खयोर्भेदा महात् पीतशङ्खभ्यवहारः, तर्हि पटे पीतव्यवहारः कथं न स्यात् ॥ अन्यथाख्यातौ वा कथं पटे पीतव्यवहाराभावः ॥ भ्रमे सति तन्मूलनिरूपणा कार्या । न तु सर्वत्र भ्रमेण भवितव्यमिति चेत् — तुल्यम् जपाकुसुमस्फटिकादौ चाक्षुषदोषसंसर्गो दुर्वच इत्यत्राह - जपेति । जपाकुसुमस्फटिक-मरीचिकाजलअलातचक्रदिङ्मोहेषु द्रव्यान्तरेण संबन्धात् यथार्था प्रतीतिरिति निर्वाहः । जपाकुसुमप्रभासंबन्धात् रक्तप्रतीतिश्चेत्, तत्संबन्धात् पाषाणादिष्वपि तथा स्यादित्यत्राह - स्वच्छेति । मरीचिकेति । अदृष्टस्वं
३६ ( प्रमाणानुपपत्तौ ) ग्रहणमेव । क्वचिदन्तरालाभावादन्तरालाग्रहणस, कचिच्छैष्याद ग्रहणमिति विशेषः । अतस्तदपि यथार्थम् । दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था । दर्पणादिप्रतिहतगतयो हि नायनरश्मयो दर्पणादिदेशग्रहणपूर्वकं निजमुखादि गृह्णन्ति । तत्राप्यति रौघ्न्यादन्तरालोग्रहणात् तथा प्रतीतिः ॥ दिङ्मोहेऽपि दिगन्तरस्यास्यां दिशि विद्यमानत्वाददृष्टव शेनैतद्दिगंशवियुक्तो दिगन्तरांशी गृह्यते । अतो दिगन्तरप्रतीतिर्यथाथैव । द्विचन्द्रज्ञानादावपि सामग्रीद्वयमन्योन्यनिरपेक्षं अङ्गुल्यवष्टम्भतिमिरादिभिर्नायनते जोगतिभेदेन चन्द्रग्रहणद्वय हेतुर्भवति । सामग्रीभेदात् तत्रैका सामग्री स्वदेशविशिष्टं चन्द्रं गृह्णाति । द्वितीया तु किञ्चिद्वक्रगतिः चन्द्रसमीपदेशग्रहणपूर्वकं चन्द्रं स्वदेशवियुक्तं गृह्णाति । अतः सामग्रीद्वयेन युगपद्देशद्वय विशिष्टचन्द्रग्रहणे ग्रहणभेदेन ग्राह्याकारभेदादेकत्वग्रहणाभावाच्च द्वौ चन्द्राविति भवति प्रतीतिविशेषः । देशान्तरस्य तद्विशेषणत्वं देशान्तरस्य अगृहीतस्वदेशचन्द्रस्य च निरन्तरग्रहणेन भवति । तत्र सामग्रीद्वित्वं पारमार्थिकम् । तेन देशद्वय- नियामकत्वं सर्वैरपि ख्यात्यन्तरवादिभिरभ्युपेतव्यम्, अन्यथा सर्वेषां सर्वदा सर्वत्र सर्वविषयभ्रमप्रसङ्गात् ; कदाचिदपि श्रमाभावप्रसङ्गाच्च । अलातेति । अन्तरालाग्रहणात् – पूर्वोत्तरकालभाविनोः तत्तत्प्रदेशविशेषालातसंयोगयोरन्तरालाग्रहणात् क्रमाग्रहणादित्यर्थः । अन्तरालाग्रहणे सति कथं याथार्थ्यामित्यत्राह चक्रेति । चक्रप्रतीतिः - सम्यक्चक्रप्रतीतिः । को विशेष इत्यत्राह - क्वचिदिति । दर्पणादिष्विति । सव्यदक्षिणविपर्यासः कथमिति चेत् उच्यते । आपेक्षिको हि सव्यदक्षिणभावः । तत्र स्वाभिमुखतया विपर्यस्तसन्यदक्षिणभावस्य दर्पणस्य, मुखस्य चान्तरालाग्रहणमेव । विपर्यासो दर्पणदेशगतः । तेनागृहीतान्तरालं मुखमिति अभिमुखस्य दर्पणस्य मुखस्य चान्तरालाग्रहणादाभिमुख्यप्रतीतेर्याथार्थ्यम् एवं मलिनत्वापत्वादि (दे )ध । दिङ्मोहेऽपीति । सर्वदिक्सद्भावेऽपि प्राच्यादिव्यवहारः प्रतियोग्यपेक्षया । तत्र दिगन्तर प्रतियोगिनो दिगन्तरस्य च निरन्तरभानम् । अतो यथार्थविषयत्वमिति । दिशां बहुत्वं च, “पद्भ्यां भूमिर्दिशः श्रोत्रात्” इत्यवगम्यते । 2, द्विचन्द्रेति । ततः किमित्यत्राह तत्रैकेति । स्वतः ऋजुप्रसारिणोऽपि चाक्षुषतेजसो वक्रत्वं संभवति । दर्पणादिना तदर्शनात् । इहाप्यङ्गुल्यवष्टम्भादृष्टादिना तदुपपतिः । ततः किमित्यत्राह - अत इति । चन्द्रदेशौ द्वाविति प्रतीत्यभाव हेतुश्चन्द्रकत्वाग्रहणम् । देशान्तरगतस्य तद्विशेषणकत्वं कथमित्यत्राह देशेति । ततः किं प्रतीतेर्याश्रायस्येत्यत्राह तत्र सामग्रीति । तेन देशद्वयविशिष्टचन्द्रग्रहणद्वयं च पारमार्थिकमिति । ग्रहणद्वयमतिरौघ्रचादगृहीतक्रमम्, अत एवागृहीतपरस्परभेदं चेति भावः । 1 तथा प्रतीतिः दर्पणस्थत्वेनप्रतीतिः ।
नन्वन्तरालमियदस्तीति ज्ञानवतामपि दर्पणस्थत्वप्रतीतिः कथमिति चेत्–विम्बातिरिक्तं विम्बजन्यं प्रतिबिम्बमिति भ्रान्तिवासनाबलात् । तत्रापि रश्मिप्रतिघातरौघ्रयात् मुखदर्पणग्राहकज्ञानेन तदन्तरालग्रहणमित्यपि भाव्यम् । मुखदर्पणनिरन्तरभानं शैघ्रयरूपदोपवशात् भ्रान्तिव्यवहारहेतुः । भेदाग्रहस्थाने असंबन्धाग्रहरूपकारणनिरूपणार्थ सर्वत्र अन्तरालग्रहणवचनम् । 2 न चाभिमुख्यस्य सव्यदक्षिणभावस्य च प्रतिबिम्बे वास्तवत्वान्न दोष इति वाच्यम्-बिम्बादन्यस्य प्रतिबिम्वस्याभावात् विम्बस्य दर्पणगतसव्यत्वादीनाञ्चान्तरालाग्रहणस्यैव वक्तव्यत्वात् ।
१-१-१ जिज्ञासाधिकरणम् (द्विचन्दज्ञानयाथार्थ्यम्) ३७ विशिष्टचन्द्रग्रहणद्वयं च पारमार्थिकम् । ग्रहणद्वित्वेन चन्द्रस्यैव ग्राह्याकारद्वित्वं च पारमार्थिकम् । नत्र विशेषणद्वयविशिष्टचन्द्रग्रहणद्वयस्यैक एव चन्द्रो ग्राह्य इति ग्रहणे, प्रत्यभिज्ञानवत् केवलचक्षुषः सामर्थ्याभावात् चाक्षुषज्ञानं तथै (स्यै) वावतिष्ठते । द्वयोः चक्षुषोरेकसामग्रयन्तर्भावेऽपि तिमिरादिदोष भिन्नं चाक्षुषं तेजः सामग्रीद्वयं भवतीति कार्यकल्प्यम् । अपगते तु दोषे स्वदेश विशिष्टस्य चन्द्रस्यैकग्रहणवेद्यत्वात् एकश्चन्द्र इति भवति प्रत्ययः । दोषकृतं तु सामग्रीद्वित्वं तत्कृतं ग्रहणद्वित्वं तत्कृतं ग्राह्याकारद्वित्वं चेति निरवद्यम् । अतः सर्व विज्ञानजातं यथार्थमिति सिद्धम् । ख्यात्यन्तराणां दूषणानि तैस्तैर्वादिभिरेव प्रपञ्चितानीति न तत्र यत्तः क्रियते । [अथवा किमनेन बहुनोपपादनप्रकारेण ? प्रत्यक्षानुमानागमाख्यं प्रमाणजातम् आगमगम्यं च निरस्तनिखिलं दोषगन्धमनवधिकातिशयासङ्ख्ये यकल्याणगुणगणं सर्वज्ञं सत्यसङ्कल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति, किं नोपपद्यते भगवता हि परेण ब्रह्मणा क्षेत्रज्ञपुण्यपापानुगुणं तद्भोग्यत्वाविशेषणद्वयविशिष्टविषयग्रहणद्वयेऽपि विशेष्यैक्यं कथं न प्रतीयत इत्यत्राह तत्रेति । न हि केवलं चक्षुः ऐक्यप्रतिपत्तिसमर्थं दृष्टं देवदत्तादिषु अपि तु संस्कारसंस्कृतमेव समर्थ दृष्टम् । संस्कारस्य विलम्बितभावित्वान्न तदानीमैक्यप्रतिपत्तिरित्यर्थः । चाक्षुषज्ञानं तथैवावतिष्ठत इति । अगृहीतैकत्वचन्द्रमात्रविषयमवतिष्ठत इत्यर्थः । तस्यैवेति पाठे चन्द्रमात्रस्यैव ग्राहकतया तिष्ठतीत्यर्थः । एकसामग्रीभूतयोश्चक्षुषोः कथं द्विसामग्रीत्वमित्यत्राह - द्वयोश्चक्षुषोरिति । स्वतो निर्दोषस्येन्द्रियस्य सदोषत्वं हि कार्यकरूप्यम् । तथा सामग्री द्वित्वमपीति भावः । तर्हि सदैव चन्द्रद्वित्वं गृह्येतेत्यत्राहअपगते त्विति । कथं दोषापगमे ऐक्यप्रतिपत्तिरिति शङ्कायां द्वित्वप्रतिपतेरौपाधिकत्वमाह - दोषकृतमिति । ग्राह्याकार द्वित्वमिति । स्वदेशविशिष्टत्वमेक आकारः । अगृहीतान्तरालं प्रदेशान्तरमेक आकारः । तस्याऽऽकारत्वं विशेषणत्वम् । न चानाकारस्याऽऽकारत्वेनान्यथाख्यानम् । अगृहीतान्तरालत्वे सत्यप्रधानतया मातस्यैव विशेषणत्वात् । नेत्रवृत्तिर्विसिगतद्वित्वं चन्द्रं चागृहीतभेदं गृह्यतीति प्राभाकाराः । यथा संवित्सिद्धौ प्राभाकरमतोपन्यासे, “नेत्रवृत्तिर्द्विधाभूता द्वे तु वित्ती वितन्वती । द्वित्वं चन्द्रं च युगपत् निर्मासयति तत्र नः” इति । देशगतद्वित्वं चन्द्रं चागृहीतमेदं गृह्णातीति ततोऽत्र वैषम्यम् । चाक्षुषतेजोगति मेदरूप सामग्रीद्वयजयम् अतिशैत्रचादगृहीतक्रममगृहीतभेदं’ च ज्ञानद्वयम् अगृहीतैकत्वं चन्द्रमगृहीतान्तरालं देशान्तर च निरन्तरं गृह्णाति । अतो द्विचन्द्रव्यवहार इत्यर्थः । इति निरवद्यं यथार्थख्यात्तिसमर्थनमित्यर्थः । ख्यात्यन्तरदूषणानामन्योन्यम् उक्तानां स्वाभिमतत्वात् तत्र यत्नाभावमाहख्यातीति । अथवा किमनेनेत्यादिपाठो बहुषु कोशेषु दृश्यते । व्याख्यातृभिर्व्याख्यातश्च । तन्त्र 2 परागर्थ - विषयापरोक्षत्रमेष्वेकेनैवोत्तरेण परिहारः कृतो भवति । किं न सेत्स्यतीत्यनेन प्रमाणेऽस्तित्वमुक्तम् । किं नोपपद्यत इत्यनेन उपपत्तिरुक्ता । किं प्रमाणम्, कथमुपपत्तिरित्यत्राह भगवताहीति । अखिलं 1 प्रत्येकं वित्तेः स्वयम्प्रकाशत्वेपि तदुभयग्राहकप्रमाणानैयत्यात् भेदो द्वित्वं च’न गृहोतेति, नियतभातग्राह्यदेशद्वित्वमेव बाह्यचन्द्रेद्वित्वभ्रमविषयो भवितुमर्हतीति भावः । 2 परागिति । इन्द्रिय संनिकृष्टविषयभ्रमेष्वेवानिर्वचनीयस्य परकल्पिततया तत्रैवमेव निर्वाहः । प्रत्यर्थविषयस्थूलत्वादिभ्रमेषु हृदोवह्निमानित्यादिपरोक्षे चाख्यातिरेवेति ।
" ३८ ( प्रमाणानुपपत्तौ श्रुत्यनुपपत्तिः) याखिलं जगत् सृजता सुखदुःखोपेक्षाफलानुभवानुभाव्याः पदार्थाः सर्वसाधारणानुभवविषयाः; केचन तत्तत्पुरुषमात्रानुभवविपयाः तत्तत्कालावसानाः तथातथाऽनुभाव्याः सृज्यन्ते । तत्र बाध्यबाधकभावः सर्वानुभव विषयतया तद्रहिततया चोपपद्यत इति सर्वं समञ्जसम् ॥] ; यत्पुनः सदसदनिर्वचनीयमज्ञानं श्रुतिसिद्धमिति तदसत् - “अनृतेन हि प्रत्यूढाः” इत्यादिष्वनृतशब्दस्यानिर्वचनीयानभिधायित्वात् । ऋतेतरविषयो ह्यनृतशब्दः । ऋतमिति कर्मवाचि, “ऋतं पिबन्तौ” इति वचनात् । ऋतम् - कर्मफलाभिसन्धिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । अत्र (तः) तद्वयतिरिक्तं सांसारिकफलं कर्म अनृतं ब्रह्मप्राप्तिविरोधि । " एतं ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्यूढाः” इति वचनात् ॥ जगत् सृजतेत्यनेनास्यार्थस्य श्रुतिमूलत्वं सूचितम् ; कृत्स्नकार्यकारणत्वाद् ब्रह्मणः । ‘इदं सर्वमसृजत’ इति हि श्रुतिः । प्रतीयमानत्वाविशेषादिदमपि तत्सृष्टमित्यर्थः । तर्हि वाध्यबाधकभावव्यवस्था कथमित्यत्राह तत्रेति । न हि तत्तदेक पुरुषानुभाव्यानां तत्तत्कालावसायिनाञ्च सुखादीनां मिथ्यात्वमिति भावः ॥ तत्र अथ श्रुतिश्रुत्यर्थापत्तिभ्यामनिर्वचनीयसिद्धि दूषयितुं प्रथमं श्रुतिवाक्यानि योजयति यत्पुनरिति । अनृतेनेत्यादिश्रुति व्याचष्टे – अनृतेनेति । पूर्वनिरस्तप्रकारेण निर्वचनीयस्याप्रामाणिकत्वात् व्युत्पत्तिर्नास्ती भावः । अनृतशब्दं व्यचष्टे ऋतेतरविषयो नृतशब्द इति । हिशब्देन ऋतेतरविषयत्वसम्प्रतिपत्तिः सूचिता । ऋताभावस्य ऋतविरोधिनश्च ऋतभूतब्रह्माश्रयत्वानुपपत्त्या तदन्य एव नञर्थस्त्वयापि वक्तव्य इति भावः । अनृतशब्दार्थं निष्कष्टुम् ऋतशब्दार्थमाह ऋतमितीति । कर्मवाचि - पुण्यकर्मवाचीत्यर्थः ; न तु सत्यवाचीति भावः । कुत इत्यत्राह ऋतं पिवन्ताविति । अस्मिन् वाक्ये, ‘सुकृतस्य लोके’ इति युक्तमिति भावः । एवंविधवाक्यान्तरेषु प्रसिद्धिश्चाभिप्रेता, “यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वाति, एवं पुण्यस्य कर्मणो दूराद्गन्धो वाति” इत्युक्ता, “एवमनृतादात्मानं जुगुप्सेत्” इति पुण्यप्रतियोगिनि अनृतशब्दः प्रयुक्तः । तस्मात् ऋतशब्दः पुण्यवाची । पुण्यमपि हि मोक्षविरोधि ; तत् कथमनृतशब्दोक्त पापमात्र प्रत्यूढत्वमिति शङ्कायां मोक्षप्रकरणोक्तं पुण्यं विविनक्ति ऋ कर्मेति । मुमुक्षोः सुकृतं दुष्कृतमुभयं हि विरोधीत्यतस्तद्वयं पापम् । अतो नञसमासान्तर्गत ऋतशब्दोऽनभिसंहितफलकर्म पर इत्यर्थः । परमपुरुषाराधनवेवं तत्प्राप्तिफलयित्यनेन, “स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः” इत्येतत् सूचितम् । अनृतशब्दस्य ब्रह्मप्राप्तिविरोधिपरत्वे सति ऋतशब्दस्य बन्धकेतर कर्मवाचित्वसिद्धिरिति तदर्थं तत्पूर्ववाक्येनोपपादयति एतमिति । ऋतानृतशब्दयोः, ‘एवमनृतादात्मानं जुगुप्सेत्’ इत्यादिषु श्रुतिषु पुण्यपापपरत्वेन प्रसिद्धत्वात्, “न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते’, ‘क्षीयन्ते चास्य कर्माणि’ इत्यादिषु सुकृतदुष्कृतयोरपि मोक्षविरोधित्वश्रवणात् मोक्षप्रकरणेषु मुमुक्षोः संसाराख्यानिष्टफलप्रदत्वेनोभयोरपि पापशब्दाभिधेयत्वात् अस्यानृतशब्दस्यास्मिन् वाक्य एव ब्रह्मप्राप्तिविरोधित्वर्थवणात “तस्यान्तरायो मैत्रेय” इत्यादिषु पुण्यपापकर्मणोः मोक्षविरोधिफलत्व श्रवणात्, अनृतशब्दस्यानिर्वचनीयवाचित्वेन व्युत्पत्यभावाच्चानृतशब्दस्तदन्यव्युत्पत्त्या मोक्षविरोधिकर्मपर इत्यर्थः । 1 ; अनृतमपिधानमिति पिधानत्वेनोक्तस्यानुतस्यैतद्रूपत्वे पिधाननिवृत्तौ ब्रह्मणि ऋताश्रयत्वमिष्टं स्यात् । निर्विशेषे तदनुपपन्नमिति भावः ।
१-१-१ जिज्ञासाधिकरणम् ( मायाशब्दार्थः) ३९ “नासदासीनो सदासीत् तदानीम्” इत्यत्रापि सदसच्छब्दौ चिदचिद्यष्टिविषयौ । उत्पत्तिवेलायां सत्त्यच्छन्दाभिहित योश्चिदचिद्यष्टिभूतयोर्वस्तुनोरव्ययकाले अचित्स ( चिदचित्स) मष्टिभूते तमश्शब्दाभिधेये वस्तुनि प्रलेयप्रतिपादनपरत्वादस्य वाक्यस्य । नात्र कस्यचित् सदसद निर्वचनीय तोच्यते ; सदसतोः कालविशेषेऽसद्भावमात्रवचनात् । अत्र तमइशब्दाभिहितस्यचित्समष्टित्वं श्रुत्यन्तरादवगम्यते - " अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते” इति ॥ सत्यम् ; तमश्शब्देनाचित्समष्टिरूपायाः प्रकृतेः सूक्ष्मावस्थोच्यते । सख्यास्तु, “मायां तु प्रकृतिं विद्यात्” इति मायाशब्देनाभिधानादनिर्वचनीयत्वमिति चेत्-नैतदेवम् ; मायाशब्दस्यानिर्वचनीयवाचित्वं न दृष्टमिति ॥ मायाशब्दस्य मिथ्यापर्यायत्वेनानिर्ववतीयवाच्चित्वमिति चेत्; तदपि नास्ति ; न हि सर्वत्र मायाशब्दो मिथ्याविषयः । आसुरराक्षसास्त्रादिषु सत्येष्वेव मायाशब्दप्रयोगात् । यथोक्तम् - “तेन मायासहस्रं तत् शम्बरस्याशुगामिना । वालस्य रक्षना देहमैकैकश्येन सूदितम् ॥” इति । अतो मायाशब्दो विचित्रार्थसर्गकुरा मिधायी । प्रकृतेश्च नासदासीदित्यादि । अत्र, “अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते” इति ब्रह्मशब्दवाच्यशुद्धात्मखरूपविषयः सदसच्छन्दप्रयोगः प्रतिबन्दीत्वेनानुसन्धेयः । सदसच्छद योश्चिदचिद्यष्टिविषयत्वमुपपादयतिउत्पत्तीति । उत्पन्नस्य हि प्रलयः उत्पत्तिश्च चिदचिदचिद्यष्टयोः श्रुतिसिद्धा । अतस्तयोरत्र प्रलय उच्यत इत्यर्थः । सत्त्यच्छन्दाभ्यां ‘सच्च त्यच्चाभवत्’ इति वाक्यं स्मारितम् । कार्यावस्थचेतनस्य सच्छन्दोक्तत्वादिह सच्छब्देन तदन्यवाचकेनासच्छब्देन च कार्यावस्थ चेतनाचेतननिषेधः कृतः ; वाक्यान्तरैकार्थ्यादित्यर्थः । ’ तम आसीत् समसा गूढम् ’ इति तदनन्तर बाबया मि प्रायेणाचित्समष्टिभृते तमश्शब्दाभिधेये वस्तुनीत्युक्तम् । हेत्वन्तरं चाह सदसतोरिति । न हि कालविशेषे अनिर्वचनीयमभ्युपगम्यते । अचित्समष्टेस्तमः शब्दवाच्यत्वमुपपादयति अत्रेति । ‘तम आसीत्’, ‘मायां तु प्रकृतिम्’ इत्यनयोर्वाक्ययोः पूर्वं क्रमेणोपादान विवक्षां चोद्यरूपेण दर्शयति सत्यमिति । प्रकृतिशब्दवाच्या मायेत्यभिप्रायः । परिहरति नैतदेवमिति । कुत इत्यत्राह मायेति । इतिर्हेतौ । मायाशब्दवाच्या प्रकृतिरित्यभिप्रायः । ऐन्द्रजालिकादिषु मायावित्वप्रयोगदर्शनात् मायामिथ्याशब्दयोः पर्यायत्वात् अनिर्वाच्यस्य च मिथ्यात्वाच्च मायाशब्दवाच्यत्वमित्यभिप्रायेण शङ्कते मायेति । परिहरति तदपि नास्तीति । मायाशब्दस्य मिथ्यापर्यायत्वमेव नास्ति । तथाऽभ्युपगमेऽपि अन्यथाख्यातिभेदाग्रहयो-. रन्यतरेणैवोपपन्नत्वात् न तद्विषयत्वं युक्तमित्यनिर्वचनीयवाचित्वं नास्तीति भावः । तदुपपादयति-नहीति मायाशब्दप्रयोगविषयेषु सर्वेषु मिथ्यात्वा
ननुवृत्तेरित्यर्थः । सत्येषु मायाशब्दप्रयोगं दर्शयति-यथोक्तमिति । न हि ज्ञानबाध्यानामेकैकशः शस्त्रच्छेद्यत्वमस्ति । तस्मादेकैकशो मायानां छेद्यत्ववचनान्मायाशब्दस्य सत्यपरत्वमिति । अनुयायिन एव प्रवृत्तिनिमित्तत्वात् मायाशब्दप्रयोगविषयेषु सर्वेष्वनुगतमाश्चर्यत्वमेव मायाशब्दप्रवृत्तिनिमित्तमित्याह अत इति । आश्चर्यत्वम् विस्मयनीयत्वम् । तच्च विचित्रार्थ- 1 उपपादयतीत्युक्त्या वाक्यस्येत्यत्र भाष्ये वाक्यच्छेद इति ज्ञायते । अतस्तयोरिति वाक्यानुसारेणास्य अभिहितयोरित्यन्तमात्रावतरणरूपत्वे तु न तत्र वाक्यच्छेदः । अत एव हेत्वन्तरञ्चाहेति टीका स्वरसा । 2 पूर्व महापूर्वपक्षोपन्यासावसरे अनयोरुपादानं यादृशविवक्षया, तामाविष्कुर्वन् चोदयतीत्यर्थः । 3 तदपीत्यत्र अपिशब्दाभिप्रेतमाह तथेति ।
४० ( श्रुत्यर्थापत्त्यनुपपत्तिः) । माया शब्दाभिधानं विचित्रार्थसर्ग करत्वादेव " अस्मान्मायी सृजते विश्वमेतत् तस्मिश्चान्यो मायया संनिरुद्धः” इति मायाशब्दवाच्यायाः प्रकृतेर्विचित्रार्थसर्गकरत्वं दर्शयति । परमपुरुषस्य च तद्वत्तामात्रेण मायित्वमुच्यते ; नाज्ञत्वेन । जीवस्यैव हि मायया निरोधः श्रूयते, “तस्मिंश्चान्यो’ मायया संनिरुद्धः” इति । “अनादिमायया सुप्तो यदा जीवः प्रबुध्यते” इति च । “इन्द्रो मायाभिः पुरुरूप ईयते” इत्यत्रापि विचित्राः शक्तयोऽभिधीयन्ते ; अत एव हि “भूरि त्वष्टेव राजति” इत्युच्यते । न हि मिथ्याभिभूतः कश्चिद्विराजते । " मम माया दुरत्यया” इत्यत्त्रापि गुणमयीति वचनात् सैव त्रिगुणात्मिका प्रकृतिरुच्यत इति न श्रुतिभिः सदसदनिर्वचनीयाज्ञानप्रतिपादनम् ॥ नाप्यैक्योपदेशानुपपत्त्या । न हि “तत्त्वमसि’ इति जीवपरयोरैक्योपदेशे सति सर्वज्ञे सत्यसङ्कल्पे सकलजगत्सर्गस्थितिविनाशहेतुभूते तच्छब्दावगते प्रकृते ब्रह्मणि विरुद्धाज्ञानपरिकल्पनाहेतुभूता काचिदप्यनुपपत्तिर्दृश्यते । ऐक्योपदेशस्तु त्वंशब्देनापि जीवशरीरकस्य ब्रह्मण एवाभिधानादुपपन्नतरः । “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति सर्वस्य वस्तुनः परमात्मपर्यन्तस्यैव हि नामरूपभाक्त्वमुक्तम् । अतो न ब्रह्माज्ञान परिकल्पनम् ॥ सर्गकरत्वात् । विचित्रशब्दो नानाविधवाची । नानाविधकार्यकरत्वात् प्रकृतेर्विस्मयनीयत्वम् । मायाशब्दो वाश्चर्यवाचीति वक्ष्यते ॥ तस्मादार्श्वयत्वमेव प्रवृत्तिनिमित्तम् । असत्येषु सत्येष्वपि मायाशब्दप्रयोगविषयेव्वाश्वर्यत्वं विद्यते ॥ प्रकृतेराश्चर्यत्वमेव मायाशब्दा भिधेयत्व निबन्धनमित्याह - प्रकृतेरिति । तदुपपादयति अस्मादिति । विचित्रकार्यकरत्वात् प्रकृतेराश्चर्यरूपत्वमिति न मायामात्रसूत्रविषयभाष्यविरोधः । एवं मायाशब्दार्थ उक्तः । अथ भगवतो मायासंबन्धश्रवणात् तद्वश्यत्वशङ्कान्युदासाय मायीतिपदगतमत्वर्थीयप्रत्ययार्थमाह परमपुरुषस्य चेति । मायीतिपदोक्तो मायासंबन्धो न तत्तिरोभाव्यत्वम् ; अपि तु तच्छेषित्वम् । जीवस्यैव तु ततिरोधेयत्वम्, तस्यैव तथात्वश्रवणादित्यर्थः । मायाभिभवो जीवस्यैवेत्येतस्मिन्नर्थे परोक्तमेव वचनमाहं अनादीति । ‘इन्द्रो मायाभिः’ इत्यत्र अनेकविचित्रशक्त्यभिधायित्वं बहुवचनादवगम्यते । ममेति । स्पष्टम् । निगमयति इतीति । मायाशब्दस्य मिथ्याभूतविषयेषु प्रयोगो दृश्यते चेत्, तत्र लाक्षणिकः स्यात् ; अर्थस्य सत्यत्वाभावेन तस्याश्चर्यत्वाभावात् । प्रतिभासस्तु द्वित्वादिविषयत्वादाश्चर्यरूपः, मन्त्रौषघादिश्वाश्वर्यरूप इति तत्संबन्धालाक्षणिकत्वम् । ; अथ श्रत्यर्थापत्त्या अनिर्वचनीयसिद्धि दूषयतिनापीति । प्रतिज्ञातमुपपादयति-नहीति । अज्ञानापरिकल्पने अनुपपत्तिर्नास्ति तत्कल्पन एवानुपपत्तिः, विरुद्धधर्मश्रवणादित्यभिप्रायेण तच्छन्दावगतविशेषणानि उक्तानि । समानविभक्तिश्रुतिसिद्धतया क्या परित्यागः, तथा श्रुतहानस्यान्याय्यत्वात् तच्छन्दावगतविशेषाः स्वीकार्या इति भावः । ऐक्योपदेशानुपपत्तिरिति चेत् — तत्राह ऐक्येति । जीवपरयोर्डेयसंबन्ध तदनर्हत्वाभ्यां क्यविरोधः । जीवशरीरकस्य परमात्मन ऐक्याभिधाने हेयसंबन्धस्य जीवद्वारकतया विरोधः परिहृत इत्यर्थः । उपपन्नतरः — मुख्यतयोपपन्न इति भावः । जीववाचिशब्देन तच्छरीरक पर ब्रह्माभिधानममुख्यमिति चेत् — तत्राह अनेनेति । श्रत्यर्थापत्त्यसिद्धिं निगमयति-अत इति ॥ 1 अन्यशब्दोऽत्र मायिभिन्न इत्याशयेनापि प्रयुक्त इति भावः ।
१-१-१ जिज्ञासाधिकरणम् (अविद्यायाः पुराणगम्यत्वशंका) इतिहासपुराणयोरपि न ब्रह्माज्ञानवादः कचिदपि दृश्यते । ४१
ननु " ज्योतींषि विष्णुः” इति ब्रह्मैकमेव तत्त्वमिति प्रतिज्ञाय, “ज्ञानस्वरूपो भगवान् यतोऽसौ ” इति शैलाब्धिधरादिभेदभिन्नस्य जगतो ज्ञानैकस्वरूपब्रह्माज्ञानविजृम्भितत्वमभिधाय, " यदा तु शुद्धं निजरूपि” इति ज्ञानस्वरूपस्यैव ब्रह्मणः स्वस्वरूपावस्थितिवेलायां वस्तुभेदाभाव[प्र]दर्शनेनाज्ञानविजण्भितत्वमेव स्थिरीकृत्य, “वस्त्वस्ति किम्”, “मही घटत्वम्” इति श्लोकद्वयेन जगदुपलब्धिप्रकारेणापि वस्तुभेदानामसत्यत्वमुपपाद्य, “तस्मान्न विज्ञानमृते” इति प्रतिज्ञातं ब्रह्मव्यतिरिक्तस्यासत्यत्वमुपसंहृत्य, “विज्ञानमेकम्” इति ज्ञानस्वरूपे ब्रह्मणि भेददर्शननिमित्ताज्ञान- इतिहासपुराणयोर्ब्रह्माज्ञानपरत्याभावं प्रतिजानीते - इतिहासेति । 5 1 नन्वित्यादि । ब्रह्मैकमेव तत्त्वमिति प्रतिज्ञायेति । जडाजडयोः स्वरूपैक्यायोगेन सामानाधिकरण्यस्य बाघार्थत्वात् उत्तरश्लोकेषु तद्व्यतिरिक्तस्य मिथ्यात्वकथनाच्चेत्यभिप्रायः । विज्ञानविजृम्भितानि । विविधं ज्ञायते येन, विपरीतं ज्ञायते येनेति वा करणे व्युत्पत्तिः । विज्ञानमविद्या ः यदा तु शुद्धमित्यादिना तस्य हि व्यतिरेको वक्ष्यते । विज्ञाने 1 (विज्ञानेन ) विजृम्भितानीति योजना स्वयुक्ता ; अस्वारस्यात् । विजृम्भितानीति नपुंसकस्य (नपुंसकान्तपदस्य) पुंल्लिङ्गभेद शब्दविशेषणत्वायोगेन विजम्भितशब्दस्य भावार्थप्रत्ययान्तत्वस्य युक्तत्वेन षष्ठीसमासस्य युक्तत्वाच्च । ब्रह्मव्यतिरिक्तस्या विद्यापरिकल्पितत्वं व्यतिरेकमुखेन स्थिरीकरोतीत्याह यदा त्विति । शुद्धम् — अविद्यारहितम् । निजरूपि तत्कृतमेददर्शनरहितम् अपास्तदोपम् - रागादिदोषरहितम् । सङ्कल्पतरोः । समन्तात्कल्प्यतेऽनेनेति सङ्कल्पः दोषः । वस्तुषु वस्तुभेदा इत्यत्र वस्तुष्विति बहुवचने न तात्पर्यम् । जडोपलक्षिते वस्तुनि जडगतभेदा न संभवन्तीत्यर्थः । यद्वा एको वस्तुशब्द आकारपरः, । जडगताकार[रूप ? ] भेदा न भवन्तीत्यर्थः । वस्त्वस्ति किम्, महीघटत्वमिति श्लोकद्वये प्रथमेनार्थस्वभाव उक्तः, द्वितीयेनोदाहरणं दर्शितमिति भिदा । तत्र कुतो हि तत्त्वम् — एवं सति कुतः परमार्थ इत्यर्थः । कृत्स्नमपरमार्थत्वेनोपलब्धं चेत्, कथं तत्र प्रामाण्यमिति शङ्कायामुच्यते स्वकर्मस्तिमितात्मनिश्चयैरिति । तत्त्वार्थनिश्चयविरोधिकर्मवशादित्यर्थः । यद्वा न केवलमात्मविद्भिरेवासत्यत्वमुपलभ्यते, अपि त्वज्ञैरपीति भावः । न केवलं शास्त्रप्रमाणेन, लौकिक जडग्राहिप्रमाणेनापि तस्य मिथ्यात्वं सिध्यतीत्युक्तं भवति । तस्मान्न विज्ञानंमृते इति श्ले कार्धमनात्मभूतविजातीय भेद निषेधमुपसंहरतीत्याह तस्मादिति । विज्ञानमेकमित्यर्ध सजातीयरूपात्मभेद निषेधपरम् । मेददर्शन निमित्ताज्ञानमूलं निजकर्मैवेतीति । भेददर्शनम् - सजातीयमेददर्शनम् । तत् उत्तरोत्तरभाविकार्याज्ञानहेतुः ; तस्यापि पूर्व कर्मैवेत्यर्थः । यो देवादिशरीरभेदहेतुः, स एवेत्येवकाराभिप्रायः । यद्वा देवादिशरीरभेदप्रतीतिहेतुका ज्ञानमात्मनि
1 ‘विज्ञाने ब्रह्मणि विजृम्भितानीति श्रीधरीयं निरस्यति ।’ भा० प्र० । 2 अत्नार्थे श्लोके टीकोकं प्रामाण्यमित्यादि आलेक्ष्यत इत्यत्न कर्म । उत्तरस्मिन्नर्थे असत्यत्वमिति वा पूर्वार्धोक्तं वा कर्म । 8 भाष्ये भेददर्शन निमित्तेत्यत्र षष्ठीतत्पुरुषेण अज्ञानपदेन धर्मियाथात्स्यज्ञानाभावग्रहणे तस्य ध्वंसरूपत्वे पूर्व मुक्तत्वं स्यात् । प्रागभावरूपत्वे तस्यानादित्वात् न कर्म मूलम् । भावरूपाज्ञानग्रहणेऽपि तथैव न मूलं किञ्चित् । अतो बहुवीहिं विवक्षति-तदुत्तरेति । 2-6
४२ श्रतप्रकाशिकोपेते श्रीभाष्ये ( पुराणाद्यनुपपत्तिः) मूलं निजकर्मैवेति स्फुटीकृत्य, ‘ज्ञानं विशुद्धम्’ इति ज्ञानस्वरूपस्य ब्रह्मणः स्वरूपं विशोध्य, “सद्भाव एवं (पपो) भक्तो मयोक्तः” इति ज्ञानस्वरूपस्य ब्रह्मण एव सत्यत्वम्, नान्यस्य ; अन्यस्य चासत्यत्वमेव; तस्य भुचनादेः सत्यत्वं व्यावहारिकम्’ इति तत्त्वं तवोपदिष्टमिति ह्युपदेशो दृश्यते ॥ नैतदेवम ; अम्र भुवनकोशस्य विस्तीर्ण स्वरूपमुक्त्वा देवत्वाद्याकारारोपणरूपम् ; तस्य हेतुः कर्मैवेत्यर्थः । अनात्मनि आत्मबुद्धेरप्यज्ञानशब्दवाच्यत्वं युक्तम् ; तस्या अपि मूलाज्ञान कार्यत्वात्; “श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या” इति तस्या अज्ञानपर्याय विद्याशब्दवाच्यत्वाच्च । ज्ञानं विशुद्धमिति स्वगतभेद निषेधः । विशुद्धं विमलमिति — अविद्यातत्कृतभेद दर्शन रहितमित्यर्थः । तत्कृतशोकादिरहितमित्याह विशोकमिति । एकं सदैकमिति सजातीयविजातीय भेदविरहानुवादः । यद्वा एकमिति सजातीयविजातीयभेदनिषेधानुवादः, सदैकमिति उक्तप्रकारेण स्वगतभेदराहित्यमुच्यते । परमपरेशादिशब्दवाच्यं चिन्मात्रमेवेत्याह - परम इति । नेदं परमतम्, तत्त्वमेवोक्तमित्याह सद्भाव इति । संव्यववहारभूतम् - समन्ताद्व्यवहारार्हभेदम् । भुवनाश्रितम् — भुवनेनाधिष्ठानतया श्रितमेवैतद्वर्तते [इति यत् ? ] तत्रापि हेतुरज्ञानमेवोक्तमित्यर्थः । यद्वा भुवनाश्रितम् — भुवनमाश्रितम्, संव्यवहारभृतम् - व्यावहारिकम् एतत्-लोकसिद्धं सत्यत्वं यत्, तत्रापि कारणमविथेत्युक्तमित्यर्थः । एतदभिप्रायेण हि तस्य भुवनादेः सत्यत्वं व्यावहारिकमितीत्युक्तम् । इति छुपदेशो दृश्यत इति । तस्मादितिहासपुराणयोर्ब्रह्माज्ञानवादो न दृश्यत इति वक्तुं न शक्यमित्यर्थः । एतत् प्रतिक्षिपति नैतदेवमित्यादिना । नैतत् — चिन्मात्र ब्रह्मणोऽविद्या संबन्धित्वमविद्याकल्पितत्वेन प्रपञ्चस्य मिथ्यात्वं च यदुक्तम्, न तत् प्रामाणिक मित्यर्थः । तथासति अर्थविरोधात् प्रकरगविरोधात शास्त्र तात्पर्यविरोधात् अशेषमूर्तिर्भगवानित्यादिपदानां लाक्षणिकत्वात् प्रपञ्चधर्मिग्राहकप्रमाणविरोधात् श्रुतेः संविशेषवस्तुपरत्वोपपादनेन स्मृतेस्तद्विरुद्धार्थपरत्वापातात् पूर्वोक्ततर्कविरोधाच्च तदभावः । अत्रार्थविरोधो नाम सर्वज्ञत्वादिगुणस्याज्ञानादिप्रसक्तिविरोधः, अविद्याया आश्रयतिरोधानाद्यनुपपत्तिश्च । प्रपञ्चस्य विस्तरेण प्रतिपादनवैयथ्य प्रकरणविरोधः । अन्यतु स्पष्टम् । दशश्लोक्यामस्ति नास्तिसत्यासत्यज्ञानाज्ञानादिशब्दाः आत्मानात्मविषया इति नात्र विगानम् । तत्र नास्त्य सत्यशब्दयोः किं ज्ञानबाध्यत्वं प्रवृत्तिनिमित्तम् उत परिणामित्वमिति विचारे - परिणामित्वपक्षे स्वारस्यमस्ति ; मही घटत्वमित्युपपादनात् । अज्ञानशब्दस्य च नानिर्वचनीयपरत्वम्; अपि तु कर्मपरत्वमेव ; यज्ञः पशुरित्यादिस्वारस्यात् । अन्यत्र, “शरीराकृतिभेदास्तु भूपैते कर्मयोनयः”, “अविद्याकर्मसंज्ञां ऽन्या”, “बाह्य कर्मवृतिप्रजः” इत्यादिवचनाश्च । चिदचिद्विवेकोऽत्र क्रियत इत्यभिप्रेत्य तदनुगुणसङ्गतिमाह अत्रेति । अत्र — अस्मिन् द्वितीयांशे । विस्तीर्णमिति स्वरूपविशेषणम् । विस्तीर्णशब्देन स्थौल्य विवक्षितम् । संसृष्टस्थूलरूपमुक्त्वा वियुक्तं सूक्ष्मरूपमुच्यत इति भावः । यद्वा विस्तीर्णमिति क्रियाविशेषणम् । उत्तरत्र मिथ्यात्वं विवक्षितं 1, दशश्लोकी (वि. पु. २.१२) यदम्बु वैष्णव इत्यादिः, फलानि तेषामित्यन्ता ।
१३ पूर्वमनुक्तं रूपान्तरम्, “संक्षेपः श्रूयताम्” इत्यारभ्याभिधीयते । चिदचिन्मिश्रे जगति चिदशो वाङ्मनसागोचरख संवेद्यस्वरूपभेदो ज्ञानैकाकारतया अस्पृष्टप्राकृतभेदः अविनाशित्वेन अस्तिशब्दवाच्यः । अचिदशस्तु चिदंशकर्मनिमित्तपरिणामभेदो विनाशीति नास्तिशब्दाभिधेयः । उभयं तु परब्रह्मभूतवासुदेवशरीरतया तदात्मकमित्येतद्रूपं संक्षेपेणात्राभिहितम् । तथा हि- “यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वतान्ध्यादिसंयुता ॥” / । ।
चेत् — पूर्वं विस्तरेण कथनमनुपपन्नम् । न हि, पूर्वमेव भ्रान्तस्य भ्रमान्तरापादनं कार्यम् । तस्मात् पूर्वं विस्तरेण भुवनकोशस्य कथितत्वान्न मिथ्यात्वं वक्ष्यत इति भावः । वक्ष्यमाणमादिभरतचरितं हृत्स्थं विस्तर रूपम् । तत्सङ्क्षेपश्चायम् । वक्ष्यमाणसङ्क्षेप उक्तसंक्षेपश्च दृश्यते; गत उक्तसंक्षेपशङ्काव्यावृत्त्यर्थमाह अनुक्तमिति । अनुक्तं संसृष्टरूपान्तरं कथ्यत इति काव्यावृत्त्यर्थमाह-रूपम्परमिति । वियुक्तमित्यर्थः । मिथ्यात्वव्यतिरेकेण वक्तव्यं [रूपान्तरं ] सकलमुक्तम् । तस्मादनुक्तं वक्तव्यं रूपान्तरं नाम मिध्यात्वम्, नान्यदिति शङ्कायाम्, मिध्यात्वं विनाऽनुक्तं रूपान्तरमाह - चिदचिन्मिश्र इति । चिदचिन्मिश्रे जगतीत्यनेन सङ्क्षेपः श्रयतां पुनरित्यत्र पुनः शब्दो व्याख्यातो भवति । चिदचिदात्मके जगति स्थूलरूप [त्व]मुक्तम् ; तत्रैव जगतीदमपि रूपान्तरं पुनरुच्यत इति तस्यार्थः । ‘सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यम्’ इत्यादिवाक्योक्तं विशेषणमाह चिदशो वाङ्मनसेति’द्वैतिनो ऽनुय्यदर्शिनः ’ इत्यादिवाक्यानां भेदनिषेधपराणामर्थं हृदि निघायाह अस्पृष्टेति । यदि चिदंशस्य ज्ञानैकाकारत्वमचिदंशस्य परिणामास्पदत्वं च विवक्षितम् तस्तिनास्ति सत्यासत्यादिशब्दप्रवृतिनिमित्तत्वेन किमर्थमुच्यत इति चेत् -उच्यते । शाखाविशेषेषु “सच्च त्यच्चाभवत्’, ‘विज्ञान चाविज्ञाने च’, ‘सत्यं चानृतं च सत्यमभवत्’ इत्यादिवाक्येषु अस्तिनास्तिसत्यासत्यादिशब्दानां श्रयमाणानाम् अनधीतशाखागतानां च किं ज्ञानबाध्यत्वावाध्यत्वे प्रवृत्तिनिमित्तभूते ; उत परिणामित्वापरिणामित्वे इति शङ्कां निराकर्तुम्’ परिणामित्वापरिणामित्वे एव नास्त्यसत्यादिशब्दार्थः, न तु ज्ञानवाध्यत्वा बाध्यत्वे’ इत्यधीता नधीतशाखार्थज्ञापनार्थमिति ॥ पृथिव्यादितत्त्वानां सङ्घातविशेषावस्थायामेव जीवं प्रति शरीरत्वं दृष्टम् ; न त्वेकैकस्य । मनुष्यादिशरीराणामपि तादृशपिण्डावस्थायामेव शरीरत्वं दृष्टम् न भस्माद्यवस्थायाम् इति चिदचितोः प्रत्येकमवस्थाविशेषेषु भगवच्छरीरत्वाभावशङ्कान्यावृत्त्यर्थमाह उभयमितिः । चिदचिद्रूपमन्योन्यसंसृष्टं निष्कृष्टं च भगवच्छरीरमित्यर्थः । निष्कृष्टस्य भगवच्छरीरत्वप्रतिपादनात् भगवन्तं प्रति शरीरत्वस्य निरुपाधिकतया स्वरूपपयुक्तत्वं फलितमिति मुक्तावस्थायामपि जीवस्य भगवच्छरीरत्वसिद्धिः । एतद्रूपम् - अयमाकार इत्यर्थः । एतदुपपादयति तथाहीत्यादिना दशश्लोक्यां न भगवदात्मकत्वमसाधारण प्रतिपाद्यम् । तत्तु सर्वप्रकरणसाधारणम् । असाधारणप्रतिपाद्यं तु प्रकृतिपुरुषविवेक एव । शास्त्रस्योपनिषदर्थोपबृंहणपरत्वात् साङ्ख्या दिमतव्यावृत्त्यर्थं सर्वप्रकरणेषु भगवदात्मकत्वमुच्यते । अत्रासाधारणप्रतिपाद्यः प्रकृतिपुरुषविवेक एवेत्यभिप्रायेण हि पूर्वमनुक्तं रूपान्तरमित्युक्तम् । भगवदात्मकत्वस्य सर्वप्रकरणसाधारण्यं हि, पूर्वमप्येतदसकदुक्तमिति उत्तरत्र च वक्ष्यते । दशश्लोकीस्थसामानाधिकरण्यं शरीरात्मभावृनिबन्धनमिति ज्ञापयितुं पूर्वश्लोकमुपादत्ते यदम्ब्विति ।
श्रुतप्रकाशिकोपेते श्रीमाध्ये ( प्रमाणानुपपत्तौ ) इति, अम्बुनो विष्णोः शरीरत्वेनाम्बुपरिणामभूतं ब्रह्माण्डमपि विष्णोः, कायः, तस्य च विष्णुरात्मेति सफलश्रुतिगत तादात्म्योपदेशोपबृंहणरूपस्य सामानाधिकरण्यस्य ‘ज्योतींषि विस्णुः’ इत्यारभ्य वक्ष्यमाणस्य शरीरात्मभाव एव निबन्धनमित्याह । अस्मिन् शास्त्रे पूर्वमप्येतदसकृदुक्तम्, “तानि सर्वाणि तद्वपुः”, “तत् सर्व वै हरेस्तनुः”, “स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः” इति । तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यपदिश्यते, “ज्योतींषि विष्णुः” इति । अत्र अस्त्यात्मकं नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकमित्युक्तम् । इदमस्त्यात्मकम्, इदं नास्त्यात्मकर, अस्य च नास्त्यात्मकत्वे हेतुरयमित्याह “ज्ञानस्वरूपो ऋषिणाऽभिप्रेतं फलितमर्थमाह अम्बुनो विष्णोरिति । न हि बाल्यावस्थायां शरीरभूतस्य वस्तुनोऽवस्थान्तरे चेतनेन स्वरूपैक्यमस्ति, अपि तु सर्वावस्थमपि तद्वस्तु शरीरमेवेति भावः । तस्य च विष्णुरात्मेतीति । अभिप्रेत्येत्यर्थः । एवंरूपशरीरात्मभाव इति वार्थः । सकलश्रुतिगत तादात्म्योपदेशोपबृंहणरूपस्येति । अनधीतशाखाखपि तादात्म्योपदेशोऽस्ति, तस्यायमेवार्थ इति ज्ञापनं तादात्म्योपदेशस्योपबृंहणम् । यद्वा प्रत्यक्षस कलश्रुतिगततादात्म्योपदेशोपबृंहणं नाम अनधीतशाखासु तद्विरुद्धार्थप्रतिपादनं नास्तीति ज्ञापनम् । अत्र इतिशब्दत्रयस्य 1 अनेन श्लोकेन भगवानिममर्थमभिप्रेत्यागमर्थ इत्याहेत्यन्वय- प्रकारः । न केवलमत्र समष्टिसृष्टिश्लोकगतव्यधिकरणनिर्देशेन व्यष्टिश्लोकगतसामानाधिकरण्यं शरीरशरीरिभावनिबन्धनमिति चिज्ञायते, अपि तु प्रदेशान्तरेषु व्यष्टयवस्थानां भगवन्तं प्रति शरीरत्वं सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वं चासकृत् कण्ठोक्तमित्याह अस्मिन्निति । शरीरात्मभावस्य सामानाधिकरण्यहेतुत्वं कण्ठोक्तम् विश्वरूपो यतोऽव्ययः इति । तथा अन्यत्रापि “सर्वगत्वादनन्तस्य स एवाहम्”, “सर्वं समाप्नोषि ततोऽसि सर्वः” इत्यादि द्रष्टव्यम् । तदिदमित्यादिना ज्योतींषीत्यादिश्लोके पादत्रयस्यार्थ उच्यते ॥ संसृष्टस्य भगवदात्मकत्वमुक्तमित्यर्थः । प्रधानादिविशेषान्तं चेतनाचेतनात्मकमित्युक्तत्वात् ज्योतिरित्यादिशब्दाः संसृष्टजीववाचिनः । अथ उत्तरश्लोकसङ्गत्यर्थे विशिष्टवाक्यार्थानुवादेन चतुर्थपादार्थ दर्शयति अत्रास्त्यात्मकमिति । यदम्बु इत्यादिश्लोकेन वैयधिकरण्येन समष्टयवस्थचिदचितोर्भगवदात्मकत्वमुक्तम् । व्यष्टयवस्थयोरसंसृष्टयोः संसृष्टयोरपि (स्थयोः संसृष्टयोः, असंसृष्टयोरपि ?) तयोः सामानाधिकरण्येन भगवदात्मकत्वमुच्यते ज्योतींषीत्यादिना श्लोकेन । तत्र पादत्रयेण व्यष्टयवस्थयोः संसृष्टयोस्तदात्मकत्वमुक्तम्; चतुर्थपादेन तु निष्कृष्टयोरपि तदात्मकत्वमुक्तमित्यर्थः । अनन्तरश्लोकमवतारयति इदमिति ॥ अचिदंशस्य नास्त्यात्मकत्वनिबन्धनमेव तात्पर्यविषयः । अचिदंशस्य हि मिथ्यात्वशङ्का व्युदसनीया । अतस्तस्य परिणामित्वात् नास्त्यात्मकत्व एव तात्पर्यम् । चिदंशस्य त्वपरिणामित्वादस्त्यात्मकत्वं फलितं स्यादित्यभिप्रायेण अस्य च नास्त्यात्मकत्वे हेतुरयमित्याहेत्युक्तम् । व्याख्येये प्रतीकमुपादते ज्ञानस्वरूप इति । अत्र ज्ञानस्वरूपो भगवानिति सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वं न 1 प्रथम इतिः इत्यनेनैत्यर्थकः; द्वितीय इतिः इत्यभिप्रेत्येत्यर्थः । तृतीयस्य तु कर्मसमर्पकत्वं स्पष्टम् । इति श्लोकेन इत्यभिप्रेतार्थेन इत्येतत् सूचयतीत्युक्तं भवति । श्लोकवाच्यार्थः अम्बुनः कायत्वम्; तत्कार्यस्य कार्यत्वमभिप्रेतार्थः ।
१-१-१ जिज्ञासाधिकरणम् (ज्ञानस्वरूप इति श्लोकार्थः) ४५ भगवान् यतोऽसौ” इति । अशेषक्षेत्रज्ञात्मनाऽवस्थितस्य भगवतो ज्ञानमेव स्वाभाविकं रूपम् ; न देवमनुष्यादिवस्तुरूपम् । यत एवम् तत एवाचिद्रूपदेवमनुष्यशैलाब्धिधरादयश्च तद्विज्ञानविजृम्भिताः । तस्य ज्ञानैकाकारस्य सतो देवाद्याकारेण स्वात्मवैविध्यानुसन्धानमूलोः । देवाद्याकारानुसन्धानमूलकर्ममूला इत्यर्थः । यतश्चाचिद्वस्तु क्षेत्रज्ञकर्मानुगुणपरिणामास्पदम्, ततः तत् नास्तिशब्दाभिधेयम्, इतरदस्तिशब्दाभिधेयमित्यर्थादुक्तं भवति । तदेव विवृणोति, “यदा तु शुद्धं निजरूपि” इति । यदा एतज्ज्ञानैकाकारमात्मवस्तु देवाद्याकारेण स्वात्मनि वैविध्यानुसन्धानमूलसर्व- केवलं पूर्वश्लोके ‘यदम्बु वैष्णवः कायः’ इत्युक्तत्वादवगम्यते, अस्मिन्नपि श्लोके अशेषमूर्तिरित्यनेनापि ज्ञायत इत्यभिप्रायेण व्याचष्टे अशेषेति । अशेषशब्देनाचितोऽपि विवक्षितत्वे भगवन्तं प्रति तस्य मूर्तित्वं विहितं स्यात्, अप्राप्तत्वात् । ततश्च ‘न तु वस्तुभूत’ इति देवमनुष्यशैला व्धिधरा दिवस्तुभावनिषेधो ऽनुपपन्नः । अतोऽशेषशब्दः क्षेत्रज्ञविषय इत्यभिप्रायेण शेषक्षेत्रज्ञात्मनेत्युक्तम् । अत्र ज्ञानस्वरूपादिशब्दानां परमविशेष्यपर्यन्ताभिधायित्वेऽपि विशेषणविशेषणे वाक्यस्य तात्पर्यम् । अतो ज्ञानस्वरूपत्वं विशेषणभूतजीवस्यैव विधीयते । यथा “लोहितोष्णीषा ऋत्विजः प्रचरन्ति” इत्यत्र विशेषणगतं लौहित्यमेव विधेय’ परम्पराया ऋत्विक्प्रचार कर्मविशेषणम् - तद्वत् । “काठिन्यवान् यो विभर्ति “, “नृसिंहमूर्तिर्मगवान् श्वेतः” इत्याद्युदाहरणं द्रष्टव्यम् ॥ ज्ञानस्वरूप इत्यत्र दिव्यात्मस्वरूपस्य ज्ञानस्वरूपत्वमुच्यत इति न शङ्कनीयम् ; ‘सर्वकर्मक्षये ज्ञानमपास्तदोषम् ’ इति विवरणानुपपत्तेः । न हि दिव्यात्मस्वरूपस्य कर्मतत्कृतरागद्वेषादिहेयसंबन्धप्रसङ्गः । न तु वस्तुभृत इत्यस्यार्थमाह न देवमनुष्यादीति । शैलादिस्थावरोक्तिः सर्वशरीराणामुपलक्षणमिति ज्ञापनार्थो देवमनुष्यादिशब्दः । उत्तरार्द्ध व्याचष्टे यत एवमिति । शैलान्धिधरादिमेदान् विज्ञानविजृम्भितानि जानीहीत्यनेन फल्ति हेतुहेतुमद्भावं विवृणोति तद्विज्ञानेत्यादिना । विज्ञानशब्दं व्याचष्टे तस्येति । विज्ञानम् - विविधज्ञानम् । कथं शैलाव्विधरादिभेदस्य वैविध्यानुसन्धानमूलत्वम् ; ‘निजकर्मभेदविभिन्नचितैः’ ‘सर्वकर्मक्षये’ इति कर्ममूलत्वेन वक्ष्यमाणत्वात् कर्मैव हि मूलमित्यत्राह देवादीति । वैविध्यानुसन्धानस्य देवादिमेदहेतुत्वं सद्वारकम् ; उपरितनान्येकर्थ्यात् ‘अविद्यासश्चितं कर्म’ ‘बाह्यकर्मवृतिप्रजः’, ‘भूपैते कर्मयोनयः’ इत्यादिवचनान्तराचेत्यर्थः । पूर्वम् इदमस्त्यात्मकमित्यादिनोक्तश्लोकवाक्यार्थः कथं घटत इत्यत्राह यतश्चेति । ज्ञानस्वरूपः, विज्ञान विजृम्भितानीत्यनेन तथा फलितमित्यर्थः । तदेवेति । पूर्वपक्षयोजना या मुक्तेष्वर्थेष्वपेक्षितांशोपजीवनेन सिद्धान्तयोजना क्रियते । विज्ञान विजृम्भितत्वमेव व्यतिरेकमुखेन विवृणोतीत्यर्थः । पूर्वश्लोके देवादिमेदानां स्वात्मवैविध्यानुसन्धानमूलत्वं सद्वारकमिति व्याख्यानमनन्तरश्लोके व्यतिरेकमुखेन विवरणे कर्महेतुत्वश्रवणनिबन्धनमिति स्पष्टयन्नाह देवाद्याकारेणेति । निर्दोष मित्यादिपदानामर्थविभागः’ज्ञानं विशुद्ध’ मित्यादिश्लोकव्याख्याने विशदयिष्यत इति ग्रन्थलाघवार्थमत्र न विस्तृतः । निर्दोषम् 1 ‘लोहितोष्णीषा’ इत्यत्रोष्णीषोद्देशेन लौहित्यविधाने एकप्रसरताभंगः स्यादिति ऋत्विकमचारोद्देशेन लौहित्यस्यैवाप्राप्तस्य विधानेऽपि तल्लौहित्यमुष्णीषहारकमेव तद्वदित्यर्थः ।.. ; १ 2 पूर्वोकविवरणरूपत्वांश उभयसंगत इत्यर्थः। धिवरणप्रकारे वैषम्यमुपपादनभाष्याव सेयम् ।
४६ श्रुतप्रकाशिकोपेते श्रीमाष्ये ( प्रमाणानुपपत्तौ यदात्वितिश्लोकार्थः) । कर्मक्षयान्निर्दोषं परिशुद्धं निजरूपि भवति, तदा देवाद्याकारेणकीकृत्याऽऽत्मकल्पनामूलकर्मफलभूतास्तद्भोगार्थाः वस्तुषु वस्तुभेदा न भवन्ति । ये देवादिषु वस्तुष्वात्मतयाऽभिमतेषु भोग्यभूता देवमनुष्य शैलाब्धिधरादिवस्तुभेदाः, ते तन्मूलभूतकर्मसु विनष्टेषु न भवन्ति इत्यचिद्वस्तुनः कादाचित्कावस्थाविशेषयोगितया नास्तिशब्दाभिधेयत्वम्, इतरस्य सर्वदा / निजसिद्धज्ञानैकाकारत्वेन अस्तिशब्दाभिधेयत्वमित्यर्थः । प्रतिक्षणमन्यथाभूततया कादाचित्कावस्थायोगिनोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्वमेवेत्याह ‘वस्त्वस्ति किम्’ इति । अस्तिशब्दाभिधेयो ह्यादिमध्यपर्यन्तहीनस्सततैकरूपः पदार्थः ; तस्य कदाचिदपि नास्तिबुद्धयनर्हत्वात् । अचिद्वस्तु किञ्चित् कचिदपि तथाभूतं न दृश्चरम् । ततः किमित्यत्राह " यच्चान्यथात्वम्” इति । यद्वस्तु प्रतिक्षणमन्यथात्वं याति तत् उत्तरोत्तराशरीरसम्बन्धरहितम् । परिशुद्धम् तत्कृतरागद्वेषसुखदुःखादिरहितम् । निजरूपि आविर्भूतस्वरूपम् । सङ्कल्पशब्दं व्याचष्टे एकीकृत्यात्मकल्पनाशब्देन । ‘समित्येकीकारे’ इति हि शाब्दाः । पूर्ववत् सद्वारकमिति व्याचष्टे आत्मकल्पनामूलकर्मफलभूता इति । देहात्मनोरेकीकृत्यानुसन्धानफलं देवाद्याकारेण स्वात्मवैविध्यानुसन्धानम् । तयोरेकैकं विज्ञानशब्दे सङ्कल्पशब्देऽप्यर्थसिद्धम् । सुखदुःखे हि कर्मफलम् । तत् कथं वस्तुभेदस्य कर्मफलत्वमिति शङ्कायां तद्भोगार्था इत्युक्तम् । सुखादिभोगद्वार भूतत्वात् देवादिभेदाः कर्मफलमित्यर्थः । “भोक्ता भोग्यं प्रेरितारं च मत्वा” इत्यादिषु भोग्यशब्दार्थः स्पष्टीकृतो भवति तद्भोगार्था इत्यनेन । भोगस्थानभोगोपकरणानां भोगसिद्धिप्रयोजकत्वमेव भोग्यत्वमित्यर्थः । सप्तम्यन्तवस्तु शब्दो जीवपर्यन्तदेह पर द्वितीयवस्तुशब्दो देवादिशरीरमात्रपरः । वस्तुभेदाःदेवादिशरीर मेदाः । अत्र वस्तुभेदशब्देन भेदस्य वस्तुरूपत्वात् पारमार्थ्यमपि फलितम् । अत्रान्वितेषु पदेषु व्याख्येयपदव्याख्यानार्थमाह ये देवादिष्विति ॥ देवादिषु वस्तुषु आत्मतयाऽभिमतेषु । प्रथमवस्तुशब्दो जीवपर्यन्तदेहपर एवेत्यभिप्रायः । संसृष्टाकारे ह्यात्माभिमानः । तद्भोगार्था इति पूर्वोक्तस्य पदस्य. व्याख्येय” पदमुदाहरति भोग्यभूता इति । भोग्यभृता इत्यनेन वस्तुभेदा इति पदस्याचिदशमात्रपरत्वमुक्तम् ; न तु वस्तुभूत इत्युक्तत्वात् । पूर्वश्लोकोक्तभेदा एवात्र विवक्षिता इत्याह देवमनुष्येति । कारणाभावात्कार्याभावो हि व्यतिरेकः; तं स्पष्टयति तन्मूलभूतेति । परमप्रकृतार्थस्य फलितत्वमाह इत्यचिद्वस्तुन इति । पूर्वश्लोकफलितार्थकथने आत्मनोऽस्तिशब्दवाच्यत्वे हेतुरनुक्तः ; अत्र तु तस्यापि फलितत्वमाह इतरस्येति । " जगदुपलब्धिप्रकारेणापि वस्तुभेदानां परिणामित्वमुपपाद्यते लोकद्वयेन । तत्र प्रथमस्य वाक्यार्थमाह प्रतिक्षणमिति । श्लोकस्य नास्तिशब्दाभिधेयतापरत्वं यदस्ति यन्नास्तीत्युपक्रमावगतम् । अस्मिन् श्लोके प्रयोजक शिक्षा । वस्त्वस्ति किमित्यर्थ योजनापचिकतयाऽत्राभिधेयं यदस्ति यन्नास्तीत्युपक्रमवशात्सिद्धमर्थमाह अस्तिशब्देति । सततैकरूपतया अस्तिशब्दवाच्यत्वे सति हि पूर्वाद्धक्तस्य तदभावस्य नास्तिशब्दामिघेताहेतुत्वसिद्धिः । पूर्वाधं व्याचष्टे अचिह्नस्त्विति । किमनेन नास्तिशब्दाभिधेयत्वस्येति शङ्कायामुत्तरार्द्धमवतारयति ततः किमित्यत्राहेति । यातीति वर्तमाननिर्देशस्वामिप्रायमाह प्रतिक्षणमिति । भूयो न तत्तथेत्यस्यार्थमाह तदिति । उत्तरोत्तरावस्था प्राप्त्येति
- निजं सिद्धं निजत्सियन् स्वाभाविक्रन्छ । भोका भोग्यमिति श्रुतिमतं पदम् ।
१-१-१ जिज्ञासाधिकरणम् (मही घटत्वमितिश्लोकार्थः) ४७ वस्थाप्राप्त्या पूर्वपूर्वावस्थां जहातीति तस्य पूर्वावस्थस्योत्तरावस्थायां न प्रतिसंधानमस्ति; अतः सर्वदा तस्य नास्तिशब्दाभिधेयत्वमेव । तथा ह्युपलभ्यत इत्याह - " मही घटत्वम्” इति । स्वकर्मणा देवमनुष्यादिभावेन स्तिमितात्मनिश्चयैः स्वभोग्यभूतमचिद्वस्तु प्रतिक्षणमन्यथाभूतमालक्ष्यते - अनुभूयत इत्यर्थः । एवं सति किमप्यचित् वस्तु-अस्तिशब्दार्हमादिमध्यपर्यन्तहीनं सततैकरूपमालक्षितमस्ति किम् ? न ह्यस्तीत्यभिप्रायः । यस्मादेवम्, तस्मात् ज्ञानस्वरूपात्मव्यतिरिक्तमचिद्वस्तु कदाचित् क्वचित् केवभूयः शब्दार्थः । न तत्तथेत्यस्यार्थमाह पूर्वपूर्वावस्थां जहातीति । तत्रेत्यस्यार्थमाह पूर्वावस्थस्योत्तरावस्थायामिति । कुतस्तत्त्वमित्यस्यार्थमाह न प्रतिसन्धानमिति । तत्त्वम् — तस्य भावः । तदिदमिति प्रतिसन्धानानर्हत्वं फलितमित्यर्थः ।
ननु तत्त्वं कुतः - पूर्वावस्थत्वं कुत इत्युक्तम् । कथं प्रतिसन्धाननिषेधः ॥ उच्यते । कुतश्शब्दः प्रमाणप्रतिक्षेपपरः । पर्वतोऽग्निमानित्युक्ते कुत इति प्रमाणाकाङ्क्षा हि द्योत्यते । अतः प्रतिक्षेपपरः कुतरशब्दोऽपि प्रमाणप्रतिक्षेपपरः । कुतः प्रमाणादित्यर्थः । पूर्वावस्थंस्य भूयस्तथात्वे प्रमाणं च प्रत्यभिज्ञा । अतः प्रमाणे प्रतिक्षिप्ते प्रतिसंघानं निषिद्धं भवतीति भावः । अन्यथा न तत्तथेत्यनेन पौनरुक्त्यं स्यात् । हिशब्देन फलितमर्थमाह अत इति । नास्तिशब्दवाच्यत्वे प्रयोजकशिक्षा कृता । शिक्षितमर्थमुदाहरणेन दर्शयत्यनन्तरश्लोक इत्यभिप्रायेणाह तथा हीति । मही घटत्वमिति श्लोकं व्याचष्टे स्वकर्मणेत्या दिना । मही घटत्वमित्यत्र यातीति पूर्वश्लोकादनुषङ्गः । कर्मण आत्मनिश्चयविरोधित्वं सद्वारकमित्याह देवमनुष्यादिभावेनेति । देवादिदेह संसर्गेणेत्यर्थः । स्तिमितम् — प्रतिबद्धम् । अस्थिरे भोग्यत्वबुद्धिः स्थिरतर सुखरूपात्म- । निश्चयस्तैमित्यादिति भावः । यद्वा आत्मज्ञानरहितैरप्यचिद्वस्तुनोऽस्थिरत्वमा लक्ष्यत इत्याहतथाहीति । आलक्ष्यत इति चाक्षुषज्ञाने प्रयोग प्राचुर्यात् तद्व्यावृत्त्यर्थमनुभूयत इत्युक्तम् । श्लोकव्याख्यानपरिसमाप्तिं द्योतयति इत्यर्थं इति । ब्रूहीत्यादेरर्थमाह एवं सतीति । अनेन अत्रेतिपदं व्याख्यातम् । अचिदस्त्वितिपदेन श्लोकस्थवस्तुशब्दो व्याख्यातः । अस्तिशब्दार्हमित्यादिविशेषणं सामर्थ्यसिद्धतयोक्तम् । अथवा (?) श्लोकद्वयाभिप्रायमाह – एवं सतीति । न तु वस्तुभूतः इति पुराणग्रन्थे, किमप्यचिद्वस्तु, अचिद्वस्तु किञ्चिदिति भाष्ये च अचिद्विषय (ये ?) वस्तुशब्दप्रयोगात् “तद्वस्तु नृप तच किम् " इति ग्रन्थस्थवस्तुशब्दतुल्यत्वं न शङ्कनीयम् । अस्ति किमित्यनेन श्लोकस्थस्यास्तिशब्दस्य भवत्यर्थत्वमुक्तम् । अत एव यदस्तीत्यस्तिशब्दवत् नात्मस्वरूपपरत्वं शङ्कनीयम् । फलितमाह न हीति । एवं अस्ति किं न ह्यस्ति — इति भाष्यस्वारस्येन श्लोकद्वयोपक्रमगतस्य अस्ति किमिति वाक्यस्य प्रत्यभिज्ञानस्य भवत्यर्थतया व्याख्यातत्वं प्रतीयते । यद्वा अस्तिशब्दाभिधेये इत्यनेन वस्त्वस्ति कि मित्यत्रास्तिशब्दो व्याख्यातः । ‘यदस्ति’ ‘तस्मान्न विज्ञानमृतेऽस्ति’ इत्यादिनैकरूप्यात् । वस्त्वस्ति किम्, मही घटत्वमिति श्लोकद्वयस्य प्रत्येकमुक्तो वाक्यार्थः पूर्वपक्षयोजनायामुपजीव्यः । उत्तरश्लोकस्य प्रथमार्थं व्याचष्टे यस्मादिति । यस्मादेवं तस्माद परिणामित्वादेव, न तु ज्ञानबाध्यत्वादित्यर्थः । 1 (?) ‘श्लोकव्याख्यानपरिसमाप्तिं द्योतयति इत्यर्थ इति’ इति वाक्यस्य अथवेति पदानन्तरं पाठो युक्तः । उपरि कतिपयपदव्याख्यानेन पूर्व परिसमाप्त्यभावात् ।
४८ (तस्मान्नेति श्लोकार्थः) लोस्तिशब्दवाच्यं न भवतीत्याह’तस्मान्न विज्ञानमृते’ इति । आत्मा तु सर्वत्र ज्ञानैकाकारतया देवादिभेद प्रत्यनीकस्वरूपोऽपि देवादिशरीरप्रवेशहेतुभूतस्वकृतविविधकर्ममूलदेवादिभेद भिन्नात्मबुद्धिभिः तेन तेन रूपेण बहुधाऽनुसंहित इति तद्भेदानुसन्धानं नात्मस्वरूपप्रयुक्तमित्याह “विज्ञानमेकम् " इति ॥ आत्मस्वरूपं तु कर्मरहितम्, तत एव मलरूपप्रकृतिस्पर्शरहितम् । ततश्च तत्प्रयुक्तशोकमोहलो भावशेषहेयगुणारुङ्गि, उपचयापचयानर्हतयैकम्, तत एव सदैकरूपम् । नच अचिद्वस्तुशब्देन वस्तुजातशब्दार्थ उक्तः । जातशब्दशिरस्को वस्तुशब्दो न नित्यवाचीति भावः । केवलास्तिशब्दवाच्यमिति । एतच्छुलोकस्थास्तिशब्दो न भवत्यर्थः; ज्ञानव्यतिरिक्तस्य तदेतदक्षयं नित्यम् इत्यादिना नित्यत्वेनोक्तस्य निषेध्यत्वायोगात्, यदस्तीत्युपक्रान्तस्योपसारौचित्या चेति भावः ॥ प्रागभावप्रध्वंसाभाववतोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्वमवच्छिन्नास्तिशब्दवाच्यत्वं चेति तद्व्यावृत्त्यर्थं केवलशब्दः । एवमात्मव्यतिरिक्तवस्तुनो नास्तिशब्दाभिधेयत्वमुपसंहृतम् । विज्ञानमित्यादि व्याचष्टे आत्मा त्विति । तुशब्दोऽचिद्वैषम्यपरः । सर्वत्र – सर्वशरीरेषु । एकशब्दं व्याचष्टे ज्ञानैकाकारतयेति । “एको ब्रीहिस्सु निष्पन्नस्सुपुष्ट कुरुते प्रजाः” इतिवत् अयमेकशब्द आकारैक्यपरः । स चाकारो विज्ञानशब्दोक्तं ज्ञानत्वमित्यभिप्रायेणोक्तं ज्ञानैकाकारतयेति । भावप्रधानो निर्देशः ; ज्ञानत्वैकाकारतयेत्यर्थः । खरूपतो धर्मतश्वाविशेषेण ज्ञानत्वं सद्वारकमद्वारकं चाऽऽकारो हि भवति । । ज्ञानैकाकारतयेत्यत्र एकशब्देन सङ्कोच विकासदुः खरूपत्वादिव्युदासश्च । देवादि भेदप्रत्यनीकखरूपोऽपीति एकरूपत्वाद्भेदप्रत्यनीकत्वम् । निजकर्मादिपदं व्याचष्टे देवादीति । भेदशव्दार्थमाह विविधेति । बुद्धिशब्देन चिंत्तशब्दार्थ उक्तः । बुद्धेर्भेदश्च आत्मन्यारोप्यमाणदेवाद्याकाररूपविषयभेदात् । बहुधा - देवत्वादिबहुप्रकारविशिष्टतयाऽभ्युपेतमित्यर्थः । बहुधाशब्दस्याकारैक्यपरत्वं स्पष्टम् । फलितमर्थमाह नात्मस्वरूपप्रयुक्तमिति । औपाधिकमित्यर्थः । उपाधिविमोक्षे कीदृशं खरूपमित्यत्र अनन्तरश्लोकं व्याचष्टे आत्मेति । विशुद्धपदं व्याचष्टे कर्मरहितमिति । विमलपदं व्याचष्टे तत एवेति । विमलपदव्याख्यानमिति स्पष्टीकतु मलरूपशब्दः । मलरूपप्रकृतिस्पर्शरहितमित्यनेन, ‘सर्वकमक्षये ज्ञानमपास्तदोषम् ’ इत्यस्यार्थोऽवंगतः; कर्मक्षयवाचिपदानन्तरपदस्य शरीरसंबन्धरहितपरत्वेन व्याख्यातत्वात् । तथा च श्रुतिः, “अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृत कृतात्मा ब्रह्मलोकमभिसम्भवामि” इति । अत्र हि पापं विधूयेत्युक्ता, धूत्वा शरीरमित्युक्तम् । उपरितनपदानि व्याचष्टे ततश्चेति । तत एवेत्यर्थः । हेतोर्नैरपेक्ष्यसूचकश्चशब्दः । 1 निरस्ताशेषलोभादिसङ्गमित्यर्थः । एकमिति पदं व्याचष्टे उपचयापचयानर्हतयैकमिति उपचयापचयौ– वृद्धिक्षयौ; तदर्हत्वम् सावयवत्वम् सावयवत्वाभावादेव एक शब्दवाच्यत्वम् । निरवयवत्वमेकत्वमित्यर्थः । तत एव सदैकरूपमिति । निरवयवत्वात्सावयवत्वप्रयुक्तवृद्धिक्षयरहितमित्यर्थः । सामानाधिकरण्यं व्याचष्टे तच्चेति । ‘यदम्बु वैष्णवः कायः’, ‘अशेषमूर्तिः’ इत्युक्तत्वादयमेवार्थः । ; ’ 1 मध्यगतं निरस्तपदमादौ निवेश्य अर्थ स्पष्टयति । अशेषलोभादिभिः स्वयमेव यदात्मस्वरूपसँगः निरस्तः तादृशम्-इत्यर्थो भवितुमर्हति । ww
१-१-१ जिज्ञासाधिकरणम् (अनित्यप्रपञ्चवास्तवहेतुवर्णनम् ) ४९ वासुदेवशरीरमिति तदात्मकम्; अतदात्मकस्य कस्यचिदप्यभावादित्याह ‘ज्ञानं विशुद्धम्’ इति । चिदंशः सदैकरूपतया सर्वदाऽस्तिशब्दवाच्यः । अचिदशस्तु क्षणपरिणामित्वेन सर्वदा नाशगर्भ इति सर्वदा नास्तिशब्दाभिधेयः । एवंरूपचिदचिदात्मकं जगत् वासुदेवशरीरं तदात्मकमिति जगद्याथात्म्यं सम्यगुक्तमित्याह “सद्भाव एवम् " इति । अत्र सत्यप्रसत्यमिति, ‘यदस्ति यन्नास्ति’ इति प्रक्रान्तस्योपसंहारः । एतत् ज्ञानैकाकारतया समम् अशब्दगोचरखरूपभेदमेचाचिन्मिने भुवनाथितं देवमनुष्यादिरूपेण सम्यग्व्यवहारार्ह मेदं यद्वर्तते, तत्र हेतुः कमैवेत्युक्तमित्याह “पत यत्” इति । तदेव विवृणोति, “यज्ञः पशुः” इति । ; न यतोऽन्यस्तीत्येतव्याचष्टे अतदिति । यतः यस्माद्वासुदेवात् । अन्यत् स्वपर्यवसितं वस्तु, नास्तीत्यर्थः यद्धा वासुदेवादिति पदमध्याहृत्य योजना ; वासुदेवादन्यन्नास्तीति यतः, तत इत्यर्थः । अस्यां योजनायां 1 तच्छब्दः प्रसिद्धपरामर्शी । अतोऽपि पूर्वयोजना साधीयसी ; तद्वृत्तस्य यद्वृत्त प्रतिनिर्देशरूपत्व स्वारस्यात् ; पञ्चम्यन्ताध्याहारानपेक्षत्वाच्च । ज्ञानस्वरूपः, यदा त्विति श्लोकौ चिदचित्साधारणौ, वस्त्वस्तीत्यादिसार्धश्लोकद्वयम चिदसाधारणम्, विज्ञानमित्यादिसार्धश्लोकश्चिदसाधारण इति विभागः ॥ न परमतमुक्तम्, तत्त्वमेवोक्तमित्यभिप्रायेण सद्भाव इत्याद्यर्धमुक्तम् । तत्र यथाशब्दार्थमाह चिदंश इति । यथा–येन प्रकारेण । परिणामित्वापरिणामित्वरूपेण न ज्ञानबाध्यत्वाबाध्यत्वरूपेणेत्यर्थः । एवंरूपेति । शरीरशरीरिभावरूपेण येन प्रकारेण भगवदात्मकत्वम्; न तु खरूपैवयेनेत्यर्थः । श्लोके यथाशब्दप्रतियोगी एवंशब्दः । सत्यं ज्ञानमसत्यमन्यच्च यथा अवस्थितम्, एवं सद्भाव उक्त इत्यन्ययोऽभिप्रेतः । अतः सत्यासत्यशब्दवाच्यत्व निर्वाहकापरिणामित्व परिणामित्वे भगवदात्मकत्वञ्च यथाशब्दविवक्षितं भवति । अन्यदुपक्रान्तम्, अन्यदुपसंहृतं भवति ; अस्तिनास्तिशब्देनोपक्रम्य सत्या सत्यशब्देनोपसंहारादित्यत्राह अत्रेति । उपक्रमोपसंहारयोः शब्दान्तर निर्देशस्यायमभिप्रायः अन्येष्वपि शब्देषु क्वचिदेवं श्रुतेषु तेषामपि प्रवृत्तिनिमित्तमिदमेवेति । उत्तरार्द्धस्यार्थमभिप्रेत्याह एतदिति । प्रत्यस्तमितभेदम्, अगोचरं वचसामित्यनयोरर्थमभिप्रेत्याह ज्ञानैकाकारतया समम् अशब्दगोचरस्वरूप भेदमिति । एवकारेण विरोधः सूचितः । भुवनाश्रितत्वस्य घटक पदमाह अचिन्मिश्रमिति । भुवनाश्रितम् -अण्डान्तर्गतम्, भोगस्थानगतमित्यर्थः । संव्यवहारशब्दं व्याचष्टे सम्यग्व्यवहारामेदमिति । सम्यकुछन्दः स्पष्टत्वपरः । तत् कर्म किमित्याकाङ्क्षायामुत्तर श्लोकस्य तद्विवरणपरत्वमाह तदेव विवृणोतीति । स्वर्गमयश्च कामः । स्वर्गविषयेच्छेत्यर्थः । फलस्य वक्ष्यमाणत्वात् । देवतायाः फलस्य च यष्टव्यत्वेन साध्यत्वेन च कर्मान्तर्भावः । इत्यादिशब्देन दानहोमादिकं च पाप चोक्तं भवति । भूरादिशब्देन पापफलमप्युक्तं भवति । पश्वादिपरिकरयुक्तो यज्ञ एव (कं) कर्म । एवंविधयज्ञात्मकं दानहोमाद्यात्मकं च कर्म तत्र हेतुः । आश्रितमार्गदृष्टम् । तैस्तैराश्रिता मार्गा वर्णाश्रमाः । तेषु दृष्टमित्यर्थः । । । 1 तच्छब्दः स इति शब्दः श्लोकस्थः । 4 एवेति पाठे यज्ञ एव कर्म, न पश्वादिः स तु परिकर इति भावः । एकमिति पाठे पूर्वार्धोक्तमेकम्, अन्यदुपरीत्यर्थः । तत्त्र हेतुरिति भूरादिफले हेतुरित्यर्थः । तत्त्रहेतुरितिभाष्यविवरणार्थमिदम् । 3 यथाशब्दस्यार्थान्तरमिदम् । 2-7 ।
५० श्रतप्रकाशिकोपेते श्रीभाष्ये (नाशित्वमिथ्यात्वतुच्छत्वविवेकः) जगद्याथात्म्यज्ञानप्रयोजनं मोक्षोपाययतनमित्याह " यच्चैतत् " इति । अत्र निर्विशेषे परे ब्रह्मणि, तदाश्रये सदसदनिर्वचनीये चाज्ञाने, जगतस्तत्कल्पितत्वे च (वा) अनुगुणं किञ्चिदपि पदं न दृश्यते । अस्तिनास्तिशब्दाभिधेयं चिदचिदात्मकं कृत्स्नं जगत् परमस्य परेशस्य परस्य ब्रह्मणो विष्णोः कार्यत्वेन तदात्मकम् । ज्ञानैकाकारस्याऽऽत्मनो देवादिविविधा - कारानुभवे अचित्परिणामे च हेतुर्वस्तुयाथात्म्यज्ञानविरोधि क्षेत्रज्ञानां कर्मैवेति प्रतिपादनात् ; अस्तिनास्तितत्यास्त्यशब्दानां च सदसदनिर्वचनीयवस्त्वभिधानासामर्थ्याच्च । नास्त्यसत्यशब्दावस्तिसत्य शब्दविरोधिनौ । अतश्च ताभ्यामसत्त्वं हि प्रतीयते ; नानिर्वचनीयत्वम् । अत्र चाचिद्वस्तुनि नास्त्य सत्यशब्दौ न तुच्छत्वमिथ्यात्वपरौ प्रयुक्तौ ; अपि तु विनाशित्वपरौ । ‘वस्त्वस्ति किम्’, ‘मही घटत्वम्’ इति अत्रापि विनाशित्वमेव पपादितम् ; न निष्प्रमाणकत्वम्, ज्ञानबाध्यत्वं वा ; एकेनाऽऽकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणाम विशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनात् । तुच्छत्वं हि प्रमाणसंवन्धानर्हत्वम् । बाधोऽपि यद्देशकालादिसंबन्धितया यत् अस्तीत्युपलब्धम् ; तस्य तद्देशकाला दिसंबन्धितया नास्तीत्युपलब्धिः ; न तु कालान्तरेऽनुभूतस्य अनन्तरश्लोकार्थमाह जगदिति । कर्मवश्यः सर्वत्र व्रजति हि । यद्वा — कर्मवश्यो हि सर्वत्र व्रजति । तस्मादेव कुर्यादित्यर्थः । निगलित एव हि सर्वत्र कारागृहे चरति, अतस्तन्मोचनाय यतेते ति भावः । ध्रुवमचलं सदैकरूपम् स्वरूपतो गुणतश्चैकरूपमित्यर्थः । यद्वा स्वरूपतो गुणतो रूपतश्चैकरूपमित्यर्थः । तस्मान्नैतदेवमिति पूर्वेणान्वयः । एवं श्लोकानां स्वोक्तार्थानुगुण्यमुपपाद्य परोक्तार्था
ननुगुणत्वमुपपादयति अत्रेत्यादिना ॥ किञ्चिदपि पदं नदृश्यत इति न वाच्यम्; नास्त्यादिशब्दाः, सामानाधिकरण्यम्, अज्ञानवाचिपदजातं चानुगुणमिति चेत् — तत्राह अस्तीति । परमस्येत्यादि । परमपरेशादिशब्दानां भवत्पक्षे मुख्यार्थासिद्धिरिति भावः । हेत्वन्तरं चाह अस्तिनास्तिसत्यासत्येति । प्रथमश्चः त्वर्थः । स्वोक्तयोजनायामनुगुणस्य शब्दस्य परपक्षा
ननुगुणत्वरूपं वैषम्यमस्तीति भावः । अस्तिसत्यशब्दौ दृष्टान्तार्थे । यथा अस्तिसत्यशब्दो न सद्विलक्षणपरौ, तथा नास्त्यसत्यशब्दावपि नासद्विलक्षणपरावित्यर्थः । कथमनिर्वचनीय वस्त्वभिधानासामर्थ्यमित्य वाह नास्तीति । अर्थद्वारको विरोधः ॥ ततः किमित्यत्राह अतश्चेति यद्वा-अनिर्वचनीयवस्त्वभिधानासामर्थ्यादिति व्युत्पत्त्यभाव उक्तः । परस्परविरुद्धार्थत्वमत्र हेत्वन्तरतयोक्तम् । चः समुच्चये ॥ तथापि सत्त्वाभावात् तुच्छत्वं मिथ्यात्वं वा उक्तं भवतीति चेत् — तत्राह अत्रेति । कथं विनाशित्वपरावित्यत्राह वस्त्विति । ‘विनाशित्वमेव हि मिथ्यात्वमिति शङ्कायां विनाशित्वस्वरूपं शोधयति एकेनेति । एकेनाकारेण कालान्तरेऽनुभूतस्य कालान्तरे आकारान्तरेणोपलब्धिरस्तु ततः कथं “विनाशित्वं तुच्छत्व मिथ्यात्वन्यावृत्तमिति शङ्कायां तुच्छत्वादिखरूपं शोधयति तुच्छत्वं हीति । 1 विनाशीत्यस्य मिथ्येत्येवार्थः । अतो मिथ्यात्वविनाशित्वयोर्न भेद इति धिया मिथ्यात्वपरत्वशंकायामित्यर्थः । ; 2 कालान्तरे आकारान्तररूपविनाशित्वात् तुच्छत्वादेर्न भेद इति शंकायामित्यर्थः । अत्र भावप्रकाशिकायां विचारः ।
१-१-१ जिज्ञासाधिकरणम् (नाशिन्यसत्यादिशब्दोपपत्तिः) ५१ कालान्तरे परिणामादिना नास्तीत्युपलब्धिः ; कालभेदेन विरोधाभावात् । अतो न मिथ्यात्वम् ॥ एतदुक्तं भवति - ज्ञानस्वरूपमात्मवस्तु आदिमध्यपर्यन्तहीनं सततैकस्वरूपमिति स्वत एव सदा अस्तिशब्दवाच्यम् । अचेतनं तु क्षेत्रज्ञभोग्यभूतं तत्कर्मानुगुणपरिणामि विनाशीति सर्वदा नास्त्यर्थगर्भमिति नास्त्य सत्यशब्दाभिधेयम् - इति । यथोक्तम्- 1 Į “यत्त कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥”, “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्त नास्ति (नाशि) न सन्देहो नाशिद्रव्योपपादितम् " इति । देशकालकर्मविशेषापेक्षया अस्तित्वनास्तित्वयोगिनि वस्तुनि केवलास्तिबुद्धिवोध्यपरिणामादिनेति । परिणामशब्दः परिणाम सामान्यपरः तद्विशेषपरश्च । यथा बादशब्दः । सर्वकथा साधारणः वीतरागकथामात्रपरश्ध, तद्वत् । अत्राय परिणामशब्दो वर्धमानावस्थावाची ; ‘परिणामद्धिजन्मभिः’ इति प्रयोगात् । “यतु कालान्तरेणापि नान्यसंज्ञामुपैति चै। परिणामादिसंभूताम्” इति वक्ष्यमाणवचनकटाक्षेणैवमुक्तम् । परिणामशब्दस्य विकारमात्रपरत्वे आदिशब्दः प्रदेशान्तरगमनपरः । कालान्तरानुभूतस्य कालान्तरे नास्तीत्युपलब्धिः कथं न बाध इत्यत्राह कालभेदेनेति । विरोधे हि बाधः, बाध्यत्वं हि मिध्यात्वमित्यभिप्रायेणाह अत इति । परिणामित्वापरिणामित्वयोरर्थयोर्न हि नास्त्यसत्यादिशब्दाः पारिभाषिकाः; तत् कथं तदभिवानप्रकार ः? परिणामास्पदस्यापि वस्तुनो नित्यत्वात् नास्तिशब्दाभिधेयत्वं चानुपपन्नमित्यत्राह एतदुक्तं भवतीतिं । सदैकरूपत्वमस्ति शब्द प्रवृत्तिनिमित्तम् । विनाशगर्भत्वं नास्ति शब्द पवृत्तिनिमित्तमित्यर्थः । घटावस्थायां पिण्डो नास्ति, कपालावस्थायां घटो नास्ति, चूर्णावस्थायां न कपालसत्तेति सदा नाशगर्भत्वम् । उत्तरावस्थाप्राप्तिर्हि पूर्वावस्थस्य विनाशः । तदवस्थस्य सैवोत्पत्तिः । तस्मात् नास्तिशब्दा मिधे यत्वमचिद्वस्तुनः । ‘चिद्वस्तुनस्तु अवस्थान्तरापत्त्यवस्थान्तरप्रहाणाभावेनैकरूपत्वान्नः विनाशगर्भत्वम् । अतस्तदस्तिशब्दवाच्यमेव । यत् सदाऽस्त्येव तदस्तिशब्दवाच्यम् । “सिद्धे शब्दार्थसंबन्धे इत्यत्र सिद्धशब्दवत् अवधारणगर्भोऽयं शब्दः । तत्र हि सिद्ध एवेति व्याख्यातम् ‘अब्भक्षः, वायुभक्षः’ इत्यादि दृष्टान्तीकृत्य । तथा अत्रापीत्यर्थः । अस्तिनास्तीतिशब्दानां प्रवृत्तिनिमित्तमिदमेवेत्यस्मिन्नर्थे प्रमाणमाह यथोक्तमिति । असद सत्यसत्सत्यादिशब्दानां मिथ्यात्वामिध्यात्वयोः प्रसिद्धिखारस्य मस्तीति शङ्कायां 2 मिथ्यागर्भितत्वमपि दर्शयति देशेति । कर्मविशेषापेक्षयेति । पालनरञ्जनादिसद्भावासद्ध वाभ्यां 1 वादप्रतिवादविषये आहताः न्यायाः कथा इत्युच्यन्ते । तास्तिस्रो वादो जल्पो वितण्डा चेति । तत्र वादशब्दः कथासामान्ये विशेषे च प्रयुज्यते । २ मिथ्याभूतमसत्यमित्युच्यत इति चेत् अस्तु एवं मिथ्याभूतविशिष्टत्वादेव विनाशिनोऽप्यसत्यत्वम् । केवला स्तित्वतदूबुद्धिबोध्यत्वादिकं हि तत्र मिथ्येति । 3 अपिशब्दः अर्थान्तरसमुच्चये । देशेत्यादिभाष्येणान्यदपि दर्शयतीत्यर्थः । लौकिकैः कादाचित्कानामेव दर्शनात् तत्रार्थे सत्यादिशब्दप्रयोग इति, कादाचित्कास्तित्वमपि यत्र नास्ति तत्त्रार्थभिन्ने मिथ्याभूते असत्यादिशब्दप्रयोगः । शास्त्रे तु निरुपाधिकास्तित्वशालिनो ज्ञातखया तदन्यस्मिन् असत्यपदप्रयोगः । स चाविशेषात् विनाशिन्यपि भवतीति अत्यन्तनास्तित्वनिरसनमेवेह पुराणेन क्रियत इति । बोध्यत्वमपरमार्थ इति भाष्यस्य बोध्यत्वमारोपितमिति, बोध्यत्वं नास्तीति चार्थः । निरुपाधिकास्तित्वरूपार्थः परमार्थपदे स्पष्टं प्रतीयेतेति सत्यासत्यादिपर्यायः शब्द त्यागेन परमार्थपरमार्थपदप्रयोगः ।
५२ श्रुतप्रकाशिकोपेते श्रीमाष्ये ( प्रमाणानुपपत्त्युपसंहार निवर्तकानुपपत्ती) त्वमपरमार्थ 1 इति परमार्थ इत्युक्तम् । आत्मन एव केवलास्तिवुद्धिबोध्यत्वमिति स परमार्थ इत्युक्तम् । श्रोतुश्च मैत्रेयस्य- “विष्ण्वाधारं यथा चैतत् त्रैलोक्यं समवस्थितम् । परमार्थश्च मे प्रोक्तो यथा ज्ञानं प्रधानतः ॥ " इत्यनुभाषणाञ्च - ’ ज्योतींषि विष्णुः’ इत्यादिसामानाधिकरण्यस्य आत्मशरीरभाव एवं निबन्धनम्, चिदचिद्वस्तुनोश्चास्ति नास्तिशब्द प्रयोगनिबन्धनं ज्ञानस्याकर्मनिमित्तस्वाभाविकरूपत्वेन प्राधान्यम्, अचिद्वस्तुनश्च तत्कर्मनिमित्तपरिणामित्वेनाप्राधान्यमिति-प्रतीयते ॥ ः यदुक्तम्निर्विशेषब्रह्म विज्ञानादेवाविद्यानिवृत्ति वदन्ति श्रुतय इति–तदसत् - “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय”, “सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि”, “व तस्येशे कन्चन तस्य नाम राजत्वपितृत्वादिरूपेण अस्तित्वं नास्तित्वं च कर्मापेक्षम् । औपाधिकास्तित्वयोगिनि वस्तुनि स्वाभाविका स्तित्वयोगित्वबुद्धिविषयत्वं न परमार्थ इत्यर्थः । अपरमार्थत्वगर्भास्त्यर्थो पतत्वादचितो नास्त्य सत्यादिशब्दवाच्यत्वमित्युक्तम् । आत्मनः स्वाभाविकास्तित्वयोगात् तत्र तद्धीविषयत्वं परमार्थ इत्याह आत्मन एवेति । पदशो दशश्लोक्यामुक्तमर्थं श्रोतुरनुवादप्रकारेण द्रढयति श्रोतुचेति । प्रधानतः । ‘द्वधेकयोः’ इतिवत् भावप्रघानो निर्देशः प्राधान्येनेत्यर्थः । प्राधान्यम् उत्कर्षः । अनुभाषणश्लोकपूर्वार्धफलितमर्थमाह ज्योतींपीति । तदेकधार्यद्रव्यत्वं हि शरीरलक्षणन् । अतो विष्ण्वाधारमित्यनेनाऽऽत्मशरीरभावः सिद्धः । उत्तरार्धफलितमर्थमाह चिदचिदिति । ज्ञानप्राधान्यं तेनाचिद्वस्तुनोऽप्राधान्यस्यार्थसिद्धत्वादाह अचिद्वस्तुनश्चेति । प्राधान्याप्राधान्येउत्कर्षापकर्षो । तौ चापरिणामित्व परिणामित्वलक्षणौ ; नामिथ्यात्वमिथ्यात्वलक्षणौ । धर्मिणि सति हि प्राधान्याप्राधान्ये । प्रतीतिमात्रसिद्धं हि मिध्या । अतौ न तत्राप्राधान्यशब्दः स्वरस इत्यभिप्रायः ॥ कण्ठोक्तम् ; अथ निर्विशेषब्रह्मात्मैक्यज्ञानस्य निवर्तकत्वपरत्वेन परोक्तश्रुतीनाम् अतदर्थत्वं वक्तं परोक्तमनुवदति यदुक्तमिति । परिहरति तदसदिति । तत्र ज्ञानस्य निर्विशेषवस्तुविषयत्वं तेनात्मैक्यविषयत्वं च परिहरिष्यन् प्रथमं निर्विशेषवस्तुविषयत्वं व्युदसितुमुपादते वेदाहमिति । अनेन विग्रहादिविशिष्टविषयज्ञानमेवोपायः, नान्य इत्युक्तम् । एतत्समानार्थत्वादाह सर्वे निमेषा इति । तत्र हि, “अद्द्भ्यः संभूतो हिरण्यगर्म इत्यष्टौ” इति प्रतीकोपादानं कृतम् । [विशेषणेन] अनेन विद्यच्छब्दश्च व्याख्यातो भवति । विद्युतः विद्युद्वर्णादित्यर्थः ; आदित्यवर्णमित्यनेनैकार्थ्यात् । ‘न तस्येशे कश्चन’ इत्यनेन उपायभूत 1. शुद्धतालकोशानुसारात्, अन्वयौचित्यात्, टीकानुरोधाच ‘इति ह्यपरमार्थः’ इति भागो भाष्येऽस्तीति ध्येयम् । 1 2 प्रतीतिविशेष्यत्वातिशयरूपप्राधान्यमध्येकमस्ति । तद्रूपपारमार्थ्यं परमात्मन एव मुख्यमितीह तदनुक्तिः । 8 अपरमार्थत्वगर्भास्त्यर्थोपतेत्यस्य अरोपितत्वविशिष्टास्तित्वाश्रयेत्यर्थः । शाब्दिकैः तत्पुरुषे उत्तरपदार्थप्राधान्यावश्यकत्व परिशीलनेन नत्रतत्पुरुषे अनश्व इत्यादौ आरोपिताश्वत्ववानित्यर्थवर्णनात् तद्रीत्या नास्त्यसत्यापरमार्थादिपदानामारोपितास्तित्वविशेषवदित्यर्थ इत्याशयेनेदं सर्वमिति ध्येयम् ।
५३ महद्यशः “, " य एनं विदुरमृतास्ते भवन्ति” इत्याद्यनेकवाक्यविरोधात् । ब्रह्मणः सविशेषत्वादेव सर्वाण्यपि वाक्यानि सविशेषज्ञानादेव मोक्षं वदन्ति । शोधकवाक्यान्यपि सविशेषमेव ब्रह्म प्रतिपादयन्तीत्युक्तम् ॥ ; तत्त्वमस्यादिवाक्येषु सामानाधिकरण्यं न निर्विशेषवस्त्वैक्यपरम् ; तत्त्वम्पदयोः सविशेषब्रह्माभिधायित्वात् । तत्पदं हि सर्वज्ञं सत्यसङ्कल्पं जगत्कारणं ब्रह्म परामृशति; “तदैक्षत बहु ज्ञानान्तरं नास्तीति फलितम् अधिकज्ञेयान्तराभावात् । उक्ताकारविशिष्टपुरुषवेदनस्योपायत्वं दर्शयति य एनं विदुरिति । एषामन्येषामप्यादिशब्दगृहीतानाञ्च वाक्यानामुपादानम् अनेकवाक्यविरोधप्रदर्शनाय ॥
ननु ‘सदेव … एकमेव ’ इत्यादिकारणवाक्येषु निर्विशेषस्य प्रतिपन्नत्वात् तज्ज्ञानमेव साक्षान्मोक्षोपाय इति सगुणज्ञानस्योपायत्वं तद्व्यवधानेन स्यात् । यद्वा सगुणज्ञानोपायत्वपरवाक्येऽपि न सगुणत्वे तात्पर्यम् ; वस्तुमात्रमेव लक्ष्यत इति चेत् — तत्राऽऽह ब्रह्मण इति । सद्वियादिष्वपि सगुणविषयत्वोपपादनात् यथावस्थितस्वरूपविषयज्ञानस्यैव मोक्षोपायत्वात् तान्यपि सविशेषज्ञानोपायत्वपराणीत्यर्थः । तर्हि शोधकवाक्यैर्विरोध इत्यत्राह शोधकेति । एवं ज्ञानस्य निर्विशेषविषयत्वं तद्विरुद्धवचनोदाहरणेन प्रतिक्षिप्तम् ॥ ; अथ तत्त्वमस्यादिसामानाधिकरण्यान्यथानुपपत्त्या निर्विशेषज्ञानमेवोपाय इति शङ्कायां तस्य जीव परैक्यविषयत्वं व्युदस्यति तत्त्वमस्यादीति । शोधकवाक्येषु ! सामानाधिकरण्यमतद्व्यावृत्तिमुखेन वस्त्वैक्यपरम् तत्त्वमस्यादिषु जीवब्रह्मणोस्सामानाधिरण्यनन्वयमुखेनी पलक्षितवस्त्वैक्य परम् अचिद्ब्रह्मणोस्तु ‘सर्वं खल्विदं ब्रन’ इत्यादावतात्त्विकरूपारोपर्णेन सामानाधिकरण्यम्, ‘ज्योतींषि विष्णुः’ इत्यादौ बाघार्थम् इति चतुर्धा हि परैः सामानाधिकरण्यं तत्रतत्राभ्युपेतम्। तत्र तत्त्वमस्यादिवाक्ये अन्वयमुखेन वस्तुमात्रपरत्वं गत्यभावे बाधार्थत्वं चाशङ्कय निराक्रियते । तत्र प्रथमं वस्त्वैवयपरत्वं दूषयितुमाह न निर्विशेष वस्त्वैक्यपरमिति । कुत इत्यत्राह तत्त्वमिति । तच कथमित्यत्राह तत्पदं हीति । हितौ । सर्वज्ञात्वादिगुणकप्रतिपादनं कथमित्यत्राह - तदैक्षतेति । तच्छदस्य प्रकृतसर्वा कार विशिष्टवस्तुपरामर्शित्वं व्युत्पत्तिसिद्धम्, यथा शुक्ला शोभनाक्षी मदीया पूर्णशृङ्गा घटोध्नी गौ; तामानयेति ॥
ननु गौस्तिष्ठति तामानयेत्यादौ आनयनादिक्रियानहं स्थित्यादिविशेषणं विधुर वस्तु परामर्शित्वं दृश्यते तच्च मुख्यम् ॥ नैवम्, आनयनसमकालान्वययोग्येनापि स्थित्यादिविशेषणेन पूर्वकालवैशिष्टयस्य विवक्षितत्वात् । अन्यथा धावतोऽपि गोपिण्डस्यानयनप्रसङ्गः । विशेषण विशेष्यवस्तुनि यथान्वयार्हम्, तथाऽन्वितस्य तस्यापरित्यागो हि विवक्षितत्वम् । प्रकृतसर्वविशेषणेषु एकस्यापि परित्यागे प्रकृतत्वमेव दीयेत । शुक्ला शोभनाक्षी मदीया पूर्णशृङ्गा घटोनी गौः, तामानयेत्युक्ते शौक्ल्येतर समस्त विशेषणान्वितव्यकल्यानयनेऽपि प्रकृतव्यक्तेरानीतत्वाभावात् । अतः सविशेषे प्रकृते निर्विशेषस्य प्रकृतत्वं दूरोत्सारितम् । न च प्रकृतसर्वविशेषणपरित्यागेऽपि धर्म्येक्येन प्रकृतत्वासिद्धिः; सर्वाकारप्रहाणे प्रतिसन्धानानत्वात् । नं पवर के घटोऽस्ति, तमानयेत्युक्ते घटत्वाविवक्षायां मृन्मात्रस्य सिद्धिः प्रकृतत्वसिद्धिः । कथमेकाकार1 ब्रह्मवाचिपदसामानाधिकरण्यं चतुर्धेत्यर्थः । अर्थान्तरवाचिपदसामानाधिकरण्यमपि स्वीकृत्य, ‘व्याप्तेश्च समञ्जसम्’ इति सूत्रे तैरुक्तमप्यन्यत् । 2 सृष्टिनिरूपणान्वयौचित्याय अविद्याशबलरबेनारोपिते प्रपश्वरूपत्वारोप इति भावः ।
t ५४ } (परमते तत्रानेकविरोधप्रदर्शनम्) 1 स्याम्” इत्यादिषु तस्यैव प्रकृतत्वात् । तत्समानाधिकरणं त्वम्पदञ्च अचिद्विशिष्टजीवशरीरकं ब्रह्म प्रतिपादयति प्रकारद्वयावस्थितैकवस्तुपरत्वात् सामानाधिकरण्यस्य । प्रकारद्वयपरित्यागे प्रवृत्ति निमित्तभेदासंभवेन सामानाधिकरण्यमेव परित्यक्तं स्यात् । द्वयोः पदयोर्लक्षणा च । ‘सोऽयं देवदत्तः’ इत्यत्रापि न लक्षणा; भूतवर्तमानकालसंबन्धितयैक्यप्रतीत्यविरोधात् । देशभेदविरोधश्च कालभेदेन परिहृतः । ‘तदैक्षत वहु स्याम्’ इत्युपक्रमविरोधश्च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं परित्यागेऽप्यसंभवत् प्रकृतत्वं सर्वाकारपरित्यागे संभवति ॥ अङ्गुलीयकत्वप्रहाणेऽपि कनकं प्रतिसंघीयत इति चेत् — सत्यम्, प्रत्यक्षेण । तच्छब्दस्तु प्रकृताकारप्रहाणे प्रतिसन्धानमेव जनयितुं न शक्नोति । अत एव हि यदङ्गुलीयकं तदानयेत्युक्ते कनकमात्र नानीयते । अतः प्रकृतसर्वाकारप्रहाणे प्रतिसन्धानानर्हस्य वस्तुनः प्रकृतत्वमेव नास्तीति तच्छब्दस्य वस्तुमात्रपरत्वं लाक्षणिकं स्यात् ॥ तत्पदोपस्थापितसार्वज्ञ्यादीनां त्वम्पदोपस्थापिताज्ञत्वादीनां च विरोधान्निर्विशेषपरत्वमिति चेत् — तत्राह तत्समानाधिकरणमिति । घटस्य शुक्ल इत्यादिव्यधिकरणवाक्येषु धर्मवाचिपदस्य धर्मिपर्यन्तत्वाभावात् तद्व्यावृत्त्यर्थं तत्समानाधिकरणमित्युक्तम् । अचिद्विशिष्टजीवशरीरकमिति । अज्ञत्वादिगुणानां सर्वज्ञत्वादिगुण के परमात्मनि विरोधः सद्वारकतया परिहृत इत्यर्थः । त्वम्पदप्रवृत्तिनिमित्त संबोधनीयार्थत्वरूपाभिमुख्यविशेषप्रयोजकोपलक्षणाभिप्रायेण अचिद्विशिष्टजीवेत्युक्तम् । समानाधिकरणत्वे सति कथं त्वम्पदं जीवविशिष्टब्रह्म परमित्यत्राह प्रकारद्वयेति । प्रकारद्वयावस्थितम् – प्रकारद्वयविशिष्टम् । प्रकृततत्त्वम्पदप्रवृत्तिनिमित्तपरः प्रकारद्वयशब्दो न्यूनत्वनिवर्तकः ; न तु प्रकारत्रित्वादिव्यवच्छेदपरः । तदुपपादयति प्रकारद्वयपरित्याग इति । दूषणान्तरमाह द्वयोरिति । अविरोधेन मुख्यतया निर्वाहे संभवति एकस्यापि पदस्य लक्षणा न युक्ता ; विरोधे सत्यप्येकपदलक्षणयैव अविरोधः सिध्यतीति पदद्वयलक्षणा अनुपपन्नेत्यर्थः ॥
ननु पदद्वयलक्षणा न दूषणम् ; सोऽयं देवदत्त इत्यादिषु
दृष्टत्वात् । तत्र हि देशकालविशिष्टाकारे देशकालान्तरान्वयविरोधाल्लाक्षणिकमेव पदद्वयम् । तत्राह सोऽयमिति । किमेकस्य देशद्रयसंबन्धे विरोधः, उत कालद्वयसंबन्धे ः इति विकल्पमभिप्रेत्याहभूतेति । न हि विशिष्टाकारे विशेषणान्तरान्वयः, अपि तु विशेष्यमात्रे । अतः कालद्वयसंबन्धो न विरुद्धः । यदि बिरुद्धः, तर्हि बौद्धोक्तं क्षणिकत्वमेवाऽऽपद्येत, अनेककालसाध्यधर्मविधानं फलप्राप्तिश्व नोपपद्येयातामिति भावः । देशभेदेति । यद्येकस्य देशद्वयसंबन्धविरोधः, तर्हि विष्णुक्रमणतीर्थखानादिविधिर्नोपपद्यते ; प्रत्यभिज्ञाविरोधश्चेति भावः ॥ यौगपद्यं कथं संभवतीति चेत् — तदुच्यते । देशद्वयसंबन्धस्य कालद्वयसंबन्धस्य वा न युगपद्भावः, तत्प्रतिपतेरेव हि यौगपद्यम् । प्रतिपत्तिस्तु देशद्वय कालद्वयसंबन्धं क्रमभाविनमेव दर्शयति । अतो न विरोधः । अन्यथा, अतीतानागतविषयज्ञानेष्वतीतानागतविषययोर्वर्तमानत्वं ज्ञानस्यातीतानागतत्वं वा प्रसज्येतेति । दूषणान्तरमप्याह तदैवतेति । उपक्रमाधिकरणे छुपक्रमप्राबल्यमुक्तमिति भावः । उपक्रमोपक्रमे ऐक्यस्य प्रतिपन्नत्वान्नोपक्रमविरोधः । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यं हि ‘तदैक्षत बहु स्याम्’ इति वाक्यात् पूर्वमित्यत्राह एकविज्ञानेनेति । तत्र निमितत्वोपादानत्वतदनुगुणसार्वश्यसर्वशक्त्या दिगुण सिद्धेरित्यर्थः । विशिष्टमेव , कारणम् ; तदेव स्थूलावस्थं कार्यमिति द्रव्यान्तरत्वाभावात् कारणज्ञानेन कार्यज्ञानमुपपद्यते । सृषावादिनस्तु
१-१-१ जिज्ञासाधिकरणम् (बाघार्थत्वे दोषाधिवयम्) ५५ च न घटते । ज्ञानस्वरूपस्य निरस्तनिखिलदोषस्य सर्वज्ञस्य समस्तकल्याणगुणात्मकस्याज्ञानं तत्कार्यानन्तपुरुषार्थाश्रयत्वञ्च भवति । वाधार्थत्वे च सामानाधिकरण्यस्य त्वंतत्पदयोरधिष्ठानलक्षणा निवृत्तिलक्षणा चेति लक्षणादयस्त एव दोषाः ॥ इयांस्तु विशेषःनेदं रजतमितिवत् अप्रतिपन्नस्यैव वाघस्यापत्या परिकल्पनम् ; तत्यदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन वाधानुपपत्तिश्च ! अधिष्ठानं तु प्राकृक्तिरोहितमतिरोहितस्वरूपं तत्पदेनोपस्थाप्यत इति चेन्न ; प्रागधिष्ठाना- कारणज्ञाने कार्यस्य विषयतयाऽन्तर्भावोऽभिमतश्चेत् — विरोधः ; सत्यविषयज्ञाने मिथ्यार्थस्य विषयत्वायोगात् । मिथ्यात्वेनेत्यध्याहारश्च स्यात् । अनन्तर्भावे तु अज्ञाते ज्ञातत्वव्यवहारो न मुख्यः स्यात् । अतोऽस्मत्पक्ष एव प्रतिज्ञावाक्यं खरसम् । श्रुत्यन्तरविरोधमाह ज्ञानस्वरूपस्येति । ज्ञानस्वरूपस्य सर्वज्ञस्येत्यनेन धर्मिधर्मभूतज्ञाने विवक्षिते । सर्वज्ञस्याज्ञत्वम् निरस्तनिखिलदोषस्यं समस्त कल्याणगुणात्मकस्य अनन्तापुरुषार्थाश्रयत्वमिति विरोधः । ज्ञानस्वरूपस्येत्यनेन तिरोधानानुपपत्तिश्च सूचिता । इत्थं सामानाधिकरण्यस्य निर्विशेषवस्त्वैक्यपरत्वं दूषितम् । अथ बाघार्थत्वं दूषयति बाधार्थत्वे चेति । रज्जुः सर्प इत्येवंरूपं बाधार्थं सामानाधिकरण्यमेव नास्ति सामानाधिकरण्यत्य एकस्मिन् विशेष्ये प्रकारद्वयोपस्थापकतया वाघार्थत्वविरोधात् । अतः पदद्वयमुख्यार्थत्वेऽभिमते बाघार्थ सामानाधिकरण्यं न सिध्येत् । सर्पशब्देन नञर्थं लक्षयित्वा असर्पो रज्जुरिति निर्वाह दृष्टान्तवाक्यस्याशङ्कय दान्तिक वाक्यस्य ततोऽप्यधिकं दूषणमाह-बाधार्थत्वे चेति । स्वंतत्पदयोरित्यत्र न क्रमविवक्षा । तत्पदमधिष्ठानमात्र लक्षयति ; त्वम्पदं जीवभावनिवृत्ति लक्षयति । यद्वा त्वम्पदेनाधिष्ठानलक्षणा, तत्पदेन निवृत्तिलक्षणा । आदिशब्देन सामानाधिकरण्यलक्षणहानि, उपक्रमविरोधः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानुपपत्तिः श्रुत्यन्तरविरोधश्चेति दूषणानि विवक्षितानि । उक्तदृष्टान्तादुपलक्ष्यसामानाधिकरण्याच्च दूषणमत्राधिकमित्याह इयांस्तु विशेष इति । बाघार्थत्वे विशेषो न पूर्वोक्तदूषणहानिः, अपि तु तैस्सह वक्ष्यमाणाधिकदूषणद्वयापात एव विशेष इत्यर्थः । अधिकं दूषणमाह नेदं रजतमितिवदप्रतिपन्नस्यैव बाघस्यागत्या परिकल्पनमिति । शुक्तिरेव रजतमित्यत्र प्रमाणान्तरेण नेदं रजतमिति बाधस्य प्रतिपन्नत्वाद्वाधकल्पनम् अत्र बाघस्याप्रतिपन्नत्वेऽप्यगत्या बाधकल्पनमित्यर्थः तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्चेति । शुक्तिरेव रजतमित्यत्र शुक्तित्वरूपं विरुद्धधर्मं शब्द एवोपस्थापयति । अतस्तत्र बाधकल्पनम् । अत्र त्वधिष्ठानमात्रं लक्षयता तत्पदेन शुक्तित्तत् विरुद्धधर्मानुपस्थापनात् बाधकल्पनमनुपपन्नमित्यर्थः ॥ विरोधपरिहारार्थ लक्षणा चेत् अन्यतरपदलक्षणैव विरोधपरिहारायालम् । तदा सविशेषत्वप्रसङ्ग इति चार्थसिद्धम् । प्रमाणान्तरेण बाघस्य प्रतिपन्नत्वात् शब्देन विरुद्धधर्मोपस्थापनाच्च बाघकल्पनम् ; अत्र तूभयाभावात् तदनुपपन्नमित्युक्तम् । तत्र विरुद्धाकारोपस्थापनं शङ्कते अधिष्ठानंत्विति । तदधिष्ठानमतिरोहितस्वरूपं यथा भवति, तथोपस्थाप्यत इति क्रियाविशेषणम् । अप्रकाशितविरोधिप्रकाशनं हि बाघकल्पनम् ; न तु धर्मोपस्थापनमेव बाघकल्पनमिति नियमोऽस्ति । अतस्तत्पदेन प्रागप्रकाशितविरोध्यधिष्ठान खरूपप्रकाशनाद्वाधकल्पनमित्यर्थः । अत्राह नेति । किं विरोधिरूपमधिष्ठानं प्रकाशते, उत नेति विकल्प्य, अप्रकाशपक्षे दूषणमाह अधिष्ठानेति ।
५६
(अधिष्ठानातिरेकि परमार्थावश्यकता) प्रकाशे तदाश्रयभ्रमबाधयोरसंभवात् । भ्रमाश्रय [भूत!] मधिष्ठानमतिरोहितमिति चेत्; तदेबाधिष्ठानस्वरूपं भ्रमविरोधीति तत्प्रकाशे सुतरां न तदाश्रयभ्रमवाधौ । अतोऽधिष्ठानातिरेंकिपारमार्थिकधर्मतत्तिरोधानानभ्युपगमे भ्रान्तिबाधौ दुरुपपादौ । तदाश्रयेत्याश्रयशब्दो विषयपरः । यद्वा, तदधिष्ठानक भ्रमबाधयोरित्यर्थः । प्रकाशपक्षं शङ्कते भ्रमेति । भ्रमाश्रयमधिष्ठानमित्यत्र पाठो निरीक्षणीयः । आश्रयशब्दो विषयपरः भ्रमाश्रयमित्यत्र भ्रमस्याश्रयणं विषयीकरणम् यत्रेति वैयधिकरण्येन वा भ्रमः आश्रयः आश्रयणीयः संबन्धनीयो येनेति सामानाधिकरण्येन वा कथञ्चिद्बहुव्रीहित्वमपि निर्वोढुं शक्यम् । आरोप्याकाराधिकरणभूतमधिष्ठानमिति वाऽऽर्थः । श्रमाश्रयत्वायातिरोहितमिति चेदित्यर्थः । दूषयति तदेवेति । किमिदमधिष्ठानं विरोधिरूपम्, उत्ताविरोधि इति विकल्पाभिप्रायेण विरोधीतिपक्षे दूषणमुक्तम् । अविरोधित्वपक्षे बाघकल्पनानुपपत्तिर्ग्रमानुच्छेदश्चेति दूषणं स्पष्टमिति न तदुक्तम् । अत इति । पारमार्थिकशब्दस्यायमभिप्रायः -भ्रमविरोध्याकारस्यापारमार्थिकत्वे अध्यस्तरूपमेव सत्यं स्यात् ; यथा शुक्तित्वापारमार्थ्ये रजतत्वं सत्यं भवतीति । यदिदं चोद्यम् - विरोध्या कारस्यापारमार्थेऽपि भ्रमनिवृत्तिरुपपद्यते ; यथा पलाशपुष्पविषयदावभ्रमवतो भ्रमरस्य वृन्तविषयभ्रमरभ्रमेण पलाशपुष्पं लिप्यतः पलाशपुष्पविषयदावभ्रमो वृन्तविषयश्रमरभ्रमश्च निवृत्त इति । यथाऽऽहुः, ‘भ्रमरी भ्रमरभ्रमेण वृन्ते यददावभ्रममाश्लिषत् पलाशम्’ इति -तदयुक्तम् ; तत्रापि परमार्थविरोध्याकारेणैव भ्रमविषयनिवृत्तेः । दाचत्वविरोधिपलाशपुष्पत्वाकारः परमार्थः । भ्रमरत्वविरोधिवृन्दत्वाकारश्च परमार्थः । अपरमार्थत्वे दावलं भ्रमरत्वं च सत्यं स्यात् । शुक्तित्वे अपरमार्थे रजतत्वमिव । वृन्तविषयभ्रमरभ्रमेण दावत्वभ्रमनिवृतिरिति चेत् ततः किम् ? दावत्वबुद्धिनिवृत्ति अमरत्वस्य सत्यत्वप्रतिपत्तिकृता; ततश्चासत्ये सत्यत्वविपयश्रमान्तरं तिष्ठति तन्निवृत्तिरप्यसत्य विषय सत्यत्वभ्रमान्तरेणेति भ्रमपरम्परया निश्शेषाविद्यानिवृत्त्यनुपपात्तः । किञ्च दावत्वविषयधीनिवृत्तावपि दावत्वनिवृत्तिर्न भ्रमरभ्रमेण ; अपितु परमार्थपुष्यत्वाकारेणैव ’ । अन्यथा परमार्थरजते अपरमार्थशुक्तित्वबुद्या रजतधीनिवृत्त्या रजतस्यापि शुक्तित्वप्रसङ्गात् । श्रमान्तरेण भ्रमान्तरनिवृत्तावनवस्था च स्यात्, निवर्तकभ्रमान्तरस्यापि निवर्तकान्तरापेक्षत्वात् । यथा रज्जुविषयसर्पभूदलनाम्बुधाराभ्रमपरम्परायाः । किञ्च भ्रमरभ्रमनिवृत्त्यनन्तरं निवर्तकापारमार्थ्यज्ञानादापतद् (न् ?) दावभ्रमः परमार्थपलाशपुष्पत्वग्रहणेनैव प्रतिनिवृत्तः । ; अतो निश्शेषा विद्यानिवृत्तिलक्षणमोक्षवादिना भ्रम परम्परापर्यवसानार्थमन्ततो गत्वा परमार्थाकारोऽभ्युपगन्तव्यः, रज्जुत्ववत् ॥ चरमभ्रमः स्वयमेव न स्यादिति चेन्न, ; स्वयं स्वबाधकर्मत्वे कर्मकत्रविरोध प्रसङ्गात् । किञ्च बाधकस्य सत्यात्मकत्वात् बाध्यस्य मिथ्यात्वात् एकस्यैव निवर्त्यनिवर्तकत्वाभ्युपगमे तस्यैव मिथ्यात्वं सत्यत्वं चेति विरोधः स्यात् । किञ्च प्रपञ्चोऽपि बाधकानपेक्षः स्वयमेव स्वात्मानं निवर्तयेत् । स्वयं नाशे विनाशस्यावस्थान्तररूपत्वादविद्या सूक्ष्मरूपेण स्थिता स्यात् । 1 ततः किमित्येतदनन्तरं दावत्वविषयधीनिवृत्तावपीत्यादेः पर्याप्तत्वेऽपि दार्शन्तिके दोषान्तरदानेनापि पारमार्थिकरूपसाधनार्थे दावत्वबुद्धीत्यादि । 2 असत्यविषयेति । असत्ययत् सत्यत्वं तद्विषयेत्यर्थः । 3 कर्मकर्तृविरोधेति पाठान्तरे विरोधादिति युक्तम्, न तु विरोधप्रसंगादिति ।
१-१-१ जिज्ञासाधिकरणम् (स्वपक्षे तत्त्वमस्यादेर्मुख्यार्थत्वम् )
५७
अधिष्ठाने हि पुरुषमात्राकारे प्रतीयमाने तदतिरेकिणि पारमार्थिके राजत्वे तिरोहिते सत्येव व्याधत्वभ्रमः । राजत्वोपदेशेन च तन्निवृत्तिर्भवति, नाधिष्ठानमात्रोपदेशेन ; तस्य प्रकाशमानत्वेनानुपदेश्यत्वात् भ्रमानुपमर्दित्वाच्च ॥ जीवशरीरक जगत्कारणब्रह्मपरत्वे मुख्यवृत्तं पदद्वयम् । प्रकारछ्यविशिष्टैकवस्तुप्रतिपादनेन सामानाधिकरण्यं च सिद्धम् । निरस्तनिखिलदोषस्य समस्त कल्याणगुणात्मक ब्रह्मणो जीवान्तर्यामित्वमप्यैश्वर्यमपरं प्रतिपादितं भवति । उपक्रमानुकूलता च । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च । सूक्ष्म चिदचिह्नस्तुशरीरस्यैव ब्रह्मणः स्थूलंचिदचिद्वरतुशरीरत्वेन कार्यत्वात् “तमीश्वराणां परमं महेश्वरम् पराऽस्य शक्तिर्विविधैव श्रूयते”, “अपहतपाप्मा… सत्यकाम. सत्यसङ्कल्पः” इत्यादिश्रुत्यन्तरविरोधश्च ॥ तत्त्वमसीत्यत्रोद्देश्योपादेयविभागः कथमिति चेत्-नात्र किञ्चिदुद्दिश्श्य किमपि विधीयते ; “ऐतदात्म्यमिदं सर्वम्” इत्यनेनैव प्राप्तत्वात् । अप्राप्ते हि शास्त्रमर्थवत् । नाशकरूपकाविद्यान्तरं च स्यात् ॥ परमार्थविरुद्धधर्मतत्तिरोधानाभावे भ्रमबाधासंभव दृष्टान्तेनोपपादयति अधिष्ठाने हीति । अत्र राजकुमारसमाधिर्भगवतो भाष्यकारस्य ; एवं बाधार्थत्वं दूषितम् ; अथ स्वपक्षे इमानि दूषणानि न सन्तीत्याह जीवशरीरकेति । मुख्यवृत्तमित्यनेन लक्षणाहानिरुक्ता प्रकारद्वयेत्यनेन सामानाधिकरण्यसिद्धिः । निरस्तनिखिलदोषस्येत्यादिना तत्पदोक्तगुणाविरोधः, उपक्रमानुकूलता चेलि, ‘सदेव सोम्येदम्’, “तदैक्षत” इत्युपक्रमाविरोध उक्तः । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः कथमित्यत्राह सूक्ष्मेति । विशिष्ट कारणम्, तदेव कार्यमिति, प्रतिज्ञोपपत्तिरित्यर्थः । श्रुत्यन्तराविरोधमाह तमीश्वराणामिति । वाक्यं चेत् उद्देश्योपादेयविभागवत् । उद्देश्यं द्यवगतम्, उपादेयं विधेयमवगढम् । अत्र तत्पदं नोद्देश्य समर्पणपरम् ; सार्वज्ञ्यादिगुणकत्वस्य प्रत्यक्षाद्यगोचरत्वात । लशब्दस्य चान्तर्यामिपरत्वे सति उद्देश्य समर्पकत्वमनुपपन्नम्, अन्तर्यामिणः प्रत्यक्षाद्यविषयत्वात् । तस्मात् त्वंशब्देन जीवमात्रमुद्दिश्य तस्य तत्पदेन ब्रह्मभावो विधीयत इत्यभ्युपगन्तव्यम् । तत्र विरोधान्निर्विशेषवत्यैक्यपरं सामानाधिकरण्यं संभवतीत्यभिप्रायेण चोदयति तत्त्वमसीत्यत्रोद्देश्योपादेयविभागः कथमिति चेदिति । परिहरति नात्रेति । प्रमाणान्तरागोचरार्थस्य कथमविधानमित्यपेक्षायाम्, न केवलं प्रत्यक्ष द्यवगतार्थविषयमेव वाक्यमनुवादकम् अपितु वाक्यान्तरप्रतिपन्नार्थविषयमप्यनुवादकमित्यभिप्रायेोगं वाक्यान्तरप्राप्तिं दर्शयति ऐतदात्म्यमिति । अस्मिन्नेव प्रकरणे प्रथमप्रतिपन्न नामरूपव्याकरण अत्यैव परमात्मशरीरभूतचिदचिद्वाचकशब्दानां परमात्मपर्यन्ताभिधायित्वं च ज्ञातमिति भावः । ततः किमित्यत्राह अप्राप्ते, हीति । अप्रतिपन्नार्थविषयं शास्त्रमज्ञातज्ञापनरूपप्रयोजनवदित्यर्थः । अतः तदेवोद्देश्योपादेय विभागवत, न तु प्रकृतनिगमनरूपं वाक्यम् । अतोऽस्य निगमनवाक्यस्य प्रतिपन्नार्थविषयत्वान्नोद्देश्योपादेयविभागवत्त्वमित्यर्थः ॥
ननु निगमनवाक्यस्याप्युद्देश्योपादेयविभागवत्त्वं प्रतीयते । यथा ‘तस्माच्छन्दोऽनित्यः’, ’’ तस्मादयमग्निमानू’ इति । अत्र शब्दपर्वताद्यद्देशेन अनित्यत्वाभिमत्त्वादिकं हि विधेयतया प्रतीयते ॥ 1 पूर्वाचार्यादृतो राजव्याधदृष्टान्तः शांकरोपनिषद्भाष्योदाहृत एव ‘राजसूनोः स्मृतिप्राप्तौ’ इति संबन्धवार्त्तिकादितदीयग्रन्थानूदितः तेभ्योऽत्र भाष्येऽपि प्रदर्श्यते । विवरणं समन्वयाधिकरणभाष्ये । 2_8
५८ अतप्रकाशिकोपेते श्रीभाष्ये (तत्त्वमसीति उद्देश्यविधेयविमर्शः) इदं सर्वमिति सजीवं जगन्निर्दिश्य, ऐतदात्म्यमिति, तस्यैप आत्मेति तत्र प्रतिपादितम् । तत्र च हेतुरुक्तः, “सन्मूलोः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” इति ः “सर्वं खल्विदं ब्रह्म नैतद्युक्तम् ; प्रतिपादितार्थविषयस्य निगमनवाक्यस्याप्रतिपन्नार्थविषयत्वव्याघातात् । प्रतीतिस्तु विधायकबाक्यस्थोंद्देश्योपादेयसमर्पकपदप्रत्यभिज्ञानात् निर्देशे प्रथमचरमभावादिसारूप्याच्चोद्देश्योपादेय विभागवत्त्वभ्रान्तिरेव । " यद्वृतयोगः प्राथम्यम् इत्याद्यद्देश्यलक्षणम्” इति हि नीतिविदः ॥ , " 1
ननु सर्वत्रोद्देश्यानुगुणा तिविभक्तिः । अत एव हि युष्मदस्मदोः पदान्तरसामानाधिकरण्येन परस्पर सामानाधिकरण्येन च प्रयोगेषूद्देश्यानुगुणा मध्यमोत्तमपुरुषव्यवस्था दृश्यते, “त्वं भूतानामधिपतिरसि’, ‘अहमस्मि प्रथमजा ऋतस्य’, तथा ‘यदमे स्यामहंत्वम् त्वं वा स्या अहम् — स्युष्टे सत्या इहाशिषः’ इत्यादिषु । अग्ने अहं त्वं यदि स्याम् — त्वमिव देवता स्याम् त्वमहं यदि स्याः—अहमिवार्थी स्याः, तदा ते तवाऽऽशिषः सत्याः स्युरित्यर्थः । तस्मात् तत्त्वमसीत्यत्रापि मध्यमपदप्रयोगात् त्वपदस्योद्देश्य समर्पकत्वं तत्पदस्य चोपादेयसमर्पकत्वमकामेनापि स्वीकार्यम् ॥ नैवम् ; पदद्वयावगतार्थस्य पूर्ववाक्यप्राप्तत्वादेव ॥ तर्हि मध्यमनिर्देशः कथमिति चेत् — उच्यते । तत्त्वम्पदयोरुभयोरपि प्रयुक्तत्वादुद्देश्योपादेयविभागाभावाच्च प्रथममध्यमपुरुषयोरविशेषेण प्राप्तौ निगमनवाक्यस्य प्रापकवाक्यानुरोधित्वस्य न्याय्यत्वात् तत्र च इदं सर्वमिति निर्दिष्टजगदन्तर्गतचिद्विशेषविशिष्ट परमात्मवा’चिनस्त्वम्पदस्य प्रापकवाक्यस्थोद्देश्यवाचिपदवाच्यैकदेशविषयत्वात् तदनुरोधेन मध्यमनिर्देश इति ।
ननु ‘ऐतदात्म्यमिदं सर्वम्’ इत्यचेतने ब्रह्मानुप्रवेशमुक्ता तत्त्वमसीति जीवब्रह्मणोः स्वरूपैक्यमुच्यत इति शङ्कायामाह इदं सर्वमिति सजीवं जगन्निर्दिश्येति । सर्वशब्दो नाचेतनमात्रपरः । सङ्कोचकाभावेऽपि स्वारस्यभङ्गायोगात् । ‘सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनाः सत्प्रतिष्ठाः’ इति पूर्ववाक्ये सर्वशब्देन प्रजानां विशेषितत्वात् । प्रजाशब्दस्याचित्संसृष्टचेतनविशेषपरत्वात् ; ‘इदं सर्वमसृजत’ इत्यादिवाक्यान्तरे विज्ञानाविज्ञानशब्दवाच्यंचिदचिदात्मकस्य जगतः सर्वशब्देन निर्देशाच्चेति भावः । ऐतदात्म्यमिति पदं व्याचष्टे तस्यैष आत्मेति । इदं सर्वमिति पदद्वयमुद्देश्य समर्पकम् । ऐतदात्म्यम् । एतदात्मकत्वं विधेयम् । विशिष्टस्य ब्रह्मणः कारणतया प्रकृतत्वेपि एतच्छन्दः चिदचिद्विलक्षणविशेष्यांशपरः ; अर्थवशात् ॥ तदात्मकत्वं मृदात्मको घट इतिवत् स्वरूपैक्यकृतं स्यादित्यत्राह तत्र च हेतुरुक्त इति । सदायतना इत्यनेन आधाराधेयभाव उक्तः । अनेन शरीरशरीरिभावः सिद्धः । चेतनेन यावदात्मभावितया घार्यद्रव्यं हि शरीरम् । मस्मिन् वाक्ये हेतुत्वमप्रकटमिति तद्वैशद्यायाहसवं खल्विति । अत्रापि प्राणनेन सदायतनत्वं फलितम् ; सन्मूला इत्यादिवाक्येनैकार्थ्यात् । तंत्र सन्मूला इति तज्जत्वम्, सत्प्रतिष्ठा इति तल्लत्वम्, सदायतना इति तदनत्वं चोच्यते । तच्च अन्तः प्रविश्य प्रशासनेन धारकतया स्थिति1 भ्रान्तिरितीदमसहमानस्याक्षेपः । उद्देश्यत्वोपादेयत्वयोर्यथायथमारोपेण व्यवहार इति समाधानाशयः । वक्ष्यति तात्पर्यविवक्षया पुरुषमेद इति 4.1 2 अधिकरणे । 2 अपीत्यन्तस्य भंगेऽन्वयः ।
१-१-१ जिज्ञासाधिकरणम् ( चिदचिदन्तरात्मत्व श्रुतयः) ५९ तज्जलानिति शान्तः” इतिवत् ॥ तथा श्रुत्यन्तराणि च ब्रह्मणस्तद्वयतिरिक्तस्य चिदविद्वस्तुमा शारीरात्मभावमेव तादात्म्यं वदन्ति, “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा”, “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मा अन्तर्यास्यमृतः”, “य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य हेतुत्वम् । " अन्तः प्रविष्टः शास्ता जनानाम्”, ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सर्वमिदं विधृतं तिष्ठति’ इत्यादिश्रुतेः । एवं निष्कृष्टब्रह्मस्वरूपस्योपादानत्व - लयस्थानत्वायोगात्, सर्वस्य तदनत्वोक्त्या च चिदचिच्छरीरकत्वं सिद्धम् । अतः सर्वशब्दः कार्यावस्थचिदचिच्छरीरक परमात्मपरः, ब्रह्मशब्दस्य असक्कोचेन स्वरूपरूपगुणैर्निरवधिकवृहत्त्ववाचित्वात् निष्कृष्टब्रह्मणः कारणत्वानुपपत्तिरूपार्थसामर्थ्याच्च ब्रह्मशब्दः कारणावस्थचिदचिद्विशिष्टपरः । एवमुभयावस्थचिदचित्प्रकारिणो ब्रह्मण एकत्वं सामानाधिकरण्यप्रतिपाद्यमिति कार्यकारणावस्थप्रकार्येकत्वमस्य वाक्यस्यार्थः । चिदचित्प्रकारित्वं प्रातिपदिकबोध्यम् । अवस्थाद्वयविशिष्टवस्त्वेकत्वं सामानाधिकरण्यबोध्यमिति न वाक्यभेदः । अतो यथोक्त एवार्थः । अथ सर्वखल्विति वाक्यप्रतिपन्नस्य तादात्म्यस्य शरीरशरीरिभावनिबन्धनत्वं नियन्तृत्व नियाम्यत्वादिना शरीरशब्देन च विशदयितुं श्रतिवाक्यानि दर्शयति तथेति । ‘अन्तः प्रविष्टः शास्ता’ इत्येतत् सर्वात्मशब्दव्याख्यानरूपम् । अनेन शरीरात्मभावः फलितः [उक्तः]। अन्तः प्रविश्य नियाम्बत्वं हि शरीरत्वम् । तत्स्पष्टीकरणार्थमुदाहरति यः पृथिव्यामिति । यः पृथिव्याम्’, ‘य आत्मनि’ इति पर्यायद्वयेन चेतनाचेतनयोर्भगवन्तं प्रति शरीरत्वमुक्तम् । आत्मनि तिष्ठन्नित्युक्ते वेद्याममिस्तिष्ठति, तिले तैलं तिष्ठतीतिवत् बहिरबहिः स्थितिसाघारण्यात् “तद्वैशद्यार्थमाह आत्मनोऽन्तर इति । अन्तरो यमयतीत्यनेन शरीरलक्षणमुक्तम् । तस्मात् तन्त्रियाम्यं तच्छरीरमित्यर्थः । न च शिलापुत्रकस्य शरीरमितिवत् अयं निर्देशः, अपवादकामावे व्यतिरेक निर्देशस्वारस्यभङ्गायोगात् । ‘यस्य पृथिवी शरीरम्’ इति व्यतिरेकनिर्देशस्वारस्यभङ्गाभावस्य प्रकरणसिद्धत्वात् तदपवादा(दका) भावे तत्रा(अत्रा ?) प्यौपचारिकत्वाश्रयणायोगात् ; अधिकरणाधिकर्तव्यभाव-व्याप्यव्यापकभावाज्ञप्राज्ञमाव-नियाम्यनियन्तृभावरूपविरुद्धधर्मैः स्वारस्यभङ्गस्यात्यर्थमपोदितत्वाच्च । श्रयं पृथिवी न वेदेति दृष्टान्तार्थम् । यथा अचेतनं न वेति तथा चेतनोऽपीति भावः । य आत्मनीति पर्यायेण परिशुद्धात्मनो भगवच्छरीरत्वमुच्यते 3 । 1 सूर्यचन्द्रादिविशेषविषयवाक्यानामेव सत्त्वात् सर्वमिदमिति श्रुत्यभावादयमर्थानुवादः । 2 वेद्या उपरि स्थितिरग्नेः; तैलं तु तिलेऽन्यथा । बहिः-अभावदेशावच्छेदेन । अबहिःतद्भिन्नदेशरूपभावदेशावच्छेदेन । अन्तर्बहिश्च तत् सर्वमिति श्रुतिवत् उभयस्य विवक्षितत्वान्नान्यतरवाक्य वैयर्थ्यम् । अन्यथा नोभयलाभवैशद्यमित्येकः पक्षः । पक्षान्तरं तु शरीरात्मभावं प्रति बहिः स्थितेः प्रयोजकत्वाभावात् तिष्ठन् इति अबहिरित्यर्थविवक्षेति ज्ञापनाय अन्तर इति वाक्यमिति । यं न वेदेत्यंशत्रत् शरीरात्मभावं प्रत्यनुपयुक्तमपि तत्वं कथ्यत इति प्रथमपक्षाशयः । श्रुती पृथिव्या इत्यादिकं पञ्चम्यन्तम् । 3 घर्मैरिति । एतद्वाक्येनैवोक्तैरिति शेषः । 4
नन्वचेतनस्य पृथिव्यादेर्वेदनकर्तुत्व प्रसक्कयभावात् किमर्थमिदं वाक्यमित्यत्राह डझन्तार्थमिति ।
६० (नामव्याकरणशोधनम् ) आत्मानमन्तरो यमयति स त आत्मा अन्तर्याम्यमृतः”, “यः पृथिवीमन्तरे सञ्चरन् " - इत्यारभ्य “यस्य मृत्युः शरीरम्, यं मृत्युर्न वेद, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः “, " तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् " इत्यादीनि ॥ अत्रापि - “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति ब्रह्मात्मकजीवानुप्रवेशेनैव नक्षत्रचन्द्रादित्यादीनामचित्संसृष्टचेतन विशेषाणां परमात्मशरीरत्वस्य पृथगुक्तत्वात् ; ‘यः सर्वेषु भूतेषु तिष्ठन्’ इत्यनुक्तानामपि संसृष्टजीवानां परमात्मशरीरत्वस्य पृथगुक्तत्वाच्च । न च भूतंशब्दः पृथिव्याद्य चिन्मात्रपरः, ‘यस्य पृथिवी शरीरम्, ‘यस्यापः शरीरम्’ इत्यादिना इत्यादिना पृथिव्यबादीनां भूतानां पृथगुक्तत्वात् । यमात्मा न वेदेति इयत्तया वेदननिषेधः ; भगवत्प्रसादेन विना तज्ज्ञानस्य शक्यत्वनिषेधो वा क्रियते ॥ कारणावस्थमपि भगवतः शरीरम्, शरीरी च नारायणाख्यो देवताविशेष इति ज्ञापयितुमाह यः पृथिवीमन्तरे सञ्चरन्निति । मृत्युः - तमश्शब्दवाच्या प्रकृतिः; तत्रैव तमश्शब्दस्थाने मृत्युशब्दपाठात् । शरीरशरीरिभावस्तत्तन्नामभाक्वनिर्वाहक इत्याह तत्सृष्टृति । न केवलं श्रत्यन्तरानुरोधादै तदात्म्य शब्दार्थो निश्चीयते, खप्रकरणवाक्यादपीत्याह अत्रापीति । अनेन जीववाचकशब्दस्य परमात्मपर्यन्तत्वमपि श्वेतकेतुनाऽवगतमिति सिद्धम् । जीवेनात्मना - जीवशरीरकेण मया ‘व्याघ्रेण भूत्वा बहवो मयात्ताः’ इतिवत् । नामरूपे इति पदं व्याचष्टे वस्तुत्वं शब्दवाच्यत्वं चेति । तत्तद्देवादिवस्तुस्वं देवादिशब्दवाच्यत्वं चेत्यर्थः । अचिद्ब्रह्मणोस्तादात्म्यमनुप्रवेशकृतमस्तु; जीवब्रह्मणोस्तु स्वरूपैक्यकृतमेव स्यात् जीवेन मयेति श्रवणादित्यत्राह तदनुप्रविश्येति ॥ ,
ननु जीवमनुप्रविष्टस्यापि ब्रह्मणो नामवाच्यत्वं न व्याकरणात् सिध्यति ; नामरूपव्याकरणश्रुतेर्नामवाच्यत्वप्रतिपादनपरत्वाभावात् । यथा रूपव्याकरणं रूपनिष्पादनमात्रम्, न तु स्वस्य तद्बोध्यत्वापादनम् । एवं नामव्याकरणमपि शब्दसृष्टिरेव ; न तु तद्बोध्यत्वापादनमिति ॥ । नैवम्; “तद्भेदं तव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत” इति समानवाक्ये इदंशब्दवाच्यजगदात्मब्रह्मणः प्रलयदशायामुपसंहृतनामरूपस्य सृष्टिदशायां नामरूपाभ्यां व्याकृतत्वश्रवणात् । नामरूपाभ्यामिति इत्थम्भावे तृतीया । नामरूपाभ्यां विशिष्टमक्रियतेत्यर्थः । न च नामकर्तृत्वमेव नामविशिष्टत्वम्, न तु नामवाच्यत्वमिति वक्तुं युक्तम् ; सन्ज्ञासज्ञिसंबन्धव्युत्पादके नामोच्चारयितरि च पुरुषे घटादिनामविशिष्टत्वाप्रसिद्धेः । नामवाच्यस्यैव हि नामविशिष्टत्वप्रसिद्धिः ॥ उच्चारयितुः शब्दोपादानत्वाभावात् नामविशिष्टत्वाप्रसिद्धिः । कृत्स्नोपादानस्य तु ब्रह्मणः शब्दोपादानत्वयोगात् रूपविशिष्टत्ववत् नामविशिष्टत्वोपपतिरिति चेन्न — नभसि घटादिनामविशिष्टत्वाप्रसिद्धेः । न हि घटादिनामविशिष्टत्वे कथिते नभसो नामित्वं खरसतः प्रतीयते । वाच्यत्वेन शब्दसंबन्धिन्येव हि नामित्वप्रतीतिखारस्यम् । न च लक्षणादिवृत्त्याऽऽपि तत्तन्नामबोध्यत्वं ब्रह्मणः संभवतीति वाच्यम् ; लक्षणागौणवृत्तिगोचरयोः कूलमाणवकयोर्गङ्गापदा मिपदापेक्षया नामित्वाप्रसिद्धेः ॥
ननु श्येनशब्दस्य यागविशेषं प्रति गौणनामत्वं निर्णीतम् ॥ सत्यम्, तद्गत्याऽऽश्रितम्; प्राणहारित्वगुणसाम्यांव 1 परिशुद्धात्मनः सम्यग्वेदित्वात्, न वेदेति कथमित्यत्नाह इयत्तयेति ।
१-१-१ जिज्ञासाधिकरणम् (आत्मनः शरीरवाचिशब्दवाच्वत्वम् ) ६ सर्वेषां वस्तुत्वं शब्दवाच्यत्वं च प्रतिपादितम् । “तदनुप्रविश्य सच्च त्यश्चाभवत्” इत्यनेनैकाजीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशादेवेत्यवगम्यते । अतश्चिदचिदात्मकस्य सर्वस्य वस्तुजातस्य ब्रह्मतादात्म्यमात्मशरीरभावादेवेत्यवगम्यते । तस्माद्ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य तच्छरीरत्धेनैव वस्तुत्वात् तस्य प्रतिपादकोऽपि शब्दस्तत्पर्यन्तमेव स्वार्थमभिदधाति । अतः सर्वशब्दानां लोकप्रयोगान्यथासिद्धेः । “यथा वै श्येनो निपत्याऽऽदत्ते” इति हि श्रुतिः । मुख्यस्यैव हि शब्दस्य नामत्वप्रतीतिः स्वतः प्राप्ता । अत्र तु स्वतः प्राप्तस्य मुख्यत्वस्यापवादा (दका ) भावान्न तत्प्रहाणं युक्तम् । अतोऽनेन वाक्येन नामवाच्यत्वं शब्दस्वारस्यादवगम्यते । एतदैकार्थ्यात् ‘नामरूपे व्याकरवाणि’ इत्यत्रापि ब्रह्मपर्यन्तं नामरूपव्याकरणमेव विवक्षितम् । किञ्च न तावत् वर्णसृष्टिप्रतिपादनशङ्काऽपि भवितुमर्हति ; नामशब्दस्य वर्णमात्रपर्यायत्वाभावात् । ब्रह्मव्यतिरिक्तसमस्ततत्तत्पदार्थस्वरूप निष्पादनस्य रूपव्याकरणोक्तिसिद्धत्वेन “गगनासाधारणरूपशब्दनिष्पादनस्यापि रूपव्याकरणोक्त्यैव सिद्धत्वात् तत्प्रतिपादनवैयर्थ्यं च स्यात् । न च रूपशब्दस्य गोबलीवर्दन्यायेन सङ्कोचः, सङ्कोचकस्य नामव्याकरणनिर्देशस्यान्यथासिद्धत्वात् । अतो निष्पाद्यमानतचद्रूपवाचकशब्द - व्युत्पादनमेव नामत्र्याकरणं स्यात् । तत्र बहु स्यामित्यनेन स्रक्ष्यमाण बहुत्वस्य ब्रह्मविशेषणत्वापगमात्, अस्मिन् वाक्येऽपि व्याकरणस्यानुप्रवेशपूर्वकत्वप्रतिपादनाच्च व्याक्रियमाणरूपस्य ब्रह्मविशेषणत्वमवगम्यते । अतो ब्रह्मविशेषणरूपसमभिव्याहारान्नाम्नोऽपि ब्रह्मविशेषणत्वमवगम्यते । नाम्नो विशेषणत्वं वाचकतयैवेत्युपपादितम् । कृत्स्नस्य रूपस्य ब्रह्मविशेषणत्वावगमात् तत्तद्रूपप्रवृत्तिनिमित्तकत्वाच्च नाम्नां ब्रह्मविशेषणत्वं तस्य वाचकतयैवेत्यवगम्यते ; स्रक्ष्यमाण बहुत्वविषयस्य बहुशब्दस्य ः ’ उपक्रमे ब्रह्मपर्यन्तत्वेन प्रयोगदर्शनादुपक्रमो क्त बहुत्वावान्तरभिदा रूपतत्तद्रूपवाचिनां च नाम्नां ब्रह्मवाचकतया तद्विशेषणत्वमवगम्यते ‘तत् तेज ऐक्षत’, ‘ता आप ऐक्षन्त’ इति प्रकरणे तेजःप्रभृतिशब्दानां परमात्मविषयतया प्रयोगदर्शनाच्च नाम्नां ब्रह्मविशेषणत्वं तद्वाचकतयेत्यवगम्यते । चचसां वाच्यमुत्तमम्”, “हरिरखिलाभिरुदीर्यते तथैकः “, “नताः स्मः सर्ववचसां प्रतिष्ठा यत्र शाश्वती” इत्यादिस्मृतिस्वारस्याच्च नामवाच्यत्वमवगम्यते । ततश्च ‘नामरूपे व्याकरवाणि’ इति श्रुतिः चिदचिद्विशिष्टस्य ब्रह्मणस्तन्नामवाच्यत्वमेव प्रतिपादयतीति सिद्धम् ॥ ऐतदात्म्य शब्दार्थव्याख्यानं निगमयति अत इति । शरीरवाचिशब्दानां शरीरिपर्यन्तत्वं निगमयति तस्मादिति । तस्मात् - उदाहृतवाक्यैः शरीरशरीरिभावप्रतिपादनात् तस्यः तवन्नाममा निर्वाहकत्वाच्चेत्यर्थः ।
ननु न तत्पर्यन्ताभिधानमुपपद्यते । लोके तत्तद्वस्तुमात्रपर्यन्तत्वेन व्युत्पन्नतया व्युत्पत्तिभङ्गप्रसङ्गात् ; ब्रह्मण एकत्वेन द्वित्वबहुत्वानुपपत्तेश्चेत्यत्राह अतस्सर्वशब्दानामिति । लोकच्युत्पत्तिशब्दस्यायं भावः, नात्र व्युत्पत्तिविरोधः, व्युत्पन्नार्थापरित्यागात् । ब्रह्मणो लौकिकप्रमाणागोचरतया तत्पर्यन्तव्युत्पत्त्यभावः, न त्ववाचकतयेति सोऽन्यथासिद्धः । यथा लिङादेरपूर्ववाचित्वं वेदव्युत्पत्त्याऽवगम्य
- शब्दोत्पादनं न व्याकरणम्, किं तु शब्दस्य वाचकत्वाकारेणोत्पादनम् । विशेषेणोत्पादन व्युत्पादनमीश्वरकार्यम् । ईडशविशिष्टोत्पत्तिप्रदर्शक भ्युत्पादकत्वं नामरूपव्याकरणादिक्षुनेः ।
६२ अतप्रकाशिकोपते श्रीभाष्ये ( मतान्तरेष्वनुपपत्तिः ) ‘व्युत्पत्त्यवगततत्तत्पदार्थविशिष्टब्रह्माभिधायित्वं सिद्धमिति ऐतदात्म्यमिदं सर्वमिति प्रतिज्ञातार्थस्य तत्वमसीति सामानाधिकरण्येन विशेषे उपसंहारः ॥ अतो निर्विशेषवस्त्वैक्यवादिनो मेदाभेदवादिनः केवलभेदवादिनश्च वैयधिकरण्येन सामानाधिकरण्येन च ब्रह्मात्मभावोपदेशाः सर्वे परित्यक्ताः स्युः । एकस्मिन् वस्तुनि कस्य तादात्म्यमुपदिश्यते ? तस्यैवेति चेत्, तत् स्ववाक्येनैवावगतमिति न तादात्म्योपदेशाचसेयमस्ति किञ्चित् । कल्पित मेदनिरसनमिति चेत्-तत्तु न सामानाधिकरण्यतादात्म्योपदेशावसेयमित्युक्तम् । सामानाधिकरण्यं तु ब्रह्मणि प्रकारद्वयप्रतिपादनेन विरोधमेवावहेत् । भेदाभेदवादे तु ब्रह्मण्येवोलोकतो व्युत्पत्त्यभावपरिहारः कार्यवाक्यार्थवादिभिरुच्यते, तद्वत् । तत्तत्पदार्थविशिष्टशब्देन ब्रह्मणोऽपि द्वित्वबहुत्वादिकं सद्वारकमुपपन्नमित्युक्तं भवति । तत्त्वमसीत्यस्योपसंहारवाक्यतामाह इत्यैतदात्म्यमिति । सामानाधिकरण्येन विशेषे उपसंहार इति । वैयधिकरण्येन प्रतिज्ञातस्य सामानाधिकरण्येनोपसंहारः, सामान्येन प्रतिज्ञातस्य विशेष उपसंहार इत्यर्थः । ‘तदैक्षत’ इत्यादिना तच्छव्दार्थः प्रतिपन्नः ; ‘ऐतदात्म्यम्’ इत्यादिना जीवस्य ब्रह्मात्मकत्वं प्रतिपन्नम् ‘अनेन जीवेन’ इत्यदिना जीववाचिशब्दानां ब्रह्मपत्वं च प्रतिपन्नमिति नात्रोद्देश्योपादेयविभागः । अयं ह्यप्राप्तार्थप्रतिपादकवाक्यानाम् ; न तु निगमनवाक्यानाम्, तेषां प्राप्तविषयत्वात् । निगमन चोक्तार्थप्रतिष्ठार्थत्वादपेक्षित दृश्यते । तस्मान्निगमनवाक्येऽस्मिन् उद्देश्योपादेयविभागमुखेन चोद्यस्य नावकाश इति परिहार उक्तो भवति । यत्र त्वप्राप्तार्थपरवाक्ये जगद्ब्रह्मणोः सामानाधिकरण्यम्, तत्र ब्रह्मणस्तद्रूपनामभाक्तं विधेय ज्ञातव्यम् । ः एवं मेदश्रुतिघटक श्रुत्यविरोधार्थ ‘तत्त्वमसि’ इति वाक्वसामानाधिकरण्यं शरीरशरीरिभावेनोपपादितम् ॥ शरीरवाचिशब्दानां शरीरिपर्यन्ताभिधानं जातिगुणपदयोर्व्यक्तिगुणिपर्यन्ताभिधानवत् संभवतीत्याकृत्यधिकरणन्यायेनोपपिपादयिषुः शरीरवाचिशब्दानामाकृत्यधिकरणन्यायविषयतानिरूपणरूपस्य “अंशो नानाव्यपदेशात्” इत्यधिकरणस्य पूर्वपक्षभूतेष्वर्थेषु दूषणमाह-अत इति । अतः - जगद्ब्रह्मणोः श्रुतिभिः शरीरशरीरिभावप्रतिपादनात् तस्य च तत्तन्नाममा निर्वाहकत्वाच्चेत्यर्थः । भेदाभेदवादिशब्देन औपाधिक स्वाभाविक भेदाभेदवादिनोद्वयोरपि तन्त्रेणोक्तिः । केवलभेदशब्देन स्वपर्यवसितमेदो विवक्षितः । तद्वादिनश्च वैशेषिकादयः । वैयधिकरण्यं च अस्यैष आत्मा इत्येवंरूपत्वादुपदेशस्य । ब्रह्मात्मभावोपदेशपरित्यागः कथमिति शङ्कायां मृषावादिपक्षे तदनुपपति वक्तुमाह एकस्मिन्निति । शङ्कते तस्यैवेति । प्रतिवक्ति तदिति । स्ववाक्येन – ‘सत्यं ज्ञानम्’ इत्यादिना स्वरूपपरवाक्येन । स्ववाक्येन प्रतिपन्नादधिकार्थप्रतिपत्तिरस्ति वा न वा? प्रथमे सविशेषत्यम् द्वितीये तादात्म्योपदेशवैयर्थ्यमिति भावः । पुनः शङ्कते कल्पितेति । दूषयति तदिति । प्रकारद्वयोपस्थापकत्वादिति भावः । सामानाधिकरण्यतादात्म्येति । सामानाधिकरण्येन तादात्म्योपदेशावसेयमित्यर्थः । न केवलम साधकत्वम्, विरुद्धमपीत्याह सामानाधिकरण्यं त्विति । औपाधिकमेदाभेदवादे तदनुपपत्तिमाह भेदाभेदेति । / 1 “शक्तिग्रहं व्याकरणोपमान कोशाप्तवाषयात् व्यवहारतश्च । वाष्पयस्य शेषात् विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः” इत्युक्तविधा लोकव्युत्पत्तिः । 2 स्वधापयेन स्वरूपपरवाक्येनेत्येव सर्वत्र दृश्यते । परिवर्तनमत्र युक्तमिति कृतम् ।
६३ पाधिसंसर्गात् तत्प्रयुक्ताः जीवगताः दोषा ब्रह्मण्येव प्रादुःष्युरिति निरस्तनिखिलदोष कल्याणगुणात्मक ब्रह्मात्मभावोपदेशा हि विरोधादेव परित्यक्ताः स्युः । स्वाभाविकभेदाभेदवादेऽपि ब्रह्मणः स्वत एव जीवभावाभ्युपगमात् गुणवत् दोषाश्च स्वाभाविका भवेयुरिति निर्दोषब्रह्मतादात्म्योपदेशो विरुद्ध एव । केवलभेदवादिनां चात्यन्तभिन्नयोः केनापि प्रकारेणैक्यासंभवादेव ब्रह्मात्मभावोपदेशा न संभवन्तीति सर्ववेदान्तपरित्यागः स्यात् ॥ । निखिलोपनिषत्प्रसिद्धं कृत्स्नस्य ब्रह्मशरीरभावमातिष्ठमानैः ब्रह्मात्मभावोपदेशाः सर्वे सम्यगुपपादिता भवन्ति । जातिगुणयोरिव द्रव्याणामपि शरीरभावेन विशेषणत्वेन ‘गौरश्वो मनुष्यो देवो जातः पुरुषः कर्मभिः’ इति सामानाधिकरण्यं लोकवेदयोर्मुख्यमेव दृष्टचरम् । जातिगुणयोरपि [हि] द्रव्यप्रकारत्वमेव ‘खण्डो गौः’ ‘शुक्लः पटः’ इति सामानाधिकरण्यनिबन्धनम् । मनुष्यत्वादिक्लेशकर्माद्यस्पृष्टः सार्वज्ञ्यादिगुणको हीश्वरः । अत ईश्वरस्य निर्दोषस्य तदननीश्वरतादात्म्यन्याषातादीश्वर तादात्म्योपदेशो विरुद्ध इत्यर्थः । परित्यक्ताः स्युः । परित्यागः फलित इत्यर्थः । स्वाभाविकमेदाभेदपक्षे तदनुपपत्तिमाह स्वाभाविकेति । गुणवद्दोषाश्च स्वाभाविका भवेयुरिति । ब्रह्मण ईश्वरांशेन सार्वश्यादिगुणा इव जीवांशेन दोषाश्च स्वाभाविका भवेयुः ; “अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते । अन्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः” इति संसारप्रवाहानन्त्येन दोषा नित्याः स्युरित्यर्थः । यद्वा ततद्दोषसंबन्धार्हत्वं स्वाभाविकं स्यादित्यर्थः । ततः किमित्यत्राह इति निर्दोषेति । सब्रह्मात्मादिशब्दानां नारायणशब्द पर्यवसायित्वेनेश्वरातिरिक्तवस्तु निषेघादिभिरीश्वरस्यैव ब्रह्मत्वं सिद्धं कृत्वा, निरवद्यं निरञ्जनमित्यादिश्रत्युक्तं ब्रह्मणो निर्दोषत्वं नाभिप्रेत्य निर्दोषब्रह्मतादात्म्योपदेशविरोध उक्तः । निर्दोषश्रुतिविरोधः फलितः ॥ तर्हि निर्दोषश्रुतिविरोध इति वक्तव्ये. किमर्थं निर्दोषब्रह्मतादात्म्योपदेशो विरुद्ध इत्युक्तम् ॥ उच्यते । हेयानर्हतादात्म्यं हि पुरुषार्थः । स्वरूपैक्ये च ब्रह्मणो हेयार्हत्वाद्धेयार्हब्रह्मतात्म्यधीन हेयापहा । तत्तादाम्यानुभवो-ऽप्यपुरुषार्थश्चेत्युपायत्वप्राप्यत्वविरोधात् तादात्म्योपदेशपर वाक्यस्य न प्रयोजनपर्यवसानं स्यात् । न हि असिना छिद्यमानस्य कालाग्निना दह्यमानस्य च पुरुषस्योपासनमुपासिकानथ परिहरति । न च तत्तादात्म्यधीः कस्यचित्पुरुषार्थः, तद्वदिति ज्ञापयाय तादात्म्योपदेशो बिरुद्ध इत्युक्तम् । स्वनिष्ठ भेदपक्षं दूषयति केवलेति । अत्यन्तभिन्नयोः -प्रकारपकारिभावरहितयोरित्यर्थः । केनापि प्रकारेण । विशेष्यांशतोऽप्यैक्यासिद्धिरित्यर्थः ॥ . एवं पूर्वपक्षचतुष्टयेऽप्यनुपपत्तिमुक्ता स्वपक्षे वैषम्यमाह निखिलेति । सम्यक्छब्देन मुख्यत्वं विवक्षितम् । कथं मुख्यत्वमित्यत्राह जातिगुणयोरिति । दण्डादिव्यावृत्त्यर्थमाह शरीरभावेन विशेषणत्वेनेति । कथं मुख्यमेव दृष्टचरमित्युच्यते ; अमुख्यत्वेऽपि हि प्रयोगः संभवति । अमुख्यत्वं च शरीरस्य द्रव्यत्वात् । न हि दण्डकुण्डलादिशब्दानां विशेष्यपर्यन्ताभिघानं दृष्टम् । तस्मादद्रव्यत्वे सति विशेषणत्वम्, जातिगुणयोरन्यतरत्वे सति विशेषणत्वं वा मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजकमिति शरीरवाचिशब्दस्य विशेष्यपर्यन्ताभिधानममुख्यमित्यत्राह जातिगुणयोरपीति । एवकारेण जातिगुणयोरन्यतरत्वादेः प्रयोजकत्वव्युदासः । ततः किमित्यत्राह मनुष्य1 हेयापहा । “स्रगियं यदि जीवितापहा” इति रघुवंश इव रूपनिर्वाह इति भा० प्र०.
६४. श्रुतप्रकाशिकोपेते श्रीमाप्ये (जातिगुणशरीरानुगतनिमित्तम् । ) विशिष्टपिण्डानामप्यात्मनः प्रकारतयैव पदार्थत्वात् ‘मनुष्यः पुरुषः षण्डो योषिदात्मा जातः’ इति सामानाधिकरण्यं सर्वत्रानुगतमिति प्रकारत्वमेव सामानाधिकरण्यनिबन्धनम् ; न परस्परव्यावृत्ता जात्यादयः । स्वनिष्ठानामेव हि द्रव्याणां कदाचित् कचिद्दव्यविशेषणत्वे मत्वर्थीयप्रत्ययो दृष्टः, दण्डी, कुण्डलीति ; न पृथक्प्रतिपत्तिस्थित्यनर्हाणां द्रव्याणाम् । । तेषां विशेषणत्वं सामानाधिकरण्यावसेयमेव ॥
इत्यादिषु लाक्षणिकत्वं युक्तम् ; यदि “गौरश्वो मनुष्यो देवः पुरुषो योषित् षण्ड आत्मा कर्मभिर्जातः” इत्यत्र ’ खण्डो मुण्डो गौः’ ‘शुक्कुः पटः’ ‘कृष्णः पटः’ इति जातिगुणवदात्मप्रकारत्वं मनुष्यादिशरीराणामिष्यते, तर्हि जातिव्यक्तयोरिव प्रकारप्रकारिणोः शरीरात्मनोरपि नियमेन सह प्रतिपत्तिः स्यात् ; न चैवं दृश्यते । न हि नियमेन गोत्वादिवत् आत्माश्रयतयैवात्मना सह मनुष्यादिशरीरं पश्यन्ति । अतो मनुष्य आत्मेति सामानाधिकरण्यं लाक्षणिकमेव ॥ नैतदेवम् ः मनुष्यादिशरीराणामव्यात्मैकाश्रयत्वं त्वादीति । अत्र प्रकार शब्दो विशेषणमात्रपरः । एवकारेण दण्डकुण्डल। दिव्यावृत्तिरभिप्रेता । सामानाधिकरण्यं… अनुगतमितीति । सामानाधिकरण्यस्यानुगतत्वादनुगतमेव तत्प्रयोजकं वाच्यमित्यर्थः । जातित्व गुणत्वादेः प्रयोजकत्वं किं न स्यादित्यत आह न परस्परेति । परस्परव्यावृत्ताः परस्परा
ननुयायिनः । जात्यादयः - जातित्वादयः । अयमभिप्रायः गङ्गायां घोष प्रवाह कूलो पद प्रवृत्तिनिमित्तभूतस्यानुयायिनः आकारस्यादर्शनात् अत्र तु यत्र यत्र विशेष्यपर्यन्ताभिधायित्वेन प्रयोगो दृष्टचरः, तत्र तत्र प्रयोगविषयेष्वनुवृत्ताकारदर्शनात् अ
ननुगताकारप्रयोजकत्वाश्रयणेन क्वचिल्लाक्षणिकत्वं वक्तुमयुक्तम् । अन्यथाअद्रव्यत्वे सति विशेषणत्वं विशेष्यपर्यन्ताधाने प्रयोजकमित्यपि न वक्तव्यम् ; जातित्वं गुणत्वं वा प्रयोजकमस्तु, अन्यल्लाक्षणिकं स्यात् । न च तथा भवदभिमतम् ; जातिगुणवाचिनामुभयेषामपि हि शब्दानां विशेष्यपर्यवसायित्वेन प्रयोगदर्शनात् । तस्मात् शरीरवाचिशब्दानामपि विशेष्यपर्यन्ताभिघायित्वेन प्रयोगदर्शनात् प्रयोगेषु सर्वेष्वनुवृत्तैकाकारदर्शनाच्च अ
ननुवृत्ताकारान्तरस्य प्रयोजकत्वकल्पनेनान्यतरस्या मुख्यत्व कल्पनाया अयुक्तत्वात् इदमपि सामानाधिकरण्यं जातिगुणवाचि शब्दानामिव मुख्यमेवेति ।
ननु प्रकारभूतद्रव्यवाचिपदानां मत्वर्थीयप्रत्ययनिरपेक्षविशेष्यपर्यन्ताभिधायित्वं दण्डादिशब्दानां तथात्वादर्शनादनुपपन्नमिति शङ्कायां प्रकारतयैवेति पूर्वमभिप्रेतं विवृणोति स्वनिष्ठानामेव हीति । अपृथक सिद्ध कारवाचित्वमेव मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यप्रयोजकमित्यर्थः । यत्रयंत्र नियतप्रकारत्वम्, तत्र तत्र सहोपलम्भनियमो दृष्टः । शरीरे तु सहोपलम्भनियमाभावादपृथक सिद्ध विशेषणत्वमनुपपन्नम् । तस्मात् सामानाधिकरण्यं लाक्षणिक मित्यभिप्रायेण चोदयति यदि गौरव इति । पक्षे व्यापकविपर्ययं दर्शयति न चैवमिति । तत् विवृणोति नहीति । राज. किमित्यत्राह अत इति । परिहरति नैतदेवमिति । सहोपलम्भनियमस्य नियतप्रकारत्व प्रयोजकत्वे । दूषणं वक्ष्यन् प्रथमं शरीरस्यापृथग्विशेषणत्वं प्रतिपन्नमिति दर्शयति मनुष्यादीति । आत्मैकाश्रयत्वतदेकार्थत्वयोरन्यतरान्वितं प्रकारत्वमपृथक सिद्धविशेषणत्वमित्यर्थः । यद्वा प्रकारत्वशब्देन प्रकारतयैव प्रतीतिर्विवक्षिता ; उत्तरत्र प्रकारत्वविवरणे आत्मविशेषणतयैव प्रतीतेरिति वक्ष्यमाणत्वात् । तेन 1 प्रयोगदर्शनाद्धि न तथा भवदभिमतमित्यन्वयः ।
ww १-१-१ जिज्ञासाधिकरणम् (शरीरें जातिगुणसारूप्योपपादनम् ) । ६५ तदेकप्रयोजनत्वं तत्प्रकारत्वञ्च जात्यादितुल्यम् । आत्मैकाश्रयत्वमात्मविश्लेषे शरीरस्यं विनाशादवगम्यते । आत्मैकप्रयोजनत्वञ्च त[त्त]त्कर्मफलभोगार्थतयैव सद्भावात् । तत्प्रकारत्वमपि, देवो मनुष्य इत्यात्मविशेषणतयैव प्रतीतेः । एतदेव हि गवादिशब्दानां व्यक्तिपर्यन्तत्वे हेतुः एतत्स्वभावविरहादेव दण्डकुण्डलादीनां विशेषणत्वे दण्डी कुण्डलीति मत्वर्थीयप्रत्ययः । देवमनुष्यादिपिण्डानामात्मैकाश्रयत्वतदेकप्रयोजनत्वतत्प्रकारत्वस्वभावात् देवो मनुष्य आत्मेति लोकवेदयोः सामानाधिकरण्येन व्यवहारः । जातिव्यक्त्योर्नियमेन सहप्रतीतिरुभयोश्चाक्षुषत्वात् । आत्मनस्त्वचाक्षुषत्वात् चक्षुषा शरीरग्रहण वेलायामात्मा न गृह्यते । प्रथग्ग्रहणयोग्यस्य प्रकारतैकस्वरूपत्वं दुर्घटमिति मा वोचः जात्यादिवत् तदेकाश्रयत्यतदेकप्रयोजनत्वतद्विशेषणत्वैः शरीरस्थापि तत्प्रकार तैकस्वभावत्वावगमात् । सहोपलम्भनियमस्त्वेकसामग्रीवेद्यत्वनिबन्धन इत्युक्तम् । विशेष्यप्रतिपत्तिसंभवे दण्डकुण्डलादिवत् पृथगवस्थितत्वेन प्रतिपन्नत्वाभावः फलितः । तदेकाश्रयत्वं तदेकप्रयोजनत्वं विशेष्यप्रतीतिसंभवे पृथक स्थितत्वेनाप्रतीतत्वं चापृथक सिद्ध विशेषणत्वे प्रयोजकमित्यर्थः । तेषु त्रिषु आत्मैकाश्रयत्वं पक्षे दर्शयति - आत्मैकाश्रयत्वमिति । तदेकप्रयोजनत्वं दर्शयति-आत्मैकेति । न च दुःखैकफलनारकशरीरेष्वव्याप्तिः ; दुःखस्याप्रयोजनत्वेऽपि तेषां पापक्षयरूपप्रयोजनहेतुत्वात् । न च पत्यादिप्रीतिहेतुषु भृत्यादिदेहेषु तदेकप्रयोजनत्वादतिव्याप्तिः शङ्कनीया; तत्प्रयोजन साधनत्वेन. विना स्थित्यभावस्य विवक्षितत्वात् । क्रयविक्रयाद्यर्हस्य तदेकप्रयोजनत्वं हि न सिध्यति । तत्कर्मफलभोगार्थतयैव सद्भावादिति युक्तम् । अतस्तदेकप्रयोजनशब्दस्याप्ययमेवार्थः । अथ तत्प्रकारत्वं दर्शयतितत्प्रकारत्वमपीति । विशेष्यप्रतीतिसिद्धौ तत्पृथक सिद्धत्वेन प्रतीत्यभावस्तत्प्रकारत्वशब्देन
- विवक्षित इत्यर्थः । पञ्चमीनिर्देशस्त्वौपचारिकः । यद्वा, तत एव तत्प्रकारखेनोक्तमित्यर्थः । अथवा. पृथकूस्थितत्वप्रतीत्यभावे प्रतीतिविशेषो हेतुतयोदाह्रियते । एतत् तदेकाश्रयत्वादित्रितयं संपक्षेऽपि दर्शयति एतदेव हीति । विपक्षव्यावृत्तत्वं दर्शयतिएतत्स्वभावेति । ईदृशप्रकारत्वमेव पक्षे मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यहेतुरित्याहदेवमनुष्यादीति । सहोपलम्भनियम स्यान्यथा सिद्धिमाह-जातिव्यक्त्योरिति । सहोपलम्भनियमस्त्वेकसामग्रीवेद्यत्वप्रयुक्तः, न स्वपृथक सिद्धविशेषणत्वप्रयुक्त इत्यर्थः । चाक्षुषत्वं प्रदर्शनार्थम् । उपाधेरपक्षस्थत्वं दर्शयति-आत्मनस्त्विति । एकसामग्रीवेद्यत्वमपृथक सिद्ध विशेषणत्वे प्रयोजकमिति तदभावात् नापृथक्सिद्धविशेषणत्वमित्याशङ्कयाह - पृथग्ग्रहणेति । स्वं रूपं स्वरूपम् - धर्मः । प्रकारत्वमेव धर्मो यस्य तत् प्रकारतैकस्वरूपम् । एकेशब्देन कदाचिदप्रकारत्वस्य न्युदासः । ततश्च दण्डकुण्डलादिवैषम्यम् । किमपृथक सिद्धविशेषणत्वे प्रयोजकान्तराभावादेकसामग्रीवेद्यत्वं प्रयोजकमुच्यते, उतास्यानुयायित्वात् इदमपि प्रजोजकमुच्यते इति विकल्पमभिप्रेत्य प्रथम शिरः प्रतिवदति जात्यादीति । प्रकारतैकस्वभावत्वावगमादित्यत्र स्वभावशब्देनैव प्रकारत्वनियमे सिद्धेऽप्येकशब्दप्रयोगः एकसामग्री वेद्यतास्वभावत्वव्यावृत्त्यर्थः । यदि तदेकाश्रयत्वादिरेवापृथग्विशेषणत्वे प्रयोजकः, कथं तर्हि जात्यादौ सहोपलम्भनियम इत्यत्राह - सहोपलम्भेति । अनेन पूर्वं चाक्षुषत्वो क्तिरेकसामग्री चेयत्वप्रदर्शनार्थेति स्पष्टम् । . 2-9
६६ श्रुतप्रकाशिकोपेते श्रीभाष्ये. (निष्कर्षकशब्दवैलक्षण्यम् ) यथा चक्षुषा पृथिव्यादेर्गन्धरसादिसंबन्धित्वं स्वाभाविकमपि न गृह्यते, एवं चक्षुषा गृह्यमाणं शरीरमात्मप्रकार तैकस्वभावमपि न तथा गृह्यते ; आत्मग्रहणे चक्षुषः सामर्थ्याभावात् । नैतावता शरीरस्य तत्प्रकारत्वस्वभावविरहः । तत्प्रकारतैकस्वभावत्वमेव सामानाधिकरण्यनिबन्धनम् । आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दः सहैव प्रकारतया प्रतिपादयति ॥
ननु च शाब्देऽपि व्यवहारे शरीरशब्देन शरीरमात्रं गृह्यत इति नात्मपर्यन्तता शरीरशब्दस्य ॥ नैवम्; आत्मप्रकार भूतस्यैव शरीरस्य पदार्थविवेक प्रदर्शनाय निरूपणान्निष्कर्षकशब्दोऽयम्ः यथा गोत्वं शुक्लत्वम आकृतिः गुण इत्यादिशब्दाः ॥ अथ (त्र ?) पूर्वोक्तविकल्पे द्वितीयशिरसि चापृथग्विशेषणत्वप्रयोजकतयोच्यमानमिदं किं मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यप्रयोगविषयेषु सर्वेष्वनुयायि, उत भवदभिमतजातिगुणेष्वेवानुयायीति विकल्पोऽभिप्रेतः । तत्र न प्रथमः ; देहात्मनोरेकसामग्रीवेद्यत्वाभावात् । ततश्च अनुगतप्रयोजक सद्भावादपृथग्विशेषणत्वस्याप्यनुगतत्वेन सामानाधिकरण्यप्रयोगाणां सर्वेषां मुख्यत्वे संभवत्यपि अ
ननुगतमाकारं प्रयोजकत्वेनाङ्गीकृत्य, अपृथग्विशेषणत्वमपि सङ्कुचितं कृत्वा तद्वारा सामानाधिकरण्यप्रयोगाणाममुख्यत्वाश्रयणमनुपपन्नमित्यर्थसिद्धम् ; प्रकारतैकस्वभावत्वावगमादित्यत्रैकशब्देन एकसामग्रीवेद्यतास्वभावत्वस्य, व्युदस्तत्वात् । अथ पराभिमतस्थलानुयायित्वरूपे द्वितीयशिरसि गन्धादौ व्यभिचारेण दूषण वदन् एकसामग्री वेद्यत्वस्यापृथग्विशेषणत्वाव्यापकत्वमाह यथेति । न चाक्षुषस्यापि गन्धस्य पृथिवी नियतप्रकारत्वहानिः । एवं शब्दो यथा शब्दप्रतिनिर्देशरूपः । कस्मादग्रहणमित्यत्राह आत्मग्रहणे इति। व्यापकत्वाभावफलमाह - नैतावतेति । एतावता - चक्षुषा ग्रहणाभावमात्रात् । न तत्प्रकारत्वस्वभावहानिः । एकसामग्री वेद्यत्वस्य । पृथग्विशेषणताव्यापकत्वाभावात् तदेकाश्रयत्वादिप्रयोजकान्तर सद्भावाच्चेति भावः । ततः किमित्यत्राह - तत्प्रकारतेति । एकशब्द एकसामग्री वेद्यतास्वभावत्वव्युदासपरः । एवकारः सहोपलम्भनियमव्युदासार्थः । अपृथग्विशेषणत्वे सति शरीरस्य, केनापि प्रमाणेन तत् तथोपलभ्येतेत्यत्राह - आत्मेति । शब्दोपि न शरीरिपर्यन्ताभिधायीति चोदयति-
ननु चेति । परिहरतिनैवमिति । इमौ चोद्यपरिहारौ आकृत्यधिकरणेऽपि समानावित्यभिप्रायेणाह यथा गोत्वमिति ॥ निष्कर्षकशब्दानां विशेष्यपर्यन्ताभिधायकत्वाभावे चेतनाचेतनवाचिनः शब्दाः न ब्रह्मपर्यन्तामिघायिनो भवन्ति; “यस्यात्मा शरीरम् “, “यस्य पृथिवी शरीरम् ” इत्यादिष्वात्मादिशब्दानां निष्कर्षकशब्दत्वावगमादिति चेत्उच्यते। निष्कर्षकशब्दो द्विविधः, वैवक्षिकनिष्कर्षकः नियतनिष्कर्षकश्चेति । तत्र शरीरादिशब्दाः नियतनिष्कर्षकाः, आत्मादिशब्दा वैवक्षिक निष्कर्षकाः, गोत्वादिशब्दवत् शुक्लादिशब्दवंच ; प्रयोगस्य व्यवस्थापकत्वात् । निष्कर्षकानिष्कर्षक विभागोऽपि हि प्रयोगाधीनः । तद्वदयमपि विभागस्तन्मूलः ॥
ननु शुक्लादिशब्दाः नियत निष्कर्षका एव । गुणिपर्यन्तता तु “गुणवचनेभ्यो मतुपो लुग् वक्तव्यः” इति स्मरणात् ॥ मैवम् जातिवाचिशब्दवत् अपृथक सिद्धविशेषणवा चित्वाविशेषाच्छुक्कादिशब्दानाम् प्रत्ययस्तु द्विशब्दस्थ द्विवचनवत् प्रकृत्यनतिरिक्तार्थः त्रिलिङ्गतया शब्दसाधुत्वाय, स्वरविशेषाय च 1 धैवक्षिको निष्कर्षः निष्कर्षकत्वं यस्येति बहुव्रीहिः । एवमुपर्यपि । ;
१-१-१ जिज्ञासाधिकरणम् (भाट्टप्राभाकरक्षणम् ) अतो गवादिशब्दवत् देवमनुष्यादिशब्दा आत्मपर्यन्ताः । ! ६७ भवति । तत एव हि “गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति” इति नैघण्टुकाः । यतः स्वतो गुणिपर्यन्तानामेव गुणवाचिपदानां लिङ्गखरार्थं मतुब्लोपस्मरणम् ; न तु गुण्यभिधानशक्तिविरहिणां गुण्यभिधानार्थम् — अत एव हि रागशब्दस्य रक्तपदतुल्यतया प्रयोगाभावः । अतः शुक्लादिशब्दा वैवक्षिकनिष्कर्षकाः । नियत निष्कर्षकाणामपि तथात्वं प्रतियोगिविशेषसापेक्षम् ; न तु सार्वत्रिकम् । “रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः । पुण्यो गन्धः पृथिव्यां च” इति [रसगन्धादिशब्दानामपि परात्मपर्यन्ततया प्रयोगात् । अतः पृथिव्याद्यपेक्षयैव गन्धादिशब्दानां नियतनिष्कर्षकत्वम् । शरीरवाचिशब्दानां शरीरिपर्यन्ततां निगमयति अतो गवादीति ः आत्मपर्यन्तशक्तयः । शरीरवाचिशब्दैरात्मबोधनं शक्तिनिबन्धनतया मुख्यमित्यर्थः । आत्मपर्यन्ताः- 1
ननु यद्यपि शरीरवाचिशब्दा आकृतिनयगोचराः, तथापि तैः शरीरिवोधनं लाक्षणिकम् ; गवादिशब्दैरपि व्यक्तिवोधनस्य लाक्षणिकत्वात् । संबन्धानुपपत्तिम्यां हि लक्षणा 1 जातिमात्रस्याऽऽनयनाद्यनर्हत्वात् व्यक्तिसंबन्धाच्च गवादिशब्दै व्यक्तिर्लक्षणया बोध्यते; प्रयोगे अन्यधासिद्धे शक्तिकल्प नानुपपतेः ॥ नैवम् ; " अयुत सिद्धविशेषणवाचिशब्दत्वस्य विशेष्यलक्षणा प्रतिबन्धकत्वात् । अन्यथा जात्यादिशब्दानामपि सम्बन्धानुपपत्त्यविशेषेण क्वचिद्व्यक्तिपर्यन्तप्रयोगप्रसङ्गः ॥ आकृतिरेव शब्दशक्तिविषयः । व्यक्तिबोधस्त्वर्थसामर्थ्यात् । प्रत्यभिज्ञायां संस्कार सचिवेन्द्रियवत् अर्धसामर्थ्य सचिवा शब्दशक्तिर्विशिष्टबोधसामग्री’ इत्यपि न युक्तम् ; जात्यादिशब्दश्रवणेऽपि विशिष्टबोधप्रसङ्गादेव । न हि सत्यां सामग्र्यां कार्यानुदय उपपद्यते ॥
ननु गवादिशब्दाः जातेर्व्याक्तिपरतन्त्रता रूपम मिदधति । अतस्तैव्यक्तिपयेन्तबोधः । जात्यादिशब्दास्तु जातिस्वरूपमात्रम् । अतस्तैर्व्यक्तिपर्यन्तवोधाभावः ॥ नैवम्, जात्यादिशब्दैर्द्वव्यपरितन्त्र्याप्रतिपत्तौ द्रव्यविलक्षणतया जातिप्रतीत्यनुपपत्तेः ।
ननु न जातेद्रव्यप्रकार तक स्वभावत्वरूपं पारतन्त्र्यांबोधनं विवक्षितम्, किन्तु विशेषणान्तरान्वय-कारकभावानर्हत्वरूप पारतन्त्र्यायोधनमिति । उच्यते । गवादिशब्दैः तादृक्तबोधन मेकपदेन विशेष्याभिधाननिबन्धनम् । न हि कुण्डलीत्युक्ते कुण्डलस्य रुचिरत्वादिविशेषणान्वयः, कुण्डलेन भूषित इतिवत् कारकभावश्च भवति । एवं च सति पारतंत्र्याबोधनाद् व्यक्त्यत्रोधनेऽभ्युपगम्यमाने अन्योन्याश्रयः स्याद् — पारतन्त्र्याबोधनाद्विशेप्यावोधनम् तदबोधनात् पारतन्त्र्याबोधनमिति । किञ्च गवादिशब्दानां विशेष्यबोधनशक्ति विरहे जात्यादिशब्दानामिव पारतन्त्र्यत्रोधनासामध्ये प्रसङ्गः । धर्मिबोधनासामर्थ्य व्यापकतया जात्यादिशब्देषु दृष्टं पारतन्त्र्यबोधनासामर्थ्य गवादिशब्देभ्यो निवर्तमानं स्वव्याप्यं धर्मिबोधनासामर्थ्यं कथं न निवर्तयेत् ॥ द्रव्यांशे
- जातिवाचकं पदं व्यक्तौ लाक्षणिकमिति भट्टमतं क्षेप्तुमाह
नन्विति । 2 लक्षणारूपसंबन्धो नापृथक्सद्धविशेष्यत्वमित्यर्थः । 3 जातिवाचिनः पदस्य व्यक्तिविषये ऽनुभावकत्वमिति अन्विताभिधानवादिप्रभाकाराशयं क्षेप्तुमनुवदति आकृतिरिति ।
६८ श्रुतप्रकाशिकोपेते श्रीमाष्ये ( जात्यादिमात्रवाचित्वपक्षे दोषाः ) शक्तिर्मा भूत् ; जातेर्व्यक्तिपारतन्त्र्यमपि गवादिशब्दा बोधयेयुरिति न वाच्यम् - द्रव्यांशे शक्तिविरहितेर्जात्यादिशन्देरपि द्रव्यपारतन्त्र्यबोधनप्रसङ्गात् । अतः शब्दशक्तिनिबन्धनैव गवादिशब्दैर्द्रव्यप्रतीतिः । क्ष किञ्च यदि जातिमात्रमेव मुख्यार्थः, तर्ह्यमुख्यभूतद्रव्यपर्यन्तप्रयोगादपि जातिमात्रे गवादिशब्दानां प्रचुरप्रयोगप्रसङ्गः ; मुख्यार्थतद्गतगुणसंबन्धिविषयप्रयोगादपि मुख्यार्थे प्रचुरप्रयोगदर्शनात् । गङ्गाग्निसिंहादिशब्दानां कूलमाणवकादिविषयप्रयोगादपि मुख्यार्थे प्रचुरप्रयोगो दृष्टः । न तु व्यक्तिनिष्ठा गौः, व्यक्तिनिष्ठो महिष इति प्रयोगः । जातिरेव मुख्यार्थश्चेत् — गवादिशब्दानां जातिमात्रविषयप्रयोगे त्वतलादिनैरपेक्ष्यं च स्यात् । न हि गङ्गादिशब्दाः प्रवाहादिविषयप्रयोगे भावप्रत्ययान्ताः प्रयुज्यन्ते ॥ प्रचुरप्रयोगाभावों भावप्रत्ययापेक्षत्वं च गवादिशब्दानां व्यक्तौ निरूढलेणा योगादिति चेन्न । प्रचुरप्रयोगानुगतिर्हि लक्षणाया निरूढिः । ततश्च प्रचुरप्रयोगाभावात्प्रचुरप्रयोगाभाव इति परिहारो न घटते । प्रसन्नस्य प्रसञ्जनीयाभावपरिहार्यत्वाभावात् । न ह्यग्निमत्त्वप्रसङ्गोऽग्न्यभावात् परिहियते । भावप्रत्ययानपेक्षत्वप्रसङ्गश्च दुष्परिहरः; शुक्कादिशब्दानां गुणिबोधने निरूढलक्षणाभ्युपगमेऽपि पटस्य शुक्ल इति गुणमात्रपरप्रयोगे भावप्रत्ययानपेक्षत्वदर्शनात् । शुक्लादिशब्दानां हि लुप्तमतुबर्थलक्षणा परैरभ्युपगता यथा समासेषु प्रातिपदिके नाप्रयुक्त विभक्त्यर्थ लक्षणेष्यते ॥ लक्षणाया निरूढिर्नाम सर्वप्रयोगानुगतिरिति चेन्न गोशब्दे तदभावप्रसङ्गात् [ अनुवृतो गोव्यवहार इति गोत्वमात्रेऽपि हि गोशब्दः कापि प्रयुज्यते । किञ्च सर्वप्रयोगानुगता वृत्तिलक्षणैव न स्यात् ; आकृतिविषयवृत्तिवत् ॥
ननु अनन्यथासिद्धा वृतिर्मुख्य ॥ सत्यम्; अनन्यथासिद्धिश्व दर्शिता ; अयुतसिद्धविशेषणवाचिशब्दानां विशेष्यलक्षणासाम- भावोपपादितत्वात् ।
ननु त्वत्पक्षे धर्मिवाचिपदानां भावप्रधान निर्देशेषु मुख्यैकदेशे लक्षणाऽभिमता ; अस्माकं तु गवादिशब्दानां व्यक्तौ लक्षणा । तत्र शक्तेर्विशेषणविशेष्यगोचरत्वकल्पने भवतां गौरव स्यात् ॥ स्यादेव । स तु नात्र दोषः, लाघवेन निर्वाह योग्यस्थले गौरवस्य दोषत्वाभावात् । लक्षणाश्रयणानुपपत्तिर्हि दर्शिता । ; किञ्च गामानयेत्यादिषु व्यक्तिप्रतीतिरर्थसामर्थ्याद्भवति चेत् तर्हि विवक्षिताया जातेः प्रतिसंबन्धिभूतं द्रव्यमुपसर्जनतया प्रतीयेत । ततश्च पुत्रः पितेतिवत् खण्डो गौरयमिति सामानाधिकरण्यं नं स्यात् । पुत्रमानयेत्यत्र हि ममेत्यनुक्तेऽप्यर्थवशात् विवक्षितपुत्रप्रतिसंबन्धिपितृत्वेन प्रतीयमानो देवदत्तः पुत्रं प्रति गुणतया प्रतीयते ; न तु विशेष्यत्वेन प्रधानतया ; तदवच्छेदार्थत्वात् तस्य । गवादिशब्देषु तु द्रव्यमेव प्रधानतया प्रतीयते । गङ्गायां घोष इत्यत्र प्रवाहस्याविवक्षितत्वात् कूलस्य तदुपसर्जनतया प्रतीत्यभावः । छत्रिणो गच्छन्तीत्यत्र तु अच्छत्रिणां छत्रिप्रतिसंबन्धितया प्रतीयमानत्वाभावात् छत्रिगुणभावेन प्रतीत्यभावः । अतो विवक्षितार्थप्रतिसंबन्धितया प्रतीयमानत्वेऽपि प्रधानतया प्रतीयमानं द्रव्यं शब्दशक्त्यैव प्रतीयते ; अयं पुत्रीत्यत्र पुत्रिशब्देन प्रतीयमानपुत्रिवत् । मुख्यार्थतद्गुणयोः संबन्धिनौ लक्ष्यार्थगौणार्थी तद्विषयप्रयोगादित्यर्थः । इदमेवाह गंगेत्यादिना ।
१-१-१ जिज्ञासाधिकरणम् (विशिष्टे शक्तिप्रहे दोषाभावः) - ६९. एवं देवमनुष्यादिपिण्डविशिष्टानां जीवानां परमात्मशरीरतया तत्प्रकारत्वाजीवात्मवाचिनः शब्दाः परमात्मपर्यन्ताः । अतः परस्य ब्रह्मणः प्रकारतयैव चिदचिद्वस्तुनः पदार्थत्वमिति तत्सामानाधिकरण्येन प्रयोगः । अयमर्थो वेदार्थसङ्ग्रहे समर्थितः ॥ किञ्च विशेष्यांशे शक्तिमता रूपिशब्देन रूपप्रतिपत्तिदर्शनात् तद्रहितेन रूपशब्देन विशेष्यप्रतिपत्तिदर्शनाभावाच्च शब्दविशेषोपश्लिष्टविशेष्यप्रतीतिरन्वयव्यतिरेकाभ्यां शब्दशक्तिनिबन्धनेत्यध्यवसीयते । अतो गवादिशब्दानां विशेष्यबोधकत्वं शक्तिनिबन्धनम् ॥
ननु व्यक्तीनामानन्त्यात् ताभिः संबन्धग्रहोऽनुपपन्नः । एकस्यां व्यक्तौ शब्दवाच्यता व्युत्पत्तिश्चेत् — व्यक्त्यन्तरस्य गोशब्दवाच्यत्वं न स्यात् ॥ नैवम् ; यत्र जातिस्तत्रायं शब्द इत्येवंरूपत्वाद्वयुत्पत्तेः । अतो वाच्यतानिमित्तस्यैकत्वात् प्रत्येकव्युत्पत्त्यनपेक्षा, युगपत्सर्वव्यक्तीनां वाच्यताव्युत्पत्तिः, एकैकव्यक्ती वाच्यतानिमित्तस्य पुष्कलत्वादेकैकव्यक्तेर्वाच्यत्वसिद्धिश्च घटते । कथमनन्तानां व्यक्तीनां बुद्धावारोपणं शक्यमिति चेत् — व्यक्तीनां शब्दवाच्यत्वं प्रतिषेधता त्वया व्यक्तयः प्रतिपन्नाः, न वा ? न चेत्तासु शब्दवाच्यत्वविषेधो ऽनुपपन्नः । “लब्धरूपे कचित् किञ्चित् तादृगेव निषिध्यते” । प्रतिपन्नाश्चेत्किं कतिपयव्यक्तयः प्रतिपन्नाः उत सर्वाः ? प्रथमे सर्वव्यक्तीनां शब्दवाच्यत्वनिषेधायोगः । द्वितीये त्वमिव सर्वे सर्वा व्यक्तीः प्रतिपद्येरन् व्युत्पद्येरंश्च । अतो गवादिशब्दाः स्वशक्त्यैव व्यक्तिबोधकाः । तद्वत् शरीरवाचिशब्दानामपि स्वशक्त्यैव शरीरिपर्यन्तबोधकत्वं सिद्धम् । एवं शरीरवाचिशब्दाः शरीरिपर्यन्ताः स्युः ; ततः किं परमात्मचिदचिद्वाचिशब्दानां सामानाधिकरण्यस्येत्यत्राह एवमिति । प्रयोजकाकारं वदन् निगमयति अत इति । एवं तत्त्वमसीतिवाक्येन चिदचिच्छरीरकस्य कारणावस्थस्य कार्यावस्थस्य च ब्रह्मण एकत्वं प्रतिपादितम् । न च प्रकायैक्य कार्यकारणैक्यं चेत्यर्थभेदाद्वाक्यभेदः शङ्कनीयः; प्रकारित्वस्य पदावगम्यत्वात् । तत्पदं हिं प्रकृतवाचकम्, प्रकृतं हि सार्वज्ञ्यादिगुणकं जगच्छरीरकं कारणम्; ‘तदैक्षत’ ‘एकमेव ’ ’ ‘बहु स्याम्’ ‘तत्तेजोऽसृजत’ ‘अनुप्रविश्य नामरूपे व्याकरवाणि’ ‘सदायतनाः सत्प्रतिष्ठाः’ इत्यादिभिरीक्षितृत्वैकत्वानुप्रवेशपूर्वकनामरूपव्याकरणधारणश्रवणात् । अतस्तत्पदं सार्वज्ञ्यादिगुणकजगच्छरीरकं ब्रह्मपरम् । त्वम्पदं च कार्याचित्संसृष्टजीवविशेषविशिष्टब्रह्मपरम् । अत उभयावस्थस्य ब्रह्मणः चिदचित्मकारवत्त्वं पदावगतम् । पदद्वयस्य समानविभक्त्या कारणावस्थस्य कार्यावस्थस्य च ब्रह्मण एकत्वमवगम्यते । अतो न वाक्यभेदः । अतः ‘कार्यकारणावस्थम कार्यकत्वं तत्त्वमसीति वाक्येन प्रतिपादितम् ॥ परमात्मानं प्रति जगतः शरीरत्वं कथम् ? अस्मिन् सिद्धे शरीरित्वप्रयुक्ता दोषाः स्युः । उक्तस्यानुंग्राहकस्य न्यायस्य किमनुमाझं प्रमाणम् ? कथं व्युत्पत्तिविरोधपरिहार इत्यादिशङ्कायामाह अयमर्थ इति ॥ 1
ननु प्रकारवत्त्वस्य पदावगम्यत्वेऽपि प्रकार्यैक्यस्य विभक्त्यवगम्यत्वात् वाक्यभेद एवेति शंकापाम्अनेकस्याप्येकशब्दोपात्तत्वे वाक्यभेदो न मीमांसकेष्टः । वस्तुतः प्रकारिकार्यकारणभेदाभावास एकमेवैषयं विभक्तिगम्यम् । तस्मात् प्रकारवस्वमैक्यश्चेत्यर्थद्वयमित्येव वाच्यम् । तत्र न दोषः विशिष्टान्चयादिति समाधिं मनसिकृत्याह कार्यकारणाचस्थमकारीति ।
मृतप्रकाशिकोपेते श्रीभाष्ये (मृषावादिकृतसामानाधिकरण्यनिर्वाह निरासः) इदमेव शरीरात्मभावलक्षणं तादात्म्यम्, “आत्मेति तूपगच्छन्ति ग्राहयन्ति च” इति वक्ष्यति ; “आत्मेत्येव तु गृह्णीयात्” इति च वाक्यकारः ॥ परेण स्वरूपैक्यपरत्वेनोदाहृतं सूत्र वाक्यकारवचनश्च व्याचष्टे - इदमेवेत्यादिना । अत्रायमर्थः सङ्कलय्यानुसन्धेयः मृषावादिभिः सामानाधिकरण्यनिर्वाहाः बहुधा कृताः । तत्र सामानाधिकरण्यस्वातद्वद्यावृत्तिमुखेन वस्तुमात्रपरत्वं सत्यादिवाक्यनिरूपणेन निरस्तम् ; व्यावृत्तीनामुपलक्षणतापक्षे पदान्तरवैयर्थ्यात्, विशेषणत्वाभ्युपगमे मुख्ये संभवति लाक्षणिकार्थस्वीकारायोगाच्च । तत्त्वमसीति वाक्ये चान्वयमुखेन स्वरूपमात्रपरत्वे – तत्पदस्य प्रकृतपरामर्शित्वभङ्गः पदद्वयलक्षणा प्रवृत्तिनिमित्तमेदाभावात्सामानाधिकरण्यलक्षणहानिः उपलक्षणरूपप्रवृत्तिनिमित्ताश्रयणे पदान्तरवैयर्थ्यम्, ‘तदैक्षत’ इत्याद्युपक्रमविरोधः, उपक्रमो प्रक्रमविरोधः, श्रत्यन्तरविरोधः, तिरोधानाद्युपपत्तिरूपतर्कविरोधश्चेति दूषणान्युक्तानि । बाघार्थत्वे च खरूपलक्षणा नञर्थलक्षणा चेति पदद्वयलक्षणादयो दोषाः । प्रत्यक्षेण बाधादर्शनाद्वाषपरत्वानुपपतिः पदान्तरेण विरोधिधर्मानुपस्था[प]नेन विरोधाभावाद्वाधकल्पनानुपपत्तिरित्यधिकं दूषणद्वयञ्चोक्तम् । तथा ‘सर्वं खल्विदं ब्रह्म’ इत्यत्र सामानाधिकरण्यस्य च अतदाकारारोपणनिबन्धनत्वमयुक्तम्, सर्वत्वब्रह्मत्वयोरेकाश्रयत्वाभावेन सामानाधिकरण्यलक्षणाभावात्; परमार्थत ऐकाधिकरण्ये संभवति अपरमाथैक्यविषयत्वाश्रयणानुपपत्तेश्च । ऐक्यापारमार्थे हि सामानाधिकरण्यवाक्यप्रामाण्यं हीयते ; प्रतिपिपादयिषितस्यैक्यस्य मिथ्यात्वात् । एवमचिद्ब्रह्मणोः सामानाधिकरण्यं सत्यानृतयोरैक्याभावादयुक्तम् । " अन्तःकरणचिन्मात्रयोरैक्याभावात् ‘ब्रह्माहमस्मीति सामानाधिकरण्यं न घटते ॥ अहंशब्दस्य अन्तःकरणोपहितंज्ञप्तिवाचित्वात् तदुपपत्तिरिति चेन्न ; अहंशब्दस्यान्तः करणोपहितज्ञप्तिवाचित्वाभावात् यथा अहमिच्छामि द्वेष्मीतीच्छादेरहमर्थविशेषणतया व्यवहारात् अहंशब्दस्य नान्तःकरणोपहितेच्छादिवाचित्वम् एवमहं जानामीति प्रयोगात् तदुपहितशतिवाचित्वमप्यहंशब्दस्यानुपपन्नम् । न हि ज्ञप्तिरेव हप्त्या विशेश्यते । ज्ञातृज्ञेयतदवच्छिन्नज्ञानातिरिक्तस्य कस्यचित् ज्ञानस्य शशविषाणायमानस्य लौकिकबुधगोचरत्वात् न तद्विवक्षयाऽहं शब्दप्रयोगोपपत्तिः । अतः अहं ब्रह्मास्मीति सामानाधिकरण्यमयुक्तम् । अन्तःकरण द्वयेक्याभावात् अहमादिशब्दानां पूर्वोक्तन्यायेन तदुपहितज्ञप्तिवाचित्वाभावाच्च अहं मनुरभवमित्यादिसामानाधिकरण्यञ्चानुपपन्नम् । प्राणाद्यचेतनजीक्योरैक्याभावात्, “प्राणोऽस्मि प्रज्ञात्मा”, “महमेवेदं सर्वम्”, “मतः सर्वमहं सर्वम्” इत्यादि चायुक्तम् । " अहं हरिः सर्वमिदं जनार्दनः " इति जीवेश्वरवाचिनोः अंचिदीश्वरवाचिनोश्च शब्दयोः सामानाधिकरण्यमयुक्तम्; जीवेश्वरयोः पृथिव्यादीनां च चिन्मात्रे कल्पितत्वात् । न हि रज्जुकल्पितसर्पभूदलनाम्बुधारावाचिनां शब्दानां मिथः सामानाधिकरण्यम् ॥ ; वाई हरिः सर्वमित्यादिशब्दानाम् अध्यस्तवाचिनामधिष्ठान भूतब्रह्मपरत्वादेकार्थवृत्तित्वमिति चेन्न आकृतिवाचिनां व्यक्तिपर्यन्ततयेव अभ्यस्तवाचिनां शब्दानामधिष्ठानवाचित्वेन व्युत्पत्त्यभावात् । न हि 1 यदि जानामीति सामानाधिकरण्यनिर्वाहायैवाहंशब्दस्य प्रप्तिवाचित्थन्, तच्छाबाधित्वमपि स्यादित्याशयेनाह कमेति ।
१-१-१ जिज्ञासाधिकरणम् (परमते जीवेंश्वरसामानाधिकरण्याद्ययोगः) रजतशब्दस्य शुक्तित्वाश्रयद्रव्यवाचित्वेन व्युत्पत्तिः । तदभावश्व शुक्तिशकलादो रजतादिशब्द. प्रवृत्तिनिमित्त भूतरजतत्त्वादेरभावात् ॥
ननु अध्यस्तवाचिनः शब्दाः अधिष्ठाने मुख्यवृत्ताः, इदं रजतमिति वृद्धव्यवहारमूलव्युत्पत्तिसद्भावादिति चेत् — उच्यते । यदर्थविवक्षया शब्द प्रयोगोऽनन्यथासिद्धः, तस्य तद्वाचित्वनिश्चयः । तत्रेदं वक्तव्यम् — अध्यस्तवाचिनः शब्दस्याधिष्ठानपर्यन्तत्वे किं भ्रान्तप्रयोगो मूलम्, उत प्रबुद्धप्रयोगः ? । न प्रथमः, रजतपुरोवर्त्तिनोरनध्यस्तत्वानधिष्ठानत्वबुद्ध्यैव तत्र रजतशब्दप्रयोग इति तस्याध्यस्तवाचिनोऽधिष्ठानपर्यन्तत्वासाधकत्वात् । न ह्यदेवदत्तत्वाज्ञानात् देवदत्तशब्दप्रयोगो देवदत्तशब्दस्य यज्ञदत्तवाचित्वे मूलं भवति । द्वितीये च रज्जुः सर्प इति प्रयोगः सर्पशब्दस्य प्रागनारोपितबुद्धिमूलप्रयोगानुवादरूपत्वात् आरोपितविषयशक्तिकल्पने मूलं न स्यात् ॥
नन्वपृथक सिद्ध विशेषणवाचिशब्दानां विशेष्यपर्यन्तत्वमिष्टम् । अध्यस्तञ्च अधिष्ठानस्यापृथग्विशेषणम्, तस्मिन् सति अवभासात् तेन विना तदनवभासाचेति चेत् — न ; अन्यत्र सतो विशेषणस्य पुरोवस्थितं प्रति अपृथविसद्ध्यभावात् । अख्यातिपक्षे चाध्यस्तत्वाधिष्ठानत्वयोरेवाभावात् । मृषावादिपक्षे च मृद्विवर्तस्य घटादेः कनकं प्रतीव अविद्याख्यदोषविवर्तस्य रजतस्य पुरोवस्थितं प्रति अपृथग्विशेषणत्वायोगाचेति अतो जीवेश्वरसामानाधिकरण्यमयुक्तम् । किञ्च तत्त्वमस्यादिवाक्येषु ब्रह्मवाचकपदसमभिव्याहृतं त्वमादिजीववाचिपदं कि मुख्यार्थाप्रहाणेन समानाधिकरणम्, उत तत्प्रहाणेन । प्रथमे वस्तुनः सविशेषत्वम्, दोषाहितदनयेोरेक्यानुपपत्तिश्च । द्वितीये जीवब्रह्मणोरैक्यं न सिध्येत् । जीवभावस्य मिथ्यात्वेनाधिष्ठानमात्रपारमाध्यं च न सिध्येत् । प्रकृत्यंशविवक्षितार्थैकत्वपरायाः समानविभक्तेस्तदविवक्षितार्थैकत्वप्रतिपादनासामर्थ्यात् ; तदविवक्षित विशेषणमिथ्यात्वप्रतिपादनासामर्थ्याच्च । न हि प्रहृष्टो जनपदः, अग्निर्माणवक इत्यत्र जनपद प्रहर्षवतोरग्निमाणवकयोश्चैकत्वं जनपदत्वाग्नित्वयोर्मिथ्यात्वेन तदधिष्ठानमात्रपारमार्थ्यं च सिध्यति ॥ जनपदशब्देन वाच्यबहिर्भूतो लक्ष्यते, त्वंशब्देन तु वाच्यैकदेशो लक्ष्यत इति, तस्य तताविधानेऽधिष्ठानैक्यं विरोधात् जीवभाव मिथ्यात्वं च सिध्यतीति चेन्न———त्वमादिशब्दानां ज्ञातृपदसमानाधिकरणानां ज्ञप्तिवैयधिकरण्येन ज्ञप्तिवाचित्वासिद्ध्या वाच्यैकदेशलक्षणाया दुर्वचत्वात् । तत्सिद्धावपि नाधिष्ठानैक्यमितराकार मिथ्यात्वञ्च सिध्येत् । न हि दूरस्थस्य पर्वतस्याग्रे ज्वलन्तममिं दृष्ट्रा पर्वतो ज्वलित इत्युक्ते पर्वताग्न्योरेकत्वं सान्वादिप्रदेशान्तरमिध्यात्वेनाधिष्ठानमात्रपारमार्थ्यं च सिध्यति । अतो विवक्षितैकत्वजीवभावमिथ्यात्वासिद्धिः । अतः सर्व सामानाधिकरण्यं मृषावादिनां विरुद्धम् । औपाधिकभेदाभेदपक्षेऽपि मुख्यया वृत्त्या सामानाधिकरण्यमनुपपन्नम् । तथा हिईश्वर एव हि ब्रेम तन्मते । जीवेश्वरयोरचिदीश्वरयोश्व क्लेशकर्माद्यर्हत्व तदन ईत्व परिणामित्वापरिणामित्वलक्षणविरुद्ध स्वभावायोगात् तद्वाचिशब्दानां घटपटादिशब्दानामिव न सामानाधिकरण्यम् ॥ मेदक्त् अभेदस्यापि विद्यमानत्वात् तदुपपत्तिरिति चेत्, न; सत्यपि केनाप्याकारेणैक्ये प्रवृत्तिनिमित्तभावाभावलक्षणे विशेष्यांशभेदे प्रतीयमाने समानविभक्तेरेकत्वप्रतिपादनासामर्थ्यात् । यतः प्रथमपदप्रतिपन्नविशेष्यात् पदान्तर [प्रतिपन्नः] विशेष्यस्यांशतोऽपि मेदासहमभिन्नत्वंमेव सामानाधिकरण्यावबोध्यम्, तव
सुतंप्रकाशिकोपेते श्रीमाध्ये (शुक्ला विशब्दहस्तादिशब्दवैलक्षण्यम् ) एत्र हि खण्डमुण्डयोव्यक्ति जात्यात्मना, घटशरावयोः कार्यकारणरूपेण, गोपुच्छयोरेकदेशैकदेशिभावेन मित्रत्वक्त् अभिन्नत्वेऽभ्युपगम्यमानेऽपि खण्डो मुण्डः, घटः शराव, गौः पुच्छमिति सामानाधिकरण्याभावः॥ G मनु चिदचितोर्ब्रह्मैकदेशत्वात् शुक्लः कृष्णो रक्तश्चायं पट इतिवत् “व्यक्तं विष्णुस्तथाऽभ्यक्तं पुरुषः काल एव च” इत्यादिसामानाधिकरण्यमुपपद्यते ॥ नैवम् एकदेशकदेशिभावे सत्यपि अगुलिः पुरुष इति सामानाधिकरण्यादर्शनात् ॥
ननु शुक्लादिशब्दतुल्यत्वं किं न स्यात् ॥ उच्यते ; पटस्यांशभेदे शुक्लादिशब्दानां पटशब्दश्रवणात्प्राकू मिथस्सामानाधिकरण्याभावे च सत्यपि शौक्यादीनामपृथक्सिद्ध विशेषणतया शुक्लादिशब्दैर्विशेष्यपर्यन्तस्संहत्य चित्रशब्देनेवाभिहिताद्विशेष्यात् पटशब्दाभिहितविशेष्यस्यांशतोऽप्यनतिरेकात् सामानाधिकरण्यम् । हस्तादीनामेकदेशानां छेदनाद्यर्हाणामेकदेशिनं प्रति अपृथक्सिद्ध विशेषणत्वं नास्ति; ‘छेदनादावपीन्द्रियाणामविनाशित्वात् ततद्गोलकस्याप्रच्युतस्वरूपत्वाच्च ॥ एवञ्च सति छिन्नहस्तादिवत् मृतशरीरस्यापि अप्रच्युतस्वरूपोपलम्भादात्मानं प्रति तस्य नापृथक्सिद्धिः स्यादिति चेत्-न; शरीराख्यसङ्घातशैथिल्यानन्तरमेव आत्मोत्क्रमणात् । पश्चाच्छरीर बुद्धेर्दग्धपटे पटबुद्धिन्यायेन भ्रान्तिरूपत्वात् । हस्तादीनां तु छेदनदशायाम शिथिलस्वांशानां पश्चाच्छैथिल्यमिति विशेषः । अतस्तद्वाचिशब्दानां हस्तादिमात्रवाचित्वाद्धस्ताद्यवयवसङ्घातात्मकस्यैकदेशिनो हस्तादिमात्रातिरेकादनतिरेकलक्षणमेकत्वं प्रमाणविरुद्धतया समानविभक्तिर्न प्रतिपादयितुं शक्नोति ॥
ननु हस्तत्वादयो धर्माः शौक्कयादिवदपृथविसद्धाः घटस्येव शरीरादेरेकदेशे वर्तन्ते । अतः शुक्लः कृष्णः पट इतिवत् हस्तः पादो मनुष्य इति युक्तं वक्तुम् । युक्त्यनभिज्ञत्वाल्लोको न प्रयुङ्क्ते ॥ उच्यते । युक्त्यनभिज्ञो ऽमिज्ञोऽपि ( विज्ञोऽपि ) लोकः शुक्लादिशब्दान् विशेष्यपर्यन्तान् प्रयुङ्क्ते ; न तु हस्तादिशब्दान् एकदेशिपर्यन्तान् । अतोऽभिज्ञानमिज्ञप्रयोगानुगुणव्यवस्थापकं वक्तव्यम् । तद् ब्रमः । केचिदपृथषिसद्धधर्माः कस्यचिदेकदेश एव नियमेन वर्तन्ते; एकदेशे वाऽन्यत्र वा केचिदनियमेन वर्तन्ते । तत्र नियतैकदेशवृत्तिधर्मवाचिनः शब्दाः तत्तदेकदेशभूतद्रव्यमात्रे वर्तन्ते; एकदेशत्वप्रतीत्युत्पादननियमात् । एकदेशतयैव हि हस्तादयः प्रतीयन्ते । एकदेशवृत्तिनियम र हितधर्मवाचिनः शब्दा एकदेशत्वप्रतीतिनियममपहाय विशेष्ये वर्तन्ते । अतः शुक्लादिशन्दै रेकदेशत्वं हित्वा तदाश्रयमात्रोपस्थापनात् तदुपस्थापिताश्रयात् पटत्वीश्रयस्यानतिरेकात् पटशब्दस्य सामानाधिकरण्यं युक्तम् । एकदेशमात्रोपस्थापकैईस्तादिशब्दैरेकदेशिनो ऽनुप्रस्थापितत्वेन हस्तादिप्रातिपदिकप्रतिपन्नविशेष्यातिरेकात् सामानाधिकरण्यमयुक्तम् । यदि कचित सामानाधिकरण्यं विद्यते, तत्र हस्तादिशब्दस्य तद्वति लक्ष्णया वा मनुष्यादिशब्दस्य तदेकदेशलक्षणया वा प्राधान्याद्यभिप्रायेणोपचारेण वा स्यात् । छिद्रमाकाश इत्यत्र त्वाकाशत्वस समुदायवृत्तित्वाभावेन छिद्रे पुष्कलतया नैकदेशलक्षणा । जीवत्वाचित्त्वादिधर्माश्व त्वन्मते ब्रह्मणो नितैयकदेशवृत्तय इति न तद्वाचिशब्दैरीश्वरवाचिशब्दानां मुख्यया वृत्त्या सामानाधिकरण्यम् ॥ मनु शिरः पाणिरुदरं पादश्च शरीरमिति दृश्यते प्रयोगः । सत्यम् ; प्रभूतकृत्स्त्रावयवोपादाने1 हस्तादिपदेन तत्तदिन्द्रियग्रहणे तत्तदिन्द्रियस्थानग्रहणे वा सर्वथा तदेकदेशिभृतात् संघातात् पृथक्सिद्धतैवेत्यर्थः । गोलंकपदं तत्तदिन्द्रियस्थान सामान्यपरम् ।
७३ अत्रेदं तत्त्वम् - चिद्वस्तुनः चिह्नस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च ऽवयविनस्तदनतिरेकात् सामानाधिकरण्यसंभवः । प्रत्येकं सामानाधिकरण्यं तु 1 एकदेशलक्षणाप्रसङ्गादमुख्यमेव । एवं चिदचिद्विशेषवाचिशब्देष्वेकैकस्येश्वरवाचिपदसामानाधिकरण्यमयुक्तं स्यात् । एकदेशवाचिशब्दानामेकदेशिनि शक्त्यभावात्, ‘व्यक्तं विष्णुस्तथाऽव्यक्तम्’, ‘ज्योतींषि विष्णुर्भुवनानि विष्णुः’, भूतानि विष्णुः र्भुवनानि विष्णुः’ इति हि प्रत्येकं सामानाधिकरण्यम् । ‘अहं सर्वम्’ इत्यचिज्जीववाचिपदयोरपि तद्वदेव सामानाधिकरण्यमयुक्तम् । सर्वत्रामुख्यया वृत्त्या ब्रह्मोपस्थापनेन सामानाधिकरण्ये स एव दोषः ; मुख्यसामानाधिकरण्ये संभवत्यमुख्यवृत्त्याश्रयणस्यान्याय्यत्वात् ॥ स्वाभाविकभेदाभेदपक्षेऽपि भोक्तृभोग्यनियन्तॄणां त्रयाणामपि ब्रह्मांशत्वाभ्युपगमादचिज्जीवयोरचिदीश्वरयोजवेश्वरयोश्च सामानाधिकरण्यं घटः शराव इतिवदनुपपन्नमित्येतदवस्थितम् । अंशतोऽपि विशेष्यभेदासहस्यैवाभेदस्य सामानाधिकरण्यबोध्यत्वात् तेषां ब्रह्मसामानाधिकरण्यमपि चिन्त्यम् । ब्रह्मवाचिपदानां सत्त्वद्रव्यत्वादिः साधारणाकारः प्रवृत्तिनिमित्तं चेत्, तत्त्वमसीत्युक्ते, सदसि द्रव्यमसीत्युक्तं स्यात् । तदानीमुपदे शवैयर्थ्यम् । न हि कश्चित् अहमसत्, अहमद्रव्यमिति मन्यते ॥ सदन्तरैकत्वमुपदेष्टव्यमिति चेन्न; तस्य सामानाधिकरण्यबोध्यत्वाभावात् । सामानाधिकरण्यं हि पूर्वनिर्दिष्टस्य विशेष्यस्य पदान्तरोपस्थापितविशेषणान्वयमवगमयति ; न तु तद्विशेषणान्वितवस्त्वन्तरैक्यम् । न हि ब्राह्मणस्त्वमसीत्युक्ते त्वंशब्दनिर्दिष्टस्य ब्राह्मणान्तरैक्यं प्रतिपादितं भवति । किंतु तस्य ब्राह्मणत्वविशेषणवैशिष्टयमेव । अतो विवक्षितैकत्वासिद्धेरुपदेशवैयर्थ्यमेव । यदि अंशविशेषासाधारणाकारः प्रवृत्तिनिमित्तम्, तदा ब्रह्मादिशब्दानां तदितरांशवाचिपदसामानाधिकरण्ये विरोधः स्यात् । यदा निरतिशयबृहत्त्वं प्रवृत्तिनिमित्तम्, तदा तत्त्वमसीत्युक्ते निरतिशयबृहदसीत्युक्तं स्यात् । ततश्चाणोर्जीवस्य निरतिशयबृहत्त्वविरोधः । त्वं निरतशयबृहद्वस्तुनोंश इत्यर्थश्चेत्, एकदेशलक्षणा । न हि ब्रह्मशब्दस्य बृहदेकदेशो मुख्यार्थः । एवमसाधारणाकारान्तरस्य प्रवृत्तिनिमित्तत्वेऽप्यनुपपत्तिर्द्रष्टव्या ॥ अतः कुदृष्टित्रयप्रत्यनीकं सामानाधिकरण्यं भाष्यकारपक्ष एव मुख्यम् ॥ व्याख्यानान्तरोक्त निर्वाहात् भवदुक्तनिर्वाहस्य किं वैषम्यम् । किञ्च - आत्मभेदे सिद्धे । हि शरीरशरीरिभावः । स एव नास्ति; कालविशेषे ऐक्यप्रतिपादनात् “पुरुषश्चाप्यभावेतौ लीयेते परमात्मनि”, " सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि” इत्यादिभिश्चिद चितोरुत्पतिप्रलयप्रतिपादनात् कार्यकारणयोरेकद्रव्यत्वाच्च । न ह्येकमेव वस्तु शरीरं शरीरि च भवति तस्मात् स्वरूपपरिणामपक्षेणैव निर्वाहो वरमिति शङ्कापरिहारार्थम्, सकलश्रुतीनां मुख्यार्थत्वज्ञापनार्थम् तेषु तेषु मदेशेषु विप्रकीर्णम् उक्तानामथानां सङ्कलय्य प्रदर्शनेन सुग्रहत्वापादनार्थञ्चाऽऽरभते अत्रेदं तत्त्वमिति । भोग्यत्वेन भोक्तृत्वेन चेति चशब्द ईशितव्यत्वेन तयोरेककोटिनिवेशात् । ‘अस्मान्मायी’ इत्यत्र मायाशब्दार्थं निष्क्रष्टु- 1 1 एवमेव चित्रघटे शुक्लो घट इति व्यवहारोऽप्यवयवे समुदायशब्दप्रयोगादमुख्य एवेत्युक्तौ न क्षतिः । शुक्लः पट इति तु चित्रे एकदेशस्यापि पटत्वात् । 2-10
७४ (चिदचिदीश्वरमेदश्रुतयः ) स्वरूपविवेकमाहुः काश्चन श्रुतयः - “अस्मान्मायी सृजते विश्वमेतत् तस्मिश्चान्यो मायया संनिरुद्धः”, “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् “, “क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः " - अमृताक्षरं हर इति भोक्ता निर्दिश्यते, प्रधानमात्मनो भोग्यत्वेन हरतीति हरः -, “स कारणं करणाधिपाधिपो न चास्य कश्विजनिता न चाधिपः “, " प्रधानक्षेत्रज्ञपतिर्गुणेशः “, “पति विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्”, “ज्ञाशौ द्वावजावीशनीशौ”, “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विद्धाति कामान्”, “भोक्ता भोग्यं प्रेरितारं च मत्वा”, “तयोरन्यः पिप्पलं स्वाद्वत्यनश्रन्नन्यो अभिचाकशीति”, “पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति”; “अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो होको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः”, “समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुपादते मायां तु प्रकृतिमिति । अन्यशब्दवाच्य आत्मेति स्पष्टयितुमाह क्षरं प्रधानमिति । अर्थान्तरभ्रमहेतुत्वात् हरशब्द व्याचष्टे प्रधानमिति । अत्र “व्यक्ताव्यक्तं भरते विश्वमीशः " इति पूर्ववाक्ये श्रवणात् घार्यत्वंघारकत्वलक्षणभेदोऽपि सिद्धः । ईश्वरेशितव्यतारूपभेदं दर्शयति स कारणमिति । करणाधिपाधिपशब्दव्याख्यानार्थमाह प्रधानेति । गुणेशःगुणानां सत्त्वरजस्तमसां नियन्ता । अनन्येश्वरत्वं दर्शयति पतिमिति । अनेन शेषशेषित्वलक्षणभेदोऽपि सिद्धः । न च – ‘पा रक्षणे’ इति घातोयुत्पन्नत्वात् पतिशब्दो रक्षकवाची, न शेषित्ववाचीति — वाच्यम्; शेषिणि रूढत्वात् । अन्यथा " गमेडः " इति डोप्रत्ययान्तगमिधातोर्निष्पन्नत्वात् गोशब्दस्य मनुष्यादिवाचकत्वप्रसङ्गः ॥ गतिमत्सु सर्वेषु प्रयोगाभावात् तिष्ठत्यपि गवि प्रयोगात् तत्र रूढिशक्त्याश्रय इति चेत् — एवम्, “वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् " इति न्यायेन पितृसंरक्षके पुत्रे पित्राद्यपेक्षया पतिशब्दप्रयोगाभावात् गृहाद्यरक्षकेऽपि स्वामिनि पतिशब्दप्रयोगाच्च शेषिणि पतिशब्दों रूढः । तथा, दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः " तथा, नन्तव्यः परमः शेषी शेषा नन्तार ईरिताः । नन्तृनन्तव्यभावोऽयं न प्रयोजनपूर्वकः " इति दासशेषशेषिशब्द प्रयोगो भगवच्छास्त्रेषु दृश्यते । पत्यादिशब्दाभावेऽपि, “त्रीहीन् प्रोक्षति” इत्यादौ द्वितीयाश्रत्या प्रोक्षणादेवींह्मादिशेषत्ववत्, “यस्यात्मा शरीरम्” इत्यादिना जगतः परमात्मशरीरत्वावगमात् शरीरपाराध्यस्य च " सङ्घातपरार्थत्वात् " इत्यादिभिः प्रसिद्धत्वांच जगहमणोः शेषशेषिभावः सिद्धः । मतो यथोक्त एवार्थः । मुखान्तरेणापि भेदसिद्धिं दर्शयति ज्ञाज्ञाविति । उत्पत्तिप्रलयाभावप्रतिपादनं दर्शयति नित्यो नित्यानामिति । आकारान्तरेणापि मेदमाह भोक्तेति । भगवतोऽस्पृष्टदोषत्वं दर्शयति तयोरिति । मेदज्ञानस्य मोक्षहेतुत्वमाह पृथगिति । मुक्तौ भेदमाह अजामिति । जीवेश्वरयोः स्वतो मेदं सविशेषत्वं च स्पष्टयितुमाह समान 1 इति । ८.८ 66 1 इयं सांख्यकारिका । अतः संघातः इति पृथकूपाठो न शुद्धः । 2 चिदचिदीश्वरभेदस्यैव प्रसक्तत्वात् बद्धमुक्तभेदप्रतिपादनं कुत इति न शंक्यम् । अस्यापि मुक्तेश्वरभेदप्रतिपादकत्वात् । यो ह्यनुशेते स एव हि पश्चात् जहाति । अतो मुक्ते बद्धान्यत्वा भावात् भुक्तभोगे मुक्ते भोगप्रसंगरहितेशाम्यत्वमेव अन्य इति पदाभिमतमिति भावः ।
१-१-१ विज्ञासाधिकरणम् ( चिदचिदीश्वरमेदशरीरात्मभाव प्रमाणानि) ७५ स्मृतावपि, - मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः” इत्याद्याः ॥ “अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ! ययेदं धार्यते जगत् ॥”, “सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिका/म् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्क्षमवशं प्रकृतेर्वशात् ॥”, “मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ॥”, “प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि ।”, “मम योनिर्महद्ब्रह्म तस्मिन् गर्भ दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥” इति । जगद्योनिभूतं महदू मदीयम्, प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत्, तस्मिश्चेतनाख्यं गर्भ यत् । संयोजयामि, ततो मत्कृताच्चिदचित्संसर्गात् देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः ॥ एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थित योश्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक स्थिति परमपुरुषस्य चात्मत्वमाहुः काश्चय श्रुतयः"यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति” इत्यारभ्य, “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः” इति । तथा, “यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद” इत्यारभ्य, “योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद, यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युः शरीरं यं मृत्युर्न वेद, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " - अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थमचिद्वस्त्वभिधीयते ; अस्यामेवोपनिषदि, “अव्यक्तमक्षरे लीयते । अक्षरं तमसि 2 पृथक्तज्ञानस्य मोक्षोपायत्वपरस्य वाक्यद्वयस्य मध्ये अजामे कामित्यादिवाक्यमुपात्तम्, ‘समाने वृक्षे’, ‘अजामेकाम् ’ इति प्रधानप्रसङ्गोपेतत्वसाम्यात् । जुष्टम् — प्रीयमाणम् । स्मृतावपीति । अष्टधा भिन्ना प्रकृतिर्ममेत्यनेन कारणावस्थायामपि भेदसिद्धिः । मामिकां प्रकृति कल्पक्षये यान्तीत्यत्रापि तथा । प्रकृतिं स्वामवष्टभ्य विसृजामीत्यत्रापि तत्सिद्धिः । मयाऽध्यक्षेपोत्यत्र तु स्वभावासङ्करः कारणावस्थायां भेदश्च सिध्यतः । प्रकृतिमित्यत्रानादित्वकण्ठोक्तिः । ममेत्यत्रापि कारणावस्थायां भेदसिद्धिः । उदाहृतस्मृतिवचनेषु व्याख्येयांशं व्याचष्टे जगद्योनीति । जगद्योनिशब्देन ‘त्रिगुणं तज्जगद्योनिः’ इति वचनं स्मार्थते । कार्यावस्थव्यावृत्त्यर्थं भूतसूक्ष्म मित्युक्तम् । एवं चिदचिदीश्वर मे दे सति कथमेकत्वावधारणमुपपद्यत इति शङ्कायां घटकश्रुतीरवतारयति एवमिति । यः पृथिवीमन्तरे सञ्चरन् ’ इति सुबालोपनिषदि श्रूयते । मरणयमादिव्यावृत्त्यर्थं मृत्युशब्दं व्याचष्टे अत्रेति । 1 गीताभाष्ये 18. 2. सर्वमिदं यथार्हम् । तत्र यत् इति पदं नास्ति । 2 पृथक्त्वेत्यादि । अयमर्थः - पृथगात्मानमितिवत् अन्यमीशमित्युपासने भेदविष रकत्वप्रतिपादकत्वसाम्यात् समाने इंति मन्त्रस्य पृथगितिमन्त्रसमनन्तरं ग्राह्यत्वेऽपि समानें इति मन्त्रइव अजामिति मन्त्रेऽपि पृथगितिमन्त्रपूर्वार्ध ‘सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् जीवो भ्राम्यते ब्रह्मचक्रे’ इत्यत्नेव प्रधानप्रसंगसत्त्वात् ब्रह्मचक्रपदस्य अजामित्यादिना विवरणाभिप्रायेण तस्य तदनन्तरोक्तिरिति । ब्रह्मचक्रपदस्य परबह्यसंबन्धिनि प्रकृतिचक्र इत्यर्थे एवम् । अन्यथा तत्पूर्वमन्त्रे प्रधानप्रसंगोग्राह्यः। तद्विवरणार्थ मजामित्येतद्ग्रहणम् । एवञ्च अन्य इत्यस्य अजामजुषमाण इत्येतावन्मानं नार्थः ; किंतु अन्यं जुषमाणः इति । एवं वैशद्यायोक्तं समान इत्यादीति भावः ।
७.६ (ब्रह्मणः कार्यकारणावस्थत्वम् ) लीयते” इति वचनात् -, “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा” इति च ॥ एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीममर्थ ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थं च जगत् स एवेत्याहुः, “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदक्षैत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत " इत्यारभ्य, ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः । ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो” इति । तथा, “सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत” इत्यारभ्य, “सत्यं चानृतं च सत्यमभवत् " इत्याद्याः ॥ अत्रापि शुत्यन्तरसिद्धश्चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, " हन्ताहमि - मास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति – “तत् सृष्ट्रा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् ।….विज्ञानं चाविज्ञानं च सत्यञ्चानृतं च सत्यमभवत्” इति च । “अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य” इति जीवस्य ब्रह्मात्मकत्वम्, ‘तदनु प्रविश्य सच्च त्यच्चाभवत्’, ‘विज्ञानं चाविज्ञानञ्च’ इत्यनेनैकार्य्यादात्मशरीरभावनिबन्धनमिति विज्ञायते । एवम्भूतमेव नामरूपव्याकरणम्, “तद्धेदं तर्ह्यव्याकृतमासीत् तन्नानरूपाभ्यां व्याक्रियत” इत्यत्राप्युक्तम् ।
अतः कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततया एकविज्ञानेन सर्वविज्ञानं [च] लीयत इति वचनात् । क्रमप्रत्यभिज्ञानादित्यर्थः । ‘यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरम् ’ इति क्रमो हि ‘अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते’ इति क्रमेण सङ्गच्छते । तमस एकीभावमात्रं श्रुतम्, न लयः; तमस्त्वमहाणाभावात् । कार्यानुपयुक्ततमश्शरीर के देवे कार्योपयुक्तस्य तस्यैकीभावः । मृत्युसंज्ञस्य तमसः शरीरत्वश्रवणात् विशेषण भूततमसा तमस एकीभावो युक्तः । सर्वात्मत्वविवरणायाह अन्तः प्रविष्ट इति । अनेनापि शरीरात्मभावः फलितः । अन्तः प्रविश्य नियाम्यत्वं हि शरीरत्वम् । अन्तःप्रवेशशास्तिभ्यां ‘नृपगगनव्यावृत्तिरिति । एतदपि शरीरलक्षणं भाष्यकाराभिप्रेतम् । मेदश्रुतिघटक श्रुत्यविरोधेनैक्यवाक्यानामर्थमाह एवमिति । घटकतयोपात्तं सन्मूला इति । अत्रापीति । छान्दोग्यप्रकरणे तैत्तिरीयप्रकरणे चेत्यर्थः । हन्ताहमित्यादि छादोग्ये । तत्सृष्टेत्यादि तैत्तिरीये । जीवेनात्मनेत्यस्य व्याख्यानार्थमाह अनेनेति । अनुप्रवेशश्रवणाभावेऽपि सामान्येनोक्तं नामरूपव्याकरणमनुप्रवेशपूर्व कामरूपव्याकरणे पर्यवस्यति सामान्यविशेषन्यायादित्याह एवम्भूतमेवेति । यद्वा सर्वशाखा प्रत्ययन्यायेन कचिदनुक्तस्यान्यतो ग्राह्यत्वात् कचित् ज्ञातोऽनुप्रवेशः कार्योपयोगितया अपेक्षितत्वादन्यत्रापि स्वीकार्य इत्याह एवमिति । एवम्भूतशब्दोऽनुप्रवेशपूर्वकत्वपरः । अनेन नामरूपन्याकरण श्रुत्युपादानेन जीवानामुत्पत्तिप्रलयौ नामरूपव्याकरणतदभावौ; न तु स्वरूपनिष्पत्तिविनाशावित्युक्तं भवति । अनेन पूर्वोक्तशङ्का च परिहृता ; कालविशेषोक्तमैक्यं नामरूपव्याकरणाभावमात्रम् ; न तु स्वरूपैक्यमित्यवगमात् ॥ 1 अथ सर्वश्रुतीनामस्मिन्नर्थे मुख्यत्वं दशर्यन् प्रथममेकविज्ञानेन सर्वविज्ञानं परमतेऽनुपपन्नमिति प्रागुक्तं स्वमत उपपन्नमित्याह अत इति । कार्यकारणयोरैक्यप्रतिपादनात् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् 1 शासितरि नृपे अन्तः प्रविष्टत्वं न; अन्तःप्रविष्टे गगने शासितृत्वं नेति न तयोरात्मत्वम् ।
१-१-१ निज्ञासाधिकरणम् (अनुप्रवेशकृतं नामवाच्यत्वम् ) ७७ समीहितमुपपन्नतरम् । “अहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति, ‘तिस्रो देवता’ इति सर्वमचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवन्त्रतात् सर्वे वाचकाः शब्दाः अचिद्विशिएजीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्प्रकारकं ब्रह्मैव कार्य कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणमिति ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिदचितोर्ब्रह्मणश्च स्वभावासङ्करोऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्कतन्तुसङ्घातोपादानत्वेऽपि चित्रपटस्य तत्ततुप्रदेश एव शौक्लयादिसंबन्ध इति कार्यावस्थायामपि न सर्वत्र वर्णसङ्करः, तथा चिदचिदीश्वरसङघातोपादानत्वेऽपि जगतः कार्यावस्थायारपि भोक्तृत्वभोग्यत्वभियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्पितिबोय्यातानेव पुरुषेच्छवा कदाचित्संहतानां कारणत्वं कार्यत्वञ्च । इह तु चिदचितोः सर्वास्त्रयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुषः सर्वदा सर्वशमवाच्य इति विशेषः । स्वभावभेदः तदसङ्कव्य तत्र चात्र च तुल्यः । एवञ्च सति परस्य ब्रह्मणः कार्याऽपि स्वरूपान्यथाभावाभावा विकृतत्वमुपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुन आत्मतयाऽवस्थानात् कार्यत्वमप्युपपन्नतरम् । अवस्थान्तसामानाधिकरण्याच्चेति त्रिधा ह्यद्वैतप्रतीतिः । अत्र पूर्वोक्तद्वयमस्मदुक्तप्रकारेणोपपन्नमिति अत इत्यादिभाग्येणोक्तं भवति । विशिष्टं कारणम्, तदेव कार्यमिति कारणात् कार्यस्यानन्यत्वम् । अतः कार्यकारणयोरैक्यपराणां श्रुतीनां तयोरेकद्रव्यत्वमेव प्रतिपाद्यम्; न तु विशिष्टत्वनिषेधः, तस्य विहितत्वात् । एकविज्ञानेन सर्वविज्ञानमपि एवमेव । यथा मृत्पिण्डेन तत्कार्यज्ञानेऽपि पिण्डगतरूपादिनिषेधो न कृतः स्यात्, तद्वत् । उपपन्नतरमिति तरप्प्रत्ययेन मुख्यत्वं सर्वत्रापि विवक्षितम् । एवं सद्विद्योपक्रमगतस्य एकविज्ञानेन सर्वविज्ञानस्य मुख्यत्वमुक्तम् । अथ तदुपसंहारगतस्य तत्त्वमसीति सामानाधिकरण्यस्य मुख्यत्वमाह अहमिमा इति । उपादानत्वस्वभावासङ्करौ कथमुपपद्येते इत्यत्राह अतः स्थूलेति । मान्यवस्था विशेषवतः प्रागवस्था योगो ह्युपादानत्वम् । अतोऽवस्थाविशेषौ स्थूलसूक्ष्मशब्दाभ्यां दर्शितौ । अनेन कालविशेषावच्छिन्नैकत्वावधारणं नामरूपविभागाभावाभिप्रायमिति फलितम् उपादानत्वेऽपि स्वभावासङ्करमाह सूक्ष्मेति । दृष्टान्तेनेममर्थमुपपादयति यथेति ।
ननु शुक्लकृष्णादितन्तवः कारणावस्थायामपि भिन्नाः । न च तेष्वन्यतमं प्रति अन्यतमस्य कारणत्वम् । अतस्तत्र स्वभावासङ्करः । अत्र तु विश्वस्य सङ्घातोपादानत्वेऽपि कारणवस्थायां परमात्मैक एव स्वशब्देन श्रूयते ; न तु चेतनाचेतनौ । किञ्च परमात्मनः प्रागेकत्वं तस्मादितरयोर्द्वयोरुत्पत्त्यादिकं च श्रूयते । अतो न खभावासकर इत्यत्राह तन्तूनामिति । न हि तन्तुष्वन्योन्यगुणप्रधानभावोऽस्तीति न तत्रान्यतमवाचिशब्देन समुदाय उच्यते । अत्र तु सर्वप्रकारस्य भगवतः सर्वशब्दवाच्यत्वमुपपन्नमित्यन्यतमवाचिशब्देनापि विशिष्टमेवोच्यत इति विशिष्टस्यैव कारणत्वात् प्रागपि भेदोऽस्तीति स्वभावासङ्कर उपपन्न इत्यर्थः । केनाकारेण साधर्म्यमित्यत्राह स्वभावेति । रुमागतेतरपदार्थानां लवणत्वापत्तिवत् ब्रह्मणोऽन्यथाभावमाशङ्कयाह एवञ्चेति । त पादानत्वमेवानुपपन्नमित्यत्राह स्थूलावस्थस्येति । आत्मतयाऽवस्थानात् कथं कार्यत्वमित्यत्राह अवस्थेतिः । अविकारत्वश्रुतीनां प्रकृतिगतस्वरूपान्यथाभावरूपविकारो ब्रह्मणि नास्तीत्यर्थः । कार्यावस्थचिदचिन्निय-
(सगुण निर्गुण प्रमाणसामरस्यम् ) रापत्तिरेव हि कार्यता ॥ निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणासंबन्धादुपपद्यन्ते । " अपहतपाप्मा बिजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः” इति हेयगुणान् प्रतिषिध्य, “सत्यकामस्सत्यसङ्कल्पः” इति कल्याणगुणान् विदधती इयं श्रुतिरेवान्यत्र सामान्येनावगतं गुणनिषेधं हेययुणविषयं व्यवस्थापयति ॥ ज्ञानस्वरूपं ब्रह्मेति वादश्च सर्वज्ञस्य सर्वशक्तेर्निखिलेहेयप्रत्यनीक कल्याणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वयम्प्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतरः । “यः सर्वशः सर्ववित्”, “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलंक्रिया च”, “विज्ञातारमरे केन विजानीयात्” इत्यादिकाः ज्ञातृत्वमावेदयन्ति ; “सत्यं ज्ञानम्” इत्यादिकाश्च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् ॥ 334 सोऽकामयत बहु स्याम्’, ‘तदैक्षत बहुस्याम’, ‘तन्नामरूपाभ्यां व्याक्रियत” इति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्र सरूपतया नानाप्रकारमवस्थितमिति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वमतत्त्वमिति तत् प्रतिषिध्यते, ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’, ‘नेह नानास्ति किञ्चन’, मनरूपावस्थान्तरापत्तिर्ब्रह्मणः कार्यत्वमिति कार्यत्ववादिनीनां श्रुतीनामर्थः । न हि कारणावस्था नियमनं कार्यावस्था नियमनं भवति । तत्तदवस्थचिदचिन्नियमनरूपविशेषा एव ब्रह्मणोऽद्वारकावस्थाः । स्वरूपान्यथाभावज्ञानसङ्कोचादिरूपविकारास्तु सद्वारकावस्था इत्यर्थः । यथा 1 ग्राहकग्रहणेन संनिधिसमाम्नातेषु वस्तुषु परमापूर्वशेषतयाऽवगतेषु यागत्रीयादेरद्वारकशेषत्वं प्रोक्षणादेः सद्वारकशेषत्वं च मुख्यमेवावगम्यते, तथा बहु स्यामिति ग्राहकग्रहणेन सर्वावस्थासु परमात्मीयतयाऽवगतासु स्वरूपान्यथाभावज्ञानसङ्कोचादिरूपसद्वारकावस्थायाः तत्तन्नियमनरूपाद्वारकावस्थायाश्च परमात्मीयत्वं मुख्यमेवेति भावः । निर्गुणेति अपहतपाप्मेत्यादि चात्र किञ्चिद्विवृतम् । श्रुतिरेवेति । मतान्तरोक्तनिर्वाहेषु श्रुतहा निरश्रुतकल्पनं चास्ति; अत्र तु निर्वाहः श्रौत एव, श्रुतानुगुणश्चेति वैषम्यमिति भावः । अथ आर्थगुणनिषेधपरत्वेन पराभिमतानां श्रुतीनामर्थमाह ज्ञानस्वरूपमिति । सर्वज्ञस्येत्यादिपदानि मङ्गलगुणविशेषविधा विवाक्यस्मरणार्थानि । “तद्गुणसारत्वात्” इत्यादिसूत्रसिद्धमेवात्र निर्वाहद्वयमुक्तम् । ईश्वरस्य, ज्ञातृत्वात् ज्ञानैकनिरूपणीयत्वमुक्तम् । ज्ञातुर्हि ज्ञानं निरूपकम् । तरपो मुख्यत्वमर्थः । ज्ञानस्वरूपत्वज्ञानगुणकत्वपराः श्रुतीर्दर्शयति यः सर्वज्ञ इति । ज्ञानस्वरूपताम् उभयथापि ज्ञानव्यपदेशयोग्यताम् । ज्ञानगुणकत्वस्य ज्ञानस्वरूपत्वस्य च विहितत्वादुभयमप्युपपन्नमित्यर्थः । ज्ञानस्य ज्ञानाश्रयत्वानुपपत्तिचोद्यपरिहारः पूर्वमेव कृतः ॥ मेदनिषेध श्रुतीनामर्थमाह सोऽकामयतेति । विचित्र स्थिरत्र सरूपतया - विचित्र स्थिरत्रसशरीरतया । अब्रह्मात्मकेति ब्रह्मान्तर्यामिकत्वरहितत्वमुक्तम् ; विहितव्यतिरिक्तं स्वनिष्ठवस्तुनानात्वमित्यर्थः । यद्वा स्थिरत्रसरूपतया - स्थिरत्रसात्मकत्वात् । अब्रह्मात्मकेति । अब्रह्मभूतमित्यर्थः । तथा सति कार्यकारणभेदनिषेधः कृतः स्यात् । ऐक्यश्रुतीनां प्रकायैक्यपरत्वादैवयश्रुतिशेष भूतभेदनिषेधोऽपि 1 यजेत स्वर्गकाम इति फलवाक्यावगतो नियोगः समीपश्रुताफलवाक्यार्थान् स्वयं गृह्णाति । तेषां द्रव्यादीनाश्च तत्संबन्धो यथाप्रमाणं साक्षाद्वा परम्पग्या वा भवति, न तु साक्षादेवेति प्राभाक रोकम् । तद्वदिह परमात्मना कार्यावस्थानां गृहीतानां तत्संबन्धः साक्षात् परम्परया वा यथाअाणमित्यर्थः ।
१-१-१ जिज्ञासाधिकरणम् ( नानावस्तु निषेघतात्पर्यम् ) ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्, तत् केल कं पश्यत् तत्केन कं विजानीयादित्यादिना । न पुनः, ‘वहु स्यां प्रजायेय’ इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वमपि निषिध्यते । ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इत्यादिनिषेधवाक्यादौ च तत् स्थापितम् - ‘सर्व तं परादात्, योऽन्यत्रात्मनः सर्व वेद, तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतत् यदृग्वेदो यजुर्वेदः इत्यादिना ॥ एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वञ्च वदन्तीनां सर्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूमविभागानर्ह सूक्ष्मदशापत्ति कार्यदशायां च तदर्हस्थूलदशापत्ति वदन्तीभिः श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्य औपाधिकब्रह्मभेदवादस्य अन्यस्याप्यपन्यायमूलंस्य सकलश्रुतिविरुद्धस्य न कथञ्चिदप्यवकाशो दृश्यते । चिदचिदीश्वराणां पृथक्स्वभावतया तत्तच्छु तिसिद्धानां शरीरात्मभावेन प्रकारप्रकारितया श्रुतिभिरेव प्रतिपन्नानां पन्नतया ) श्रुत्यन्तरेण कार्यकारणभावप्रतिपादनं कार्यकारणयोरैक्यप्रतिपादनं च ह्यवि- तदनुरोधेन प्रकारिभेदनिषेध एव भवितुमर्हतीत्यर्थः । निषेधसामान्यं हि विशेषविधाने दृष्टे तद्यतिरिक्तविषयं दृष्टम्, ‘न हिंस्यात्’ इत्यादिषु । विशेषविधानं सामान्यनिषेधो बाधते चेत् — वैधहिंसाया अधर्मत्वप्रसङ्ग इत्यभिप्रायेणाह न पुनरिति । उक्तमर्थमुपक्रमेणैवोपपादयति यत्र त्वस्येति । योऽन्यत्रात्मन इति । अन्यत्रेत्यव्ययं विनाशब्दपर्यायम् । ब्रह्मणः पृथग्भूतं तदविनाभावरहितं नास्तीत्यर्थः । भेदविशेषनिषेधदर्शनात् सामान्येन भेदनिषेधोऽपि तत्रैव पर्यवस्यति, ‘छागो वा मन्त्रवर्णात् ’ इति न्यायादिति भावः । इतरव्याख्यातृभिः, भवद्भिरपि निर्वाहप्रकाराः कृताः; तत्र को विशेष इत्यत्राह एवमिति । अस्मदुक्तनिर्वाहः श्रुतिभिरेवोक्तः, श्रुत्यनुगुणश्च ; तत्कृतनिर्वाहः श्रुतिविरुद्धः, अश्रुतः, तर्काभासमूलश्चेत्यर्थः । अपन्यायमूलस्य सकलश्रुतिविरुद्धस्येति सर्वत्रान्वेति । अन्यस्येति स्वाभाविकमेदामेदं स्वनिष्ठ भेदं चाह । इममर्थे वैदिकदृष्टान्तेनोपपादयति चिदचिदीश्वराणामिति । आग्नेयः अग्नीषोमीयोपांशुयाजी 1 वाक्यादौ - वाक्योपक्रमे । 2 निश्वसितरूपत्वकथनात् प्राणं प्रत्येव वेदादिकं सर्वे प्रति आधारत्वमुक्तम् । 8 यदाग्नेय इत्याग्नेयविधायकवाक्यस्यैकत्वेऽपि तत्रोत्पत्तिवाक्य एव कालंद्वयश्रवणात् यागद्वयमेव विधीयत इति नवीनमीमांसकसरणिः प्रागेव भाष्यकारैरिह स्वयं निर्धारिता । टीकायां तु प्राचीनपक्षेऽपि निर्वाहार्थे ऐन्द्राग्नमेलनम् । वस्तुसत्त्वमात्रेण षट्त्वकथनेऽपि षण्णामपि फलार्थ मेलने भाष्यस्य न तात्पर्यम् ; अनेकसमुच्चयमात्र एव तात्पर्यम् । अतः असंनयतः ऐन्द्राग्नविधानात् तत्काले ऐन्द्रयागामेलनेऽपि न दोष इति टीकाशयः । आग्नेयैकत्वपक्षेऽपि दर्शपौर्णमासीरूपकालभेदावच्छिन्नव्यक्त्योर्द्वित्वेन व्यक्तिषट्कस्यैव फलहेतुत्वात् तावतैव षण्णामिति भाष्यमुपपन्नमिति च ध्येयम् ।
श्रुतप्रकाशिकोपेते श्रीमाध्ये (विशिष्टवेषेणैवैवयम् ) रुद्रम् । यथा-आग्नेयादीन् षड् यागान् उत्पत्तिवाक्यैः पृथगुत्पन्नान् समुदायानुवादिवाक्यद्वयेन समुदायद्वयत्वमापन्नान् “दर्शपूर्णमासाभ्याम्” इत्यधिकारवाक्यं कामिनः कर्तव्यतया विभाति - तथा चिदचिदीश्वरान् विविक्तस्वरूपस्वभावान्, “क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः “, " पतिं विश्वस्यात्मेश्वरम्”, “आत्मा नारायणः परः” इत्यादिवाक्यैः पृथक् प्रतिपाद्य, “यस्य पृथिवी शरीरम्”, “यस्यात्मा शरीरम्”, “यस्याव्यक्तं शरीरम् । यस्याक्षरं शरीरम् । एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः” इत्यादिभिर्वा - क्यैश्विदचितोः सर्वावस्थावस्थितयोः परमत्मशरीरतां परमात्मनस्तदात्मताञ्च प्रतिपाद्य शरीरिभूतपरमात्माभिधायिभिः सह्यात्मादिशब्दैः कारणावस्थः कार्यावस्थश्च परमात्मैक एवेति पृथक प्रतिपन्नं वस्तुत्रितयम् ‘सदेव सोम्येदमग्र आसीत्’, ‘ऐतदात्म्यमिदं सर्वम्’, ‘सर्वं खल्विदं ब्रह्म’ इत्यादिवाक्यं प्रतिपादयति । चिदचिद्वस्तुशरीरिणः परमात्मनः परमात्मशब्देनाभिधाने हि . नास्ति विरोधः, यथा मनुष्यपिण्डशरीरकस्यात्मविशेषस्य अयमात्मा सुखीत्यात्मशब्देनाभिधाने इत्यलमति विस्तरेण ॥
। ऐन्द्रौ द्वौ ऐन्द्रामश्चेति पड्यागाः । ’ उत्पत्तिवाक्यैः – “यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति” इत्येवमादिभिः । उत्पत्तिवाक्यमिति प्रथमप्रतिपत्तिजनकं वाक्यम् [ उच्यते ? ।] पृथगुत्पन्नान्– पृथक् प्रतिपादितान् । समुदायानुवादिवाक्यद्वयेन - “य एवं विद्वान् पौर्णमासीं यजते’, ‘य एवं विद्वानमावास्यां यजते” इत्येताभ्याम् । दर्शपूर्णमासाभ्यामिति । स्वर्गसाधनत्वाकारेणैकीकृत्य तत्कर्तव्यतया विदधतीत्यर्थः । तथा अत्रार्थप्रतिपादनं दर्शयति तथेति शरीरिभूतेति । कारणावस्थः कार्यावस्थश्च परमात्मक एवेति वचनभङ्गया पृथवप्रतिपन्नं वस्तुत्रितयं प्रतिपादयतीत्यर्थः । आग्नेयादिसमुदाये अन्यतमवाचिशब्दैः समुदायाभिधानं न दृष्टम् अत्र तु परमात्मवाचिशब्देन समुदायाभिधानं कथमित्यत्राऽऽहं चिदचिदस्त्विति । दृष्टान्तमाह यथेति । तत्र अन्योन्यं प्रकारप्रकारिभावाभावादन्यंतमवाचिशब्देन न समुदायाभिधानम् अत्र तु तथाभावादुपपन्नम् ॥ कथम् । उच्यते ; अर्थसामर्थ्यात् शब्दसामार्थ्याच चिदचितोरपृथक्सिद्धप्रकारत्वात् निष्कृष्टब्रह्मणः कारणत्वानुपपत्त्या च प्रकारिवाचिशब्देन विशिष्टोपस्थापन सिद्धिः । सब्रह्मशब्दौ विशिष्टस्य सत्त्वबृहत्त्वयोगाद्विशिष्टोपस्थापनसमर्थों । आत्मशब्दश्च व्याप्तिरूपप्रवृत्तिनिमित्तस्य व्याप्यसापेक्षत्वाद्विशिष्टोपस्थापक इति । यद्वा “अक्षरात् संभवतीह विश्वम् “, “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते”, “आत्मन आकाशः संभूतः” इत्यादिषु परमात्ममात्रवाचिभिः शब्दैः कारणमुच्यते । तेषां विशेषणभूतचिदचिदभिधाने शक्तिर्नास्ति । लक्षणायां स एव दोषः । अतः सर्वत्र स्वरूपपरिणाम एव स्वरसप्राप्त इत्यत्राह - चिदचिदिति । श्रुत्यन्तरबलेन स्वरूपविकारासंभवात् कार्योपयुक्तमनुक्तमपि विशेषणं श्रपृषदाज्यनयादर्थस्वभावेन संनिधापितमनुसन्धेयमिति भावः । तदेव लोकप्रयोगेणापि द्रढयति — यथेति । अयमात्मा सुखीत्यात्मविशेषस्य सुखित्वविधाने शरीररहितस्यात्मनो वैषयिकसुखासंभवात् तादृशसुखोपयुक्तमनुष्यादिपिण्डविशिष्टत्वमर्थतः सिध्यति ; तद्वदिति भावः ॥ । 1 अत्र पाठपरिवर्तनं भावप्रकाशिकानुसारात् ‘देवानाज्यपानावह’ इति मन्त्रे आज्यपदेनैव ग्रहणादिति भावः । २ दधिविशिष्टराज्यरूपपृषदाज्यस्यं,
1 १-१-१ शासविकरणम् (निवृत्त्यनुपपतिः) ८१ यत्पुनरिदमुक्तम् - ब्रह्मात्मैकत्व विज्ञाने नैवाविद्यानिवृत्तिर्युक्तेति - तदयुक्तम् ; बन्धस्य पारमार्थिकत्वेन ज्ञाननिवर्त्यत्वाभावात् । पुण्यापुण्यरूपकर्मनिमित्तदेवादिशरीरप्रवेशतत्प्रयुक्त सुखदुःखानुभवरूपस्य बन्धस्य मिथ्यात्वं कथमिव शक्यते वक्तुम् । एवं रूपवन्धनिवृत्तिर्भक्तिरूपापन्नोपासनप्रीत परमपुरुष प्रसादलभ्येति पूर्वमेवोक्तम् । भवदभिमतस्यैक्यज्ञानस्य यथावस्थितवस्तुविपरीतविषयस्य मिथ्यारूपत्वेन बन्धविवृद्धिरेव फलं भवति ; “मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः” इति शास्त्रात्; “उत्तमः पुरुषस्त्वन्यः”, “पृथगात्मानं प्रेरितारं च मत्वा” इति जीवात्मविसजातीयस्य तदन्तर्यामिणो ब्रह्मणो ज्ञानं परमपुरुषार्थलेक्षण मोक्षसाधनमित्युपदेशाच्च ॥ अपि च भवदभिमतस्यापि निवर्तकज्ञानस्य मिथ्यारूपत्वात् तस्य निवर्तकान्तरं मृग्यम् ॥ निवर्तकज्ञानमिदं स्वविरोधि सर्व भेदजातं निवर्त्य, क्षणिकत्वात् स्वयमेव नश्यतीति चेत्-न; निवृत्त्यनुपपति वक्तुमनुवदति यत् पुनरिति । दूषयति तदयुक्तमित्यादिना । प्रपञ्चस्य ज्ञानबाध्यत्वं ज्ञानस्य चैक्यविषयत्वमुभयमपि पराभिमतम् । तत्र प्रथम ज्ञानबाध्यत्वानुपपत्तिमाहं बन्धस्येति । सर्वप्रमाणानुगुणं पारमार्थ्यमुपपादयति पुण्यापुण्येति । प्रतीतिमात्रसिद्धस्य हेतुहेतुमद्भावनियमोऽनुपपन्नः; परमार्थस्यैवार्थक्रियाकारित्वादुत्पत्तिमत्त्वाच्च । असत्यस्य हेतुत्वा संभवमुत्पत्त्यसंभव च प्रागुपपादितमुपजीव्योक्तम् । न हि प्रतीतिमात्र सिद्धमन्यत्र विद्यमानं वस्त्विह किमप्युत्पादयति ; नापि स्वयमिदानीमुत्पाद्यते । किञ्च अपरमार्थत्य भ्रान्तिज्ञानसामग्रीव्यतिरिक्तहेतुसापेक्षत्वं च न दृष्टम् । न चाङ्कुरादिसामप्रयेव भ्रम सामग्री; गिरिशिखरगतमृत्सलिलवीजसंबन्धेन अपवरकगतस्याङ्कुरभ्रमप्रसङ्गात् । न च पदार्थानामर्थक्रियाकारित्वमुत्पत्तिमत्त्वं च मिथ्येति वाच्यम्, ज्ञानबाध्यत्वाभावात् । किञ्च - मिथ्यात्वे पापकरणेऽपि न प्रायश्चित्तापेक्षा, मिथ्येति बुद्धिरेचालमिति भावः । भवताऽपि ज्ञाननिवर्त्यत्वमविद्याया वक्तव्यम्, तच्च सत्यत्वे कथमुपपद्यत इत्यत्राह एवंरूपेति । परमार्थस्य ज्ञाननिवर्त्यत्वं दृष्टद्वारा नोपपद्यते ; अपि त्वदृष्टद्वारा ; यथा सत्य सर्पदष्टविषस्योपासनप्रीतगरुडप्रसादान्निवृत्तिः मिथ्येति ज्ञानात् -तथेत्यर्थः ॥ प्रपञ्चस्य ज्ञाना निवर्त्यत्वमुक्तम् । न तु ; ऐक्यज्ञानस्योपायत्वानुपपत्तिमाह भवदभिमतस्येति । तत्त्वज्ञानं हि मोक्षोपायः । भिन्नविषयस्याभेदज्ञानस्यातत्त्वज्ञानरूपत्वाद्विपरीतफलत्वमित्यर्थः । अद्वैतस्यातथ्यत्वे प्रमाणमाह मिथ्यैतदिति । ऐक्यस्यातात्त्विकत्व कण्ठोक्तिर्दर्शिता । ऐक्यस्यासत्यत्वं यथा फलति, तथा मेदज्ञानस्यैव मोक्षहेतुत्वमाह उत्तम इति । स्मृतिवचसोः सङ्गत्यर्थं श्रुतेः पश्चादुपादानम् । ऐकयज्ञानस्य निवर्तकत्वे प्रमाणविरोध उक्तः । अथ तर्कविरोधमाह अपिचेति । दावानल-विषनाशक विषदृष्टान्ताभिप्रायेण शङ्कते निवर्तकज्ञानमिति । निवर्तकज्ञानं तद्विनाशश्च किं ब्रह्मव्यतिरिक्तम्, उत स्वरूपमिति विकल्पमभिप्रेत्याह नेति । ब्रह्मव्यतिरिक्तत्वाद्घटादेखि विनाशस्य काल्पनिकत्वम्, 1 अपुण्य. कथमिवेत्यादिभाष्यसूचितं भावं दर्शयति किञ्चेति । 2 निवर्तकज्ञानविनाशस्वीकारे हि वक्ष्यमाणदूषणप्रसक्तिः निवर्तकज्ञानं ब्रह्मैवेति स्वीकारे विनाश एव नेत्याक्षेपे - तर्हि तस्यानादित्वात् संसार एव न स्यादिति समाधिं सूचयितुं निवर्तकज्ञानमित्यधिकमिह विकल्पे निवेशितम् । 2-11
८२ श्रुत्प्रकाशिकोपेते भीभाष्ये (भावातिरिक्ताभावनिरासः ) निवर्त - तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिकत्वेन विनाशतत्कल्पना कल्पकरूपाविद्याया कान्तरमन्वेषणीयम् । तद्विनाशो ब्रह्मस्वरूपमेवेति चेत्-तथासति निवर्कज्ञानोत्पत्तिरेव न स्यात् ः तद्विनाशे तिष्ठति तदुत्पत्यसंभवात् ॥ अपिव चिन्मात्र ब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य कोऽयं ज्ञाता ? अध्यासरूप इति यथा स्वप्नपदार्थस्वरूपतदुत्पत्तिस्थितीनां काल्पनिकत्वान्नाशश्च काल्पनिकः, तथेति भावः । विनाशतत्कल्पना कल्पकरूपाविद्याया इति । विनाशः कल्प्यः, तद्विषयभ्रमबुद्धिः कल्पना, कल्पको श्रमाश्रयादिः ; एवंरूपाविद्याया इत्यर्थः । स्वरूपपक्षं दूषयति तथा सतीति । पूर्वस्मिन् पक्षे दूषणं प्रकारान्तरेणाप्युक्तं वेदार्थसङ्ग्रहे, ‘भावरूपस्य नाशो ह्युत्तरावस्थाप्राप्तिः । सा चात्रानुपपन्ना; ब्रह्मव्यतिरिक्तस्यावस्थावतोऽन्यस्य स्थित्यभ्युपगमे अद्वैतहानिप्रसङ्गात्’ इति । भावान्तरं ह्यभावः । घटस्य प्रागभावः पिण्डत्वादिपूर्वावस्था, प्रध्वंसः कपालत्वाद्युत्तरावस्था, इतरेतराभावोऽपि - अश्वस्य गोत्वाभावो ऽश्वत्वम्, गोरप्यश्वत्वाभावो गोत्वम् ॥ संसर्गाभावे कथं भावरूपत्वम् । यदि महीमात्रमेव, तर्हि घटसंसर्गे सत्यपि संसर्गाभावः स्यात् । यद्यतिरिक्तः, तर्ह्यभावोऽङ्गीकृत इति ॥ उच्यते । ‘भवत्पक्षे अभावाश्रयस्य यत् वैलक्षण्यम्, तदेव संसर्गाभावः । यदि महीमात्रमेव अभावाश्रयः, तर्हि भावाश्रयभूतलेऽप्यभावाश्रयत्वप्रसङ्गः तत्रापि महीमात्रसद्भावात् । यदि केनचिद्विशेषेण विशिष्टं भूतलमभावाश्रयः, स एव विशेषः संसर्गाभाव इति । कालविशेषविशिष्टत्वे सति देशविशेषत्वमेव स च विशेषः । तदानीमेव घटसहित प्रदेशान्तरव्यावृत्त्यर्थं देशविशेषत्वमित्युक्तम् ; तस्यैव देशस्य कालान्तरे घटसहितस्य व्यावृत्त्यर्थं कालविशेषविशिष्टत्वे सतीत्युक्तम् । यथाऽऽहुः - “संसर्गाभावमेवं विदुरिह सुधियो भावमेव त्वभावं मन्वानाः, कुम्भवद्भूतलत इतरभूभाग भेदस्त्वभावः । यस्ततत्काल मेद्रव्यति करितगृहमाङ्गणादिप्रदेशः कुम्भाभावाश्रयोऽन्यैरगणि स इह नः काधिकस्योपलम्भः ॥ ” इति ॥ नाशस्यावस्थान्तरत्वात् कर्मनाशं वदतस्तवापि चोद्यं तुल्यमिति चेत् न । कर्म ह्यस्मत्पक्षे भगवत्प्रीत्यप्रीतिरूपम् । तत्र यः संसारफलानुगुणः सङ्कल्पः, तत् विनाश्यं कर्म ; यस्तु मोक्षानुगुणः सङ्कल्पः, स एव पूर्वस्य नाश इत्युपपन्नमेव, “धातुः प्रसादान्महिमानमीशम्” इत्यादिभिः ॥ अथ निवर्तकज्ञानस्य ज्ञात्रनुपपत्तिमाह अपिचेति । न हि खरूपभूतज्ञानस्य ज्ञात्रन्तरापेक्षा । अतस्तद्व्यावृत्त्यर्थं कृत्स्ननिषेधविषयज्ञानस्येत्युक्तम् । प्रमाणजन्यज्ञानं हि साश्रयमेवदृष्टम् । ज्ञाता किं ब्रह्मव्यतिरिक्तः, उत नातिरिक्तः इति विकल्प। भिप्रायेणाह चिन्मात्रेति । प्रथमं धर्मिंप्रश्न ः (१) कोऽयमिति । 1 1 अभावस्य तैर्नित्यत्वस्वीकारात् सर्वदा तदाश्रयत्वापत्तिः । तत्परिहाराय तैः कश्चिद्विशेषो वक्तव्य इति भावः । 2 अभावं भावमेव मन्वानाः संसर्गाभावमेवं विदुः । कथं विदुः । उच्यते । घटाभावाश्रयत्वेन यो देशविशेषः तत्तत्कालविच्छिन्नः परैरगणि, तत्र घटवद्भूतलेतरस्मिन् भूभागे स्थितः मेदः-विशेष एव सः-संसर्गाभावोऽस्माकमिति । अभावस्य टीकास्वारस्यात् धर्मरूपत्वे एवं श्लोकार्थः । धर्मिरूपत्वे त्वर्थः स्पष्टः । 3 प्रतीकक्रमार्थौचित्योभयपरिशीलने अपिचेत्येतद नन्तरं चिन्मात्रेति प्रथमं धर्मिप्रश्न इति वाक्यम्, ततः नहीत्यादि सर्वे स्यादिति भाति । आहेत्येतत् कोयमित्यस्यावतरणं स्यात् । चिन्मात्रदलप्रयोजनवर्णन मत्त्रेति मा० प्र०,
८३ चेत्-न; तस्य निषेध्यतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः ॥ ब्रह्मस्वरूपमिति चेत् - ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम्, उताध्यस्तम् ? अध्यस्तं चेत् — अयमध्यासः तन्मूलाविद्यान्तरं च निवर्तकज्ञानाविषयतया तिष्ठत्येव । निवर्तकज्ञानान्तराभ्युपगमे तस्यापि त्रिरूपत्वात् ज्ञालपेक्षयाऽनवस्था स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वे अस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपं स्वस्य ज्ञाता च ब्रह्मव्यतिरिक्तत्वेन स्वनिवर्त्यान्तर्गतमिति वचनम्, ‘भूतलव्यतिरिक्तं कृत्स्नं देवदत्तेन छिन्नम्’ इत्यस्यामेव छेदनक्रियायामस्य छेत्तुः अस्याइछेदनक्रियायाश्च छेद्यानुप्रवेशवचनवत् उपहास्यम् । अध्यस्तो ज्ञाता स्वनाशहेतुभूतनिवर्तकज्ञाने स्वयं कर्ता च न भवति ; स्वनाशस्या पुरुषार्थत्वात् । तन्नाशस्य ब्रह्मस्वरूपत्वाभ्युपगमे, भेददर्शन - तम्मूलाविद्यादीनां कल्पनमेव न स्यात् — इत्यलमनेन दिष्टहतमुद्गराभिघातेन । तस्मादनादिकर्मप्रवाहरूपाज्ञानमूलत्वात् बन्धस्य तन्निबर्हणम् उक्तलक्षणज्ञानादेव । तदुत्पत्तिश्च अहरहरनुष्ठीयमानपरमपुरुषाराधनवेषात्मयाथात्म्यबुद्धिविशेषसंस्कृतवर्णाश्रमोचितकर्मलंभ्या । तत्र केवलकर्मणामल्पास्थिरफलत्वम्, अनभिसंहितफल परमपुरुषाराधनवेषाणां कर्मणाम् उपासना- ब्रह्मव्यतिरिक्तपक्षे दूषणमाह नेति । कर्मकर्तृत्वविरोधादिति भावः । निवर्त्यत्वे सति हि कर्मकर्तृविरोधः । अतस्तत्परिहारार्थं स्वरूपपक्षं शङ्कते ब्रह्मेति । ज्ञातृत्वधर्मविकल्पोऽयम् । किं स्वरूपमिति । स्वरूपम् – स्वाभाविकमित्यर्थः । पाश्चात्त्यत्वेन बुद्धिस्थतया अध्यस्तपक्षं दूषयति अध्यस्तं चेदिति । निवर्तकज्ञानाविषयतया तिष्ठत्येवेति । ज्ञातृत्वाभ्यासस्य तन्मूला विद्यान्तरस्य च निवृत्तौ निवर्तकान्तरसापेक्षत्वात् निवर्तकान्तरस्य च भवद्भिरनभ्युपगमात् तदुभयं तिष्ठत्येवेति निश्शेषा विद्यानिवृत्तिर्न स्यादित्यर्थः । निवर्तकज्ञानान्तर । भ्युपगमे तस्यापि कस्यचित् कञ्चित् प्रति सिद्धिरूपतया ज्ञानपेक्षयाऽनवस्था स्यादित्याह निवर्तकेति । आद्यं शिरो दूषयति ब्रह्मस्वरूपस्येति । निरुपाधिकस्यैव ब्रह्मखरूपस्याभ्युपगम्यमानं ज्ञातृत्व स्वाभाविकमिति भवतामपि सिद्धान्तः स्यादित्यर्थः । ब्रह्मव्यतिरिक्तस्य ज्ञातुर्निवर्तकज्ञानस्य च ब्रह्मव्यतिरिक्तत्वरूपोपाधिकोडीकारबलेन प्रपञ्चतन्मूला विद्या निवर्तकज्ञानेनैव निवृत्तिर्भविष्यतीत्याशङ्कय व्याघातेन दूषयति निवर्तकज्ञानस्वरूपमिति । ज्ञातुरपि निवर्तकज्ञाननिवर्त्यत्वे निवर्तकज्ञानार्थं श्रवणादौ प्रवृत्तिश्व न स्यादित्याह अभ्यस्तो ज्ञातेति । ज्ञातृनाशस्य परमपुरुषार्थरूपब्रह्मस्वरूपत्वात् नापुरुषार्थतेत्याशङ्कयाह तन्नाशस्येति । पूर्वपक्षनिराकरणमुपसंहरति इतीति । एवं ब्रह्मव्यतिरिक्त कृत्स्नमिध्यात्वनिराकरणेन बन्धस्य सत्यत्वसिद्धेस्तन्निवृत्तिः कर्मसापेक्षोपासनात्मकज्ञानादेवेति कर्मविचारपूर्ववृत्तत्वं युक्तमित्याह तस्मादिति । तस्मात् - साधानचतुष्टयस्य ब्रह्मविचार प्रति पूर्ववृतत्वे वस्तुसामध्ये नाम हेतुरुक्तः ; तच्च निर्विशेषब्रह्माध्यस्तप्रपञ्चस्य कर्मनिरपेक्षज्ञान निवर्त्यत्वम् ; तचानुपपन्नमित्युपपादनेन वस्तुसामर्थ्यासिद्धेरित्यर्थः । स्वरूपानादित्वव्यावृत्त्यर्थं प्रवाहशब्दः । अनिर्वचनीयव्यावृत्त्यर्थः कर्मशब्दः । उक्तलक्षणज्ञानादेव - उपासनात्मकादेव । तदुत्पत्तिर्वर्णाश्रमोचितकर्मलभ्याऽस्तु; ततः किमुपासनादिखरूपज्ञानं प्रति प्रस्तुतकर्मविचारपूर्ववृत्तत्वस्येत्यत्राह तत्रेति । कर्मविचारादेव तस्याल्पास्थिरफलत्वज्ञानं फलितमिति भावः । अनभिसंहितफलेति । ‘यज्ञेन दानेन’ 1 एतदमन्तरं टीकायां ग्रन्थपातो भा० प्र० कथितः । सांप्रतं ग्रन्थ उपलभ्यत एव ।
८४ (कर्म विचारानन्तर्य सिद्धान्तोपसंहारः) त्मकज्ञानोत्पत्तिद्वारेण ब्रह्मयाथात्म्यानुभवरूपानन्तस्थिरफलत्वं च कर्मस्वरूपज्ञानात् ऋते न ज्ञायते, केवलोकारपरित्यागपूर्वकयथोक्तस्वरूप कर्मोपादानं च न संभवतीति कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचारः कर्तव्य इति अथात इत्युक्तम् ॥ इत्यादिकर्मविनियोजकवाक्यार्थज्ञानस्य (इति महासिद्धान्तः) 01 पदार्थज्ञानपूर्वकत्वात् पदार्थभूतकर्मस्वरूपाख्यविशेष्यज्ञानात् ऋते उपासनद्वारा अनन्तस्थिर फलत्वरूपं विशेषणं च न ज्ञायत इति भावः । ततः किमित्यत्राह केवलेति । केवलाकार –आत्मयाथात्म्यबुद्धिसंस्कारशून्याकारः । हानार्थमुपादानार्थं च हि कस्यचिज्ज्ञानम् । तत्र फलद्वारा कर्म त्याज्यम् ; स्वरूपेणोपादेयम्; उभयार्थ ज्ञानं कर्मविचारात् ऋते न सिध्यति । तस्मात् कर्मविचारनिवृत्तौ तज्ज्ञानफलं हानमुपादानं च न भवतीत्यर्थः । अथातरशब्दार्थ निगमयति इति कर्मविचारानन्तरमिति । ब्रह्मविचारः कर्तव्य इत्यनेन ब्रह्मजिज्ञासाशब्दार्थः उक्तः । विचारस्य कर्तव्यतायां नातीव विवादः, शाब्दः आर्थः इत्येतावदेव हि वैषम्यम् । अथात शब्दार्थ एव ह्यतीव विवादः । अतः अथात इत्येतावदुपातम् ॥ -0-0-0- (जिज्ञासाधिकरणरचनारम्भः ) एवं सूत्रस्योक्षरयोजना कृता । अथ तात्पर्यार्थ उच्यते - तत्रेत्यादिना । अक्षरयोजनायां परेणान्यथोक्तोऽक्षरर्थिश्च निरस्तः । तन्निरसनसमय एव परेणान्यथोक्तस्तात्पर्यार्थोऽपि निरस्तः । परेण हि प्रपञ्चस्य सत्यत्वेन ज्ञाननिवर्त्यत्वाभावात् ज्ञानाय ब्रह्मविचारो नारम्भणीय इति पूर्वपक्षं कृत्वा, प्रपञ्चस्य मिध्यात्वेन ज्ञाननिवर्त्यत्वात् ज्ञानाय स आरम्भणीय इति सिद्धान्तितम् । तच्च पूर्वं निरस्तम् । अथ सूत्रकाराभिप्रेतां निरसनीयशंकामुपन्यस्य तदभिप्रेतं तत्परिहारं च वक्तमारभते तत्रेत्यादिना । कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचारः कर्तव्य इत्युक्त्वा, सिद्धवस्तुनि शब्दव्युत्पत्तिसंभवात् ब्रह्मविचारः कर्तव्य इति वचनं व्याहतमिति परिचोदनं पूर्वमीमांसानभिज्ञत्वकृतम् । ‘अथातो धर्मजिज्ञासा’ इत्यत्र अध्ययनानन्तरं तत एव हेतोर्धर्मविचारः कर्तव्य इत्युक्त्वा प्राभाकरैः, अध्ययनस्याचार्यकाधिकारकत्वात् न धर्मविचारः कर्तव्यः इति पूर्वपक्षं कृत्वा, अर्थबोधाधिकारत्वात् कर्तव्य इति सिद्धान्तितम् । भाट्टैस्तु अध्ययनस्य स्वर्गार्थत्वान्न धर्मविचार इति पूर्वपक्षं कृत्वा अर्थज्ञानार्थत्वात् स कर्तव्यः इति सिद्धान्तितम् । तच्च व्याहतं भवत्पक्षे । तत्र हि सूत्राक्षराणि योजयित्वा तात्पर्यार्थ उक्तः ; अत्राप्यक्षरारार्थमुक्त्वा तात्पर्यार्थ उच्यत इत्युपपन्नम् । . अक्षरयोजनायां ब्रह्मविचारारम्भे विशिष्टो हेतुरुक्तः - कर्मणोऽल्पास्थिरफलत्वनिर्णय विशिष्टानन्तस्थिरफलापातप्रतीतिः । अनन्तस्थिरफला पातप्रतीतिर्नास्ति चेत्, अल्पास्थिरफल एवं तृप्तः स्योत् ।
१-१-१ निज्ञासाधिकरणम् ( जिज्ञासाधिकरणरचना ) ८५ तत्र पूर्वपक्षवादी मन्यते वृद्धव्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवात्, अल्पास्थिर फलत्वनिर्णयो नास्ति चेत्, न निर्वेदः स्यादिति विशिष्टो हेतुः । अत्राऽऽपातप्रतीतिः संभावितप्रामाण्या विवक्षिता, तादृशी हि सा प्रवृत्तिहेतुः । तत्र ब्रह्मज्ञानस्यानन्तस्थिरफलापातप्रतीतेः प्रामाण्यसंभावनाऽनुपपन्ना, सिद्धवस्तुनि शब्दस्य बोधकत्वनिश्चयाभावादिति विशिष्टहेतौ विशेष्यांशासिद्धिमाशङ्कय, सिद्धवस्तुनि व्युत्पत्तिसंभवादनन्तस्थिरफलापातप्रतीतिरस्तीति परिहियते । अत्र पूर्वपक्षवादी प्राभाकरः । सूत्रकारैर्मविष्यद्दर्शनवेदित्वात्, कैश्चिदनुक्तत्वेऽपि संभाव्यानानां प्रतिकूलपक्षाणाम् आशङ्कय निरसनीयत्वाच्चैवं पूर्वपक्षीकरणं युक्तम् । यद्वा जैमिनिमतं हीदम्, चोदनालक्षणोऽर्थ एव वेदप्रतिपाद्य इति । चोदना च क्रियायां प्रवर्तकं वचनम् । तमाशङ्कय सिद्धवस्त्वपि वेदप्रतिपाद्यमिति 1 सूत्रकारैः साधयितुं युज्यते । । } 1 अक्षरयोजनायां ब्रह्मविचारः कर्तव्य इत्युक्तत्वात् ब्रह्मविचारारम्भो न युक्त इति पूर्वपक्षसमाप्तायुक्तत्वात् ब्रह्मविचारारम्भो युक्त इति स्थितमिति सिद्धान्तस्योपसंहृतत्वाच दीपे कण्ठोक्तौ विषयः संशयश्धेहार्थसिद्धौ । ब्रह्मविचार इत्युक्तत्वात् ब्रह्ममीमांसा विषय इति सिद्धम् । आरम्भो न युक्तः, युक्तः इति चोक्तत्वात् संशयसिद्धिः । ब्रह्ममीमांसा किमारम्भणीया, उतानारम्भणीयेति ; तदर्थं चिन्त्यते - किं वेदान्ताः ब्रह्मणि प्रमाणम्, उत नेति तदर्थ परीक्ष्यते -शब्दस्य सिद्धवस्तुबोधनसामर्थ्यावधारणं संभवति, नेति; तदर्थं विचार्यते–किं वृद्धव्यवहारादन्यत्र शब्दार्थसंबन्धावधारणं संभवति, नेति; वृद्धव्यवाहारे च शब्दस्य सिद्धवस्तुबोधकत्वावधारणं संभवति, नेति च । न संभवतीति पूर्वः पक्षः । संभवतीति सिद्धान्तः । यदा व्यवहारादन्यत्र न व्युत्पत्तिः, व्यवहारे च शब्दस्य सिद्धरूपार्थबोधकत्वावधारणं न संभवति तदा शब्दस्य सिद्धवस्तुबोधनसामर्थ्याभावात् वेदान्तानामपि ब्रह्मणि परिनिष्पन्नरूपे प्रामाण्याभावनिश्चयवतः पुरुषस्य अनन्तस्थिरफलापातप्रतीतेः प्रामाण्यसंभावनाया असिद्धेर्विशिष्टहेत्वभावादनारम्भणीयेति पूर्वपक्षे फलफलिभावः । राद्धान्ते तु यदा व्यवहारादन्यत्र व्युत्पत्तिर्व्यवहारे सिद्धवस्तु परत्वावधारणं च संभवति, तदा शब्दस्य सिद्धरूपार्थे सामर्थ्यात् वेदान्तानामपि ब्रह्मणि परिनिष्पन्नरूपे प्रामाण्यात् प्रामाण्याभावनिश्चयरहितपुरुषस्य अनन्तस्थिर फलरूपब्रह्म विषयापातप्रतीतिप्रामाण्यसंभावनासिद्धेः विशिष्टहेतु सिद्ध्या ब्रह्ममीमांसा आरम्भणीयेति विचाराणां फलफलिभावः । पूर्वपक्षमुपक्षिपति तत्रेति । पूर्वे मृषावाद्युक्तं सूत्रतात्पयं व्युदस्तम् ; तद्व्यावृत्ति सूचयति तत्रशब्देन । तत्र - २ प्रपञ्चसत्यत्वे स्थिते सतीत्यर्थः । पूर्वपक्षमुपपादयति वृद्धव्यवहारादिति । वृद्धः - 1 तमिति । चोदनालक्षणार्थमित्यर्थः । 2 एवञ्चास्य तत्रेत्यस्य, अधिकरणान्ते, स्थितमिति पदेनान्वयः । प्रपञ्चसत्यत्वे स्थिते सति मृषावाद्युक्ताधिकरणशरीरायोगादेव मधिकरणशरीरं स्थितमित्यर्थः । वस्तुतः तत्रेत्यस्य ब्रह्मविचारविषये इत्यर्थे पूर्वपक्षी मन्यत इत्यत्रैव सुकरोऽन्वयः ।
ननु कर्म विचारानन्तरमिति अथशब्दार्थः स्यान्नाम । तत एव हेतोरित्यर्थकम् अत इति पदं किमर्थमिति शंकायां सूत्रस्याधिकरण रूपत्वं वर्णयितुं तत्रेत्यादिर्ग्रन्थः । न्यायोपयोग्यनुमानसमर्पकं हि तत्पदमिति ।
८६ भुतप्रकाशिकोपैते श्रीमाण्ये ( भाट्टतार्किक निरासः) व्यवहारस्य च कार्यबुद्धिपूर्वकत्वेन कार्यार्थ एव शब्दस्य प्रामाण्यमिति कार्यरूप बेदार्थः । अतो न वेदान्ताः परिनिष्पन्ने परे ब्रह्मणि प्रमाणभावमनुभवितुमर्हन्ति । न च पुत्रजन्मादिसिद्धवस्तुविषयवाक्येषु हर्षहेतूनां कालत्रयवर्तिनामर्थानामानन्त्यात् सुप्रसुखप्रसवादिद्दर्षहेत्वर्थान्तरोपनिपातसंभावनया च, प्रियार्थप्रतिपत्तिनिमित्तमुखविकासादिलिङ्गेनार्थविशेषबुद्धिहेतुत्वनिश्चयः । नापि व्युत्पन्नतरपदविभक्त्यर्थस्य पदान्तरार्थनिश्चयेन प्रकृत्यर्थनिश्चयेन वा शब्दस्य सिद्धवस्तुन्यभिधानशक्तिनिश्चयः; ज्ञातकार्याभिधायि पदसमुदायस्य व्युत्पन्नः, प्रयोज्यः प्रयोजकश्च । तयोर्व्यवहारः - वाचिकः कायिकश्च । व्यवहारादन्यत्र शक्त्यवधारणं मा भूत् । ततः किमित्यत्राह व्यवहारस्य चेति । कार्यधीपूर्वकत्वफलमाह कार्यार्थ एवेति । ततः फलितमाह कार्यरूप इति । वेदस्य शब्दात्मकत्वात् शब्दस्य च व्युत्पत्त्यपेक्षत्वादिति भावः । ततः किमित्यत्राह अत इति । अतः - वेदार्थस्य कार्यरूपत्वादित्यर्थः । न प्रमाणभावमनुभवितुमर्हन्ति । प्रामारण्यसंभावना च नास्ति; अयोग्यत्वादित्यर्थः । प्रथमव्युत्पत्तिर्वृद्धव्यवहारादन्यत्र न संभवति । न हि घटोऽस्तीत्युक्ते प्रवृत्त्यभावे सति तस्य बोधकत्वं ज्ञायते । गामानयेत्यादिशब्दप्रयोगानन्तरं प्रयोज्यप्रवृत्ति दृष्ट्रा, प्रवृत्तेः कार्यबुद्धिपूर्वकत्वं जानन् व्युत्पित्सुः, अयं शब्दः कार्यरूपार्थबोधक इति निश्चिनोति । तत्र बहुषु प्रयोगेष्वनुवृत्तशब्दस्यानुवृत्तार्थेन संबन्धं व्यावृत्तशब्दस्य व्यावृत्तार्थेन संबन्धं गृहीत्वा आवापोद्वापमुखेन अर्थविशेषैः शब्दविशेषसंबन्ध निश्चिनोतीति प्रथमं व्युत्पत्तिः कार्यार्थ एव । न हि प्रथमत एव, अस्य शब्दस्वायमर्थ इत्युक्ते, अस्य शब्दस्यायमर्थ इत्येतद्वाक्यस्थपदानामर्थप्रतीतिः । एवं कार्यार्थ एव व्युत्पत्ति कृतवतः पुरुषस्य, अस्य शब्दस्य अयमर्थ इति पश्चाच्छिक्षितेऽपि प्रथम कायार्थपरतया व्युत्पन्नकतिपयपदसमभिव्याहारदर्शनात् प्रथमव्युत्पत्त्यविरोधेन तत्तच्छब्दार्थ संबन्धग्रहणात् सर्वे शब्दाः कार्यार्थपरा एवेति गृपन्ते । मतः, “य एव लौकिका, त एव वैदिकाः” इति न्यायात् वेदान्ताः सिद्धवस्तुनि न बोधका भवन्तीत्यर्थः ॥ वेदान्तानां संस्कृतशब्दत्वात् भाषान्तरेण प्रथमं व्युत्पन्नस्य पुरुषस्य संस्कृते शब्दे अस्य शब्दस्यायमर्थ इति व्युत्पाद्यमाने प्रथममेव सिद्धवस्तुनि व्युत्पत्तिः कृता स्यादिति चेन्न – कार्यार्थपरत्वेन प्रथमव्युत्पन्नभाषान्तरशब्दानां पर्यायत्वेन व्युत्पाद्यमानत्वात् संस्कृतशब्दा अपि कार्यार्थपरत्वेनैव हि व्युत्पन्नाः स्युः। 1 सिद्ध वस्तुनि व्युत्पतेर्भाट्टैरुक्तमुदाहरणं व्युदस्यति न चेति । कालत्रयवर्तिनामिति पञ्चिकाया मुक्तम् ; तदत्राभिप्रेतम् । देशकालयोग्यतादिभिः पुत्रजन्म जानातीत्यत्राह सुलग्नेति । सुलमसुखप्रसवादिनाऽन्यथासिद्धिर्नयविवेकोक्ता । आदिशब्देन पित्राद्यरिष्टाभावो भाविसमृद्ध्यादिकं च विवक्षितम् । व्युत्पत्तिर्नाम शब्दस्यार्थविशेषैस्सह संबन्धग्रहणम्, न त्वर्थमात्रेणेति एवं दूषणमुक्तम् । नैयायिकादिभिरुक्तमुदाहरणं व्युदस्यति नापीति । व्युत्पन्नेतरपदस्य पदान्तरार्थनिश्चयोदाहरणमिदम् — कः कूजतीति प्रश्नस्य पिकः कूजतीति केनचिदुक्ते व्युत्पन्न [कः ] कूज तिशब्देन व्युत्पित्सुना पिकशब्दार्थो ज्ञायते । व्युत्पन्नेतर पदविभकृत्यर्थस्य प्रकृत्यर्थनिश्धयोदाहरणमिदम् - काठैः स्थास्यामोदनं पचतीत्युक्ते व्युत्पन्नविभक्तिपचतिशब्दार्थेन व्युत्पित्सुना काष्ठादिप्रकृत्यर्थो ज्ञायत इति । ज्ञातेति । इदानीं श्रुते अस्मिन् वाक्ये पूर्व कार्यपरतया व्युत्पन्नवावयस्थकतिपय पददर्शनात् अयमपि पदसमुदायः कार्याभिधायीति ज्ञायत इत्यभिप्रायेण
1 १-१-१ जिज्ञासाधिकरणरचना (अतिनिरासेन कार्यव्युत्पत्तिः) ; ८७ तदंशविशेषनिश्चयरूपत्वात् तस्य । न च सर्पाद्भीतस्य नायं सर्पों रज्जुरेषेति शब्दश्रवणसमनन्तरं भयनिवृत्तिदर्शनेन सर्पाभावबुद्धिहेतुत्वनिश्चयः अत्रापि निश्चेष्टम्, निर्विषम्, अचेतनमिदं वस्त्वित्याद्यर्थबोधेषु बहुषु भयनिवृत्तिहेतुषु सत्सु विशेषनिश्चयायोगात् । कार्यबुद्धिप्रवृत्तिव्याप्तिबलेन शब्दस्य प्रवर्तकार्थावबोधित्वमवगतमिति सर्वपदानां कार्यपरत्वेन सर्वैः पदैः कार्यस्यैव विशिष्टस्य प्रतिपादनात् नान्यान्वितस्वार्थमात्रे पदशक्तिनिश्चयः । इष्टसाधनताबुद्धिस्तु कार्यबुद्धिद्वारेण प्रवृत्तिहेतुः, न स्वरूपेण अतीतानागतवर्तमानेष्टोपायबुद्धिषु प्रवृत्त्यनुपलब्धेः । इष्टोपायो हि, मत्प्रयत्नात् ऋते न सिद्ध्यति, अतो मत्कृतिसाध्यः इति बुद्धिर्यावन्न जायते, तावत् न प्रवर्तते । अतः कार्यबुद्धिरेव प्रवृत्तिहेतुरिति प्रवर्तकस्यैव शब्दवाच्यतया कार्यस्यैव वेदवेद्यत्वात् ज्ञातकार्याभिधायिपदसमुदायस्येत्युक्तम् । तदंशविशेषः – कार्याशविशेषः । कार्ये धनेककारकविशिष्टम् । तस्य कार्यस्य विशेषणांशनिश्चयरूपत्वात् तस्य — पदान्तरार्थनिश्चयस्य प्रकृत्यर्थ निश्चयस्य चेत्यर्थः । यद्वा – तदंशविशेषः - कार्याभिधायिपदसमुदायांशविशेषः । मृषावादिभिरुक्तमुदाहरण दूषयति न चेति । वाचस्पतिनोक्तमर्थमाशङ्कय परिहरति कार्येति । तेन खल्वेवं सिद्धवस्तुनि प्रामाण्यमुपादितम् — सर्वशब्दानामर्थोऽनुयायी वक्तव्यः । किं कार्यरूपार्थाभिधायित्वमुनुयायि, उत कार्यान्वितस्वार्थाभिधायित्वम्, उत कारकान्वितस्वार्थाभिधायित्वम् ? प्रथमे कारकप्रदेषु व्यभिचारः, तेषां कार्याभिधायित्वाभावात् । द्वितीये लिङादिषु व्यभिचारः ; तेषां कार्यान्वितस्वार्थाभिघायित्वाभावात् । तृतीये च कारकपदेषु व्यभिचारः ; तेषां कारकान्वितस्वार्थाभिधायित्वोभावात् । तस्मादन्यान्वितस्वार्थाभिघायित्वं पदानामनुयायीति वक्तव्यमन्विताभिधायित्ववादिना । अन्यान्वितत्वं सिद्धवस्तुनोऽपि स्यादिति कार्यरूपार्थ एव व्युत्पत्तिरिति निर्बन्धोऽनुपपन्न इति । इमां शङ्कामभिप्रेत्य परिहरति कार्यबुद्धीति । कार्यबुद्धिप्रवृत्तिव्याप्तिबलेनेतिं उत्तरत्र सर्वपदानां कार्यपरत्वेनेत्यनेनान्वयः । शब्दप्रयोगानन्तरं प्रवृत्तिदर्शनात् शब्दस्य प्रवर्तकार्थावबोधकत्वात् कार्यबुद्धेः प्रवृत्तेश्च व्याप्तिबलेन प्रवर्तकस्य च कार्यरूपत्वात् सर्वैः पदैः कार्यमेव विशिष्टं प्रतिपाद्यते । तस्मात् नान्यान्वितस्वार्थमात्रे पदशक्तिनिश्चयः, अपितु विशिष्टकार्यांशविशेषे पदशक्तिनिश्चय इत्यर्थः ।
ननु कार्यमेव प्रवर्तकं चेत्, प्रवर्तकस्य शब्दार्थत्वात् सर्वशब्दानां कार्यपरत्वं स्यात् । तन्न; इष्टसाधनताबुद्धेः प्रवर्तकत्वादिति भाट्टोक्तमर्थमाशङ्कयाह इष्टसाधनतेति । खप्रयोजनोपायः परेण साध्यते चेत्, तत्रापि न प्रवृत्तिरिति वर्तमानाया अपि इष्टोपायताबुद्धेरप्रवर्तकत्वं दृष्टम् । अतः कार्यबुद्धिः प्रवृतिव्याप्येत्यर्थः ॥
ननु कार्यबुद्धिरपि प्रवृत्ति व्यभिचरति, निर्धनस्य द्विजस्य यागकर्तव्यता बुद्धिमत्त्वेपि प्रवृत्त्यभावात् ॥ नैवम् ; मयैवाद्य साघयितुं शक्यमिति बुद्धिर्हि कार्यबुद्धिः । न तस्याः प्रवृत्तिव्यभिचारः, निर्धनस्य हि नैवंविधा प्रतिपत्तिः, किंतु यागः कदाचित्कर्तव्यः, अर्थादिलाभादनुष्ठाने सति फलप्राप्तिरस्तीति । अतो न दोषः । ततः किमित्यपेक्षायामुपपादितहेतुशरीरं वदन् शङ्कान्तरं च परिहरन् पूर्वपक्षं निगमयति अत इत्यादिना । ब्रह्मविचारारम्भे विशिष्टो हेतुरुक्तः, तत्र विशेष्यांशस्यानन्त स्थिरफलापात प्रतीतिरूपस्यासिद्धिरुक्ता । अत्र चोद्यमापादितम्, मन्त्रार्थवादेषु उपासनविधिशेषभूतेष्वनन्त स्थिर फलापात-
८८ श्रुतप्रकाशिकोपेते श्रीमाध्ये (सिद्धेव्युत्पत्ति सिद्धान्तः) परिनिष्पन्न रूपब्रह्मप्राप्तिलक्षणानन्तस्थिरफलाप्रतिपत्तेः, “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” इत्यादिभिः कर्मणामेव स्थिरफलं त्वप्रतिपादनाच्च कर्मफलाल्पा स्थिरत्वब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुको ब्रह्मविचारारम्भो न युक्त इति । अत्राभिधीयते - निखिललोकविदितशब्दार्थ संबन्धावधारणप्रकारमपनुद्य सर्वशब्दानामलौकिकैकार्थावबोधित्वावधारणं प्रामाणिका न बहु मन्वते । एवं किल बालाः शब्दार्थसंबन्धमवधारयन्ति - मातापितृप्रभृतिभिः अम्बातात मातुलादीन् शशिपशुनरमृगपक्षि सर्पादश्च, ‘एनमवेहिं’ ‘इमं चावधारय इत्यभिप्रायेणाङ्गुल्या निर्दिश्य [निर्दिश्य ] तैस्तैरशब्दस्तेषु तेष्वर्थेषु बहुशः शिक्षिताः शनैशनैस्तैस्तैरेव शब्देस्तेषु तेष्वर्थेषु स्वात्मनां बुद्धयत्पत्तिं दृष्ट्वा शब्दार्थयोः संबन्धान्तरादर्शनात् सङ्केतयितृपुरुषाज्ञानाच्च तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धन प्रतीतिसिद्धेः न विशेष्यांशासिद्धिरिति विशिष्ट एव हेतुरिति । एतदाशङ्कयाह अक्षय्यं ह वा इति । अयमर्थः यदि मन्त्रार्थ वा देण्वनन्त स्थिर फलप्रतीत्या ब्रह्मविचारारम्भः, तर्हि पूर्वभागेऽपि “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” इत्यादिभिरनन्तस्थिर फलप्रतीत्या अल्पास्थिरफलत्वनिर्णयरूपविशेषणांशां सिद्धेर्ब्रह्म विचारारम्भो न युक्त इति । विशिष्टहेतौ विशेषणविशेष्ययोरन्यतरांशांसिद्ध्यभिप्रायेण कर्मफलाल्पा स्थिरत्वब्रह्मज्ञानफलानन्तस्थिरत्वज्ञानहेतुक इत्युक्तम् ॥ ः अत्राभिधीयत इति । अस्मिन् पूर्वपक्षे सूत्रकारैः परिहारोऽभिधीयत इत्यर्थः निखिलेति । अन्यथा वदता भवतापि वक्ष्यमाणप्रकारेणैव शब्दव्युत्पत्तिः कृतेति निखिललोकशब्दस्य भावः । प्रामाणिकाः प्रमाणेनार्थ स्वीकुत इत्यर्थः । कथं संबन्धावधारणमित्यत्राह एवं किलेति । मातापितृप्रमृतिभिरिति । अयं भाव यदा स्वयमेव बालो व्युत्पत्तिक्षमो भवति, तदानीमध्येनं वृद्धैरुपाध्यायादिभिर्व्युत्पादयितुं श्रवानी मातापित्रादयो न हि स्वयं व्युत्पत्त्यक्षमदशायामुपेक्षन्ते । किन्तु अक्षरशिक्षाद्यपयोगिनीः शिक्षाः प्रथमत एवं खबुद्धिपूर्वकं कुर्वन्तीति । अम्बातातप्रभृतिः सप्रतियोगिकः शब्दगणः, शशिपशुप्रभृतिरप्रतियोगिक शब्दगण इति विभागः । असंबन्धिशब्दव्युत्पत्तेः पूर्वमेवाम्बातातादिशब्दव्युत्पत्तिर्दृश्यते । सा च त्वदभिमतशब्दार्थ संबन्धग्रहणे तु नोपपद्यते । न हि कञ्चित्प्रति पिता अन्यस्यापि पिता भवति । तस्माद्वयुत्पित्सोर्मातापित्रादिषु अन्यैस्तत्तच्छब्दप्रयोगासंभवात् प्रथममम्बादिशब्दार्थव्युत्पत्तिः त्वन्मते न संभवति । अतो बुद्धिपूर्विकैव प्रथमव्युत्पत्तिरिति ज्ञापनार्थं कोटिद्वयं शब्देषु दर्शितम् । यादृच्छिक वृद्धव्यवहारिणानन्तशब्दव्युत्पत्त्यनुपपत्तिश्च । सर्वलोकसंप्रतिपन्नव्युत्पत्तिप्रकारापह्रवश्च । एनमवेहि इमञ्चावधारयेति । एनम् - बोधकं शब्दम्, इमम् — बोध्यमर्थञ्चावेहीत्यर्थः । बहुश इति । यावत् अङ्गुलिनिर्देशशब्दप्रयोग साहचर्य दर्शनजनितवासनाभूयस्त्वोदयेन स्वयमेव ततच्छब्दान् प्रयोक्तुम् अर्थमात्रदर्शनेन शब्द स्म शब्दमात्र श्रवणेनार्थं स्मर्तं च क्षमा भवन्ति, तावदित्यर्थः । शिक्षिताःतैस्तैः शब्दैः तेषु तेष्वर्थेषूत्पादितज्ञानाः । एवं तङ्गुल्या निर्दिष्टेष्वर्थेष्वमी शब्दाः सङ्केतिताः इति मन्येरन्निति चेत् — 1 यद्वा लिङ्गवज्जग्यजनकभावादिसंबन्धान्तराद्बोधका इति मन्येरन्निति चेत् — तत्राह संबन्धान्तरादर्शनात्सङ्केतयितृपुरुषाज्ञानाच्चेति । अयमर्थः - यादृच्छिकव्युत्पत्तावपि तुल्यं चोद्यम् । 1 भाष्ये संबन्धान्तरपदेन धूमजीमूतादिरूपहेतौ वह्निवर्षादिरूपसाध्येन जन्यत्वजनकत्वादिसंबन्धानां संकेतरूपसंबन्धस्य च ग्रहणमिति मनसिकृत्य यद्वेत्युक्तम् । शिक्षकपुरुष /
१ - १-१ जिज्ञासाधिकरणम् (क्रमेणसर्वशब्द सिद्धव्युत्पत्तिः) ८९ 1 इति निश्चिन्वन्ति । पुनश्च व्युत्पन्नतरशब्देषु, ‘अस्य शब्दस्य अयमर्थः’ इति 1 पूर्व [चत् ] वृद्धैः शिक्षिताः शब्दप्रयोगानन्तरं प्रयोज्यप्रवृत्तिं दृष्टवतो व्युत्पिसोरियं शङ्का भवति, एतच्छब्दप्रयोगादनन्तरमस्य प्रवृत्तिः किं जन्यजनकभावादिसंबन्धात्, उत सङ्केतादिति । तत्र संबन्धान्तरशङ्का तु अदर्शनादेव न जायत इति चेत् — बुद्धिपूर्वकव्युत्पपत्तावप्ययं परिहारः समानः । सङ्केतबुद्धयुत्पत्तिश्च नोपपद्यते । किमेते अस्मन्मातापित्रादयः सङ्केतयन्ति, उत पूर्वमेव कश्चित् सङ्केतितवान् इति । न तावत्प्रथमपक्षः; अनेकैः पुरुषैस्तेष्वेवार्थेष्वेकरूपशब्दप्रयोगदर्शनात् । नापि द्वितीयः ; अनेन पूर्वं सङ्केतिताः शब्दा इति सङ्केतयितुः पुरुषस्याज्ञानादिति परिहारस्तवापि वक्तव्यः ः सोऽस्माकमपि समानः । सर्वप्रमाणानां बोधकत्वे अविशिष्टेऽपि प्रत्यक्षस्य वैषम्यं सत्तया ज्ञानजनकत्वम् । अनुमानागमौ तु ज्ञाततया ज्ञापकौ । तत्रानुमानं जन्यजनकभावादिसंबधान्तरज्ञानेन बोध्यविषयबोधजनकम् ; शब्दस्तु बोध्यबोधकभावरूपसम्बन्धज्ञानादेव बोध्यं बोधयति । एवं संबन्धान्तरशङ्का सङ्केतितत्वशङ्का च निरस्ता । सम्बन्धान्तराभावात्सङ्केतयितृपुरुषाज्ञानाच्च बोध्यबोधकभाव एव सम्बन्ध इति न बालैर्ज्ञातुं शक्यमिति चेत् तत् तवापि तुल्यम् । किञ्च शब्दोच्चारणानन्तरं प्रयोज्यवृद्धस्य प्रवृत्तिं दृष्ट्रा प्रवृत्तेश्च कार्यबुद्धिपूर्वकत्वमनुमाय, यदनन्तरं यद्भवति तत् तस्य कारणमिति न्यायात् शब्दोच्चारणेन कार्यबुद्धिरस्य जातेति कार्यरूपः शब्दार्थ इति बोद्धुं बालैरतीब न शक्यते । अशक्यत्वं दृश्यते च; न हि बाला उक्तप्रकारेण कार्यार्थपरत्वं शब्दस्य निश्चिन्वन्ति । अतो बालैर्दुरवगमत्वचोद्यं भवत्पक्ष एवातीव प्रसजति ॥ कालपरिपाकात् ज्ञायत इति चेत् — अयं परिहारोऽस्मत्पक्षे सुसङ्गत इति ।
। पुनश्चेति । अस्य शब्दस्य अयमर्थ इति व्युत्पत्तिश्चेत् — अन्विताभिघानभङ्गप्रसङ्ग इति चेत् —न ; प्रातिस्तिकव्युत्पत्तेः समुदायज्ञानार्थत्वात् । न हि काव्यादिषु वाक्यार्थज्ञानोपयोगित्वेन संपाद्यमानं पदार्थज्ञानं वाक्यार्थज्ञानविरोधि । न ह्यक्षरशिक्षा च " पदार्थज्ञानविरोधिनी । एवं तैस्तैः पदैः परस्परान्वितस्वार्थाभिधानव्युत्पत्तेः प्रतिपदमर्थव्युत्पत्तिर्न विरोधिनी; अपि तु उपयुक्तैव । यथा भवत्पक्षे आवापोद्वापरूपेणं प्रतिपदार्थव्युत्पत्तिर्वाक्यार्थज्ञानोपयोगित्वान्न विरोधिनी, तद्वत् । भवत्पक्षे तु प्रातिस्विकव्युत्पत्तिः पश्चाद्भाविनी, अत्र तु पूर्वभाविनीति विशेषः । वाक्यार्थज्ञानोपयोगित्वं समानम् । शब्देनान्वयपर्यन्ताभिधानं धन्विताभिधानम् । प्रातिस्विकव्युत्पत्तावपि तत्रैव व्युत्पत्तिः क्रियत इति न विरोधः । अभिहितान्वयपक्षे अर्थानां परस्परान्वयबोधनयोग्यत्वं शब्दानां स्वार्थबोधनशक्तिः शब्देरपि परस्परारान्वययोग्यत्वेन स्वार्थाभिधानमिति त्रयमपि कल्पनीयम्; अन्विताभिधानंपक्षे तु शब्दानां स्वार्थबोधनशक्तेरेव अन्वयपर्यन्तत्वाभ्युपगमात् कल्पनालाघवमस्तीति स एवात्र स्वीकृतः । मकेतस्य शीघ्रोपस्थितत्वात् सर्वत्रानुगतत्वसंभावनया च प्रथमं तन्मात्रस्य संबन्धान्तरपदेन ग्रहणेनावतारणम् । संकेतत्वादिरूपेण तदग्रहणादिति तदर्थः । संकेतद्वैधञ्च वक्ष्यति । एकैकांशे एकै. कांशावतारकत्वविवक्षायां क्रमभंगः, इति चेदिति द्विर्वचनासांगत्यश्चेति भाति । पाठो वा निरीक्ष्यः । 1 पूर्ववृद्धैः - उक्तपूर्वैर्मातापित्रादिभिः । त एव हि व्युत्पन्नशब्दोऽयम्, नत्वयमिति 2 पदात् अक्षरसमुदायादर्थज्ञानं पदार्थज्ञानम् । सुखं जानन्ति । 2-12
९० श्रुतप्रकाशिकोपेते श्रीमाष्ये (सिद्धव्युत्पत्तौ प्रकारान्तरम् ) सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधिवाक्यजातं प्रयुञ्जते । प्रकारान्तरेणापि शब्दार्थसंबन्धावधारणं सुशकम् - केनचित् पुरुषेण हस्तचेादिना । ‘पिता ते सुखमास्ते’ इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तः, पिता ते सुखमास्त इति शब्द प्रयुङ्क्ते । पार्श्वस्थोऽन्यो व्युत्पित्सुः मूकवत् चेष्टाविशेषज्ञः तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वाऽनुगतः तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा, अयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोति - इति, कार्यार्थ एव व्युत्पत्तिरिति निर्वन्धो निर्निबन्धनः । । अन्विताभिधानभङ्गप्रसङ्गश्च परिहृतः ॥ अस्य शब्दस्य अयमर्थ इत्यत्राप्ययमर्थ इति बुध्यस्वेति वक्तं भवति ; तस्मात् कार्यार्थ एव व्युत्पतिरिति चेत् — एवं तर्हि यादृच्छिकन्युत्पतावपि सिद्धवस्तुन्येव व्युत्पत्तिः स्यात् । प्रयोज्यवृद्धस्य कार्यबुद्धिर्जातेति हि व्युत्पित्सुर्जानाति ॥ शब्दबोध्यत्वं कार्यस्यैव ; न बुद्धेः । बुद्धिर्हि शब्दजन्या; न तु शब्दवाच्येति चेत् — अत्रापि शब्दबोध्यत्वं तत्तत्पदार्थस्यैव न बुद्धेः । न हि घटवुद्धिर्घटशब्दवाच्या अपि तु तज्जन्या ; वाच्यस्तु घट एव इति तुल्यः परिहारः इत्यभिप्रेत्य एनमवेहि इमं चावधारयेत्यभिप्रायेणाङ्गुल्या निर्दिश्येत्युक्तम् । तत्तदर्थावबोधिवाक्यजातं प्रयुञ्जत इति । यादृच्छिकन्युत्पत्तौ कतिपयशब्दानां कार्यार्थपरत्वेन व्युत्पत्तिदर्शनात् व्युत्पादकाः पुरुषा अपि कार्यार्थ एव व्युत्पत्तिं कृतवन्तो गामानयेत्यादिवाक्यं प्रयुञ्जत इति चेत् — अनेकशब्दानां सिद्धवस्तुपरत्वेन, व्युत्पादकाः पुरुषा अपि तथैव व्युत्पत्ति कृत्वा तत्तदर्थविवक्षया शब्दान् प्रयुञ्जते । व्युत्पत्तिदर्शनं प्रयोगदर्शनमपि ह्यभयंमत्रा (भयत्रा ?) विशिष्टमिति भावः । . एवं बुद्धिपूर्वकव्युत्पत्त्या शब्दानां सिद्धवस्तु परत्वमुक्तम् । यादृच्छिकव्युत्पत्तावपि सिद्धार्थेऽपि व्युत्पत्तिरस्तीत्याह प्रकारान्तरेणापीति । शब्द निरपेक्ष तत्तदर्थज्ञानं चेष्टादिना संभवतीति दर्शयति मूकवदिति । परोक्तयादृच्छिकव्युत्पतौ व्युत्पित्सुभ्यतिरेकेण पुरुषद्वयापेक्षा, गवाद्यपेक्षा च । अस्यां तु व्युत्पित्सुव्यतिरेकेण पुरुषत्रयापेक्षेति वैषम्यम् । किञ्च पुत्रस्ते जात इत्यादिवाक्यस्य गामानयेत्यादिवाक्यस्य च वैषम्यं दुरुपपादम् । कालत्रयवर्तिहर्षहेतुबाहुल्यसंभावनया हि पुत्रजन्मवाक्ये व्युत्पत्तेरशक्यत्वमुक्तम् । तन्न ; संनिहितं पुत्रजन्म दृष्ट्रा तज्ज्ञापनाय प्रवृत्ते पुरुषे ज्ञाते, पश्चाच्च जातकर्मादौ दृष्टे, ततः पूर्वमनुल्लसितमुखत्वादसंभावितपुत्रजन्मविज्ञानस्य पुरुषस्यैतद्वाक्यश्रवणानन्तरभाविनो मुखविकासस्यातीतागामिहर्षहेत्वन्तरश्रवणमूलत्वशङ्कानुदयात् । न हि संनिहितहेतुपरित्यागेनादृष्टहेतुशङ्का घियमधिरोहति । सुलमसुखप्रसवादिहेत्वन्तरशङ्का स्यादिति चेत् — नैवम् ; सुलमादिमात्रस्य हर्षहेतुत्वायोगात् । न खल्वन्यदीयपुत्रजन्माद्यनुबन्धिसुलझत्वादीनां हर्षहेतुत्वम् । अतः खपुत्रजन्मविशेषणीभूतानां सुलझत्वादीनामेव हर्षहेतुत्वम् । स्वपुत्रजन्मनि अज्ञाते सुलमत्वादीनां हर्षहेतुत्वायोगादस्य वाक्यस्य स्वपुत्रजन्मज्ञापकत्वमवश्यं विदितं स्यात् ॥ प्रागेव पुत्रजन्मज्ञानसंभवादस्य वाक्यस्य सुलभत्वादिपरत्वशङ्का स्यादिति चेत्-नैवम् ; ततः पूर्व मुखविकासविरहेण प्रागेव पुत्रजन्मज्ञानशकानुदयात् । अतः पुत्रजन्मनः संनिहितत्वात् पूर्वं मुखविकासाभावाच्च प्राथमिकमुखविकासहेतोरस्य वाक्यस्य पुत्रजन्मज्ञापकत्वं व्युत्पि 1 पूर्वोदाहरणमभिहितान्धयपक्षस्यानुकूलमिष इदं तु अन्वितभिधानपक्षस्येत्यपि ध्येयम् । ६
अतः १-१-१ जिज्ञासाधिकरणरचना (कार्यार्थत्वान्वारोहेणदूषणम् ) ९१ ‘अतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म तदुपासनं चापरिमितफलं बोधयन्तीति तन्निर्णयफलो ब्रह्मविचारः कर्तव्यः ॥ कार्यार्थत्वेपि वेदस्य ब्रह्मविचारः कर्तव्य एव ॥ कथम् ॥ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”, “सोऽन्वेष्टव्यः स विजिज्ञासितव्यः”, “विज्ञाय प्रज्ञां कुर्वीत”, “दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यम् “, " तत्रापि दह्ने गगनं विशोकः तस्मिन् यदन्तस्तदुपासितव्यम् " इत्यादिभिः प्रतिपन्नोपासनविषयकार्याधिकृतफलत्वेन, “ब्रह्मविदाप्नोति परम्” इत्यादिभिर्ब्रह्मप्राप्तिः श्रूयत इति ब्रह्मस्वरूपतद्विशेषणानां दुःखासंभिन्नदेशविशेषरूप स्वर्गादिवत्, सुर्मन्यते । तत्रैवं शङ्का संभवति - किं पुत्रजन्मादिमात्रज्ञापकमिदं वाक्यम्, उत सुलझत्वादिविशिष्टपुत्रजन्मादिज्ञापकमिति । ईदृशशङ्का प्रस्तत्वं गामानयेत्यादिवाक्यस्यापि तुल्यम्; किमिदं वाक्यं गवानयनमात्रप्रतिपादकम् ; उत पुरोवर्तिनि पिण्डे ये शुक्लत्वादिविशेषा दृश्यन्ते, तैर्विशिष्टगवानयनप्रतिपादकमिति शङ्कोपपत्तेः । प्रयोगभेदेनावापोद्वापमुखेन शङ्कापाकरणमुभयत्र तुल्यम् । पुत्रजन्मवाक्यादपि गवानयनादिवाक्यस्य अनेकार्थान्तरशङ्कामस्तत्वं सुतरां दृश्यत इति अर्थविशेषावधारणमतीव कर्तुमशक्यम्; गामनयेति शब्दप्रयोगानन्तरं व्यापारान्तर विधुरं गवि समानीतायामपि, गां संदर्शय, गां पुरः स्थापय, गां देहि, गां क्रीणीहीत्याद्यनेकार्थशङ्का हेतुत्वात् प्रयोज्यवृद्धप्रवृत्तेः । किञ्च गामानयेत्यादिशब्दप्रयोगानन्तरं समानयनात्पूर्वमेव उत्थानोपरिवास आच्छादनदण्डग्रहण याहच्छिकज संभाषणगमनाद्यवान्तरव्यापाराश्च बहवो यस्य पुरुषस्य आद्यव्युत्पत्तावुपलभ्यन्ते, तस्य तेष्वन्यतमार्थवाचकत्वशङ्का गामानयेत्यादिवाक्यस्य जायते । पश्चाद्भवानयनमपि यादृच्छिकं कृतं स्यात्, न तु वाक्यप्रेरितत्वादिति च शङ्का संभवति । अतो नार्थविशेषसंबन्धावधारणसंभव इति ॥ बहुभिः प्रयोगैरर्थविशेषनिश्चयोऽन्वयव्यतिरेकाभ्यामिति चेत् — एवमेव पुत्रस्ते जात इत्यादिवाक्यस्यार्थविशेषनिश्चयः सुतरां संभवति । . एवं सिद्धवस्तुनि शब्दव्युत्पत्त्युपपत्त्युपपादनेन वेदान्तानां परब्रह्मपरत्वमुपपन्नमित्याह अतो वेदान्ता इति । अथ कार्यार्थपरत्वमभ्युपगम्य ब्रह्मविचारस्य कर्तव्यतामाह कार्यार्थत्वेऽपीति कार्यार्थत्वाभ्युपगमेऽपि स्तावकत्वसिद्धिहेतुत्वेन फलसाधनत्वेन च प्रकारद्वयेन सिद्धवस्तुनि तात्पर्यमुत्तरत्रोपपादयिष्यते । अत्र तु प्रकारान्तरेणोपपाद्यते । अनन्तस्थिरफलापातप्रतीतेः सिषाधयिषितत्वात फलत्वेन तात्पर्यकथनमत्रोचितमिति फलतया सिद्धिरत्रोच्यते । अनेकवाक्योपादानम् उपासने तात्पर्यातिशयज्ञापनार्थम्, उपसर्गविशेषसन्प्रत्यययोगायोगेऽप्यर्थ मेदो नास्तीति ज्ञापनार्थं च । उपासनविषयकार्याधिकृतेति । उपासनावच्छिन्नकृतिसाध्यापूर्वा धिक्कृतस्य । विषिष्वन् (विशिषन् ) हि विषय उच्यते । ब्रह्मस्वरूप तद्विशेषणानामिति । विशेषणानि –गुणाः विभूतयश्च । विधिवाक्योक्तस्य फलस्यार्थवादोक्तविशेषणे तात्पर्यमस्तीति ज्ञापनार्थं दुःखासंभिन्नदेशविशेषरूप स्वर्गादिवदित्युक्तम् । “यस्मिन्नोष्णं न शीतं नारतिः” इति श्रुतिः । स्वर्गाख्यफलं विधिगतम् ; विशेषणमन्यत्र । विधिवाक्यगतत्वाभावेऽप्यन्यपरार्थवादोक्तफले विध्यपेक्षिते तात्पर्यमस्तीति दर्शयितुं फलस्य 1 भन विक्रीणीहीति पाठो न शुद्ध इति भा०प्र० ।
९२ श्रुतप्रकाशिकोपेते श्रीमाष्ये (प्राभाकरमतकार्यस्वरूपखण्डनम् ) रात्रिसत्रप्रतिष्ठावत्, अपगोरणशतयात नासाध्यसाधनभाववच्च कार्योपयोगितयैव सिद्धेः ॥ गामानयेत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पत्तिः; भवदभिमतकार्यस्य दुर्निरूपत्वात् । कृतिभावभावि कृत्युद्देश्यं हि भवतः कार्यम् । कृत्युदेश्यत्वञ्च कृतिकर्मत्वम् । कृतिकर्मत्वञ्च कृत्या प्राप्तुमिष्टतमत्वम् । इष्टतमं च सुखं वर्तमानदुःखस्य तन्निवृत्तिर्वा । तत्रेष्टसुखादिना पुरुषेण स्वप्रयत्नात् ऋते यदि तदसिद्धिः प्रतीता, ततः प्रयत्नेच्छुः प्रवर्तते पुरुष इति न कचिद्रपीच्छाविषयस्य कृत्यधीनसिद्धित्वमन्तरेण कृत्युद्देश्यत्वं नाम किञ्चिदप्युपलभ्यते । रात्रिसत्रप्रतिष्ठावदित्युक्तम् । [रात्रीरुपेयात् ’ ] " प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्ति” इति हि श्रुतिः । प्रतिष्ठाकाम उपेयादिति वचनाभावेऽपि अर्थवादोक्तफले तात्पर्यमङ्गीकृतमित्यर्थः । विधेयोपकारके विरोधिफलेऽपि तात्पर्यमस्तीति ज्ञापनार्थम् - अपगोरणशतयातना साध्यसाधनभावबच्चेत्युक्तम् । " तस्माद्ब्राह्मणाय नापगुरेत…. योऽपगुरुते तं शतेन यातयात्” इति हि श्रुतिः । अनेन मोक्षोपायविरोधिफलेऽपि तात्पर्य सिद्धमित्यभिप्रायः । अनुयायिहेतुः कार्योपयोगितयैव सिद्धेरित्युक्तः । उपासनविषयकार्योपयोगित्वात् फलभूत ब्रह्मखरूपे, तद्विशेषणगुणादौ, विधिविरोधिनि फले, संसारहेयत्वादौ च विवक्षा कार्येत्यर्थः । … …. प्रवर्तकवाक्येऽपि न त्वदभिमत सिद्धिरित्याह – गामिति । कार्यार्थे प्राधान्येन त्वदभिमंते कृत्युद्देश्यलक्षणकार्यार्थे । कुत इत्यत्राह भवदभिमतेति । स्वेदश्रमादावपि कृतिसाध्यत्वात् तद्व्यावृत्त्यर्थं क्रियाकार्येऽप्युद्देश्यत्वमङ्गीकार्यम् ; त्वदुक्तोद्देश्यत्वस्य दुर्निरूपतया तल्लक्षणकार्यस्य दुर्निरूपत्वादित्यर्थः । दुर्निरूपत्वं कथमित्यत्राह कृतीति । कृतिभावभावि । कृतिः आन्तरप्रयत्नः ; तत्सद्भावानन्तरभावि । कृतिसाध्यत्वं भावार्थादिष्वप्यस्तीति तद्व्यावृत्त्यर्थं कृत्युद्देश्यमित्युक्तम् । कृत्युद्देश्यत्वं कृतिप्रघानत्वमित्यर्थः । कार्यस्य कृतिसाध्यत्वमिष्टत्वं कृत्युद्देश्यत्वमिति त्रयमपि तन्मतेऽभ्युपगतम् । इष्टत्वकृतिसाध्यत्वे फलभावार्थसाधारणे । कृतिप्रधानत्वं ह्याकारद्वयविलक्षणं फलभावार्थव्यावर्तकं वर्ण्यते । यथा टीकायामुक्तम्, “कार्यमर्थं प्रतिपादयतो वेदस्य प्रामाण्यम्” इति । अत्रार्थशब्देन प्राधान्यं विवक्षितम् 1 यथा पश्चिकायाम्, “कार्यम् अर्थं प्रधानतया प्रतिपादयतो वेदस्य प्रामाण्यम् ; तत्रैव प्रामाण्यशब्दव्युत्पत्तेः व्युत्पत्त्यायत्तत्वात् तस्य” इति । ‘प्रकरणशालिकायाम्, “कृतिसाध्य प्रधानं यत् तद् कार्यमभिधीयते” इति । तत्र तृतीयाकारतयाऽभिमतं कृत्युद्देश्यत्वं कृतिसाध्यत्वेष्टत्वाकारयोरन्यतराकारे पर्यवस्यतीत्यभिप्रायेण दूषयितुमाह कृत्युद्देश्यत्वं चेति । पाणिन्युक्तप्रकारेण कर्मत्वं विवृणोति कृतिकर्मत्वं चेति । इष्टतमत्वं च कार्ये नास्तीत्याह इष्टतमं चेति । क्रतिकर्मव नाम प्रवर्तकत्वमित्यत्राह तत्रेति । तदपीष्टस्य स्वप्रयत्नसाध्यत्वमेवेत्यर्थः । आदिशब्देन दु.खनिवृत्तिरुच्यते । स्वप्रयत्नात् ऋते यदीत्यादेरयं भावः - कृतिसाध्यत्वा तिरिकिकृतिकर्मत्वं नाम इष्टतमत्वे पर्यवस्वतीति । प्रयत्नेच्छुः चिकीर्षुः । प्रवर्तते । आन्तरप्रयत्नमिच्छन् स तमुत्पादयतीत्यर्थः ।
- उपेयादिति वाक्यासंभवः प्रागेव दर्शितः । 2 नापगुरेत-न वधसंकल्पं कुर्यात । शेन यातयात् - शतसंवत्सरख्यापिनरकबाधां यम उत्पादयेत् । B. प्रकरणशालिकेति पश्चिकेति च शालिकानाथकृता प्रकरणपञ्चिकेयोच्यते ।
इच्छाविषयस्य प्रेरकत्वं च प्रयत्नाधीन सिद्धित्वमेव ; तत एव प्रवृत्तेः ॥ ९३ न च पुरुषानुकूलत्वं कृत्युद्देश्यत्वम् । यतः सुखमेव पुरुषानुकूलंम् । न च दुःखनिवृत्तेः पुरुषानुकूलत्वम् । पुरुषानुकूलं सुखं तत्प्रतिकूलं दुःखमिति हि सुखदुःखयोः स्वरूपविवेकः । दुःखस्य प्रतिकूलतया तन्निवृत्तिरिष्टा भवति ; नानुकूलतया । अनुकूल प्रतिकूलान्चयविरहे स्वरूपेणावस्थितिर्हि दुःखनिवृत्तिः । अतः सुखव्यतिरिक्तस्य क्रियादेरनुकूलत्वं न संभवति । न सुखार्थतया - तस्याप्यनुकूलत्वम् ; दुःखात्मकत्वात् तस्य । सुखार्थतयापि तदुपादानेच्छामात्रमेव भवति । इष्टतमस्यैव रूपद्वयमस्ति इच्छाविषयत्वं प्रेरकत्वञ्चेति । तत्र प्रेरकत्वं कृत्युद्देश्यत्वमित्यत्राह इच्छाविषयस्येति । कुत इत्यत्राह तत एवेति । पुरुषानुकूलत्वं कृत्युद्देश्यत्वमित्यत्राह न चेति सुखमेव पुरुषानुकूलमिति न वाच्यम्, सुखयतिरिक्तस्यापि अनुकूलत्वदर्शनादित्यत्राह न च दुःखनिवृत्तेः पुरुषानुकूलत्वमिति । न हि दुःखनिवृत्तिः सुखं भवतीत्यर्थः । एतदुपपादयति पुरुषानुकूलमिति । तर्हि दुःखनिवृत्तेरिच्छाविषयत्वं कथमित्यत्राह दुःखस्येति । स्वत इष्टत्वमनुकूलत्वम् ; न त्विष्टान्तर हेतुतया अनिष्टनिवृत्तिरूपतया वा इष्टत्वम् । एवं खतोऽनिष्टत्वं प्रतिकूलत्वम् ; न त्वनिष्टान्तर हेतुतया इष्टनिवृत्तिरूपतया वाऽनिष्टत्वम् । अतो दुःखनिवृतेरिष्टत्वं दुःखस्य प्रतिकूलत्वादित्यर्थः । दुःखनिवृत्तेरनुकूलत्वाभावमुपपादयति अनुकूलप्रतिकूलेति । स्वरूपेणावस्थितिःसुखनिवृत्तिरूपा दुःखनिवृत्तिरूपा च । अनुकूलप्रतिकूलान्वय विरहरूपायां स्वरूपेणावस्थितौ दुःखनिवृत्त्यशस्य " सामानाधिकरण्येन व्यपदेशः । दुःखनिवृत्तिरेव सुखं चेत् दुःखनिवृत्तौ सुखनिवृत्तिर्न स्यात् । तदा सुषुप्तावपि सुखान्वयप्रसङ्गः । अन्यतरनिवृत्तिरन्यतरसंयोगश्चेत्-खापेऽपि सुखदुःखान्वयः प्रसजेदिति भावः । अपूर्वस्यानुकूलत्वासंभवे दृष्टान्ताभिप्रायेण क्रियाद्युपादानम् । क्रियादेरित्यादिशब्देन प्रयत्नो विवक्षितः । सुखसाधनत्यादनुकूलत्वमित्यत्राह नेति । कुत इत्यत्राह दुःखात्मकत्वादिति । तस्य - क्रियादेः । प्रतिकूलरूपतया भासमानं वा तद्विषयज्ञानं वा दुःखम् ; न तद्व्यतिरिक्तमात्मगुणान्तरमित्यभिप्रेत्य दुःखात्मकत्वादित्ययं हेतुरुक्तः । सुखार्थतयेति । न हि दण्डचक्रादिर्घटो भवतीत्यर्थः । असुखार्थात् सुखार्थस्य किं वैषम्यमित्यत्राह सुखार्थतयाऽपीति । 1 भाष्ये कृत्युद्देश्यत्वपदप्रयोगसाहित्येनैव, कृतिकर्मत्वपुरुषानुकूलत्वा दिपक्षाणां खण्डनार्थ ग्रहणदर्शनात् अत्र प्रेरकत्वपक्षे तत्साहित्यादर्शनात् प्रेरकत्वं कृतिकर्मत्यप्रभेद इत्येव वक्तुं शक्यम् । तथा एतत्पूर्वग्रन्थस्य प्रवर्तकत्व रूपकृत्यु द्देश्यत्वपरत्वें टीकोक्तमपि न भाष्यात् प्रतीयत इति तत् पूर्वोक्तविरणमात्रमिति सुवचम् - तथापि कृतिकर्मत्वं नाम किञ्चिदित्यनुकत्या कृत्युद्देश्यत्वंनाम किञ्चिदिति तत्र प्रयोगात् तत् कृत्युद्देश्यत्वप्रकारान्तरं स्यात् । एवं पूर्ववाक्यस्य तथात्वे इदमपि अन्यादृशकृत्युद्देश्यत्व परमेवास्त्विति टीकाशयः । 2 अयं दुःखरहित इति व्यवहारः सुखदुःखोभयविरहदशायामेव भवति । सुखकाले तु सुखी इत्येव प्रयोगः; न तु दुःखरहित इति । अतो दुःखनिवृत्तिमानयमिति सामानाधिकरण्यं द्वयविरहंरूपस्वरूपावस्थितिमानयमिति सामानाधिकरण्यमेवेति । एकाभावस्यापरभावरूपता न भवतीति विशिष्याप्याह दुःखनिवृत्तिरेवेत्यादिना । 8 सुखार्थतयेत्यस्य भावं वर्णयित्वा तदुपरितनम् अपिशब्दं लक्ष्यीकृत्यावतारयति असुस्नार्थादिति । अत उक्तस्यैव पुनर्ग्रहणम् ।
५४ तमाथिको श्रीमान् (कृतिशेषित्व निर्वचनखण्डनम् ) न च कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम् भवत्पक्षे शेषित्वस्यानिरूपणात् ॥ न च परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वं शेषत्वमिति तत्प्रतिसम्बन्धी शेषीत्यवगम्यते ; तथा सति कृतेरशेषत्वेन तां प्रति तत्साध्यस्य शेषित्वाभावात् । न च परोद्देशप्रवृत्त्यर्हतायाः शेषत्वेन परः शेषी ; उद्देश्यत्वस्यैव निरूप्यमाणत्वात् ; प्रधानस्यापि भृत्योद्देशप्रवृत्यर्द्धत्वदर्शनाच्च । प्रधानस्तु भृत्यपोषणेऽपि स्वोद्देशेन प्रवर्तत इति चेन्नः भृत्योऽपि हि प्रधानपोषणे स्वोद्देशेनैव प्रवर्तते । कार्यस्वरूपस्यैवानिरूणात् कार्यप्रति संबन्धी शेषः, तत्प्रतिसम्बन्धी शेषीत्यप्यसङ्गतम् ॥ कृतिशेषित्वं कृत्युद्देश्यत्वमिति पक्षं दूषयति न चेति । अनिरूपणात् – दुर्निरूपत्वादित्यर्थः । परोद्देशप्रवृत कृतिव्याप्त्यर्हत्वं शेषत्वमिति पक्षमनूद्य दूषयति न च परोद्देशप्रवृत्तेत्यादिना । न च परोद्देशप्रवृत्त्यर्हताया’ इति । उत्पत्तिश्च प्रवृत्तिमदृव्यापारः । अतः प्रवृत्त्यर्हत्वम् उत्पत्त्यर्हत्वम् । परोद्देशप्रवृत्त्यर्हतायाः शेषत्वरूपतयेत्यर्थः । उद्देश्यत्वस्यैव निरूप्यमाणत्वादिति । अयमर्थः - कृत्युद्देश्यत्वम् – कृतिशेषित्वम्; शेषित्वश्च शेषप्रतिसम्बन्धित्वम् ; शेषत्वम् परोद्देशप्रवृत्त्यर्हत्वमित्युक्ते सति उद्देश्यत्वं नाभ उद्देश्यत्वमित्युक्तं भवतीत्यात्माश्रयः ; उद्देश्यत्व निरूपणोपयुक्तस्य शेषत्वनिरूपणस्य उद्देश्यनिरूपण सापेक्षत्वादिति । किं परोद्देशप्रवृत्त्ययोगव्यवच्छेदो 1 विवक्षितः उतान्ययोगव्यवच्छेदः इति विकल्पे, प्रथमे शिरसि राजनि अतिव्याप्तिमाह प्रधानस्यापीति । अत्रोद्देश्यशब्देन प्रयोजनभावाभिसन्धिर्विवक्षितः; तत्परिहारमुखेन द्वितीयं शिरः शङ्कते प्रधानस्त्विति । परोद्देशेन प्रवृत्त्यन्ययोगव्यवच्छेदो विवक्षितः । स तु प्रधानस्य नास्ति, स्वोद्देशेनापि तस्य प्रवृत्तेः । अतो नातिव्याप्तिरित्यर्थः । परिहरति नेति । भृत्येष्वव्याप्तिमाह भृत्योऽपि हीति । कार्यप्रतिसंबन्धित्वं शेषत्वमिति पक्षं दूषयति कार्यस्वरूपस्येति । कार्यस्वरूपे निरूप्यमाणे फलभावार्थविलक्षणाकारेण तन्निरूपणार्थ कार्यत्वं कृत्युद्देश्यत्वमित्युक्तम् । उद्देश्यत्वं शेषित्वम्; शेषित्वं च शेषप्रतिसम्बन्धित्वम्; शेषत्वं च कार्यप्रतिसम्बन्धित्वम् इत्युक्ते सति आत्माश्रयः स्यात्, कार्यनिरूपणोपयुक्तशेषत्वनिरूपणस्य कार्यनिरूपण सापेक्षत्वादित्यर्थः ॥ । । भाष्यकाराभिमतं शेषत्वलक्षणं स्वीकृत्य कृत्युद्देश्यत्व समर्थनमपि दुश्शकम् । तथाहि"परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपम्, स शेषः; परश्च शेषी” इति भगवान् भाष्यकारो वेदार्थसङ्ग्रहे शेषिलक्षणमभाषिष्ट । “शेषः परार्थत्वात्” इति शेषशेषिभाक्लक्षणपरस्य जैमिनीय सूत्रस्य परैरन्यथाख्याख्यातत्वात् तद्व्यावृत्त्यर्थं तस्य सूत्रस्वार्थोऽनेन लक्षणग्रन्थेन यथावत् प्रदश्यते । अस्यार्थ उच्यते अन्यस्य प्रयोजनमेव यस्य परमप्रयोजनं स शेषः, अन्यः शेषीति वाक्यार्थः । अन परशब्दोऽन्यपर्यायः, परअतिशयशब्दयोः कर्मधारयशङ्कानिवृत्त्यर्थो गतशब्दः । तेन स्वगतातिशयाधायके शेषिण्यतिव्याप्तिव्युदासः । अतिशयशब्दः प्रतिकूलेतराकारपरः । निकृष्टतराकारपरो वा । तेन परगतविनाशाधाय कशस्त्राग्निकण्टकादीनां विनाश्यं प्रति शेषत्वव्युदासः । न च दुःखहेतुषु यातनाशरीरेष्वव्याप्तिः; तेषामपि तेषामपि दुःखजननद्वारा पापक्षयलक्षणातिशयहेतुत्वात् । न चानुत्पन्ने अपूर्वे त्रीद्यादिमिर तिशयाधानायोगात् तेष्वव्याप्तिः, सत्तालाभस्यातिशयरूपत्वात्; निकर्षात्मकघर्मेतरा कारो 1 भयोगव्यवच्छेदः - कदाचिदेतत्मवृत्तेरपि सक्षम् ।
। १-१-१ जिज्ञासाघिकरणरचना (भाष्यकाराराभिमतशेषत्व परिष्कारः) ९५ ह्यतिशयः ॥
ननु मानसंबन्धार्ह व्यवहारार्ह वा यत् स्वरूपं तदेव सदिति भवन्मतम् ; सत्ताजात्यभावात् । तत् कथं स्वरूपमेवाकार इत्युच्यते ॥ न ; स्वरूपस्यैव सतारूपत्वेऽपि तल्लाभस्याऽऽकारत्वोपपत्तेः । सत्तालाभो ह्यतिशय इत्युक्तम् । सत्तालक्षणस्वरूपस्य च लाभो नाम प्रथमक्षण संबन्धः । स्वरूपस्याविद्यमानत्वेऽपि धीस्थतया परातिशयाधानव्यवहार उपपन्नः । इच्छयेतिपदेन परगतातिशयस्य इच्छाविषयतया प्रयोजनत्वमवगम्यते । इच्छापदस्य च निरुपपदत्वात् साक्षादेवेच्छाविषयत्वमभिप्रेतम् । साक्षादिच्छाविषयश्च परमप्रयोजनम् । अवान्तर प्रयोजनस्य हि तदर्थतयेष्टत्वमिति न साक्षादिच्छाविषयत्वम् । अतः परमप्रयोजनज्ञापकेन इच्छयेति पदेन परार्थत्वादित्यर्थशब्दो व्याख्यातो भवति । अर्थ्यत इति ह्यर्थः ; इप्यत इति यावत् । निरुपपदश्चार्थशब्दः स्वतः परमप्रयोजनपरः । अनेन स्वातिशयाधायके भृत्यादौ लक्षणस्याव्याप्तिशङ्कान्युदासः । भृत्यो हि स्वालङ्कारादिकमपि स्वाम्यतिशयाय भवतीति हि (?) [ख] बुद्ध्या स्वातिशयमाधत्ते । अतो भृत्येन स्वातिशयाधानस्य परातिशयः परमप्रयोजनमिति नाव्याप्तिः । उपादेयत्वम्— स्वीकार्यत्वम् ; व्यवहर्तव्यत्वमिति यावत् । इच्छास्वीकारौ यथायोग्यं संभवतः । शेषशेषिणोरुभयोः, अन्यतरस्मिन् वा संभवतश्चेत्, इच्छास्वीकारौ तद्गतौ स्तः । यथा राजभृत्यराजतद्भवनादौ । उभयमचेतनं चेत्, उभयव्यतिरिक्तचेतनगताविच्छास्वीकारौ यथा प्रभाप्रभावद्यागतदङ्गादिके । उपादेयत्वम् — उपादातुमर्हत्वम् । तेनाकिञ्चित्कारदशायामव्याप्तिपरिहारः । एवकारेण कदाचित्स्वार्थनिरपेक्षपरप्रयोजनसावकेषु प्रकृष्टकृपास्नेहान्वितेषु अतिव्याप्तिव्युदासः । अथवा केनचिदाकारेणोपहितस्य शेषत्वे सति तदनुपहितस्य शेषत्यव्यावृत्त्यर्थ एवकारः ; अनुपहितस्य प्रयोजनान्तरसाधकत्वेन परातिशयैकप्रयोजनत्वाभावात् । स्वरूपम् – स्वं रूपम् असाधारणधर्म ः - निरूपकधर्म इत्यर्थः । न च निरूपकशब्दस्य व्युत्पादनार्थत्वात् व्यावर्त्यधर्मापेक्षा । परातिशय एव परमप्रयोजनं यस्य, स परं प्रति शेष इति लक्षणमुक्तं भवति । . ; यतः परातिशयस्यैव परमप्रयोजनस्याऽऽधायकत्वं लक्षणम्, अत एव परगतातिशयाघानायोगान्ययोगव्यवच्छेदविकल्पेन राजन्यभृत्ययोर तिव्याप्त्यव्याप्तिप्रसञ्जनमस्मत्पक्षे नावतरति ; परातिशयमात्राघायकत्वस्य लक्षणत्वाभावात् । न च द्वारशेषिगतातिशयस्य परमशेषिगतातिशयं प्रति प्रयोजकत्वे सत्यपि तस्य परमप्रयोजनत्वाभावात् द्वारशेषिणं प्रति शेषभूतवस्तुनि लक्षणस्याव्याप्तिः शङ्कनीया; शेषभूतवस्तुगतातिशयापेक्षया शेषिगतातिशयस्य पारम्यमात्रस्य विवक्षिततया परमशेषिगतातिशयरूप परमप्रयोजनत्वस्य न्युदसनीयत्वाभावात् । ततश्च द्वारशेषिगतातिशयस्य शेषभूतवस्तुगतातिशयान्तराधायकत्वेन प्रयोजनत्वं 1 शेषलक्षणे निरूपकशब्दव्यावर्त्य किमिति न विचार्यम् ; तस्य व्युत्पादनार्थत्वात् लक्षणे निवेशाभावादित्यर्थः । 2 प्रयोजकत्वे सत्यपीति । परमशेषिगतातिशयप्रयोजकतया द्वारशेष्यादौ लक्षणसमन्वयेऽपीत्यर्थः । 3 प्रयोजनत्वस्येति । शेषिगतातिशयो यः परमशेषिभूतकिञ्चिद्गतातिशयप्रयोजनको न भवति, तस्यैव लक्षणनिविष्टत्वमिति नेत्यर्थः । 4 शेषेण शेषिण्यतिशये आहिते सति शेषे शेष्यतिशयाधायकत्वरूपो महिमा छुदासीनव्यावर्तको जायते । तावता न शेषिणः शेषत्वमिति भावः ।
९६ भुतप्रकाशिकोपेते श्रीभाग्ये (तस्व निर्दुष्टत्वम्) परमशब्दव्युदसीनगम् ॥
ननु पुरुषश्च कर्मार्थत्वादिति पुरुषस्य कर्मशेषत्वं कर्ममीमांसायां राद्धान्तितम् । पुरुषश्च स्वर्गकामः इति तस्य परगतातिशयनिष्पादनमेव परमप्रयोजनं न भवतीत्यव्याप्तिरिति चेत् —न; तस्य कर्तृत्वोपहितवेषेण शेषत्वादुपहितस्य कर्मनिष्पादनैकप्रयोजनत्वाच्च कर्मशेषतोपपत्तेः ॥ नन्वेतल्लक्षणमसंभवहतम् । न खलु चेतयमानः कश्चित् परगतातिशयं स्वस्य परमप्रयोजनं मत्वा प्रवर्तते, किन्तु परप्रयोजनमपि स्वप्रयोजनार्थ मत्वा हि प्रवर्तते । उच्यते । नैवमसंभवः; अचेतनेषु परातिशयैकप्रयोजनत्वदर्शनात् । यद्यपि चेतनः स्वारस्येन स्वप्रयोजनमेव परमप्रयोजनं मन्यते— तथाऽपि न लक्षणस्य हानिः, जन्मक्रियाद्यभिज्ञैर्मध्यस्यैः परातिशयनिष्पादनैकप्रयोजनतया प्रतिपत्तुं शक्यत्वात् । इच्छास्वीकारौ यथासम्भवमिति यक्तम् । तथा प्रतिपत्तियोग्यत्वमनिष्टमप्यवर्जनीयं स्वयमपि भृत्यो जानाति । अपि च परातिशयस्य परमप्रयोजनत्वावगतिः स्वरसतश्चेतनस्यापि संभवति ; प्रकृष्टकृपास्नेहान्वितेषु तदर्शनात् । दया हि स्वार्थनिरपेक्षा परदुःखासहिष्णुता । अत्रानुकूलेतरजनः पर इति विवक्षितः । अर्थादिकामनया परदुःखं शिशमयिषोस्तद्दुःखानुवृत्तिरनिष्टा स्यादिति तद्व्युदासाय स्वार्थानपेक्षशब्दः । यद्यपि कृपया परं रक्षतः शास्त्र सिद्धमदृष्टम्, तथाप्यदृष्टाभिसन्धिविरहितस्यैव परदुःखदर्शनानन्तरमवशाश्रुपातादिमत्त्वदर्शनात् तद्रक्षणदशायामप्यदृष्टाभिसन्धिराहित्यदर्शनाच स्वार्थानपेक्षता युक्ता ॥ परदुःखदर्शनजनिततादात्विक स्वदुःखनिवृत्तिरूपफलात् तत्प्रवृत्तिरिति न स्वार्थानपेक्षत्वमिति चेत् — ईदृशं स्वार्थत्वं शेषस्याप्यस्ति । तद्धि स्वार्थानपेक्षत्वं न विहन्ति ; किन्तु तदनुकूलमेव । परदुःखज्ञानरूपदुःखनिवृतिं पराभ्युदयज्ञानरूपप्रीतिमत्त्वं च विना स्वार्थानपेक्षत्वस्य विवक्षितत्वात् । तथा मित्रादिषु स्नेहप्रकर्षाश्च स्वार्थानपेक्षा प्रवृत्तिबन्धुद्रविणयशोधर्महानिकरी प्राणव्ययकरी च दृश्यते । संबन्धविशेषान्वितेषु प्रीतिः स्नेहः, यस्य विपाकाः अस्थानभयशङ्कित्वं दोषानवभासः दोषेऽपि गुणबुद्धिरित्यादयः । स्निग्धश्च जनः स्वसत्तामनपेक्ष्य पुत्रादिदुःखनिवृत्त्यर्थं प्रवर्तमानो दृश्यते । तच तद्गतदुःखासहत्वकृतम् । यस्य दुःखातिशयदर्शनं स्वसत्तानपेक्षतामापादयेत् स च निरतिशयप्रीतिविषयः; परानर्थनिमित्ताप्रीतितारतम्यस्य तद्विषयप्रीतितारतम्यनिबन्धनत्वात् । यश्च निरतिशयप्रियः, तदभ्युदयोऽपि निरतिशयप्रियः । तत्प्रीतितारतम्यस्य तत्सबन्धिप्रीतितारतम्यहेतुत्वात् । तदभ्युदयश्च परमप्रयोजनं भवति ; स्वप्रीतिहेतु भूतस्वगतार्थान्तरसाधनत्वनैरपेक्ष्येण स्वेच्छाविषयत्वात् । अतः कृपया स्नेहेन वा परदुःखासहिष्णुत्वदर्शनात् परप्रयोजनस्य परमप्रयोजनत्वं सिद्धमिति न शेषलक्षणस्यासंभवः । न च परमप्रयोजनरूपपरारातिशयाघायकत्वस्य मित्रादिष्वपि संभवात् लक्षणस्यातिव्याप्तिः शङ्कनीया; तेषां परातिशयैकप्रयोजनत्वनियमाभावात् । तद्धि तेषामाकारविशेषोपहितरूपेण वा यावज्जीवं वा पुरुषविशेष प्रति न नियतम् । पुरुष मेदेनाप्यनियतश्च । भृत्येषु तु तन्नियतम् ; शेषिविशेषनियमाभावेऽपि यं कञ्चित्प्रति पाराध्य भृत्यादेर्यावदात्मभावीति । यदीदृक्त्वं न दृश्यते, तेषां न भृत्यत्वम् । यद्वा यद्यपि गर्भदासादयः स्वेषां परर्थैिक प्रयोजनत्वमजानन्तः शेषिण्यतिशयाधानमपि खार्थ मन्यन्ते तथापि स्थूलोऽहमित्यात्मनो देहाथभिन्नत्वबुद्धिवत् सा प्रान्तिरिति न लक्षणान्याप्तिः, स्वार्थत्वबुद्धेरात्मस्थूलत्वधिय इव प्रमाणबाधितत्वात् । 1 तस्य-पुरुषस्य । परगतेति - कर्मगतेत्यर्थः । ,
१-१-१ जिज्ञासाधिकरणम् (नियोगे कृतिप्रधानत्वाभावः) नापि कृतिप्रयोजनत्वं कृत्युद्देश्यत्वम् । पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स चेच्छाविषयः । तस्मादिष्टत्वातिरेक्रिकृत्युद्देश्यत्वानिरूपणात् कृतिसाध्यताकृतिप्रधानत्वरूपं कार्य दुर्निरूपमेव । - नियोगस्यापि साक्षादिपिविषयभूतसुख दुःखनिवृत्तिभ्यामन्यत्वात् तत्साधनतयैवेष्टत्वं न च स्वार्थत्वभ्रान्तिमात्रेण पारार्थ्यहानिः । न ह्यात्मनः स्थूलोऽहमिति भ्रान्त्या देहवैलक्षण्यहानिः । एवं चिदचितोरपि स्वातन्त्र्यबुद्धेः श्रुतिबाधितत्वान्न लक्षणाव्याप्तिः । न खलु व्रीह्मादीनां यागीयत्वाज्ञानेऽपि यागशेषत्वहानिः ॥ स्वातन्त्र्याभिमानवतः परमप्रयोजनरूपं परगतातिशयं नियमेनानादधतः कथं लक्षणवत्त्वमिति चेत् — न ; एतद्बुद्ध्या तथात्वानवगमेऽपि वस्तुतः परमात्मलीलोपकरणतया परमात्मनि लीलारसरूपातिशयस्य नियमेन सिद्धेः । तत्त्वज्ञैरीश्वरपरिकरत्वेन नियमेन ज्ञायमानत्वं चास्य किञ्चित्कारः । तेन एतत्परिकरवत्तया ज्ञायमानत्वरूपातिशयः परस्य सिध्येत् । तदुक्तं नीतिविद्भिः, “मनागुपका रिता सर्वस्यास्त्येव; तत्परिकरत्वेन ज्ञायमानत्वात्” इति । शेषभूतवस्त्वाहितलीलारसाद्यतिशयभाक्तुं न परमात्मनोऽवाप्तसमस्त कामत्वविरोधि । इच्छायां सत्यामभिमतविनियोगानुगुणपरिकरसंपतिवाप्तसमस्तकामत्वम् । यथाऽऽह भगवान् भाष्यकारो वेदान्तसारे, “अस्याऽऽत्मतृप्तस्यावाप्त समस्त कामत्वं हि सदाऽभिमतसकलभोगोपकरणसद्भावः” इति । अतो यथोक्तशेषलक्षणमुपपन्नम् । ; एवमस्मदुक्तं शेषलक्षणमङ्गीकृत्य कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वमिति परैर्वक्तुं न शक्यते ; विकल्पासहत्वात् । किं त्वया द्वारशेषित्वं कृत्युद्देश्यत्वमभिमतम्, उत परनशेषित्वम् । प्रथमे भावार्थस्यापि कृतिशेषित्वं स्यात् ; तस्य कृतिसाध्यत्वात् । द्वितीये स्वर्गस्य कृति प्रति शेषित्वं स्यात्; कृतिसाध्यापूर्वस्यापि स्वर्गसाधनत्वात् । अतः कृतिशेषित्वरूपं कृत्युद्देश्यत्वं फलमावार्थ विलक्षणाकारेण न सिध्यति ॥ अथ कृतिप्रयोजनत्वं कृत्युद्देश्यत्वमिति पक्षं दूषयति नापीति । न हि कृतिर्नाम चेतयमाना काचित् प्रयोजनवती । तस्मात् कृतिप्रयोजनं नाम कृतिमत्पुरुष प्रयोजनमित्यर्थः । ततः किमित्यपेक्षायां तचेष्टत्वे पर्यवस्यतीत्याह स चेति । कृतिसाध्यताकृतिप्रधानत्वरूपं कार्ये दुर्निरूपमेवेति । कृतिप्रधानत्वशब्देन स्वेदादिव्यावृत्तिः । कृतिसाध्यताशब्देन आत्मव्यावृतिः ; तस्य हि कृतिशेषित्वमस्ति । विशिष्टस्य लक्षणत्वात् तत्र विशेष्ये दुर्निरूपे सति विशिष्टमेवासिद्धमित्यर्थः । एवं तृतीयाकाररूपं प्रयोजनत्वं दूषितम् । 1 अथ स्वतइष्टत्वरूपं प्रयोजनत्वं तत्प्रयुक्तकृतिसाध्यत्वं च दूषयति नियोगस्यापीति । इषिः - इच्छा । अत्रेच्छाविषयभूतार्थान्तरसाघनत्व विरहेणेष्टत्वं स्वतइष्टत्वं विवक्षितम् । तत् सुखस्य दुःखनिवृत्तेश्च समानम् । स्वत इष्टत्वं स्वत इष्टत्वप्रयुक्त कृतिसाध्यत्वञ्च तयोरेव । तस्मात् स्वतइष्टत्वतत्प्रयुक्त- 1 एतत्सच्छायं वाक्यं श्रीरहस्यत्त्रयसारे अपराधपरिहाराधिकारे उपात्तम्, “तस्येदमितिघीहेतुरप्युपकारी” इति । परंतु तदर्थः-अस्येदमितिबुद्धि हेतुभूतप्रतिपत्तिः-गौरवबुद्धिरपि उपकारकत्वरूपशेषत्वसंपादिकेति । तस्मिन् प्रतिपत्तिमत्त्वात् धोहतुर्योतदीयत्व नरो भवति, सोऽप्युपकारकः अतिशायावहः । शेष इति वा । 2-13
९८ श्रुतप्रकाशिकोपेते श्रीमाध्ये ( नियोगे मुख्येष्टत्वाभावः) कृतिसाध्यत्वञ्च । अत एव हि तस्य क्रियातिरिक्तता । अन्यथा क्रियैव कार्य स्यात् । स्वर्गकामपदसमभिव्याहारानुगुण्येन लिङादिवाच्यं कार्य स्वर्गसाधनमेवेति क्षणभङ्गिकर्मातिरेकि स्थिरं स्वर्गसाधनमपूर्वमेव कार्यमिति स्वर्गसाधनतोल्लेखेनैव ह्यपूर्वव्युत्पत्तिः । अतः प्रथममनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्यार्थत्वनिर्वहणाया पूर्वमेव पश्चात् स्वर्गसाधनं भवतीत्युपहास्यम्; स्वर्गकामपदान्वितकार्याभिधायिपदेन प्रथममप्यनन्यार्थतानभिधानात् सुखदुःखनिवृत्तितत्साधनेभ्योऽन्यस्यानन्यार्थस्य कृतिसाध्यताप्रतीत्यनुपपत्तेश्च । कृतिसाध्यत्वे तत्साधनतयेष्टस्य नियोगस्य न सिध्यत इत्यर्थः । साधनतयेष्टत्वमुपपादयति अत एव हीति । साधनत्वेन सिद्धचनङ्गीकारे धात्वर्थ एवं कार्यं स्यादित्याह अन्यथेति । एतद्विवृणोति स्वर्गकामेति । अत इति । खर्गकामपदान्वयात्पूर्वं धात्वर्थमात्रस्यैव कार्यताप्रतिपत्तेः, तदन्वये तत्साधनतयैव प्रतिपत्तेश्चेत्यर्थः । प्रथममनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्यार्थत्वनिर्वहणाया पूर्वमेव पश्चात स्वर्गसाधनं भवतीति । अयमर्थः यथा खप्राधान्यनिर्वहणाय अनुजीविनामभिमतं प्रभुः प्रददाति, तद्वत् अपूर्वमपि स्वयं प्रधानतया प्रतिपन्नं स्वप्राधान्यनिर्वहणाय स्वं साघयतः पुरुषस्य स्वर्ग ददातीति । यथा पञ्चिकायाम्, “आत्मसिद्ध्यनुकूलस्य नियोज्यस्य प्रसिद्ध्ये । कुर्वत् स्वर्गादिकमपि प्रधानं कार्यमेव नः” इति । उपहास्यम् समीपस्थैरपि हास्यम् । अत इत्युक्तमर्थं विवृणोति स्वर्गकामेति । प्राधान्येन कार्यप्रतिपत्तिः किमेकपद श्रवण वेलायाम्, किमेकपदश्रवणवेलायाम्, उत स्वर्गकामपदान्वितवेलायामिति विकल्पमभिप्रेत्य प्रथमे कल्पे दूषणम्, अन्यथा क्रियैव कार्य स्यादित्यनेनोक्तं भवति । तस्मिन्नेव पक्षे अभ्युपगमेन दूषणान्तरञ्च - एकपदेन कार्यमनन्यार्थे प्रतिपन्नमस्तु तथाऽप्यन्विताभिधानदशायां प्रतिपन्न एवार्थः सम्यगर्थः । अतो नानन्याथत्वमिति । द्वितीयकल्पे दूषणमुच्यते स्वर्गकामपदान्वितेति । स्वर्गकामपदान्वितलिङादिना तत्साधनतयैवाभिधानात् प्रथममनन्यार्थतया प्रतिपन्नमिति न वक्तुं युक्तमित्यर्थः । व्युत्पत्तिदशायामपूर्वस्य साधनतया व्युत्पत्तिः ; अभिघानदशायां तु अनन्यार्थं स्थायि कार्यमित्येव प्रतीयत इति शङ्कायाम्, अपूर्वव्युत्पत्तिमतोऽपि पुरुषस्य एकपदश्रवणवेलायामनन्यार्थत्वप्रतीत्यनुपपत्तिमाह सुखेति । ‘न निर्विशेष सामान्यम्’ इति न्यायात् साध्यमिति सामान्येनाभिधीयमानमपि विशेषनिष्ठतया प्रतीयते । सुखं दुःखनिवृत्तिस्तत्साधनं वा त्रीण्येष कृतिसाध्यानि । तस्मादेषु त्रिष्वन्यतमेन साध्येन भवितव्यम् । तंत्र सुखत्वदुःखनिवृत्तित्वायोगात् तत्साधनतयैव साध्यमिति प्रतीयते । कुतिर्हि त्रिष्वन्यतममेव गोचरयति ; तथा दर्शनात् । दर्शनानुरोधेन चाभ्युपगन्तव्यम् । कृतेः क्रियातिरिक्तगोचरत्वादर्शनेन हि कुत्यपूर्वयोर्घटकत्वेन भावार्थो निवेशितः । तस्मात् त्रिष्वन्यतमत्वाभावे, साध्यमिति प्रतीतिरेव न स्यादित्यर्थः । किञ्च अन्विताभिधानवादिना स्वर्गकामपदान्वित एव लिङादिः कार्यमभिदघातीति वक्तव्यम् । तदानीं तत्संनिधानबलेन तत्साधनतयैव प्रतीतिः स्यादिति नानन्यािर्थतया प्रतिपत्तिरिति । सुखेत्यादेरेवं वाऽर्थः सुखदुःख निवृत्त्यन्यत्वात् स्वत इष्टतया कृतिसाध्यत्वमयुक्तम् । तत्साधनादन्यतया परम्परयेष्टत्वेन कृतिसाध्यत्वमप्ययुक्तमिति ॥
पूर्वं तृतीयाकाररूपं प्रयोजनत्वं निरस्तम्; अथ स्वतइष्टत्वरूपं प्रयोजनत्वश्च सुखदुःखनिवृत्त्यन्यत्वान्निरस्तम्; इदानीं स्वतदृष्टत्वसिद्ध्ये अनम्यार्थस्मद्रढिले च सम्भावनीयं सुखरूपप्रयोजनत्वं दूषयितु-
१-१-१ जिज्ञासाधिकरणरचना (नियोगस्यसुखत्वायोगः) ९९ अपि चकिमिदं नियोगस्य प्रयोजनत्वम् ॥ सुखवत् नियोगस्याप्यनुकूलत्वमेवेति चेत्किं नियोगः सुखम् ? सुखमेव ह्यनुकूलम् ॥ सुखविशेषवत् नियोगापरपर्यायं विलक्षणं सुखान्तरमिति चेत् — किं तत्र प्रमाणमिति वक्तव्यम् । स्वानुभवश्चेत्-न । विषयविशेषानुभवसुखवत् नियोगानुभवसुखमिदमिति भवताऽपि नानुभूयते ॥ शास्त्रेण नियोगस्य पुरुषार्थतया प्रतिपादनात् पश्चातु भोक्ष्यत इति चेत्किं तत् नियोगस्य पुरुषार्थत्ववाचि शास्त्रम् ? न तावलौकिकं वाक्यम्; तस्य दुःखात्मकक्रियाविषयत्वात् तेन सुखादिसाधनतयैव कृतिसाध्यतामात्रप्रतिपादनात् । नापि वैदिकम् ; तेनापि स्वर्गादिसाधनतयैव कार्यस्य प्रतिपादनात् । नापि नित्यनैमित्तिकशास्त्रम्, तस्यापि तदभिधायित्वं स्वर्गकामवाक्यस्थापूर्वव्युत्पत्तिपूर्वकमिति उक्तरीत्या तेनापि सुखादिसाधनकार्याभिधानमवर्जनीयम् । नियतैहिकफलस्य कर्मणोऽनुष्ठितस्य फलत्वेन तदानीमनुभूयमानानाद्य (द्या) रोगतादिव्यतिरेकेण नियोगरूपसुखानुभवानुपलब्धेश्च नियोगः सुखमित्यत्र न किञ्चन प्रमाणमुपलभामहे । अर्थवादादिष्वपि स्वर्गादिसुखप्रकार कीर्तनवत् नियोगरूपसुखप्रकारकीर्तनं भवतामपि न दृष्टचरम् । अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं ’ शब्दानुशासन सिद्धमेव मुपक्रमते अपि चेति । किमिदं नियोगस्य प्रयोजनत्वमिति । किंक्षेपे । शङ्कते सुखवदिति । । अनुकूलत्वं सुखेतरस्यानुपपन्नं मन्यमानः पृच्छति किमिति । अभिप्रेतं विवृणोति सुखमेव हीति । पुनः शङ्कते सुखविशेषवदिति । नियोगापरपर्यायम् पर्यायशब्दवाहुल्यसंभवादपरशब्दः । सुखान्तरमिति । यथा भौमसुखाद्विलक्षणं स्वर्गादिसुखं संभाव्यते, तथा ततोऽपि विलक्षणं सुखान्तरमिदमित्यर्थः । प्रमाणाभावं वक्तुमाह किं तत्रेति । चन्दनादिसुखं हि स्वानुभवसिद्धम् । अतः स्वानुभवः लौकिकवाक्यं वेदे च काम्यविधिवाक्यं नित्यनैमित्तिकवाक्यम् अर्थवादाश्च यथाक्रमं नियोगरू सुखरूपतां प्रति प्रमाणानि न भवन्तीत्युच्यते स्वानुभवश्चेदित्यादिना । तस्य दुःखात्मकक्रियाविपयत्वात् तेन सुखादिसाधनतयैव कृतिसाध्यतामात्रप्रतिपादनादिति । दुःखात्मकस्य सुखादिसाधन गूर्तधात्वर्थमात्रस्य कर्तव्यताप्रतिपादनादित्यर्थः । नियतैहिकफलस्येत्यादिना योग्यानुपलब्धिरुच्यते । नियतैहिकफलस्य कर्मणः - अप्रस्तुत प्रतिबन्धस्य कर्मण इत्यर्थः । अनेन अन्त्येष्टिसापेक्ष परमापूर्वःयावृत्तिः । 3 अथ कृतिसाध्यत्वं दूषयति अतो विधिवाक्येष्वपीति । किं व्युत्पत्तिसिद्धत्वात् धात्वर्थातिरिक्तार्थः स्वीक्रियते, उत पुरुषार्थतासिद्ध्यर्थम्, उत सुखसाधनत्व लक्षणव्यवहितं पुरुषार्थत्व सिद्ध्यर्थमिति विकल्पं हृदि निधाय प्रथमद्वितीयकल्पयोरुत्तरमाह अत इति । अयमर्थः -उक्तप्रकारेण धात्वर्थातिरिक्त व्युत्पत्त्यभावात् तथाविधस्य स्वतः पुरुषार्थत्वाभावाच्चेति । कर्तृव्यापारः - प्रयत्नः । शब्दशास्त्रस्वारस्यमध्यस्मत्पक्षे विद्यत इत्याह शब्दानुशासन सिद्धमेवेति । साधनत्व सिद्ध्यर्थं क्रियातिरिक्तार्थस्वीकार इत्यत्राह / 1 कृतिसाध्यतामात्त्रमित्यनेन कृतिसाध्यत्वप्रधानत्वादिविशिष्टं वा केवलं वा अपूर्व नार्थः । तथा इष्टसाधनत्वबलवदनिष्टा
ननुवन्धित्वविशिष्ट कृतिसाध्यत्वरूपः तार्किकमतार्थोपि नेति ज्ञाप्यते । 2 यथाक्रममित्यस्य उच्यत इत्यत्रान्वयः । 3 अप्रस्तुतेत्यादि । अनेन ‘ऐहिक्रमप्रस्तुतप्रतिबन्धे’ इति सूत्रे तत् पदं बहुव्रीहिवृत्तमिति सुज्ञानम् । भाग्ये नियतेत्यस्य अप्रतिबद्धोत्पाद्येत्यर्थः नियोगस्यापूर्वाख्यस्य फलनाश्यत्वात् फलस्य चेह जातत्वात्, एतन्नियोगानुभवो जन्मान्तरे इति दुर्वचम् । अत्र तु जन्मनि तद
ननुभवः स्पष्ट इति भावः । ३. अन्त्येष्टीति । आहिताग्नेर्मृतस्य संस्काररूपेयमिष्टिः । तजन्यापूर्वस्यामुष्मिकफलसाधनकर्ममात्रोपकारकत्वम् । 1
श्रुतप्रकाशिकोपेते श्रीमाष्ये (जिज्ञासाधिकरणसमाप्तिः) लिङादेर्वाच्यमित्यवसीयते । धात्वर्थस्य व यागादेरग्न्यादिदेवतान्तर्यामिपरमपुरुष समाराधनरूपता, समाराधितात् परमपुरुषात् फलसिद्धिश्चेति, “फलमत उपपत्तेः” इत्यत्र प्रतिपादयिष्यते । भतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म बोधयन्तीति ब्रह्मोपासनफलानन्त्यं स्थिरत्वं च सिद्धम् । चातुर्मास्यादिकर्मस्वपि केवलस्य कर्मणः क्षयिफलत्वोपदेशादक्षयफलश्रवणम्, “वायुश्चान्तरिक्षं चैतदमृतम् ” इत्यादिवदापेक्षिकं मन्तव्यम् । अतः केवलानां कर्मणामल्पास्थिरफलत्वात् ब्रह्मज्ञानस्य चानन्तस्थिरफलत्वात् तन्निर्णयफलो ब्रह्मविचारारम्भो युक्त इति स्थितम् ॥ इति श्रीभाष्ये जिज्ञासाधिकरणम् । धात्वर्थस्य चेति । “यज देवपूजादौ” इति हि धातुरिति भावः । प्रकृतं ब्रह्मविचारारम्भहेतुः सिद्ध इत्याह अत इति । सिद्धवस्तुनि बुद्धिपूर्वकं यदृच्छया च माद्यन्युत्पत्तिसंभवात्, अन्यथाऽपि विधिशेषतया सिद्धेश्चेत्यर्थः । अथ विशेषणांशासिद्धि परिहरति चातुर्मास्यादीत्यादिना । कर्मणामावृत्तिविधानाच्च क्षयिफलत्वमवगतमिति सिद्धमित्यनुसंधेयम् । " तद्यथेह कर्मचितो लोकः क्षीयते” इत्यादिवाक्यमभिप्रेत्याह क्षयिफलत्वोपदेशादिति । अक्षयफलश्रवणनिर्वाहमाह वायुश्चेति । न हि चातुर्मास्यादिवाक्येषु न हि चातुर्मास्यादिवाक्येषु अक्षयफलश्रवणमर्थवादोक्तत्वात् त्यज्यते ; अपि तु कर्मणामावृत्तिविधानात् क्षयिफलत्वोपदेशाश्च । तस्मात् कर्मणां क्षयिफलत्व निर्णयसिद्धिः । अतो हेतौ विशेषणांशः सिद्धः अधिकरणार्थमुपसंहरति अत इति । अस्याधिकरणस्य ब्रह्ममीमांसा विषयः ; सा किम् भारम्भणीया, 1 उत नेति संशयः सिद्धवस्तुनि शब्दव्युत्पत्तिर्नास्तीति विचारः; अस्तीति निश्चयः ; आरम्भः प्रयोजनम् इत्यधिकरणानपञ्चकम् । यथाऽऽहुः, “विषयः संशयश्चैव 1 विचारो निर्णयस्तथा । प्रयोजनेन सहितमेतत् स्यादङ्गपञ्चकम्” इति । परीक्ष्य लोकान् इत्यादिवाक्यं प्रथम सूत्रस्थ न्यायसिद्धानुवादपूर्वकं गुरूपसदन नियम विधिपरम् ; गुरुमेवाभिगच्छेदित्युक्तत्वात् ॥ रागतः प्रवृत्तौ सत्यां विधेयाभावादस्य ः सूत्रस्य वाक्यत्वं न घटते ; उद्देश्योपादेयविभागवद्धि वाक्यम्; विधेयं छुपादेयम् इति न वाच्यम्; अज्ञातज्ञापकत्वात् । प्रागज्ञात वाक्यज्ञाप्यं छुपादेयम् । रागतो ब्रह्मविचारे प्रवृत्तस्यापि सिद्धवस्तुनि व्युत्पत्तिर्नास्तीति वाक्येन अनारम्भणीयत्वं ज्ञायते । तं प्रति, सिद्धवस्तुनि व्युत्पत्तिसंभवादारम्भणीयत्वज्ञापनमज्ञातज्ञापनमेवेत्युद्देश्योपादेयविभागवत्त्वं सूत्रस्य । अत्र हि रागतः प्रवृत्तिमतः पूर्वपक्षहेतुना निवृतौ प्रसक्तायामप्रतिपन्नस्तत्तत्परिहारो विधीयते ॥ इति जिज्ञासाधिकरणम् ॥ 1 विचारः - विपरीतकोटिसंभावनारूपोहात्मकस्तर्कः ; पूर्वपक्ष इति यावत् । ; 2 अस्तु पूर्वमनारम्भणीयत्वज्ञानं पश्चादारम्भणीयत्वज्ञानश्च । पुरुषस्य प्रागेव रागतः प्रवृत्तत्वात् वाक्यविधेयं किमपि नास्तीति प्रश्नस्य कः समाधिरित्यत्रोपपादयति अत्र होति । प्रवृत्तिविघातपरिहार आरम्भणीयत्वज्ञानफलम् । ब्रह्मापातप्रतीतेः संभावितप्रामाण्यकत्वाभावबुद्धया प्रवृत्तिभंगः प्रसक्तः । संभावितप्रामाण्यकत्वस्थापनमिह कृतम् । तेन ताडगाप्रातप्रतीतिमान् सन् स रांगतः पुनः प्रवर्तते । अतो वाक्यस्य प्रवृत्त्यर्द्दत्वबोधकस्य प्रवर्तने पर्यवसानात् वस्तुतः अज्ञातशाप्यांशानपायाच्च विधेयमस्त्येवेति भावः । श्रीः ॥
१-१-२. जन्माद्यधिकरणारम्भः जन्माद्यधिकरणम् १-१-२ किंपुनस्तद्ब्रह्म, यजिज्ञास्यमुच्यत इत्यत्राह- १०१ अथ शास्त्रकाण्डद्विकाध्यायवादपेटिकाधिकरणरूपसंबन्धिमेदेन सप्तविधासु सङ्गतिषु सङ्गत्यन्तराणां स्पष्टत्वादधिकरणसङ्गतिमाह किंपुनरिति । शास्त्र सङ्गतिर्हि वेदार्थविचाररूपतया स्पष्टतरा; । वेदान्तार्थविचाररूपत्वात् काण्डसङ्गतिः ; कारणविषयत्वात् द्विकसङ्गतिः; कारण विषयवाक्यतर्करूपत्वादध्यायसङ्गतिः ; अयोपव्यवच्छेदविश्रान्तेः पादसङ्गतिः; शास्त्रारम्भार्थत्वात् पेटिकासङ्गतिः । अतोऽवान्तरसङ्गतिः किंपुनरित्यादिभाष्येणोच्यते । जिज्ञास्यम् — विचार्यम् । सकलेतर पुरुष । थतत्साधनपरित्यागपूर्वकं प्राप्यत्वेनोपायत्वेन च यत् जिज्ञास्यमुक्तमित्यर्थः । प्राप्यतया प्रापकतया च हि ब्रह्मैव आपाततः प्रतिपन्नम् । अनेन जिज्ञास्यमिति पदेन प्रणववेद प्रधानाद्यौपचारिकार्वाचीन ब्रह्मशब्दार्थव्यावृत्तिः । तच्च व्यावर्तकस्य लक्षणस्य वक्तव्यतयाऽपि हि सिध्यति । ब्रह्मशब्दवाच्यं स्वरूपेण गुणैश्च निरतिशयबृहत्त्वयोगि; ‘बृहति बृहयति’, “बृहत्त्वाद्वंणत्वाच्च ब्रह्मेति परिपठ्यते’ इति श्रुतिस्मृतिनिर्वचनात् । तत्र, ‘ब्राह्मणो वै सर्वा देवताः’ ‘नकिरिन्द्र त्वदुत्तरः’, ‘अग्निः सर्वा देवताः’, ‘एक एव रुद्रः’, ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः’, ‘आपो वा इदं सर्वम्’ इत्यादिभिर्ब्राह्माणम्नीन्द्रादीनामपि समाभ्यधिकरहितत्वप्रतीतेरर्थतत्त्वं व्याकुलम् । अतस्तेषु तापत्रयातुरजिज्ञास्यै तत् ब्रह्म किंलक्षणकमित्यर्थः । सर्वेषां समाभ्यधिकराहित्ये प्रतीतेऽपि तत् व्याहतम् अन्यपरवाक्या वगतं चेत्यनादरणीयम्, तत्त्वप्रधानेषु सृष्टिप्रलयप्रकरणेषु यदेव निरतिशयबृहदुक्तम्, तदेव जिज्ञास्यमित्यभिप्रायेणाऽऽह, “यतो वा इमानि” इत्यादि श्रुतिरितीममर्थं हृदि निघाय सूत्रकारेण जन्मादिसूत्र प्रणीतमित्यभिप्रायवतोक्तं किं पुनस्तद्ब्रह्म यज्जिज्ञास्यमुच्यत इति । न हि किं पुनर्ब्रत्युक्तम् । 1 स्पष्टतरा हीत्यस्य उपरितनवाक्येष्वप्यन्वयः । 2 अनेन जिज्ञास्यमितिपदेन – प्राप्यत्वप्रापकत्वाकार विशिष्टजिज्ञासाविषय समर्पकजिज्ञास्यपदेन अचेतनत्वाभोग्यत्यादिना मोक्षप्रदत्वादिरूप प्रापकत्वपरमभोग्यत्वरूप प्राप्यत्वरहितप्रणवादिव्यावृत्तविषयकप्रश्नसिद्धिः । यद्येवं लक्षणवचनात् प्रागेव व्यावृत्तवस्तुसिद्धिः, किमर्थं तर्हि लक्षणमित्यत्नाह तच्चेत्यादि । तच्च -उक्ताकार विशिष्टब्रह्म च वक्ष्यमाणलक्षणतोऽपि सिध्यतीत्यर्थः । आशयमुपपाद्याऽऽविकरोति ब्रह्मशब्देति । अयं भावः — ब्रह्मशब्दनिर्वचनबलात् प्रात्यत्वाद्याकारानईप्रणवाद्यचेत नव्यावृत्तिः सिद्धा - अथापि देवतादिरूपवस्त्वन्तरव्यावृत्तये किंतद्ब्रह्मेति प्रश्नः, कारणत्वलक्षणवचनादेव सर्वविलक्षणब्रह्मसिद्धिरिति । किंपुनस्तद्ब्रह्येत्येतावतैव संगतिसूचनात् यज्जिज्ञास्यमिति भाष्यं कतिपयव्यावृत्तेः प्रागेव सिद्धत्वज्ञापनायेति टीकाशयः । भा० प्र० रीतिस्तावत्-पदेनेत्यत्र पद इति पृथक्पदम् । नेति पृथक् । तच्चेत्यस्य व्यावर्तनमित्यर्थः । वक्तव्यतयाऽपीत्यस्य उक्तयेत्यर्थः । अपिरेवकारार्थः इत्येवम् । 3 तदेव जिज्ञास्यमिति । जगत्कारणत्वविशिष्टमेव रागप्राप्त ‘मुमुक्षुकर्तृकजिज्ञासाविषयत्वार्धम्, निर्णेयमिति’ ‘यावत् । एतावानेव, यतोवा इति वाक्यार्थ इह टीकाभिमत इत्युक्तावपि नैतद्वाक्यविरोधः । 4 श्रुतिः इत्यादि आहेतिधतिरेतद्वाक्यं प्रयुक्ते इत्यर्थः ।
१०२ मुतमकाधिकोपेते श्रीभाष्ये जन्माद्यस्य यतः ॥ १-१-२ जन्मादीति - सृष्टिस्थितिप्रलयम् । तद्गुणसंविज्ञानो बहुवीहिः । 1 सूत्रमुपादते जन्माद्यत्य यत इति । प्रथमपदं व्याचष्टे जन्मादीतिसृष्टिस्थितिप्रलयमिति । अन्यत् पदद्वयं वाक्यार्थयोजनायां व्याख्यास्यते । प्रथमपदव्याख्यानस्य समासार्थनिर्णयार्थं वाक्यान्तरसापेक्षत्वेन वाक्यार्थयोजनायामन्तर्भावयितुमशक्यत्वात् तस्य पृथग्व्याख्यानम् । सृष्टिस्थितिप्रलयमित्यत्र सृष्टिशब्द उत्पत्तिपरः; ‘सृष्टिस्थित्यन्तकालेषु’, ‘सृष्टिस्थित्यन्तकरणीम्’ इत्यादिप्रयोगात् । प्रयोज्यप्रयोजकव्यापारवा चिशब्दानां व्यतिकरेण प्रयोगः ब्रह्मण एव निमित्तोपादानत्वाभिप्रायनिबन्धनः । सृष्टिस्थितिप्रलयमिति समाहारार्थे द्वन्द्वः । एकस्मिन् कार्ये अन्योन्यसापेक्षतया तुल्यनिष्पादकत्वेनान्वय इतरेतरयोगः । यथा दर्शपूर्णमासयोः खर्ग प्रति । अत्र समुदितविवक्षा । अयमेव समुदायविवक्षायां समाहारः; तत्कृतमेकवचनत्वं नपुंसकत्वञ्च । अतोऽत्र सृष्टिस्थितिप्रलयमिति समाहारे द्वन्द्वः कृतः । वाक्यार्थयोजनायां सृष्टिस्थितिप्रलया इति इतरेतरयोगद्वन्द्वः कृतः ; उभयोरपि फलैक्यात् । जन्मादीत्यत्र इतिकरणेन तत्वैकवचने तात्पर्य गम्यते । तत्र पदार्थयोजनायां सृष्टिस्थितिप्रलयमित्येकवचनान्तपदेन सौत्रपदस्यैकवचनमनुसृतम् । तत्राप्येकवचनम्, सृष्टिस्थितिप्रलयानां समुदायो लक्षणम्, न त्वेकैकमिति ज्ञापनार्थम् ॥ समुदायस्य लक्षणत्वं श्रुतिस्वारस्यादवसीयते, “यतो वा इमानि भूतानि जायन्ते । येन नातानि जीवन्ति । यत् प्रयन्त्यभिसंविशन्ति” इत्यत्र हि न प्रतिवाक्यं तद्ब्रह्मेत्युक्तम् । अन्यथा एकेतरलक्षणवैयथ्य च स्यात् । न च समुदितं लक्षणम्, व्यावर्त्यभावात् । न हि जगदुत्पत्तौ निमित्तोपादानभूतं स्थित्यादिकारणत्वव्यवच्छेद्यं किमपि वस्त्वस्तीति चेत् सत्यम्, व्यवच्छेद्यं नेष्यते । तथापि श्रुत्यनुरोधात् सूत्रका रेणैवमुक्तम् । श्रुतिश्च, ‘तद् विजिज्ञासस्व’ इति विधित्सितोपासनोपयोगिनिरतिशयबृहत्त्वविपरीताबृहत्त्वशङ्काव्यवच्छेदार्थ समुदायमाह । शङ्कितव्यवच्छेदेनापि हि सप्रयोजनत्वं स्यात् ; लक्ष्याकारविपरीतशङ्कानिराकरणेन विना लक्ष्याकारनिश्चयायोगात् । न च जन्मादिष्वेकैककारणत्वं लक्ष्याकारविपरीतशङ्कानिराकरणक्षमम् । तथा (दा ?) हि-उत्पत्तिकारणत्वेऽभिहितेऽपि स्थित्यादिकारणत्वं न चेत्, तदनुगुणज्ञानशक्तिविरहात् स्थितिप्रलयकारणभूतवस्त्वन्तरसद्भावाच्च जन्ममात्रकारणस्य निरतिशयबृहत्त्वं न स्यात्; मुक्तेर्लयान्तर्भावात्, मोक्षप्रदतयोपास्यस्यैव प्राप्यत्वाच्च मोक्षप्रदत्वप्राप्यत्वानुगुणैर्गुणैश्च बृहत्त्वं न सिध्यति । अतो जन्मकारणत्वमात्रस्य समस्तवस्तुन्यवच्छेद क्षमत्वेऽपि जन्मादिसमुदायकारणत्वस्यैव निरतिशयबृहत्त्वौपयिकत्वात् सृष्टिस्थितिप्रलय समुदायकारणत्वं लक्षणमिति ज्ञापितम् ॥ 1 समुदायस्य लक्षणत्वमिहाविवक्षितम् जन्मादीति बहुव्रीहेरन्यपदार्थप्रधानत्वेन जन्मनोऽनन्तभूतत्वादित्यत्राह तद्गुणेति । बहुव्रीहिर्द्विविधः, तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्चेति । तत्र 1 तत्त्रापीति । सूत्रेऽपीत्यर्थः । 2 तद्विजिज्ञासस्वेतीत्यत्र विजिज्ञासस्वेति विचारस्य वा उपासनस्य वाऽनुवादमात्रमिति वक्ष्यति । अतः विधित्सितेत्यत्रान्वये विजिज्ञासस्वेत्यत्नोपासनविवक्षा खरसा । अस्य समुदायमाहेत्यत्त्रान्वये तु कारणं तु ध्येय इत्यादिवाक्यान्तरविधित्सितोपासनोपयोगितया अनत्यतत्पदेन समुदायबोधनमिति प्रकृतवाक्यार्थः । 8 तद्गुणसंविज्ञानःःतदीयगुणस्यापि तेन समं ज्ञापक इत्यक्लिष्टोर्थः । इदं समित्युपसर्ग लभ्यम् ।
१०३ अस्य - अचिन्त्यविविधविचित्ररचनस्यनियत देशकालंफलेभोगब्रह्मादिस्तम्बपर्यन्त क्षेत्रज्ञमिश्रस्य जगतः। प्रथमस्योदाहरणम्, “सर्वादीनि सर्वनामानि”, ‘लम्बकर्णमानय’ इत्यादि । द्वितीयस्योदाहरणम्, चित्रगुमानयेति । तच्छब्देन विशेष्यम्, गुणशब्देन विशेषणं च विवक्षितम् । समित्येकीकारे । विशेष्यञ्च एककार्यान्वितत्वेन सह ज्ञापयतीत्यर्थः । एवमपि बहुब्रीहेर्नान्यपदार्थप्रधानत्वभङ्गः स्वपदवाच्यविशिष्टसमुदायस्य तत्समुदायिनो वा अन्यपदार्थतया विवक्षितत्वोपपत्तेः । समासस्यपदवाच्यस्यापि विशिष्टसमुदायान्तर्गतत्वाकारेण झन्यपदार्थत्वं युज्यते ; खपदमात्रस्य तेनाकारेण तद्वाचकत्वाभावात् । ; अस्येति व्याख्येयपदोपादानम् । अचिन्त्येत्यादिना तद्याचष्टे । अस्येति पदस्य जगत इत्येतावन्मात्रे [ अर्थे ?] वक्तव्ये किमर्थो विस्तर इति चेत् — सूत्रकारविवक्षितार्थकथनार्थः । तद्विवक्षा च श्रुतिविवक्षया । श्रुतिविवक्षा कथं ज्ञायत इति चेत् — उच्यते । “यतो वा इमानि भूतानि जायन्ते” इत्यत्र भूतशब्देन कार्यवर्गेऽभिहितेऽपि इमानीति पदं कार्यवर्गस्य धर्मिग्राहक प्रमाण सिद्धाकार विशेषपरम् । तत्र जगत आभासतापरत्वं ब्रह्मणो जिज्ञास्यतानुपयोगीति वैचित्र्यपरम् इमानीतिपदम् ईदृशकार्यनिष्पादनानुगुणगुणोत्कर्ष ब्रह्मेति ज्ञापनार्थम् । श्रतिवाक्यस्थेदशब्देन निर्दिशतः सूत्रकारस्यापि इयमेव विवक्षा । जगतः इमानीति श्रुतौ बहुवचने सत्यपि सौत्रमेकवचनं कृत्स्नस्य भुवनस्यैककार्या (यता) विशेषेणैककर्तृकत्वज्ञापनार्थम् ; भृतशब्दस्य देवादिचतुर्विधभूतमात्रपरत्वन्यावर्तनेन भवनक्रियायोगिकृत्स्नकार्यसमुदायात्मकजगद्विषयत्वज्ञापनार्थञ्च । अत एव हि भाष्ये जगत इत्युक्तम् । तत्र कार्यवर्गस्य चिदचिदात्मकत्वात् तत्तत्प्रमाणसिद्धचिदचिद्वैचित्रीम चिन्त्येत्यादिपदद्वयेनाऽऽह ।
ननु ग्रहाधिकरणे, “ग्रहं समार्ष्टि " इत्यत्र उद्देश्यगतविशेषणे विवक्षाभावादेकवचने तापभाव उक्तः । तेन न्यायेन प्रसिद्धवन्निर्देशरूपतया अनुवादरूपस्येदशब्दस्योद्देश्यविशेषणे तात्पर्याभावे (वेन ?)नैवं व्याख्यातव्यम् ॥ मैवम्; ग्रहाधिकरणे ह्यद्देश्यविशेषणमात्र विवक्षा न निषिद्धा । अपित्वनुवादस्य मूलभूतप्रापकवाक्योक्तार्थविरुद्धविशेषणे हि तात्पर्याभाव उक्तः । उत्पत्तिवाक्यसिद्धस्य ग्रहबहुत्वस्य विरुद्धं ह्येकत्वम् । 2 अन्यथा ‘अष्टवर्ष ब्राह्मणमुपनयीत’ इत्यत्राप्यष्टवर्षत्वादिविशेषणे तात्पर्याभावप्रसङ्गात् । अत्र तु प्रापकवाक्येषु जगद्वैचित्र्यमेव स्पष्टम् । यद्वा-यत्र प्रयुक्तस्य शब्दस्यार्थाविवक्षायामन्वयानुपपत्त्याऽऽनर्थक्यम्, तत्रोद्देश्यविशेषणविवक्षा तत्र तत्राङ्गीकृता । तस्मादेवं व्याख्यातुं युक्तम् । 1 भूतोद्वेशेन इदम्त्वमप्राप्तं विधेयमित्ति मतिव्युदासाय अनुवादरूपस्येत्यन्तम् । उद्देश्यविशेषणे - भूतरूपोद्दश्यं प्रति विशेषणत्वकथने इत्यर्थः । इदंशब्दो न विशेषकत्वपरः किंतु केवलमनुवाद इति ।
नन्वथापि इमानीत्यस्य पृथक्पदत्वात् अरुणाधिकरणन्यायेन कारकाणां मिथोन्वयाभावात् इदन्त्वविशिष्टभूतोद्देश्यकत्वं दुर्यचमित्यवाह अन्यथेति । अयं भावः -मीमांसकैरष्टवर्षत्वादिविवक्षार्थ ब्राह्मणत्वाष्टवर्षत्वविशिष्टे लक्षणेति वा, तमध्यापयीतेत्यत्र तच्छन्देन विशिष्टग्रहणमिति वा क्लेश आधीयते । अस्माकं तु भाष्यकारपरिप्रकृतारुणाधिकरणसरण्यैव समानाधिकरणस्थले विशिष्टान्वयस्य व्युत्पन्नत्वात् सुस्थमिदन्त्वविशिष्टग्रहणमिति । 2 तत्त्रतत्त्रेति । 8.1, 8. अधिकरणे ग्रहाधिकरणसमनन्तरे ग्रहत्वविवक्षा । 8.4.8. अधिकरणे अग्न्युभयत्वविवक्षा, अग्नीनादधीतेत्यत्राझिनित्वविवक्षेत्येवं बहु द्रष्टव्यम् ।
१९४ श्रीमाये यतः - यस्मात् सर्वेश्वरानिखिलहेयप्रत्यनीकस्वरूपात् सत्यसङ्कल्पात् ज्ञानानन्दाद्यनन्तसत्राचिदंशवैचित्र्यमाह अचिन्त्येत्यादिना पदेन । जीवकर्तृकतया चिन्तयितुमशक्यत्वमचिन्त्यत्वम् । आकाशवाय्वादिभेदेन विविधत्वम् । प्रत्येकं तत्तद्यष्टिबाहुल्येन विचित्रत्वम् । ईदृशरचनस्येत्यर्थः । अत्र रचना संस्थानम् । अथ चिद्वैचित्र्यमाह नियतेति । अस्मिन् देशे अस्मिन् काले इदं फलमनेन भोक्तव्यमिति नियमों ब्रह्मादिपिपीलिकान्तानामविशेषेण भवति । ब्रह्मणोऽपि हि खमानपरिभितवर्षशतादधिकं जीवितुम्, अण्डान्तरे प्रवेष्टुम्, अण्डाधिपत्यादधिकं फलं भोक्तञ्चाशक्यम् । एवं चिदचिद्वैचित्रीकथनेन क्षेत्रज्ञमात्रस्य कर्तृत्वानुपपत्तिः सूचिता । तृतीयं पदमुपादते यत इति ॥ पूर्वस्य पदस्य श्रुतिविवक्षानुसारेण व्याख्यानं कृतम् ; अत्र तु तादृशपदश्रवणाभावेऽपि कथमने कविशेषणोक्तिः ॥ उच्यते । यतः येन यत् इति प्रसिद्धवन्निर्देशो हि प्रापकवाक्यसापेक्षः । तत्र प्रापकवाक्येषु जगत्कारणत्व जिज्ञास्यत्वोपयोगियादृशविशेषणविशिष्टो यो धर्मिविशेष उक्तः, तादृशं विशेषणविशिष्टः स एवात्र श्रुतौ यच्छब्देन विवक्षित इति सूत्रकाराभिप्राय इति कृत्वा तद्विशेषणविशिष्टतद्धर्मिविशेषपरत्वं सौत्रस्य यतश्शब्दस्योक्तम् । यत इत्यत्र, तसिप्रत्ययस्य सार्वविभक्तिकत्वात्, विभक्त्यन्तरशङ्का स्यात् । तेन जगज्जन्मादयो यत्र भवन्तीति देशकालादिवम् अधिकरणत्वमेव ब्रह्मलक्षणमित्यपि शङ्कितुं शक्यम् । एवं तसिलोऽप्येकद्विबहुवचनसाधारणत्वात् कारणवावयेषु समायनेकशब्दैरभिधानाच कारणानेकत्वशङ्का स्यादिति तदुभयव्युदासार्थं यस्मादित्युक्तम् । उपायतयोपेयतयाऽपि जिज्ञास्यत्वे कारणत्वे चोपयुक्तानि तवत्प्रापकवाक्यसिद्धानि एतच्छ्रुतिविवक्षितानि विशेषणानि दर्शयति सर्वेत्यादिना । तिस्रो मूर्तयः अंशाः, ब्रह्म अंशीति यादवप्रकाशपक्षः । प्रधानपुरुषयोः कारणत्वं केषाञ्चिन्मतम् । ईदृशन्यूनाधिक तत्त्वव्यवच्छेदार्थम्, “तमीश्वराणां परमं महेश्वरम्” “स कारणं करणाधिपाधिपः” इत्यादिश्रत्यनुसारेण सर्वेश्वरादित्युक्तम् । कारणवाक्यशेषभूतशोधकवाक्यसिद्धं जिज्ञास्यत्वोपयोगिनं चिदचिद्यावर्तकाकारमाह निखिलहेयप्रत्यनीकस्वरूपादिति । निखिलशब्देन आचिद्गतहेयाः षड्भावविकाराः, चिगतहेयाः क्लेशकर्म विपाकाशयाश्च विवक्षिताः । हेयार्हत्वे सति तद्वियुक्तत्वं व्युदस्यते प्रत्यनीकशब्देन । प्रत्यनीकश्चेत्, जगदुपादानत्वं नोपपद्यत इत्यत्राह स्वरूपादिति । अद्वारकहेयसंबन्धो व्युदस्तः, न तु सद्वारक इत्यर्थः । हेयप्रत्यनीकत्वे विशेषणांशेऽपि हेयासंभवः; तत्संबन्धविरोधित्वात् स्वप्रतिकूलोत्पादकत्वायोगाच्चेत्यत्राह सत्यसङ्कल्पादिति । स्वसङ्कल्पानुरूपं हेयसंबन्धं संश्रितेषु तद्वियोगं च कर्तुं समर्थः । न च हेय सर्वमीश्वरापेक्षया हेयम्, तत्सङ्कल्पनिवर्त्यत्वेन तल्लीलारसावहत्वादिति भावः । सत्यसङ्कल्पत्वं हेयप्रत्यनीकत्वोपपादकं कारणत्वजिज्ञास्यत्वोपयोगि च । हेयप्रत्यनीकात् सत्यसङ्कल्पादिति पदद्वयेन, अपहतपाप्मेत्यादिवाक्यं स्मारितम् । निज्ञास्यत्वोपयोगि धर्मिस्वरूपस्य कल्याणतामाह ज्ञानेति आनन्दत्वं खानुकूलत्वम् । आदिशब्देन सत्यत्वमानन्त्यं च विवक्षितम् । हेयप्रत्यनीकत्वं पूर्वमुक्तम् ज्ञानानन्देति भावप्रघाननिर्देशः । “येकयोर्द्विवचनैकवचने” इतिवत् । ज्ञानत्वा मन्दत्व सत्यत्वानि न प्रादेशिकानीति अनन्तशब्दार्थः । आदिशब्देनानन्त्यस्य गृहीतत्वेऽपि सर्वव्यापित्वस्य कालानन्त्य कथनं १
। १ - १-२ जन्माद्यधिकरणसूत्रार्थः १०५ कल्याणगुणात् सर्वज्ञात् सर्वशक्तेः परमकारुणिकात् परस्मात् पुंसः सृष्टिस्थितिप्रलयाः प्रवर्तन्ते, तद्ब्रह्मेति सूत्रार्थः ॥ ; नित्यत्वस्य सार्वत्रिकत्वकथनं सर्ववस्तु सामानाधिकरण्यार्हत्वस्य च नित्यत्व कृत्स्नप्रदेश वृत्तित्व कथनं ह्यविरुद्धम् । कल्याणत्वमन्येषामनुभवितॄणामप्यनुकूलत्वम् । ज्ञानत्वादयः कल्याणगुणाः यस्य तस्मादित्यर्थः । यथा प्रभाश्रये दीपे प्रभां विना आश्रयांशस्यैव चतुरङ्गुलत्वरूप (स्पर्श ?) वत्त्वोज्ज्वलत्वगुणाः तथा ब्रह्मणोऽपि ज्ञानत्वानन्दत्व सदैकरूपत्वानि स्वरूपस्य गुणाः । धर्मिणो धर्मस्य च ज्ञानत्वे व्यक्तिभेदादविरोधः धर्मधर्मिणोः साधारणाकारो ज्ञानत्वानन्दत्वादिः । यथा नरस्यैव सतो राज्ञो नराः परिकरा इत्युक्ते व्यक्तिभेदादविरोधः ; नरत्वं चोभयसाधारणाकारः तद्वत् । धर्मभूतज्ञानवत्तामाह सर्वज्ञादिति । सर्वज्ञत्वं निमित्तत्वोपयोगि । सर्वशक्तित्वमुपादानत्वोपयोगि । अनेन चिदचिच्छरीरकत्वमप्यभिप्रेतं भवति; अन्यथोपादानत्वायोगात् । किञ्च सर्वज्ञत्वम् उपासकापेक्षित तत्प्रतिबन्ध तन्निरसनप्रकारज्ञानोपयोगि; सर्वशक्तित्वं तद्विरोधिनिरसनोपयोगि ; परमकारुणिकत्वं च जिज्ञास्यत्वकारणत्वोपयोगि ; प्रलयदशायामसत्कल्पं चेतनजातं निरीक्ष्य दयया हि सृष्टिः । संथितसौलभ्यं च दययैव ; यथा “माता पिता भ्राता निवासः शरणं सुहृद्ध तिर्नारायणः” इति । ईदृशेश्वर उपायभूतः, उपेयमन्यदित्यत्राह परस्मादिति । अत्र “माता पिता….” इत्यनुसंधेयम् । देवताविशेषनिर्णयार्थमाह पुंस इति । कारणवाक्येषु, “छागो वा मन्त्रवर्णात् " इति सूत्रन्यायात् समात्मादिसामान्यशब्दानां पुरुषनारायणादिविशेषपर्यवसायित्वात् सर्वश्रुतीनां नारायण एवं पर्यवसानभूमिरिति, ‘यतो वा इमानि भूतानि ’ इत्यादिश्रुते हृदयमिति सूत्रकारस्य भाव इति भाष्यकारा भिप्रायः पुंस इत्यनेन कारणभूतस्य वस्तुनस्त्रिपाद्विभूतिमत्त्वमपि सूचितम् पुरुषसूक्ते त्रिपादस्यामृतं दिवि” इति श्रवणात् । सूत्रार्थ इति । अक्षरार्थस्तात्पर्यार्थश्चेत्यर्थः ।
ननु यदीश्वरो लिलक्षयिषितः, तर्हि तदसाधारण सर्वज्ञत्वादिप्रतिपादक संत्यज्ञानादिवाक्यानादरेण जन्मादिकारणत्वं किमर्थं सूत्रितम् । उच्यते । गुणैः स्वरूपस्य लक्ष्यमाणत्वे तदपेक्षया बहिष्ठाया विभूतेरुपास्यानन्तर्भावः प्रतीयेत । सर्गादिविषयभूतया तु विभूत्या स्वरूपे लक्ष्यमाणे तन्नियमनधारणाद्यपेक्षितत्वादेव गुणानन्तर्भावो न शक्यशङ्कः । अतो गुणानामिव विभूतेश्च जिज्ञास्यान्तर्भावज्ञापनार्थ जन्मादिलक्षणं सूत्रितम् । विभूतेश्वर जिज्ञास्यान्तर्भावः उपासात्रै विध्यतत्कतुन्याभ्यां सेत्स्यति ॥
नन्वेवमपि कृत्स्नविभूतेर्जिज्ञास्यान्तर्भावो न सिध्यति, सिध्यति, त्रिपाद्विभूतेर्जन्माद्यस्पृष्टत्वात ॥ मैवम् ; तस्याः जन्माद्यस्पृष्टत्वेऽपि ‘यत्प्रयन्ती’ तिप्रलयवाक्यस्थ यच्छन्दनिर्दिष्टे मुक्तप्राप्ये ब्रह्मण्यन्तर्भावसिद्धेः । तथाहि — प्रयन्तीत्येतत् अविशेषेणात्यन्तिकलयरूपं मोक्षमपि प्रतिपादयतीति यच्छन्देन मुक्तप्राप्यतयाऽपि 1 विभूतेश्च जिज्ञास्यान्तर्भाव इति । अत्र संदर्भ उपास्यत्वमिति नोपासनस्यावश्यकर्तव्यत्वमुच्यते । किं तु प्राकृतत्वात् विभूतेर्हेयत्व शंकायामुपासनार्ह त्वमुच्यते । उपासा त्रैविध्यस्य सूत्रितत्वात् । न ह्यपासितमेव प्राप्यमिति तत्कतुनयः; किंतु यत् अप्राप्यम्, तन्नोपास्यमिति । न च विभूतेरप्राप्यत्वम्, परिपूर्णब्रह्मानुभवविषयत्यात् विभूतेर्हेयत्वं ह्योपाधिकम्, अनकूल्यं नैसर्गिकमिति । तदिदमुपासनाईत्वमात्नम् । एतद्विभूतेरेवोपास्यत्वे त्रिपदस्तत् कैमुत्यसिद्धमपि । 2-14 ,
१०६ श्रुतप्रकाशिकोपेते श्रीमाण्ये ब्रह्म निर्दिष्टं भवति । पाप्याकारविशिष्टं च ब्रह्म प्रमाणान्तर सिद्धमिहानूद्यते । प्रमाणान्तराणि च विभूतिद्वयविशिष्टं ब्रह्म प्राप्यं वदन्ति । प्राप्याकारस्य चोपास्यत्वं तत्कतुन्यायसिद्धम् । तदेवं लक्षणान्तर्भूतेन लयांशेनोपलक्षितायास्त्रिपाद्विभूतेरपि जिज्ञास्यान्तर्भावसिद्धिः सूत्रिता भवति !!
ननु यत इति सूत्रपदस्थायाः पञ्चम्या उपादानार्थत्वात् ब्रह्मोपादानमिति, निमित्तान्तर सद्भावात्, “उपादानं तु भगवान् निमित्तं तु महेश्वरः” इत्युक्तव्योमातीतपक्षावकाशः प्रसजेत् ॥ नैवम् ; यत इति पञ्चम्याः हेतुमात्रविषयत्वात् । हेत्वर्थत्वं च जनिस्थितिलयसाधारणत्वादवगम्यते । न तु “जनिकर्तुः प्रकृतिः” इत्यपादानसंज्ञाविधानवत् स्थितिकतुर्लयस्थानस्य च अपादानसंज्ञाविधानं दृश्यते । तस्मादियं हेतौ पञ्चमी । ततश्च निमितोपादानयोरुभयोरपि हेतुत्वाविशेषात् यत इति पदेनोभयविधकारणत्वमपि कोडीकृत भवति । यतो वा इमानीत्यादिवाक्ये यत इति पदस्योभयविषयत्वात् सौत्रपदस्याप्युभयविषयत्वोपपत्तेः ॥
ननु ‘यतो वा इमानि’ इति वाक्ये यतो येन यदिति यच्छब्दस्याऽऽवृत्तत्वात् यत इति पदस्य जनिस्थितिलयसाधारण्यं नास्तीति तत्र यत इति पञ्चमी उपादनमात्रविषया; जायन्त इत्यनेनैवात्वयात् । पञ्चम्यर्थो हि, “जनिकर्तुः प्रकृतिः” इत्येव प्रतीयते । किञ्च हेतुमात्रविषयाया अपि सौत्रपदपञ्चम्याः श्रुतिवाक्यस्थपञ्चम्यभिहितोपादानरूपहेतु विशेषे पर्यवसानं स्यात्; सूत्रस्य श्रुत्यैकार्थ्योपपत्तेः । अतः श्रुतिसूत्रयोरुभयोरपि पञ्चम्या उपादानमात्रविषयत्वात् ब्रह्म उपादानम्, न तु निमित्तमिति ॥ नैवम् ; श्रुतौ यत इति पदस्य जनिस्थितिलयसाधारणत्वाभावेऽपि यच्छब्दस्यानुवादरूपत्वादनुवादस्य च प्रापकवाक्यसापेक्षतया तद्विरुद्धार्थपरत्वासंभवात् प्रापकवावयेषु च ‘एकमेवाद्वितीयं तदैक्षत बहु स्याम्… ‘ततेजोऽसृजत’ इत्युपादानभूतस्यैव ब्रह्मणो निमिचान्तरं निषिध्य, अहमेव जगद्रूपेण बहु स्यामिति सङ्कल्पमुक्ता यथासङ्कल्पं तत्कर्तृकसृष्टेध प्रतिपादनात् तदनुवादिनि लक्षणवाक्ये यत इति पदमुभयविषयम् । प्रत्यनुविधायित्वात् जन्मस्थितिलयसाधारणत्वाच्च सौत्रं च यत इति पदमुभयविषयमेव इति निमित्तान्तरवादो वेदविरुद्धत्वादनादरणीय एवेति । एवं तर्हि प्रकृत्यधिकरणपौनरुक्तयं स्यादिति चेन्न । तत्र हि निमितोपादानैक्यस्य श्रुतिप्रतिपाद्यत्वं समर्थ्यते । अत्र तु निमितोपादानैक्य सिद्धवत्कारेण त ( अ )स्योभयविधकारणत्वस्य लक्षणत्वानुपपत्तिः परिहियत इति वैषम्यात् ॥ नन्वीश्वर एव ब्रह्म चेद, सत्यज्ञानादि लक्षणत्वेन वक्तव्यम् । न तु जन्मादि ; ईश्वरस्य सर्वविधकारणत्वायोगात् । निमित्तकारणमुपादानं चैकमेव हि वेदान्तेषु मतम् । तस्मादीश्वरादतिरिक्तं ब्रह्माभ्युपगच्छंतो मेदामेदवादिनोऽनुकूलमिदं जन्मादिलक्षणकथनम् ॥ नैवम् ; चिदचिद्विशिष्टतया सत्यसङ्कल्पतया चेश्वरस्यैव बहु स्यामिति ईक्षणक्षमत्वेन सर्वविधकारणत्वोपपत्तेः । सन्मात्रस्य चिन्मात्रस्य च सत्यसङ्कल्पत्वायोगात् ईवरस्य च ब्रह्मांशतया अध्यस्ततया चाभिमतस्य अंशान्तराध्यस्तान्तरसमानाधिकरण शब्द वाच्यत्वायोगाच्च मेदामेदपक्षे मृषावादिपक्षे च बहु स्यामिति संकल्पपूर्वककारणत्वं न घटत इति एतल्लक्षणं परेषामेवानुपपन्नम् । किञ्च बुभुत्सितस्य लक्षणं वाच्यम् । बुभुत्सितं चोपास्यम् । ईश्वर एवोपास्यः प्राप्यश्च । उपासनं च विशिष्टविषयम्; उपासात्रैविध्यस्य वक्ष्यमाणत्वात् । प्राप्तिश्च 1. ‘अपादाने पञ्चमी’ इति सूत्रविहितपञ्चम्यप्रसक्त्या हेतौ पञ्चम्येवेत्याह, ‘न तु जनिकर्तुः इति ।
११-२ जन्माद्यधिकरणम् १०७ “भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधोहि भगवो ब्रह्म” इत्यारभ्य, “यतो बा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत् प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व । तद्ब्रह्म” इति श्रूयते । तत्र संशयः - किमस्माद्वाक्यात् ब्रह्म लेक्षणतः प्रतिपत्तं शक्यते, न वेति । विशिष्टविषया; यथोपासनभावित्वात् तस्याः । जन्मादि चोपास्यलक्षणम्, तद् द्विजिज्ञासस्वेति प्रतिपादनात् । सत्यज्ञानादि तु विशेष्यांशस्य लक्षणम् ; न तु विशिष्टस्य । अतो विशिष्टस्यैवोपास्यत्वात् जिज्ञास्यब्रह्मलक्षणं जन्माद्येव । यत इत्यस्यानुवादरूपत्वात् विजिज्ञासस्वेति जिज्ञास्यत्ववचनाश्च जिज्ञास्यत्वीपयोगिशोधकवाक्यार्थश्च यच्छब्दे गर्भितः । तस्मात् यस्मादित्यादिविशेषणान्युक्तानि ॥ अथ जन्मादीनां लक्षणत्वे तत्र जन्मनोऽन्तर्भावे, तत्रापि समुदितस्य लक्षणत्वे च कि ते प्रमाणमित्याकाङ्गायां सूत्रकारैर्विषयत्वेनाभिप्रेतां श्रति दर्शयति भृगुरिति । शास्त्रं प्रणाढ्या विषयः । ‘यतो वा इमानि’ इत्यादिमात्रे उदाहर्तव्येऽपि अर्थवादरूपतात्पर्य लिङ्गज्ञापनार्थ प्रकरणस्य ब्रह्मोपक्रमत्वेनानन्यपरत्वज्ञापनार्थं च भृगुर्वा इत्यादि उदाहृतम् । अग्नीन्द्रादिवस्तुषु सर्वोत्कृष्टतया आपातप्रतीतेषु सर्वेषां सर्वोत्कृष्टत्वस्यानुपपन्नत्वेन तत्त्वस्य दुर्निश्चयतया निरतिशयवृहत्त्वाश्रयव्यक्तिविशेषजिज्ञासया हि, ‘अधीहि भगवो ब्रह्म’ इति प्रश्नः । तत्र व्यक्तिविशेषस्य लक्षणमुच्यते, ‘यतो वा इमानि’ इति । यतो येन यदिति यद्वृसयोगात् कारणत्वमनूद्यते । तद्ब्रह्मेति कारणस्य ब्रह्मत्वं विधीयते । तेन कारणत्वस्य ब्रह्मलक्षणत्वं सिद्धं भवति । तद्विजिज्ञासस्वेति न विचारस्योपासनस्य वा विधिः । विचारात्मकज्ञानं रागप्राप्तत्वात् न विधेयम् । उपासनात्मकस्य तु ज्ञानस्य ‘ब्रह्मविदाप्नोति’ इति प्राकरणिकवाक्यान्तरसिद्धत्वात्, उपक्रमे ‘अधीहि भगवो ब्रह्म’ इति प्रश्नस्य तत्त्वपरत्वेनोपायविषयत्वाभावाच्च नोपासनात्मकज्ञानमिह विधेयम् । अतो विजिज्ञासस्वेति उपदिश्यमानार्थे अवधानार्थं संदेहनिवृत्त्यर्थं वोक्तम् ‘या गन्धवती तां पृथिवीं बिद्धि’ इतिवत् । अतः कारणत्वस्य ब्रह्मलक्षणत्वमेवास्य वाक्यस्य विधेयम् । देवदत्तकेदार इत्युक्ते सारससंबन्धस्य देवदत्त केदारलक्षणत्वमुक्तं स्यात्, बुभुत्सितो धीस्थः; सारससंबन्धश्च दृष्टः । तस्य देवदत्त केदारलक्षणत्वं प्रज्ञातम् । अतस्तदेव वाक्यस्य विधेयम् । एवं निरतिशयवृहत्त्वं बहुष्वर्थेष्वापाततः प्रतीतम् । कारणत्वं च प्रापकवावयावमतम् । तस्म निरतिशयबृहद्वस्तुलक्षणत्वमनवगतमिति तदत्र विधेयम् । लक्षणस्य च सजातीयविजातीयव्यां वर्तनखभावत्वादन्येषां निरतिशयबृहत्त्वशङ्कान्युदासः फलितः । अतो नारायणादिविशेषशब्द वाच्यवस्तु विशेषस्यैव निरतिशयबृहत्त्वसिद्धिः । अत एव हि परस्मात्पुंस इत्युक्तम् ॥ यथा यथा यत्र सारसः स तद्वत् । देवदत्तकेदारो प्रापकवाक्यैरेव कारणभूतंवस्तुविशेषस्य निरतिशयबृहत्त्वं ज्ञायत इति किमनेन लक्षणवाक्येनेति चेत्-न; अग्न्यादीनामपि कर्मभागवाक्यैः सर्वोत्कृष्टत्वावगमात् तेषु बृहत्त्वशङ्कान्युदासाय कारणवाकयानामपि तद्वत् अन्यपरत्वाभावेन तत्त्वपरत्वज्ञापनपरत्वादस्य वाक्यस्य । अथ श्रुतिरेव लक्षणं प्रतिपादयति चेत्, किं सूत्रेणेति शङ्कायाम्, सूत्रतात्पर्यार्थे विवक्षुः संशयं दर्शयितुं श्रुतिगतहेतुनैव संशयोत्पत्ति दर्शयति तत्रेति । तत्र - तादृश इत्यर्थः । पूर्वपक्षानुगुणेन विशेषण बहुत्वेन सिद्धान्तानुगुणेनैकवचनान्तब्रह्मशब्देवयेन च विशिष्टत्वं संशयहेतुत्वेनाभिप्रेत्य तत्रेत्युक्तम् । संशयस्वरूपं दर्शयति किमस्मादिति । ब्रझमीमांसा किमारम्भणीया, उतानारम्भणीयेति प्रथम विचारः ;
१०८
किं प्राप्तम् । न शक्यमिति । न तावत् जन्मादयो विशेषणत्वेन ब्रह्म लक्षयन्ति, अनेकविशेषणव्यावृत्तत्वेन ब्रह्मणोऽनेकत्वप्रसक्तेः । विशेषणत्वं हि व्यावर्तकत्वम् ॥
ननु ‘देवदत्तः श्यामो युवा लोहिताक्षः समपरिमाणः’ इत्यत्र विशेषणबहुत्वेऽप्येक एव देवदत्तः प्रतीयते । तदर्थं वेदान्ता ब्रह्मणि प्रमाणम् उत नेति द्वितीयविचारश्च चतुस्सूत्रीसाधारणः । सिद्धस्वरूपं ब्रह्म न शास्त्रं प्रतिपादयतीत्याशङ्कयाह… तच्छास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवत्येव इति समन्वयाधिकरणोपक्रमे तस्याधिकरणस्य शास्त्रारम्भ हेतुभूतप्रामाण्यसमर्थनार्थत्वस्य भाष्यकारैरेव वक्ष्यमाणत्वात् । तथा चाहुः- इति । । " “न्युत्पत्त्यभावः प्रतिपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम् । एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि” T अतस्तद्विचारयुगलमन्त्रार्थसिद्धमित्यभिप्रेत्य एतदधिकरणासाधारणं संशयशरीरं दर्शितं किमस्मादिति । यतोवाइमानीत्यादिवाक्यं ब्रह्म लक्षणतः प्रतिपादयितुं शक्नोति, उत नेति संशयः । तदर्थं संशय्यते किं सृष्ट्यादीनां विशेषणत्वेनोपलक्षणत्वेन च ब्रह्मलक्षणत्वं संभवति नेति तदर्थ विशेषणपक्षे किं विशेषणभेदेन विशेष्यभेदोऽस्ति, नेति ; तदर्थं किं विशेषणस्य विशेषणत्वं खाश्रय’ (?) सर्वधर्मव्यावर्तकतया, उत विरोधिधर्मव्यावर्तकतयेति । उपलक्षणपक्षे किमाकारान्तरप्रतिपतिरस्ति, उन नास्तीति । सर्वधर्मन्यावर्तकतया विशेषणत्वम् ; आकारान्तरप्रतिपत्तिश्च नास्तीति पूर्वः पक्षः । विरोधिधर्मव्यावर्तकतयैव विशेषणत्वम् ; आकारान्तरप्रतिपत्तिश्चास्तीति राद्धान्तः । सर्वधर्मन्यावर्तकतया विशेषणत्वे विशेष्य भेदप्रसङ्गेन जन्मादीनां विशेषणत्वायोगात, आकारान्तरप्रतिपत्त्यभावेन चोपलक्षणत्वायोगात् उभयथापि लक्षणत्वासंभवादिदं वाक्यं ब्रह्म लक्षणतः प्रतिपादयितुं न शक्नोतीति लक्षणदौस्स्थ्येन ब्रह्मणि शास्त्रप्रामाण्याभावात् तद्विचारोऽनारम्भणीय इति पूर्वपक्षे फलितम् । विरोधिधर्मव्यावर्तकतयैव विशेषणत्वे विशेष्यभेदाभावाज्जन्मादीनां विशेषणत्वोपपत्तेः, आकारान्तरप्रतिपत्तिसद्भावादुपलक्षणत्वोपपत्तेश्व उभयथाऽपि लक्षणत्वसंभवादिदं वाक्यं ब्रह्म लक्षणतः प्रतिपादयितुं शक्नोतीति लक्षणसौष्ठवेन ब्रह्मणि शास्त्रप्रामाण्योपपत्तेः तद्विचारस्यारम्भणीयत्वं सिद्धान्ते फलितम् । तत्र पूर्वपक्षमुपपादयितुं प्रतिजानीते म शक्यमिति । जन्मादीनां ब्रह्मलक्षणत्वं किं विशेषणतया उतोपलक्षणतयेति त्रिकल्पमभिप्रेत्य प्रथमं दूषयति न तावदिति । कथं विशेषणत्वेन न लक्षयन्तीत्यत्राह अनेकेति । अनेकत्वप्रसक्तिर्व्यावर्तकत्वं वा कथमित्यत्राह विशेषणत्वं हीति । विशेष्यतेऽनेनेति निर्वचमानुसारेण मेदकं विशेषणम् मेद्यं विशेष्यमिति प्रसिद्धेः खण्डः मुण्डः पूर्णशृङ्गः, नीलं शुक्लं पीतम्, अजो गजो महिष इत्यादिषु तथा दर्शनाचेति भावः । सिद्धान्तिच्छायया चोदयति
नन्विति । 1 स्वाश्वयपदस्थाने स्वाश्रये इति पृथक्पदं स्यात् । स्वान्येति वा । व्यावर्त्यधर्मस्य स्वाश्रय - निष्ठत्वायोगादनन्वयात् । सर्वधर्मेति । विधेयत्वादिना स्वसजातीयसमभिव्याहृतसर्वधर्मेत्यर्थः । नतो ब्रह्मशब्दवाच्यत्वोपास्यत्वविचार्यत्वादिसाधारणा साघारणाने कधर्मसद्भावेऽपि न क्षतिः । ब्यावर्तकधर्मान्तरमा सत्रहण एव भाष्यसारस्थान ।
१-१२. जन्माद्यधिकरणपूर्वपक्षः १०९ एवमत्राप्येकमेव ब्रह्म भवति ॥ नैवम् ; तत्र प्रमाणान्तरेणैक्यप्रतीतेरेकस्मिन्नेव विशेषणानामुपसंहारः । अन्यथा तत्रापि व्यावर्तकत्वेनानेकत्वमपरिहार्यम् । अत्र त्वनेनैव विशेषणेन लिलक्षयिषितत्वात् ब्रह्मणः प्रमाणान्तरेणैक्यमनवगतमिति व्यावर्तकमेदेन ब्रह्मषहुत्वमवर्जनीयम् ॥ ब्रह्मशब्देक्यादत्राप्यैक्यं प्रतीयत इति चेत्-न ; अज्ञातगोव्यक्तेः जिज्ञासोः पुरुषस्य, खण्डो मुण्डः पूर्णश्रङ्गो गौः’ इत्युक्ते, गोपदैक्येऽपि, खण्डत्वादिव्यावर्तकभेदेन गोव्यक्ति बहुत्वप्रतीक्षेत्र व्यक्तयोऽपि बह्रयः स्युः । अत एव लिलक्षयिषिते वस्तुन्येषां विशेषणानां संभूय लक्षणत्वमप्यनुपपन्नम् ॥ 5 नाप्युपलक्षणत्वेन लक्षयन्ति, आकारान्तराप्रतिपत्तेः । उपलक्षणानामेकेनाऽऽकारेण प्रतिपन्नस्य केनचिदाकारान्तरेण प्रतिपत्तिहेतुत्वं हि दृष्टम्, ‘यत्त्रायं सारसः, स देवदत्तकेदारः’ परिहरति नैकमिति । उपसंहारः - पर्यवसानम् । अन्यथा - प्रमाणान्तरेणैक्यप्रतीत्यभावे सतीत्यर्थः । तत्रापि — देवदत्तादावपि । पक्षे वैषम्यमाह अत्रत्विति । प्रमाणान्तरेणैवयम नवगतमिति वदतोऽयं भावः - ‘एकमेवाद्वितीयम्’ इत्यादिभिरपि नैकत्वनिश्चयः, तत्राप्येकत्वादिविशेषण मेदेन बहुत्वापत्तेः । एकमित्यादिपदानाम्; एको त्रीहिः इत्य दिवन्निर्वाहसंभवाच्चेति ।
ननु न केवलं प्रमाणान्तरेणैवैक्यप्रतीतिः । शाब्दी च विद्यते । तस्यां सत्यां धर्मिबहुत्वं न स्यात् । अत्र चैकवचनान्तधर्मिवाचिपदैवयं विशेष्यैवयज्ञापकमिति शङ्कते ब्रह्मशब्देति । तद्ब्रह्म तद्धमेति मुहुर्मुहुरुक्तिर्वा, तानि ब्रह्माणीति बहुवचनं वा नास्तीति भावः । परिहरति नेति । तत् कथमित्यत्राह अज्ञातेति । एकवचनान्तधर्मिवाचिपदैक्यं विशेषणबहुत्वाधीनं विशेष्यबहुत्वं न बाघते ; खण्डो मुण्डः पूर्णशृङ्गो गौरित्यत्र बहुत्वप्रतीतेः ॥ एकवचनान्तधर्मिवाचिपदैवयं स्वतो विशेष्यैक्यप्रतिपादकम्, खण्डादिषु प्रत्यक्षबाधात् बहुत्वप्रतीतिरिति चेन्न ; अप्रत्यक्षेष्वपि गोषु खण्ड इत्यादिवाक्ये प्रयुक्ते बहुत्वप्रतीतेः । तस्मात, विशेषणबहुत्वं चेत्, विशेश्य मेदापादकमित्यभिप्रायेणोक्तम्. अज्ञातगोव्यतेरिति । अज्ञातगोव्यक्तेः – प्रत्यक्षेणादृश्यमानगोव्यक्तेरित्यर्थः । खण्डो मुण्ड इत्यादिवाक्यप्रयोगासंमवव्युदासाथ जिज्ञासोरित्युक्तम् । गोसामान्यज्ञाने सति मदृष्टगोन्यक्तित्वान्निज्ञासासंभवात् प्रयोगसम्भवः । सृष्टिस्थितिप्रलयाः किं प्रत्येकलक्षणानि, उत समूयेति विकल्पमभिप्रेत्य प्रत्येकपक्षे दूषणमुक्तम् ; संभूयेति पक्षे दूषणमाह अत एवेति । अत एव - विशेषण भेदस्य खतो विशेष्यभेदापादकत्वादित्यर्थः । उपलक्षणपक्ष दूषयति नापीति । कुत इत्यत्राह आकारान्तरेति । व्यापक निवृत्त्या व्याप्यनिवृतिरिति भावः । व्यापकत्वमेवोपपादयति उपलक्षणानामिति । उपलक्षणेनोपलक्ष्यप्रतिपत्तौ उपलक्षणमुपलक्ष्याकारः पूर्वप्रतिपन्नाकारश्चेत्याकारत्रयमवर्जनीयम्; संप्रतिपन्नस्थलेषु तद्दर्शनात् । यथा सारससंबन्ध उपलक्षणम् ; देवदत्तसंवन्धित्वमुपलक्ष्यम् ; केदारत्वं पूर्वप्रतिपन्नाकारः । अतोऽत्र तृतीयाकारप्रतिपत्स्यमावादुपलक्षणत्वमनुपपन्नमित्यर्थः ॥ शाखाभे चन्द्र इत्यत्र कथमाकारत्रयमिति ’ ‘एको मोहिः सुनिष्पनः सुपुष्टं कुरुते प्रजाः’ इतिषक्ष्यमाणवाकपादाविति भावः ।
भुतप्रकाशिकोपेते श्रीमान्ये इत्यादिषु ॥
ननु च, “सत्यं ज्ञानमनन्तं ब्रह्म” इति प्रतिपन्नाकारस्य जगज्जन्मादीन्युपलक्षणानि भवन्ति ॥ न ; इतरेतरप्रतिपन्नाकारापेक्षत्वेनोभयोर्लक्षणवाक्ययोरन्योन्याश्रयणात् । अतो न लक्षणतो ब्रह्म प्रतिपत्तं शक्यत इति ॥ एवं प्राप्तेऽभिधीयते—जगत्सष्टिस्थितिप्रलयैरुपलक्षण भूतैर्ब्रह्म प्रतिपचं शक्यते । न चोपलंक्षणोपलक्ष्याकारव्यतिरिक्ताकारान्तराप्रतिपत्तेः ब्रह्माप्रतिपत्तिः । उपलक्ष्यं ह्यनवधिकातिशयबृहत्, वृंहणञ्च ; बृहतेर्धातोस्तदर्थत्वात् । तदुपलक्षणभूताश्च जगजन्मस्थितिलेयाः । ’ ; चेत्उच्यते । कालविशेषे देशविशेषसंबन्धः उपलक्ष्याकारः; शाखाप्रमुपलक्षणम् शाखाचन्द्रयोश्च ऋजुप्रदेशवर्तित्वं सम्बन्धः । स च संबन्धो वाक्यावगतः । आदित्या दिव्यावर्तकं चन्द्रशब्दबोध्यं चन्द्रसंस्थानं तृतीयाकारः । केदारत्वाद्याकारः प्रत्यक्षप्रतीतः ; चन्द्रत्वं तु पूर्वानुभूतत्वात् धीस्थम् । कुत्र चन्द्र इति बुभुत्सायामेवम् । कश्चन्द्र इति बुभुत्सायां शब्दवाच्यत्वमुपलक्ष्यम् ; खारसिकेन वा शब्दोत्थापित बुभुत्सामूलेन वा प्रत्यक्षेण प्रतीतो वक्रतादिः पूर्वप्रतिपन्नाकारः । अनेन निर्विशेषवस्तुवादे तु उपलक्षणत्वमपि नोपपद्यते इत्युक्तं भवति । तृतीयाकारप्रतिपत्तिरस्तीति चोदयति
ननु चेति । दूषयति नेति । सत्यत्वादयः किं विशेषणतया लक्षणभृताः, उत उपलक्षणत्तया । पूर्वस्मिन् कल्पे दूषणमुक्तम् । अन्यत्र च — आकारान्तरप्रतिपत्त्यपेक्षायाम् वाक्यान्तरेण चेत्, अनवस्था । स्वेन चेत्, आत्माश्रय इति । अतः यतो वा इमानीत्यादिवाक्येन आकारान्तरप्रतिपत्तिर्वक्तव्या । ततश्चान्योन्याश्रय इति भावः । अत इति । विशेषणत्वोपलक्षणत्वायोगादित्यर्थः ॥ … ★ सिद्धान्तमवतारयति एवं प्राप्तेऽभिधीयत इति । एवम् सूत्रकाराभिप्रेते पूर्वपक्षे प्राप्ते तदभिप्रेतस्तत्परिहार ः उच्यत इत्यर्थः । ज्ञाप्यवहिर्भूतो ज्ञाप्यप्रतीत्युपाय उपलक्षणम् । ज्ञाप्यान्तर्भूतो ज्ञाप्यप्रतीत्युपायो विशेषणम् । न चैकस्य ज्ञाप्यज्ञापकत्वविरोधः ; घटादेरिन्द्रियसंयोगप्रतिसंवन्धित्वेन ज्ञानोत्पत्तिहेतुत्वस्य विषयत्वस्य च दर्शनात् । एवं शब्दतो धीस्थतया स्वविशिष्टप्रतीतौ हेतुभूतं विशेषणम् इति उभयथापि लक्षणत्वोपपत्तिं वक्ष्यन्, “एकाने स्वकरूपाय स्थूलसूक्ष्मात्मने नमः " इतिवत् चरमोतमुपलक्षणपक्ष बुद्धिस्थतया प्रथममुपपादयितुं प्रतिजानीते जगदिति । ननूपलक्षणपक्षे अनुपपत्तिरुक्तेत्यत्राह न चेति । आकारान्तरम् - आकारविशेषः ; स चोपलक्षणोपलक्ष्याकारातिरिक्त इत्यपुनरुक्तिः । पृथक तृतीयाकारं दर्शयितुमाकारद्वयं विवक्षन् पूर्वमुपलक्ष्याकारमाह उपलक्ष्यं हीति । अथर्वशिरसि, “बृहति बृंहयति तस्मादुच्यते परं ब्रह्म” इति । श्रीमति वैष्णवे पुराणे च “बृहत्त्वादवृंहणत्वाच्च ब्रह्मेति परिपठ्यते” इत्यादिनिर्वचनप्रसिद्धिद्योतको हिशब्दः । आकारत्रयपृथक्तद्योतनार्थाश्चशब्दाः तत्र तत्र ज्ञेयाः । कथं निरतिशयबृहत्त्वबृंहणत्वप्रतिपत्तिरित्यत्राह बृहतेरिति मनिन्प्रत्ययान्तस्य रूढिसहकृतस्य बृहतिधातोस्तदर्थत्वादित्यर्थः । यद्वा ब्रह्मशब्देन बृहत्त्वबृंहणत्वावगतिः कथमित्यत्राह बृहतेरिति । बृहत्त्वस्य स्वरूपतो गुणतश्च विवक्षितत्वात् बृंहणत्वरूपबृहत्त्वमपि घात्वर्थान्तर्गतमिति भावः । उपलक्षणाकारमाह तदुपलक्षणेति ।
ननु सारसस्य केदारेणेव बन्मादीनां ब्रह्मणा सह संबन्धो वक्तव्यः, किञ्च ब्रह्मण उपादानत्वे बाह्यमत इव
११-२ जन्माद्यधिकरणसिद्धान्तः १११ यतः येन यदिति प्रसिद्धवन्निर्देशेन यथाप्रसिद्धि जन्मादिकारणमनूद्यते । प्रसिद्धिश्च, “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तदैश्चत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत” इति एकस्यैव सच्छन्दवाच्यस्य निमित्तोपादानरूपकारणत्वेन । तदपि ‘सदेवेदमग्र एकमेवासीत्’ इत्युपादानतां प्रतिपाद्य अद्वितीयमित्यधिष्ठात्रन्तरं प्रतिषिध्य ‘तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत’ इत्येकस्यैव प्रतिपादनात् । तस्मात् यन्मूलाः जगजन्मस्थितिलेयाः तद्ब्रह्मेति, जन्मस्थितिलेयाः स्वनिमित्तोपादानभूतं वस्तु ब्रह्मेति लक्षयन्ति । जगन्निमित्तोपादानताक्षिप्त सर्वशत्व सत्य सङ्कल्पत्वविचि त्रशक्तित्वाद्याकार बृहत्त्वेन प्रतिपन्नं ब्रह्मेति च जन्मादीनां तथा प्रतिपन्नस्य लक्षणत्वेन नाऽऽकारान्तराप्रतिपत्तिरूपानुपपत्तिः । निमित्तान्तरराधिष्ठेयताप्रसङ्गेन सत्यसङ्कल्पत्वादिगुणान्वयलक्षणबृंहणत्वासिद्धिश्च स्यादित्येतच्छङ्काद्वयं परिहरन् तृतीयाकारोपस्थापकं वाक्यं चावतारयति यतो येनेत्यादिना । कुत्र कथं प्रसिद्धिरित्यत्राह प्रसिद्धिश्वेति । तच्च कथमित्यपेक्षायां तत्प्रतिपादनं पदानामन्वयमुखेन दर्शयति तदपीति । तत् निमितोपादानत्वरूपकारणत्वम् । उपादानत्वाधिष्ठात्रन्तर निवारणयोरुपपादनं कृतं ‘तदैक्षत बहु स्याम्’, ‘असृजत’ इति । रामकृष्णादिरूपेण बहुभवनव्यावृत्त्यर्थं जगद्रूपेण बहुभवनमिति दर्शितम्, ‘ततेजोऽसृजत’ इत्यनेन । अत्र फलितं संबन्धमाह तस्मादिति । यथा उपलक्षणेन सारसेनाधिकरणत्वेन संबन्धित्वं केदारस्य, यथा चन्द्रदेशस्य शाखायाश्च ऋजुभावः संबन्धः, तथा ब्रह्मण उपलक्षणभूतजन्मादिभिर्हेतुहेतुमद्भावः संबन्ध इत्युक्तं भवति ; यथाप्रसिद्धि अनुवादरूपतया वात्रयस्य । निमित्तान्तरशङ्का चार्थात् परिहृता भवति । एवं तृतीयाकारस्याऽऽक्षेपकमुपलक्षण संबन्धात्मकं निमित्तोपादानरूपं कारणत्वमुक्तम् । अथ तदाक्षिप्तं तृतीयाकारमाह जगदिति । यतश्शब्दस्मारितकारणवाक्येषु हि सार्वश्याद्यवगमः । अतो जगनिमित्तोपादनताक्षिप्तेत्युक्तम् । गुणानामपरिच्छिन्नतया तद्विशिष्टस्य ब्रह्मशब्दवाच्यतायोग्यत्वज्ञापनार्थमाकारबृहत्त्वेनेत्युक्तम् । ‘यः सर्वज्ञः’ इत्यादिवाक्यावगत सार्वज्ञ्यादी नामुपलक्षणत्वाभावान्नान्योन्याश्रयः । विशेषणबहुत्वं तु न विशेष्यभेदापादकमिति वक्ष्यत इति न विरोधः । उपलक्षण पक्षानुपपत्तिपरिहारमुपसंहरति इति चेति । इति च – अतश्चेत्यर्थः । उपलक्ष्यं हीत्यादिभाष्यस्यैवं वा योजना - अनवधिकातिशयशब्दे तात्पर्यम् । उपलक्ष्यमनवाधिकातिशयबृहत्त्वं बृंहणत्वं च । निरवधिकबृहत्त्वं च स्वरूपतो गुणतो विभूतितश्चानवधिकबृहत्स्त्वम् । बृहत्त्व बृंहणत्वविशेषः उपलक्ष्य इत्युक्तं भवति । ततश्चोपलक्ष्याकारैकदेशभूतं बृहत्वबृंहणत्वमात्रै पूर्वप्रतिपन्नाकारो भवतीति फलितम् । लोके तथा दर्शनात् । देवदत्तकेदारत्वं यपलक्ष्यम् । न देवदत्त संबन्धित्वमात्रम्, घटपटादिष्वतिप्रसङ्गात् । तदेकदेशभूत केदारत्वमात्रेण च पूर्वप्रतिपतिः । तस्मादुपलक्ष्यैकदेशभूतबृहत्त्वबृंहणत्वाकारेण पूर्वप्रतिपत्तिः, अनवधिका तिशयबृहत्त्वं बृंहणत्वमुपलक्ष्यमित्यभिप्रायेण ह्यनवधिकातिशयबृहद्वृंहणश्चेत्युक्तम् । बृहत्त्व बृंहणत्वविशेषस्योपलक्ष्यत्वात् ‘बृहत्वबृंहणत्वमात्रं पूर्वप्रतिपन्नाकार इत्यर्थसिद्धमिति हिशब्देन सूचितम् । कथं तत्प्रतिपत्तिरित्यत्राहबृहतेर्धातोरिति । बृहत्त्वमात्र पूर्वप्रतिपन्नाकार इत्यध्याहृतेन वाक्येन तदर्थत्वादिति पञ्चम्या अन्वयः । यद्वा न चेत्यादिना पूर्ववाक्येनान्वयः । उपलणाकारमाह-तदुपलक्षणेति । तृतीयाकारमन्यमपि
११२ मतप्रकाशिकोपेने श्रीभाष्ये जगज्जन्मादीनां विशेषणतया लक्षणत्वेऽपि न कश्चित् दोषः । लेक्षणभूतान्यपि विशेषणांनि स्वविरोधिव्यावृत्तं वस्तु लक्षयन्ति । अज्ञातस्वरूपे वस्तुन्येकस्मिन् लिलक्षयिषितेऽपि परस्पराविरोध्यनेकविशेषणलक्षणत्वं न भेदमापादयति ; विशेषणानामेकाश्रयतया प्रतीतेरेकस्मिन्नेवोपसंहारात् । खण्डत्वादयस्तु विरोधादेव गोव्यक्तिभेदमापादयन्ति । अत्र तु कालेवेन जन्मादीनां न विरोधः ।
विवक्षुः तत्प्रतिपादकं वाक्यमवतारयन् उपलक्षणस्योपलक्ष्येण संबन्धं वदन् निमित्तान्तरशङ्कां च न्युदस्यति यतो येनेत्यादिना । पूर्ववदर्थः । विवक्षितमभ्यं तृतीयाकारमाह – जगदिति । इदानीं चशब्दः तृतीयाकारान्तरसमुच्चये । यथा केदारत्वं सारसाधिकरणत्व देवदत्त संबन्धित्वोपयोगि तथा सर्वज्ञत्वादयोऽप्यनवधिका तिशयबृहत्त्वबैहणत्वजन्मादिकारणत्वोपयोगिनः । ; अथ विशेषणतया लक्षणत्वमुपपादयति जगजन्मादीनामिति । कथं न दोषः अपवादकप्रमाणाभावे विशेषणभेदस्य विशेष्यमेदावहत्वं दोषत्वेन युक्तमित्यत्राह लक्षणभूतान्यपीति । लक्षणभूतानि व्यावर्तकभूतानीत्यर्थः । यद्वा लक्षणभूतानां विशेषणानां सजातीयविजातीयव्यावर्तनखभावत्वेऽपीत्यर्थः । स्वविरोधिव्यावृत्तम् - नियतभिन्नाश्रयविशेषणाश्रयाद्व्यावृत्तम्; न त्वविरुद्धविशेषणाश्रया दुव्यावृत्तमित्यर्थः । अयं ग्रन्थः पक्षविषयः । बहुत्वापवादकप्रमाणाभावे सति विशेषणत्वमेव विरोधित्वमित्यत्राह अज्ञातेति । अयं तु सपक्षविषयः । देवदत्तः श्यामो युवेत्याद्युदाहरणमत्राभिप्रेतम् । अप्रत्यक्षविषयेऽप्येकवचनान्तघर्मिवाचिपदैक्याद्विशेष्यैक्यं प्रतीयत इत्यर्थः । अत्र विशेष्यैवयव्यवस्थापकं किमित्यपेक्षायां सपक्षे विशेष्यैक्यमुपपादयति विशेषणानामिति । शब्दस्वारस्याद्विशेषणानामेकाश्रयान्वयप्रतीतेःअविरुद्ध विशेषणानामेकाश्रयवृत्तित्वोपपत्तेरित्यर्थः । अविरुद्धविशेषणत्वं विशेष्यैवयव्यवस्थापक मित्युक्तं भवति । यद्वा अज्ञातस्वरूप इत्यपि ग्रन्थः पक्षविषयः । पूर्वस्मिन् ग्रन्थे विशेषणानां विरुद्धविशेषणाश्रयात् स्वाश्रयभेदकत्वमुक्तम् । अप्रत्यक्षत्वे सति भिन्नविशेषणत्वमेव भेदकत्वमित्यत्राह अज्ञातेति । तत्राप्यविरुद्ध विशेषण मेदो न विशेष्यमेदक इत्यर्थः । कुत इत्यत्राह विशेषणानामिति । देवदत्तः श्यामो युवा लोहिताक्षः इत्यादावविरुद्धविशेषणानामेकाश्रयत्वदर्शनात् पक्षीकृतेऽप्येकस्मिन्नव विशेषणानामन्वयोपपत्तेरित्यर्थः । अविरुद्ध विशेषणानां विशेष्यभेदानापादकत्वमुक्तम् ; विपक्षभूतखण्डादिषु बहुत्व नियामक माह खण्डत्वादयस्त्विति । ततः पक्षस्य वैषम्यमाह अत्र त्विति । कालभेदेनेत्यस्यायमभिप्रायः - विशेष्यब्रह्मबहुत्वेऽपि जगज्जन्मादीनां यौगपद्यन्याघातात् कालभेदेनाविरोध आश्रयणीयः ; विशेष्यैवयेऽपि तथैवाविरोध इति । अत्रायमर्थोऽनुसंधेयः - विशेषण बहुत्वं स्वत एव विशेष्यभेदापादकम्, खण्डो मुण्ड इत्यादिषु दर्शनात् । देवदत्तः श्यामो युवेत्यादिषु प्रत्यक्षचाधादेवयप्रतीतिः । तस्मात् प्रत्यक्षागोचरे ब्रह्मणि विशेषणबहुत्वायत्तं विशेष्यबहुत्वमवर्जनीयमिति चेत् — एकवचनान्तधर्मिवाचिपदैवयस्य स्वतो विशेष्यैक्यपरत्वं देवदत्तः श्यामो युवेत्यादिषु दृष्टम् । खण्डो मुण्ड इत्यादिषु प्रत्यक्षबाघात् बहुत्वप्रतीतिः । अतः प्रत्यक्षागोचरे 1 इदानीमिति । चशब्दोऽयं पूर्वमुपलक्ष्योपलक्षणाकारसमुच्चये । इदानीं बृहत्त्वरूपपूर्वोकदतीयाकारसमुच्चये ।
११३ “यतो वा इमानि भूतानि जायन्ते” इत्यादिकारणवाक्येन प्रतिपन्नस्य जगजन्मादिकारणस्य ब्रह्मणः सकलेतरव्यावृत्तं स्वरूपमभिधीयते, “सत्यं ज्ञानमनन्तं ब्रह्म” इति । तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माऽऽह । तेन विकारास्पदमचेतनं तत्संसृष्टश्चेतनश्च व्यावृत्तः ; नामान्तरभजनाहघस्थान्तरयोगेन तयोर्निरुपाधिकसत्तायोगरहितत्वात् । ज्ञानपदं नित्यासङ्कुचितज्ञानैकाकार- ब्रह्मणि एकवचनान्तधर्मिवाचिपदैक्यादैवयं सिद्धमेव ॥ नैवम् । विशेषण भेदायतं विशेष्यबहुत्वमेकवचनान्तधर्मिवाचिपदैक्यं न बाधते, अपि तु प्रत्यक्षमेव बाधते, अदृश्यमानगोव्यक्तेः पुरुषस्य खण्डो मुण्ड इत्यादिवाक्यप्रयोगे सति एकवचनान्तधर्मिवाचिपदैक्येऽपि बहुत्वप्रतीतेरिति हि पूर्वपक्षस्थितिः । तत्रोत्तरमुच्यते-अज्ञातेत्यादिना । एकवचनान्तधर्मिवाचिपदैक्यं बहुत्वं बाघत एव अदृश्यमानेऽपि देवदत्ते, देवदत्तः श्यामो युवेत्यादिवाक्यप्रयोगे विशेषणबहुत्वे सत्यपि विशेष्यैक्यप्रतीतेः ! एवं प्रत्यक्षाप्रत्यक्षविभागविधुरं बहुत्वप्रतीतिरैक्यप्रतीतिश्च भवतः । अत्र तु बहुत्वैकत्वयोः को निर्णायक इति चेत् — नियतभिन्नाश्रय दृष्ट विशेषण बहुत्वं विशेष्यैक्य विरोधि, अनियतभिन्नाश्रयदृष्टविशेषण बहुत्वं नैक्यविरोधीति ॥ अथ सत्यज्ञानादीनां लक्षणत्वोपपत्तिं पूर्वोक्तान्योन्याश्रयणपरिहारञ्चाह यतो वा इति । लक्षगवाक्येनानेन कारणत्वमेव लक्षणत्वेनोक्तमिति अस्य कारणवाक्यत्वम् । आदिशब्देन सदेवेत्यादीनि कारणत्वप्रापकवाक्यानि गृह्यन्ते ।
ननु लक्षणभूतेनैव जन्मादिकारणत्वेन ब्रह्मणः सजातीयविजातीयव्यावृत्तिः सिद्धा; अन्यथा तस्य लक्षणत्वायोगात् । तत् कथं सत्यादिवाक्येन सकलेतरव्यावृत्ताभिधानोक्तिः ॥ उच्यते । व्यावृतिर्द्विविधा । व्यक्त्यन्तरेष्वं संभावितधर्म योग रूपा सत्तज्जातीयासाधारणधर्मानन्वयरूपा च । तत्र विलक्षणधर्मयोगे व्यक्त्यन्तरेभ्योऽन्यत्वं सिद्ध्यति ; न स्वतज्जातीयत्वम्; तज्जातीयत्वव्यञ्जक धर्मान्वयाधीनतज्जातीयत्वशङ्काया अनपगमात् । तदनन्वये तु ‘तज्जातीयताव्यावृत्तिः सिध्यति । यथा घटस्य संस्थानविशेषेण स्वेतरसमस्तवैलक्षण्ये सिद्धेऽपि पृथिवीत्वव्यवस्थापकगन्धवत्त्वयोगात् पृथिवीजातीयत्वं नापैति, तदयोगादवादिषु तज्जातीयत्वापगमः –एवं जगत्कारणत्वरूपविलक्षणधर्मान्वये सत्यपि ब्रह्मणोऽचिज्जातीयत्व जीव जातीयत्वशङ्काऽवतिष्ठ’ इति तज्जातीयतान्यावृत्तिः सत्यज्ञानादिवाक्येन प्रतिपाद्यत इति तस्य संकलेतरव्यावृत्ति स्वरूपबोधक तोक्तिर्युक्तेति । कथं व्यावृत्तखरूपाभिधानमित्यत्राह तत्रेति । केनापि परिणामविशेषेण तत्तदवस्थस्य सत्ता सोपाधिकसत्ता ; अतो निरुपाधिकसत्ता निर्विकारत्वम् । सत्यपदव्यावर्त्यमाह तेनेति । कथमित्यत्राह नामान्तरेति । निरुपपदं सत्यपदमसङ्कोचात् स्वरूपतो धर्मतश्चैकरूपत्वं ज्ञापयतीत्य चित् तत्संसृष्टजीवव्यावृतिः । ज्ञानशब्दार्थमाह ज्ञानपदमिति । इदानीम् अस्मिन् विषये इत्याद्युपपदरहितं ज्ञानपदमसङ्कुचितत्वं नित्यत्वश्च ज्ञानस्य दर्शयति । नित्यासङ्कुचितज्ञानत्वमेवाकारो यस्य तत् नित्यासङ्कुचित- 1 अवतिष्ठत इति । अवस्थाश्रयत्वरूपोपादानत्वसंकल्पाश्रयत्वरूपनिमित्तत्वाभ्युपगमात् अचित इव स्वरूपान्यथाभावः चित इत्र हेयविकारास्पदत्वं मुक्तस्येव कादाचित्कविकासः नित्यस्येव परिच्छिन्नत्वमित्येवंरूपं हि तत्तज्जातीयत्वम् । 2-15
११४ श्रुतप्रकाशिकोपेते श्रीमाष्ये (ज्ञानपदेन धर्मधर्मिज्ञानत्वोक्तिः ) ज्ञानैकाकारम् । तेन ब्रह्मणः कदाचित् क्वचिदपि प्रदेशे जडत्वव्यावृत्तिः । नित्यासङ्कुचितज्ञानत्वमद्वारकं धर्मद्वारकं च परमात्मन आकारो भवति । ‘आत्मज्योतिः सम्राडिति होवाच’, ‘ब्रह्मणा विपश्चिता’, “विज्ञातारमरे केन विजानीयात् " इत्यादिभिः स्वरूपस्य धर्मस्य च ज्ञानत्वावगमात् ज्ञानशब्दासक्कोचेन सद्वारका द्वारकज्ञानाकारत्वसिद्धिः । 1
नन्वस्य ज्ञानशब्दस्य किं प्रवृत्तिनिमित्तम् ? विषयावगाहिज्ञानाख्यद्रव्यत्वं चेत् — अपर्यवसानात् ज्ञानधर्मकत्वमुक्तं स्यात्; न तु ज्ञानस्वरूपता । स्वप्रकाशतारूपं ज्ञानत्वं प्रवृत्तिनिमित्तं चेत् — ज्ञानख - रूपत्वमुक्तं स्यात् ; न तु ज्ञानधर्मकत्वम् । ततश्च ‘तद्गुणसारत्वात् ’ इति सूत्रविरोधश्च । न च गवादिशब्दानां परमात्मपरत्वे गोत्वसंस्थानपिण्डजीवानामिव द्वारद्वारिभावात् ज्ञानाख्यद्रव्य - ज्ञानत्वगुणयोर्द्वयोरपि प्रवृत्तिनिमित्तत्वं घटते । न हि धर्मभूतज्ञानं स्वरूपभूतज्ञानगतज्ञानत्वगुणे समवैति, येन द्वारद्वारिभावः स्यात् ॥ धर्मभूतज्ञाने स्वरूपे चानुगतं ज्ञानत्वमेव प्रवृत्तिनिमित्तं चेत् — गोशब्देन खण्डमुण्डपिण्डद्वयवत् ज्ञानव्यक्तिद्वयमुक्तं स्यादिति द्वारद्वारिभावेनानभिधानात् तयोर्ज्ञानयोर्न धर्मधर्मिभावप्रतीतिः । ज्ञानत्वगुणविशेषितज्ञानदेव्यविशिष्टतया ज्ञानत्वगुणविशिष्टतया च स्वरूपस्याभिधाने शब्दस्य युगपद्व्यापारमेदः प्रसजेत् । अतो ज्ञानपदेन खरूपतो धर्मतश्च ज्ञानाकारत्वमात्मनो न सिद्ध्येत् ॥ उच्यते । ज्ञानशब्दस्य स्वप्रकाशतारूपं ज्ञानत्वं प्रवृत्तिनिमित्तम् । न च तद्गुणसारत्वादिति सूत्रविरोधः ; धर्मभूतज्ञानद्रव्याभिधानेऽपि ज्ञानत्वस्य प्रवृत्तिनिमित्तत्वात् । स्वरूपस्य च ज्ञानत्वम्, " प्रकाशवच्चावैयर्थ्यात्” इति सूत्रितम् । न च सद्वारकमद्वारकञ्च स्वरूपस्याभिधानेऽपि शब्दस्य युगपद्व्यापारभेदः ; साक्षाद्वा परम्परया वेति विशेषमनपेक्ष्य ज्ञानत्वमात्रस्य प्रवृत्तिनिमित्तत्वे सति शब्दशक्तयसङ्को चात् साक्षात् प्रणाड्या च ज्ञानत्वविशिष्टतावगमेन ज्ञानधर्मकत्व - ज्ञानस्वरूपत्वसिद्धेः । न च द्वारद्वारिभावेनानभिधानात् खण्डमुण्डव्यक्तयोरिव धर्मधर्मिभावासिद्धिः ; “आत्मज्योतिः सम्राट्’, ‘ब्रह्मणा विपश्चिता’, ‘अत्रायं पुरुषः स्वयंज्योतिर्भवति’, ‘एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’ इत्यादिभिः परमात्मनो जीवस्य च ज्ञानधर्मकत्वस्य ज्ञानस्वरूपत्वस्य च सिद्धेः । ज्ञानशब्दस्य चासङ्कोचेन ज्ञानात्मनोर्विशेषणांशे विशेष्यांशे च ज्ञानत्ववैशिष्ट्यबोधनसामर्थ्याच्च । यथा सपरिकरो राजा दृष्टः, सपरिच्छदं गृहं कीतम्, सवत्सा गौः क्रीतेत्यादौ विशेषणांशस्य विशेष्यांशस्य च दृष्टत्वक्रीतत्वान्वयः एकव्यापारेण शब्देन बोध्यते, तद्वत् । न च विशेषणांशे विशेष्यांशे वा दृष्टत्वक्रीतत्वान्वय अर्थः 1
ननु जीवात्मनामपि कात्स्न्येंनाजडत्वसत्त्वात् कथं मुक्तेषु संकुचितज्ञानत्वोकिस्तद्वघा वृत्त्युक्तिश्च भाष्ये इति शंकायां धर्मद्वारकत्वमादाय निर्वहति नित्येत्यादिना । ज्ञानपदस्य सर्वसंमत सविषयकत्वं या अद्वैतीष्टं स्वयम्प्रकाशत्वं वा प्रवृत्तिनिमित्तमिति पक्षद्वयेऽपि अन ज्ञानपदस्य अन्तोदात्ततया अर्शआद्यजन्तत्वात् ज्ञानयुक्तमित्येवार्थ इति भाष्यनिर्वाहः सुकरः । अथापि रमत इव स्वरमुपेक्ष्यापि निर्वाहार्थः उपरितनविस्तर इति ध्येयम् । 2 सिद्धेरिति । तथाच आत्मनि तद्धर्मे च ज्ञानत्वस्य प्रामाणिकत्वात् ज्ञानमिति पदस्य स्वाश्रयत्वस्वाश्रयाश्रयत्वोभयसंबन्धेन ज्ञानत्वरूपस्वप्रकाशत्वविशिष्टमित्यर्थः स्वीक्रियत इति भावः । अथ परम्परासंबन्धंविहाय ज्ञानत्वाश्रयमात्त्रार्थकत्वेऽपि धर्मे ज्ञानत्वलाभं दर्शयति ज्ञानशब्दस्येति । १ .
जन्माद्यधिकरणम् (ज्ञानस्य ब्रह्मशब्दार्थघटकता ) । ११५ माह ; तेन कदाचित्सङ्कुचितज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्तपदं देशकालवस्तु परिच्छेद रहितं (त) विशेषणांशविशेष्यांशयोरन्यतरेण विनाऽन्यतरस्य दृष्टत्वक्रीतत्वान्वयप्रतीत्यनुपपत्त्यभावात् । न हि प्रवाहस्य घोषं प्रति बासत्ववत् (घोषप्रतिवास - त्ववत् ?) विशेषणांशेन विना विशेष्यांशस्य दृष्टत्वकीतत्वादिकमनुपपन्नम् । न च दर्शनक्रयादियोग्यतालक्षणेनार्थसामर्थ्येन विशेषणांशस्य तदन्वयप्रतीतिः; मण्डपक्षेत्रगोदौहनादीनां दर्शनक्रयादियोग्यानामपि तदन्वयाप्रतीतेः । तदप्रतीतिश्च बुभुत्सायां सत्यां संदेहोदयात् सिद्धा । न च समभिव्याहारवलात विशेषणांशस्य तदन्वयसिद्धिः, धार्मिको राजा दृष्ट इत्यत्र धर्मस्य दृष्टत्वाप्रतीतेः । न हि धर्मश्चक्षुर्विषयः । योग्यत्वे सति समभिव्याहारवलात् तदन्वयसिद्धिरिति चेत् तर्हि विशेषणांशेऽपि तदन्वयस्य शाब्दत्वमुक्तं स्यात् । न ह्याकाङ्क्षासंनिधियोग्यतान्वयेन प्रतिपन्नत्वं शाब्दत्वं निवारयति ॥
ननु सपरिकरो राजा दृष्ट इत्यादिषु विशेषणांशस्य विशेष्यांशस्य च शब्देनोपस्थापनात् तत्र विशेषणांशेऽपि विधित्सिताकारान्वय उपपन्नः ; अत्र तु तदभावादुभयत्र विधित्सिताकारान्वयानुपपत्तिरिति ॥ नैवम्; ब्रह्मशब्देनैव विशिष्टवस्तूपस्थापनात् । तथाहि तद्विजिज्ञासस्वेति मुमुक्षोर्जिज्ञास्यतयोक्तं ब्रह्म तदैक्षतेत्यादीनि वाक्यानि सत्यसङ्कल्पत्वादिविशिष्टं कारणं वदन्ति । तच्छोधनप्रवृत्तसत्यादिवाक्यगतब्रह्मशब्दः सत्यसङ्कल्पत्वादिविशिष्टकारणविषयः । बृंहणत्वमपि हि ब्रह्मशब्दार्थः । तच्च खसङ्कल्पेनाचेतनस्य स्थूलपरिणाम हेतुत्वम्, चेतनानां ‘स चानन्त्याय कल्पते’ इत्युक्तज्ञानवृहत्त्वहेतुत्वश्च । ततश्च सत्यसङ्कल्पत्वादिविशिष्टार्थोपस्थापक शब्द प्रतिपन्न विशिष्टवस्तुविशेषकत्वात्, ज्ञानपदमसङ्कुचितशक्तितया विशेष्यांशे विशेषणांशे च खप्रवृतिनिमित्तभूतज्ञानत्वान्वयं प्रतिपादयति । सपरिकरो राजा दृष्ट इत्यादिषु पदान्तरसमभिव्याहृतशब्देन विशिष्टोपस्थापनम् अत्र तु स्वोपजीव्यवाक्यान्तरस्थनिर्वचनसापेक्षत्रह्मशब्देनेति भिदा । विशिष्टवस्तुन्युपस्थापिते सति विशेषणांशस्य विशेष्यांशस्य च विधित्सिताकारान्वयित्वं तुल्यम् । स्वोपजीव्यवाक्यान्तरसापेक्षशब्देन विशिष्टवस्तुनि उपस्थापिते विधित्सिताकारस्योभयान्वयित्वञ्च दृष्टम्, यथा सानुचरो राजा समागतः मया च स सत्कृत इति ; सवत्सा गौः स्थिता, सा च दत्तेति । अतः परमात्मनो ज्ञानशब्देन ज्ञानधर्मकत्वज्ञानखरूपत्वाभिधानं युक्तम् । आनन्दादिशब्देष्वप्येष एव न्यायः स्वतः प्रवर्तते ।-” प्रमाणान्तरविरोधे सति तु निवर्तते । अतो यथोक्तार्थ उपपन्नः । अतः साक्षात् प्रणाढ्या च नित्यासङ्कुचितज्ञानैकाकारत्वं दर्शयता ज्ञानपदेन मुक्तव्यावृत्तिसिद्धिमाह तेनेति । अनन्तपदस्यार्थमाह अनन्तेति । इहेदम्, नान्यत्रेति परिच्छेत्तुमशक्यत्वं देशापरिच्छेदः । इदमिदानीम् नान्यदेति परिच्छेदायोग्यत्वं कालापरिच्छेदः ; न तु देशकालाभावौ । एवं वस्त्वपरिच्छेदोऽपि न वस्त्वन्तराभावः ६ किंतु इदमिदं न भवतीति परिच्छेदानर्हत्वमेव ; सर्ववस्तुसामानाधिकरण्यार्हत्वं वस्त्वपरिच्छेद इति यावत् 1 ब्रह्मव्यतिरिक्ते भावरूपाज्ञानतत्कार्यजतेऽङ्गीकृते सति वस्त्वन्तराभावरूपो वस्त्वपरिच्छेदः परस्यानुपपन्नः ॥ सत्यवस्त्वन्तराभावः स इति चेत् तर्हि स्वनिष्ठवस्त्वन्तराभावः स 1 ‘गंगायां घोषः प्रतिवसति’ इति प्रयोगानुसारिवाक्यमिदमिति युक्तमिति घोषप्रतीति समस्तं स्यात् । 2
नन्वेवं ब्रह्मशब्दार्थान्तर्गतशक्त्यादावपि स्वयम्प्रकाशत्वान्वयः स्यात् । संकल्पादी भविनाशित्वरूपसत्यत्वानन्तत्वान्वयश्च स्यादित्यवाह प्रमाणान्तरविरोधे सति त्विति ।
११६ (अनन्तशब्दार्थः) स्वरूपमाह । सगुणत्वात् स्वरूपस्य स्वरूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वय विलक्षणाः सातिशयस्वगुणाः नित्याः व्यावृत्ताः, विशेषणानां व्यावर्तकत्वात् । ततः ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनेन वाक्येन जगज्जन्मादिनाऽवगतस्वरूपं वस्तु (ब्रह्म) सकले तरवस्तु पिसजातीयमिति लक्ष्यत इति नान्योन्याश्रयणम् । इत्यभ्युपगमो वरम्; प्रमाणान्तराविरोधात् । सत्यवस्त्वन्तराभावो हि तत्तद्धर्मिग्राहकप्रमाणविरुद्धः । गुणतोऽप्यानन्त्यमाह सगुणत्वादिति । गुणानां देशकालापरिच्छेदौ विद्येते, न तूक्तलक्षणवस्तुपरिच्छेदाभावः । स तु स्वरूपस्यैव । यद्वा प्रकारान्तरेण वस्तुपरिच्छेदाभावमाह सगुणत्वादिति । इदमियदिति वस्तुस्वभावतः परिच्छेदाभावो वस्त्वपरिच्छेदः ; यथा तुल्याकारत्वे ( तुल्यकालत्वे) तुल्यपरिमाणत्वेऽपि दशवर्णस्वर्णापेक्षया षड्वर्णस्वर्ण तदपेक्षया कलधौतादि चापकृष्टम् । सोऽपकर्षो वस्तुपरिच्छेदः । तत्तदपेक्षया गुरुत्वोज्ज्वलत्व पवित्रत्वादिभिर्ब्रशवर्णस्वर्णादिकं प्रकृष्टम् । तस्य प्रकर्षस्य निरितिशयत्वं यस्त्यपरिच्छेदः । ईदृशवस्त्यपरिच्छेदः स्वरूपस्य गुणानां च युज्यते; तेषामपि हेयमत्यनीकत्वादिस्वभावोत्कर्षस्य निरवधिकत्वात् । समाभ्यधिकराहित्यनिदानभूतो गुणैर्निरतिशयप्रकर्षो वस्वपरिच्छेद इत्युक्तं भवति । सर्वत्रस्तुसामानाधिकरण्यार्हत्वं चास्मिन्नन्तर्गतम् । तद्धि सर्वशरीरकत्वम् । तच्च नियमनधारणशेषित्व काष्ठेति । अनन्तपदव्यवच्छेद्यमाह तेनेति । सातिशयस्वरूपस्वगुणा इति । स्वरूपमणुत्यात् सातिशयम् । ज्ञानव्यतिरिक्ता ऐश्वर्यादिगुणाश्च जगद्व्यापारानर्हतया सातिशयाः । ज्ञानं च नित्यं सर्वगतमपि तथात्वस्य परमात्मनित्येच्छाधीनत्वात् सातिशयम् । अपराधीनत्वरूपस्यातिशयस्य परस्मिन् विद्यमानत्वात् स्वाभाविकत्वेऽपि गुणानां सातिशयत्वमिति ज्ञापनार्थः स्वशब्दः । एवं व्यावृत्तिकथनस्य हेतुमाह विशेषणानामिनि । अन्योन्याश्रयस्य परिहृतत्वं दर्शयति तत इति । ततः -एवं व्यावृत्तिसिद्धेः ! अवगतस्वरूपम् अवगतासाधारणाकारम् । जन्मादिकारणत्वं ह्यसाधारणाकारः; तद् लक्षणत्वेनावगतमित्यर्थः । वस्तु - विशेष्यस्वरूपम् । ब्रह्मेति वा पाठः । कारणतया लक्षितस्य ब्रह्मणः कारणत्वशङ्कितदोपन्यावर्तकत्वाच्छोधकवाक्यानां लक्षणवाक्यपूर्वकत्वमस्ति न तु तस्य शोधकवाक्यपूर्वकत्वमिति नान्योन्याश्रयणमित्यर्थः । सूत्रकारैः सत्यज्ञानादीनां लक्षणत्वेनानुतिनिदानं च अनेनैव दर्शितं भवति । विशेष्यांशस्य लक्षणं सत्यज्ञानादि; न तु विशिष्टस्य । विशिष्टस्यैवोपास्यत्वाद प्राप्यत्वाच्च जिज्ञास्यब्रह्मलक्षणं जन्माद्येवेति सूत्राकाराभिप्रायः । जगत्कारणं ब्रह्म जिज्ञास्यमित्युक्ते कारणत्वशङ्कितदोषव्यावर्तकतया तच्छेषभूतः शोधकवाक्यार्थश्चास्मिन् सूत्रे सूत्रकाराभिप्रेतः । जिज्ञास्यत्वानुगुणस्य कारणत्वस्यैव लक्षणतया विवक्षितत्वात् । स्वरूपेण हेयास्पदस्य जिज्ञास्यत्वानुपपत्त्या जिज्ञास्यतायाः शोषकवाक्यार्थसापेक्षत्वात । सत्यज्ञानादिवाक्य विषयसूत्रान्तराभावात्, ‘पाज्ञवत्’, ‘प्रकाशवच्च ‘प्रकाशादिवच्च’ इति सूत्राणां सत्यादिवाक्यं दृष्टान्ततयोपजीव्य अर्थान्तरोपपादनपरत्वाच्च सत्यज्ञानादिवाक्यार्थश्चेहाभिप्रेतः - इत्यभिप्रायेण भाष्यकारैर्निखिलहेय प्रत्यनीकस्वरूपादित्यादि विशेषणमुक्तम् ।
११-२ जन्माद्यधिकरणम् (अद्वैते सूत्रासंगतिः) ११७ अतः सकलजगज्जन्मादिकारणं निरवद्यं सर्वज्ञं सत्यसङ्कल्पं सर्वशक्ति ब्रह्म लक्षणतः प्रतिपत्तुं शक्यत इति सिद्धम् ॥ ये तु निर्विशेषवस्तु जिज्ञास्यमिति वदन्ति, तन्मते “ब्रह्मजिज्ञासा”, “जन्माद्यस्य यतः " इत्यसङ्गतं स्यात् ; निरतिशयबृहत् बृंहणं च प्रह्मेति निर्वचनात् । तच्च ब्रह्म जगजन्मादिकारणमिति वचनाच्च । एवमुत्तरेष्वपि सूत्रगणेषु सूत्रोदाहृतश्रुतिगणेषु च ईक्षणाद्यन्वयदर्शनात् सूत्राणि सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम् । तर्कश्च साध्यधर्माव्यभिचारिसाधनधर्मान्वितवस्तुविषयत्वान्न निर्विशेषवस्तुनि प्रमाणम् । जगज्जन्मादिभ्रमो यतः, तद्ब्रह्मेति खोत्प्रेक्षापक्षेऽपि न निर्विशेषवस्तुसिद्धिः ; भ्रममूलमज्ञानम्, अज्ञानसाक्षि ब्रह्मेत्यभ्युपगमात् । साक्षित्वं हि प्रकाशकरस तयैवोच्यते । प्रकाशत्वं तु जडात् व्यावर्तकं स्वस्य परस्य च व्यवहारयोग्यतापादनस्वभावेन भवति । तथा सति सविशेषत्वम् । तदभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् ॥२. इति जन्माद्यधिकरणम् अधिकरणार्थमुपसंहरति अत इति । अतः - जन्मादीनां विशेषणतया उपलक्षणतया च लक्षणत्वोपपत्तेः । जिज्ञास्यत्वोपयोगिशोधकवाक्यावगताकार विशिष्टमेव कारणवस्तु ‘यतो वा इमानि इत्यादिवाक्ये अर्थलब्धमित्यभिप्रायेणाह निरवद्यमिति । सर्वज्ञत्वादिगुणजातं कारणत्वाक्षिप्तं यत इति अत्रानूद्यत इत्यभिप्रायेण तदुक्तिः । । अस्य सूत्रद्वयस्य निर्विशेषवा दिपक्षासङ्गतिमाह ये त्विति । आद्यसूत्रासङ्गतिमुपपादयति निरतिशयेति । अथर्वशिरसि श्रीविष्णुपुराणे चोक्त निर्वचनमभिप्रेतम् । न निर्विशेषं ब्रह्मेति निरुक्तमिति भावः । द्वितीयसूत्रासङ्गतं विवृणोति तच्चेति । न हि नगतोऽध्यासो यत इति लिलक्षयिषितमिति भावः । एवं सूत्रासङ्गतिकथनेन तद्विषयवावयासंगतिरपि फलिता । उत्तरेषां सूत्राणां ततद्विषयवाक्यानामपि निर्विशेषपक्षा
ननुगुणत्वमाह एवमिति । सूत्रगणेष्विति । नैकैकं सूत्र वाक्यं वा विरुद्धम् अपि तु तत्तदधिकरणशरीरं तत्तद्विषयवाक्यजातं च विरुद्धमिति भावः । तर्का
ननुगुणत्वमाह तर्कश्चेति । तर्कशब्दोऽनुमानपरः, प्रमाणानुग्राहकतर्कपरो वा । पराभिमतयोजनायामपि निर्विशेषवस्त्वसिद्धिमाह जगजन्मादीति । स्वोत्प्रेक्षापक्षेऽपीति । अयमभिप्रायः - ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्’, ‘तदात्मानं स्वयम कुरुत’, ‘कटकमुकुटकर्णिकादिमेदैः’, ‘आत्मकृतेः’, ‘परिणामात्’ इति श्रुतिस्मृतिसूत्रेषु परिणामवचनतदनुगुणदृष्टान्त तदुपपादनानि दृश्यन्ते । न तु विवर्तानुगुणं किमपि दृश्यते। न हि यथा सोम्यैकेन शुक्तिशकलेन सर्वं रजतजातं विज्ञात स्वादिति श्रुतिः, विवर्तादिति सूत्रं वा दृश्यते । तस्माज्जन्मादिभ्रमो यतः तद्धमेत्ययमर्थः स्वयमार्जितः, न तु श्रुतिसिद्ध इति । परोत्प्रेक्षितपक्षे तन्निर्विशेषत्वासिद्धिमुपपादयति भ्रममूलमिति । ततः किमित्यत्राह साक्षित्वं हीति । ततोऽपि किमित्यत्राह प्रकाशत्वं त्विति । प्रकाशत्वम्-प्रकाशशब्दवाच्यस्वम् । व्यवहारयोग्यतापादनस्वभावेनेति । व्यवहारयोग्यतापादनमेव स्वभावः, तेन भवतिस्वपरव्यवहार योग्यतापादनरूपस्वभाव एव प्रकाशत्वमित्यर्थः । तथाऽभ्युपममे सविशेषपरत्वमाह तथेति । अनभ्युपगमे दूषणमाह तदभाव इति ॥ २.
११८ १-१-३ शास्त्र्योनित्वाधिकरणम् शास्त्र्योनित्वाधिकरणम् १-१-३ जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् ; तदयुक्तम् ; तद्धि न वाक्यप्रतिपाद्यम्, अनुमानेन सिद्धेरियाशङ्कयाह- अथावान्तरसङ्गतिमाह जगज्जन्मादीति । कथमयुक्तमित्यत्राह तद्धीति । सामान्येन शब्दप्रतिपाद्यत्वे सिद्धे हि शब्दविशेषरूपवेदान्तवेद्यत्वसिद्धिरिति भावः । तच्च कुतः ? न हि प्रत्यक्षेण तदीक्ष्यत इत्यत्राह अनुमानेनेति ।
;
ननु ईश्वर। नुमाननिरासार्थं नेदमधिकरणमारम्भणीयम् । साधकबाधकप्रमाणान्तरगोचरस्य शास्त्रेण प्रतिपादनायोगाद्धि तन्निरासः । न चायमपेक्षितः । अनुमानेन कर्तृमात्रे सिद्धेऽपि तदप्रतिपन्नस्य निमित्तोपादानैक्यस्य गगनादिसर्गस्य च प्रतिपादनोपपत्तेः ॥ अनुमानविरुद्धांशं न शास्त्र प्रतिपादपतीति तत्प्रतिपादनायानुमाननिरास इति चेत् —न; आगमविरोधस्यैवानुमानदूषणतयाऽनुमानेनागमप्रतिबन्धायोगादिति ॥ उच्यते शास्त्रं हि साधकान्तरसिद्धं बाधकान्तरबाधितं च न प्रतिपादयति । यथाहुः - " असंनिकृष्ट’ वाचा च (हि) द्वयमत्र जिहासितम् । ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा” ॥ इति । तत्र निमितत्वोपादानत्वे च शास्त्रेण प्रतीयेते । तत्र निमित्तमात्रस्यानुमानसिद्धत्वात् तदुक्तिरनुवादः स्यात् । अनुवादस्य प्रमाणान्तर सिद्धिसापेक्षत्वान्निमित्तानुवादोऽनुमानसापेक्ष एव भवति । अनुमान “चामूर्तद्रव्येतरनिष्ठोपादानव्यतिरिक्तकर्तृकत्वव्याप्तिमूलमिति धर्मिग्राहकानुमानविरोधेन निमित्तोपादानैक्यं गगनाद्युत्पत्ति च शास्त्रं न प्रतिपादयितुमलम् । एवं कारणवाक्यानाम् अंशे प्राप्तविषयत्वात् अंशान्तरे बाधितविषयत्वाच्च निमित्तोपादानैक्यादिकं न सिध्येदिति तत्सिद्ध्ये निमित्तमात्रानुमान निरासार्थमिदमधिकरणमारम्भणीयमिति ॥ नन्वनुमानवादिभिरपि ईश्वरस्यागमगम्यत्वमङ्गीकृतम्, आगमानुग्राहकतया च अनुमानमुच्यत इति न तन्निरासो युक्त इति चेत् — परतः प्रामाण्यवादिभिर्नवं वक्तुं युक्तम् । अनुमानस्य शास्त्रानुग्राहकत्वे 1 असंनिकृष्टवाचा’असंनिकृष्टेऽर्थे विज्ञानम्’ इति शावर भाष्यस्थतत्पदेन - ताद्रूष्येण परिच्छित्तिः शास्त्रस्य लोकगृहीताकारेणार्थप्रतिपादकत्वम्, तद्विपर्ययतः परिच्छित्तिःगृहीताकार विरुद्धाकारेणार्थप्रतिपादकत्वञ्च जिहासितम् - वारयितुमिष्टमित्यर्थः । 2 अमूर्तद्रव्येतरत् सावयवं मध्यमपरिमाणं मूर्तद्रव्यम् रूपादि च । तन्निष्ठं यत् उपादानव्यतिरिक्तकर्तृकत्वम् तेन सह कार्यत्वस्य व्याप्तिरस्ति । अमूर्तद्रव्यावृत्तितद्धर्मव्याप्तौ सत्यां सुतराममूर्तद्रव्येतरत्वेन सह व्याप्तिः । अतः कर्तरीश्वरे उपादानव्यतिरिक्तत्वम्, अमूर्तद्रव्येतरत्वरूपव्यापकाभाववति गगनादावकार्यत्वञ्च प्रागेव सिद्धमिति तदुपजीविना शास्त्रेण न तद्विरुद्धार्थप्रतिपादनमिति भावः । अत्रामूर्तद्रव्येतरनिष्ठेत्युक्तिर्गगनाद्युत्पतिवारणार्थं । इतरत्वविशिष्टेति सुवचम् । वैशिष्टपञ्च सामाधिकरण्यसंबन्धेन । तच्च शोधने इतर निष्ठेत्येव पर्यवस्यतीति तथैवोक्तम् । प्रत्येकममूर्तद्रव्येतरत्वस्य चोपादानव्यतिरिक्तकर्तृकत्वस्य च व्याप्तिः कार्यत्वे इत्युक्तावपि न क्षतिः । अमूर्तद्रव्येतरनिष्ठा उपादानातिरिक्तकर्तृकत्वस्य व्याप्तिः - कात्स्म्र्त्स्न्येन संबन्धः इत्युक्तावपि वा अमूर्तद्रव्येतरनिष्ठ इत्यस्यामूर्तद्रव्यावृत्तिधर्म इत्यर्थः, तस्य चोपादानातिरिक्तकर्तृकत्वस्य च कार्यत्वेन साहचर्यनियमरूपा व्याप्तिरित्यादिरीत्याऽर्थवर्णनेऽपि वा पर्यवसानमेकमेव । 1
११.३ शास्त्र्योनिशब्दार्थः शास्त्र्योनित्वात् ॥ १-१-३ ॥ ११९ शास्त्रं यस्य योनिः - कारणं प्रमाणम् - तत् शास्त्र्योनि ; तस्य भावः शास्त्र्योनित्वम्; तस्मात् । ब्रह्मज्ञानकारणत्वात् शास्त्रस्य तद्योनित्वं ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणः शास्त्रैकप्रमाणकत्वादुक्तस्वरूपं ब्रह्म, “यतो वा इमानि भूतानि जायन्ते " इत्यादिवाक्यं बोधयत्येवेत्यर्थः ॥ शास्त्रमेव प्राधान्येनेश्वरे प्रमाणं भवति । अनुग्राह्यं हि प्रधानम् । ईश्वरप्रोक्ततया च तैर्वेदप्रामाण्यमङ्गीक्रियते । अत ईश्वरे सिद्धे तत्प्रणीतत्वाद्वेदप्रामाण्यसिद्धिः, तत्सिद्धावीश्वरसिद्धिरित्यन्योन्याश्रयः स्यात् ॥
ननु महाजनपरिग्रहाद्वेदप्रामाण्यम्, वेदादीश्वरसिद्धिरिति नान्योन्याश्रय इति चेत् —न । तत्परिग्रहस्य भ्रान्तिमूलत्वन्युदासार्थं निर्दोषत्वज्ञानमूलत्वं वाच्यम्; निर्दोषत्वज्ञानं च गुणवद्वक्तकत्वज्ञानादित्यन्योन्याश्रयः स्यादेव ॥ आप्तोक्तत्वमनुमानतः सिद्धमिति नान्योन्याश्रयः इति चेत्-तत एवानुमानाद्वेदवक्तृत्वेनेश्वरसिद्धेः किं वेदेनेति शास्त्रवैयर्थ्यापरिहाराय तन्निरासः कार्य इत्यधिकरणारम्भो युक्तः । शास्त्र्योनित्वात् ॥ व्याख्यात्रन्तराभिमतषष्ठीतत्पुरुषयोजनाव्यावृत्त्यर्थमाह शास्त्रं यस्येति । योनिशब्दस्योपादानपरत्वव्यावृत्त्यर्थं कारणमात्रपरत्वमाह कारणमिति । कथं सर्वकारणस्य ब्रह्मणः शास्त्रं कारणमिति शङ्कायामुत्पत्तिकारणपरत्वव्यावृत्त्यर्थमाह प्रमाणमिति । कारणवाचिनो योनिशब्दस्य कथं प्रमाणवाचित्वमित्यत्राह ब्रह्मज्ञानेति । उत्पादक इव ज्ञापकेऽपि हेतुशब्दः प्रयुज्यते ; तद्वत् हेत्वभिप्रायेण योनिशब्दप्रयोगसंभव इति भावः । प्रमाणान्तरवेद्यत्वात् ब्रह्म न शास्त्रवेद्यमिति पूर्वपक्षे सति शास्त्रवेद्यत्वादिति सिद्धान्तहेतोः साध्याविशिष्टत्वं स्यादिति शङ्कां परिहरन् पञ्चम्यन्तस्य हेतुवाचिपदस्य साध्यवाचिपदान्वयं च दर्शयति अत्यन्तेति । ब्रह्मणः खरूपेणेन्द्रियसंबन्धो नास्ति; न च तल्लिङ्गस्य नापि लिङ्गलिङ्गस्य चेत्यभिप्रायेणोक्तम् अत्यन्तातीन्द्रियत्वेनेति । अत एव हि प्रत्यक्षादिप्रमाणाविषयतयेत्युक्तन् । यद्वा व्यक्तिरूपेण दृष्टत्वम्, व्याप्त्योपयिकं दृष्टसजातीयत्वं च नास्तीति भावः । इन्द्रियप्रत्यक्षशव्दयोः करणतत्फलभूतज्ञानविवक्षया भिन्नार्थता । शास्त्रैकप्रमाणकत्वादिति । अब्भक्ष इतिवत् अवधारणगर्भः शास्त्र्योनिशब्द इति भावः । ततश्च प्रमाणान्तराविषयत्वं सिध्यतीति प्रमाणान्तरागोचरत्वेन शब्देन प्रतिपादयितुं योग्यत्वात् ब्रह्म, ‘यतो वा इमानी’त्यादिवाक्यविशेषो बोधयतीत्युक्तं भवति । पूर्वस्मिन् सूत्रे यत् साध्यम्, तदेवास्मिन् सूत्रे मुखमेदेन साध्यत इत्येवकाराभिप्रायः ॥ अत्रापि ‘यतो वा इमानी’त्यादिवाक्यद्वारा शास्त्रं विषयः । संशयोऽप्यर्थ सिद्धः । साधारणविचारद्वयमनुसन्धेयम् । ‘यतो वा इमानी’त्यादिवाक्यं किं ब्रह्मणि प्रमाणम्, उत नेति संशयः ; तदर्थ किं ब्रह्म मानान्तरगोचरः, न वेति ; तदर्थं किं सामान्यतोदृष्टमनुमानं जीवविलक्षणमवगमयति, नेति । यदाऽवगमयति, तदा मानान्तरगोचरत्वात् ‘यतो वा इमानी’ त्यादिवाक्यं न ब्रह्म प्रतिपादयतीति वेदान्तानां ब्रह्मणि प्रामाण्याभावात् तद्विचारानारम्भः पूर्वपक्षे फलितः । राद्धान्ते तु सामान्यतोदृष्टानुमानस्य जीवत्रिलक्षणे प्रमाणत्वाभावेन ब्रह्मणो मानान्तरागोचरत्वात् ‘यतो वा इमानि’ इत्यादिवाक्यं ब्रह्मणि प्रमाणमिति सर्ववेदान्तवाक्यानां तत्र प्रामाण्यात् विचारस्यारम्भणीयत्वं फलितम् ॥ 1 किं वेदेनेति । अनुमानगृहीतस्येश्वरस्य वेदेन प्रतिपादनं किमर्थमिति । 2. आदिपदं प्रयुक्तमित्यर्थः ।
१२० श्रुतप्रकाशिकोपेते श्रीमाध्ये ईश्वरस्यमा नान्तरावेद्यत्वम् )
ननु शास्त्र्योनित्वं ब्रह्मणो न संभवति, प्रमाणान्तरवेद्यत्वाद्ब्रह्मणः । अप्राप्ते तु शास्त्रमर्थवत् ॥ किं तर्हि तत्र प्रमाणम् ? न तावत् प्रत्यक्षम् । तद्धि द्विविधम्, इन्द्रियसंभवं योगसंभव चेति । इन्द्रियसंभवश्च बाह्यसंभवमान्तरसंभवं चेति द्विविधम् । बाह्येन्द्रियाणि विद्यमानसं निकर्षयोग्य स्वविषयवोधजननानीति न सर्वार्थसाक्षात्कारतनिर्माणसमर्थ पुरुषविशेषविषयवोधजननानि । नाप्यान्तरम् ; आन्तरसुखदुःखादिव्यतिरिक्तवहिर्विषयेषु तस्य वाह्येन्द्रियानपेक्षप्रवृत्यनुपपत्तेः । नापि योगजन्यम्; भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वात् न प्रामाण्यमिति कुतः प्रत्यक्षता ? तदतिरिक्तविषयत्वे कारणाभावात् । तथा सति तस्य भ्रमरूपता । नाप्यनुमानं विशेषतोदृएं सामान्यतोदृएं वा; अतीन्द्रिये वस्तुनि सूत्राक्षरयोजनायां सङ्ग्रहेणोक्तमर्थमसहमानः पूर्वपक्षी चोदयति
नन्विति । शास्त्र्योनित्वम्शास्त्रप्रमाणकत्वम् 1 प्रमाणान्तरवेद्यत्वे कथं शास्त्र्योनित्वानुपपत्तिरित्यत्राह अप्राप्ते तु शास्त्रमर्थवदिति । तुराब्दोऽवधारणे । “स्युरेव तु पुन चेत्यवधारणवाचिनः” इति हि नैघण्टुकाः । वैषम्ये वा । अनुभुत्सितग्राहित्वेनायत्नसाध्यत्वात प्रत्यक्षस्य ज्ञाताप्रयोजनवोधकत्वं न दूषणम् ; शास्त्रस्य तु बुभुत्सितग्राहित्वेन यत्नसाध्यत्वात् ज्ञातात्रयोजनवोधकत्वं दूषणम् ; तथा सति वह्यौष्ण्यं वायसदन्तसङ्ख्यावाक्येष्विव श्रवणादिप्रवृत्त्यनुपपत्तेः ॥ अस्मिन् पूर्वपक्षे सिद्धान्त्येकदेशी मीसांसकश्चोदयति किं तर्हति । ईश्वरानुमाननिरासेन सिद्धान्तत्वम्; ‘ईश्वरमात्रा नभ्युपगमेन एकदेशित्वम् । किं तर्हि ? न किञ्चिदित्यर्थः । कथमित्यत्राह न तावदिति । सर्वस्यापि प्रत्यक्षस्या सामर्थ्य दर्शयितुं तस्य द्वैविध्यमाह तद्धीति । प्रथमस्यापि द्वैविध्यमाह इन्द्रियसंभवमिति । आन्तरसंभवं चेति । आन्तरशब्देन मनो विवक्षितम् । प्रथमे अनुपपत्तिमाह वाह्येन्द्रियाणीति । देशसंनिकर्षं विशिषता विद्यमानशब्देन कालसंनिकर्षश्च सिद्धः । योग्यशब्देन स्वभावसंनिकर्ष उक्तः । अनेन धर्माधर्मादिन्यावृतिः । स्वशब्देन चक्षुरादिकं प्रति शब्दा दिव्यावृत्तिः । यद्वा स्वविषयशब्देनैवातीन्द्रियस्येन्द्रियान्तरविषयत्य च व्यवच्छेदः । योग्यशब्देन तु ततदिन्द्रियप्रतिनियतरूपादिजातीयेऽप्यनुद्भवा दिवशादयोग्यस्य व्यवच्छेदः । द्वितीय प्रतिवक्ति नापीति । मनश्च न तद्विषयबोधजनकमित्यर्थः । आन्तरसुखदुःखादि इत्यत्र आन्तरशब्दः आत्मतद्धर्मपरः । तदुग्राहित्वादेव हि मनसोऽप्यान्तरत्वम् । सुखदुःखादीत्यान्तरशब्द विवरणम् । आदिशब्दे नेच्छाद्वेषादेरात्मनश्च परिग्रहः । व्यतिरिक्तेत्यनेन रूपादीनां बहिष्टुमेवोपपादितम् । योगजन्यस्यानुपपतिदर्शयितुमाह नापि योगेति । योगिप्रत्यक्षं किं पूर्वानुभूतानधिकविषयं प्रमाणम्, उत अनुभूताधिकविषयमिति विकल्पमभिप्रेत्य अनधिक विषयत्वे दूषणमाह भावनेति । अनधिकविषयतया स्मृतिमात्रत्वात् न प्रमाणत्वमिति प्रमाणावान्तर विशेषत्वं दूरोत्सारितमित्यर्थः अनधिकविषयत्वमुपपादयति तदतिरिक्तविषयत्वे कारणाभावादिति । कारणम् - इन्द्रियसंबन्धः । प्रमितिकारणाभावान्न प्रामाण्यमित्यर्थः । अधिकविषयत्वे दूषणमाह तथा सतीति । इन्द्रियसंबन्धाभावे- 1 एकदेशिनः सेश्वरत्वे ‘आगमाहते कथमीश्वरः सेत्स्यतीति एतच्चोदना नियमनवाक्यं स्वरसम् । निरीश्वरत्वे तस्य वाक्यस्य सर्वनिषेघे तात्पर्य कल्प्यम् ।
१-१-३ शास्त्र्योनित्वाधिकरणम् (नैयायिकैकदेशिनिरासः) १२१ संबन्धावधारणविरहात् न विशेषतोदृष्टम् । समस्तवस्तुसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषनियतं सामान्यतोदृष्टमपि न लिङ्गमुपलभ्यते ।
ननु च जगतः कार्यत्वं तदुपादानोपकरण संप्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम् । अचेतनारब्धत्वं जगतश्चैकचेतनाधीनत्वेन व्याप्तम् । सर्व हि घटादिकार्ये तदुपादानोपकरणसं प्रदानप्रयोजनाभिज्ञकर्तृकं दृम् । अचेतनारब्धमरोगं स्वशरीरमेकचेतनाधीनञ्च । सावयवत्वेन जगतः कार्यत्वम् (मिति) । 3 उच्यते । किमिदमेकचेतनाधीनत्वम् । न तावत् तदायत्तोत्पत्तिस्थितित्वम् । दृष्टान्तो हि साध्यविकलः स्यात् । न हारोग स्वशरीरमेकचेतनायत्तोत्पत्तिस्थिति; तच्छरीरस्य भोक्तणां भार्यादिसर्वचेतनानामदृष्टजन्यत्वात् तदुत्पत्तिस्थित्योः । किञ्च शरीरावयविनः स्वावयवसमवेततारूपा स्थितिरवयव संश्लेष विशेषव्यतिरेकेण न चेतनमपेक्षते, प्राणनलक्षणा तु स्थितिः ऽप्यनुभूताधिकविषयत्वे तस्य दोषमूलकत्वेन भ्रान्तितैवेत्यर्थः । द्विविधानुमानागोचरत्वमाह नापीत्यादिना । नियतम् — व्याप्तम् । सिद्धान्तिच्छायया चोदयन्तं वादिनं पूर्वपक्ष्येकदेशी चोदयति
ननु चेति । नैयायिकैकदेशिभि रुक्तानुमानवक्तृत्वात् पूर्वपक्ष्येकदेशित्वम् ; संप्रदानम् – भोक्ता । प्रयोजनम् - विनियोगः । एककर्तृकत्व सिद्ध्यर्थमनुमानान्तरमाह अचेतनेति । उपादानाद्यभिज्ञकर्तृकत्वे दृष्टान्तमाह सर्वेहीति । एकचेतनाधीनत्वे च दृष्टान्तमाह अचेतनेति । रुग्णपरशरीरव्यावृत्त्यर्थी अरोगस्वशब्दौ । कार्यत्वे सिद्धे छुपादानाद्यभिज्ञकर्तृकत्वसिद्धिरित्यत्राह सावयवत्वेनेति । अनेनाचेतनारब्धत्वहेतोश्चासिद्धिशङ्कापरिहारोऽपि फलितः । एवं पूर्वपक्ष्येकदेशिनोक्तमर्थ सिद्धान्त्येकदेशी दूषयति उच्यत इत्यादिना । बुद्धिस्थत्वात् पाश्चात्यमनुमानं दूषयति किमिदमिति । एकचेतनाधीनत्वं नाम कि तदायत्तोत्पत्तिस्थितित्वम् उत तदायत्तप्रवृत्तित्वमिति विकल्प्य, प्रथमेऽपि तदायत्तोत्पत्तिस्थितित्व नाम किं तदिच्छाधीनोत्पत्ति स्थितित्वम्, उत तददृष्टाधीनोत्पत्तिस्थितित्वमिति विकल्पोऽभिप्रेतः । तेषां विकल्पानां क्षेपार्थः किं शब्दः । तत्र तदिच्छाघीनोत्पत्तिस्थितित्वं न दृष्टमिति साध्यवैकल्यं दूषणे प्रसिद्धमिति बुद्धया (ध्वा)… द्वितीयं शिरो दूषयति दृष्टान्तो हीति । साध्यविकलत्वं विवृणोति न हीति । कुत इत्यत्राह तच्छरीरस्येति । यद्वा न तावदित्यादिग्रन्थस्तदिच्छाधीनोत्पत्तिस्थितित्वतददृष्टाचीनोत्पत्ति स्थितित्वयोः साधारणः । तत्रेच्छाधीनत्वपक्षे साध्यवैकल्यं स्फुटमिति तददृष्टाधीनत्वपक्षे साध्यवैकल्यं विवृणोति नहीति । उत्पत्तिस्थिती हि सह दूषिते । अथ स्थिति पृथकविकल्प्य दूषयितुमाह किश्चेति । स्वावयवसमवेत तारूपस्थित्युक्तिर्वैशेषिकादिमतानुसारेण । न चेतनमपेक्षत इति । चेतनापेक्षा हि स्वरूपतो वा स्यात्, अदृष्टद्वारेणं वा, इच्छाद्वारेण वा । तत्र स्वरूपमात्रमकिञ्चित्करम् ; तत्सद्भावेऽपि विनाशदर्शनात् । मदृष्टाधीनत्वे प्रागेवोत्तरं दत्तमिति इच्छाधीनत्व पक्षोऽनेन दूषितः । चेतनेच्छां नापेक्षत इत्यर्थः । आविनाशकालादशिथिलत्वलक्षणा स्थितिरप्यनेन दत्तोतरेत्यभिप्रायेण तदनुक्तिः । अथोक्तप्रकारविकल्पदूषणेन निरस्तमपि शिरोन्तरं दूषणान्तरसद्भावादुपादाय दूषयति प्राणनेति । प्राणनलक्षणा- 2-16
१२२ श्रुतप्रकाशिकोपेते श्रीमाष्ये पक्षत्वाभिमते क्षितिजलंधिमहीधरादौ न संभवतीति पक्षसपक्षानुगतामेकरूपां स्थिति नोपडेभामहे । तायत्तप्रवृत्तित्वं तदधीनत्वमिति चेत्अनेकचेतनसाध्येषु गुरुतर [रथ] शिलामहीरुहादिषु व्यभिचारः । चेतनमात्राधीनत्वे सिद्धसाध्यता ॥ किञ्च उभयवादिसिद्धानां जीवानामेव लाघवेन कर्तृत्वाभ्युपगमो युक्तः । न च जीवानामुपादानाद्यनभिज्ञतया कर्तृत्वासंभवः सर्वेषामेव चेतनानां पृथिव्याद्युपादानयागाद्युपकरण साक्षात्कारसामर्थ्यात् । यथेदानीं पृथिव्यादयो यागादयश्च प्रत्यक्षमीक्ष्यन्ते । उपकरणभूतयागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षात्काराभावेऽपि चेतनानां न कर्तृत्वानुपपत्तिः तत्साक्षात्कारानपेक्षणात् कार्यारम्भस्य । शक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी । शक्तेस्तु ज्ञानमात्रमेवोपयुज्यते; न साक्षात्कारः । न हि कुलालादयः कार्योपकरणभूतदण्डचक्रादिवत् तच्छक्तिमपि साक्षात्कृत्य घटमणिकादिकार्यमारभन्ते । इह तु चेतनानामागमावगतयागादिशक्तिविशेषाणां कार्यारम्भो नानुपपन्नः ॥ किञ्च यत् शक्यक्रियं शक्योपादानादिविज्ञानञ्च तदेव [हि] तदभिज्ञकर्तृकं दृष्टम् । महीमहीधरमहार्णवादि तु अशक्यक्रियमशक्योपादानादिविज्ञानं चेति न चेतनकर्तृकम् । अतो घटमणिकादिसजापञ्चवृत्तिप्राणसहितत्वलक्षणा । नोपलभामह इति । कालात्ययापदेश इत्यभिप्रायः । तदायत्तप्रवृत्तित्वमेकचेतनाधीनत्वमिति पक्षं शङ्कते तदायत्तेति । अचेतनारब्धत्वहेतोरनैकान्त्यमाह अनेकेति । अनेकचेतनसाध्येषु — अनेक चेतनप्रवर्त्येष्वित्यर्थः । चेतनैकत्वाविवक्षायां सिद्धसाध्यत्वमाह चेतन मात्रेति । एवमेकचेतनाधीनत्वं निरस्तम् । कार्यत्वहेतोर्लाघवतर्कमुखेन सिद्धसाध्यतामाह किश्चेति । उभयवादिसिद्धानामिति लाघवस्य हेतुरुक्तः । " क्लृप्तकल्प्यविरोधे तु युक्तः क्लृप्तपरिग्रहः” इति ह्याहुः । संभवन्त्यां गतौ हि लाघवतर्कः, गत्यन्तरासंभवे त्वधिककल्पनं न दोषायेत्यत्राह नचेति । कुत इत्यत्राह सर्वेषामिति । पूर्वकाले चेतनानां साक्षात्कारसामर्थ्य दृश्यमाननीत्योपपादयति यथेति । इदानीमिति । एवं पूर्वकालेऽपीति भावः । धर्माधर्मसाक्षात्काराभावात् कर्तृत्वासंभवमाशङ्कयाह उपकरणेति । यागादिशक्तिरूपेति । यागादिजन्यखात्मातिशयरूपेत्यर्थः । कुत इत्यत्राह तत्साक्षात्कारेति । तर्हि घटादिनिर्माणे मृदादिसाक्षात्कारनियमः कथमित्यत्राह शक्तिमदिति । शक्तिमच्छब्देन शक्तिसंबन्धि उच्यते । जन्यजनकभावस्य च संबन्धविशेषरूपत्वात् शक्तिरूपादृष्टजन कयागादिषु शक्तिमच्छब्दप्रयोगः । शक्तेरपि अपेक्षितत्वसाम्यात् तत्साक्षात्कारोऽपेक्षितः । अन्यथा अनवगत वस्तुशक्तयोऽपि पुरुषास्तैस्तत्कार्यं कुर्युरित्यत्राह शक्तेस्त्विति । तुशब्दः शक्तिमत इव शक्तेरपि ज्ञातव्यत्वेऽपि विशेषद्योतनार्थः शक्तिसाक्षात्कारानुपयोगमुपपादयति न हीति । शक्तिसाक्षात्कारानपेक्षत्वेऽपि शक्तिज्ञानमात्रमपेक्षितम् ; तच्च दण्डचक्रादिष्वन्वयव्यतिरेकवशात् सिध्यति ; यागादौ तु कथमित्यत्राह इह त्विति । एवं सिद्धसाधनत्वमुक्तम् । अथ कार्यत्वहेतोरुपाधिद्वयेन सोपाधिकत्वमाह किश्चेति । साधनाव्यापकत्वमाह महीमहीधरेति । साध्यसमव्याप्तत्वमाह अत इति । 1 साध्यसमव्याप्तेति । उपाधिगतव्याप्तेर्हेतावारोपादेव, स्फटिकलौहित्ये जपाकुसुमस्येव, उपाधेरुपाधिशब्दवाच्यत्वमित्याशयेन प्राच्यैरुपाधेः साध्यव्यापकत्वं साधनाव्यापकत्वश्चैव साध्यव्याप्यत्वमपि स्वीकृतम् । तदभिप्रायेण समव्याप्तेति निर्देशः । नव्यैस्तु हेतुदुष्टत्वोपपादनाय व्यापकत्वादेरेव पर्याप्तत्वात् साध्यव्याप्यत्वांश उपेक्षित इति ध्येयम् ।
१२३. तीय - शक्य क्रियशक्योपादानादिविज्ञान वस्तुगतमेव कार्यत्वं बुद्धिमत्कर्तृ पूर्वकत्वसाधने प्रभवति । किञ्च घटादिकार्यमनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परिग्रहवताऽनाप्तकामेन निर्मितं दृष्टमिति तथाविधमेव वेतनं कर्तारं साधयन्नयं कार्यत्वहेतुः सिषाधयिषितपुरुषसार्वश्यस (सा.) धैश्वर्यादिविपरीतसाधनात् विरुद्धः स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्गः । लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोफ्स्थापिताः विपरीतविशेषास्तत्प्रमाणप्रतिहतगतयो हि निवर्तन्ते । इह तु सकले तर प्रमाणाविषये लिङ्गिनि निखिलंनिर्माणचतुरे अन्वयव्यतिरेकावगताविनाभावनियमाः धर्माः सर्व एवाविशेषेण प्रसस्यन्ते निवर्तकप्रमाणाभावात् तथैवावतिष्ठन्ते । अत आगमात् ऋते कथमीश्वरः सेत्स्यति (सिध्यति ) ॥ अत्राहुः - सावयवत्वादेव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । भवन्ति च प्रयोगाःविवादाध्यासितं भूभूधरादि कार्यम्, सावयवत्वात्; घटादिवत् । तथा विवादाध्यासितम् अवनिजलधिमहीधरादि कार्यम, महत्त्वे सति क्रियावत्त्वात्; घट (टादि) वत् । तनुभुवनादि कार्यम्, महत्त्व सोपाधिकत्वे सति साध्येन हेतोर्व्याप्यत्वासिद्धिः स्यादित्युपायेर्दूषणत्वम् । अदृष्टवज्जीवकर्तृकत्वव्यावृत्त्यर्थं बुद्धिमत्कर्तपूर्वकत्वसाधन इत्युक्तम् । अथ कार्यत्वहेतोर्विशेषविरुद्धत्वमाह किश्चेति । अनीश्वरेणकर्मवश्येन, परिग्रहवता – उपकरणवतेत्यर्थः । सर्वानुमानोच्छेदमाशङ्कयाह न चेति । कथमित्यत्राह लिङ्गिनीति । पक्षेऽपि तथा स्यादित्यत्राह इह त्विति । तुशब्दाभिप्रेतं वैषम्यमाह निवर्तकेति । सिद्धान्त्येकदे शिमतमुपसंहरति अत इति । सिध्यति चेत्, नागमादृते मानमित्यर्थः । 1 अतः - सिद्धसाधनत्वसोपाधिकत्व विरुद्धत्वैर्दूषितत्वादित्यर्थः ॥ अथ साक्षात्पूर्वपक्षिणं प्रस्तौति अत्राहुरिति । कार्यत्वहेतोः खरूपासिद्धिमाशङ्कयं व्युदस्यति सावयवत्वादिति । सावयवत्वादेवेति । पूर्वं प्रस्तुतादेवेत्यर्थः । अनेन हेत्वन्तर सद्भावोऽपि सूचितः । एवं कण्ठोक्त्या अभिप्रायेण च सिद्धान् हेतून् प्रयोगतो विवृणोति भवन्तीति । विवादाध्यासितपदविवरणं भृभूधरादिपदम् । आदिशब्दोपात्तव्यक्तिसङ्गाहकं विवादाध्यासितपदम् । यद्वा पक्षीकृतेष्वेव सम्प्रतिपन्नांशव्यवच्छेदाय विवादाध्यासितशब्दः । सन्ति हि खातपूरणनिष्पाद्याः पृथिव्यंशाः, सगरसुतादिनिष्पाद्याः समुद्रांशाः, अस्त्रादिनिष्पाद्याः पर्वतादयश्च । प्रलयेऽपिं जलधेरवस्थानात् सर्वाभावेऽपि स्रष्टुः शरीरावस्थानाच्च तयोरकार्यत्वशङ्काद्योतनाय प्रतिज्ञावावयाऽऽवर्तनेन जलधितनुशब्दोपादानम् । द्वितीयतृतीयप्रयोगयोमध्ये महत्त्व पदेन परमाणुव्यावृत्तिः । क्रियावत्त्वमूर्तत्वशब्दाभ्यां गगनादिव्यावृत्तिः । अवनिपहीधरशब्दमध्ये जलधिनिवेशः तद्वत् तयोरपि कम्पसद्भावज्ञापनार्थः । प्रसिद्धो मुत्पातादौ भूभूषरकम्पः ॥
ननु तनुपक्षीकारो न युक्तः अस्मदादिशरीरे सिद्धसाधनत्वात्; ईश्वरशरीरे त्वाश्रयासिद्धेः ॥ नैवम् ; तनोर्विशेषतः पक्षी कार निर्बन्धाभावात् । तदुपादानं तु स्वपक्षसंप्रतिपन्नस्येश्वर शरीरस्यापि कार्यताज्ञापनार्थम् । यद्वा सावयवत्वादेवेत्यादेरयमाशयः न सावयवत्वादुत्पत्तिमत्त्वं प्रसाध्य ततः सकर्तकत्वं साध्यते ; अपि तु सावयवत्वेनैव कृतिसाध्यत्वरूपकार्यत्वं साध्यते ; कृतिश्च न निराश्रयेति तदाश्रयः कर्ता सामान्यतः सिध्यतीति ॥
नन्वेवं तर्हि कार्यत्वात् सकर्तृकत्वे साध्ये हेतोः साध्याविशिष्टता स्यात् ॥ न; कृतिसाध्यत्वं हेतुः, उपादानाद्यभिज्ञकर्तृकत्वं साध्यमिति वैषम्यात् । 1
१२४ मुतप्रकाशिकोपेते श्रीमाणो 3 सति मूर्तत्वात् ; घट (टादि ) वदिति । सावयवेषु द्रव्येषु ‘इदमेव क्रियते, नेतरत्’ इति कार्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्यत्वमतिनिप्रतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वञ्चोपलभ्यते इति चेत्-न; कार्यत्वेनानुमते ऽपि विषये शानशक्ती कार्यानुमेसे अन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातमिति ते च प्रतिपन्ने स्वेति च कश्चिद्विशेषः । तथा कि घटमणिकादिषु कृतेषु कार्य (त्व) दर्शनानुमितः कर्तृगतत निर्माण शक्तिज्ञानः पुरुषोऽष्टपूर्ववचः संनिवेशं नरेन्द्रभवनमालोक्य अवयवसंनिवेशविशेषेण तस्य कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञान शक्तिवैचित्र्यमनुमिनोति । अतस्तनुभवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतनि-ः र्माणादिनिपुणः कश्चित् पुरुषविशेषः सिध्यत्येव ॥ किञ्च सर्वचेतनानां धर्माधर्मनिमित्तेऽपि सुखदुःखोपभोगे चेतनानधिष्ठितयोरचेतनयोस्तयोः फलहेतुत्वानुपपत्तेः सर्वकर्मानुगुणसर्वफलप्रदानचतुरः कश्चिदास्थेयः वर्ध किनाऽनधिष्ठितस्य वास्यादेरचेतनस्य देशकालाद्यनेकपरिकरसंनिधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । अत एव ह्युत्तरत्र क्रियत इत्युक्तम्, नोत्पद्यत इति । ‘कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोती’त्यादि च । एवञ्च कृतिसाध्यत्वलक्षणे साध्ये शरीरस्यापि विवादपदत्वात्पक्षतोपपत्तिः । अथ सोपाधिकत्वं सामान्येन प्रतिक्षिपति सावयवेष्विति । सावयवत्वमुपलक्षणम्, महत्त्वे सति क्रियावत्त्वं महत्त्वे सति मूर्तत्वं च सावयवत्वसमानाश्रयं तत्समव्याप्तमिति तयोरप्युपाधिपरिहारसिद्धिः । रूपान्तरम् आकारान्तरम् । उपाधि शङ्कते कार्यत्वेति । परिहरति नेति । कार्यत्वेनानुमते - सपक्षे । अन्यत्र – पक्षे । सपक्षेऽपि घटादौ कार्यत्वानुमेये ज्ञानशक्ती, तद्वत् पक्षेऽपि कार्यत्वस्य प्रतिपन्नत्वात् ज्ञानशक्ती अनुमीयेते इति नाशक्यक्रियत्वम् शक्यज्ञानत्वं चेत्यर्थः । तथैव दर्शयति तथा हीति । किं तदकर्तुरपि शक्यक्रियत्वं शक्योपादानादिज्ञानत्वमुपाधिः, उत तत्कर्तुः शक्यक्रियत्वं शक्योपादानादिज्ञानत्वम् ? प्रथमे कल्पे सपक्षानुयायित्वाभावान्नोपाधित्वम् । द्वितीये कल्पे पक्षेऽपि विद्यमानत्वान्नोपाधित्वम् । सर्वसपक्षानुयायी पक्षेष्व (त्व ?) विद्यमानो ह्यपाधिरित्यभिप्रायः । कर्तुरतज्ज्ञानशक्तिवैचित्र्यमित्यनेनाभिप्रेतोऽयं विकल्पः । ततः किमित्यत्राह अत इति । अतःसावयवत्वादिहेतोर्निरुपाधिकत्वादित्यर्थः । एवं सावयवत्वात् कृतिसाध्यत्वरूपे कार्यत्वे साध्ये शक्य क्रियत्वादिक उपाधिः परिहृतः । अनेनोत्पत्तिमत्त्वात् सकर्तृकत्वे साध्ये उत्पत्तिमत्त्व हेतुरपि निरुपाधिको भवति । सावयवत्वादुत्पत्तिमत्त्वे साध्ये तूपाधेर्दूर्वादौ व्यभिचारश्च सिद्धः । न हि दूर्वादिरुत्पद्यमानोऽस्मदादेः शक्यक्रियः । सिद्धसाधनत्वं निरासार्थमनुमानान्तरप्रदर्शनार्थं चाह किश्चेति । धर्माधर्मनिमित्तेऽपीति सिद्धसा-. • घनत्वशङ्का सूचनम् । अनधिष्ठितयोः –अनुपपत्तेरिति अन्वयव्याप्तिस्थेने व्यतिरेकव्याप्त्युक्तिः । दृष्टान्तमाह वर्धकिनेति । वास्यादेर्यपाद्य करणत्वस्य चेतनव्यतिरिक्त सहकार्यन्तराभावप्रयुक्तत्वशङ्काव्यावृत्त्यर्थ देशकालाद्यनेकपरिकरसंनिधानेऽपीत्युक्तम् । धर्माधर्मौ स्वसाक्षात्कारिचेतनाधिष्ठितावेव कार्यकरौ अचेतनत्वात् वास्यादिवदित्यनुमानशरीरम् जीवैर्धर्माधर्मसाक्षात्कार तत्पूर्व कतदधिष्ठानायोगात् जीव विलक्षणसिद्धिः । अनविष्ठितस्य कार्यकरत्वायोगात् जीवैः साक्षात्कारतत्पूर्व काधिष्ठानायोगाच्च सिद्धसाधनं च परिहृतम् । कर्तुरभावे कार्यानुत्पतिप्रसङ्गरूपस्य विपक्षे बाधकतर्कस्य पुरुषसुखादिप्रयोजकादृष्टेन कार्योत्पत्त्युपपतिरिति,
१-१-३ ‘शास्त्र्योनित्वाधिकरणम् १२५ वीणाकुराः पक्षान्तर्भावेन तैर्व्यमिचारापादानं श्रोत्रियवेतालोनामनभिज्ञता विजृम्भितम् । तत पया सुखादिभिर्व्यमिचारवचनमपि तथैव । न च लाघवेनोभयघादि संप्रतिपन्नक्षेत्रज्ञांनामेव धिष्ठातृत्वकल्पनं युक्तम्। तेषां सूक्ष्मव्यवहितबेि प्रकृष्टदर्शनाशक्तिनिश्चयात्। दर्शनानुगुणैव हि लिर्वत्र कल्पना । न च क्षेत्रज्ञवत् ईश्वरस्याशक्तिनिश्चयोऽस्ति । अतः प्रमाणान्तरतो म तत्सिद्ध्यनुपपत्तिः । समर्थकर्तृपूर्वकत्वनियतकार्यत्वहेतुना सिद्ध्यन् स्वाभाविकसर्वार्थसाक्षात्कारतनियमनशक्तिसंपन्न एव सिद्ध्यति । 1 यवनैश्वर्याद्यापादनेन धर्मविशेषविपरीतसाधनत्वमुन्नीतम् - तत् अनुमानवृत्तानभिज्ञत्वनिबन्धनम् ; सपक्षे सहदृष्टानां सर्वेषां कार्यस्याहेतुभूतानां च धर्माणां लिङ्गिन्यप्राप्तेः । एतदुक्तं भवति - केनचित् किञ्चित् क्रियमाणं स्वोत्पत्तये कर्तुः स्वनिर्माणसामर्थ्य स्वोपादानोपकरणानं चापेक्षते ; न त्वन्यासामर्थ्यमन्याज्ञानञ्च ; हेतुत्वाभावात् । स्वनिर्माणसामर्थ्य स्वोपादानोपकरणज्ञानाभ्यामेव स्वोत्पत्तावुपपन्नायां संबन्धितया दर्शनमात्रेण अकिञ्चित्करस्यार्थान्तराज्ञानादेर्हेतुत्वया अन्यथासिद्धिः, साऽप्यनेनैव परिहृता भवति । अचेतनस्याप्यनधिष्ठितस्य बीजादेरङ्करोत्पादकत्वदर्शनात् व्यभिचार इति शङ्कां परिहरति बीजाङ्कुरेति । कार्यत्व हेतोरङ्करादौ व्यभिचारशङ्का परिहारश्या कर शब्दोपादानेन फलितः । चेतनानभिसंहितपुलकाद्युत्पादकैः चेतनान घिष्ठितैः स्वयमचेतनैः सुखादिभिरचेतनत्वहेतोर्व्यभिचारमाशङ्कय परिहरति तत एवेति । आदिशब्देन दुःखादिकं चेतनानधिष्ठितं सुखाद्युत्पादकं मनः प्रभृति च विवक्षितम् । एतेन स्वेच्छामन्तरेणोत्पद्यमानैः सुखदुःखविशेषैस्तत्कार्येश्च पुलकानकम्पादिभिः कार्यत्वहेतोर्व्यभिचारश्च परिहृतो भवति । लाघवन्यायेन हेतोरन्यथासिद्धेः सिद्धसाधनत्वमाशङ्कध परिहरति न चेति । कुत इत्याकाङ्गायामीदृशशब्दाभिप्रेतं हेतु विवृणोति तेषामिति । एकेन्द्रियकल्पनस्य लाघवेऽपि एकेन्द्रियस्य शब्दादिसकलविषयग्रहणाशक्तेर्धने केन्द्रियकल्पनम् । तस्माल्लाघवार्थमशक्तस्य कार्यकरत्वकल्पनमयुक्तमिति भावः । तदेवोपपादयति दर्शनेति । उपपन्नमेव हि कल्पनीयम्; न च जीवानां सूक्ष्मव्यवहितादिदर्शन शक्तिर्दृष्टेत्यर्थः । शक्तिमत्साक्षात्कार एवापेक्षितः ; न तु शक्तिसाक्षात्कार इतीदमपि प्रत्युक्तं भवति सूक्ष्मव्यवहितेत्यादिना शक्तिमतामपि परमाण्वादीनां क्षेत्रज्ञेन साक्षात्कारासिद्धेः । ईश्वरे न तथाऽनुपपत्तिरित्याह न चेति । अवान्तरानुमानेनेश्वरसिद्धि निगमयति अत इति । व्याप्तिबलात् कार्यानुगुणज्ञानशक्तिमान् कर्ता सिध्यतु, तस्य कथं क्षेत्रज्ञवैलक्षण्यम् ; ज्ञानं हि देहेन्द्रियादिसापेक्षमिति शङ्कायां पक्षधर्मताबलसिद्धमर्थमाह समर्थेति । अखामाविकत्वे कर्मानुगुणपरिमितज्ञानशक्तिमत्त्वं स्यादिति तद्व्युदासार्थः स्वाभाविकसर्वार्थसाक्षात्कारशब्दः । अथ कार्यत्वहेतोर्विरुद्धत्वं व्युदस्यति यत्त्वित्यादिना । कथमित्यत्राह सपक्ष इति । किं सहदर्शनमात्रात् शरीरादिप्राप्तिः, उत हेतुत्वात् । नाद्यः ; अतिप्रसङ्गात् । न द्वितीयः, हेतुत्वासिद्धेरित्यभिप्रायः । कार्यस्याहेतुभृतानामिति व्याप्त्यभावोऽप्यभिप्रेतः ।
ननु सर्वसपक्षेषु सहदृष्टत्वात् कार्यहेतुत्वं च कल्प्यम्, तथा सति कथं कतिपयाप्राप्तिः कतिपयप्राप्तिश्चोच्यते इत्यत्राह एतदुक्तमिति । विशेषविरोध परिहर्तुमपेक्षितानपेक्षितांशविवेकमाह केनचिदिति । सपक्षे सहदृष्टत्वादज्ञानादेरपि हेतुत्वं कल्प्यतामित्यत्राई स्वनिर्माणेति । अकिश्चित्करस्येति । अनन्यथासिद्धान्वयव्यतिरेकाभ्यां हि हेतुत्वनिश्चयः ।
मुखप्रकाशिकोपेते श्रीभाष्ये कल्पनायोगादिति । किञ्च क्रियमाणवस्तुव्यतिरिक्तार्थाज्ञानादिकं किं सर्वविषयं क्रियोपयोगि, उत कतिपयविषयम् । न तावत् सर्वविषयम् । न हि कुलालादिः क्रियमाणव्यतिरिक्तं किमपि म जानाति । नापि कतिपयविषयम्; सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्यभिचारात् । भतः कार्यत्वस्यासाधकानामनीश्वरत्वादीनां लिङ्गिन्यप्राप्तिरिति न विपरीत- साधनत्वम् ॥ । कुलालादीनां दण्डचक्राद्यधिष्ठानं शरीरद्वारेणैव दृष्टमिति जगदुपादानोपकरणाधिष्ठानमीश्वरस्या शरीरस्यानुपपन्नमिति चेत्-न; सङ्कल्पमात्रेणैव परशरीरगत भूत वेतालंगरलोद्यपगमविनाशदर्शनात् ॥ कथमशरीरस्य परप्रवर्तनरूपः सङ्कल्प इति चेत्-न शरीरापेक्षः सङ्कल्पः, शरीरस्य सङ्कल्पहेतुत्वाभावात् । मन एव हि संकल्पहेतुः । तदभ्युपगतमीश्वरेऽपि । कार्यत्वेनैव ज्ञानशक्तिवत् मनसोऽपि प्राप्तत्वात् ॥ मानसः सङ्कल्पः सशरीरस्यैव, सशरीरस्यैव समनस्कत्वादिति चेत्-न; मनसो नित्यत्वेन देहापगमेऽपि मन [स] सद्भावेनानैकान्त्यात् । अतो विचित्रावयवसंनिवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपापपरवशः परिमितशक्तिज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरोऽचिन्त्या परिमित ज्ञानशक्तयैश्वर्योऽशरीरः सङ्कल्पमात्त्रसाधनपरिनिष्पन्नानन्त विस्तार विचित्ररचनप्रपञ्चः पुरुषविशेष ईश्वरोऽनुमानेनैव सिद्ध्यति । ; तत्र ज्ञानशक्ति निर्वर्त्यत् किञ्चित्कारादधिकः कश्चित् तदन्याज्ञानासामर्थ्यानिवर्त्यः किञ्चित्कारो दृष्टश्चेत्, स्यादनन्यथासिद्धिः । न चाधिकः किञ्चित्कारो दृष्टः ; न च कल्प्यः ; अज्ञानासामर्थ्यहेतुव्यतिरेके कार्यनिवृत्त्यभावात् । स्वविषयसामर्थ्योपादानादिज्ञानाभ्यां विना यथा कार्यानुदयः, तथाऽन्यासामर्थ्याज्ञानाभ्यां विना कार्यानुदयो न दृष्टः । अतो न तस्य हेतुत्वं करूप्यम् । न हि संति भावमात्रं हेतुत्वम्’, किंतु सत्येव भाव इति भावः । अकिञ्चित्करत्वमेव विकल्प मुखेनोपपादयति किश्चेति । सर्वेष्विति । न हि कुड्यादि निर्माणानुगुणज्ञानसामर्थ्याभावो घटनिष्पत्तिहेतुः, तदनुगुणज्ञानसामर्थ्यवतोऽपि घटादिनिष्पादकत्वदर्शनादित्यर्थः । यत्तु सपक्षे सहहृष्टत्वेन लिङ्गिनि प्राप्तविपरीतविशेषाणां धर्मिग्राहकप्रमाणप्रतिहतानां निवृत्तिः, न त्वितरेषामिति — इदमपि कार्यत्वस्यासाधकानामित्यनेन प्रत्युक्तम् । साध्यानुपयोगित्वेनान्यथासिद्धानां सह दृष्टानामपि धर्माणां व्यतिरेकाभावेन व्याप्तिशून्यत्वादप्राप्तेः ॥ सहदृष्टेष्वपि कार्यानुपयोगिनां प्राप्तिर्न स्यात् ; शरीरं . हि कार्योपयोगीति शङ्कते कुलालादीनामिति । परिहरति नेति । कथमित्यत्राह सङ्कल्पेति । शङ्कते कथमिति । परिहरति नेति । को हेतुरित्यत्राह मन एवेति । तत् किमस्तीत्यत्राह तदिति । कुत इत्यत्राह कार्यत्वेनेति । ईश्वरस्य मनस्संबन्धोतिययैकदेशिमतेन । पुनः शङ्कते मानस इति । परिहरति नेति । अनैकान्त्यात् — व्याप्त्यभावात् । अशरीरेऽपि मनस्संबन्धस्य विद्यमानत्वाद्वाऽनैकान्त्यम् । मनसो नित्यत्वेऽपि चेतनस्य कार्यकरत्वे शरीरसंबन्धसापेक्षत्वमस्ति ; मनसि नित्ये सत्यपि मुक्तात्मनः कार्यकरत्वाभावात् । न हि मुक्तात्मनो बुद्धिसुखदुः खादिकं मनो जनयतीति चोद्यमस्ति । अत्र मीमांसकं प्रति प्रतिबन्द्या परिहारं हृदि निघाय पक्षधर्मतावलं दर्शयन्नीश्वर सिद्धि निगमयति अतो विचित्रावयवेति । अशरीरः सङ्कल्पमात्रसाधनपरिनिष्पन्नानन्तविस्तारविचित्ररचनप्रपञ्च 1 हेतुत्वमिति । भाव इत्यस्य कार्यनिष्टत्वात् हेतुत्वस्य च कारणनिष्ठत्वादैक्यायोगात् औपचारिकोऽयं निर्देशः, अन्नवैप्राणा इतिवत् ।
१-१-३ शास्त्र्योनित्वाधिकरणसिद्धान्तः १२५ अतः प्रमाणान्तरावसेयत्वाद् ब्रह्मणः नैतद्वाक्यं ब्रह्म प्रतिपादयति । किञ्च अत्यन्तभिन्नयोरेव मृद्द्द्रव्यकुलालयोर्निमित्तोपादानत्वदर्शनेन आकाशादेर्निरवयवद्रव्यस्य कार्यत्वानुपपत्त्या च नैकमेव ब्रह्म कृत्स्नम्य जगतो निमित्तमुपादानञ्च प्रतिपादयितुं शक्नोतीति ॥ एवं प्राप्ते धूमः - यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं वोधयत्येव । कुतः । शास्त्रकप्रमाण, कत्वाद्ब्रह्मणः । यदुक्तम् - सावयवत्वादिना कार्य सर्व जगत्; कार्य च तदुचितकर्तृविशेषपूर्वकं दृष्टमिति निखिलंजगन्निर्माणतदुपादानोपकरणवेदनचतुरः कश्चिदनुमेय इति तदयुक्तम् ; महीमहार्णवादीनां कार्यत्वेऽप्येकदैचैकेन (वैकेनैव) निर्मिता इत्यत्र प्रमाणाभावात् । न चैकस्य घटस्येव सर्वेषामेकं कार्यत्वम्, येनैकदैवैकः कर्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन इत्याभ्यां पदाभ्यां प्रतिवन्द्या परिहाराभिप्रायो ज्ञातः । विभुद्रव्यसंयोगिनः परिस्पन्दवतो घटादेः स्पर्शवत्त्वनियमेऽपि विभुद्रव्यसंयोगिनः परिस्पन्दवतोऽपि मनसो न स्पर्शवत्त्वमङ्गीक्रियते । अयं प्राभाकरं प्रति प्रतिहारः । महिमगुणशालिन स्तैजसस्य रूपोपलम्भनियमे दृष्टेऽपि चक्षुषि रूपोपलम्भो नाङ्गीकृतः ; कार्यारम्भकस्य सावयवत्वव्याप्तिः परमाणुषु भग्ना; तस्मादनेकविरोधपरिहारायैकव्याप्तिभङ्गो न्याय्यः । अतो मनसः कार्यकरत्वे शरीरसंबन्धसापेक्षत्वं भोगसाधनमनस्त्वप्रयुक्तमित्यङ्गी कार्यमिति भावः । एवं साधकान्तरसिद्धत्वात् जगत्कारणवस्तुनि शास्त्रस्याप्रामाण्यं निगमयति अतः प्रमाणेति । निमित्तोपादानैक्यस्य गगनादिसृष्टेश्चानुमानाविषयत्वेन शास्त्रस्याधिक विषयत्वाद्ब्रह्मणि प्रामाण्यमाशङ्कय तत्र बाधकान्तरबाधितत्वात् शास्त्राप्रामाण्यमुच्यते किश्चेति । निमित्तमात्रमनुवदतः शास्त्रस्यानुमानसापेक्षत्वात् तद्विरुद्धनिमित्तोपादानैक्यं न शास्त्रं प्रतिपादयति । पक्षीकृतेषु क्षित्यादिषु द्रव्येषु सावयवत्वस्यैव कार्यत्वप्रयोजकतया निरवयवद्रव्यस्याकार्यत्वं पूर्वमेव प्रतिपन्नमिति पश्चात् शास्त्रं निरवयवद्रव्योत्पत्तिं न प्रतिपादयति । श्रुतिलिङ्गादिष्वपि पौर्वापर्यं हि प्राबल्यदौर्बल्यहेतुरिति भावः । पूर्वपक्षपरिसमाप्तावितिशब्दः ॥ …. सिद्धान्तं वक्तुमुपक्रमते एवं प्राप्त इति । परमसाध्यं प्रतिजानीते यथोक्तेति । आकाङ्क्षापूर्वकं हेतुमाद कुत इति । शास्त्रैकप्रमाणकत्वात् - शास्त्रे तर प्रमाणागोचरत्वादित्ययः । हेत्वसिद्धि परिहर्तुं पूर्वपक्षमनुभाषते यदुक्तमिति । दूषयति तद्युक्तमिति । पक्षधर्मताबलात् क्षेत्रज्ञवैलक्षण्यं वदता किं विपुलकार्याणां कर्तृकालैक्यनियममन्तर्भाव्य तदुच्यते, उत विपुलत्वमात्रेण, उतातीन्द्रियोपादानादिदर्शन वशात्, अथवा शरीरानपेक्षसृष्टिवशात् इति विकल्पमभिप्रेत्य प्रथमं दूषयति महीति । एकदेवैकेन निर्मितदानावमुपपादयति न चैकस्येत्यादिना । एकं कार्यत्वं घटादेखि युगपदेककर्तृकत्वयोग्यमिति शङ्काद्योतकमेकमिति पदम् । कार्यत्वस्यैकत्वं नाम एकसामग्रीपूर्वकत्वम् ; तत्सिद्ध्यर्थमेकस्येत्युक्तम् । न होका व्यक्तिरनेकसामग्री साध्या, एककार्यावच्छिन्नस्य सर्वस्य हेतोरेकसामग्रीत्वात् । एकत्वेऽप्यनेककर्तृकगोपुरादिन्यवच्छेदा मे कदै वैककर्लन्वययोग्यत्वं घटशब्देन विवक्षितम् । एकघटस्यैकं कार्यत्वं यादृशं दृश्यतें, तादृशं परिमितैकावयविनिष्ठं कार्यत्वमेवैकदैव ककर्तृकत्व संभावनापादकम् ; तच महीमहीघरादीनां न दृश्यत इत्यर्थः । स्यादिति संभावितत्वमात्रमुच्यते । न ह्येकपटस्याप्येककर्तृकत्वनियमः, अनेकैरप्येक घट निष्पादनसंभवात् । ततः किमित्यपेक्षायां बहुषु विपुलेषु च कार्येषु तद्विपर्ययमाह पृथग्भूतेष्विति । पृथग्भूते
१२८
; कर्तृकालैक्यनियमादर्शनात् ॥ न च क्षेत्रज्ञानां विचित्र जगन्निर्माणाशक्त्या कार्यत्वबलेन तदतिरिक्तकल्पनायामने क कल्पनानुपपत्तेश्चैक एव कर्ता भवितुमईतीति; क्षेत्रज्ञानामेवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषामेवातिशयिताद संभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात् तदतिरिक्ता त्यन्तादृष्टपुरुष कल्पनानुपपत्तेः । न च युगपत् सर्वोत्पत्तिः सर्वोच्छित्तिश्च प्रमाणपदवीमधिरोहतः; अदर्शनात् क्रमेणैवोत्पत्तिविनाशदर्शनाच्च । कार्यत्वेन सर्वोत्पत्तिविनाशयोः (?) कल्प्यमानयोर्दर्शनानुगुण्येन कल्पनायां विरोधाभावाच्च 1 विपुलत्वमपि गर्भितम् । घटस्येवेति पूर्वमुक्तेः । बहुषु विपुलेषु च कार्येषु कर्तृकालैक्य नियमादर्शनात् मद्यादयोऽप्येकदैव एकेन निर्मिता इत्यत्र प्रमाणाभावः, प्रमाणाभावात् तदयुक्तमित्यध्याहारेण 1 ग्रन्थान्वयः । न च कार्यत्वमेव कर्तृकालैक्ये प्रमाणम् विकल्पासहत्वात् । कि कार्यत्वमात्रम्, उत विपुलकार्यत्वम्, उतासम्भावितजीवकर्तृकं पक्षासाधारणकार्यत्वम् ? प्रथमे अनैकान्त्यम् । द्वितीये विरुद्धत्वम्; विपुलकार्येषु कालदैर्घ्यकर्तृबहुत्वदर्शनात् । यद्वाऽनैकान्त्यमेव । तृतीये चासाधारणानैकान्त्यमिति भावः । कार्यत्वबलेन कर्तरि कल्पनीये विपुलतर सूक्ष्मतर पक्षधर्मताबलात् क्षेत्रज्ञवैलक्षण्यात् कर्तुरेकत्वं च सिध्यतीत्यत्राह नचेति । विचित्रशब्देनास्मदाद्यशक्यत्वार्थमतिविपुलत्वमतिसूक्ष्यत्वं च विवक्षितम् । कुत इत्यत्राह क्षेत्रज्ञानामेवेति । क्षेत्रज्ञातिरिक्ते कल्प्ये सति नेक कल्पनादेककल्पनस्य न्याय्यत्वम् । क्षेत्रज्ञानामेव कर्तृत्वोपपत्त्या तदतिरिक्को न कल्पयितव्य इत्यर्थः । उपचितपुण्यविशेषाणामिति सपक्षे शक्तिवैचित्र्योपपादनार्थमुक्तम् । अतिशयितादृष्टसंभावनयेति पक्षविषयमुक्तम् । “सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः” इत्यादिभिः क्षित्या दिस्रष्टृत्वानुगुणातिशयितादृष्टसंभावना । क्षेत्रज्ञानामेव योगेन सूक्ष्मव्यवहितादिदर्शनं पराभ्युपेतम् । अस्मदादिषु देवेषु च ज्ञानशक्तिवैचित्री दृश्यते । न च पक्षधर्मताबलमन्वयव्यतिरेक सिद्धान् धर्मान् निवर्तयितुमीष्टे; तस्यान्वयव्यतिरेकसिद्धधर्म प्रकर्षापकर्षमात्र हेतुत्वात् । इतरथा ज्ञानचिकीर्षयोरपि हामप्रसङ्गात्। तदतिरिक्तेति । ‘धर्मिकल्पनातो वरं धर्मकल्पने ‘ति न्यायादीश्वर कल्पनादहंष्टविशेषकल्पनमेव वरमिति भावः । अचेतनत्वात् चेतनाधिष्ठितावेव धर्माधर्मों कार्यकरौ, वास्यादिवदित्यनुपपन्नम् ईश्वरज्ञानप्रयत्नादौ व्यभिचारेणान्यतरनैिकान्त्यात् । अथ क्षेत्रज्ञस्य सर्गे शरीरसापेक्षत्वात् तस्य सर्वसंहारदशायां शरीराभावात् तदानीं शरीरानपेक्षः कर्त्ता जीवविलक्षणः स्यादित्यत्राह नचेति । इदानीं क्रमेणोत्पत्तिविनाशौ दृश्येते । “तदा तत्पत्तिविनाशयौगपद्यकल्पनमित्यत्राह कार्यत्वेनेति । अत्र कार्यत्वं; कृतिसाध्यत्वम् । तृतीया चेत्थम्भावार्था । विरोधाभावात् — व्याप्तिविरोधाभावादित्यर्थः । एवं परमतदूषणोपयुक्तार्थशिक्षा कृता । 1 अध्याहारेणेति न स्यात् ; अनुषङ्गेणेति वा पूर्वेणेति वा स्यात् । 2 तदा तु - उत्पत्त्यादेः क्रमिकत्वादर्शनस्थल एवेत्यर्थः । ; 8 कृतिसाध्यत्वमित्यादि । अत्र. भावप्रकाशिका -उत्पत्तिमवस्थोत्पत्तिविनाशकल्पकत्वासंभवमभिप्रेत्य कृतिसाध्यत्वेति व्याख्यानम् । तृतीयान्वयिक्रियापदाभावात् इत्थम्भूते तृतीयोक्तिः । कल्पने इति वा कल्प्यमानयोरिति वाऽध्याहारेण कारकतृतीयात्वं तु केचिदाहुरिति । एतद्दर्शन भाष्ये कल्प्यमानयोरिति पाठो नास्तीति ज्ञायते । यथा उत्पत्तिमत्त्वेनोत्पत्तिमत्त्वानुमानमसंभवि, तथा कृतिसाध्यत्वस्यापि कृत्यधीनोत्पत्तिमत्त्वरूपत्वात् विशेषेण सामान्यानुमानासंभवः स्यादेव । यदि ‘साध्यत्वं योग्यत्वपर्यन्तमित्याशयः, तर्हि उत्पत्तियोग्यत्वेनेत्यपि सुवचम् । अथ सा योग्यतैव कृति-
; १-१-३ शास्त्र्योनित्वाधिकरणम् (साध्यविकल्पेन कार्यत्व हेतुदूषणम् ) १२९ अतो बुद्धिमदेवकर्तृकत्वे साध्ये कार्यत्वस्यानैकान्त्यम् । पक्षस्याप्रसिद्धविशेषणत्वम् ; [साध्य विकलता च दृष्टान्तस्य सर्वनिर्माणचतुरस्यैकस्याप्रसिद्धेः । बुद्धिमत्कर्तृकत्वमात्रे साध्ये सिद्धसाधनता । सार्वश्य सर्वशक्तियुक्तस्य कस्यचिदेकस्य साधकमिदं कार्यत्यम् किं युगपदुत्पद्यमान सर्ववस्तुगतम, उत क्रमेणोत्पद्यमान सर्ववस्तुगतम् ! युगपदुत्पद्यमान सर्वचस्तुगतत्वे कार्यत्वस्याअथ फलितं दूषणं दर्शयति अत इति । तदयुक्तमित्यारभ्येोक्तार्थानां हेतुत्वपरोऽतश्शब्दः । चलनादिषु तृणादेखि क्रियाश्रयत्वमात्रलक्षण कर्तृत्वव्यावृत्त्यर्थो बुद्धिमच्छन्दः । किं बुद्धिमदेककर्तृकत्वं साध्यम्, उत सकर्तृकत्वमात्रम् प्रथमेऽपि - किं सामान्यतो बुद्धिमदेककर्तृकत्वमात्रं साध्यम्, उत सर्वज्ञसर्वशक्त्येककर्तृकत्वमिति विकल्पमभिप्रेत्य’ प्रथमे कल्पेऽनैकान्त्यम्, अनेककर्तृकरथगोपुरादिषु कार्यत्वस्य विद्यमानत्वादिति भावः । सर्वज्ञसर्वशक्तिककर्तृकत्वपक्षे दूषणमाह पक्षस्येति । न ह्यभिमत्त्वमिव सर्वज्ञसर्वशक्तिकर्तृकत्वमन्यत्र दृष्टम् । दृष्टान्तस्य साध्यविकलता; कार्येषु घटादिष्वदर्शनात् । अप्रसिद्धविशेषणत्व साध्यवैकल्ये द्वे अप्युपपादयति सर्वेति । सर्वनिर्माणचतुरस्येत्युक्तत्वादिदं दूषणद्वयं सर्वज्ञसर्वशक्तिकर्तृकत्वपक्षस्येति ज्ञायते । पूर्वस्मिन्नेव पक्षे चेत्, अप्रसिद्धविशेषणत्वं न घटते । न ह्येककर्तृकत्वमप्रसिद्धम् । सकर्तृकत्वमात्रपक्षे दूषणमाह बुद्धिमदिति ॥ सिद्धसाधनत्वं वेदान्तिना न वक्तव्यम् क्षेत्रज्ञकर्तृकत्वानभ्युपगमादिति चेन्न क्षेत्रज्ञानामपि द्वारकर्तृत्वाभ्युपगमात् । समष्टितत्त्वेषु ; । न द्वारकर्तेति चेत् — न च तत्पक्षीकरणम्; लौकिकप्रमाणाविषयत्वात् ॥ आगमेन सिद्धानां तेषामपि पक्षीकार इति चेत् — तेन कर्ताऽपि सिद्ध इति सिद्धसाध्यतेति । । मुखान्तरेण दूषयितुं हेतुं विकल्पयति सार्वज्ञयेति । अयमभिप्रायः — कर्तृमात्रव्याप्येन कार्यत्वमांत्रेण न कर्तृविशेषसिद्धिरिति प्रागेवोक्तम् । अतः पक्षविशेषाधीनेन कार्यत्वविशेषेण कर्ताविशेषः साध्यः । कुम्भादिकार्यविशेषेण हि कुलालादिकर्तविशेषानुमानम् ; न तु को त्वमात्रेण । अतः पक्षाधीनः कार्यत्वविशेषो निरूप्यत इति । किं युगपदिति । पक्षप्रकर्षाधीनं हेतुवैशिष्ट्यं द्वेधा संभवेत् — परिदृश्यमानमध्यादिविपुलकार्याणां युगपदुत्पत्त्या वा क्रमभाविनां त्रैकाल्यवर्तिनां कार्याणामानन्त्येन वा ? तत्र कीदृशेन पक्षप्रकर्षेण हेतुविशेषो विवक्षित इत्यर्थः । प्रथमं दूषयति युगपदिति । कृत्स्नप्रलयासिद्धेः भूधरादीनां युगपदुत्पत्तौ प्रमाणाभावात् तन्निबन्धनं कर्तृवैलक्षण्यसाधकहेतुवैलक्षण्यम सिद्ध मित्यर्थः द्वितीयं दूषयति क्रमेणेति । यद्यप्येकैकेन कुलालादिना जन्मसहस्रेणाप्यनन्तकार्यनिष्पादन संभवः, तथापि तत्तज्जन्मसमानकालकुविन्दादिकृतानां कार्याणां तत्कर्तृकत्वाभावात् सर्वकार्याणामेककर्तृकत्वं नास्ति । अतत्रैकाल्यवर्तिसमस्त वस्तुनिष्ठत्व विशेषितं कार्यत्वं कर्तृभेदेनैव व्याप्तमिति कर्नैवयसाधने संवन्धात्वरूपेति स्पष्टमुक्तमिति निर्वाह्यम् । हेतुत्वविवक्षायां किलैवमसंभवशंकेत्यभिप्रेत्यैव’ इत्थम्भावे तृतीयेत्युक्तमित्यपि । पुरुषकृत्यैवोत्पत्तिविनाशयोर्वक्तव्यत्वात् सर्ववस्तुयुगपदुत्पत्तियुगपद्विनाशविषयककृतिसंभावनया सर्वोत्पतिविनाशसंभव इति सूचनं कृतिसाध्यत्वमिति व्याख्यातुरिमित्यादि च विमृश्यम् । भाष्यार्थदर्पणे तु भाष्यग्रन्थोऽयं न्यायकुसुमाञ्जलिनिरासकतयाऽस्माभिर्व्याख्यातः । स प्रकारस्तत्रैव द्रष्टव्यः । 1 अभिप्रेत्येति । उक्तमिति शेषः । तत्र ल्यबन्तस्यान्वयः । 2-17
.१३० ( हेतोर्विरुद्धत्वम् ) सिद्धता । क्रमेणोत्पद्यमान सर्ववस्तुगतत्वेऽनेककर्तृकत्वसाधनाद्विरुद्धता ! अत्राप्येककर्तृकत्वसाधने प्रत्यक्षानुमान विरोधः । शास्त्रविरोधश्च ; ‘कुम्भकारो जायते’, ‘रथकारो जायते’ इत्यादिश्रवणात् । अपिच - सर्वेषां कार्याणां शरीरादीनां [च] सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वमवश्याश्रयणीयम् । कार्यवैचित्र्यहेतुभूताः कारणगता विशेषाः सत्त्वादयः । तेषां कार्याणां तन्मूत्वापादनं तद्युक्तपुरुषान्तःकरणविकारद्वारेण । पुरुषस्य च तद्योगः कर्ममूल इति कार्यविशेषारम्भायैव ज्ञानशक्तिवत् कर्तुः कर्मसंवन्धः कार्यहेतुत्वेनैवावश्याश्रयणीयः ; ज्ञान- विरुद्धमित्यर्थः । अत्राप्येककर्तृकत्वसाधन इति । विशिष्टकार्यत्वव्यापकतयाऽभिमतस्य घटपटरथादिदृष्टस्य भिन्नकर्तृकत्वस्य प्रतिक्षेप इत्यर्थः । भिन्नकर्तृकतया प्रत्यक्षसिद्धेषु प्रत्यक्षविरोधः । अन्यत्र — द्वीपान्तरवर्ती घटः एतद्व्यतिरिक्तकुलालकर्तृकः, एतद्व्यापारागोचरहेतुकत्वे सति घटत्वात् संप्रतिपन्नकुलालान्तरोत्पादितघटवत् । द्वीपान्तरवर्तिघट हेतूनां दण्डादीनामेतद्यापारागोचरत्वमेतस्य तत्र गमनाभावनिर्णयात् । अतःएवमादिभिरनुमानैर्विरोधः । शास्त्रविरोधमुपपादयति कुम्भकार इति । कुम्भकारो जायते रथकारो जायत इत्यर्थोपादानम् न तु पाठक्रमः । न हि कुम्भरथयोरेककर्तृकत्वे कुम्भकाररथंकारयोरुत्पत्तिः पृथग्वक्तव्या ; एकसञ्ज्ञात्वेन पुनरुक्तिप्रसङ्गादिति भावः । } ,
प्रकारान्तरेण विरुद्धत्वमाह अपि चेति । सुखादेः सत्त्वादिगुणकार्यत्वं शास्त्रदृष्टमिति तत् शास्त्र प्रामाण्यवादिनाऽङ्गीकार्यमिति मत्वाऽनिष्टमापादयति ; न तु पराभ्युपगमात् सुखादिशब्देन सुखदुःखमोहा विवक्षिताः । `शरीरादीनां सुखाद्यन्वयः सुखादिहेतुत्वावस्थान्वयः सत्त्वादिमूलत्वम्सत्त्वादिगुणकद्रव्योपादानत्वं मित्यर्थः । के ते सत्त्वादयः, कथं च तेषां सुखादिहेतुत्वमित्यत्राह कार्यवैचित्र्येति । कारणगता विशेषाः । कारणशब्दो निमित्तोपादानसाधारणः । ततः किं कर्तुर्गुणवश्यत्वस्येत्यत्राह तेषां कार्याणामिति । पुरुषेण कार्याणां तन्मूलत्वापादनं सत्त्वादियुक्तस्वकीयान्तःकरण विकारद्वारेणेत्यर्थः । ततः किमित्यत्राह पुरुषस्य चेति । कार्यानुपयोगिनो हि धर्माः न प्राप्नुवन्तीति पूर्वपक्षिणोक्तम् । सत्त्वादीनां तु कार्योपयोगित्वात् तदधीनः कर्मसंबन्धोऽवर्जनीय इति भाववानाह ज्ञानशक्तिवदिति । सुखदुःखमोहादीनां सत्त्वरजस्तमोहेतुकत्वं शास्त्रसिद्धम् । सुखादिहेतुभूतशरीराधुपादानस्य, निमित्तस्य च कर्तुः सत्त्वादिगुणान्वयश्च शास्त्रसिद्धः, “निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते” इत्यादिभिर्दृश्यते । अतः सत्त्वादिगुणकं शरीराद्यपादानं द्रव्यं सत्त्वादिगुणान्वयविकृतान्तःकरणः पुरुषोऽधितिष्ठति । गुणान्वयश्च कर्ममूल इति कर्मवश्यत्वप्रसङ्ग इत्यर्थः । हेत्वन्तरेणापि कर्मसंबन्धमाह ज्ञानेति । न ज्ञानशक्तिवैचित्र्यात् विचित्रसर्गः ; अपि तु 1 प्रतिक्षेपे इति । घटादौ लोकसिद्धविभिन्नकर्तृकत्वे सत्येव क्षित्यङ्ककुराद्यर्थकल्पनीयेश्वररूपैककर्चन्तरकत्वस्यापि तार्किकेष्टत्वात् एककर्तृकत्वं न प्रत्यक्षादिविरुद्धं स्यादिति मत्वा भिन्नकर्तृकत्वप्रतिक्षेपः साध्यत्वेनोक्तः । 2 तन्मूलत्वापादनं निमित्तभूत कर्तृवैचित्रयकृतमिति उपरि वर्णनात् तन्मूलत्वमित्यत्र मूलंपदमुपादानपरमेव युक्तमिति सत्त्वादिमूलत्वमित्यत्रापि उपादानपरतया व्याख्यानम् ।
१-१-३ शास्त्र्योनित्वाधिकरणम् ( प्रतितर्काः) १३१ शक्तिवैचित्र्यस्य च कर्ममूलत्वात् । इच्छायाः कार्यारम्भहेतुत्वेऽपि विषयविशेषविशेषितायास्तस्याः सत्त्वादिमूलत्वेन कर्मसंबन्धोऽवर्जनीयः । अतः क्षेत्रज्ञा एव कर्तारः; न तद्विलक्षणः कश्चिदनुमानात् सिद्ध्यति ॥ भवन्ति च प्रयोगाः - तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कार्यत्वात् ; घटवत् । ईश्वरः कर्ता न भवति, प्रयोजनशून्यत्वात् मुक्तात्मवत् । ईश्वरः कर्ता न भवति, अशरीरत्वात् तद्वदेव । न व क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचारः; तत्राप्यनादेः सूक्ष्मशरीरस्य सद्भावात् । विमतिविषयः कालो न लोकशून्यः, कालंत्वात्, वर्तमानकालवत् - इति ॥ अपिच - किमीश्वरः सशरीरोऽशरीरो वा कार्य करोति ? न तावदशरीरः, अशरीरस्य कर्तृत्वानुपलब्धेः । मानसान्यपि कार्याणि सशरीरस्यैव भवन्ति । मनसो नित्यत्वेऽप्यशरीरेषु इच्छामात्रादिति चेत् — तत्राह इच्छाया इति । विषयविशेषविशेषितायाः । इच्छायाः सर्गस्थेमादिविषयत्वं तत्रापि विचित्रसर्गादिविषयत्वं च सत्त्यादिमूलत्वेन कर्ममूलमित्यर्थः । एवं कर्तृत्व क्षेत्रज्ञत्वयोर्व्याप्तिदर्शनात् न तद्विलक्षणसिद्धिरित्याह अत इति ↓ 1 प्रतितर्कानाह भवन्ति चेति । तनुभुवनादीति । इदं प्रत्यनुमानं प्रतिको दा। (अन् प्रतितर्का एव । कार्यत्वे क्षेत्रज्ञकर्तृकत्वप्रसङ्गः; कर्तृत्वे सापेक्षत्यप्रसङ्गः कर्तृत्वे सशरीरवप्रसङ्ग इत्यर्थः । अशरीरत्व हेतोर्व्यभिचारमाशङ्कय परिहरति न वेति । अनादे। बीजाङ्कुर वत् प्रवाहानादेरित्यर्थः । अधिष्ठान देहेन प्रथमसंबन्धश्चेत् — सूक्ष्मस्थूलशरीरप्रवाहानादितया परिहृतः’; यथा बालशरीरविशिष्टेन युवशरीरपरिग्रहः तद्वदेव । अधिष्ठानं प्रेरणं चेत् —खपर निर्वाहकन्यायात् परिहृतः । शरीरव्यतिरिक्तप्रेरणस्य शरीरापेक्षा, न शरीरस्येति [हि] शरीरत्वप्रयुक्तं शरीरान्तरनिरपेक्षप्रेरणत्वम् । तथा जगतः ईश्वरशरीरत्वे सशरीरत्वात् कर्मवश्यत्वप्रसङ्गः । यथा देहः खज्ञानोत्पत्तौ करणं कर्म च भवति, यथा च घटः स्वविषयज्ञानोत्पत्तौ खसत्त्या हेतुः पश्चातद्विषयश्च भवति — तथा स्थविषयप्रेरणेऽपि शरीरमिति न कर्मकर्तृविरोधः । न चाङ्कुरादौ शरीरस्य योग्यानुपलब्धिः ; पिशाच सिद्धादिशरीरवद दृश्यत्वोपपत्तेः ; देशान्तरस्थेन वा शरीरेण सङ्कल्पद्वारा विषादेरिव प्रेरणोपपत्तेश्च । प्रतितर्कान्तरमाह विमतीति । अत्र सूर्यपरिवृत्तिसङ्ख्या विशेषावच्छेदात पूर्वत्वेन परत्वेन च कालस्य पक्षीकृतत्वात् नाश्रयासिद्धिरिति । [ अनुमान] मुखान्तरेण दूषयति अपि चेत्यादिना । दूषणं वक्तुं विकल्पयति किमिति । धीस्थं चरमशिरो दूषयति न तावदिति अशरीरस्य मनसा कर्तृत्वं स्यादिति प्रागुक्तं दूषयति मानसानीति । कुत इत्यत्राह मनस इति । । 1 परिहृतइत्यत्नोभयत्न व्यभिचारइत्यनुपञ्जनीयम् । कचित्कोशे परिहृतमिति शोधितमस्ति । 2
ननु मा भूत् स्वपरनिर्वाहकत्वम् । प्रेरणं किञ्चित् शरीर निरपेक्षमपीत्यै वोच्यतामित्यत्नाह शरीरेति । लोके शरीरातिरिक्ते सर्वत्र शरीरापेक्षादर्शनात् शरीरमात्रे तददर्शनात् शरीरत्वप्रयुक्तं शरीरान्तरनिरपेक्षत्वमित्येव वक्तव्यम् । एवञ्च सशरीरत्वापत्तिपरिहारः जगतः परमात्मशरीरत्वस्वीकारेणैव कार्यः । तदा च कर्मवश्यत्वापत्तिरित्यर्थः । तथाचैवमुक्तत्रापीष्टशसिद्ध्या नियमाभंगाय स्वपरनिर्वाहकत्वमेव युक्तमिति भावः । अथ तत्रानुपपत्ति पूर्वपक्षिहृद्रता - मुदाहरणमुखेन परिहरति यथा देह इति ।
१३२
मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः, विकल्पासहत्वात् । तच्छरीरं किं नित्यम्, उतानित्यम् ? न तावन्नित्यम्; सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्यनित्यम् ; तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात् ॥ स्वयमेव हेतुरिति चेत्. न, अशरीरस्य तदयोगात् ॥ अन्येन शरीरेण सशरीर इति चेत् न, अनवस्थानात् ॥ · स किं सव्यापारो निर्व्यापारो वा । अशरीरत्वादेव न सव्यापारः । नापि निर्व्यापारः कार्ये करोति, मुक्तात्मवत् । कार्य जगत् इच्छामात्र व्यापारकर्तृकमित्युच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम् ; दृष्टान्तस्य च साध्यहीनता ।
अतो दर्शनानुगुण्येनेश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणकः परब्रह्मभूतः सर्वेश्वरः पुरुषोत्तमः ॥ शास्त्रं तु सकलेतरप्रमाणपरिदृष्टसमस्तवस्तु विसजातीयं सार्वश्यसत्यसङ्कल्पत्वादिमिश्रानवधिकातिशयापरिमितोदारगुणसागरं निखिलं हेय प्रत्यनीकस्वरूपं प्रतिपादयतीति अपिशब्देन खपक्षे नित्यत्वानभ्युपगमः सूचितः । सशरीरत्वपक्षं दूषयति नापीति । विकल्पासहत्वं विवरितुं विकल्पयति तदिति । प्रथमं दूषयति न तावदिति । जगतः – भूभूधरादेः । द्वितीय दूषयति नापीति । हेतुमाह तद्व्यतिरिक्तस्येति । तच्छरीरहेतोः शरीरान्तरस्याभावादित्यर्थः । दूषणपरिहाराय परोक्तं शङ्कते स्वयमेवेति । स्वयंशब्द ईश्वरपरः । परिहरति नेति । तदयोगात्हेतुत्वायोगात् । पुनः शकते. अन्येनेति । अनवस्थया दूषयति नेति । प्रामाणिकपरम्परा न दोष इति चेत् शरीरित्वप्रयुक्त कर्मवश्यत्वं स्यादिति भावः । कर्मवश्यत्वप्रसङ्गस्य प्रागुक्तत्वादिहा प्यनवस्थादूषणस्य कर्मवश्यत्वप्रसङ्ग पर्यन्तत्वमभिप्रेतमित्यवगम्यते । मुखान्तरेण विकल्प्य दूषयति स किमिति । अशरीरस्य निर्व्यापारत्वे निर्व्यापारस्य कार्याकरणे च दृष्टान्तो मुक्तात्मा । व्यापारश्व प्रयत्नो विवेक्षितः । इच्छाविशेषस्य हेतुत्वे हि गुणवश्यताप्रसङ्गः पूर्वमुक्तः । इच्छामात्रमेव व्यापार इत्यत्राह कार्य जगदिति । मात्रशब्देन सत्त्वादिगुणान्वय-तन्मूलकर्म संबन्धव्यावृत्तिः ।
ननु कर्मवश्यत्वादिकं न कर्तः प्रसञ्जनीयम्, अव्यापकत्वात् । न हि त्वत्पक्षेण वाऽस्मत्पक्षेण वा व्याप्तिः, ईश्वरे त्वया मयाऽपि तद्नभ्युपगमात् । नैवम् ; आगमात् ऋतेऽपीश्वरः सिध्यतीति वदन्तं प्रति आगममसन्तं कृत्वाऽस्मदादिभिरुच्यमानत्वात् । यदीश्वरप्रतिपादकागमबलात् मदुक्तव्याप्तिभङ्गेनेश्वरानुमानं स्थाप्यते, तदानीमनुमानस्यागमानपेक्षप्रामाण्यासिद्धिरित्यप्राप्तग्राहित्वमागमस्य सिध्येत् । यद्वा अलौकिकप्रमाणैकवेद्यत्वाभावे सति कर्तृत्वस्य कर्मवश्यत्वादिव्याप्यत्वात् ’ । शास्त्र्योगिमुक्तेश्वर प्रत्यक्षाण्यलोकिकशब्दोक्तानीति । अनुमानदूषणमुपसंहरति अत इति । परस्य ब्रह्मण ईश्वरानतिरिक्तत्वज्ञापनार्थः सर्वेश्वरशब्दः । अनेन “तमीश्वराणां परमं महेश्वरम्” इति श्रुतिः स्मारिता भवति । देवताविशेष निर्णयार्थ “महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः” इति श्रुतिस्तारणार्थः पुरुषोत्तमशब्दः । उक्तदोषास्तदानीमपि प्राप्नुयुरित्यत्राह शास्त्रत्विति । सर्वविजातीयत्वं दर्शयति सार्वज्ञ्येति । सार्वज्ञयसत्यसङ्कल्पत्वादिमिश्रशब्दो ब्रह्मविशेषणम् । गुणविशेषणं वा; तद्विततिरूपत्वादन्येषां गुणानाम् एकैकमनवाधिकातिशया गुणा अपरिमिताः -निःसंख्याता इत्यर्थः ॥ इति शास्त्र्योनित्वाधिकरणम् । 1 व्याप्यत्वादिति । नैवमित्यत्नान्वयः । 1 2 एकैकं - सार्वश्यादिकम् ।
१३३ न प्रमाणान्तरावसितवस्तुसाधर्म्य प्रयुक्तदोषगन्धप्रसङ्गः । यत्त-निमित्तोपादानयोरैक्यमाकाशादेर्निरवयवद्रव्यस्य कार्यत्वं च अनुपलब्धमशक्यप्रतिपादनमित्युक्तम् - तदप्यविरुद्धमिति, “प्रकृतिश्च प्रतिज्ञाद्दान्तानुपरोधात्”, “न वियदश्रुतेः” इत्यत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वात्, “यतो वा इत्यादिवाक्यम् — उक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् ॥ ३ ॥ इति शास्त्र्योनित्वाधिकरणम् ॥ ३ ॥ -0-0- अथ समन्वयाधिकरणम् १-१-४ इमानि भूतानि” यद्यपि प्रमाणान्तरागोचरं ब्रह्म - तथाऽपि प्रवृत्तिनिवृत्तिपरत्वाभावेन सिद्धरूपं ब्रह्म न. शास्त्रं प्रतिपादयतीत्याशङ्कयाह- तत्तु समन्वयात् ॥ १-१-४॥ यथा मृत्तिकाया घटनिष्पादनशक्तत्वेपि, कुलालस्य च निर्माणशक्तौ सत्यामपि दण्डचक्रादिपरिकार पेक्षाऽस्त्येव — तथा शब्दस्य परिनिष्पन्नब्रह्मप्रतिपादनशक्तत्वेऽपि ब्रह्मणोऽपि शब्देन प्रतिपत्त शक्यत्वेऽपि, बुभुत्साख्यपरिकरापेक्षा प्रमित्युत्पादने विद्यते । यत्नसाध्यत्वात् बुभुत्सा अपेक्षिता । सा चाज्ञातत्वपुरुषार्थत्वप्रयुक्ता । तत्रावान्तरपेटिका रूपेण प्रथमेन सूत्रद्वयेन शब्दद्वार कमर्थद्वारकं च शक्तिमत्त्वं प्रतिपादितम् । अथ सूत्रद्वयान्तरमवान्तरपेटिकान्तरं बुभुत्सा हेतु निरूपणपरम् । तत्र प्रथमेन तृतीयसूत्रेणाज्ञातत्वरूपो बुभुत्सा हेतुरुक्तः । अथ प्रयोजनत्वरूपो बुभुत्साहेतुरुच्यते चतुर्थेन । अर्थे प्रतिपन्ने हि प्रयोजनाप्रयोजनत्वचिन्ता । प्रतिपत्तिश्च लक्षणतः इति जन्मादिसूत्रं द्वितीयमभूत् । जन्मादिकं लक्षणं चेत् — मानान्तरात् तत्सिद्धिः स्यादिति शङ्कायाः संगतत्वात् शास्त्र्योनित्वादिति सूत्र तृतीयमभूत् । अज्ञातत्वेऽप्यप्रयोजने बुभुत्सानुदयात् प्रयोजनरूपत्वमंत्र निरूप्यत इति क्रमोऽयमेव । तत्रावान्तरसङ्गतिमाह यद्यपीति । अज्ञातत्वं नाम बुभुत्साहेतुर्यद्यप्यस्तीत्यर्थः । प्रयोजन सुखे दुःखनिवृत्तिश्व । शास्त्रस्य तत्पर्यवसायित्वं तदुपायप्रवृत्तिनिवृत्तिबोधनद्वारा । तच न सिद्धपरत्वेऽस्ति । तस्य प्रवृत्तिनिवृत्तिरूपत्वाभावात् । तस्मात् प्रयोजनपर्यवसायित्वाभावेन बुभुत्साख्यपरिकराभावात् सिद्धे सास्त्र न प्रमितिं जनयतीत्यर्थः । एवं शङ्कायां सूत्रमुदाहरति तत्तु सयन्वयादिति । इहापि साधारणविचारद्वयमर्थसिद्धम् ; ब्रह्मणः शास्त्रप्रमाणकत्वं संभवति, नेति द्वितीयविचारः; तदर्थं प्रवृत्तिनिवृत्तिरूपप्रयोजनशून्यानां वेदान्तवाक्यानां ब्रह्मपरतयाऽन्वयः संभवति, नेति; तदर्थ किं शब्दस्य प्रामाण्यं प्रवृत्तिनिवृत्तिपरतया, उत पुरुषार्थपरतयेति । शब्दस्य प्रवृत्तिनिवृत्तिपरतयैव प्रामाण्ये ब्रह्मणः सिद्धरूपस्य शास्त्रप्रमाणकत्वाभावात् तद्विचारानारम्भः । शब्दस्य पुरुषार्थपरतयैव प्रामाण्ये पुरुषार्थभूतब्रह्मणः शास्त्रप्रमाणकत्वात् तद्विचारस्यारम्भणीयत्वं फलितम् । एवमर्थसिद्धौ विषयसंशयावभिप्रेत्य सूत्रं व्याचि-
१३४ श्रुतप्रकाशिकोपेते ( समन्वयनिरूपणम्) ; प्रसक्ताशङ्कानिवृत्त्यर्थः तुशब्दः । तत्-शास्त्रप्रमाणकत्वं ब्रह्मणः संभवत्येव । कुतः । समन्वयात् । परमपुरुषार्थतयाऽन्वयः समन्वयः ; परमपुरुषार्थभूतस्यैव ब्रह्मणः अभिधेयतयाऽन्वयात् । एवमिव समन्वितो ह्यौपनिषदः पदसमुदायः-“यतो वा इमानि भूतानि जायन्ते” “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तदैक्षत वहु स्यां प्रजायेयेति । तत् तेजोऽसृजत”, “ब्रह्म वा इदमेकमेवाग्र आसीत्”, “आत्मा वा इदमेक एवाग्र आसीत् “, ख्यासुः तत्र वाक्यार्थयोजनायामेव पदयोजनामन्तर्भावयिष्यन् पृथग्व्याख्येयं तुशब्दं व्याचष्टे प्रसक्तेति । सर्वेषां सूत्राणां तत्तच्छङ्कायामवतरणेऽपि अस्मिन् सूत्रे तुशब्दः - प्रदर्शनार्थः । तदिति व्याख्येयं पदम् ; तद् व्याचष्टे शास्त्रप्रमाणकत्वं ब्रह्मण इति । संभवत्येवेत्येतत् तुशब्दफलितम् । हेतुपदस्याकाङ्क्षां दर्शयति कुत इति । समन्वयशब्दस्योत्तरत्र विस्तरेण व्याख्यास्यमानत्वादिदानीं सङ्क्षेपेण व्याचष्टे परमपुरुषार्थतयेति । कस्य केन कीदृशोऽन्वयः इत्यपेक्षयामाह परमेति । शास्त्रेण परमपुरुषार्थभूतस्य ब्रह्मणोऽभिधेयतयाऽन्वयादित्यर्थः । शास्त्रस्य धीस्थत्वात् शास्त्रेणेति कण्ठोक्तघभावः । ब्रह्म शास्त्रप्रमाणकमिति प्रतिज्ञाते सति पक्षनिष्ठतया हेतोर्वक्तुमुचितत्वात् समन्वयो ब्रह्मकर्तृकतया व्याख्यातः ; न तु शास्त्रकर्तृकतया । कथं तथाविधान्वयः इत्यपेक्षायामेतदुपपादयति एवमिति । इवशब्द " एवार्थः ; एवमेवेत्यर्थः । औपनिषदः पदसमुदायः परमपुरुषार्थभूते ब्रह्मणि प्रतिपादकत्वेन समन्वित एव हीत्यर्थः । पदसमुदायः वाक्यमित्यर्थः । औपनिषद वाक्य बहुत्वेऽपि तेषां वाक्यैकवाक्यभावेनैकार्थपरतया एकराशित्वव्यञ्जनायैकवचनम् । समन्वित इति वाक्यकर्तृत्वेनोक्तिः फलितार्थाभिप्राया ; न तु सूत्रयोजनाभिप्राया । ब्रह्मणि समन्वितानामित्युत्तरत्राप्येवमेव । प्रतिपत्तिक्रमानुरोधेन प्रथमं लक्षणवाक्यमुपादत्ते यतो वा इति । अथ प्रापक कारणवाक्यमाह सदेवेत्यादिना । सच्छन्दस्य बृहद बृहत्साधारणत्वात् विशेषकवाक्यमुपादते ब्रह्म वा इति ॥ यत् कारणम्, तत् ब्रह्मेति लक्षणवाक्येनोक्ते, सतः कारणत्वे च कथिते, तस्य सतो, ब्रह्मत्वं सिध्यतीति न बृहत्त्वनिश्चयः ब्रह्म वा इति वाक्याधीन इति चेन्न ; लक्षणवाक्यस्य कारणानुवादित्वेन प्रापकवाक्योपजीवित्वादुपजीव्येषु प्रापकवाक्येष्वेव विशेषनिर्धारणज्ञापनार्थं हि ब्रह्म वा इति वाक्यमुपात्तम् । सद्ब्रह्मशब्दयोरीक्षणान्वयलिङ्गादचिद्या वृत्तवस्तु परत्वेऽपि तयोः शब्दयोः साधारणतया शब्दसामर्थ्यादचिद्यावृत्तिनिश्चयस्तत्र नास्तीति शब्दशक्त्यैव विशेषज्ञापनार्थम् आत्मा वा इति वाक्योपादानम् । ब्रह्मशब्दस्य साधारणत्वं नाम वहुष्वर्थेषु प्रयुज्यमानत्वम् ; न तु प्रवृत्तिनिमित्तसाधारण्यम् । प्रवृत्तिनिमित्तभूतस्य निरतिशयवृहत्त्वस्य भगवद्व्यव्यतिरिक्तगामित्वसंदेह स हत्व 1 प्रदर्शनार्थः इति । शास्त्रप्रमाणकत्वाभावकाः बहुप्रकाराः सन्ति । अत एव ब्रह्मणि समन्वयकरणात् अयमध्यायः समन्वयाध्याय इति व्यवह्रियते । तदत्र सिद्धान्त्यभिमतब्रह्मपरत्वस्वीकारे प्रयोजनपर्यवसानं नेति सामान्येन प्रवृत्तशंकाशमनार्थमिदमधिकरणमिति वक्ष्यमाणवैलक्षण्येन शंकाविशेषशमनाभिप्रायज्ञापनायेह विशिष्य सूत्रकारः तु प्रायुंक्त । सर्वत्र तुरप्रयुक्तोऽपि स्थितप्राय इति न प्रयोक्तव्यः । तथाच सामान्यविषयत्वादयं शास्त्रोपाद्घातः उपरि तु सर्व शास्त्रमेवेति उपोद्घातोपयोग्यंश एक एवावशिष्टः इहाधिकरणे वर्त्यते इति तुशब्दतात्पर्यम् । 2 एवार्थ इति । इवार्थ एव भवतीत्यपि भाष्यार्थदर्पणे ।
१-१-४ समम्वयाधिकरणम् (रुद्रे पर्यवसानायोग.) " तस्माद्वा एतस्मादात्मनः आकाशः संभूतः”, “एको ई वै नारायण आसीत्”, १३५ वा । न हि स्वारसिकात्मशब्देकार्थ्यं प्रतिपन्ने सति निरतिशयबृहत्त्वस्याचिद्गामित्वसदेहः । सद्विद्यायां ‘स आत्मा’ इंत्यात्मशब्दः उपसंहारस्थ इति उपक्रमस्थेनैवाऽऽत्मशब्देन विशेषनिश्चयार्थम्, ‘आत्मा वा’ इति वाक्यमुपात्तम् । “यतो वा इमानि” इत्यादिप्रकरण एव, “आनन्दाध्येव खल्विमानि भूतानि जायन्ते” इत्यानन्दशब्देन कारणे निर्दिष्टेऽपि, “यदेष आकाश आनन्दो न स्यात्” इत्याकाशशब्दसामानाधिकरण्यात् आनन्दशब्देनाचिद्व्यावृत्तिनिश्चयः प्रतिबद्ध इत्यभिप्रायेणाचिद्यावृत्तेः सुखेन प्रतिपत्त्यर्थम् आत्मा वा इति वाक्योपादानम् । सर्वशाखाप्रत्ययन्यायेन विनाऽपि प्रकरणादेव ब्रह्मशब्द आत्मपर इति ज्ञापनार्थम् एतदधिकरणापेक्षितानन्दरूपताप्रतिपादकप्रकरणस्थतया तज्ज्ञापनार्थं चोपादत्ते तस्माद्वा एतस्मादात्मन इति । “सत्यं ज्ञानमनन्तं ब्रह्म” इति हि तत्र प्रकृतम् । “अन्योऽन्तर आत्मा आनन्दमयः”, “आनन्दं ब्रह्मणो विद्वान्” इति च तत्र वक्ष्यते । अत्र (थ) “छागो वा मन्त्रवर्णात्” इति न्यायात् सामान्यशब्दानां देवताविशेषे पर्यवसानं दर्शयति एको ह वा इति । “सेयं देवतैक्षत”, “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्ध प्रहिणोति तस्मै । तं ह देवम्”, “स ईशोऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय”, “ईशानो भूतभव्यस्य”, “तमीश्वराणां परमं महेश्वरम्” इत्यादिषु श्रुतानां देवतादिशब्दानां पूर्वपूर्वापेक्षया विशेषशब्दानामपि साक्षात् कारणवाक्यस्थत्वाभावात् तेषु च, रूढिमतामपि देवतादिशब्दानां व्यक्तिविशेषे रूढत्वाभावात्, ईशादिशब्दानां च, ‘जगत ईशो नान्यो हेतुर्विद्यते ईशनाय’ इति समभिव्याहृतपष्ठयन्तपद निर्देशादिभिरवयवार्थविवक्षायाः स्फुटतरत्वेन निमग्नरूढितया साधारणत्वाच्च, चरमविशेषशब्द प्रदर्शनेन तेषामपि तत्पर्यवसानमर्थसिद्धं स्यादित्यभिप्रायेण च, ‘सेयं देवता’ इत्यादिवाक्यानि अनादृत्य एको ह वै नारायणः इत्यादिवाक्यमुदाहृतम् । हिरण्यगभदयः शब्दा आकाशप्राणादिशब्दवदयोग्यार्थाः । शिवादिशब्दाश्च बह्वर्थेषु प्रयोगात् साधारणा इति ‘सदादिशब्दवन्न विशेषोपस्थापनक्षमा इत्यभिप्रायः । “वचनानि त्वपूर्वत्वात्”, “विधिस्तु धारणेऽपूर्वत्वात्” इंति न्यायेन, “यदाग्नेयोऽष्टाकपालः “, “उपरि हि देवेभ्यो घारयति” इति वाक्यवदिदं महोपनिषद्वाक्यमपि अप्राप्तार्थोपस्थापकत्वात् आकाशप्राणादिवाक्यवत् अयोग्यार्थोपस्थापकत्वाभावाच्चानन्यापेक्षं स्वार्थ प्रतिपादयति । " “न सन्न चासच्छिव एव केवलः” इति वाक्यविरोधादिदं वाक्यमयोग्यार्थमिति चेत्-न; “सदेव सोम्येदमग्रे” इति वाक्यविरोधेन, “न सन्न चासत्” इत्यादिवाक्यस्यायोग्यार्थत्वप्रसङ्गात् ॥ साधारणस्य सच्छन्दस्य शिवपर्यवसानाविरोधात् नात्रायोग्यार्थत्वमिति चेत् तर्हि शिवशब्दस्य च बहुष्वर्थेषु प्रयोगात् साधारणस्य नारायणपर्यवसानाविरोधात् नात्रायोग्यार्थत्वम् । ब्रह्मशिवादीनां हि कार्यत्वमिन्द्रादीनामिव बहीभिः श्रुतिभिः प्रतिपाद्यते - यजुषि, “अजस्य नाभावध्येकमर्पितं यस्मिन्निदं भुवनमधिश्रितं विश्वकर्मा जनिष्ट देवः “, “स प्रजापतिरेकः पुष्करपर्णे समभवत्”, “तस्माद्विराडजायत विराजोऽधि पुरुषः”, महोपनिषदि, “तत्र ब्रह्मा चतुर्मुखोऽजायत”, सुबालोपनिषदि, “अद्धयः पृथिवी । तदण्डमभवत् । तत् संवत्सरमात्र-
१३६ (ब्रह्मरुद्रयोरुत्पत्त्यादि) मुषित्वा द्विघाऽकरोदधस्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो दिव्यः; सहस्रशीर्षा पुरुषः” इत्यारभ्य, “सोऽग्रे भूतानां मृत्युमसृजत् । तस्य ब्रह्माऽबिभेत । सो ब्रह्माणमेव विवेश” इति । अत्र परमपुरुषात्मनः पुरुषो ब्रह्मा समुत्पन्नं इति श्रुतः; पुरुषशब्दद्वयश्रवणात् मृत्युभयवत्त्वश्रवणाच्च । श्वेताश्वतरे, “वेदाहमेतं पुरुषं महान्तम् “, " महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः “, “यो ब्रह्माणं विदधाति पूर्वम्” इति च हिरण्यगर्भोत्पत्तिरवगम्यते । तथा महोपनिषदि “ध्यक्षः शूलपाणिः पुरुषोऽजायत”, सुबालोपनिपदि, “ललाटात् क्रोधजो रुद्रोऽजायत”, बृहदारण्यके, ‘ब्रह्म वा इदमेकमेवाग्र आसीत् । तदेकं सन्न व्यभवत् । तच्छ्रेयो रूपमत्यसृजत क्षत्रम् - यान्येतानि देवता क्षत्राणि इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः’ इति । तथा शतपथे, “अभूद्वा इदं प्रतिष्ठा” इत्यारभ्य “भूतानां च प्रजापतिः संवत्सरायादिदीक्षिषत । भूतनांपतिर्गृहपतिरासीदुषाः पत्नी " इत्यादिकमुक्त्वा ; " भूतानां पतिः संवत्सर उषसि रेतोऽसिञ्चत् । संवत्सरे कुमारोऽजायत । सोऽरोदीत् । तं प्रजापतिरब्रवीत । कुमार ! किं रोदिषि यत् श्रमात् तपसोऽधि जातोऽसीति । सोऽब्रवीत् । अनुपहतपाप्मा वा अहमस्मि अवि (ना) हितनामा । नाम मे धेहि पाप्मनोऽपहत्या इति । तमब्रवीत् रुद्रोऽसीति । तदस्य तन्नामाकरोत् । अग्निस्तद्रूपमभवत्” इत्यारभ्य शर्वपशुपतिप्रभृतिनामकरणं पृथिवीसलिलादिमूर्तिप्रदानं चोक्तम् । रुद्रवाक्यादेवानपहतपाप्मत्वं च तस्य श्रुतम् । तत्रैव च शतरुद्री यत्राह्मणे, " प्रजापतेर्विखस्ता देवता उदक्रामन् । तमेक एव देवो न जहान्महामन्युरेव सोऽस्मिन्नन्तर्हितोऽतिष्ठत । सोऽरोदीत् । तस्य यान्यश्रूणि प्रास्कन्दन्, तान्यस्मिन् मन्यौ प्रातिष्ठन् । स एष शतशीर्षा रुद्रः समभवत् ” इति । अत्र प्रजापतेः क्रुद्धस्य क्रोधजा श्रसंभवत्वं मन्युरूपस्य रुद्रस्याभिहितम् । क्रोधस्य चाश्रहेतुत्वं प्रसिद्धम्, तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रु विन्दवः । दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहविन्दवः” इति । तथा शैलालिब्राह्मणे, “प्रजापतिर्वै प्रजाकामः तपोऽतप्यत” इत्यारभ्य अनिवाय्वादित्यचन्द्राणामुत्पत्ति तेषां रेतःस्कन्दनं चोक्त्वा, “स प्रजापतिर्हिरण्मयं चमसमकरोदिषुमात्रमूर्ध्वमेवं तिर्यञ्चम् । तस्मिन् रेतः समसिञ्चत् । तत उदतिष्ठत् सहस्राक्षः सहस्रपात् । तत् सहस्रेण प्रतिहिताभिः स प्रजापतिः पितरमभ्यायच्छत् । तमब्रवीत् कथमभ्यायच्छसीति । नाम मे कुर्वित्यत्रवीत् । न वा इदमविहितेन नाम्ना अन्नमत्स्यामि इति । शर्वो वै त्वमित्यब्रवीत् । भव एवेति यद्भवः” इत्यारभ्य भवशर्वादिनामकरणं सलिलादिमूर्तिप्रदानं चोक्त्वा, “स एषोऽष्टनामाऽष्टधा विहितो महादेवः” इति नामाष्टकमूष्टकवत्त्वं प्रजापतिना विहितमिति स्पष्टतरमुक्तम् । तलवकारिणां कर्मारम्भे, " इदं कर्म करिष्यामि तन्मे समृध्यतां तन्म उपपद्यतां विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठायामोघाय कर्माधिपतये नमः” इति । तथा छन्दोगानां च कर्मारम्भे, “तस्मै विरूपाक्षाय दन्ताञ्जये तुद्धाय विश्ववेदाय सहस्राक्षाय ब्रह्मणः पुत्राय नमः” इति च मन्त्रद्वयेन रुद्रस्य ब्रह्मपुत्रत्वमभिहितम् । घृतसूक्ते च “यौ ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृतिवासाः पिनाकी " इति ब्रह्मण उद्भूतत्वं रुद्रस्योक्तम् । उज्जहार —उद्बभूवेत्यर्थः । अतो हिरण्यगर्भादीनां कार्यत्वावगमेन तद्वाचिशब्दानामयोग्यार्थत्वात् नारायण एव सदादिशब्दाः पर्यवस्यन्ति ॥ ।
१-१-४ समन्वयाधिकरणम् ( त्रिमूत्यैक्यनिरासः) १३५
ननु " हिरण्यगर्भः समवर्तताग्रे “, " न सन्न चासच्छिव एवं केवलः “, “एको ह वै नारायण आसीत्”, “ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते " इति त्रयाणामपि देवानां कारणत्वकार्यत्वयोरविशेषेण श्रवणात्, अयोग्यत्वशङ्कायाः त्रिष्वपि तुल्यत्वात्, जन्मन ऐच्छिकत्वेना योग्यत्वपरिहारस्य त्रिष्वपि सुवचत्वात्, कारणकत्वावधारणस्यानुरोद्धव्यत्वात्, रूढेर परित्यागस्य स्वतः प्राप्तत्वाच्च त्रयाणामध्यैवयाश्रयणेन परमकारणत्वमभ्युपगन्तव्यम् ॥ नैवम् ; त्रयाणाम् अविशेषेण कार्यत्वश्रवणाभावादेव त्रिष्वप्ययोग्यत्वशङ्कायाः तुल्यत्वाभावात् । तस्य हि प्रकरणस्योपक्रमे, “कश्च ध्येयः” इति ध्येयविधिपरत्वमवगतमिति कार्यत्वमनूद्यते । अनुवादश्च प्रापकानुरोधेन स्यात् । लक्ष्मीपतिविषय उत्तरनारायणानुवाके भगवदुत्पत्तिरवताररूपा श्रयत इति अस्मिन् वाक्ये भगवदवतारानुवादः । ब्रह्मशिवयोस्तु अवतारश्रुत्यभावादिन्द्रवरुणादितुल्योत्पत्तिरनूद्यते इति नाविशेषेण कार्यत्वश्रवणम् । किञ्चोत्पतिश्चेत्, कर्माधीन देहसङ्गतिरित्युत्सर्गसिद्धम् । तच ब्रह्मशिवयोरनपोदितम् । नारायणे त्ववता र श्रुत्याऽपोदितम् । “प्रजापतिर्देवानसृजत । ते पाप्मना सन्धिता अजायन्त” इति प्रजापतिसृष्टदेवानां सामान्येन पाप्मसंबन्धः श्रुतः विशेषतो रुद्रस्यानपहतपाप्मत्वं शतपथे स्ववाक्यादेव दर्शितम् । “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः “, “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम । एष हि सर्वेभ्यः पाप्मभ्यः उदितः “, “अपहतपाप्मा विजरो विमृत्युः”, “स उत्तमः पुरुषः” इति पुण्डरीकाक्षस्या कर्मकृतविग्रहवत्त्वं चोक्तम् । । 9 एवं वैषम्यस्य स्फुटत्वेन उत्पत्तिसाम्यशङ्काया दूरविध्वस्ततया योग्यार्थिनारायणादिशब्दानामिव अयोग्यार्थब्रह्म शिवादिशब्दानां रूढिपरित्यागाभावोऽनुपपन्नः । यदि रुद्रस्य परमकारणत्वं तदुत्पत्तेरवताररूपत्वं च आस्तिकतमैर्भवद्भिरुच्यते, तर्हि भवतामिन्द्रे कः प्रद्वेषः ? “इन्द्रो मायाभिः पुरुरूप ईयते”, “ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते” इति कार्यत्वकारणत्वे हि ब्रह्मशिवयोरिवेन्द्रस्यापि श्रयेते । अंत इन्द्रस्य परमकारणत्वं तदुत्पत्तेः परमकारणभूतेन्द्रावताररूपत्वं चाश्रित्य इन्द्रशब्दस्य योग्यार्थत्वं किमिति नाभ्युपगम्यते ॥ “प्रजापतिरिन्द्रमसृजत” इति तस्य सृज्यत्वश्रवणात् त्वाष्टवधरूपत्रह्महत्याभिमूतत्वश्रवणात् तत्प्रायश्चित्तादिश्रवणाच्चेति चेत् — इन्द्रस्य जन्मवृत्तापकर्षयोगः कृष्णस्य वसुदेवगृहनन्मकालयवननिमित्तपलायनवत् लीला किं न स्यात् 11 इन्द्रस्य परमकारणवस्त्वैक्ये सति उत्तरनारायणप्रतिपाद्यत्वम्, तस्मिन् सति जन्मवृत्तापकर्ष [सं] योगस्य लीलात्वम् तस्मिन् सति इन्द्रशब्दस्य योग्यार्थत्वम्, तस्मिन् सति इन्द्रस्य परमकारणवस्त्वैक्यमिति चक्रकाश्रयप्रसङ्गात्, एकस्मिन्नेव वाक्ये सोमवरुणयमादिवत् सृज्यत्वप्रतीतेश्च नैवमिति चेत् तर्हि रुद्रस्य परमकारणवस्त्वैक्ये सति उत्तरनारायणप्रतिपाद्यान्तर्भावः तेन जन्मकर्मापकर्षस्य लीलात्वम्, ‘तेन शिवादिशब्दानां योग्यार्थत्वम् तेन परमकारण वस्त्वैक्यमिति चक्रकप्रसङ्गात्, सोमवरुणादिवत् तस्मिन्नेव वाक्ये सृज्यत्वसंहार्यत्वश्रवणाच्च शिवादिशब्दानामयोग्यार्थत्वं दुष्परिहरम् । भगवज्जन्मनोऽवताररूपत्वे तु न चक्रकप्रसङ्गः; ‘तस्माद्विराडजायत’ इति कारणतयोक्तस्य परमपुरुषस्य महापुरुषशब्देनोत्तर नारायणे प्रत्यभिज्ञातस्य लक्ष्मीपतेः, ‘अजायमानः’ इत्यादिवाक्येनावतारस्य प्रतिपादितत्त्वात् ॥ , 2-18
१३८ न (आनन्दत्वोपपादनम् ) “सत्यं ज्ञानमन्तं ब्रह्म”, “आनन्दो ब्रह्म” इत्येवमादिः । न च व्युत्पत्ति सिद्धपरिनिष्पन्न- कार्यकारणविषयशिवादिशब्दानां भिन्नार्थत्वात् नायोग्यार्थत्वमिति चेत् — किं कार्यविषयशिवादिशब्दानां प्रसिद्ध रुद्रपरत्वम् उत कारणविषयाणाम् ? प्रथमे प्रसिद्ध रुद्रस्याऽऽकाशादिवत् सृज्यत्वात् तद्व्यतिरिक्त विषय शिवादिशब्दानां योग्यर्थिनारायणपदोपस्थापितविशेषपरत्वमवर्जनीयम् ॥ कारणविषयशिवादिशब्दाः प्रसिद्धरुद्रपराः, कार्यविषयास्तु तदतिरिक्तविषया इति चेत् — कारणे ( णविषये ? )न्द्रशब्दः प्रसिद्धेन्द्रपरः, कार्यविषयेन्द्रशब्दस्तदतिरिक्तपर इति किं न स्यात् ॥ वृत्रबधादिकर्तरि इन्द्रशब्दव्युत्पत्तिरिति चेत् — यक्षशूलपाण्यादिपर्यायत्वेन शिवादिशब्दव्युत्पत्तेः, “ज्यक्षः शूलपाणिः पुरुषोऽजायत”, “उमापतिः पशुपतिः श्री (शिति) कण्ठो ब्रह्मणः सुतः । उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः” इति शूलपाण्यादिशब्दानां कार्यविषयतया प्रयोगाच्च कारणविषयशिवादिशब्दानां प्रसिद्धरुद्रपरत्वमयुक्तम् । कारणविषयाणां नारायणादिशब्दानां प्रसिद्धविष्णुपरत्वं तु युक्तम् ; अवतीर्णस्य कारणस्य च घम्यैक्ये प्रमाणस्य दर्शितत्वादर्थ भेदाभावात् । अर्थभेदे सति हि कार्यकारणविषयनारायणादिपरेषु कस्य प्रसिद्धार्थता, कस्य तदतिरिक्तविषयतेति विचारसंभवः । कार्यकारणभूतरुद्रधयैवये त्विन्द्रयैवय इव चक्रका पत्तिरवर्जनीयेत्युक्तम् । अतः कार्यकारणविषय शिवादिशब्दानामर्थमेदाङ्गीकारेण कारणविषयशिवादिशब्दाः प्रसिद्धेतरार्थविषया इति नारायणमेवाभिदधति । नारायणादिशब्दानां प्रसिद्धार्थस्य योग्यतया अर्थमेदाभावात्, धम्यैक्यस्य प्रमाणप्रतिपन्नत्वाच्च । अतो महोपनिषत्प्रतिपादिते नारायण एव समादिशब्दाः पर्यवस्यन्तीति भावः । अथ कारणतया निर्दिष्टस्य ब्रह्मणः शङ्कितदोषव्यावर्तकं शोधकवाक्यमाह सत्यमिति । उक्तगुणविभूत्यादिविशिष्टस्य ब्रह्मणः पुरुषार्थत्वज्ञापनायाह आनन्दो ब्रह्मेति । आनन्दत्वं धनुकूलत्वम् । अनुकूलत्वं च स्वत इष्टत्वम् ; तदपि इष्टसाधनत्वनिवर्त्यप्रातिकूलत्वाभ्यां विनाऽपी. ष्टत्वम् । तच्च विषयगतम् । तद्विषयज्ञानस्याप्यनुकूलत्वादानन्दत्वम् । भगवतः मुक्तानां निरतिशयभोग्यस्वेनानुकूलतया खरूपतो धर्मतश्चानन्दत्वम् । स्वविषयज्ञानस्य स्वरूपस्य च खात्मानं प्रत्यनुकूलत्वाच्चानन्दत्वम् । इत्येवमादिः । औपनिषदः पदसमुदाय इति पूर्वेणान्वयः । 1 एवमन्वितेषु वाक्येषु प्रस्तुत पुरुषार्थत्वोपयोगित्वेन कोऽर्थः प्रतिपन्नः; स च किमापातप्रतिपन्नः, उत तात्पर्यभूमिः ? न प्रथमः; तस्य तात्त्विकत्वनिश्वयायोगात् । न द्वितीयः; प्रवृत्तिनिवृत्त्यभावेन तदयोगादिति शङ्कायाम् — प्रवृत्तिनिवृत्त्यन्वयः प्रामाण्यव्यापकः, अतस्तद्व्याप्यं प्रामाण्यं तद्विरहे न सिध्यतीति किमुच्यते; किं वा — प्रवृत्तिनिवृत्त्यन्वयः प्रयोजनव्यापकः, प्रयोजनञ्च प्रामाण्यव्यापकमिति प्रवृत्तिनिवृत्यन्वयविरहे तयाप्यप्रयोजनाभावात् तद्याप्यं प्रामाण्यं न सिध्यतीत्युच्यत इति विकल्पमभिप्रेत्य प्रवृत्तिनिवृत्त्यन्वयस्य प्रामाण्यव्यापकत्वं नास्तीत्याह नचेति । व्युत्पत्तिसिद्धेति प्रथमसूत्रार्थानुवादः । 1 मुक्तानामिति । तावता अस्मान् प्रति कथं भगवत आनन्दत्वमिति चेत् — स्वर्गस्य प्राप्तिदशायामानन्दत्ववत् अस्माकं मुक्तिदशायामानन्दत्वमित्येतावतैव पुरुषार्थत्वसंभवात् । तत एव हेतोः श्रवणाद्यवसरेऽप्यनुकूलता। अपरोक्षानुभवदशायामत्त्रापि मुक्ताविव सुखत्वमस्त्येव ।
f १-१-४ समन्वयाधिकरणम् ( सिद्धपरस्यापि सप्रयोजनत्वम् ) १३९ वस्तुप्रतिपादनसमर्थानां पदसमुदायानामखिलं जगदुत्पत्तिस्थितिविनाशहेतुभूताशेवदोषप्रत्यनीकापरिमितोदारगुणसागरानवधिका तिशयानन्दस्वरूपे ब्रह्मणि समन्वितानां प्रवृत्तिनिवृत्तिरूपप्रयोजनविरहादन्यपरत्वम् ; स्वविषयावबोधपर्यवसायित्वात् सर्वप्रमाणानाम् । न च प्रयोजनानुगुणा प्रमाणप्रवृत्तिः ; प्रयोजनं हि प्रमाणानुगुणम् । न च प्रवृत्तिनिवृत्त्यन्वयविरहिणः प्रयोजनशून्यत्वम् ; पुरुषार्थान्वयप्रतीतेः । तथा – स्वरूप परेष्वपि ‘पुत्रस्ते जातः, नायं सर्पः’ इत्यादिषु हर्षभयनिवृत्तिरूपप्रयोजनवत्वं दृष्टम् ॥ सिद्धवस्तुनोऽपुरुषार्थत्वान्न शास्त्रं प्रतिपादयितुं शक्नोति । प्रतिपन्नेऽपि न तत्र तात्पर्यम्, सिद्धेव्युत्पत्त्यभावादिति न वाच्यम्, सिद्धे वस्तुनि व्युत्पत्त्युपपादनादिति भावः । प्रमाणान्तरगोचरत्वप्रयुक्तान्यपरत्वशङ्काव्युदासाय उदाहृत कारणवाक्यप्रतिपन्नमर्थमाह अखिलेति । शोधकवाक्यप्रतिपन्नं कारणवाक्यैश्च सिद्धमर्थमाह अशेषेति । साङ्ख्याभिमतप्रकृतिपुरुषपरत्वं दुर्वचमिति भावः । पुरुषार्थपरत्वाभावादन्यपरत्वव्युदासायाह आनन्दस्वरूप इति । अन्यपरत्वम् — तात्पर्याभावः; ब्रह्मणि प्रामाण्याभाव इत्यर्थः । प्रवृत्तिनिवृत्त्यन्त्वयविरहे कथं प्रामाण्यमित्यत्राह स्वविषयेति । प्रमाणानि हि खखविषयावबोधे पर्यवस्यन्ति, न तु प्रवृत्तिनिवृत्त्योरित्यर्थः । अथ प्रवृत्तिनिवृत्त्यन्वयस्य प्रयोजनव्यापकत्वमभ्युपगम्य प्रयोजनस्य प्रामाण्यव्यापकत्वाभावमाह न च प्रयोजनेति । तदुपपादयति प्रयोजनं हीति । हिशब्दो हेतौ । यद्वा प्रयोजनस्य प्रामाण्यव्यापकत्वाभावप्रसिद्धिर्हिशब्दा भित्रेता; यथा तन्त्रटीकायाम्, " न हि लोष्टं पश्यतस्तद्दर्शनं निष्प्रयोजनमिति सुवर्णदर्शनता कल्प्येत” इति । तदा हेतुत्वमर्थसिद्धम् । प्रयोजनव्यापकत्वं प्रवृत्तिनिवृत्त्यन्वयस्यास्तु ; तेन तन्निवृत्तौ प्रयोजनमेव निवर्तते न तु प्रामाण्यम्, प्रयोजनस्य प्रामाण्यंव्यापकत्वाभावादित्यर्थः । न चेत्यत्र चशब्दो व्यापकद्वयनिषेधसमुच्चये । यथा प्रवृत्तिनिवृत्त्यन्वयस्य प्रामाण्यव्यापकत्वमयुक्तम्, तथा प्रयोजनस्य च प्रामाण्यव्यापकत्वमयुक्तमित्यर्थः । प्रत्यक्षादिषु प्रयोजनस्य प्रामाण्यव्यापकत्वाभावेऽपि शास्त्रे प्रयोजनस्य प्रामाण्यव्यापकत्वमस्तीति शङ्कायां प्रयोजनव्याप्यत्वं शास्त्रप्रामाण्यस्यास्तु, तथापि प्रयोजनस्य प्रवृत्तिनिवृत्त्यन्वयव्याप्यत्वं नास्तीत्याह न च प्रवृत्तीति । वाक्यस्येत्यध्याहारः । कुत इत्यत्राह पुरुषार्थान्वयप्रतीतेरिति । इदं पक्षविषयम् । प्रवृत्तिनिवृत्तिरूपत्वाभावेऽपि पुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयप्रतीतेरित्यर्थः । न चेत्यत्र चशब्दो व्याप्यत्वनिषेघद्वयसमुच्चये । यथा प्रामाण्यस्य प्रवृत्तिनिवृत्त्यन्वयव्याप्यत्वं नास्ति, तथा प्रयोजनस्यापि प्रवृत्तिनिवृत्त्यन्वयव्याप्यत्वं नास्तीत्यर्थः । प्रामाण्यस्य प्रवृत्तिनिवृत्त्यन्वयव्याप्यत्वाभावः स्वविषयावबोधेत्यादिना सिद्धः । सपक्षत्वाभिमते लौकिकेऽपि सिद्धपरवाक्ये पुरुषार्थान्वयं दर्शयति तथेति । यथा प्रवृत्तिपरत्वं निवृत्तिपरत्वं वा न प्रयोजनपर्यवसायित्वम्, किन्तु पुरुषार्थपरत्वमेवतथा प्रवृत्तिनिवृत्तिपरत्वं सिद्धवस्तुपरत्वं वा न प्रयोजनपर्यवसायित्वम्, अपि तु साध्येन वा सिद्धेन वा पुरुषार्थेनान्वितत्वमेव बाक्यस्य प्रयोजनपर्यवसायित्वमित्युक्तं भवति ; पुरुषार्थान्वयप्रतीतेरित्युक्तत्वात् । एवं सूत्राक्षरयोजनार्थ सङ्क्षेपेणार्थ उक्तः ॥
१०. प्रकाशिकोपते नीभाष्ये (ममकपूर्वपक्षः अत्राऽऽह - न वेदान्तवाक्यानि ब्रह्म प्रतिपादयन्ति प्रवृत्तिनिवृत्त्यन्वयविरहिणा शाखाच्याऽऽ. नर्थक्यात् । यद्यपि प्रत्यक्षादीनि वस्तुबाधात्म्याच दोघे पर्यवस्यन्ति तथाऽपि शाखं प्रयोजनपर्यवसाय्येव । न हि लोकवेदयोः प्रयोजनरहितस्य कस्यचिदपि वाक्यस्य प्रयोग उपलब्धचरः । न च किञ्चित् प्रयोजनमनुद्दिश्य वाक्यप्रयोगः श्रवणं वा संभवति । तच्च प्रयोजनं प्रवृत्तिनिवृत्तिसाध्येष्टानिष्टप्राप्तिपरिहारात्मकमुपलब्धम्, ‘अर्थार्थी राजकुलं गच्छेत्’, ‘मन्दाझिर्नाम्बु पिबेत्’, “स्वर्गकामो यजेत”, “न कलअं भक्षयेत्” इत्येवमादिषु ।. यत्पुनः सिद्धवस्तुपरेष्वपि, ‘पुत्रस्ते जातः’, ‘नायं सर्पः रज्जुरेषा’ इत्यादिषु हर्षभयनिवृत्तिरूपपुरुषार्थान्वयो दृष्ट इत्युक्तम्-तत्र किं पुत्रजन्माद्यर्थात् पुरुषार्थावाप्तिः, उत तज्ज्ञानात् इति विवेचनीयम् । सतोऽप्यज्ञातस्यार्थस्यापुरुषार्थत्वेन तज्ज्ञानादिति चेत् — तर्ह्यसत्यप्यर्थे ज्ञानादेव पुरुषार्थः सिध्यतीत्यर्थपरत्वाभावेन प्रयोजनपर्यवसायिनोऽपि शास्त्रस्य नार्थसद्भावे प्रामाण्यम् । तस्मात् सर्वत्र प्रवृत्तिनिवृत्तिपरत्वेन ज्ञानपरत्वेन वा प्रयोजनपर्यवसानमिति कस्यापि वाक्यस्य परिनिष्पन्ने वस्तुनि तात्पर्यासंभवान्न वेदान्ताः परिनिष्पन्नं ब्रह्म प्रतिपादयन्ति ॥ 1 अथ तात्पर्यार्थ वक्तुं पूर्वपक्षं विस्तरेणावतारयति अत्राहेति । एतावत्यधिकरणार्थ उक्ते लब्धस्वदूष्यप्रसङ्गः पूर्वपक्षी आहेत्यर्थः । ब्रह्मणः शास्त्रप्रतिपाद्यत्वाभावं प्रतिजानीते न वेदान्तेति । सौत्रतच्छब्देन शास्त्र्योनित्वस्य परामृष्टत्वात् पूर्वपक्षिणा तदभावोऽपि प्रतिज्ञात इति हि ज्ञायते । प्रतिज्ञात (ज्ञा)मुपपादयति प्रवृत्तिनिवृत्त्यन्वयविरहिण इति । तदन्वयाभावे प्रतिपादनमेव न पूर्येतेति भावः । तथाच वार्तिकम्, “यावत् खलु प्रमातॄणां प्रवर्तन निवर्तने । शब्दा न कुर्वते तावन्न निरका बोधनम् ” इति । शास्त्रस्येति । शासनाद्धि शास्त्रम् । शासनं च प्रवर्तन निवर्तनात्मकम् । तत्र वार्तिकम् , “प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रं तूपपद्यते ॥” इति पूर्वोक्तं प्रमाणानां स्वविषयावबोधित्वमाशङ्कर्य तत् प्रमाणविशेषे व्यवस्थापयन् शास्त्रस्य प्रयोजनपर्यवसानावश्यम्भावमाह यद्यपीति । तदुपपादयति न हीति । न केवलमनुपलब्धिरेव, अनुपपत्तिरप्यस्तीत्याह न च किञ्चिदिति । किञ्चित् – स्वसंबन्धि परसंबन्धि वा अल्पं प्रभूतं वा । वाक्यप्रयोगादेर्यत्नसाध्यत्वात् यत्नस्य च प्रयोजनेन विनाऽनुपपन्नत्वादित्यर्थः । वाक्यानां प्रयोजनपर्यबसायित्वादेव हि पुनरुक्तेः प्रयोजनाभावात् दूषणत्वम् । निष्प्रयोजनवाक्यप्रयोगः तच्छ्रवणं वाऽनुपपन्नं स्यात् ततः किं प्रस्तुतस्य प्रयोजनपर्यवसायिनां वाक्यानां प्रवृत्तिनिवृत्तिपरत्वस्य ; सिद्धपरत्वेऽपि हि प्रयोजनपर्यवसायित्वमुपपद्यत इत्यत्राह तच्चेति । प्रवृत्तिनिवृत्तिपरत्वेन लोकवेदयोः प्रयोगं दर्शयति अर्थार्थीत्यादिना । प्रवृत्तिनिवृत्तिपरत्वाभावेऽपि प्रयोजनपरं वाक्यं दृष्टमिति शङ्कायां सिद्धपरत्वेनोक्तं वाक्यं दूषयितुमनुवदति यत्पुनरिति । विकल्पयति तत्रेति । प्रथमकोट्यनुपपत्त्या द्वितीयशिरोभ्युपगमं शङ्कते सतोऽपीति । दूषयति तर्हीति । तस्मादिति पूर्वपक्षोपसंहारः ॥ जरन्मायावादिपक्षौ द्वौ विद्येते । तत्रैको निष्प्रपञ्चीकरण नियोगवादः, अन्यो ध्याननियोगवादः । एतन्मतद्वयम्, ध्याननियोगवादिमुखेन शाङ्करादिमतं च दूषितवन्तमधिकरण -
१-१-४ समन्वयाधिकरणम् (निष्प्रपञ्चीकरणनियोगवादः) १४१ अत्र कश्विदाह - वेदान्तवाक्यान्यपि कार्यपरतयैव ब्रह्मणि प्रमाणभावमनुभवन्ति ॥ कथम् ॥ निष्प्रपञ्चमद्वितीयं ज्ञानैकरसं ब्रह्म अनाद्यविद्यया संप्रपञ्चतया प्रतीयमानं निष्प्रपञ्चं कुर्यादिति ब्रह्मणः प्रपञ्चप्रविलयद्वारेण विधिविषयत्वमिति ॥ कोऽसौ द्रष्टृदृश्यरूपप्रपञ्चप्रविलयद्वारेण साध्यज्ञानै कर ब्रह्म विषयो विधिः । न दृष्टेर्द्रष्टारं पश्येः । न मतेर्मन्तारं मन्वीथाः” इत्यादिः । द्रष्टृदृश्यरूपभेदशून्यं दृशिमात्रं ब्रह्म कुर्यादित्यर्थः । स्वतस्सिद्धस्यापि ब्रह्मणो निष्प्रपञ्चतारूपेण कार्यत्वमविरुद्धमिति ॥ 1 तदयुक्तम् - नियोगवाक्यार्थवादिना हि नियोगः नियोज्यविशेषणं विषयः करणम् इतिकर्तव्यता प्रयोक्ता च वक्तव्याः । तत्र हि नियोज्य विशेषणमनुपादेयम् । तच्च निमित्तं फलमिति पूर्वपक्षिणं प्रति सिद्धान्तं वक्ष्यन् इदानीं निष्प्रपञ्चीकरणनियोगवादं प्रस्तौति अत्र कश्विदाहेति । तं प्रतिजानीते वेदान्तेति । कार्यपरस्य वाक्यस्य सिद्धवस्तुनि प्रमाणभावः कथमित्यभिप्रयन्नाह कथमिति । उत्तरमाह निष्प्रपञ्चमिति । कुर्यादित्यत्न इतिशब्दः प्रकारपरः । निष्प्रपञ्चीकरणविधिना ब्रह्मणः कोऽन्वय इत्यपेक्षायामन्वयमाह ब्रह्मण इति । विषयत्वेनान्वय इत्यर्थः । सिद्धस्वरूपस्य ब्रह्मणो विधिविषयत्वानुपपत्तिशङ्कापरिहारार्थं प्रपञ्चप्रविलयद्वारेणेत्युक्तम् । अत्र सिद्धस्य साध्यत्वमाकारमेदादविरुद्धमिति गर्भितम् । इह त्वितिशब्दः समाप्तौ । कथमित्यस्योत्तरत्वेन इत्थमिति वाऽर्थः । विधि दर्शयितुमाकाङ्क्षामुत्थापयति कोऽसाविति । कतिपयनाशेऽप्यशक्तस्य विश्वप्रपञ्चनाशनविधिरशक्य इत्यभिप्रायः । विधिः - विधिवाक्यम् । आविद्यकस्य प्रपञ्चस्य बुद्धिनिवृत्तिमात्ररूपो विलयः शक्य इत्यभिप्रायेण वाक्यमुपादते न दृष्टेरिति । दृष्टिव्यतिरिक्तत्वाविशेषात् ज्ञेयनिषेधोऽपि फलितः । आदिशब्दोपात्तैः श्रुत्यन्तरैः कण्ठोक्तश्च । आत्यन्तिकनिवृतेर सिद्धत्वाद्विषेयत्वं च युक्तमिति भावः । शून्यशब्देनाऽऽत्यन्तिकनिवृत्तिर्विवक्षिता । मात्रशब्देन द्रष्टृदृश्यकल्प का विद्यानिवृत्तिः । तत एव झात्यन्तिकत्वसिद्धिः । सिद्धस्य ब्रह्मणो विधेयत्वं कथमिति शङ्कायां प्रपञ्चप्रविलयद्वारेणेति पूर्व विवक्षितमर्थं विस्तेरणाह स्वतः सिद्धस्यापीति । यद्वा पूर्व भावार्थव्यतिरिक्तस्य विधिविषयत्वानुपपत्तिः परिहृता ; इह तु स्वतः सिद्धस्येत्यादिना प्रपञ्चविलयद्वारेण सिद्धरूपस्यापि विधिविषयत्वानुपपत्तिः परिहृतेति भिदा । भावार्थादन्यत्वं स्वर्गादेरप्यस्ति ; न तस्य सिद्धत्वम् । साध्यं हि तत् ॥ अधिकरणपूर्वपक्षी मीमांसकस्तं दूषयति तदयुक्तमिति । कथमित्यत्राह नियोगेति । विशिषन् (विषिण्वन् ?) हि विषय इति व्युत्पत्त्या विषयो यागादिः । कृतिसाध्यापूर्वप्रतिपत्तिवेलायां कृत्यवच्छेदकत्वेन स विषयः ; स एव कार्यनिष्पत्तौ करणम् । वक्तव्याः । न त्वया वक्तुं शक्यमिति भावः । प्रथमं नियोज्यविशेषणं दूषयितुमाह तत्रेति । तत्र - तेषु वक्तव्येषु । नियोज्यविशेषण मनुपादेयम् । उपादेयम्-विधेयम्; तद्व्यतिरिक्तमित्यर्थः । विकल्प्य दूषयितुं विशेषणद्वैविध्यमाह तच्चेति । 1
ननु न पश्येरिति वुद्धिनिवृत्तेरेवोक्तत्वात् प्रपञ्चनिवृत्तिपरत्वमस्य वाक्यस्य कथमित्यत्राह आविद्यकस्येति । यत् अविद्याकार्यम्, तत् तज्ज्ञाननिवर्तकसामग्रीनिवर्त्यम्, रजतज्ञाननिवर्तकशुक्तितत्वज्ञानेन रजतनिवृत्तिदर्शनात् । रजतस्य रजतज्ञानकारणभूताविद्याकार्यतया अविद्यानिवृत्त्यैव रजतज्ञाननिवृत्तेर्जायमानतया तद्वदेव रजतनिवृत्त्यवश्यम्भावात् । प्रपञ्चस्य वास्तवत्वे तु न ज्ञाननिवृत्तिमात्रेण विलयः सुवचः । दृष्टिरेव खुष्टिरिति पक्षे तु बुद्धिनिवृत्तिरेव सर्वनिवृत्तिः ।
१४२ ( तत्खण्डनम् ) द्विधा । अत्र किं नियोज्यविशेषणम्, तच्च किं निमित्तं फलं वेति विवेचनीयम् । ब्रह्मस्वरूप - याथात्म्यानुभवश्चेत् नियोज्यविशेषणम् - तर्हि न तत् निमित्तम्; जीवनादिवत् तस्यासिद्धत्वात् । निमित्तत्वे च तस्य नित्यत्वेन अपवर्गोत्तरकालमपि जीवननिमित्ताग्निहोत्रादिवत् नित्यतद्विषयानुष्ठानप्रसङ्गः । नापि फलम् ; नैयोगिकफलत्वेन स्वर्गादिवदनित्यत्वप्रसङ्गात् ॥ कश्चात्र नियोगविषयः । ब्रह्मैवेति चेत्-न; तस्य नित्यत्वेनाभव्यरूपत्वात्, अभावार्थत्वाच्च ॥ निष्प्रपञ्चं ब्रह्म साध्यमिति चेत् - साध्यत्वेऽपि फलत्वमेव । अभावार्थत्वान्न विधिविषयत्वम् । साध्यत्वं च कस्य । किं ब्रह्मणः उत प्रपञ्चनिवृत्तेः । न तावत् ब्रह्मणः ; सिद्धत्वात् ; अनित्यत्वततः किमित्यत्राह अत्रेति । अत्र – निष्प्रपञ्चीकरणनियोगे । नियोज्यविशेषणस्वरूपं शङ्कते ब्रह्मस्वरूपेति । निमित्ततां दूषयति - तर्हीति । कुत इत्यत्राह जीवनादिवदिति । ’ यावज्जीवमग्निहोत्र जुहोति’ इत्यत्र जीवनस्य सिद्धत्वात् यथा निमित्तत्वम्, न तथेत्यर्थः । पुत्रजन्मादिवत् यदा सिध्येत्, तदा निमित्तं भविष्यतीत्यत्राह निमित्तत्वे चेति ॥ अपवर्गोत्तरकालमपि नानुष्ठानप्रसङ्गः ; यावन्निमित्तमनुष्ठान नियमाभावात् । परिकरशून्येषु तन्नियमाभावो दृष्टः । तस्मात् करणकलेबरविरहेण न तदानीमनुष्ठानमिति चेत् — हन्त स्वदूषणमेव स्वयमाविष्करोषि । तथाहि - सप्रपञ्चतयाऽनुभवस्य यथार्थानुभवरूपत्वाभावादपवर्गोत्तर भाव्येव याथार्थ्यानुभवः । तदानीं करणकलेवराभावेऽपि विषयानुष्ठानं शक्यम्, न वा ? अशक्यत्वे विधेयत्वमेव न स्यात् । अतः शक्यमिति वक्तव्यम् । अतो निमित्तस्य नित्यत्वात् नैमित्तिकस्य नित्यं शक्यत्वाच्च नित्यं तदनुष्ठानप्रसङ्ग इति भावः । फलतया विशेषणत्वे दूषणमाह नापीति । नियोगविषयानुपपत्ति वक्तुमाह । शङ्कते ब्रह्मैवेति । दूषयति नेति । हेतुमाह तस्येति । अभव्यरूपत्वात् असाध्यत्वात् । अभावार्थत्वाच्च – “भावार्थाः ’ कर्मशब्दाः “- कियारूपत्वाभावादित्यर्थः । साध्यत्वं फलस्याप्यस्तीति तव्यावर्तकं भावार्थत्वम् । तदुभयाभावादिति यावत् । निष्प्रपञ्चताकारेण साध्यत्वं शङ्कते निष्प्रपञ्चमिति । प्रतिवदति साध्यत्वेऽपीति । फलत्वमेवेति । विषयत्वं चेत् — फलव्यतिरिक्तत्वं स्यात् । फलव्यतिरिक्तत्वाभावाद्विषयत्वमयुक्तमिति तात्पर्यम् । हेत्वन्तरं कण्ठोवत्या दर्शयन् विषयत्वं दूषयति अभावार्थत्वान्न विधिविषयत्वमिति । विशिष्टस्य विषयत्वानुपपत्तिरुक्ता ; अथ विशेष्यांशस्य विशेषणांशस्य च विषयत्वानुपपत्तिं वक्ष्यन् विकल्पयति साध्यत्वं चेति । यद्वा - विशिष्टस्य साध्यत्वाभ्युपगमेन विषयत्वं दूषितम् ; अथ विशिष्टस्य साध्यत्वं दूषयितुं विकल्पयति साध्यत्वं चेति । विशिष्टस्य साध्यत्वानुपपत्तिर्हि विशेषणस्य विशेष्यस्य उभयस्य च साध्यत्वानुपपत्त्या स्यात् । तत्र उभयस्येति विकल्पानुक्तिः शिरोद्वयेन तुल्यदूषणत्वात् । प्रथमं दूषयति न तावदिति । कुत इत्यत्राह सिद्धत्वादनित्यत्वप्रसक्तेश्चेति । सिद्धत्वान्न साध्यत्वम्,
1 1 भावार्थो धात्वर्थः । एवमेव वक्तव्ये, “भावार्थाः कर्मशब्दाः । तेभ्यः क्रिया प्रतीयेत । एष हाथों विधीयते” इति जैमिनिसूत्रस्मारणाय भावार्थाः कर्मशब्दा इत्युक्तम् । कर्मेति शब्दो ः येषां वाचकतयाऽस्ति, ये क्रियापदबोध्याः - तिङन्तबोध्याः, ते भावार्था भावरूपा अर्थाः साध्यापस्थापनाः । नामाख्यातमध्ये नामार्थास्तु सिद्धावस्थापन्नाः । भावार्थेभ्य एव क्रियाफलोत्पादना वाक्येभ्यः प्रतीयेत । एष हि भावार्थो लिङादिविधिविषयो भवतीति सूत्रार्थः टीकाभिप्रेतो भाव्यः । भावो भावना क्रियेति । भावार्थाः भावनान्वय्यर्था इति मीमांस करीतिः । वाः समानस्यत्वम्यस्य लाभः । वैयाकरणानां तु भावपदं श्रात्वर्थपरमेव ।
प्रसक्तेश्व । अथ प्रपञ्चनिवृत्तः न तर्हि ब्रह्मणः साध्यत्वम् ॥ प्रवश्चनिवृत्तिरेव विधिविषय इति चेत्-न; तस्याः फलत्वेन विधिविषयत्वायोगात् । प्रपञ्चनिवृत्तिरेव हि मोक्षः स च फलम् । अस्य च नियोगविषयत्वे - नियोगात्प्रपञ्चनिवृत्तिः, प्रपञ्चनिवृत्त्या नियोगः इतीतरेतराश्रयत्वम् ॥
अपिच - किं निवर्तनीयः प्रपञ्चो मिथ्यारूपः, सत्यो वा । मिथ्यारूपत्वे ज्ञाननिवर्त्यत्वादेव नियोगेन न किञ्चित् प्रयोजनम् ॥ नियोगस्तु निवर्तकज्ञानमुत्पाद्य तद्द्वारेण प्रपञ्चस्य निवर्तक इति चेत्-तत् स्ववाक्यादेव जातमिति नियोगेन न प्रयोजनम् । घाक्यार्थज्ञानादेव ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्याभूतस्य प्रपञ्चस्य वाधितत्वात् सपरिकरस्य नियोगस्यासिद्धिश्च । प्रपञ्चस्य निवर्त्यत्वे प्रपञ्चनिवर्तको नियोगः किं ब्रह्मस्वरूपमेव, उत तद्व्यतिरिक्तः । यदि ब्रह्मस्वरूपमेव — निवर्तकस्य नित्यतया निवर्त्यप्रपञ्चसद्भाव एव न संभवति । नित्यत्वेन नियोगस्य विषयानुष्ठानसाध्यत्वं च न घटते । अथ ब्रह्मस्वरूपव्यतिरिक्तः–तस्य कृत्स्नप्रपश्चनिवृत्तिरूपविषयानुष्ठानसाध्यत्वेन प्रयोक्ता च नष्ट इत्याश्रयाभावादसिद्धिः । प्रपञ्चनिवृत्तिरूपविषयानुष्ठानेनैव ब्रह्मस्वरूपव्यतिरिक्तस्य कृत्स्नस्य निवृत्तत्वान्न नियोगनिष्पाद्य मोक्षाख्यं फलम् । साध्यत्वाङ्गीकारे तु . भावरूपत्वे सति साध्यत्वादनित्यत्वप्रसक्ते (क्ति ?) श्वेत्यर्थः । द्वितीयं शङ्कते अथेति । दूषयति न तहति । प्रपञ्चनिवृत्तेः साध्यत्वे ब्रह्मणः साध्यत्वाभावान्न विधिविषयत्वमित्यर्थः । प्रपञ्च निवृतेर्विधिविषयत्वमाशङ्कय दूषयति प्रपञ्चेत्यादिना । तस्याः फलत्वमुपपादयति प्रपञ्चनिवृत्तिरेव हीति । प्रपञ्च निवृत्तिर्मोक्षोऽस्तु ततः किं विषयत्वानुपपत्तेरित्यत्राह स चेति । प्रपञ्चनिवृत्तेर्मोक्षरूपत्वात् मोक्षस्य च फलत्वात् फलभूताया न विषयत्वमित्यर्थः । दूषणान्तरमाह अस्य चेति । अस्या इति वक्तव्येऽपि फलत्वविवक्षया अस्येत्युक्तिः । फलत्वं विषयत्वं चेत्याकारद्वयाभ्युपगमे प्रपञ्च निवृत्तिः फलत्वान्नियोगसाध्या, विषयत्वात् प्रपञ्चनिवृत्त्या नियोगसिद्धिरित्यन्योन्याश्रय इत्यर्थः ॥ निष्प्रपञ्चीकरणपक्षे मुखान्तरेण दूषणमाह अपि चेति । यद्वा1 नियोगविषयदूषणेनान्योन्याश्रयेण नियोगश्च दूषितो भवति ; मुखान्तरेणापि नियोगं दूषयति — अपि चेति । दूषयितुं विकल्पयति किमिति । प्रथमं दूषयति मिथ्येति । साफल्यं शङ्कते नियोगस्त्विति । दूषयति । तदिति । स्ववाक्यात्प्रपञ्चमिथ्यात्वब्रह्मनिर्विशेषत्वपरवाक्यादित्यर्थः । नियोगस्य निष्फलत्वदूषणोवत्या नियोज्यविशेषणं च दूषितं भवति ; नियोगसाध्यफलस्यैव फलतया नियोज्यविशेषणत्वात् इह तदयोगाच्च । दूषणान्तरमाह वाक्यार्थज्ञानादेवेत्यादिना । पूर्वं विकल्पितशिरोद्वये द्वितीयं शिरो दूषयितुमाह प्रपञ्चस्येति । प्रपञ्चस्य सत्यत्वेन नियोगनिवर्त्यत्व इत्यर्थः । किमित्यादिना विकल्प्य प्रथमं दूषयति यदीत्यादिना । द्वितीयं दूषयितुं तदभ्युपगमं शङ्कते अथेति । दूषयति तस्येति । तस्येत्यादिना नष्ट इत्यन्तेन प्रयोक्तदूषणं च कृतं भवति । प्रपञ्चनिवृत्तीत्यादिना प्रपञ्चसत्यत्वेऽपि फलाभावोक्तिमुखेन नियोगो 1 यद्वेति । अपिचेति ग्रन्थोऽपि नियोगस्यैव दूषणमित्याशयेनैवमवतारिका । कथं विषयदूषकस्य पूर्ववाक्यस्य नियोगदूषकत्वमित्यत्नाह नियोगविषयेति । अत्र पूर्वदूषितांशदूषकत्वस्यापि प्रतीयमानत्वेऽपि विषयः करणमितिकर्तव्यतेति प्राइनिर्दिटक्रमेण दूषणैदम्पर्य यावत्संभवं ग्रहीतुमुचितमिति भाष्यार्थदर्पणगतिः ।
१४४ भूतप्रकाशिकोपेते श्रीमारये ( इतिकर्तव्यताथयोगः ) किः प्रपञ्चनिवृत्तेर्नियोगकरणस्य इतिकर्तव्यताऽभावात्, अनुपकृतस्य च करणत्वायोगान करसत्यम् । कथमितिकर्तव्यताऽभाव इति ॥ इत्थम् । अस्येतिकर्तव्यता भावरूपा, अभावरूपा वा ! भावरूपा च करणशरीरनिष्पत्ति - तदनुग्रहकार्य मेदभिन्ना । उभयविधा च न संभवति । न हि मुद्गराभिघातादिवत् कृत्स्नस्य प्रपञ्चस्य निवर्तकः कोऽपि दृश्यत इति दृष्टार्था न संभवति । नापि निष्पन्नस्य करणस्य कार्योत्पत्तावनुग्रहः संभवतिः अनुग्राहकांशसद्भावेन कृत्स्नप्रपञ्चनिवृत्तिरूपकरणस्वरूपासिद्धेः । ब्रह्मणोऽद्वितीयत्वज्ञानं प्रपञ्चनिवृत्तिरूपकरणशरीरं निष्पादयतीति चेत्-तेनैव प्रपञ्चनिवृत्तिरूपो मोक्षः सिद्ध इति न करणादिनिष्पाद्यमवशिष्यत इति पूर्वमेवोक्तम् । अभावरूपत्वे चाभावादेव न करणशरीरं निष्पादयति । नाप्यनुग्राहकः । अतो निष्प्रपञ्चब्रह्मविषयो विधिर्न संभवति ॥ अन्योऽप्याह - यद्यपि वेदान्तवाक्यानां न परिनिष्पन्न ब्रह्मस्वरूपपरतया प्रामाण्यम्, तथापि ब्रह्मस्वरूपं सिद्ध्यत्येव । कुतः । ध्यानविधिसामर्थ्यात् । एवमेव हि समामनन्ति, दूषितः । करणमितिकर्तव्यतां च दूषयति किञ्चेति । इतिकर्तव्यताया अभावं विवरितुमाह कथमिति । प्रतिवक्ति इत्थमिति । भावरूपत्वपक्षे द्वैविध्यमाह भावरूपा चेति । करणशरीरनिष्पत्तिः अवघातवत् प्रोक्षणवच्च दृष्टादृष्टार्थतया द्विधेति चाभिप्रेतम् । ततः किमित्यत्राह उभयविधेति । उभयविधा - निष्पादिका अनुग्राहिका च । निष्पादकपक्षे प्रथमं दृष्टार्थत्वे दूषणमाह न हीति । कृत्स्नप्रपश्च निवृत्तिरूपकरणशरीर निष्पादकाभावरूपा दृष्टार्था न संभवतीत्यर्थः । अदृष्टार्था अस्ति चेत् —— प्रपञ्चसत्यत्वप्रसङ्गः, अप्रामाणिकत्वं चेति स्फुटमिति न कण्ठोक्तम् । अथानुग्रहं दूषयति नापीति । तदसंभवमुपपादयति अनुग्राहकेति । अनुग्राहको हि करणानन्तरभावी; कृत्स्नप्रपश्चनिवृत्तिरूपकरणानन्तरमनुग्राहक स्तिष्ठति चेत् —करणमेव न सिद्धं स्यात् । यदा करणसिद्धिः, न तदानीमनुप्राहको विद्यत इत्यनुग्राहकासंभव इत्यर्थः । इतिकर्तव्यतासद्भावमुखेन करणसिद्धि शङ्कते ब्रह्मण इति । दूषयति तेनैवेति । करणादिनिष्पाद्यम् - करणनिष्पाद्यो नियोगः, नियोगनिष्पाद्यं फलमिति आदिशब्दार्थः । करणं चेत् — स्वकार्यकरं स्यात् । तदभावात् करणत्वमयुक्तमित्यर्थः । अथाभावरूपेतिकर्तव्यतां दूषयति अभावरूपत्व इति । अभावादेव - अभावरूपेतिकर्तव्यताया अप्रामाणिकत्वादेवेत्यर्थः । निवृत्तिरूपशमादीनां न अभावरूपेतिकर्तव्यतात्वम्; तेषां ज्ञाननिष्पादकत्वेन प्रपंश्चनिवृत्तिरूपकरण निष्पादकत्वायोगादिति भावः । अत्र अभावादेवेत्येवकारेण पूर्वमदृष्टार्थभावरूपेतिकर्तव्यतायाः अप्रामाणिकत्वस्याभिप्रेतत्वं गम्यते । दूषणमुपसंहरति-अत इति । विधिःनियोगः; निष्प्रपञ्चीकरणविषयो नियोग इत्यर्थः । अतः प्रवर्तकवाक्येनैव ब्रह्मखरूपसिद्धिरिति वक्तुं न शक्यमिति फलितम् ॥ 1 । अथ ध्याननियोगवादिपक्षमुपक्षिपति अन्योऽप्याहेति । ब्रह्मणि वेदान्तवाक्यानां स्वातन्त्र्येणं प्रामाण्याभावमङ्गीकृत्याह यद्यपीति । तर्हि कथं तत्सिद्धिरित्यत्राह तथापीति । व्याघाताभिप्रायेणाह कुत इति । हेतुमाह ध्यानविधीति । ध्यानविधिः कः ? तस्य सामर्थ्य कथमित्यत्राह एवमेव हीति । यथा वाक्यानां ध्यानपरत्वेऽपि परिनिष्पन्न सिध्यति, तथैवेत्यर्थः । ध्यानविधिवाक्यान्याह
66 १-१-४ समन्वयाधिकरणम् (ऐक्यध्यान विधिपक्षः) १४५ “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”, “घ आत्माऽपहतपाप्मासोऽन्वेष्टव्यः स विजिज्ञासितव्यः”, “आत्मेत्येवोपासीत”, ‘आत्मानमेव लोकमुपासीत” इति । अत्र ध्यानविषयो हि नियोगः स्वविषयभूतं ध्यानं ध्येयैकनिरूपणीयमिति ध्येयमाक्षिपति । स च ध्येयः स्ववाक्यनिर्दिष्ट आत्मा । स किंरूप इत्यपेक्षायां तत्स्वरूपविशेषसमर्पणद्वारेण " सत्यं ज्ञानमनन्तं ब्रह्म”, “सदेव सोम्येदमग्र आसीत्” इत्येवमादीनां वाक्यानां ध्यानविधिशेषतया प्रामाण्यमिति विधिविषयभूतध्यानशरीरानुप्रविष्टब्रह्मस्वरूपेऽपि तात्पर्यमस्त्येव । अतः आत्मा वा इति । ‘निदिध्यासितव्य इत्युपासनमुक्तम् ; (?) द्रष्टव्य इति तस्य दर्शनरूपत्वम् । विजिज्ञासितव्य इति सामान्यशब्दः । आत्मेत्यैक्योपासनमुक्तम् । आत्मानमिति स्वस्य जगतादात्म्योपासनम् । सामर्थ्य दर्शयति अत्रेति । ध्येयमाक्षिप्तमस्तु ; तत् ब्रह्मेति कथं ज्ञायत इत्यत्राह स च ध्येय इति । आकाङ्क्षायां संनिहितमेव योग्यं चेत्, तत् परित्यक्तुं न युक्तम् ; गामानयेत्यादिषु हि तथा दृष्टमिति भावः । स्वरूपमात्रप्रतिपादकानां कारणशोधकवाक्यानामपि विध्यपेक्षितसमर्पकत्वेनैव प्रामाण्यमित्याह स किंरूप इति । शोधितस्वरूपस्य ध्येयत्वात् सत्यादिवाक्यं प्रथममुपात्तम् । तदनुगुणार्थतया सदेवेति कारणवाक्यं पश्चादुदाहृतम् । ध्यान शरीरानुप्रविष्टेति । “अर्थेनैव विशेषो हि निराकारतया धियाम्” इति भावः । अस्त्येवेति । स्ववाक्यप्रतिपन्नस्खर्गादिफलविषयस्य ’ यस्मिन्नोष्णम्’ इत्यादिवाक्यस्येव विधिशेषतया प्रामाण्यमिति भावः । ध्येयब्रह्मखरूपं हि ध्यानशरीरानुप्रविष्टम् । प्रपञ्चमिथ्यात्वस्य ध्यानशरीरा
ननुप्रवेशात् कथं भेदनिषेधे तात्पर्यमित्यत्राह अत इति । अतः - विधिशेषभूतस्य सिद्धार्थे तात्पर्यसद्भावात् । अद्वितीय ब्रह्म ध्येयम् । भेदनिषेधश्रुतयश्च ब्रह्मणोऽद्वितीयत्वपराः ; ब्रह्मणोऽद्वितीयत्वमेव भेदमिथ्यात्वम् इति ध्यानशरीरानुप्रविष्टे 1 ध्यानविधित्वेन भाष्यदर्शितेषु वाक्येषु ध्यानविधायिपदानि दर्शयन् वैलक्षण्यमप्याह नीत्यादिना ।
ननु प्रथमवाक्ये निदिध्यासितव्य इत्यस्यैव विधायकत्वे द्रष्टव्य इति किमुच्यते । तदेवास्तु विधायकमित्यत्वाह, ‘द्रष्टव्य इति तस्य दर्शनरूपत्वम्’ इति । तस्य ध्यानस्य भावनाधेयवैशद्यस्य स्वयमेव संपद्यमानत्वात् तदेवानूद्यत इति भावः । तदुक्तं भामत्याम् (भा० प्र०) ‘न चौपनिषदात्मविषयं भावनाधेयवैशद्यं विधेयम्, तस्य उपासनाविधानादेव वाजिनवत् अनु’निष्पादित्वात्’ इति । द्वितीयवाक्ये सन्नन्तत्वसाम्यात् उत्तरत्वाच्च ध्यानमेव ज्ञाधातुनोच्यत इत्याह सामान्यशब्दः इति । दर्शनरूपत्वम् - विशदत्वम् । अथ ध्याननियोगनिर्मलीकृतमनोजन्येनात्मदर्शनेन मोक्षस्यैतत्पक्षे भाष्ये प्रपञ्चयिष्यमाणत्वात् द्रव्य इति पदं तद्दर्शनपरं किं न स्यादिति चेत्-अत एव भावप्रकाशिकायामेतट्टीकावाक्यं प्रक्षिप्तमिति भावितम्। फलभूतसाक्षात्कारपरत्वे तव्यप्रत्ययस्यात्यन्तास्वारस्यात् वैशद्याश्रयध्यानमेव विधानार्ह दृश्यर्थस्तन्मतेऽपि युक्त इत्याशयेनेदं वाक्यं प्रवृत्तमिति स्थितस्येह भावो भाव्यः । 2 ध्यानविधिबलात् ब्रह्मसिद्धिः प्रागुक्ता । सा कथम्, आत्मन एवात्रोक्तेति शंकायाम, ब्रह्मैवायमात्मेत्युपपादनस्य करिष्यमाणस्य शेषतयैव स चेति वाक्यं प्रवृत्तमिति ज्ञापनाय, ‘तत् ब्रह्मेति कथं ज्ञायते’ इत्यवतरणं कृतम् ! 2-19
१४६ श्रुतप्रकाशिकोपेते श्रीभाव्ये (तत्प्रतिक्षेपशङ्का) ‘एकमेवाद्वितीयम्’, ‘तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’, ‘नेह नानाऽस्ति किञ्चन’ इत्यादिभिर्ब्रह्मस्वरूपमेकमेव सत्यम्, तद्व्यतिरिक्तं सर्व मिथ्येत्यवगम्यते । प्रत्यक्षादिभिर्भेदावलम्बिना च कर्मशास्त्रेण भेदः प्रतीयते, भेदाभेदयोः परस्परविरोधे सति अनाद्यविद्यामूलत्वेनापि भेदप्रतीत्युपपत्तेः अभेद एव परमार्थ इति निश्चीयते । तत्र ब्रह्मध्याननियोगेन तत्साक्षात्कारफलेन निरस्तसमस्ताविद्याकृतविविधभेदाद्वितीयज्ञानैकर सब्रह्मभावरूप मोक्षः प्राप्यते । न च वाक्यात् वाक्यार्थज्ञानमात्रेण ब्रह्मभावसिद्धिः ; अनुपलब्धेः ; विविधभेददर्शनानुवृत्तेश्च । तथा च सति 1श्रवणादिविधानमनर्थकं स्यात् ॥ अथोच्येत - ‘रज्जुरेषा न सर्पः’ इत्युपदेशेन सर्पभयनिवृत्तिदर्शनात् रज्जुसर्पवत् बन्धस्य च (स्यापि ) मिथ्यारूपत्वेन ज्ञानबाध्यतया तस्य वाक्यजन्यज्ञानेनैव निवृत्तिर्युक्का, न नियोगेत । नियोगसाध्यत्वे मोक्षस्यानित्यत्वं स्यात्, स्वर्गादिवत् । मोक्षस्य नित्यत्वं हि सर्ववादिसंप्रतिपन्नम् । । मेदनिषेधे तात्पर्यमस्तीत्यर्थः । भेदग्राहिप्रमाणविरोधात् न शास्त्रमद्वितीयं ब्रह्म प्रतिपादयति, ‘आदित्यो यूपः’ इत्यादिवदिति शङ्कां परिहंतु प्रत्यक्षादिभिर्विरुद्धप्रतीतिमभ्युपगच्छति प्रत्यक्षादिभिरिति । शङ्कां परिहरति भेदाभेद योरिति । मेदप्रतीतेरन्यथासिद्धत्वादनन्यथा सिद्ध शास्त्र । व गतमैक्यं तात्त्विकमित्यर्थः । तर्हि———विषयः करणं प्रयोक्ता फलमित्यादि वक्तव्यम्, नियोगनिवर्त्यत्वे प्रपञ्चसत्यत्वप्रसङ्गः, नित्यप्राप्तत्वात् ब्रह्मभावो न फलमित्यत्राह तत्रेति । ध्याननियोगेनेति ध्यानस्य विषयत्वमुक्तम् । नियोगान्मोक्षश्चेत्, न ज्ञानान्मोक्ष इति शङ्कां व्युदस्यति तत्साक्षात्कारफलेनेति । नियोगस्योपायत्वं ज्ञानद्वारकमित्यर्थः । निरस्तेत्यादिना अविद्यानिवृत्तिः फलमित्युक्तम् । तदेव फलतया नियोज्यविशेषणम्, उपासकः प्रयोक्ता, शमादिः इतिकर्तव्यतेत्यादि अस्माकं सिद्धमिति भावः । वाक्यार्थज्ञानमात्रान्मोक्षवादिनं दूषयति न चेति । प्रत्यक्षविरोधमाह अनुपलब्धेर्विविधभेददर्शनानुवृत्तेश्चेति । शास्त्रविरोधमाह तथा च सतीति ॥ अथ साक्षान्मायावादिना ? स्वमतं पश्वाद्विवक्षता प्रथमं ध्याननियोगवादिपक्षप्रतिक्षेपमाशङ्कते अथोच्येतेति । बन्धस्य ज्ञानमात्रनिवर्त्यत्वं सोपपत्तिकमाह रज्जुरेषेति । निवर्त्यमिध्यात्वं ह्यभयसंमतम् । अत एव नियोगनैरपेक्ष्यमाह नेति । अन्यथाऽनिष्टमाह नियोगेति । मोक्षानित्यत्वस्य तदनिष्टतामाह मोक्षस्येति । / ६ 1 श्रवणादीति ।
ननु ध्यानविधिवैयर्थ्यमस्तु । श्रवणविधिवैयर्थ्य कथमिति चेन्न तत्त्वमसिवाक्यार्थज्ञानात् खतो जातादेव मुक्तिसिद्ध्या गुरुमुखाच्छ्रवणस्य वैयर्थ्यात् ; ज्ञानोदयकाले एव मुक्ततया उपदेशौपयिककरणाद्यभावेन कस्मादयं शृणुयादिति विधेरानर्थक्याश्चेति । 2 मायावादिनेत्यस्य प्रतिक्षेपेऽन्वयः । प्रतिक्षेपमाशंकते - प्रतिक्षेपप्रकारमाहेत्यर्थः । साक्षान्प्रायावादी ध्याननियोगवादिपक्षं प्रतिक्षिप्य स्वमतं वक्ष्पति । तत् भास्करपक्षञ्च खण्डयन् ध्याननियोगवादी स्वपक्षमुपसंहरिष्यति । अथ प्रधानपूर्वपक्षी पूर्व निष्प्रपञ्चीकरणनियोगवादिनमिव ध्याननियोगवादिनमपि निरस्य स्थास्यति ।
१-१४ समन्वयाधिकरणम् (मोक्षस्य नियोगासाध्यत्वम् ) १०७ किश धर्माधर्मयोः फलहेतुत्वं स्वफलानुभवानुगुणशरीरोत्पादनद्वारेणेति ब्रह्मादिस्थावरान्तचतुर्विधशरीर संबन्धरूप संसार फलत्वमन र्जनीयम् । तस्मान्न घर्मसाध्यो मोक्षः । तथा चे श्रुतिः, “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः” इति । अशरीरत्वरूपे मोक्षे धर्माधर्मसाध्यप्रियाप्रिय विरहश्रवणात् न धर्मसाध्यमशरीरत्वमिति विज्ञायते । न च नियोगविशेषसाध्यफलविशेषवत् ध्याननियोगसाध्यमशरीरत्वम् ; अशरीरत्वस्य स्वरूपत्वेनासाध्यत्वात् । यथाहुः श्रुतयः, “अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति”, “अप्राणो ह्यमनाः शुभ्रः”, “असङ्गो ह्ययं पुरुषः” इत्याद्याः । अतोऽशरीरत्वरूपो मोक्षो नित्य इति न धर्मसाध्यः । तथा च श्रुतिः, “अन्यत्र धर्मादन्यत्राधर्मादन्यत्नास्मात् कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्तत् पश्यसि तद्वद” इति ॥
अपिच - उत्पत्तिप्राप्तिविकृतिसंस्कृतिरूपेण चतुर्विधं हि साध्यत्वं मोक्षस्य न संभवति । न तावदुत्पाद्यः, मोक्षस्य ब्रह्मस्वरूपत्वेन नित्यत्वात् । नापि प्राप्यः, आत्मस्वरूपत्वेन ब्रह्मणो नित्यप्राप्तत्वात् । नापि विकार्यः, दध्यादिवत् अनित्यत्वप्रसङ्गादेव । नापि संकार्यः; संस्कारो हि दोषापनयनेन वा गुणाधानेन वा साधयति । न तावत् दोपापनयनेन; नित्यशुद्धत्वाद्ब्रह्मणः । नाप्यतिशयाधानेन; नियोगो विपरीतफलपदश्चेत्याह किश्चेति । द्वारेणेत्यन्तेन प्रसञ्जनीय सञ्जयोतिर्दर्शिता । अवर्जनीयमित्यन्तेन प्रसङ्गः । ततः किमित्यत्राह तस्मादिति । तस्मात् — संसार फलत्वप्रसङ्गात् । व्यापकस्य संसार फलत्वस्य निवृत्त्या व्याप्य धर्मसाध्यत्वञ्च निवृत्तमित्यर्थः । मोक्षस्याशरीररूपत्वश्रुत्या च नियोगासाध्यत्वमाह तथा चेति । अशरीरत्वरूपे मोक्षे धर्माधर्मफलरूपप्रियाप्रियसंबन्ध विरहश्रवणात् मोक्षस्य धर्मसाध्यत्वाभावः फलित इत्याह ’ इत्यशरीरत्वरूप इति । एवं नियोगसाध्यत्वे मोक्षस्य धर्माधर्मफलसंबन्धराहित्यश्रवणानुपपत्तिरिति श्रुत्यर्थापत्तिरुक्ता भवति । यथा नियोगविशेषस्य पानिवृत्तिः फलमुच्यते, तद्वत् नियोगविशेषस्य बन्धनिवृत्तिफलत्वं संभवतीत्यत्राह न चेति । नियोगविशेष-फल विशेषशब्दाभ्यां प्रायश्चित्तपापक्षपणे विवक्षिते । कुत इत्यत्राह अशरीरत्वस्येति । अशरीरत्वस्य स्वरूपत्वे श्रुतिमाह यथाहुरिति । अप्राण इति । प्रागमनस्संबन्धाभावादशरीरत्वं सिद्धम् । सशरीरस्य हि प्राणमनस्संबन्ध इति भावः । अतः अशरीरत्वस्यात्म स्वरूपत्वावगमादित्यर्थः । न केवलं कर्मफलसंबन्धविरहाद शरीरत्वस्य स्वाभाविकत्वाच्च नियोगसाध्यत्वाभावः सिद्धः, अपि तु कण्ठोक्तश्चेत्याह तथा च श्रुतिरिति । अन्यत्रधर्मात् — धर्मादन्यत्र - धर्मेण विना । अनेन धर्मसंबन्धराहित्यमुक्तम् । संबन्धश्च साध्यसाधनभाव इति भावः । अत्र कृताकृतशब्देन क्रियमाणमुच्यते ; भूतभव्यशब्दाभ्यां भूतभविष्यती । / मुखान्तरेण मोक्षस्य नियोगसाध्यत्वं दूषयति अपि चेति । साध्यत्वस्य वैविध्यं वदन् तदसंभवमाह उत्पत्तीति । मोक्षशब्देन किं निवृत्ताविद्यं खरूपं विवक्षितम्, उता विद्यानिवृत्तिरिति विकल्पे, स्वरूपस्य . विवक्षितत्वे चतुर्विधसाध्यत्वानुपपत्तिमाह न तावदित्यादिना । निवृत्तेरुत्पाद्यत्वेऽप्यविनाशित्वं प्रध्वंसाभावरूपत्वादिति वक्ष्यते । संस्कारो हीत्यादि । अत्र नित्यशुद्धशब्देन परमार्थदोषानन्वयोऽभिप्रेतः । नित्यशुद्धस्य निर्विशेषस्य वस्तुनो दोषापनयन — गुणाधानरूपसंस्कारविषयत्वं नित्यशुद्धत्वानाधेयाति- 1 इत्यशरीरत्वेति । अत्र इतीत्यस्य अधस्तात् श्रुतिरित्यत्त्रान्वयात् इतिकरणं विना प्रतीकधारणं युक्तम्, भा० प्र० । अपेक्षितत्वात् मध्यमणिम्यायेन उपर्यध्यन्धयाशयेन वा तथाग्रहणम् ।
१४८ (मात्मत्वाचा साध्यत्वम्) अनाधेयातिशयस्वरूपत्वात् । नित्यनिर्विकारत्वेन 1 स्वाश्रयायाः पराश्रयायाश्च क्रियाया अविषयतया न, निर्घर्षणेन आदर्शादिवदपि, संस्कार्यत्वम् । न च देहस्थया स्नानादिक्रियया आत्मा संस्क्रियते, किंतु अविद्यागृहीतस्तत्सङ्गतोऽहङ्कर्ता । तत्फलानुभवोऽपि तस्यैव । न चाहङ्कृतैवाऽऽत्मा; तत्साक्षित्वात् । तथा च मन्त्रवर्णः, “तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति” इति “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः”, “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च” । “स पर्यगाच्छुक्रमकायम - व्रणमस्नाविरं शुद्धमपापविद्धम् " इति च । अविद्यागृहीतादहङ्कर्तुरात्मस्वरूपमनाधेयातिशयं नित्वशुद्धं निर्विकारं निष्कृप्यते । तस्मादात्मस्वरूपत्वेन न साध्यो मोक्षः । शयत्वाभ्यां नास्तीत्युक्तम् । अथ क्रियाविषयत्वाभावात् संस्कारविषयत्वाभाव उच्यते नित्येत्यादिना । निर्विकारत्वेन क्रियाविषयत्वाभाव. 1 कथम् ? इत्थम् — यद्यत्क्रियाविषयभूतम्, तद्धि सविकारं दृष्टम् (मितिः) ॥ यदा दर्पणो हस्ततले निर्दृश्यते, तदा दर्पणाश्रया क्रिया; यदा दर्पणे पाणिर्निर्वृष्यते, तदा पाण्याश्रया क्रियेति स्वाश्रयपराश्रयक्रिययोर्दर्पणोदाहरणम् । क्रियाविषयत्वाभावेऽपि संस्कार्थत्वं दृष्टमित्यत्राह न चेति । तर्हि कः संस्क्रियत इत्यत्राह किंत्विति । अविद्यागृहीतः अविद्याकल्पितः । तेन अतिशयाधानानुगुणविकारित्वं सूचितम् । यद्वा अविद्यागृहीत इति शुद्धयशुद्धयादिभ्रमवत्तया शुद्धिसापेक्षत्वं दर्शितम् । अहर्तुरपि देहाद्विलक्षणत्वात् कथं देहगतस्नानादिभिस्तस्यातिशय इत्यत्राह तत्संगत इति । वत्सङ्गतः —— देहसङ्गतः । आत्मनः फलभोक्तृत्वात् स संस्कार्य इत्यत्राह तत्फलेति । फलभोक्ता अहमर्थध्येत् स एवात्मेत्यत्राह न चाहमिति । हेतुमाह तदिति । यो यस्य साक्षी, स हि न तद्भवतीति भावः । साक्षित्वे मानमाह तथा चेति । तयोरन्य इत्यादेरयमर्थः - अहङ्कारज्ञप्त्यात्मनोरेकः फलभोक्ता, अन्योऽनननिति । अहङ्कर्तेव भोक्तेति स्पष्टं दर्शयति आत्मेन्द्रियेति । आत्मा - देहः । देहादिसंबद्धस्य भोक्तृत्वादात्मनोऽशरीरत्वाप्राणत्वामनस्कत्वादिश्रवणात् अनननिति अभोक्तृत्वश्रवणाच्च भोक्तर्विलक्षण आत्मेत्यभिप्रायः । यद्वा आत्मशब्दः संविदात्मपरः । ततश्च तद्युक्तस्य भोक्तृत्वात् तस्य भोक्तृत्वं नास्तीत्यहङ्कारस्यैव मोक्तृत्वमित्यभिप्रायः । एको देव इत्यत्र केवलशब्देन फलान्वयराहित्यं विवक्षितमिति तस्यात्रोपयोगः । निर्गुणःअगुणवश्यत्वादभोक्तेत्यर्थः । साक्षी – अहङ्कारे व्याप्रियमाणे स्वयं साक्षिमात्रतयाऽवस्थानान्न भोक्तेति भावः । स पर्यगादिति । शुक्रम् - अविद्यारहितम्, वासनारहितं वा । शुद्धम् - अपापविद्धम् - कर्मफलरहितं कर्मरहितं च । पर्यगात् । गत्यर्थाः बुद्ध्यर्थाः ; अमन्यतेत्यर्थः । उदाहृतश्रुतिप्रतिपन्नाकारोपेतमात्मस्वरूपं वदति अविद्येति । अहङ्कर्तुर्निष्कृष्यत इत्यन्वयः । मुक्तेरसाध्यत्वं निगमयति तस्मादिति । 1 शांकरभाष्ये स्वाश्रय क्रियाविरहे निधिकारत्वं हेतुरुक्तम्; परक्रियां प्रत्यविषयत्वमेवोक्तम् ; न तु तत्र निर्विकारत्वस्य हेतुत्वमिति शंकितुराशयः । अथापि क्रियाया अविषयत्वं नाम क्रियाजन्यसंयोगाद्यनाश्रयत्यमेव । तत् उभयल भवत्येव, तत्र च निर्विकारत्वं हेतुतया वक्तव्यमेवेति अस्मद्भाष्ये संकलग्योक्तमिति समाधिः । यदेत्यादि विषयान्तरम् । 2 अभिचाकशीतिइति इत्यत्र वाक्यासमाप्तिः, इति चेत्यत्न वाक्यसमाप्तिः उपरि तदनन्वयश्च टीकायामवगम्यते । शाङ्करभाष्यगतिर्भाष्यार्थदर्पणे दर्शिता ।
च १-१-४ समन्वयाधिकरणम् (आत्मनोज्ञाना कर्मत्वम् ) १४९ यद्येवं किं वाक्यार्थज्ञानेन क्रियत इति चेत् — मोक्ष प्रतिबन्धनिवृत्तिमात्रमिति ब्रूमः 1 तथा श्रुतयः, “त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति”, “श्रुतं ह्येव मे भगवद्दशेभ्यः, तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि । तं मा भगवान् शोकस्य पारं तारयतु”, “तस्मैमृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः” इत्याद्याः । तस्मात् नित्यस्यैव मोक्षस्य प्रतिबन्धनिवृत्तिर्वाक्यार्थज्ञानेन क्रियते । निवृत्तिस्तु साध्याऽपि प्रध्वंसाभावरूपा न विनश्यति । “ब्रह्म वेद ब्रह्मैव भवति”, “तमेव विदित्वाऽति मृत्युमेति” इत्यादिवचनं मोक्षस्य वेदनानन्तरभावितां प्रतिपादयत् नियोगव्यवधानं प्रतिरुणद्धि । न च विदिक्रियाकर्मत्वेन वा ध्यानक्रियाकर्मत्वेन वा कार्यानुप्रवेशः; उभयविधिकर्मत्वप्रतिषेधात् । “अन्यदेव तद्विदितादथो अविदितादधि”, “येनेदं सर्वं विजानाति तं केन विजानीयात्” इति, “तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति च ॥ न चैतावता शास्त्रस्य निर्विषयत्वम्, अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हि इदन्तया ब्रह्म विषयीकरोति शास्त्रम् ; अपि तु अविषयं प्रत्यगात्मस्वरूपं प्रतिपादयत् अविद्याकल्पितज्ञानज्ञातृज्ञेयविभागं निवर्तयति । तथा च शास्त्रम्, “न दृष्टेर्द्रटारं पश्येः” इत्येवमादि । न च ज्ञानादेव बन्धनिवृत्तिरिति श्रवणादिविध्यानर्थक्यम् ; स्वभाव प्रवृत्त सकलेतरविकल्पविमुखीकरणद्वारेण वाक्यार्थावगति हेतुत्वात् तेषाम् । न च ज्ञानमात्रात् बन्धनिवृत्तिर्न स्टेति ज्ञानवैयथ्यं शङ्कते यद्येवमिति । परिहरति मोक्षेति । प्रतिबन्धनिवृतेरेव साध्यत्वं श्रुतिसिद्ध माह तथा चेति । प्रतिबन्धनिवृत्तेः साध्यत्वं निगमयति तस्मादिति । प्रतिबन्धनिवृत्तेः साध्यत्वेनानित्यत्वं स्यादित्यत्राह निवृत्तिस्त्विति । अयं परिहारो नियोगसाध्यत्वपक्षेऽपि तुल्य इति चेत्-न; नियोगसाध्यत्वे प्रपञ्च सत्यत्वं स्यादित्यभिप्रेतमित्युक्तत्वात् । नियोगसाध्यत्वपक्षे श्रुतिखारस्यहा निमाह ब्रह्मेति । श्रुतिस्वारस्यम् एवंविलम्ब न सहत इति भावः । कथं नियोगव्यवधानप्रतिरोधः, विधिशेषतया हि ब्रह्मणः सिद्धिः; तत्सिद्ध्यर्थं नियोगः स्वीकार्य इति शङ्कायां नियोगशेषत्वं विदिकर्मत्वेन ध्यानकर्मत्वेन चोभयथाऽपि न संभवतीत्याह न च विदीति । वेदनं ज्ञानम्; उपासनम् - ज्ञानविशेषः । अत्र वेदनशब्दो निष्प्रपञ्चीकरणज्ञानविशेषे विश्राम्यति ; विवक्षावशात् । अतो निष्प्रपञ्चीकरणनियोगवादस्यापि दूषणं फलितसू । विद्युपासिकर्मत्वाभावे श्रुतिमाह अन्यदिति । विदितात् ज्ञेयात् ; अविदितात् — ज्ञातुरित्यर्थः । अन्यदेवेति विदिकर्मत्वनिषेधः । तदेवेति ध्यानकर्मत्वनिषेधः । विदिकर्मत्वाभावे शास्त्रवेद्यत्वासिद्धधा शास्त्रस्य निर्विषयत्वमाशङ्कय परिहरति न चेति । ब्रह्म वेद’ः ‘ब्रह्मवित्’ इत्यादिभिर्ब्रह्मणो वेद्यत्वं प्रतीयत इत्यत्राह न हीदन्तयेति । इदन्तया - प्रमेयतया । अपि त्विति । प्रत्यगात्मत्वरूपं निर्विशेषमविषयतया प्रतिपादयतीत्यर्थः । शास्त्रस्य भेदनिवृत्तिपरत्वं दर्शयति तथाचेति । ज्ञानादेव बन्धनिवृत्तिश्चेत्, शास्त्रप्रत्यक्षविरोधः स्यादित्याशङ्कय, शास्त्रविरोधं तावत् परिहरति निःश्च ज्ञानादिति । श्रवणादिविध्यानर्थक्यमिति । श्रवणमननयोरपि विधेयत्वं पूर्वपक्षिणोक्तमिति न विरोधः । कुत इत्यत्राह स्वभावेति । स्वभावप्रवृत्तशब्देन अनादिप्रवृत्तत्वं विवक्षितम् । अथ प्रत्यक्ष विशेष परिहरति न च ज्ञानमात्रादिति । कथमित्यत्राह बन्धस्येति । कथं स्थित्यनुपपत्तिः ? बन्धो धनुवर्तत इति शङ्का, यस्य तु बन्ध इत्यादिना परिहरिष्यते । उक्तादेव हेतोःशरीरपातान
१५० श्रतप्रकाशिकोपेते श्रीभाष्ये (शांकरशंकानिरासः) वाच्यम् ; बन्धस्य मिथ्यारूपत्वेन ज्ञानोत्तरकालं स्थित्यनुपपत्तेः । अत एव न, शरीरपातादूर्ध्वमेच बन्धनिवृत्तिरिति वक्तं युक्तम् । न हि मिथ्यारूपसर्पभयनिवृत्तिः रज्जुयाथात्म्यज्ञानातिरेकेण सर्पविनाशमपेक्षते । यदि शरीरसंबन्धः पारमार्थिकः, तदा हि तद्विनाशापेक्षा । स तु ब्रह्मव्यतिरिक्ततया न पारमार्थिकः । यस्य तु बन्धो न निवृत्तः, तस्य ज्ञानमेव न जातमित्यवगम्यते ; ज्ञानकार्यादर्शनात् । तस्मात् शरीरस्थितिर्भवतु वा, मा वा वाक्यार्थज्ञानसमनन्तरं मुक्त एवासौ । अतो न ध्याननियोगसाध्यो मोक्ष इति न ध्यानविधिशेषतया ब्रह्मणः सिद्धिः, अपि तु “सत्यं ज्ञानमनन्तं ब्रह्म’, ‘तत्त्वमसि’, ‘अयमात्मा ब्रह्म” इति तत्परेणैव पदसमुदायेन सिध्यतीति ॥ ; तदयुक्तम् ; वाक्यार्थज्ञानमात्रात् बन्धनिवृत्त्यनुपपत्तेः । यद्यपि मिथ्यारूपो बन्धो ज्ञानवाध्यः, तथापि बन्धस्यापरोक्षत्वात् न परोक्षरूपेण वाक्यार्थज्ञानेन स बाध्यते । रज्ज्वादावपरोक्षसर्पप्रतीती वर्तमानायाम् - नायं सर्पो रज्जुरे पेत्याप्तोपदेशजनितपरोक्षसर्पविपरीतज्ञानमात्रेण भयानिवृत्तिदर्शनात् । आप्तोपदेशस्य तु भयनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्ष्य (क्ष) निमित्तप्रवृत्तिपेक्षत्वमाह अत एवेति । दृष्टान्तेनोपपादयति न हीति । दृष्टान्ते दर्शितमर्थं व्यतिरेकमुखेन दाष्टन्तिके विवृणोति यदीति । पारमार्थिकत्वविपर्ययमाह स त्विति । विप्रतिपन्नमपारमार्थिकम् ब्रह्मव्यतिरिक्तत्वात् शुक्तिरूप्यवदिति भावः । ज्ञानोत्तरकालस्थितिरनुपपन्ना चेत्; कथं बन्धस्यानुवृत्तिरित्यत्राह यस्य त्विति । - यस्य त्वनिवृत्तः –अनिवृत्त इति प्रतीतिः, तस्य ज्ञानमेव न जातम्, तत्कार्यादर्शनादिति । कार्याभावस्य कारणाभावमात्रव्याप्यत्वाभावेऽपि सामग्र्यभावव्याप्यत्वात् भ्रमनिवृत्ति प्रति तत्त्वज्ञानस्य सामग्रीत्वात् तदभावेन ज्ञानाभावः कल्प्यत इति न प्रत्यक्षविरोध इत्यर्थः । ज्ञानोत्पत्त्यनन्तरं बन्धनिवृत्ति निगमयति तस्मादिति । शरीरस्थितिर्भवतु वा मा वेति । दग्धपटे पटप्रतिभासवत् शरीरप्रतिभासोऽनुवर्तत वा, निवर्तेत वेत्यर्थः । सूक्त एवासाविति । बन्धस्य च्छिन्नमूलतया दग्धपटवत् अकार्यकर इति भावः । बन्धनिवृत्तेर्नियोगनैरपेक्ष्यसाधक हेतुभिः विधिशेषतया न ब्रह्मणः सिद्धिरित्याह अत इति । अतः वाक्यार्थज्ञानमात्रसाध्यत्वात् । तर्हि ब्रह्मणः कथं सिद्धिरित्यत्राह अपि त्विति । तत्परेणैवेति । भेदनिषेधपरैर्वाक्यैर्निर्विशेषतया सिद्ध्यतीत्यर्थः । यद्वा सिद्धरूपार्थपरेणैवेत्यथः । सिध्यतीति । ब्रझेत्यर्थलब्धम् ॥ एतत् ध्याननियोगवादी दूषयंति तदयुक्तमित्यादिना । कुत इत्यत्राह वाक्यार्थेति । प्रपञ्चमिथ्यात्ववादिना ज्ञानाद्बन्धनिवृत्त्यनुपपत्तिः कथमुच्यत इत्यत्राह यद्यपीति । ज्ञाननिवर्त्यत्वापगमेऽपि वैषम्यमाह तथापीति । परोक्षज्ञानस्यापरोक्षश्रमाबाधकत्वे दृष्टान्तमाह रज्ज्वादाविति । आदिशब्देन मूदलनादि गृह्णते । सर्पविपरीतज्ञानम् - रज्जुज्ञानम् । तेन भयानिवृत्तिश्चेत, आप्तोपदेशानर्थकथं स्यादित्यत आह आप्तोपदेशस्येति । अनेन प्रथमसूले, “प्रबलपमाणबाधितत्वेन भयादिकार्थं तु निवर्तते” इति भाष्यार्थो ज्ञायते । आप्तोपदेशस्य भयादिकार्यनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्ष्य- 1 1 यस्यत्वनिवृत्त इति अर्थानुवादः ; स्वयमेव पूर्व यस्य तु बन्ध इत्यनुवदनात् । ननिवृत्तइत्यस्य अनिवृत्तत्वेन प्रतीतिरिति विवरणार्थमेवमनुवादः । किमर्थ तथाविवरणमिति चेत् — उच्यते । अक्षुतोपनिषत्कस्य बन्धो निर्विवादः । श्रुतोपनिषत्केपु, यस्यतुबन्धो ननिवृत्त इत्युक्तौ कथं परैस्तत् ज्ञेयम् । मुक्तस्यापि सशरीरस्य नानाप्रवृत्तिदर्शनादनिवृत्यनुमानायोगात् । यस्य निवृत्त इति प्रतीतिर्नास्ति तस्येत्युक्तौ योगमने भंगः । अतोऽनिवृत्त इति प्रतीतिमान् ज्ञानरहित स्युच्यते । तज्ज्ञानञ्च संथा सद्व्यवहारादिना ।
१-१-४ समन्वयाधिकरणम् (शाब्दापरोक्षनिरासः) ६ १५१ हेतुत्वेन । तथा हि रज्जुसर्पदर्शनभयात् परावृत्तः पुरुषः, नायं सर्पः रज्जुरेवेत्यातोपदेशेन तद्वस्तुयाथात्म्यदर्शने प्रवृत्तः तदेव प्रत्यक्षण दृष्ट्वा भयान्निवर्तते । न च शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तं युक्तम् ; तस्यानिन्द्रियत्वात् । ज्ञानसामग्रीष्विन्द्रियाण्येव ह्यपरोक्षसाधनानि । न चायाभिसंहितफलंकर्मानुष्ठानमृदितक पायस्य श्रवणमनननिदिध्यासन विमुखीकृतवाह्य विषयस्य पुरुषस्य वाक्यमेवापरोक्षज्ञानं जनयति निवृत्त प्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्रीविशेषाणानिमित्तप्रवृत्तिद्वारकमिति हि तस्य भाष्यस्यार्थः । इममथे दृष्टान्ते दर्शयति तथा हीति । अस्त्वपरोक्षज्ञानमेव तादृशभ्रमविरोधि ; शब्द एवापरोक्षज्ञानं जनयतीत्याशङ्कयाह न चेति । हेतुमाह तस्येति । व्याप्तिं दर्शयति ज्ञानेति । न च अनिन्द्रियत्वेऽप्यालोकादेरपरोक्षज्ञानजनकत्वं दृष्टमिति हेतोर्व्यभिचारः; इन्द्रियप्रधानकज्ञानसामग्रय
ननुप्रविष्टत्वस्य विवक्षितत्वात् । एतच ज्ञानसामग्रीव्वित्यनेन सूचितम् । ज्ञानसामग्रीषु — सपरिकरासु इन्द्रियलिङ्गशब्दसदृशानुपपत्त्यनुपलब्धिष्वित्यर्थः । इन्द्रियाण्येवेति । आलोकादिसहकृतानीति शेषः । इन्द्रियमेव योगिनो व्यवहितादिकं ज्ञापयति, तथा विवक्षितपुरुषविशेषस्य वाक्यमपरोक्षज्ञानं जनयतीत्याशङ्कय परिहरति न चेति । अस्यपुरुषस्य । हेतुमाह निवृत्तेति । अनभिसंहितेत्यादिपदद्वयं हृदि निधाय विशेषणद्वयमाह निवृत्त प्रतिबन्धे तत्परेऽपीति । स्वविषयनियमातिक्रमादर्शनेनेत्यत्र विषयशब्दः साध्यपरः । स्वसाध्यज्ञानानतिक्रमदर्शनेनेत्यर्थः । शब्दसाध्यं ज्ञानं परोक्षमेव ; शब्दस्तु खसाध्यं परोक्षज्ञानं नातिक्रामतीति यावत् । मनसः परोक्षापरोक्षज्ञानसाधारण हेतुत्वात् शब्दस्य तु लिङ्गस्येव परोक्षज्ञानमात्र हेतुत्वान्न यो गिमनस्साम्यमिति भावः ॥
ननु शब्देनाप्यपरोक्षज्ञानं जायते, दशमस्त्वमसीति वावयेन दशमोऽहमित्यपरोक्षज्ञानोत्पत्तिदर्शनादिति ॥ तन्न; उपदेशानन्तरं शीघ्रभाविप्रत्यक्ष सामग्रीजन्येन ज्ञानेन पूर्वज्ञानस्य मेदाग्रहेण प्रत्यक्षत्वारोपात् । तदा हि उपदेशात्पूर्वभाविनवकपरिसङ्ख्यानजनित संस्करवशेनाविलम्बिता पपेक्षाबुद्धिर्जायते । यथा घटोऽयमित्युक्ते घटं पश्यतोऽपरोक्षप्रतीतिरिन्द्रियजन्या न तु घटोऽयमिति वाक्यजन्या ; वाक्यं तु आपरोक्ष्यनिमित्तचक्षुर्व्यापारहेतुः - तथा दशमस्त्वमसीति वाक्यं दशमोऽहमिति बुद्धिनिमित्तस्य पूर्ववासितापेक्षणीयवस्तु प्रतिसन्धानस्य हेतुः ; न त्वपरोक्षावभासहेतुः ; तत्तत्प्रतीतिसामग्रीव्यवहितस्य वाक्यस्य तत्तत्सामग्रीत्वाभावात् । विमतं प्रत्यक्षज्ञानं न वाक्यजन्यम्, प्रत्यक्षज्ञानत्वात् अनुपदिष्टवाक्यस्य दशमोऽहमिति प्रत्ययवत् । विमतं वाक्यं न प्रत्यक्षज्ञानजनकम्, वाक्यत्वात् संप्रतिपन्नवदिति । एवं सामग्रीशैघ्र येणान्यथासिद्ध्या परिहारो वस्तुयाथात्म्यापरोक्ष्यनिमित्तप्रवृत्तिहेतुत्वेनेति भाष्येणाभिप्रेतः । न च वाक्यजन्येऽपि ज्ञाने विशेष्यभूताहमर्थप्रत्यक्षतामात्रेण विशिष्टानुप्रविष्टविशेषणांशस्यापि प्रत्यक्षतेति वाच्यम् (?) । अहंसमानाधिकृतशब्दोल्लिखितप्रतीतेर परोक्षत्वनियमश्च नास्ति ; सुखदुःखाद्यनुमित पुण्यपापस्य पुरुषस्य पुण्यकृदहं पापकृदहमित्यादिप्रतीतेः पुण्यपापयोरापरोक्ष्यादर्शनात् । धर्मिप्रत्यक्षतामात्रेण धर्मप्रत्यक्षत्वे, लैङ्गिके पर्वतोऽग्निमानिति ज्ञाने अमेरपि 1 विवक्षितत्वादिति । अनिन्द्रियत्वादिति हेतुपदेनेति शेषः । 2 एको हिशब्दों हेत्वर्थकः ; अन्यः प्रसिद्धौ । 3 वाच्यमित्येतदनन्तरं शब्दजन्यज्ञानस्याहमर्थाशेऽपि प्रत्यक्षत्वानंगीकारादिति पूरणीयम् ।
१५२ श्रुतप्रकाशिकीगतेश्रीभाष्ये (ध्यानस्यशाब्दज्ञानाहेतुत्वम्) मिन्द्रियादीनां स्वविषयनियमातिक्रमादर्शनेन तदयोगात् ॥ ः न च ध्यानस्य वाक्यार्थज्ञानोपायता; इतरेतराश्रयत्वात् वाकयार्थज्ञाने जाते तद्विषयध्यानम्, ध्याने निर्वृत्ते वाक्यार्थज्ञानमिति । न च ध्यानवाक्यार्थज्ञानयोर्भिन्नविषयत्वम् ; तथा सति ध्यानस्य वाक्यार्थज्ञानोपायतो न स्यात् । न ह्यन्यध्यानमन्योन्मुख्यमुत्पादयति । ज्ञातार्थस्मृतिसंततिरूपस्य ध्यानस्य वाक्यार्थज्ञानपूर्वकत्वमवर्जनीयम् ; ध्येयब्रह्मविषयज्ञानस्य हेत्वन्तरासंभवात् । न च ध्यानमूलं ज्ञानं वाक्यान्तरजन्यम्, निवर्तकज्ञानं तत्त्वमस्यादिवाक्यजन्यमिति युक्तम् । ध्यानमूलमिदं वाक्यान्तरजन्यं ज्ञानं तस्वमस्यादिवाक्यजन्यज्ञानेनैकविषयम्, भिन्नविषयं वा । एकविषयत्वे, तदेवेतरेतराश्रयत्वम् । भिन्नविषयत्वे, ध्यानेन तदौन्मुख्यापादनासंभवः । किञ्च ध्यानस्य ध्येयध्यात्राद्यनेकप्रपञ्चापेक्षत्वात् निष्प्रपञ्चब्रह्मात्मैकत्वविषयवाक्यार्थज्ञानोत्पत्ती द्वारेण नोपयोग इति बाक्यार्थज्ञानमात्रादविद्यानिवृत्ति वदतः श्रवणमनननिदिध्यासनविधीनामानर्थक्यमेव ॥ यतो वाक्यादा परोक्ष्यज्ञानासंभवात् वाक्यार्थज्ञानेनाविद्या न निवर्तते, तत एव जीवन्मुक्तिरपि दूरोत्सारिता । का चेयं जीवन्मुक्तिः । सशरीरस्यैव मोक्ष इति चेत्-माता मे वन्ध्येतिवत् असङ्गताथै वचः यतः सशरीरत्वं बन्धः, अशरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुपपादितम् । प्रत्यक्षत्वप्रसङ्गः । तदेतदखिलं स्वविषयनियमातिक्रमादर्शनेन तदयोगादित्यत्रा मिप्रेतम् । एवं शब्दस्यापरोक्षज्ञानहेतुत्वं दूषितम् । अथ ध्यानस्य वाक्यार्थज्ञानोपायतामन्योन्याश्रयणेन स्वयति न चेत्यादिना । अन्योन्याश्रयण परिहाराय ध्यानपूर्व भाविज्ञानमर्थान्तरविषयम्, पाश्चात्यज्ञानमर्थान्तरविषयमिति भिन्नविषयताश्रयणमयुक्तमित्याह न च ध्यानेति कुत इत्यत्राह तथा सतीति । कथमुप्रायत्वहानिरित्यत्राह न धन्यध्यानमिति । एकविषयत्वेऽपि निवर्तकस्य वाक्यार्थज्ञानस्य ध्यानापेक्षा स्यात्; ध्यानस्य वाक्यार्थज्ञानापेक्षा कथमित्यत्राह ज्ञातार्थेति । ध्यानहेतुभूतं ज्ञानं हेत्वन्तरजन्यम्, न तु ध्यानं पश्चाद्भाविवाक्यजन्यज्ञानमूलमित्येवं ध्यानवाक्यार्थज्ञानयोः सामग्रीभेदेनान्योन्याश्रयण परिहारमाशङ्कय सामग्रीभेद्रो न संभवतीत्याह ध्येयेति । हेत्वन्तरासंभवात् — ब्रह्मणः प्रत्यक्षाद्यगोचरत्वादिति भावः । तत्परिहाराय वाक्यभेदमाशङ्कय तथा वाक्तुमयुक्तमित्याह न चेति । विकल्प्य दूषयति ध्यानमूलमिति । एकविषयत्वे तदेवेतरेतराश्रयत्वमिति । वाक्यान्तरेण ज्ञानोत्पत्तौ तस्य तत्त्वमसिवाक्यजन्यज्ञानतुल्यविषयत्वात् तस्यापि ज्ञानस्य निदिध्यासनापेक्षा स्यात्, ध्यानस्य च वाक्यार्थज्ञानापेक्षा स्यादित्यन्योन्याश्रयणमित्यर्थः । वाक्ययोर्भिन्नविषयत्वे दूषणमाह भिनेति । ध्यानस्य च वाक्यर्थज्ञानविरोधित्वमेवेत्याह किश्चेति । ध्यात्रादीत्यादिशब्देन शमादिर्गृझते । दृष्टद्वारेणेति । अदृष्टद्वारेणोपयोगस्तु अत्यन्तभीरुभिः परैर्निरसनीयद्वैतवासनायाः सत्यत्वप्रसङ्गभयात् परित्यक्त इति ध्याननियोगवा - दिनोऽभिप्रायः । वाक्यार्थज्ञानमात्रादविद्यानिवृत्तिनिरासेन जीवन्मुक्तिनिरासः सिध्यतीत्याह यत इति । दूरोत्सारिता । वाक्यादपरोक्षज्ञानसंभवेऽपि व्याघातादिना जीवन्मुक्तिरुत्सारिता; वाक्यादा परोक्ष्यासंभवात् दूरोत्सारितेति भावः ॥ का चेयमिति । किंशब्दः क्षेपे । विकल्पाभिप्रायेण प्रश्नपरो वा । तत्स्वरूपं शङ्कते सशरीरस्येति । व्याहतिमाह मातेति । व्याइतिमुपपादयति यत इति । व्याहतिपरिहारार्थ 1 CC-0ः Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham ः१-१-४ समन्वयाधिकरणम् (अद्वैतिनैव जीवन्मुक्तिनिरासः) . १५३ अथ सशरीरत्वप्रतिभासे वर्तमाने यस्य अयं प्रतिभासो मिथ्येति प्रत्ययः, तस्य सशरीरत्वनिवृत्तिरिति - न । / मिथ्येतिप्रत्ययेन सशरीरत्वं निवृत्तं चेत्-कथं सशरीरस्य मुक्तिः । अजीवतोऽपि मुक्तिः सशरीरत्वमिथ्याप्रतिभासनिवृत्तिरेवेति कोऽयं जीवन्मुक्तिरिति विशेषः । अथ सशरीरत्वप्रतिभासो वाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते, स जीवन्मुक्त इति चेत् — न ; ब्रह्मव्यतिरिक्त सकलवस्तुविषयत्वाद्वाधकज्ञानस्य, कारणभूता विद्याकर्मादिदोषः सशरीरत्वप्रतिभासेन सह तेनैव बाधित इति वाधितानुवृत्तिर्न शक्यते वक्तम् । द्विचन्द्रादौ तु तत्प्रतिभासहेतुभूतदोषस्य वाधकज्ञानभूतचन्द्रैकत्वज्ञानाविषयत्वे नाबाधितत्वात् द्विचन्द्रप्रतिभासानुवृत्तिर्युक्ता । 1 । किञ्च, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये । अथ संपत्स्ये” इति सद्विद्यानिष्ठस्य शरीरपातमात्रमपेक्षते मोक्ष इति वदन्ती इयं श्रुतिर्जीवन्मुक्तिं वारयति । सैषा जीवन्मुक्तिः आपस्तम्बेनापि निरस्ता - 1”… वेदान् इमं लोकममुञ्च परित्यज्याऽऽत्मानमन्विच्छेत्”, “बुद्धे क्षमप्रापणम्”, तन्मतं शङ्कते अथेति । सशरीरत्वनिवृत्तिरिति निर्देशेन सशरीरत्वस्य छिन्नमूलता जीवन्मुक्तिवादिना अभिप्रेता । दूषयति नेति । शरीरस्य सत्यत्वानभ्युपगमात् तस्य प्रध्वंसरूपा स्वरूपनिवृत्तिरनभिमता; अतः प्रतिभासनिवृत्तिर्वा " प्रतिभासतात्त्विकताभिमाननिवृत्तिर्वा विवक्षिता स्यादित्यभिप्रायेण प्रथमं कल्पमनूच अभिमतासिद्ध्या दूषयति मिथ्येतीति । सशरीरत्वम् – सशरीरत्वप्रतिभासः । अनन्तरग्रन्थे प्रतिभासनिर्देशात् । कथं सशरीरस्य मुक्तिरिति । न सशरीरस्य मुक्तिरुक्ता स्यादित्यर्थः । तदेवोपपादयति अजीवतोऽपीति । मिथ्याप्रतिभासशब्देन भ्रान्तिज्ञानं विवक्षितम् । जीवदजीवन्मुक्त्योर्विशेषाभावात्र सशरीरस्य मुक्तिरुक्ता स्यादित्यर्थः । द्वितीयं शिरः शङ्कते अथेति । अत्र पूर्व सशरीरत्वप्रतिभासे वर्तमान इत्यादिग्रन्थाभिप्रेतार्थो विवृतो भवति । दूषयति नेति । कथमित्यत्राह ब्रह्मेति । अविद्याकर्मादीति आदिशब्देन वासना गृह्यते । तेनैव बाधितः - बाधकज्ञानेन बाधित इत्यर्थः । दिचन्द्रज्ञानादौ हि बाधितानुवृत्तिर्दृष्टेत्यत्राह द्विचन्द्र [ज्ञान] दाविति । न हि रज्जुयाथात्म्यज्ञानेन शुक्तौ रजतभ्रमो निवर्तत इति भावः । प्रथमसूत्रे बाधितानुवृत्तिनिराकरणे दोषस्य पारमार्थिकत्वेन ज्ञानवाध्यत्वाभावात् श्रमानुवृत्तिरुक्ता ; अत्र तु चन्द्रैकत्वज्ञानाविषयत्वेन दोषस्याबाधितत्वात् द्वि[चन्द्र ]त्वज्ञानानुवृत्तिरुक्तेति भिदा । जरन्मायावादिनोऽपि कृत्स्नमिथ्यात्वस्याभ्युपगतत्वात् एवं वैषम्यमुक्तम् ॥ जीवन्मुक्तेः श्रुतिविरोधमाह किश्चेति । स्मृतिविरोधमाह सैषेति । वेदशब्देन त्रिवर्गसाधनकर्माण्युच्यन्ते । तत्फलमुच्यते इमं लोकममुं चेति । बुद्धे – वाक्यार्थज्ञाने जाते सति । क्षेमप्रापणम् - मोक्षः । तच्छास्त्रैर्विप्रतिषिद्धम् । शास्त्रैरिति बहुवचनस्यायं भावः — वाक्यार्थज्ञानोत्तर भान्युपासनविधिपरैः, “एवं वर्तयन् यावदायुषम्” इत्याप्रयाणादनुवृत्तिपरैः, मोक्षस्य शरीरपातमात्र सापेक्षत्वपरैः, “तयोर्ध्वमायन् अमृतत्वमेति” इति नाडीविशेषनिष्क्रमणपरैः, अर्चिरादिमार्गेण देशविशेषप्राप्तिपरैश्वानेकैः शास्त्रैर्विरोध इति । विप्रतिषिद्धमिति । विशेषेण 1 । 1 वेदानिति न सूत्रारम्भः । एतदापस्तम्बीयार्थविमर्शो भाष्यार्थदर्पणे द्रष्टव्यः । 2 प्रतिभासे वर्तमाने मिथ्येति प्रत्ययो जायताम् । तदनन्तरं पूर्वप्रतिभासो नानुवर्तते, अनुवर्तते वेति विकल्पमभिप्रेत्याह प्रतिभासेति । नञ् तालकोशे । 2-20 3
१५४ श्रुतप्रकाशिकोपेते श्रीमान्ये (नियोगात् साक्षात्कारः) “तच्छास्त्रैर्विप्रतिषिद्धम्”, “बुद्धे चेत् मप्रापणम्, इहैव न दुःखमुपलभेत ।”, “एतेन परं व्याख्यातम्” इति । अनेन ज्ञानमात्रान्मोक्षश्च निरस्तः । अतः सकलमेदनिवृत्तिरूपा मुक्तिजीवतो न संभवति । तस्मात् ध्याननियोगेन ब्रह्मापरोक्षज्ञानफलेनैव बन्धनिवृत्तिः । न च नियोगसाध्यत्वे मोक्षस्यानित्यत्वप्रसक्तिः ; प्रतिवन्धनिवृत्तिमात्रस्यैव साध्यत्वात् । किञ्च न नियोगेन साक्षात् बन्धनिवृत्तिः क्रियते, किन्तु निष्प्रपञ्चज्ञानैकरसब्रह्मापरोक्ष्यज्ञानेन । नियोगस्तु तदापरोक्ष्यज्ञानं जनयति ॥ कथं नियोगस्य ज्ञानोत्पत्तिहेतुत्वमिति चेत्–कथं वा भवतोऽनभिसंहितफलोनां कर्मणां वेदनोत्पत्तिहेतुत्वम् १ ॥ मनोनैर्मल्यद्वारेणेति चेत्-ममापि तथैव ॥ मम तु निर्मले मनसि शास्त्रेण ज्ञानमुत्पाद्यते । तव तु नियोगेन मनसि निर्मले ज्ञानसामग्री वक्तव्येति चेत्ध्याननियोगनिर्मलं मन एव साधनमिति ब्रूमः ॥ केनावगम्यत इति चेत् भवतो वा कर्ममिर्मनो निर्मलं भवति । निर्मले मनसि श्रवणमनननिदिध्यासनैः सकलेतर विषय विमुखस्यैव शाखं निवर्तकज्ञानमुत्पादयतीति केनावगस्यते ॥ “विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन”, " श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”, “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिभिः शास्त्रैरिति चेत्प्रतिषिद्धम् । न तुल्यबलैः प्रतिरुद्धम् ; अपितु प्रबलैः पराहतम् । प्राबल्यञ्च, भूयसां स्यात् बलीयस्त्वम् (सघर्मत्वम् ) " इति न्यायादिति भावः । प्रत्यक्षविरोधमपि स्मृतिरेवाह बुद्धे चेदिति । एतेन परं व्याख्यातम् । एतेन शास्त्रप्रत्यक्षविरोधेन, औडुलो मिमतानुसारेणोक्तमन्यदपि व्याख्यातम् ; सर्वमप्यपास्त मित्यर्थः । यद्वा यथेदानीं दुःखोपलब्धिः, तथा प्रेत्यापीत्यर्थः । यद्वा-यथा दुःखनिवृत्तिर्नोपलभ्यते तथा सुखनिवृत्तिरपि नेत्यर्थः । जीवन्मुक्तिनिरासार्थमुदाहृतेन वचनेन वाक्यार्थज्ञानमात्रान्मोक्षश्चार्थान्निरस्त इत्याह अनेनेति । जीवन्मुक्तिनिरासमुपसंहरति अत इति । 1 G& जीवन्मुक्तिनिरासेन खमत स्थैर्यसिद्धिमाह तस्मादिति । वाक्यार्थज्ञानमात्रान्मोक्षवादिनोक्तः चोद्यपरिहारो ममापि तुल्य इत्याह न च नियोगेति । नियोगनिवर्त्यत्वे प्रपञ्चसत्यत्वं स्यादित्याशङ्कयाह किश्चेति । ध्याननियोगपक्षानुपपत्तिपरिहारस्य विवक्षितत्वात् किश्वशब्दप्रयोगः । नियोगस्य निवर्तकत्वं ज्ञानद्वारकमिति न निवर्त्यसत्यत्वमित्यर्थः । नियोगंस्य ज्ञानोत्पत्तौ किञ्चित्कार बुभुत्सया पृच्छति कथमिति । न खलु ज्ञाने दृष्टः किञ्चत्कारो नियोगेन संभवति ; अतः स वक्तव्य इति भावः । प्रतिबन्धा परिहरति कथं वेति । वेदनोत्पत्तिहेतुत्वमिति । इच्छाद्वारा वेदनोत्पत्तिहेतुत्वमभिप्रेतम् । ‘विविदिषन्ती ‘ति ह्युदाहरिष्यते । परिहारं शङ्कते मन इति । तत्साम्यमाह ममापीति । पुनराशङ्कते ममत्विति । मनो हि साधारणकारणम् । तस्मिन् सत्ययि असाधारणकारणमपेक्षितम् ; तन्ममास्ति ; स्वया वक्तव्यमिति चेदित्यर्थः । वैशेषिकाद्यभिमतमानसप्रत्यक्ष इव, प्रकृष्टादृष्टसहकृतमनोमात्र कारणके “तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यसि” इत्यादिसिद्धे योगिप्रत्यक्ष इव च मन एवासाधारणकारणमिति परिहरति ध्यानेति । मनोमात्रस्य साधारणकारणत्वेऽपि निर्मलतरस्य मनोविशेषस्यासाधारणकारणत्वं युक्तमिति भावः । तज्ज्ञापक प्रश्न (?) शङ्कते केनेति । ज्ञापकस्वारस्यलक्षणं स्वपक्षे वैषम्यं दर्शयितुं पृच्छति भवतो वेति । निदिध्यासनेन विषयविमुखीकृतमनस्कस्य शास्त्रेण निवर्तकज्ञानोत्पत्तौ प्रमाणतया पराभिमतानि श्रतिवाक्यानि शङ्कते विविदिषन्तीति । ‘ब्रह्म वेद ब्रह्मैव भवति’ इति वेदनशब्देन (१) प्रश्नमिति पाठे द्वितीयान्तमिदं शंकाक्रियाविशेषणम् । प्रश्नाभिन्ना शंका ।
१-१-१ समन्वयाधिकरणम् (ब्रह्मण उपास्वत्वसंभवः) १५५ ममापि ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, ‘ब्रह्मविदाप्नोति परम्’, ‘न चक्षुषा गृह्यते नापि पावा’, ‘मनसा तु विशुद्धेन”, ‘हृदा मनीषा मनसा ऽभिकुलप्तः’ इत्यादिभिः शास्त्रैःध्याननियोगेन मनो निर्मलं भवति ; निर्मलं च मनो ब्रह्मापरोक्षज्ञानं जनयतीत्यवगम्यत इति निरवद्यम् ॥ " नेदं यदिदमुपासते " इत्युपास्यत्वं प्रतिषिद्धमिति चेत् - नैवम् । नात्र ब्रह्मण उपास्यत्वं प्रतिषिध्यते, अपि तु ब्रह्मणो जगद्वैरूप्यं प्रतिपाद्यते । यदिदं जगदुपासते प्राणिनः, नेदं ब्रह्म ; तदेव ब्रह्म त्वं विद्धि, यहाचाऽनभ्युदितं येन वाक् अभ्युद्यत इति वाक्यार्थः । अन्यथा–तदेव ब्रह्म स्वं विद्वीति विरुद्धयते । ध्यानविधिवैयर्थ्य च स्यात् । अतो ब्रह्मसाक्षात्कारफलेन ध्याननियोगेनैवापरमार्थभूतस्य कृत्स्नस्य द्रष्टृदृश्यादिप्रपञ्चरूपवन्धस्य निवृत्तिः ॥ यदपि कैश्चिदुक्तम् — भेदाभेदयोर्विरोधो न विद्यत इत्ति - तदयुक्तम् ; न हि शीतोष्ण तमःप्रकाशादिवत् भेदाभेदौ एकस्मिन् वस्तुनि संगच्छेते । अथोच्येत - सर्व हि वस्तुजातं प्रतीतिव्यवस्थाप्यम्; सर्व च भिन्नाभिन्नं प्रतीयतेणात्सना जात्यात्मना चाभिचर, कार्यात्सना व्यक्त्यात्मना च भिन्नम् । छायातपादिषु विरोधः वाक्यार्थज्ञानं विवक्षितमिति पराभिप्रायः । मनसो ज्ञानसाधनत्वे प्रमाण दर्शयति ममापीति । न चक्षुषेत्यादिवाचयं मनस एव साधनत्वे खरसम् । ब्रह्म वेदेत्यत्र वेदशब्दस्य वाक्यार्थज्ञानपरत्व तु न.. स्वरसतः प्रतीयते । न च श्रुत्यन्तरैकार्थेन तत्परत्वावगमः, वाक्यार्थज्ञानस्योपायत्व कण्ठोक्किमच्छत्यन्तराभावादित्यभिप्रेतम् । मिध्यात्व निबन्धनाः सर्वे चोद्यपरिहाराः समानाः । परोक्षज्ञानस्याप्यपरोक्षश्रमनिवर्तकत्वं शास्त्र प्रत्यक्षविरोधौ श्रुतिस्वारस्यहानिश्च भवतां पक्षेऽधिकं दूषणमिति वैषम्यज्ञापनाय कथमित्यादिना प्रतिबन्दीमुखेन तत्तच्छङ्कापरिहारः कृतः । इतिशब्दो नानन्तरवाक्यशेषः ; अपि तु प्रकरणशेषः । ‘उपास्यत्वप्रतिषेधं शङ्कते नेदमिति । परिहरति नैवमिति । सस्य वाक्यस्यैव निर्वाहो न युक्त इत्यर्थः । उपास्यत्वनिषेधः प्रतीयत इत्यत्राह नात्रेति । कस्तीर्थ इत्यत्राह अपि त्विति । कथं वैरूप्यप्रतिपादनमित्यत्राह यदिदमिति । ‘यदिदमुपासते’ इत्यत्र इदमंशे निषेधस्य तात्पर्यमिति भावः । ‘मनो ब्रह्मेत्युपासीत’ इत्यादिना विहितप्रतीकोपासनोपास्यानि हि परिच्छिन्नानि ; नेदं ब्रह्म । किन्त्वपरिच्छिन्न तदेव परं ब्रह्मेत्यर्थः । अनेन " अन्यदेव तद्विदितात्” इत्यादिकमपि जगद्वैरूप्यपरमिति व्याख्यातं. भवति । यत् चाचा अनभ्युदितम् वक्तुमशक्यम्, अपरिच्छिन्नम् । अन्यथेति स्ववाक्यविरोध उक्तः । ध्यानविधिवैयर्थ्यमिति वाक्यान्तरविरोध उक्तः । खपक्षमुपसंहरति अत इति ॥ 1 अथायमेव ध्याननियोगवादी भास्करमतं दूषयितुं’ तदभिमतं भेदाभेदाविरोधमनुवदति यदपीत्यादिना । प्रथमं सङ्क्षेपेण दूषयति तद्युक्तमिति । नियमेन भिन्नाधारत्वलक्षणः सहानवस्थानलक्षणश्चेति विरोधो द्विघा । आदिशब्देन तृणदहनादेखि नाश्यनाशकमावो विवक्षितः । तद्वत् भेदाभेदयोरपि विरोधोऽस्तीत्याह न हीति ॥ अथ मेदाभेदमतं विस्तरेण प्रस्तौति अयोच्येतेति । वक्ष्यमाणौपयिकमर्थं शिक्षयति सर्वे हीति । शीतोष्णादिष्वपि विरोधः प्रतीत्यवीन इति भावः । ततः किमित्यत्राह सर्व चेति । कथं भिन्नाभिन्नत्वमित्यत्राह कारणात्मनेति । पूर्वोकद्विविधविरोधोपलम्मस्थलनैरूप्यं वक्तुमाद छायेति । 1 भास्करमतदूपणासक्तिः केति चेत्-एतन्मतखण्डनारम्भे भाष्य एव 159. पुढे स्पष्टुं निर्देक्ष्यते ।
१५६ श्रतप्रकाशिकोपेते श्रीभाष्ये (भास्करीयमेदाभेदतत्त्वम् ) सहानवस्थानलक्षणो भिन्नाधारत्वरूपश्च । कार्यकारणयोर्जातिव्यक्त्योश्चं तदुभयमपि नोपलभ्यतेः । प्रत्युत एकमेव वस्तु द्विरूपं प्रतीयते । यथा ‘मृदयं घटः’, ‘खण्डो’ गौः मुण्डो गौः इति । चैकरूपं किञ्चिदपि वस्तु लोके दृष्टचरम् । न च तृणादेर्ज्वलनादिवत् अभेदो भेदोपमद दृषंशत इति न वस्तुविरोधः ; मृत्सुवर्णगवाश्वाद्यात्मनाऽवस्थितस्यैव घटमुकुटखण्डबडबाद्यात्मना चावस्थानात् । न चाभिन्नस्य भिन्नस्य च वस्तुनो भेदोऽभेदश्चैक एवाऽऽकार इतीश्वराशा । प्रतीतत्वादैकरूप्यं चेत्-प्रतीतत्वादेव भिन्नाभिन्नत्वमिति द्वैरूप्यमप्यभ्युपगम्यताम् । न हि विष्फारिताक्षः पुरुषो घटशरावखण्डमुण्डादिषु वस्तुषूपलभ्यमानेषु — इयं मृत् अयञ्च घटः, इदं गोत्वम् इयं च व्यक्तिः इति विवेक्तुं शक्नोति ; अपितु हृदयं घटः, खण्डो गौरित्येव प्रत्येति ॥ अनुवृतिबुद्धिबोध्यं कारणमाकृतिश्च, व्यावृत्तिबुद्धिवोध्यं कार्य व्यक्तिश्चेति विविनतीति चेत् — नैवम् ; विविक्ताकारानुपलब्धेः । न हि सुसूक्ष्ममपि निरीक्षमाणैः -इदमनुवर्तमानम्, इदं च व्यावर्तमानमिति पुरोऽवस्थितें वस्तुन्याकारभेद उपलभ्यते । यथा संप्रतिपन्नैकये कार्ये, विशेषे चैकत्वबुद्धिरुपजायते -तथैव सकारणे, ससामान्ये चैकत्ववुद्धिरविशिष्टशेपजायते । एवमेव देशतः कालंतश्चाऽऽकारतश्चात्यन्त विलक्षणेष्वपि वस्तुषु, तदेवेदमिति प्रत्यभिज्ञा जायते । अतो द्वयात्मकमेव वस्तु प्रतीयते इति कार्यकारणयोर्जा तिव्यक्तयोश्चात्यन्तभेदोपपादनं प्रतीतिपराहतम् । ततः किमित्यत्राह कार्येति । भविरोधेनोपलब्धिमाह प्रत्युतेति । उपलब्धिमभिनयेन दर्शयति यथेति । अद्विरूपवस्त्वनुपलब्धिमाह न चेति । नाश्यनाशकत्वलक्षणस्तृतीयोऽपि विरोधो नास्तीत्याह न च वृणादेरिति । वस्तुविरोधशब्देन नाश्यनाशकलक्षणविरोधो विवक्षितः । तादृशंविरोधाभावमुपपादयति मृत्सुवर्णेति । जातिगतोऽभेदो व्यक्तिगतश्च भेद इति कथमेकस्य भेदाभेदाविति शङ्कायां जातिव्यक्त्योः परस्परभेदाभेदमुपपादयति न चाभिन्नस्येति । अभिन्नस्य - जातेः, भिन्नस्य ——— व्यक्तेरित्यर्थः । जातेरभेद एवाकारः, व्यक्तेर्भेद एवाकार इति किमीश्वराज्ञया स्वीक्रियते ! न हि प्रमाणतर्कानादरेण हठात् कश्चिदर्थः स्वीकार्य इति भावः । प्रतीतिवलादभ्युपगतं शङ्कते प्रतीतत्वादिति । तथा स्वमंतस्याभ्युपगन्तव्यतामाह प्रतीतत्वादेवेति । त्वदुक्तादेवेत्येवकाराभिप्रायः । द्वैरूप्यमपीति । अनिष्टमपीति अपिशब्दस्याभिप्रायः । प्रतीतत्वमेवोपपादयति न हीति । इयं जातिः इयं व्यक्तिरिति विविक्ते हि, अत्राभेदः अत्र च भेद इति वक्तुं युक्तम् ; न तथा विविच्यत इत्यर्थः । तर्हि कथं प्रतीतिरित्यत्राह अपि त्विति । एकमेव वस्तु जात्यात्मना व्यक्त्यात्मना च भिन्नमभिन्नञ्च प्रतीयत इत्यर्थः । मृदयं घट इत्यनेन मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यप्रत्ययो भेदाभेदसाधकयुक्तिरुक्ता भवति । अनुवृत्तिव्यावृत्तिभ्यां विवेकं शङ्कते अनुवृत्तीति । परिहरति नैवमिति । विविक्ताकारानुपलब्धि विवृणोति नहि सुसूक्ष्ममपीति । विविक्ताकारोपलम्भे सति हि अस्मिन्नंशेऽनुवृत्तिबुद्धिबोध्यत्वम् अस्मिन्नंशे व्यवृत्तिबुद्धिबोध्यत्वमिति ज्ञातुं शक्यमित्यर्थः । आकारभेदः अंशभेदः । तर्हि कथमुपलम्भ इत्यत्राह यथा संप्रतिपन्नेति । विशेषः व्यक्तिः । यथा कार्येकत्वं व्यक्त्येकत्वञ्च संप्रतिपन्नम्, तथा कार्यकारणयोश्च नातिव्यक्त्योश्चैकत्वबुद्धिर्जायत इत्यर्थः । एकत्वबुद्धिरित्यनेन एकशब्दानुविद्धप्रत्यय उक्तो भवति । सहोपलम्भनियमः प्रथमपिण्डग्रहणे अभेदेन ग्रहणं (अंशभेदेनाग्रहणं) च अर्थादुक्तं भवति ; न विवेक्तुं शक्नोतीत्युक्तेः । एवं जातिव्यक्त्योरन्योन्यभेदाभेदः उक्तः ; अथ पिण्डानां परस्परभेदाभेदउच्यते एवमेवेति । देशकालवैलक्षण्यं स्पष्टम् । नीलत्वखण्डत्वादिराकारवैलक्षण्यम् । अन्यन्त मेदः अमे-
१-१-४ समन्वयाधिकरणम् (देहात्मभेदाभेदायोगः) १५७ अथोच्येत - मृदयं घटः, खण्डो गौरितिवत् देवोऽहं मनुष्योऽहमिति सामानाधिक रण्येनैक्यप्रतीतेरात्मशरीरयोरपि भिन्नाभिन्नत्वं स्यात्; अत इदं भेदाभेदोपपादन निजसदननिहितहुतवहज्वालायते इति तदिदमनाकलितभेदाभेदसाधनसामानाधिकरण्यतदर्थयाथात्म्यांवबोधविलसितम् । तथा हि-अबाधित एव प्रत्ययः सर्वत्रार्थ व्यवस्थापयति । देवा (हा) द्यात्माभि.मानस्तु आत्मयाथात्म्यगोचरैः सर्वैः प्रमाणैर्बाध्यमानों रज्जुसर्पादिबुद्धिवत् नात्मशरीरयोरभेदं साधयति । खण्डो गौः मुण्डो गौरिति सामानाधिकरण्यस्य न केनचित् कचिद्वाधो दृश्यते । तस्मान्नातिप्रसङ्गः । अत एव जीवोऽपि ब्रह्मणो नान्यन्तभिन्नः ; अपि तु ब्रह्मांशत्वेन भिन्नाभिन्नः । तत्रामेद एव स्वाभाविकः, भेदस्त्वौपाधिकः ॥ कथमवगम्यत इति चेत् -” तत्त्वमसि’, ‘नान्योऽतोऽस्ति द्रष्टा, " अयमात्मा ब्रह्म” इत्यादिभिः श्रुतिभिः, “ब्रह्मेमे द्यावापृथिवी” इति प्रकृत्य “ब्रह्म दाशाः ब्रह्म दासाः ब्रह्ममे कितवा उत । स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमान्” इत्याथर्वणिकानां संहितोपनिषद ब्रह्मसूक्ते अभेदश्रवणाच्च, “नित्यो नित्यानां चेतनश्चेतनानामेकों बहूनां यो विदधाति कामान्”, “शाज्ञौ द्वावजावीशनीशौ”, “क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि हृष्टः “, " प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः’, “स कारणं करणाधिपाधिपः” " तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति”, “य आत्मनि तिष्ठन्”, “प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्य किञ्चन वेद”, “प्राज्ञेनात्मनाऽन्वारूढः उत्सर्जन् याति”, “तमेव विदित्वाऽति मृत्युमेति” इत्यादिभिर्भेदश्रवणाच्च जीवपरयोर्भेदाभेदौ अवश्याश्रयणीयौ । तत्र “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिभिर्मोक्षदशायां जीवस्य ब्रह्मस्वरूपापत्तिव्यपदेशात्, “यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्” इति तदानीं भेदेनेश्वरदर्शननिषेधाच्च अभेदः स्वाभाविक इत्यवगम्यते । दासहो मेद इत्यर्थः । अत्र चोद्यमाशङ्कते अथोच्येतेति । देहात्मनोः सदृद्रव्यात्मनैकत्वेऽभिमतेऽपि देह रूपेण आत्मरूपेण वा तयोरैक्यस्याप्रामाणिकत्वात् तयोर्भिन्नाभिन्नत्वमनिष्टमिति भावः । परिहरति तदिदमिति । ‘अबाधितं सामानाधिकरण्यं भेदाभेदसाधकम्; अबाधितश्च मेदा मेदस्तत्त्वम्’ इत्यजानतोक्तमित्यर्थः । तदुपपादयति तथा हीति । परिहारौपयिकमर्थे शिक्षयति अबाधित इति । ततः किमित्यत्राह देवादीति । जातिव्यक्त्योरपि तथा स्यादित्यत्राह खण्ड इति । एवं लौकिकार्थानां मेदाभेद उक्तः । तदु(मु?)पजीव्य वैदिकेष्वप्यर्थेषु जीवब्रह्मणोर्भेदाभेदमाह अत एचेति । अतः - मेदाभेदयोर विरुद्धत्वादित्यर्थः । ब्रह्मांशत्वेनेत्यत्र “अंशो नानाव्यपदेशात्” इति सूत्रं स्मारितम् । अचिह्मणोर्भेदाभेदः खाभाविक इति भास्करयादव योरुभयोरप्यभिमतम् ‘चिमणोस्तु भेदाभेदौ स्वाभाविकौ’ इति यादवमतव्यावृत्त्यर्थमाह तत्रेति । कथमिति । मेदाभेदसद्भावे तत्त्राभेदस्यैव स्वाभाविकत्वे च किं प्रमाणमित्यर्थः । अभेदस्य स्वाभाविकत्वेन प्राधान्यात् प्रथमम् अन्यथाचेति सूत्रांशविषयवाक्यमाह तत्त्वमसीति । दाशकितवेत्याद्यंशविषयमाह ब्रोमे इति । नानाव्यपदेशादित्यं-शस्य विषयमाह नित्यो नित्यानामिति । क्रियागुणैरात्मगुणैश्चेति क्रियागुणाः -संसारहेतुगुणाः । आत्मगुणाः - मोक्षहेतुगुणाः ; तैस्संयोगहेतुरित्यर्थः । अत्र भेदस्योपाधिकत्वं कथमवगम्यत इत्यत्राह तत्रेति । तत्स्वरूपापत्तिव्यपदेशो मेदनिषेधश्वाभेदस्यानोपाधिकत्वज्ञापकावित्यर्थः । मुक्तौ मेदनिषेधादेव । CC-0. Lal Bahadur ऽhaऽtr। Uh।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham. ३५८ श्रुतप्रकाशिकोपेते अमिताभेदतत्त्वम् ) · नतु च, “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति सहभुत्या तदानीमपि प्रतीयते । वक्ष्यति च, “जगद्यापारबजे प्रकरणादसंनिहितत्वाच”, “भोगमा त साम्यलिङ्गाच्च” छवि ॥ नैतदेवम्; “नान्योऽतोऽस्ति द्रष्टा” इत्यादिश्रुतिशतैरात्मभेदप्रतिषेधात् । “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति सर्वैः कामैः सह ब्रह्माश्नुते; सर्वगुणान्वितं ब्रह्माश्नुते इत्युक्तं भवति । अन्यथा ब्रह्मणा सहेत्यप्राधान्यं ब्रह्मणः प्रसज्येत । जगद्व्यापारवर्जमित्यत्र मुक्तस्य भेदेनावस्थाने सति ऐश्वर्यस्य न्यूनताप्रसङ्गो वक्ष्यते । अन्यथा, “संपद्याविर्भावः स्वेनशब्दात् " इत्यादिभिर्विरोधात् । तस्मादभेद एव स्वाभाविकः । भेदस्तु जीवानां परस्माद्ब्रह्मणः, परस्परश्च बुद्धीन्द्रियदेहोपाधिकृतः । यद्यपि ब्रह्म निरवयवं सर्वगतञ्च, तथापि आकाश इव घटादिना बुद्ध्याद्युपाधिना ब्रह्मण्यपि भेदः संभवत्येव । न च–भिन्न ब्रह्मणि बुद्धवाद्युपाधिसंयोगः, बुद्ध्याद्युपाधिसंयोगाद्रह्मणि भेद ‘इतीतरेतराश्रयत्वम्; उपाधेस्तत्संयोगस्य च कर्मकृतत्वात् तत्प्रवाहस्य चानादित्वात् । एतदुक्तं भवति–पूर्वकर्मसंबद्धात् जीवात् स्वमंबद्ध एवोपाधिरुत्पद्यते, तद्युक्तात् कर्म, एवं बीजाङ्कुरन्यायेन कर्मोपाधिसंबन्धस्यानादित्वान्न दोष इति । अतो जीवानां परस्परं ब्रह्मणा चाभेद एव स्वाभाविकः । भेदस्त्वौपाधिकः । उपाधीनां पुनः परस्परं ब्रह्मणा चाभेदवत् भेदोऽपि स्वाभाविकः, उपाधीनामुपाभ्यन्तराभावात् ; तदभ्युपगमे अनवस्थानाच्च । अतो जीवकर्मानुरूपं ब्रह्मणो भिन्नाभिन्नस्वभावा एवोपाधय उत्पद्यन्त इति ॥ भेदस्योपाधिकत्वमप्यर्थसिद्धम् । मुक्तौ भेदं दर्शयंश्चोदयति
ननु चेति । सहशब्दो भोक्तृसाहित्यपर इति चोदयितुरभिप्रायः । भोग्यसाहित्यबुद्धया परिहरति नैतदिति । भेदप्रतीति परिहरिष्यन् मुक्तौ भेदस्य श्रुतिविरुद्धतां दर्शयति नान्य इति । भेदप्रतीति परिहरति सोऽश्नुत इति । सोधनुत इति वाक्येनोक्तं भवतीत्यन्वयार्थः । ब्रह्मणा सह गुणानश्नुते— गुणांश्च ब्रह्म चानुभवतीति । किं अझ पृथग्भूतोऽश्नुते, उता पृथग्भूत इत्यपेक्षायाम् — तत् वाक्यान्तरावगम्यम् । अतो नात्र भेदप्रतीतिरिति यावत् । एतदुपपापयति अन्यथेति । अप्राधान्यं भोक्त्रन्तरापेक्षया दोषः ; भोग्यभूतखगुणापेक्षया तु न दोष इति भावः । परोदाहृतसूत्रस्य स्वाभिमतमर्थमाह जगदिति । ब्रह्मणो मुक्तस्य च भेदे सति जगव्यापारवर्जित्वप्रसङ्गान्न भेद इति सूत्रार्थ इत्यर्थः । तदुपपादयति अन्यथेति मभेदस्य स्वाभाविकत्वं निगमयति तस्मादिति । मुक्तौ भेदनिषेधादर्थसिद्धं भेदस्य औपाधिकत्वम् एवकारेणाभिप्रेतम् । उपाधिः क इत्यपेक्षायामाह मेदस्त्विति । औपाधिकत्वरूपवैषम्यपरः तुशब्दः ; शङ्कायोतको वा । ब्रह्मणो विभुत्व निरवयवत्वाभ्यां जीवगत उपाधिर्ब्रह्मण्येवेति तदसंसृष्टप्रदेशाभावात् नीवेश्वरभेदो न संभवतीत्यत्राह यद्यपीति । अन्योन्याश्रयमाशङ्कयाह न चेति । ईश्वरांशे कर्मकृतबुद्धयाद्यपाधिसंबन्धाभावादुपाधिसंयोगस्य भेदपूर्वकत्वम् । प्रवाहानादितया परिहरति उपाधेरिति । कथमुपाधितत्संयोगकर्मणां प्रवाहानादित्यम् तेन चान्योन्याश्रयपरिहारः कथम् इति शङ्काणं तद्विवृणोति एतदुक्तमिति । तद्यक्तात्कर्मेति । कर्मवश्यत्वं हि जीवत्वम् । उपाधिना जीवत्वं जीवभावादुपाभ्यन्तरमित्यनादिरित्यर्थः । फलितमर्थमाह अत इति । अचिदंशे वैषम्यमाह उपाधीनां पुनरिति । पुनः स्वमः । वैषम्ये हेतुद्वयमाह उपाधीनामिति । भिन्नाभिन्नत्व पक्षमुपसंहरति अतो जीवकर्मेति ॥
१-१-४ समन्वयाधिकरणम् (भेदाभेददूषणम् ) १५९ अत्रोच्यते - ‘अद्वितीयसच्चिदानन्द ब्रह्मध्यान विषय विधिपरं वेदान्तवाक्यजातमिति वेदान्तवाक्यैरभेदः प्रतीयते । भेदावलम्बिभिः कर्मशास्त्रैः प्रत्यक्षादिभिश्च भेदः प्रतीयते । भेदाभेदयोः परस्परविरोधात् अनाद्यविद्यामूलतयापि भेदप्रतीत्युपपत्तेरभेद एव परमार्थः’ इत्युक्तम् । तत्र यदुक्तम् - भेदाभेदयोरुभयोरपि प्रतीतिसिद्धत्वान्न विरोध इति-तदयुक्तम; कस्माच्चित् कस्यचिद्विलक्षणत्वं हि तस्मात् तस्य भेदः । तद्विपरीतत्वञ्चाभेदः । तयोस्तथाभावातथाभावरूपयोरेकत्र संभवमनुन्मत्तः को ब्रवीति ॥ कारणात्मना जात्यात्मना चाभेदः, कार्यात्मना व्यक्त्यात्मना च भेद इत्याकारभेदादविरोध इति चेत्-न; विकल्पासहत्वात् । आकार भेदादविरोधं वदतः किमेकस्मिन्नाकारे भेदः आकारान्तरे चाभेद इत्यभिप्रायः, उताकारद्वययोगिवस्तुगतावुभावपि इति । पूर्वस्मिन् कल्पे व्यक्तिगतो भेदः, जातिगतश्चाभेद इति नैकस्य द्यात्मकता ॥ जातिर्व्यक्तिरिति चैकमेव वस्त्विति चेत् -तर्ह्यकारभेदादविरोधः परित्यक्तः स्यात् । एकस्मिंश्च विलक्षणत्वतद्विपर्ययौ विरुद्धावित्युक्तम् । द्वितीये तु कल्पे अन्योन्यविलक्षणमाकारद्वयम् अप्रतिपन्नञ्च तदाश्रयमृतं वस्त्विति तृतीयभ्युपगमेऽपि त्रयाणामन्योन्यवैलक्षण्यमेवोपपादितं स्यात्; न पुनरभेदः । आकारद्वयनिरु (रू)ह्यमाणाविरोध तदाश्रयभूते वस्तुनि भिन्नाभिन्नत्वमिति चेत् — स्वस्माद्विलक्षणं स्वाश्रयमाकारद्वयं स्वस्मिन् अथ भेदाभेदपक्षं ध्याननियोगवादी दूषयति अत्रोच्यत इत्यादिना । पूर्वं यदपि कैश्चिदुक्तमिति प्रकान्तस्य पक्षस्योत्थापकं सङ्कृतिस्थलं दर्शयितुमाह अद्वितीयेति । तत्सङ्गतिस्थल दर्शयति तत्र यदुक्तमिति । मेदाभेदविषयप्रतीतिं दूषयिष्यन् पूर्वं तयोर्विरोधमुपपादयितुं तत्स्वरूपमाह कस्माच्चिदिति । विलक्षणत्वम् - अन्यत्वम् । इदमिदं न भवति, इदमिदं भवतीति हि भेदाभेदविषयप्रतीतिः । ततः किमित्यत्राह तयोरिति । भेदाभेद इति न कस्यचिद्धर्मस्य संज्ञा । लोकप्रसिद्ध्यनुगुणोऽर्थो भेदाभेदशब्दस्य स्वीकृतश्चेत्-भावाभावयोर्विरोधोऽवर्जनीय इत्यर्थः । किञ्च अनेन कचिदपि विरोधो नास्तीति वक्तुं न शक्यम् ; त्रिविधविरोधोपलब्धेः । यदि भावाभावयोर्न विरोधः, तर्हि भिन्नाभिन्नत्वं भवति, न भवतीति खपरवचसोरपि विरोधाभावः स्यात् । परोक्तं पिण्डद्वय मेदाभेदस्याऽऽकार मेदादविरोधमनुवदति कारणात्मनेति । विकल्प्य दूषयति नेत्यादिना । एकस्मिन् आकार इति आकारशब्दः पदार्थपरः । पूर्वस्मिन् कल्प इति । तत्र जातिव्यक्त्योः किं परस्परं भेदः, उतामेदः, उत भेदाभेदः इति विकल्पत्रयमभिप्रेत्य प्रथमं शिरो दूषयति व्यक्तिगत इति । द्वितीयमनुवदति जातिरिति । दूषयति तर्हीति । विरोधस्तिष्ठत्येवेत्यर्थः । तृतीयं दूषयति एकस्मिंश्चेति । जातिर्व्यक्तिर्भवति न भवतीति भावाभावविरोघः स्थित एवेत्यर्थः । कण्ठोक्तपूर्वकल्पे द्वितीयं शिरो दूषयति द्वितीये तु कल्पे इति । अत्र तृतीयस्य जातिव्यक्तिव्यतिरिक्तस्य वस्तुनोऽप्रतिपन्नत्वं नामैकं दूषणमधिकम् । तदिदमप्रतिन्नञ्चेत्यनेनाभिप्रेतम् । प्रतिपन्नत्वाभ्युपगमेऽपि दूषणमाह तृतीयाभ्युपगमेऽपीति । न पुनरिति । अन्यथा त्रित्वाभावादित्यर्थः । अत्र तृतीये वस्तुनि आकारद्वयेन भेदाभेदयोर्निर्वाह्यत्वेनाविरोधित्वं शङ्कते आकारद्वयेति । इदमाकारद्वयं किं स्वाश्रयेण भिन्नम्, उताभिन्नम्, उत भिन्नाभिन्नम् इति विकल्पत्रयमभिप्रेत्य प्रथमं शिरो दूषयति स्वस्मादिति । स्वशब्दत्रयमप्याश्रयपरम् मेादयोरेकाश्रयत्वेन हि विरोधः । अविरोषनिर्वाहका कारद्वयं हि न मेदाभेदयोराश्रयभूतम् । ।
१.६० श्रुतप्रकाशिकोपेते श्रीमान्ये ( जीवब्रह्म मेदापारमार्थ्यम्) विरुद्धधर्मद्वयसमावेशनिर्वाहकं कथं भवेत् ? अविलक्षणं तु कथन्तराम् ? आकारद्वयतद्वतोश्च यात्मकत्वाभ्युपगमे निर्वाहकान्तरापेक्षयाऽनवस्था स्यात् । न च संप्रतिपन्नैक्यव्यक्तिप्रतीतिवत् ससामान्येऽपि वस्तुन्येकरूपा प्रतीतिरुपजायते ; यतः इदमित्थमिति सर्वत्र प्रकारप्रकारितयैव सर्वा प्रतीतिः । तत्र प्रकारांशी जातिः, प्रकार्यशो व्यक्तिरिति नैकाकारा प्रतीतिः । 66 अत एव जीवस्यापि ब्रह्मणो भिन्नाभिन्नत्वं न संभवति । तस्मादभेदस्यानन्यथासिद्धशास्त्रमूलत्वादनाद्यविद्यामूलं एव भेदप्रत्ययः ॥
नन्वेवं ब्रह्मण एवाज्ञत्वम् तन्मूलाश्च जन्मजरामरणादयो दोषाः प्रादुःष्युः । ततश्च यः सर्वज्ञः सर्ववित्”, “ एष आत्माऽपहतपाप्मा” इत्यादीनि शास्त्राणि बाध्येरन् ॥ नैवम; अज्ञानादिदोषाणामपरमार्थत्वात् । भवतस्तु उपाधिर्ब्रह्मव्यतिरिक्तं वस्तु अतो न तत् अविरोध निर्वाहकम् । अग्निगतं पैङ्गल्यमौज्ज्वल्यञ्चाकारद्वयम् अमौ शीतोष्णत्वरूपविरुद्धधर्मद्वयसमावेशनिर्वाहकं न भवतीत्यर्थः । द्वितीयं शिरो दूषयति अविलक्षणमिति । पूर्वमाकारद्वये संभवति तस्य विरुद्धधर्मद्वय निर्वाहकत्वायोग उक्तः ; अत्र त्वाकारद्वयमेव नास्तीति नितरां विरुद्धधर्मसमावेशायोग इत्यभिप्रायेण कथन्तरामित्युक्तम् । तृतीयं शिरो दूषयति आकारद्वय तद्वतोरिति । आकारद्वयस्य तदाश्रयस्य च भिन्नाभिन्नत्वनिर्वाह कम कारद्वयान्तरमपेक्षितम् ; तस्यापि स्वाश्रयेण भिन्नाभिन्नत्वमस्ति चेत्, तदविरोध निर्वाहका कारद्वयान्तरमपेक्षितमित्यनवस्था स्यादित्यर्थः । अथ किं दृष्टेऽनुपपन्न नामेति शङ्कायां भेदाभेदविषयप्रतीतिं दूषयति न चेति । हेतुमाह यत इति । तस्यां प्रतीतौ प्रकारप्रकारिणौ विविच्य दर्शयति तत्रेति । अनेनेदमपि एकशब्दानुविद्धप्रत्ययः, परिहृतम् - मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यम्, प्रथम पिण्डग्रहणे 1 सहोपलम्भनियमः, जातिव्यक्त्योरमेदप्रतीतिश्चेति हेतुचतुष्टयम् । अपृथक सिद्धविशेषणत्वं मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यहेतुः । अपृथक सिद्धिश्च प्रकारप्रकारिणोः संबन्धनियमादेवोपपन्ना । अतः प्रकारप्रकारिभावप्रतिपन्न भेदविरुद्धा भेदकल्पनाया नावकाशः संबन्धनियम एवं सहोपलम्भनियमहेतुश्च । एकोऽयं गौरिति प्रत्ययोऽपि, एको दण्डीतिवत् विशेष्यैक्यविषयः ; न तु विशेषणविशेष्यैक्यविषयः । प्रथमपिण्डग्रहणेऽपि प्रकार प्रकारिभावात् भेदेनैव प्रतीतिः । किञ्च सहत्वमपि मेदसाधकम् । द्वयोरेव हि साहित्यम् । सहोपलम्भनियमश्व, संप्रतिपन्ने भिन्न अभिने च न दृष्ट इत्यसाधारणानैकान्तिकत्वात् नोभयसाधकः । भिन्नेषु अभिन्नेषु चादृष्टस्य भेदाभेदसाधकत्वेऽभ्युपगम्यमाने नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं गन्धवत्त्वं पृथिव्या नित्यत्वानित्यत्वसाधकं स्यात् । किञ्च साधन नियमः साध्यनियमहेतुरिति सहत्वनियमो भेदनियमहेतुरेव । मत्र जातिः अत्र व्यक्तिरिति प्रदेश मेदग्रहणं जातेः पिण्डे व्याप्यवृत्तित्वात् । तच सहोपलम्भनियमान्तर्गतम् । देशतः कालतश्चोपलम्भनियमो हि सहोपलम्भनियमः । अतो देशतः कालतश्च संबन्ध नियमकृतः सहोपलम्भनियमः । किञ्च सहोपलम्भनियमो ऽसिद्धः ; इदं रजतमित्यत्र शुक्तित्वजातिव्यतिरेकेणाधिष्ठानभूतव्यक्तिप्रतीतेः । अतो नैकयसाधकत्वमिति ॥ लौकिकवस्तुनि भेदयोर्विरुद्धत्वमुपजीव्य वैदिकेऽपि तत्सद्भावमाह अत एवेति । मेदा मेदयोर्विरोधेनैकस्मिन् वस्तुनि तयोरनुपपन्नत्वादित्यर्थः । मेदा मेदनिरासंमुपजीव्या भेदस्यैव तात्त्विकतामाह तस्मादिति । दोषसंबन्धमुखेन चोदयति
नन्विति । अपरमार्थतया परिहरति नैवमिति । परोक्तदोषः परस्यैवेत्याह भवत-
१-१-४ समन्वयाधिकरणम् (ब्रह्मणि वस्तुतः सर्वदोषापत्तिः) १६१ अनभ्युपगच्छतो ब्रह्मण्येवोपाधिसंसर्गः तत्कृताश्च जीवत्वाज्ञत्वादयो दोषाः परमार्थत एव भवेयुः । न हि ब्रह्मणि निरवयवे अच्छेद्ये संवध्यमाना उपाधयः तत् छित्त्वा भित्त्वा वा संबध्यन्ते ; अपि तु ब्रह्मस्वरूपे संयुज्य तस्मिन्नेव स्वकार्याणि कुर्वन्ति ॥ यदि मन्चीत - ‘उपाध्युपहितं ब्रह्म जीवः स चाणुपरिमाणः । अणुत्वञ्चावच्छेदकस्य मनसोऽणुत्वात् । स चावच्छेदोऽनादिः । एवमुपाध्युपहिते अंशे संबध्यमानाः दोषा अनुपहिते परे ब्रह्मणि न संवध्यन्त’ इति -अयं प्रष्टव्यः - किमुपाधिना छिन्नो ब्रह्मखण्डोऽणुरूपो जीवः, उताच्छिन्न एवाणुरूपोपाधिसंयुक्तो ब्रह्मप्रदेशविशेषः, उतोपाधिसंयुक्तं ब्रह्मस्वरूपम्, अथोपाधिसंयुक्तं चेतनान्तरम्, अथोपाधिरेवेति । अच्छेद्यत्वाद्ब्रह्मणः, प्रथमः कल्पो न कल्पते । आदिमत्त्वं च जीवस्य स्यात् । एकस्य ततो द्वैधीकरणं हि छेदनम् । द्वितीये तु कल्पे ब्रह्मण एव प्रदेशविशेषे उपाधिसंबन्धादोपाधिकाः सर्वे दोषास्तस्यैव स्युः । उपाधौ गच्छति उपाधिना स्वसंयुक्तब्रह्मप्रदेशाकर्षणायोगादनुक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदात् क्षणे क्षणे वन्धमोक्षौ च स्याताम् । आकर्षणे च अच्छिन्नत्वात् कृत्स्नस्य ब्रह्मण आकर्षणं स्यात् ॥ निरंशस्य व्यापिन आकर्षणं न संभवतीति चेत्तर्हि उपाधिरेव गच्छतीति पूर्वोक्त एव दोषः स्यात् । अच्छिन्नब्रह्मप्रदेशेषु सर्वोपाधिसंसर्गे सर्वेषां च जीवावां ब्रह्मण एव प्रदेशत्वेन, एकत्वेन प्रतिसंधानं स्यात् । प्रदेशभेदादप्रतिसंधाने च, एकस्यापि स्वोपाधौ गच्छति [सति] प्रतिसंधानं न स्यात् । तृतीये तु कल्पे ब्रह्मस्वरूपस्यैवोपाधिसंबन्धेन जीवत्वापातात् तदतिरिक्तानुपहितब्रह्मासिद्धिः स्यात् । सर्वेषु च देहेष्वेक एवं जीवः स्यात् । तुरीये तु कल्पे ब्रह्मणोऽभ्य एव जीव इति जीवभेदस्योपाधिकत्वं परित्यक्तं स्यात् । चरमे चार्वाकपक्ष एव परिगृहीतः स्यात् । स्त्विति । तदुपपादयति न हीति । अद्गुल्यादेखि छेदो न संभवतीति अच्छेद्यत्वं ब्रह्मणः, तस्य हेतुः निरवयवत्वम् । भित्वा — अच्छिन्नत्वेऽपि पाणिपादादिवत् प्रतिनियत प्रदेश मे देनेत्यर्थः । प्रदेशभेदेन छेदनेन वा ब्रह्मणि संबन्धमुपाधयो नार्हन्ति, निरवयवत्वादच्छेद्यत्वाचेत्यर्थः । निरवयवत्वे ऽप्यच्छेद्यत्वेऽपि गगनवत् उपहितानुपहितांशभेदेन सदोषत्व निर्दोषत्वोपपत्ति शङ्कते यदि मन्वीतेति । उपाध्यवच्छेदाज्जीवभावः जीवभावादुपाध्यवच्छेदः; कर्मणा कर्मणा जीवभावः तस्मात्कर्मेति चान्योन्याश्रयपरिहाराय अनादिरित्युक्तम् । दूषयितुमाह अयं प्रष्टव्य इति । विकल्पयति किमिति । श्रुतौ अणुशब्दस्य सूक्ष्मपरत्वाभिप्रायसंभवात् तृतीयकल्पोदयः । चतुर्थपञ्चमौ कल्पौ आभ्यां विकल्पाभ्यां विना गतिर्नास्तीत्यभिप्रायेण कृतौ ; न तु पराभ्युपगत्या । ब्रह्मशब्दस्य जीवेऽप्युपचारवृत्तेः चतुर्थः कल्पः । उपाधिब्रह्मणोर्भिन्नाभिन्नत्वाभ्युपगमात् पञ्चमः । प्रथमं शिरो दूषयति अच्छेद्यत्वादिति । दूषणान्तरमाह आदिमत्त्वमिति । तदुपपादयति एकस्य संत इति । द्वितीयं दूषयति द्वितीये त्विति । दूषणान्तरमाह उपाधाविति । आकर्षणेन विना तत्परिहारासंभवात् तदाशङ्कयाह आकर्षणे चेति । अनुपपत्त्या तदनभ्युपगममाशङ्कय पूर्वोक्तदूषणेन व्युदस्यति निरंशस्येति । दूषणान्तरमाह अच्छिन्नेति । तत्परिहारमाशङ्कयाह प्रदेशभेदादिति । तृतीयं शिरो दूषयति तृतीये त्विति । अनुप हित त्रमासिद्धिः स्यादिति । निर्दोषमङ्गलगुणकत्वतीनामनुपहितब्रह्मविषयत्वं हि पराभ्युपेतम् । जीवेश्वर भेदाभावप्रसङ्गो जीवानां परस्परमेदाभावप्रसङ्गश्चेत्यर्थः । चतुर्थपञ्चमौ दूषयति तुरीये त्वित्यादिना । चरम इति । अचिद्रव्यस्यैव चेतनत्ववचनात् तस्य चेतनब्रह्मतादात्म्यानुपपत्तिश्चेत्यभिप्रायः । मेदाभेददूपणमुपसंहरन् 2-21
१६२ ( मीमांसकेन अद्वैतिनिरासः) तस्मादभेदशास्त्रवलेन कृत्स्नस्य भेदस्या विद्यामूलत्वमेवाभ्युपगन्तव्यम् । अतः प्रवृत्तिनिवृत्तिप्रयोजनपरतयैव शास्त्रस्य प्रामाण्येऽपि ध्यानविधिशेषतया वेदान्तवाक्यानां ब्रह्मस्वरूपे प्रामाण्यमुपपन्नमिति ॥- तदप्ययुक्तम् — ध्यान विधिशेषत्वेऽपि वेदान्तवाक्यानामर्थसत्यत्वे प्रामाण्यायोगात् । एतदुक्तं भवति - ब्रह्मस्वरूपगोचराणि वाक्यानि किं ध्यानविधिनैकवाक्यतामापन्नानि ब्रह्मस्वरूपे प्रामाण्यं प्रतिपद्यन्ते, उत स्वतन्त्राण्येव । एकवाक्यत्वे ध्यानविधिपरत्वेन ब्रह्मस्वरूपे तात्पर्य न संभवति, भिन्नवाक्यत्वे प्रवृत्तिनिवृत्तिप्रयोजन विरहादनववोधकत्वमेव । न च वाच्यम् - ध्यानं नाम स्मृतिसन्ततिरूपम्, तच्च स्मर्तव्यैकनिरूपणीयमिति ध्यानविधेः स्मर्तव्यविशेषाकाङ्क्षायाम्, “इदं सर्व यदयमात्मा”, “अयमात्मा ब्रह्म सर्वानुभूः”, “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादीनि ब्रह्मस्वरूपतद्विशेषादीनि समर्पयन्ति तेनैकवाक्यतामापन्नानि अर्थसद्भावे प्रमाणमिति ः - ध्यानविधेः स्मर्तव्यविशेषापेक्षत्वेऽपि, “नाम ब्रह्म” इत्यादिदृष्टिविधिवत् असत्येनाप्यर्थविशेषेण ध्याननिर्वृत्त्युपपत्तेः ध्येयसत्यत्वानपेक्षणात् । अतो वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिप्रयोजनविधुरत्वात् ध्यान विधिशेषत्वेऽपि ध्येयविशेषस्वरूपसमर्पणमात्रपर्यवसानात्, स्वातन्त्र्येऽपि वालातुराधुपच्छन्दनवाक्यवत् ज्ञानमात्रेणैव पुरुषार्थपर्यन्ततासिद्धेश्च परिनिष्पन्नवस्तुसत्यता गोचरत्वाभावात् ब्रह्मणः शास्त्रप्रमाणकत्वं न संभवतीति प्राप्तम् ॥ ; स्वमतसिद्धिमाह तस्मादिति । ध्यानविधिशेषतया ब्रह्मणः सिद्धिमुपसंहरति अत इति ॥ ध्याननियोगवादिपक्ष मीमांसको दूषयति तदप्ययुक्तमिति । न केवलं निष्प्रपञ्चीकरणवि विवाद एवानुपपन्नः, इदमपि मतमनुपपन्नमिति अपिशब्दस्य भावः । कुत इत्यत्राह ध्यानेति । ध्यानविधिशेषत्वे कथमर्थसत्यत्वे तात्पर्यायोगः ; विधिशेषत्वं हित्वा स्वातन्त्र्येण वा ब्रह्मणि प्रामाण्यं स्यादित्यत्राह एतदुक्तमिति । दूषयितुं विकल्पयति ब्रह्मस्वरूपेति । प्रथमं शिरो दूषयति एकेति । एकवाक्यत्वम् महावाक्यैकत्वम् । द्वितीयं दूषयति भिनेति । अनवबोधकत्वं दुःखसाध्यश्रवणादौ प्रवृत्त्ययोगात् । एकवाक्यत्वपक्षे विधिशेषतया ब्रह्मणः सिद्धिमाशङ्कयाह न च वाच्यमिति । कुत इत्यत्राह ध्यानविधेरिति । “नाम ब्रह्मेत्युपासीत” इत्यादिषु दृष्टिविधिषु विशेष्यसत्यत्वेऽपि विशेषणासत्यत्वेन विशिष्टासत्यत्वमवर्जनीयम्; इह च तथैवेत्यर्थः । सार्थसङ्ग्रहं पूर्वपक्षमुपसंहरति अत इति ॥
ननु प्रथमसूत्रे विधिशेषतया ब्रह्मणि प्रामाण्यसमर्थनम् एतदधिकरणपूर्वपक्षे विधिशेषतया तत्सिद्धिप्रतिक्षेपश्च कथं घटते ॥ इत्थम् ; तत्र तु फलत्वेन सिद्धिरुक्ता, फलतया सिध्यतः पारमार्थ्याभावे स्वर्गादेरप्यसत्यत्वप्रसङ्गात् तत्पारमाध्यं सिध्यतीति फलतया तत्सिद्धिसमर्थनं साधीयः । अत्र तु ध्याननिधिकर्मत्वेनतत्सिद्धिर्युदस्ता ; न तु फलतया तत्सिद्धिरित्यविरोधः ’ ॥…. 1 अविरोध इति । वस्तुतः प्रथमाधिकरणे विधिशेषतया प्रामाण्यसमर्थनं न सूत्रकारसंमतम् । पूर्वपक्षिमुखपिधानसौकर्याय तत् भाष्यकृद्वचनम् । स चान्वारुहावाद इति भा० प्र० । स्यादेतत्-फलतया विधिशेषतया तत्सिद्धौ पूर्वपक्षिणंप्रति उच्यमानायां पूर्वपक्षी स्तम्भित पव स्यादिति । तन्न प्रवृत्तिनिवृत्त्यन्वयं विनापि ब्रह्मणि प्रामाण्यस्यैव सिद्धान्तीष्टतया तन्निरसनेन पूर्वपक्षिप्रत्यवस्थानस्यापि निवार्यत्वात् । शेषं भाष्यार्थदर्पणे ।
१-१४ समन्वयाधिकरणम् ( सिद्धान्तः) १६३ तत्र प्रतिपद्यते –’ तत्तु समन्वयात् इति । समन्वयः -सम्यगन्वयः पुरुषार्थतयाऽन्वय इत्यर्थः । परमपुरुषार्थभूतस्यानवाधिकातिशयानन्दस्वरूपस्य ब्रह्मणोऽभिधेयतयाऽन्वयात् तत्शास्त्रप्रमाणकत्वं सिद्ध्यत्येवेत्यर्थः । निरस्त निखिलंदोषनिरतिशयानन्दस्वरूपतया परमप्राप्यं ब्रह्म बोधयन् वेदान्तवाक्यगणः प्रवृत्तिनिवृत्तिपरताविरहान्न प्रयोजनपर्यवसायीति ब्रुवाणो राजकुलवासिनः पुरुषस्य कौलेयक कुला
ननुप्रवेशेन प्रयोजनशून्यतां ब्रूते । एतदुक्तं भवति-अनादिकर्मरूपाविद्यावेष्टनतिरोहितपरावर तत्त्वयाथात्म्य स्वस्वरूपावबोधानां देवासुरगन्धर्वसिद्धविद्याधरकिंनर किम्पुरुषयक्षराक्षस पिशाचमनुजपशुशकुनि सरीसृप - वृक्षगुल्मलता दूर्वादीनां स्त्रीपुन्न पुंसकभेदभिन्नानां क्षेत्रज्ञानां व्यवस्थितधारकपोषक भोग्यविशेषाणां मुक्तानां स्वस्य चाविशेषेणानुभवसंभवे स्वरूपरूपगुणविभवचेष्टितैरनवधिका तिशयानन्दजननं परं ब्रह्मास्तीति वोधयदेव घाक्यं प्रयोजनपर्यवसायि । प्रवृत्तिनिवृत्तिनिष्ठं तु यावत्पुरुषार्थान्वयबोधं न प्रयोजनपर्यवसायि ।
एवमुपन्यस्तं पूर्वपक्षमभिप्रेत्य सूत्रकारेणैतत्सूत्रं प्रणीतमित्याह तत्रेति । प्रतिपद्यते – सिद्धान्तः प्राप्नोति । ज्ञायत इति वा अर्थः । समन्वयशब्दं विस्तरेण व्याचष्टे समन्वय इत्यादिना । कस्य केनान्वय इत्यपेक्षां पूरयन् वाक्यार्थं योजयति परमेति । परमपुरुषार्थत्वोपपादकमनवधिकेति पदम् । पुरुषेणायत्वं हि पुरुषार्थत्वम् । आनन्दरूपतया पुरुषार्थत्वम् ; तस्यानवाधिकातिशयत्वात् परमपुरुषार्थत्वमिति भावः । स्वयम
ननुकूलस्य सुखसाधनस्यापि पुरुषार्थत्वमस्तीति तद्व्यावृत्तिश्चानवधिकेत्यादिपदेन सिद्धा । तच्छब्दं व्याचष्टे शास्त्रप्रमाणकत्वमिति । पूर्वपक्षव्यावर्तकतु शब्द लव्धमर्थमाह सिध्यत्येवेति । तत्त्वमस्यादिखरूपोपदेशपरवाक्यार्थज्ञानमात्रेणा विद्यानिवृत्ति तन्मुखेन वाक्यस्य प्रयोजनपर्यवसानञ्च वदतो मृषावादिनो ध्यानविध्यानर्थक्यं स्यात् वाक्यार्थज्ञानोपयोगित्वस्य दूषितत्वात् । मीमांसकपक्षे ब्रह्मणोऽसिद्धिः -इत्युभयविधदोषास्पृष्टेनाऽऽकारेण वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यमुपपिपादयिषुः, तत्र प्रथमं ब्रह्मणः स्वतः सर्वेषां सर्वप्रकारभोग्यत्वेन पुरुषार्थत्वाधिक्यं प्रवृत्तिनिवृत्त्योर्दुः स्वात्मकत्वेन पुरुषार्थत्ववैकल्यं चाभिपयन् प्रवृत्तिनिवृत्तिपरत्वविरहवतः पुरुषार्थपर्यवसानाभावनिबन्धनाम् अप्रामाण्यशङ्कां परिहरति निरस्तेति । राजकुलवासी – राजकुलप्रसूतः, राजकुलान्तरङ्गो वा । कौलेयकाः– श्वानः । श्वोपजीविनो म्लेच्छा वा लक्ष्यते ! यद्यपि वाक्यगणस्थाने राजकुलवासी पुरुषः प्रतीयते, तथाप्यथैवशाद्वाक्यार्थप्रतिपत्तृपुरुषस्थाने तनिर्देशः फलितः । खतो निरवधिकपुरुषार्थपरवाक्यस्य प्रयोजनशून्यत्वकथनमनुपपन्नमित्यर्थः । ब्रह्मणः कथमनव धिकानन्दरूपतया पुरुषार्थत्वाधिक्यम्; कथं च प्रवृत्तिनिवृत्त्योः पुरुषार्थत्ववैकल्यम्; स्वरूपपरवाक्यस्य पुरुषार्थपर्यवसानं कुत्र दृष्टम् ; तथा सति कथं ध्यानविधिसाफल्यम् इत्याकाङ्क्षायामाह एतदुक्तमिति । ब्रह्मणः पुरुषार्थताधिवयमाह अनादीत्यादिना । कर्मभिरनुभवप्रतिबन्धात् क्षेत्रज्ञानां तस्य पुरुषार्थत्वज्ञानाभावः ; न तु तत्र तद्वैकल्यादित्यभिप्रायेणोक्तम् अनादिकर्मेति । देवासुरादिपरिगणनं तेषां व्यवस्थितभोग्यत्वप्रदर्शनार्थम् । योग्यानुपलब्धिशङ्काव्युदासाय अनुभवसभव इत्युक्तम् । तद्विषयज्ञानानुकूलत्वं हि तदनुकूलत्वेन विना न संभवति । अतोऽनवधिकातिशयानन्दजननत्वोक्तया ब्रह्मणोऽनवधिका तिशयानुकूलत्वं सिध्यतीत्यानन्दत्वमुपपादितं भवति । स्वरूपेत्यादिना सर्वप्रकारभोग्यत्वमुक्तम् । तेन पुरुषार्थत्वाधिक्य सिद्धम् । प्रवृत्तीत्यादिना प्रवृत्तिनिवृत्त्योः पुरुषार्थत्ववैकल्यमुक्तम् ; इष्टसुखलत्रसाधनतयोपादेयत्वात् दुःखात्मकतया स्वतो भोग्यत्वाभावाच्च ।
१६४ (ध्यानादिविध्युपयोगः ) एवम्भूतं परं ब्रह्म कथं प्राप्यत इत्यपेक्षायाम्, “ब्रह्मविदाप्नोति परम्”, “आत्मानमेव लोकमुपासीत” इति वेदनादिशब्दैरुपासनं ब्रह्मप्राप्त्युपायतया विधीयते । यथा, स्ववेश्मनि निधिरस्तीति वाक्येन निधिसद्भावं ज्ञात्वा तृप्तस्सन पश्चात् तदुपादाने च प्रयतते । यथा च कश्विद्राजकुमारो वालक्रीडासक्तो नरेन्द्रभवनान्निष्क्रान्तो मार्गात् भ्रष्टो नष्ट इति राज्ञा विज्ञातः स्वयञ्चाज्ञातपितृकः केनचित् द्विजवर्येण वर्द्धितः अधिगतवेदशास्त्रः षोडशवर्षः सर्वकल्याणगुणाकरस्तिष्ठन्, ‘पिता ते सर्वलोकाधिपतिः गाम्भीर्यौदार्यवात्सल्य सौशील्य शौर्यवीर्यपराक्रमादि- ध्यानादिविध्यानर्थक्यं परिहरति एवम्भूतमिति । परोक्षज्ञानस्यापि सुखरूपत्वात् स्वरूपपराणि वाक्यानि पुरुषार्थपर्यवसायीन्येव तदापरोक्ष्याकाङ्क्षिणस्तत्साधनज्ञापकत्वात् ध्यानविधायीनि वाक्यान्यापि न निष्फलानीत्यर्थः । इममर्थं दृष्टान्तेन दर्शयति यथेति । एवं परोक्षज्ञानजनकस्यैव वाक्यस्य पुरुषार्थपर्यवसायित्वेऽपि फलविशेषापेक्षया ध्यानप्रवृत्तिर्युक्ता, यथा “दर्शपूर्णमासाभ्यां खर्गकामो यजेत”, “ज्योतिष्टोमेन स्वर्गकामो यजेत”, “अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्यादिषु दर्शपूर्णमासादीनामेकैकस्य खर्गसाधनत्वेऽपि फलविशेषापेक्षया कर्मान्तरारम्भः, एकस्यैव कर्मण आवृत्तियोपपद्यते, यथा पुत्रजन्मश्रवणसञ्जातहर्षस्यापि पश्चात् तन्मुखापरोक्ष्यसुखाशया प्रवृत्तिरुपपद्यते – तथात्रापीत्यभिप्रायः । अत्र निधि राजकुमारदृष्टान्तद्वयं चिदचिद्विभागादुक्तम् उभयगतं भोग्यत्वं ब्रह्मण्यस्तीति ज्ञापनाय । “तद्यथा हिरण्यनिधि निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः” इति श्रुतिः । निधिरस्तीति वाक्यस्य पुरुषार्थपरत्वं दर्शयति तृप्तस्तन्निति । “अविज्ञाताः कुमारकाः “, “भगवतोऽहं पुत्रः प्रेष्यः शिष्यश्च”, “माता पिता भ्रातां”, “भूतानां योऽव्ययः पिता”, “एक इन्द्रो (इद्राजा ) जगतो बभूव”, “राजाधिराजः सर्वेषाम्” इत्यादिश्रुतिस्मृत्युनुसारेण सर्वविधभोग्यत्वप्रदर्शनाय राजकुमार इति भगवति राजत्वं चेतनेषु पुत्रत्वञ्चोपवर्णितम् । अत्र कुशलवसमाधिर्द्रष्टव्यः । वालक्रीडासक्त इत्यनेन चेतनानां बाह्यविषयप्रावण्यं सूचितम् । नरेन्द्रभवनान्निष्क्रान्त इत्यनेन भगवत्सकाशचहिष्ठत्वं दर्शितम्, परमन्योमालाभश्च । मार्गाद्भ्रष्ट इत्यनेन कर्मज्ञानाद्युपायानन्वयः ख्यापितः । द्विजवर्येण वर्द्धित इत्यनेन भगवज्ज्ञाननिष्पत्तियोग्यता सिद्धिहेतुभूताध्ययनादिनिष्पादकाचार्यसंबन्धोऽभिप्रेतः । षोडशवर्षः । भोक्तृत्वावस्थो भोग्यतावस्यश्चेति भावः । सर्वकल्याणगुणाकरः “निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः” इत्याद्युक्तैर्भगवदभिमतैर्गुणैः पूर्णता सूचिता । पिता त इत्यादिना भगवद्गुणगणाः सूचिताः । गाम्भीर्यादय उपासकं प्रति सौलभ्योपयुक्ता गुणाः ; शौर्यादयः परत्वान्तर्गताः । गाम्भीर्यम् — संप्रदानलाघव दीयमानगौरवानपेक्षत्वम् । औदार्यम् - दातृप्रगृहीतृ विभाग बुद्धि विरहेण प्राप्तं कृतमिति प्रतिपत्तिमत्त्वम् ; आत्मात्मीयं दत्त्वापि “ऋणं प्रवृद्धमिव मे” इति स्थितिर्वा । बात्सल्यम् - दोषेष्वपि गुणत्वबुद्धिः, यथा मातुर्वत्से । सुशीलं हि नाम महतो मन्दैः सह नीरन्त्रेण संश्लेषस्वभावत्वम् ; तद्वता सौशील्यम् । शौर्यम् - शत्रुमध्ये स्वगृह इव प्रवेशसामर्थ्यम् । ‘शूरं भीरुं कवि जडम्’ इति भीरुत्वप्रतियोगि हि शौर्यम् । वीर्यम् - अश्रान्तिः । पराक्रमः- 1
1 कुशलवौ आदितो रामं पितरं भगवन्तमप्राप्यैव महदनुग्रहेण लब्धज्ञानौ पश्चात् पित्तरमुपेत्य राज्यं प्रापतुः । तथा जीवा अनादिसंसारिणो मुच्यन्त इति विशेषत आनुरूप्यमनुसंधेयम् ।
१-१-४ समन्वयाधिकरणम् (मीमांसकयुक्तिदूषणम् ) ः १६५ गुणसम्पन्नः त्वामेव नष्टं पुत्रं दिदृक्षुः पुरवरे तिष्ठति’ इति केनचिदभियुक्ततमेन प्रयुक्तं वाक्यं शृणोति चेत्तदानीमेय ‘अहं तावत् जीवतः पुनः; मत्पिता च सर्वसम्पत्समृद्धः’ इति निरतिशयहर्षसमन्वितो भवति । राजा च स्वपुत्रं जीक्तमरोगमति मनोहरदर्शनं विदितसकलवेद्यं श्रुत्वा अवाप्तसमस्त पुरुषार्थो भवति । पश्चात् तदुपादाने च प्रयतते । पश्चात् तावुभौ संगच्छेते चेति । यत् पुनः परिनिष्पन्नवस्तुगोचरस्य वाक्यस्य तज्ज्ञानमात्रेणापि पुरुषार्थपर्यवसानात् वालातुराद्युपच्छन्दन वाक्यवत् नार्थसद्भावे प्रामाण्यमिति - तदसत् अर्थसद्भावाभावे निश्चिते विक्रमणम् । अत्रानुक्तमपि धैर्यमनुसंधेयम्, तच्च शत्रुभिर्धर्षणे तृणवन्मन्यमानत्वम् । दिदृक्षुरिति " स महात्मा सुदुर्लभः” इति भगवदभिप्रायः सूचितः । पुरवर इत्यनेन ब्रह्मपुराख्यशरीरान्त स्थितिरभिप्रेता; त्रिपाद्विभूतिसम्बन्धो वा । अभियुक्ततमशब्देन भगवज्ज्ञानप्रदो गुरुर्विवक्षितः । तस्येतरवैलक्षण्यं केन चिदित्यभिप्रेतम् । यदा अध्ययनादिकारयिता गुरुरेव ब्रह्मोपदेष्टा संभवति, तदाऽयमभियुक्ततमशब्दः पूर्वनिर्दिष्टद्विजवर्यमेवाभिधत्ते । तदसंभवे ब्रह्मोपदेष्टपुरुषमात्राभिप्रायः । अत्र केनचिदित्यनेन पूर्वेणैव वा अन्येनैव वेति च तात्पर्यं ग्राह्यम् । शृणोति चेदित्यनेन भगवज्ज्ञानस्य दुर्लभत्वमभिप्रेतम् । निरतिशयहर्पसमन्वितो भवतीत्यनेन वाक्यस्य पुरुषार्थपरत्वं दर्शितम् । राजा चेति राजस्थानीयोऽप्युपासको विवक्षितः । अनेन सर्वविधभोग्यत्वस्य भगवति पुष्कलत्वात् गुणवत्पुत्र गतभोग्यत्वमपि तत्र विद्यत इति ज्ञापितम् । न हि भगवतो ज्ञानं परोक्षरूपम् । अवाप्त समस्त पुरुषार्थो भवतीत्यनेन च वाक्यस्य प्रयोजनपर्यवसायित्वं दर्शितम् । ‘राजा चेत्यादिग्रन्थस्याऽऽपातप्रतिन्नार्थोऽप्यविरुद्धः । ध्यानविधेरवैयर्थं दृष्टान्तद्वयेनापि सिद्धमिति ज्ञापयितुमुक्तं पश्चात्तदुपादाने च प्रयतत इति, पश्चात्तावुभौ सङ्गच्छेते चेति च । अत्र पूर्वमेव, ‘अर्थार्थी राजकुलं गच्छेत्’ ‘मन्दाग्निर्नाम्बु पिबेत्’ इति वाक्योदाहरणात् इह निधिदृष्टान्तोपन्यासाच्चायमप्यर्थोऽर्थसिद्धः - किं क्रियोत्तीणकार्य परतयैव वाक्यस्य प्रयोजनपर्यवसायित्वम्, उत क्रियाकार्यं वा तदुत्तीर्णं वा प्रवर्तकमर्थमभिदधत एव तत्पर्यवसायित्वमिति मतम् ? । न प्रथमः, अर्थार्थी राजानं सेवेतेत्यादीनां सप्रयोजनत्वात् । न द्वितीयः, निधिमद्भूभागलक्षण-रत्नपरीक्षणपराणां शास्त्राणां प्रयोजनशालि(पर्यवसायि त्वात् । न च तत्रापि खननधारणादिविधिपरत्वं वाक्यानां कल्प्यम् ; तयोः रागप्राप्तत्वात् ; खननादिप्रकारस्यं लोकसिद्धत्वाच्च । अप्राप्ते हि शास्त्रमर्थवत् । दुष्टरत्नवर्जनमप्यनर्थ जिहासाप्राप्तम् । वाक्यानि तु निधिमत्त्वगुणदोषज्ञापनमात्रपर्यवसायीनि । अतः प्रवर्तकार्थपरतयैव प्रयोजनपर्यवसानमिति नियमो भग्न इति । प. अथ पूर्वपक्षिणोत्तमनुभाषते यत्पुनरिति वेदान्तवाक्यानां नार्थसद्भावे प्रामाण्यमस्तीति प्रतिज्ञा, तदर्थमर्थ सद्भावाभावेऽपि पुरुषार्थपर्यवसानादिति हेतुर्विवक्षितः । दूषयति तदसदिति । कुत इत्यत्राह अर्थसद्भावाभाव इति । इदं वाक्यं पक्षविषयम्, पक्षदृष्टान्तसाधारणं वा । हेतुत्वं गर्भितम् । अर्थसद्भावाभावनिश्चये सति पुरुषार्थपर्यवसानाभावादित्यर्थः । अर्थासद्भावेऽपि पुरुषार्थो दृश्यत 1 विशदमिदं भाष्यार्थदर्पणे ।
१६६ (उपच्छन्दनवाक्यवैलक्षण्यम् ) शातोऽप्यर्थः पुरुषार्थाय न भवति । बालोतुरादीनामप्यर्थ सद्भावभ्रान्त्या हर्षाद्युत्पत्तिः । तेषामेव तस्मिन्नेव ज्ञाने विद्यमाने यदि अर्थाभावनिश्चयो जायेत, ततस्तदानीमेव हर्षादयो निवर्तेरन् । औपनिपदेष्वपि वाक्येषु ब्रह्मास्तित्वतात्पर्याभावनिश्चये, ब्रह्मज्ञाने सत्यपि पुरुषार्थपर्यवसानं न स्यात् । अतः “यतो वा इमानि भूतानि जायन्ते” इत्यादिवाक्यं निखिलजगदेककारणं निरस्तनिखिलंदोषगन्धं सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाकरमनवाधिकातिशयानन्दं ब्रह्मास्तीति बोधयतीति सिद्धम (४) ॥ इति समन्वयाधिकरणम् ॥… चतुस्सूत्री समाप्ता… श्रीः ।
इति शङ्कायां तत्रार्थासद्भावनिश्चयाभावमुपाधिमाह’ बालातुरादीनामिति । तदेवोपपादयति तेषामेवेति । ततः किमित्यपेक्षयां सपक्षे दर्शितमर्थ पक्षे स्फुटीकरोति औपनिषदेष्वपीति । बालातुराद्युपच्छन्दनवाक्येष्विवात्राप्यर्थसद्भावभ्रान्त्या पुरुषार्थपर्यवासानं स्यादिति चेत् — ‘पयः पिब, कषायं पिब, शिखा वर्धिष्यते । पांसुषु लुठसि चेत्, न दन्ता उद्भिद्यन्ते’ इत्यादीनां प्रवृत्तिनिवृत्तिपरवाक्यानामिव “स्वर्गकामो यजेत”, “न कललं भक्षयेत्” इत्यादिवाक्यानामप्यर्थसद्भावभ्रान्त्या पुरुषार्थपर्यवसानं किं न स्यात् ॥ अपौरुषेयत्वात् वेदवाक्यस्य विप्रलिप्सामूलवाक्यस्यैव भ्रमकतया पुरुषार्थपर्यवसानमयुक्तम् ; तथा सति शास्त्रस्य निरूपकाधिगन्तव्यत्वात् स्वपुत्र शिप्यादीनामध्यापनादौ प्रवृत्तिर्नोपपद्यत इति चेत् — अपौरुषेयत्वमध्यापनादिप्रवृत्तिवैयथ्यं च वेदान्तवाक्येप्यपि तुल्यम् ॥ कर्मविधीनां देहातिरिक्तात्मज्ञानसापेक्षत्वात् वेदान्तवाक्यानां कर्मविधिशेषत्वेन अध्यापनादिप्रवृत्त्युपत्तिरिति चेत्-न; असत्यपि देहात्मभेदे तत्सद्भावभ्रान्तिहेतुत्वशङ्कायां सत्यां तन्मुखेन प्ररोचनानुपपत्त्या विधिशेषतयाऽध्यापनाद्यनुपपत्तेः ॥ तर्कानुगृहीतनिर्दोषश्रमि सिद्ध देहात्म भेदस्तात्त्विक इति चेत् — तत् पुरुषार्थभूतस्य परमात्मनः प्रतिपाद्यत्वेऽपि तुल्यम् ॥ देहात्मभेदसाधक हेत्वन्तरसंवादात् न भ्रान्तिहेतुत्वनिश्चय इति चेत् —तर्हि तेनैव हेत्वन्तरेण देहात्ममेदसिद्धिरिति तज्ज्ञापनाय वेदान्तवाक्यानामनपेक्षितत्वाद्विधिशेषतया तदध्यापनादिकं नोपपद्यते; एवं निरूपकाधिकार (र्य ?) स्य शास्त्रस्यार्थसद्भाव भ्रान्त्या पुरुषार्थपर्यवसानानुपपतौ प्रवर्तकवाक्यानां प्रतिबन्दीत्वमभिप्रेत्य औपनिषदेष्वपीत्यादिभाष्यं प्रवृत्तम् । उक्तस्य हेतोर्विपर्यये पर्यवसानं दर्शयधिकरणार्थमुपसंहरति अत इति । कारणवाक्यानामर्थमाह निखिलेति । निखिलशब्दः परैर्नित्यतयाऽभिमतानामाकाशादीनामपि कार्यत्वज्ञापनार्थः । एकशब्दो निमित्तोपादानैवयद्योतकः । यतो वा इमानीत्यादिवाक्ये शोधकवाक्यार्थश्च गर्भित इत्यभिप्रायेणाह निरस्तेति । अत्र निखिलशब्देन चिदचिह्नताः क्लेशकर्मादयो जन्मादयश्च विवक्षिताः । कदाचिद्दोषसंबन्धार्हत्वव्यावर्तकेन गन्धशब्देन सदा तत्प्रत्यनीकत्वमुक्तं भवति । कारणत्वौपयिकान् गुणानाह सार्वश्येति । एतदधिकरणसिद्धमर्थमाह अनवधिकेति । बोधयतीति । अध्यापनाद्युपपत्तये 1 उपाधिमाहेति । वेदान्तवाक्यं अर्थाभावेऽपि प्रयोजनपर्यवसायि तदुद्देशेन प्रवृत्तत्वादिति साध्यस्य प्रयोजनपर्यवसायित्वस्य सदर्थतात्पर्यकत्वाभावेन बाधो न युक्तः । सदर्थतात्पर्यकत्वाभावेऽपि उपच्छन्दनवाक्ये प्रयोजनसत्त्वादिति पूर्वपक्षी । तन्न; प्रयोजनपर्यवसायित्वानुमाने अर्थासत्यत्वनिश्चयाभावस्योपाधित्वात्–पक्षे वेदान्तवाक्ये उपाध्यभावः सिद्धः । उपाधेः साध्यव्यापकत्वमवश्यस्वीकार्यमित्युपपादनार्थं तेषामेवेति भाष्यम् । यत्त्रार्थासत्यत्वनिश्वयः, तत्न प्रयोजनपर्यवसानाभाव इति हि दृष्टमिति ।
१-१-४ समन्वयाधिकरणम् (मृषावादिचतुस्सूत्रीगति निरासः) १६७ पुरुषार्थपर्यवसानस्यापेक्षितत्वात् प्रेक्षावदधिकार्यस्य शास्त्रस्यार्थसद्भावाभावनिश्चये सति पुरुषार्थपर्यवसानानुपपतेस्तदुपपत्त्यर्थं प्रवर्तकवाक्यानामिव अर्थसद्भावे प्रामाण्यमङ्गीकार्यमिति यथोक्तलक्षणं ब्रह्म ‘यतो वा इमानि ’ इत्यादिवाक्यं प्रतिपादयतीत्यर्थः । शास्त्रारम्भसिद्ध्यर्थेषा चतुस्सूत्री ‘मृषावादिनां पक्षे न सङ्गच्छते; तत्पक्षे विषयप्रयोजनानुपपत्त्या शास्त्रस्यानारम्भणीयत्वात् । तथा हि-विषयः किं ब्रह्म, उत भेदमिध्यात्वम्, उत जीवब्रह्मणो रैवयम् ? ॥ न प्रथमः ; ब्रह्मणो वेद्यत्वानभ्युपगमात् वेद्यत्वे घटादेरिवा
ननुभूतित्वप्रसङ्गस्य स्वोक्तत्वाच्च । व्यावहारिकं वेद्यत्वमस्तीति चेत् — घटस्यापि वेद्यत्वं व्यावहारिकमिति तद्वदेवा
ननुभूतित्वप्रसङ्गो दुर्वारः । वास्तववेद्यत्वाभावस्य ब्रह्मणि साध्यत्वे घटस्य व्यतिरेकदृष्टान्तत्वं न घटते ; घटस्य वास्तववेद्यत्वाभावविरहाभावात् । अनुभूतिः परमार्थतो न वेद्या ; अनुभूतित्वात् ; यत् परमार्थतो वेद्यम्, तत् नानुभूतिः, यथा घटः इत्युक्ते व्यतिरेकदृष्टान्तः साध्याव्यावृत्तो हि स्यात् । न हि घटः परमार्थतो वेद्यः । वेद्यत्वेऽ
ननुभूतित्वप्रसङ्गमनादृत्य ब्रह्मणो वेद्यत्वाङ्गीकारेऽपि ब्रह्मणः शास्त्रविषयत्वमयुक्तम् ; प्रत्यक्षस्य सन्मात्रग्राहित्वमभ्युपगच्छतस्तव मते शास्त्रानर्थक्यप्रसङ्गात् । “अनाते हि शास्त्रमर्थवत् " । न द्वितीयः ; दृश्यत्वादिना लिङ्गेन भेदमिथ्यात्वमभिमन्यमानस्य तव शास्त्रानर्थक्यप्रसङ्गात् । ततद्धर्मिग्राहकप्रत्यक्षादिप्रमाणविरुद्धस्य प्रपञ्च मिथ्यात्वस्य यूपादित्यैकचस्येव शास्त्रेण प्रतिपादनायोगात् शास्त्रस्य निर्विषयत्वं स्यात् । अप्राप्ते हि शास्त्रमर्थवत् । साधकस्येव बाघकस्याप्यगोचरत्वं प्राप्तत्वम् । ज्वाला मेदानुमानवैषम्यं च त्रिविधं प्रागेव प्रपञ्चितम् । प्रमाणान्तरविरोधश्च तात्पर्यलिङ्गमिति तद्विरुद्धेऽर्थे तात्पर्यासंभवश्च प्रागेवोक्तः । अतो भेदमिथ्यात्वस्य विषयत्वमयुक्तम् । तृतीयश्च कल्पोऽनुपपन्नः; ब्रह्मणोऽपि वेद्यत्वप्रसङ्गात् । न हि घटपटयोरेकत्वमुच्यते शास्त्रेण । अपि तु जीवब्रह्मणोरेकत्वम् । तदानीं ब्रह्मशब्देन ब्रह्मण्यंनवबोधिते कथं तस्य जीवस्य चैक्य वक्तुं शक्यते ? । न हि जीव एक इत्युक्ते जीवब्रह्मणोरैक्यं सिध्यति ; घट एक इत्युक्ते घटपटैकयवत् । यदि ऐक्योपदेशवाक्येषु, ‘अयमात्मा ब्रह्म’ इत्यादिषु ब्रह्मणः शब्दबोध्यत्वं सोढव्यम्, तर्हि प्राधान्येन ब्रह्मण एव. शास्त्रप्रतिपाद्यत्वं किमिति नाभ्युपगम्यते ? ‘सर्वे वेदा यत् पदमामनन्ति’ इत्यारभ्य ‘सद्विष्णोः परमं पदम्’ इत्यादिश्रुत्यस्वारस्यमेव तदनभ्युपगमफलम् । किञ्च उपदिश्यमानमैक्यं किं ब्रह्मस्वरूपानतिरिक्तम्, उतातिरिक्तम् । अतिरिक्तत्वे स्वरूपवेद्यत्वपक्ष एव स्यात् । तथा चोपदेशवैयर्थ्यादिदोषप्रसङ्गः । स्वरूपमात्रस्य प्रतिपन्नत्वात् । अतिरिक्तत्वे तत् किं परमार्थभूतम्, उतापरमार्थभूतम् ? । प्रथमे निर्विशेषत्वभङ्गः । द्वितीये ज्वालैक्यदेहात्मैक्यापारमाध्यै ज्वाला मेददेहात्म मेदपारमार्थ्यवत् जीवनमभेदपारमार्थ्यं स्यात् । 1 प्रत्यधिकरणं परमतानि निराकरिष्यन् चतुःसूत्र्यां परमधिकरणचतुष्टयानन्तरं तच्चतुष्टयेऽपि तन्मतान्येकत्रैव निराकरोति । 2 त्रिविधमिति । (भेदवासनायाः) मूलोच्छेदित्वश्चेति त्रिविधमित्यर्थः । भा० प्र०- दोषत्वानिश्चयः,
बाध्यबाधकयोस्तुल्यदोषत्वं १६८ श्रुतप्रकाशिकीयेते श्रीभाष्ये किञ्च जीवब्रह्मणोरैक्यं नाम किमन्तःकरणस्य संविदश्चैवयम् उत संविदवच्छिन्नान्तःकरणस्य संविदश्ध, उतान्तः करणावच्छिन्नसंविदः केवलसंविदश्च । न प्रथमः ; जड जडयेोरैक्यानुपपत्तेः । ? । नापि द्वितीयतृतीय, विशिष्टवयेऽभ्युपगम्यमाने विशेषणत्वेन विशेष्यत्वेन वा तदन्तर्भूतस्यान्तःकरणस्यापि संविदैक्यप्रसङ्गात् । तयोश्च अजडत्वजडत्वाभ्यां सत्यत्वानृतत्वाभ्यां चैकद्यमयुक्तमित्युक्तम् । अन्तःकरणोपलक्षितज्ञप्त्यैक्यं विषय इति चेत् — तदुपलक्षितज्ञप्तेः केनैक्यमुपदिश्यते ? कि स्वात्मनैव ! उत ज्ञप्त्यन्तरेण ? । न प्रथमः ; उपदेशवैयर्थ्यात् । न हि कस्यचिद्वस्तुनः ‘स्वस्मादभिन्नत्वमुपदेष्टव्यम् ; स्वस्माद्भेदप्रसङ्गाभावात् । ज्ञप्त्यन्तरेण चेत् — किं परमार्थतो भिन्नेन न, उताभिन्नेन न प्रथमः, अनभ्युगमात् अनुपपन्नत्वाच्च । अभिन्नेन चेत् — भेदप्रतीतिरस्ति वा न वा ? न चेत् ऐक्योपदेशवैयर्थ्यम् । अस्ति चेत् — मेदमिथ्यात्वोपदेश एवैक्योपदेशः स्यात् । मेदमिथ्यात्वस्यानुमानसिद्धत्वाभिमानाच्छास्त्रस्य निर्विषयत्वं स्यात् ॥ मेदपारमार्थे दृश्यत्वानुपपत्तिरित्यादितर्कानुगृहीतं शास्त्रं भेदमिध्यात्वे प्रमाणमिति न शास्त्रस्य निर्विषयत्वमिति चेत् —न; धर्मश्चेत् — हिंसात्वं न स्यादिति तर्कानुगृहीतेन, “न हिंस्यात् " इति शास्त्रेण वैधपश्वालम्भनस्यार्धर्मत्वप्रतिपादनानुपपत्तिवत् शास्त्रसिद्धभेदस्य शास्त्रेण मिथ्यात्वप्रतिपादनानुपत्तेः, संबन्धिभेदभिन्नानां संयोगेच्छादीनामिव ज्ञप्तीनामपि परस्परभेदस्य प्रत्यक्षादिसिद्धत्वात् तद्विरुद्धत्वादयोग्यस्य ज्ञप्ति मेदमिथ्यात्वस्य शास्त्रेण प्रतिपादनानुपपत्तेश्च । “नाह खल्वयमेवं सम्प्रत्यात्मानं नानात्ययमहमस्मीति”, “यदा सुप्तः स्वमं न कथञ्चन पश्यति”, “प्राणेभ्यो देवा देवेभ्यो लोकाः " देवाः इन्द्रियाणि, लोकाः आलोकनानि, संविदः - एवमादिशास्त्रसिद्धः प्रत्यक्षादिसिद्धश्ध कालतो विषयत आश्रयतश्च ज्ञप्तीनां परस्परभेदः ॥ अन्तःकरणवृत्तिभेदविषया सा श्रुतिरिति चेन्न ; स्वामयतेर्वृत्तिगोचरत्वे सति संविदैवयम्, संविदैवये सति ज्ञप्तिभेदश्रुतेर्वृत्तिगोचरत्वमित्यन्योन्याश्रयणप्रसङ्गात् । ज्ञातृज्ञेयावच्छिन्नतया प्रतीयमानस्य ज्ञानस्यान्तः करुणक्रियात्वे त्रितयोतीर्णज्ञानस्य शशविषाणायमानत्वाच्च तद्भेदमिध्यात्वप्रतिपादनं शशविषाणभेदमिध्यात्वप्रतिपादनतुल्यमिति न शास्त्रस्य सविषयत्वसिद्धिः । सम्प्रतिपन्नज्ञानानामेव मिथो भेदस्य मिथ्यात्वं शास्त्रविरोधात् प्रत्यक्षविरोधाच्च पश्वालम्भनाधर्मत्ववत् यूपादित्यैक्यवच्च न शास्त्रं प्रतिपादयितुं शक्नोति । अतः शास्त्रस्य विषयाभावादनारम्भणीयत्वम् । तथा प्रयोजनञ्च न घटते, तथा हि-प्रयोजनं द्विविधं शास्त्रस्य उपायभूतमवान्तर प्रयोजनम्, तत्साध्यं प्रयोजनं चेति । तत्र बन्धनिवर्तकज्ञानसिद्धिरवान्तरप्रयोजनम् ; मोक्षस्तु परमप्रयोजनम् । तत्रेदानीमुपजायमानं वाक्यजन्यज्ञानमनिवर्तकमित्यविगीतम्, वसिष्ठपराशरकृष्णद्वैपायनादीनामप्यनुत्पन्नं ज्ञानमन्येषामुत्पत्स्यत इत्यत्यन्तासंभावितम् । तेषामुत्पन्नञ्चेत् — मेदप्रतिभासो न स्यात् । स निवर्तिष्यत इति चेत् — तत एव तदभिन्नानामन्येषामपि निवर्तिष्यत इति न शास्त्रमारम्भणीयं स्यात् । प्रपञ्चस्व 1 स्वात्मनैव - तज्ज्ञप्तिव्यक्तथा सहैव । स्वस्मात् तद्वस्तुव्यक्तित एव । 2 अयमर्थः जिज्ञासाधिकरणपूर्वभागे द्रष्टव्यः । 8 स्वान श्रुतेः-स्वप्नविषय पूर्वोदाहृत ज्ञप्तिभेदश्रुतेः
१-१-४ समन्वयाधिकरणम् १६९ सत्यत्वादेव ज्ञाननिवरर्यत्वाभावादनिवर्तकं ज्ञानं नावान्तरफलमिति न तदर्थं शास्त्रमारम्भणीयम् । परमप्रयोजनं च न सिध्यति ; ज्ञातृज्ञेयभेदस्य सत्यस्य निवृत्तेरसंभावितत्वात् । किञ्च शास्त्रश्रवणाधिकारो ज्ञप्तिमात्रस्य वा, ज्ञातुर्वा । न प्रथमः ; ज्ञप्तिमात्रस्य श्रोतृत्वायोगात् । न द्वितीयः ; ज्ञातुः स्वनाशस्यापुरुषार्थत्वेन श्रवणादौ प्रवृत्त्यनुपपत्तेः । यत्सम्बन्धिसुखं दुःखनिवृत्तिश्च पुरुषार्थः, स खश्वहमर्थः । अहं निर्दुःखः सुखी स्यामिति हि प्रतीतिः (प्रवृत्तिः ? ) । तस्य पुरुषार्थवतो नाशः कथं पुरुषार्थ ः ? पुरुषार्थान्तरं वा कथमर्थयितुस्तस्याभावे पुरुषार्थो भवेत् ॥ अथोच्येत — भवत्पक्षे बद्धस्य वा मुक्तस्य वा शास्त्राधिकारः । प्रथमे स्वनाशस्या पुरुषार्थत्वात् अप्रवृत्तिः । उपाधिविशिष्टस्य बद्धस्य तद्रूपनाशो हि स्वनाशः । द्वितीये तु मुक्तस्य शास्त्रानपेक्षस्वादनधिकारः ॥ औपाधिकाकारविनाशो नापुरुषार्थः, दुःखविनिर्मुक्तखाभाविकरूपावस्थानादिति चेत् — तर्हि ज्ञातृत्वस्योपाधिकत्वात् तन्निवृत्तौ स्वरूपं तिष्ठतीति नापुरुषार्थ इति- नैवम् ; संविदि वास्तवज्ञातृत्वानभ्युपगमात् । तदारोपे त्वन्यत्र तत्सिद्धेरवश्यम्भावात् । अन्यस्य च ज्ञातुज्ञप्तिधर्मत्वाभावात् । यदि ज्ञप्तिः स्वरूपम्, ज्ञाता तद्धर्मः - तदानीमियं प्रतिबन्दी स्यात् । अहं सुखी दुःखीति सुखदुःखवत् अहं जानामीति ज्ञानस्याहमर्थधर्मताप्रतीतेरह मर्थस्य धर्मितया प्रतीतेश्वाविगीतत्वात् सुखदुःखनिवृत्त्योराश्रयस्य तस्य नाशोऽपुरुषार्थ एव । धर्मिणि नष्टे कस्य दुःखनिवृत्तिः पुमर्थस्स्यात् । अचेतनप्रकृतिबद्धत्वमौ पाधिकदुःखावहमिति, मलिनोऽहमिति प्रत्ययवतः पुरुषस्य मालिन्यनिवृत्तिवत्, तन्निवृत्तिर्नापुमर्थ ः ; अत्यन्ताभिमतस्य घर्मिस्वरूपस्य स्थितत्वात्; अनिष्टबन्धनिवृत्तेरिष्टत्वाच्च ।
ननु लौकिकप्रतीत्या निरूपकप्रतीत्या वाऽहमर्थस्य स्वरूपत्वम् । प्रथमे, स्थूलोऽहं कृशोऽहमिति लोकदृष्ट्या प्रतिपन्नत्वात् स्थूलत्वा दिविशिष्टदेह निवृत्तिरप्यपुरुषार्थस्स्यात् । द्वितीये, स्थौल्यादिवत् अभ्यस्तोऽहमर्थों ज्ञाताऽपि न स्वरूपमिति न तन्नाशोऽपुरुषार्थ ॥ नैवम्; मम हस्तः, मम पादः इति लोकदृष्ट्याऽप्यहमर्थस्य देहव्यतिरेक प्रतीतेः, अहमर्थस्यैवात्मत्वे श्रुतिस्मृतिसूत्राणां प्रागेव दर्शिततया निरूपकप्रतीतावप्यहमर्थस्यैव स्वरूपताप्रतीतेश्चाहमर्थनिवृत्तेर्दे ह निवृत्तितुल्यत्वाभावेनापुरुषार्थत्वस्य दुर्निवारत्वात् । अतो विषयप्रयोजनाभावात् शास्त्रस्यानारम्भणीयत्वं मृषावादिनां पक्षे स्थितम् । पश्चाद्भाविनो नित्यानित्यविवेकादेः पूर्ववृत्तत्वायोगात् अथशब्दार्थः परोक्तोऽनुपपन्न इति पूर्वमेवोक्तम् । शास्त्रान्तरजन्यस्य नित्यानित्यविवेकस्य वेदान्तविरुद्धत्वात् तेष्वेव मोक्षोपायोपदेशेन निराकाङ्खत्वाच ब्रह्मविचार हेतुत्वाभावात् नित्यानित्यविषयापातप्रतीतेस्तु उभयभाग साधारणत्वादेकान्ततो ब्रह्मविचार हेतुत्वाभावात् इतिहासपुराणयोः संशयविपर्ययग्रस्ततया तज्जन्यनित्यानित्यादिप्रतीतेः त्रिवर्गजिहासाजनकत्वाभावेन ब्रह्मविचारं प्रति हेतुत्वाभावाच्च अतःशव्दार्थोऽनुपपन्नः । यन्नित्यं तदुपादेयम्, यदनित्यं तद्धेयमिति विवेको नित्यानित्यवस्तुविवेक इत्युत्प्रेक्षणमप्ययुक्तम् ; वेदान्तेषु नित्यपुरुषार्थप्रतिपादनावगमात् तदारम्भः, तदारम्भात् तेषु नित्यपुरुषार्थप्रतिपादनावगम इत्यन्योन्याश्रयप्रसङ्गात् ; शास्त्रान्तरेष्वपि नित्यपुरुषार्थसंभावनया ब्रह्मविचारं प्रति एकान्ततो हेतुत्वाभावात्; शास्त्रान्तरेषु तदभावस्य वेदान्तेषु तत्सद्भावनिश्चयस्य च तर्कपादाधीनत्वेन पूर्ववदन्योन्याश्रयप्रसङ्गात् ; वेदान्ततदितरशास्त्रेषु नित्यपुरुषार्थसद्भावासद्भावयोर्गुरुवचनादवगम्यत्वे, ब्रह्मोपासनस्यापि गुरुवचनादवगम्यत्वेन शारीरकमीमांसा- 2_22
१७० (द्वितीयादिसूत्रार्थनिरासः) नैरपेक्ष्येण तदनारम्भणीयत्वप्रसङ्गाच्च । जीवब्रह्मणो रैक्यस्य शास्त्रविषयत्वाङ्गीकारे ब्रह्मजिज्ञासापदश्च न सङ्गच्छते । ब्रह्मणो जिज्ञास्यत्वं हि शब्दादगम्यते ; न जीवब्रह्मणोरैवयस्य । यथा धर्मजिज्ञासापदं धर्ममात्रस्य जिज्ञास्यतां वक्ति, न तु धर्माधर्मयेोरैक्यस्य जिज्ञास्यत्वम् - तद्वदेव हि ब्रह्मजिज्ञसापदम् । ; निर्विशेषस्य वस्तुनो लक्षणोक्तिश्व न घटते, विशेषणतया लक्षणत्वे सविशेषत्वप्रसङ्गात् ; उप लक्षणतया लक्षणत्वे पूर्वप्रतिपन्नाकारातिरिक्तस्योपलक्षणज्ञाप्यस्याऽऽकारान्तरस्याभावेनोपलक्षण वैयर्थ्यात् ; तदभ्युपगमे सविशेषत्वप्रसङ्गाच्च । खरूपमेवोपलक्षणज्ञाप्यमिति चेत् -तत्स्वरूपं प्राक् प्रतिपन्नम्, न वा ? प्रतिपन्नं चेत् — उपलक्षणवैयर्थ्यम् । अप्रतिपन्नत्वे, खप्रकाशता न स्यात् । उपलक्षयितुमशक्यता च ; केदारत्वाकारेणावगतस्य देवदत्तसंबन्धितया सारसेन ज्ञाप्यत्वं ह्युपलक्ष्यत्वम् । त्रागनवगता प्रपञ्च व्यावृत्तिरुपलक्ष्याकार इति चेत्, प्रपञ्च व्यावृतेः स्वरूपातिरिक्तत्वे सविशेषत्वप्रसङ्गात् । अनतिरिक्तत्वे तत्स्वरूपं प्रागेव मातमित्युपलक्षण वैयर्थ्यम् । किञ्च कथं कारणत्वे लक्षणे सति प्रपञ्च व्यावृत्तिः ? ॥ कारणत्वं नाम कार्यजगदध्यासाधिष्ठानत्वम् । अतोऽध्यस्तादनृतात् प्रपञ्चादधिष्ठानस्य ब्रह्मणः सत्यतया व्यावृत्तिरिति चेत् — न घटाद्यधिष्ठानस्य मृद इव ब्रह्मणोऽप्यनृतत्वेन व्यावृत्तिपसङ्गात् ॥ घटादिकारणस्यापि मृदादेः कारणान्तरेऽध्यस्तत्वादसत्यत्वम् ; कालत्रयवर्तिक्कृत्स्नकार्याधिष्ठानस्य ब्रह्मणोऽन्यवाध्यस्तत्वाभावान्नासत्यत्वमिति चेत्-न; ‘इदमग्र आसीत् ’ इतीदंशब्दवाच्यं कार्यमात्रं प्रति अधिष्ठानत्वश्रवणेन ब्रह्मणोऽपि कारणान्तराध्यस्तत्वाविरोधात्; बीजाङ्कुरन्यायेन प्रवाहानादित्वोपपत्तेश्च ॥ कृत्स्नकार्यकारणस्य ब्रह्मणः कारणान्तरप्रतिषेधेनाकार्यत्वात् सत्यत्वमिति प्रपञ्च व्यावृत्तिरिति चेत्तकार्यत्वमात्रेण जगद्व्यावृत्तिसिद्धेः कारणत्वोक्तिवैयर्थ्यादकार्यत्वश्रुतिरेव लक्षणवाक्यत्वेनोदाहर्तव्या स्यात् ; ‘न तु ‘यतो वा इमानि’ इत्यादिश्रुतिः ॥ अकार्यत्वश्रुतिरेव विवक्षितेति चेत्-तर्हि, “स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः” इत्यकार्यत्वश्रुतेः करणाधिपाधिपशब्दवाच्येश्वरविषयत्वाल्लक्ष्यवस्तुनो निर्विशेषत्वं न सिध्येत् । किञ्च जगत्कारणत्वरूपलक्षणविशेषो लक्ष्यस्य निर्विशेषत्व विरोधी, सार्वज्ञ्यादिगुणाक्षेपकत्वात् तस्य ॥ आक्षिप्तमपि सार्वज्ञ्यादिकं वस्तुमात्रोपलक्षणमिति चेत्–न, सार्वश्येन वस्तुन्युपलक्षिते सति सर्वशक्तित्वाद्यपलक्षणान्तरवैषर्थ्यात् । न हि शाखया चन्द्रे उपलक्षिते प्रासादाग्रेण प्रयोजनम् । सार्वश्येन निर्विशेषवस्तूपलक्षणं व्याहतं च; स्वेन सविशेषस्याश्रयस्य निर्विशेषत्व ज्ञापनायोगात् ; सर्वशक्तित्वादिविशेषान्तरराहित्यज्ञापनासामर्थ्याच्च । अतो लक्षणसूत्रं निर्विशेषपक्षविरुद्धम् । तृतीयं सूत्रमपि न घटते; निर्विशेषवस्तुनि तात्पर्यविषये सति कारणत्वाक्षिप्त सार्वश्यादिसमर्थनं कोपयुज्यते ! प्रसङ्गादपि न तत्समर्थनं न्याय्यम्; निर्विशेषत्वविरोधात् । किञ्च ऋग्वेदादिशास्त्रं स्वविषयादधिकविषयज्ञानवदुपादानकम् वाक्यत्वादित्यनुमानमप्यसङ्गतम् । तथा हि-किमधिक विषयज्ञानवदुपादानकत्वं साध्यम्, उत तद्वक्तृकत्वम्, उत तदुच्चारितत्वम् । प्रथमे दृष्टान्तः साध्यविकलः, आकाशगुणस्य शब्दस्य कालिदासाद्युपादानकत्वाभावात् । न द्वितीयः वेदस्य पौरुषेयत्वप्रसङ्गात् । न तृतीयः, अनैकान्तिकत्वात् । न हि वैदिकमन्यद्वा वाक्यमुच्चारयतां बालादीनां तद्विषयादधिकविषयज्ञानमस्ति । शास्त्रप्रमाणकत्वं सूत्रार्थ इति च व्याख्या ब्रह्मणोऽनुभाव्यत्वमनभ्युपगच्छतां न घटते । , चतुर्थे च सूत्रे ब्रह्मणः प्राधान्येन शास्त्र्योनिसूत्रनिर्दिष्टत्वाभावात् तच्छन्दस्य ब्रह्मपरत्वं न
१-१-४ समन्वयाधिकरणम् ( यादवमतनिरासः) १७१ खारसिकम् । वेदान्तवाक्यानां भ्रमनिवर्तकवाक्यार्थज्ञानजनकतया प्रयोजनपर्यवसायित्वं वाक्यार्थज्ञानमात्रेण बन्धनिवृत्तेः शास्त्रप्रत्यक्षविरोधविध्वस्तत्वादनुपपन्नम् । 1 तदन्यथा सिद्धिप्रतिविधानं च पूर्वमेव कृतम् । किञ्च कस्य भ्रमनिवृत्तिः ? किं ज्ञप्तेः, उत चेतनस्य । न तावत् ज्ञप्तेः ; “तस्या अचेतनत्वेन भ्रमाश्रयत्वाभावात् । चेतनो हि भ्रान्त्याश्रयः । जडत्वं भ्रमानाश्रयत्वे प्रयोजकमिति चेत् — त्वया जडत्वेनाभिमते ज्ञातरि भ्रमानाश्रयत्वाभावेन साध्यसमव्याप्त्यसिद्धेः । चेतनस्य भ्रमनिवृत्तिरपि भवत्पक्षे न पुरुषार्थः स्यात् ; ज्ञातुरपि निवर्त्यकोटिनिविष्टत्वात् । तं प्रति स्वनाशस्यापुरुषार्थत्वाच्च । राज्ञः शत्रुनिवृत्तिरिव ज्ञानरूपस्यात्मनो ज्ञातृनिवृत्तिः पुरुषार्थ इति चेत्-न; ज्ञातुरेवात्मत्वात् । ज्ञातृधर्मतयाऽवगतस्य ज्ञानस्येच्छाद्वेषादेरिवात्मत्वाभावात् । आत्मत्वाभ्युमगमेऽपि तस्य पुरुषार्थार्थयितृत्वाभावेन पुरुषार्थप्रतिसंवन्धित्वानुपपत्त्या ज्ञानं प्रति ज्ञातृनिवृत्तेः पुरुषार्थत्वायोगात् । पुरुषेणार्थनीयस्य हि पुरुषार्थत्वम् । ज्ञानस्यात्मत्वपुरुषार्थप्रतिसम्बन्धित्वाभ्युपगमेऽपि तदपेक्ष्यज्ञातृनिवृतेः पुरुषार्थत्वमयुक्तम् ; ज्ञानं प्रति ज्ञातुर्दुः खतद्धेतुध्वन्यतमत्वाभावात् । सुखदुःखभोक्तारं प्रति सुखतद्धेतूनां दुःखतद्धेतुनिवृत्तेरपि हि पुरुषार्थत्वम् । न हि ज्ञाता ज्ञप्तेर्दुःखरूपः, न च दुःखजनयिता; ज्ञानस्य दुःखानुभवितृत्वायोगात् । प्रवृत्तिनिवृत्तिपरत्वेन प्रयोजनपर्यवसानं त्वयैवापास्तं ध्याननियोगवादप्रतिक्षेपे । अतोऽनुपन्नं शास्त्रस्य त्वदुक्तं प्रयोजनपर्यवसायित्वम् ॥ } ‘यादव प्रकाशीयास्तु दुःखत्रयाभिघातज्ञानानन्तरं तदुपशमोपाये पुरुषप्रवृत्तरेव हेतोर्ब्रह्मैव जिज्ञास्यम्, न तु प्रधानादीनीति प्रथमसूत्रार्थं वर्णयन्ति । अस्तु ब्रह्मणो जिज्ञास्यत्वम् ; नैतावता प्रधानादीनामजिज्ञास्यत्वम् ; तेव्वन्यतमस्यैव ब्रह्मशब्दार्थत्वात् शास्त्रेण हि ब्रह्मानूद्य तज्ज्ञानं विधीयते । एकेन वाक्येनैकस्यार्थस्य विधानानुवादायोगात् अनुवादः प्रमाणान्तरसापेक्षः । प्रमाणान्तरैश्च वादिभिः संभावितास्तत्त्वप्रकारविशेषाः सर्वे परिकल्पिता इति तत्त्वान्तरोत्प्रेक्षा न शक्या । अतस्तेष्वन्यतमस्यैव ज्ञातव्यत्वविधानाय शस्त्रेणानुवादः क्रियत इति शङ्कापरिहारार्थ जन्मादिसूत्रम् । सन्मात्रवपुषोऽनेकशक्तिशालिन एकस्मादद्वितीयात् ब्रह्मणः कृत्स्नस्य चिदचित्प्रपञ्चस्य जन्मस्थितिलयं प्रतिपाद्यम् । अत ईदृशं तत्त्वं वाद्यन्तरैरपरिकल्पितमिति न तत्परिकल्पितार्थेष्वन्यतमस्य ब्रह्मशब्दार्थत्वमिति सूत्रार्थमाहुः । एवं तर्हि प्रमाणान्तरासिद्धत्वात् शास्त्रेणानुवादासम्भव इति शंकायां शास्त्र्योनित्वादित्युच्यते । वेदान्तेष्वेव केनापि वाक्येन प्रतिपादितस्य वाक्यान्तरेणानुवाद उपपन्नः प्रमाणान्तरानाघ्रातचर वस्तुप्रतिपादनक्षमत्वं 1 तदन्यथासिद्धीति । अद्वैतवाक्यातिरिक्तं भेदशास्त्रं सर्वे प्रत्यक्षादिकञ्चान्यथासिद्धत्वाद्दुर्बलं वाध्यमित्यस्य परिहारश्च जिज्ञासाधिकरण एव कृत इति । । 2 तस्या इति । ज्ञप्तिर्न भ्रमाश्रयः अचेतनत्वात् ; यो भ्रमाश्रयः स चेतनः इति व्यतिरेकव्याप्तिः । न च जडत्वमुपाधिः ; यत्त्र जडत्वं तत्र भ्रमाश्रयत्वमिति व्याप्तौ सत्यां किल जडत्वमेव तत्र प्रयोजकं लिङ्गमिति अचेतनत्वं तद्गतव्याप्त्यारोपेण प्रयुक्तम्, न तु वस्तुतोव्याप्यमित्युच्येत । जडत्वं तु न व्याप्यमित्यर्थः । यत्नोपावेः साध्यप्रयोजकत्वमुच्यते, तत्र तस्य साधनाव्यापकत्वेन सह साध्यव्यापकत्वमिव साध्यव्याप्यत्वमपि वर्णनीयम् ॥ साध्यव्यापकत्वमपि नास्ति । भ्रमानाश्रये ईश्वरचिति जडत्वाभावात् । 3 तदपेक्ष्येति । ज्ञानेनाश्रयतयाऽपेक्ष्यो ज्ञाता ; तन्निवृत्तेरित्यर्थः । यद्वा तत् अपेक्ष्येति पदद्वयम् । ज्ञानं प्रति इत्यर्थः । 4 भास्करीयानिरासस्तु सूत्रार्थरीतेरिष्टत्वात्. अधिकरणरचनाया अस्पष्टत्वात्, विरुद्धांशस्यैतन्निरासेनैव निरासाथ
१७२
शब्दमहिमेति सूत्रतात्पर्य वदन्ति । तथापि सिद्धे व्युत्पत्त्यभावात् प्रवृत्तिनिवृत्तिविरहे वाक्यस्म प्रयोजनाभावाच्च ब्रह्मणः शास्त्रप्रतिपाद्यत्वायोगशङ्का परिहारपरं समन्वयसूत्र व्याचक्षते । तत्र तावत् प्रथमसूत्रे दुःखत्रयाभिघातज्ञानस्य पूर्ववृत्तत्वं प्रागेव प्रतिक्षिप्तम्, प्रत्यक्षादिना तज्ज्ञाने विवक्षिते तत्परिहारस्यायुर्वेदादिसिद्धत्वात् ; स्वर्गादेरपि तापत्रयान्तर्भावज्ञानस्य च साङ्ख्यादिशास्त्रान्तराधीनत्वे मोक्षोपायस्यापि तत्रैव सुलभतया वेदान्तनैरपेक्ष्यात; वेदेन तज्ज्ञानस्य कर्मविचारसापेक्षतया तत्पूर्ववृत्तत्वापाताच्चेति । प्रधानादीनामजिज्ञास्यतापरत्वञ्च पूर्वमेव निरस्तम् ; श्रत्यविरुद्धांशे साङ्ख्यादिशास्त्रस्य भवद्भिरङ्गीकृतत्वात्, विरुद्धांशे चाप्रामाण्यस्य विरोधाधिकरणन्यायसिद्धत्वा त तत्प्रमेयदौस्थ्यस्य तर्कपादे दर्शयिष्यमाणत्वात् वेदान्तवाक्यानामतत्परत्वस्य ईक्षत्यधिकरणादिषु वक्ष्यमाणत्वाच्च सूत्रस्य कृतकरत्वप्रसङ्गादिति । जन्मादिसूत्रस्य वाद्यन्तरापरिकल्पित’ प्रकारेणौपनिषदतत्त्ववैलक्षण्यात् ब्रह्मशब्दस्य तत्परिकल्पितप्रधानाद्यन्यतमविषयत्वनिरासपरत्वं चायुक्तम् ; विशेषण मेदायत विशेष्यबहुत्वपरिहाराभावे सति अद्वितीयवस्तुनः समस्तजगत्कारणत्वप्रतिपादनानुपपत्तेः । चिदचित्प्रपञ्चस्याद्वितीयकारणतया हि वाद्यन्तर वलप्ततत्त्वभ्य औपनिषदतत्त्ववैलक्षण्यं भवद्भिरुक्तम् । वेदान्तवेद्यतत्त्वस्य त्वदुक्तप्रकारेण प्रधानादिवैलक्षण्यञ्च ईक्षत्यधिकरणा दिन्यायनैरपेक्ष्येण न सिध्यति । इह वक्ष्यमाणव्यतिरिक्तन्यायान्तरानुक्तेः ; वक्ष्यमाणानुपपत्तीनां वक्ष्यमाणन्यायैर्विना परिहारायोगाच्च । वक्ष्यमाणोपजीवने च तत एव तत्त्ववैलक्षण्यं प्रधानादेरजिज्ञास्यत्वं च सिध्यतीति कृतकरत्वं स्यात् । 1 ; वाक्यान्तरेण प्रतिपादितस्य वाक्यान्तरेणानुवादसंभवपरत्वञ्च शास्त्र्योन्यधिकरणस्यायुक्तम्, कृतकरत्वादेव । “अग्निहोत्रं जुहोति” इति वाक्यान्तरेण विहितस्य होमस्य, “दध्ना जुहोति " इति वाक्यान्तरेणानुवादः पूर्वकाण्डे प्रसिद्धः । आग्नेयादिषट्कं तदुत्पत्तिवाक्यविहितम्, “य एवं विद्वान् पौर्णमासीं यजते”, “य एवं विद्वानमावास्यां यजते” इति वाक्याभ्यामनूद्यत इति च तत्र तत्र प्रसिद्धम् । अतो वाक्यमेदेन विधानानुवादसंभवो नात्र व्युत्पाद्यः । समन्वय सूत्रस्य च प्रवृत्तिनिवृत्तिपरत्वाभावेऽपि शास्त्रस्य प्रयोजनवत्ताप्रतिपादनपरत्वमिष्टम् । सिद्धे व्युत्पत्तिप्रतिपादनपरत्वं त्वयुक्तम्, प्रथमसूत्रेणैव सिद्धार्थव्युत्पत्तेः समर्थितत्वात् । तत्र च तत्समर्थनाभावेन” त्वदुक्तार्थपरत्वे तत्सूत्रवैयर्थ्यस्योपपादितत्वाच्च । सिद्धवस्तुमात्रे शब्दशक्तिसमर्थनाभावे सति सिद्धवस्तुवैलक्षण्यतद्विधानानुवादतत्प्रयोजनादिनिरूपण स्यानपेक्षितत्वेन जन्मादिसूत्रत्रयोत्थानस्य तत्पूर्वकत्वावश्यम्भावात् ; वक्ष्यमाणोपजीवनेनोत्थाने प्रतिपत्तिक्रमसामञ्जस्याभावात् ; आद्यसूत्रस्यापेक्षितविधेरनपेक्षितविधानपरत्वायोगाच्च । अतो भाष्यकारोक्तार्थपरत्वमेव चतुस्सूत्र्या उपपन्नम् ॥ इति समन्वयाधिकरणम् ॥ ॥ इति श्रुतप्रकाशिकायां चतुस्सूत्री समाप्ता ॥ 1 प्रकारेणेति । प्रकारमूलंकं यत् वैलक्षण्यम्, तदधीनो यो निरासः तत्परत्वमित्यर्थः । 2 समर्थनाभावेनेति । समर्थनं विहायेत्यर्थः ॥ 9 अस्मद्भाष्यकारैर्हि- 3 निर्धून्वन् निष्प्रपञ्चीकृतिविषयनियोगोक्तिम्, आत्मैक्यचिन्ताविध्युक्तिर्या निरस्य प्रसृतिमधिगता शांकरं भास्करञ्च । ताञ्च क्षीवो निरुन्धन् विधिवचनपरस्तान्त्रिकोऽस्मिन् निरस्तो विध्याकांक्षां विनैव प्रबलफलपरत्वेन भेदं प्रदर्थं ॥ ॥….. शुभमस्तु .. …।
ईक्षत्यधिकरणम् १-१-५ ईक्षतेर्नाशब्दम् १-१-५ १७३ “यतो वा इमानि” इत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्ति समस्तहेय प्रत्यनीककल्याणगुणैकतानं ब्रह्म जिज्ञास्यमित्युक्तम् । इदानीं जगत्कारणवादिवाक्यानामानुमानिकप्रधानादिप्रतिपादनानतोच्यते ईक्षतेनशब्दमित्यादिना । इदमाम्नायते छान्दोग्ये, “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तदैक्षत बहु स्यां प्रजायेयेति । । ईक्षतेर्नाशब्दम् ॥ प्रथमे सूत्रे उद्देशः कृतः । द्वितीये लक्षणमुक्तम् । तृतीयचतुर्थाभ्यां लक्ष्यस्य ब्रह्मणः परीक्ष्यत्वसिद्ध्यर्थं लक्षणस्वभावात् सिद्धरूपलक्ष्यस्वभावाच्चोत्थिते ज्ञातत्वाप्रयोजनत्वशङ्के परिहृते; अथ लक्ष्यं वस्तु किं चिदचिद्विलक्षणम् उताविलक्षणमिति परीक्ष्यते । यद्वा पूर्वं कारणत्वमनूद्य तस्य लक्षणत्वमुक्तम् । लक्षणलक्ष्यस्वभावनिबन्धनं शङ्काद्वयं च परिहृतम् ; अथ लक्षणभूतकारणत्वप्रापकवाक्यानि निरूप्यन्ते । यद्वा चतुस्सूत्र्या वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यरूपपरीक्ष्यतापरिकरस्थापन कृतम् ; अथ प्रमेयविशेषपरीक्षा क्रियत इति पेटिकासङ्गतिः ॥
ननु ईक्षत्यधिकरणमनारम्भणीयम्; समन्वयाधिकरणे पुरुषार्थभूतस्यैव ब्रह्मणः प्रतिपाद्यत्वनिश्चयेन हेयास्पदस्य प्रधानस्य प्रसङ्गाभावादिति ॥ नैवम् । पुरुषार्थभूतस्य ब्रह्मणः प्रतिपाद्यत्वं न संभवति, अपुरुषार्थभूतस्य प्रधानादेः प्रतिपादनादिति समन्वयाधिकरणो कार्यत्याऽऽक्षेपेणोत्थानादिति । इयमवान्तरसङ्गतिरिति । एतदभिप्रायेण पेटिकाभेद तत्सङ्गत्यवान्तरसङ्गतीराह यतोवा इमानीत्यादीति । उद्दिष्टस्य ब्रह्मणो लक्षणमुक्तम् . लक्षितस्य परीक्षणं वर्तिष्यत इत्यभिप्रायेण लक्षणवाक्यमुपात्तम् । कारणत्वानुवादेन तस्य लक्षणत्वविधानात् कारणस्य चिदचिद्वैलक्षण्यनिर्णयस्य कारणत्वप्रापकवाक्य निरूपण सापेक्षत्वात् अस्मिन्नधिकरणे कारणवाक्यानि निरूप्यन्त इति च ज्ञापनार्थं लक्षणनाक्योपादानम् । आदिशब्देन कारणत्वप्रापकवाक्यानि गृह्यन्ते । अत एव ह्यनुवादपुरोवादसाधारण्येन जगत्कारणवादीत्युक्तम् । समन्वयाधिकरणार्थाक्षेप हेतुकाव। न्तरसङ्गत्युपयोगीनि सर्वज्ञत्वादिविशेषणानि । जिज्ञास्यमित्युक्तमिति । प्रामाणिकतया परीक्ष्यमित्युक्तमित्यर्थः । तदनन्तरं परीक्षा हि सङ्गतेत्यभिप्रायेणाह इदानीमिति । अनेन चतुस्यानन्तर्यं ब्रह्मणः पुरुषार्थताप्रतिपादनपरसमन्वया विकरणानन्तर्यमप्युक्तम् । आनुमानिकप्रधानादीत्यनेन अनन्तरोक्तसमन्वयाक्षेपेणोत्थानादवान्तरसङ्गतिरिति सूच्यते । प्रधानादीत्यादिशब्देन क्षेत्रज्ञमात्रम्, चिद्विशेषाः, अचिद्विशेषाश्च गृह्यन्ते । ईक्षतेनशब्द मित्यादिनेति । पादशेषेणाध्यायशेषेणेति वा अर्थः । विषयमुदाहरति इदमिति । प्रतिज्ञादृष्टान्तोपेतं संकल्पप्रतिपादकं सामान्यशब्दवत् कारणवाकर्यं • विषयः । तत्र सद्विद्यावाक्यमेवास्याधिकरणस्य साक्षाद्विषयः । सद्विद्याद्वारेणेदृशकारण वाक्यानां विषयत्वम् ःन तु साक्षादेव; विषयवाक्योपादानसमये वाक्यान्तराणामनुपादानात् । दीपसारयोश्च तेषामनुपातत्वात् । प्रतिज्ञाविरोधखाप्यययोरत्रत्ययोरेव सूत्रितत्वात् तदनुग्राहकत्वेनोपनिषदन्तर गतिसामान्यस्य,
१७४ 1
तत्तेजोऽसृजत” इत्यादि । तत्र संदिह्यते - किं सच्छब्दवाच्यं जगत्कारणं परोक्तमानुमानिकं प्रधानम् उतोक्तलक्षणं ब्रह्मेति । किं प्राप्तम् । प्रधानमिति । कुतः । ‘सदेव सोम्येदमग्र आसीदेकमेव’ इतीदंअस्यामुपनिषदि विद्यान्तरेषु श्रुतत्वस्यापि सूत्रितत्वात् । बुद्धयवतरणक्रमेण प्रथममुपादानत्वोचिता चेतनत्वशङ्कायाः प्रतिक्षेप्यत्वात् । सद्ब्रह्मात्मादिपदचिह्नितेषु वाक्येषु सामान्यशब्दचिह्नितवाक्यस्य प्रथमनिरूपणीयत्वाच्च । सामान्यद्वारा हि विशेषो बुद्धिमधिरोहति, सामान्यपरिग्रहे प्रतिक्षेप्ते च विशेषविषयसंशयोऽवकाशवान् । विशेषे तु प्रतिपन्ने हि सामान्याकाङ्क्षा न स्वरसवाहिनी । सन्दिग्धे हि न्यायप्रवृत्तिः ; अतः संशयसद्भावमाह तत्रेति । कारणस्य इदंशब्दवाच्यकार्यसालझण्यावश्यम्भावेक्षितृत्वाभ्यां संशयः ! संशयशरीरं दर्शयति किमिति । सच्छन्दवाच्यमिति । धर्मिवाचिपदस्य साधारणतया संशयसहत्वं दर्शितम् । जगत्कारणमिति, उपादानत्वात् कार्यसालक्षण्यं दुस्त्यजम्, निमित्तत्वात् मुख्येक्षितृत्वं चेति संशयहेतुस्थिरीकरणम् । परोक्तमिति । विप्रतिपत्तिरपि संशयहेत्वोरनुग्राहिकेति भावः । पूर्वपक्षचीजस्मारणपरसौत्रपद द्योतनार्थमानुमानिकमिति पदम् । उक्तलक्षणम् - सर्वज्ञत्वादिलक्षणम् । आनुमानिकउक्तलक्षणपदाभ्यां संशयहेतुद्वसूचनम् । किं जगत्कारणवादिवेदान्तवाक्यानि प्रधानादिप्रतिपादनपराणि, उत तद्विलक्षणब्रह्मपराणीति पादशेषसाधारणो विचारः । अत्र तु तदर्थम् - सद्विद्यावाक्यानि कि प्रधानप्रतिपादनपराणि, उतोक्तलक्षणब्रह्मपराणीति विचारः ; तदर्थं किमलेक्षणं गौणम्-उत मुख्यमिति ; तदर्थं किमनुमानाकारता, गौणेक्षण साहचर्यं च विद्यते, नेति; तदर्थं प्रतिज्ञादृष्टान्तौ किं हेतोराक्षेपकौ, नेति ; तेजःप्रभृतिशब्दाः किं तेजःप्रभृतिमात्रवाचिनः, उत परमात्मपरा इति च; तदर्थम् आत्मशब्दः तेजः प्रभृतिशब्दानाम ब्रह्मपरत्वस्याविरोधी, उत विरोधीति तदर्थमात्मशब्दस्वारस्य भङ्गहेतवोऽनुरोद्धव्याः उत तदनुग्राहकहेतव इति विचारः । । तत्स्वारस्यभङ्गहेतवोनुरोद्धव्या इति पूर्वः पक्षः । तदनुग्राहका एव अनुरोद्धव्या इति सिद्धान्तः । यदा खारस्यभङ्गहेतोरनुरोद्धव्यत्वेन आत्मशब्दस्य तेजःप्रभृतिशब्दानामब्रह्मपरत्वाविरोधितया तेजःप्रभृतिशब्दाः तेजःप्रभृतिमात्रवाचिनः, प्रतिज्ञादृष्टान्तौ च यदा हेत्वाक्षेपकौ – तदा हेत्वाक्षेपो गौणेक्षणसाहचर्यं चास्तीति प्रथमश्रुतेक्षणस्य गौणत्वेन सद्विद्यावाक्यानां प्रधानपरत्वात् तदेकार्थतया सर्वाणि कारणवाक्यानि प्रधानपराणीति पूर्वपक्षे फलफलिभावः । यदा आत्मशब्दस्वारस्योत्तम्भ कहेतोरनुरोद्धव्यत्वेन आत्मशब्दस्य तेजः प्रभृतिशब्दानामत्रह्मपरत्व विरोधित्वेन तेजः प्रभृतिशब्दाः परमात्मपराः, प्रतिज्ञादृष्टान्तौ च यदा न हेत्वाक्षेपकौ—तदा अनुमानाकारत्व-गौणेक्षण साहचर्यवोर सिद्ध्या प्राथमिकेक्षणस्यागौणत्वात् सद्विद्यावाक्यानि परब्रह्मपराणि । अतः तदैकार्थ्यात् सर्वाणि कारणवाक्यानि परब्रह्मपराणीति सिद्धान्ते फलफलिभावः । तत्र पूर्वपक्षं वक्तुं अन्यतर शिरसो युक्तिमत्त्वेन निर्धारणाकाङ्क्षां दर्शयति किं. प्राप्तमिति । प्राप्तं युक्तम् । युक्तिमदित्यर्थः । पूर्वपक्षी स्वपक्षं युक्तिमत्त्वेनैव प्रतिजानीते प्रधानमितीति । संशयकोडीकृते शिरोद्वये प्रधानमिति शिरो युक्तिमदित्यर्थः । युक्तिविशेषाकाङ्क्षां दर्शयति कुतइति । तदुपपादयति सदेवेति । कारणस्य प्रधानत्वसिद्ध चौपयिकानि तद्विलक्षणपुरुषविशेषत्वविरोधीनि च विशेषणान्याह इदंशब्दे-
१-१-५ ईक्षत्यधिकरणम् ; १७५ शब्दवाच्यस्य चेतनभोग्यंभूतस्य सत्त्वरजस्तमोमयस्य वियदादिनानारूपविकारावस्थस्य वस्तुनः कारणावस्थां वदति । कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव हि कार्यता । अतो यत् द्रव्यं यत्स्वभावं च कार्यावस्थम्, तत्स्वभावं तदेव द्रव्यं कारणावस्थम् । सखादिमयं च कार्यमिति गुणसाम्यावस्थं प्रधानमेव हि कारणम् । तदेवोपसंहृतसकलविशेषं सन्मात्रमिति, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यभिधीयते । तत एव च कार्यकारणयोरनन्यत्वम् । तथासत्येवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः । अन्यथा यथा सोम्यैकेन मृत्पिण्डेनेत्यादिमृतपिण्डतत्कार्यदृष्टान्तदार्थत्यादिना । इदंशब्दवाच्यस्येति । परागर्थे हीदंशब्दखारस्यम् न तु प्रत्यग्रूपे चेतन इति भावः । जगतश्चिदचिदात्मकतया चेतनस्यापि इदंशब्दवाच्यान्तर्भावव्युदासायाह चेतनभोग्यभूतस्येति । चिंशस्य कार्यत्वकारणत्वायोगात् न तस्य कार्यन्तर्भाव इति भोक्तृतया अवस्थानमेतस्य ; तस्य-भोग्यस्यैव तु कार्यत्वमिति भावः । चेतनस्य ज्ञेयतैकस्वभावजगद्रूपत्वमयुक्तमिति चाभिप्रायः । कार्यस्य भोग्यत्वौपयिकं कारणस्य प्रधानत्वापादकं च विशेषणमाह सत्त्वरजस्तमोमयस्येति । सत्त्वादिकार्यसुखदुःखमोहान्वय हेतुत्वदर्शनात् जगतः सत्त्वादिमयत्वम् । निर्गुणः कथं गुणमयस्य कारणमिति चाभिप्रायः । भोग्यत्वोपपादनायाह वियदादीति । यद्वा - इंदशब्दवाच्यद्रव्यस्य कारणत्वे कार्यत्व कारणत्वयोः को भेद इत्यत्राह वियदादीति । एकत्वावस्थं कारणं बहुत्वावस्थं कार्यमिति सिदेत्यर्थः । एकरूपस्य पुरुषस्य नानारूपकार्यभावोऽनुपपन्नश्चेति भावः । कारणस्य कार्यसा लक्षण्यावश्यग्भावे हि चेतनस्य इदंशब्दवाच्यं प्रति कारणत्वानुपपत्तिः कारणावस्था कार्योपादानभूतद्रव्यान्तर निष्ठेति कथं सालक्षण्यावश्यम्भाव इति शङ्कायां कार्यकारणयोरेकद्रव्यत्वमाह कारणभृतद्रव्यस्येति । ततः किमित्यपेक्षायां कार्यकारणसालक्षण्यनियमं फलितमाह अत इति । ततोऽपि किमित्याशङ्कायां कार्यस्य प्रधानसालक्षण्यमाह सच्चादिमयं चेति । प्रधानस्य कार्यसारूप्यमाह गुणसाम्यावस्थमिति । कार्ये गुणवैषम्यदर्शनात् कारणमपि तथाविधं स्यादिति शङ्कापाकरणार्थं गुणसाम्यावस्थमित्युक्तम् - न तु गुणमयमिति । विषमावस्थस्य सर्वस्य कार्यत्वदर्शनात्, कारणस्यापि तथात्वे कारणान्तरापेक्षया अनवस्थाप्रसङ्गाच्च प्रधानस्य गुणसाम्यावस्थत्व सिद्धिरिति भावः । अनेकगुणसाम्यावस्थस्य प्रधानस्य कारणत्वे एकत्वावधारणमनुपपन्नम् ; एकस्यैव ब्रह्मणः कारणत्वे तु उपपन्नमित्यत्राह तदेवोपसंहृतेति । एकमेवेति नामरूपविभागव्युदासः, अद्वितीयमिति गुणवैषम्यव्युदास इत्यभिप्रायेण उपसंहृतसकल विशेषमित्युक्तम् । सन्मात्रमिति । सदेवेति कादाचित्कासत्त्वव्युदास इति भावः । सन्मात्रमितीत्यत्र इतिशब्द हेतौ । प्रधानकारणत्वमेव युक्त्यन्तरेणोपपादयितुमाह तत एवेति । इदंशब्दवाच्यं प्रति कारणस्य त्रिगुणात्मकस्य प्रधानस्य सच्छन्दवाच्यत्वादेव हि कार्यकारणयोरनन्यत्वसिद्धिः ; न हि विजातीययोरनन्यत्वमिति भावः । अनन्यत्वं मा भूदित्यत्राह तथासतीति । अनन्यत्वे सति ह्येकविज्ञानेन सर्वविज्ञानसिद्धिः । तत् चिदचिद्विलक्षण कारणत्वपक्षे न संभवतीति भावः । एवं प्रतिज्ञासिद्धिरूपयुक्तिरुक्ता भवति । यद्वा-इदमये सदिति सामानाधिकरण्यात्, तद्वैक आहुरित्यसत्कार्यवादप्रतिक्षेपाच्चानन्यत्वसिद्धिः पूर्वग्रन्थेऽभिप्रेता । हेत्वन्तरं चाह तथासतीति । तथासति - प्रधानकारणत्वे सतीत्यर्थः । कार्यकारणयोरनन्यत्वे प्रतिज्ञावाक्यतात्पर्यात् तत्रैकशब्दोपि गुणसमुदायैवयात् युक्त इति भावः । युक्त्यन्तरमाहअन्यथेति ।
१.७६
न्तिकयोर्वैरूप्यं चेति जगत्कारणवादिवाक्येन महर्षिणा कपिलेनोक्तं प्रधानमेव प्रतिपाद्यते । प्रतिशादृष्टान्तरूपेण अनुमानवेषमेव चेदं वाक्यमिति सच्छन्दवाच्यमानुमानिकमेवेति- एवं प्राप्तेऽभिधीयते - ईक्षतेनशब्दमिति । यस्मिन् शब्द एव प्रमाणं न भवति, तत् अशब्दम् - आनुमानिकम् ; प्राधानमित्यर्थः ; न तत् जगत्कारणवादिवाक्यप्रतिपाद्यम् ; कुतः । ईक्षतेः । अचेतनमृत्पिण्डलोहमण्यादिदृष्टान्तः चेतनकारणस्य दान्तिकत्वे न सङ्गच्छत इत्यभिप्रायः । यद्वा — सरूपमृत्पिण्डघटादिकार्यकारणदृष्टान्तो न विरूपकार्यकारणयोः दाष्टन्तिकत्वे घटत इति भावः । कपिलस्मृत्यैकाथ्यं हेतुत्वेनाभिप्रयन्नाह जगत्कारणेति । उक्तन्यायेन श्रुत्यविरोधात् स्मृतिनिरासो न युक्त इति भावः । महर्षिणेतिपदेन, “ऋषि प्रसूतं कपिलम्” इति श्रुतिः स्मारिता । हेत्वन्तरमाह प्रतिज्ञेति । प्रतिज्ञादृष्टान्तयोर्हेत्वाक्षेपकत्वाभिप्रायेणोक्तमनुमानवेष मेवेति ।
ननु न कारणविषया प्रतिज्ञा; अपित्वेकविज्ञानेन सर्वविज्ञानविषया ; अतः अनुमानवेषत्वेपि न प्रधानकारणत्व सिद्धिरिति न वाच्यम् ; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः सर्वस्य एकस्य चानन्यत्वेन निर्वाह्यत्वात् अनन्यत्वस्य कार्यकारणभावनिबन्धनत्वाच्च प्रधानकारणत्वप्रतिज्ञानस्य फलितत्वात् । अत्रायं प्रयोगोऽभिमतो वेदितव्यः -जगत् खानन्योपादानकं कार्यत्वात् घटवत् । यद्वा - इदं जगत् खकारणैकज्ञानेन ज्ञातं भवितुमर्हति — कार्यत्वात् एकमृत्पिण्डाद्यारब्धघटादिवदिति । पूर्वपक्ष निगमयति इतीति । इतिर्हेतौ । सुखदुःखमोहोन्नेयसत्त्वरजस्तमोमयस्येदशब्दवाच्यस्य कारणत्वमेकः पूर्वपक्षहेतुः । कार्यकारणानन्यत्वफलभूतमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं तदुत्तम्भकम् । अनुमानाकारप्रतीतिश्चान्यो हेतुः । .. …. अस्मिन् पूर्वपक्षे सिद्धान्तस्थापनाय सूत्रस्यावतीर्णत्वं दर्शयति इत्येवं प्राप्त इति । उच्यमानाः विषयसंशयपूर्वपक्षाः अस्याधिकरणस्येति ज्ञापनाय पूर्व सूत्रोपादानम् ; अस्य राद्धान्तसूत्रत्वज्ञापनार्थमक्षरव्याख्यानार्थे चेदानीं तदुपादानमिति वैषम्यम् । शब्दवेद्यतया अभिमतस्य कथमशब्दत्वमिति शङ्कयामाह यस्मिन्निति । अन्भक्षः वायुभक्ष इतिवत् अवधारणगर्भितमिति भावः । शब्दैकप्रमाणकत्वं न चेत्, तत्र किमन्यत् प्रमाणमित्यत्राह आनुमानिकमिति । तर्हि प्रमाणान्तरप्राप्तं शास्त्र न प्रतिपादयतीति चेन्न ; सामान्यतो दृष्टानुमानेन कारणमात्रे प्रतिपन्नेऽपि तद्विशेषाणामप्रतिपन्नतया तद्विशिष्टेन रूपेण शास्त्रप्रतिपाद्यत्वात् । अप्राप्ते हि शास्त्रमर्थवदिति मीमांसकानां मतम् ; न तु सांख्यानामिति पूर्वपक्षिणोऽभिप्रायः ; तस्यानुपपन्नतां च ज्ञापयितुं अशब्द शब्दप्रयोगः आनुमानिकत्वमिन्द्रियाणां परमाणूनामप्यविशिष्टमिति तद्व्युदासाथ सौत्रमेकवचनमित्यभिप्रायेणाह प्रधानमिति । प्रधानं ह्येकं सत् अनेकेषां कारणम्; परमाणवस्तु अनेके सन्त एकैकस्य कार्यस्य कारणम् ; इन्द्रियाणि तु बहूनि ज्ञानकारणानि-न त्वर्थकारणानीति तद्द्व्यवच्छेदसिद्धिः । नेति पदस्य प्रधानस्वरूपप्रतिक्षेपार्थत्वशङ्कां व्युदस्यन् वाक्यार्थ योजयति न तदिति । धर्मिनिषेधपरत्वेपि शास्त्रस्य वाक्यनिरूपणपरत्वात् हेतुपदेन धातुस्वरूपोपादानाच्च प्रतिपाद्यतावेषेण निषेध्यत्वं विवक्षितमिति भावः । वाक्यप्रतिपाद्यत्वामावः प्रमाणान्तरप्रतिपन्नत्वबाधितत्वाभ्याम्, वाक्यस्यान्यपरत्वाद्वा स्यात्, योग्यानुपलम्भाद्यभावादप्रतिपन्नाकारवैशिष्टघसद्भावाच बाघितत्वप्रतिपन्नत्वासंभवः । अन्यपरत्वं तु पूर्वपक्षयुक्तिभिरेव निरस्तम् । अतो हेतुर्न संभवतीत्यभिप्रायेण हेत्वाकाङ्क्षां दर्शयति कुतइति । हेतोरसिद्धिमन्यथासिद्धिश्चन्युदसितुं
१-१-५ ईक्षत्यधिकरणम् १७७ सच्छन्दवाच्यसंबन्धिव्यापारविशेषाभिधायिन ईक्षतेर्धातोः श्रवणात्, ‘तदैक्षत बहु स्यां प्रजायेय’ इति । ईक्षणक्रियायोगश्वाचेतने प्रधाने न संभवति । अत ईद्दशेक्षणक्षमः चेतनविशेषः सर्वज्ञः सर्वशक्तिः पुरुषोत्तमः सच्छन्दाभिधेयः । तथाच सर्वेष्वेव सृष्टिप्रकरणेष्वीक्षा पूर्वी केव सृष्टिः प्रतीयते, “स ईक्षन लोकान्नु सृजा इति । स इमांल्लोकानसृजत”, “स ईक्षाञ्चक्रे स प्राणमसृजत” इत्यादिषु । ; । ; व्याचष्टे सच्छन्दवाच्येति । सच्छब्दवाच्यसंबन्धीति व्यधिकरणासिद्धिव्युदासः । प्रकृतं सदेव हि. तदक्षतेति तच्छब्देन परामृश्यत इति भावः । व्यापारविशेषशब्देन अभिधायिशब्देन चान्यथासिद्धिव्युदासः । न हि चेतनाचेतनसाधारणं कार्योन्मुख्यमात्र मीक्षतिघात्वभिधेयम् अपि तु चेतनरूपकर्त्रसाधारणो व्यापारविशेषः। न च मुख्ये संभवति उपचारो युक्त इति भावः । इश्तिपौ धातुनिर्देशे वक्तव्याविति प्रक्रियया ईक्षतिशब्देन धातूपादानम् ; नार्थोपादानम् । तथासति ईक्षितेरिति हि वक्तव्यं यात् । अनेन च शब्दस्य । विवक्षितार्थे स्वारस्य सूचितमित्यभिप्रायेणाह धातोरिति । श्रवणादिति 1 अज्ञानासिद्धिपरिहारः । श्रयमाणादीक्षतेरिति सूत्रविवक्षितम् । तत्फलितं तु षष्ठ्या निष्कृष्य व्याख्यातम् । ईक्षतिशब्देनेक्षणं लक्षितमिति वेदान्तदीपे व्याख्यातमर्थस्वारस्याय; अत्र तु शब्दखारस्येन व्याख्यातम् ॥
ननु ततेज ऐक्षत, ता आप ऐक्षन्तेति वाक्यद्वयगतमीक्षणम चित्संवन्धितया प्रतीयते । सेयं देवतैक्षतेत्यत्रापि ईक्षणमचिगतमुचितम् देवताशब्दस्य " हन्ताहमिमास्तिस्रो देवता” इत्यासन्नवाक्यस्थदेवता शब्द विरूपार्थत्वायोगात् । प्रथमेक्षणं च सेयमिति तच्छब्दपरामृष्टसत्सब [न्धित्वादचिङ्गतमेवेत्याकाङ्क्षायामाह तदैक्षतेति । चरमवाक्यानुरोधेनोपकमस्वारस्यभङ्गो न युक्त इति इदं तावत् ईक्षणं मुख्यमिति भावः । धात्वर्थानां क्रियात्वादचेतनस्य क्रियायोगसंभवात् नात्रानुपपतिरित्यत्राह ईक्षण क्रियेति । अयं क्रियाविशेषो न संभवतीत्यर्थः । ततः किमित्यत्राह अनु इति । अतः अचेतनस्य संभावितत्वेन ईक्षणस्य त्वत्पक्षविरुद्धत्वादित्यर्थः । ईदृशेक्षणक्षम इति । अनेनाचिद्व्यावृत्तिरुक्ता । ईदृशशब्देन चेतनविशेषशब्देन चेक्षणखभावफलिताच्चेतनमात्रादपि व्यावृत्तिरुक्ता । यत चेननमात्रेऽपि न संभवति तत् कथमचेतने संभवतीति भावः । तदैक्षतेति सिद्धं गुणमाह सर्वज्ञ इति । बहु स्यामिति फलितमर्थमाह सर्वशक्तिरिति । चिदचिद्व्यावर्तक लिङ्गबलसिद्धं सदिति सामान्यश्रुतेः पर्यवसानस्थलं दर्शयति पुरुषोत्तम इति । सेयंदेवतेति देवताशब्दोपि ईक्षणविशेषसामर्थ्यात् छागपशुन्यायेन चानुगृहीतः प्रकरणान्तरोक्तदेवताविशेषविषय इति भावः । सद्विद्यावानयस्य उक्तार्थपरत्वमनेकश्रुत्यन्तर स्वारस्येनोपपादयति तथाचेति । नात्र विषयवाक्यतया श्रुत्यन्तरोपादानम् । सर्वेष्वेव सर्वेष्वपि । अनेन प्राचुर्यम् अभिप्रेतम् । ईक्षणस्य गौणत्वाश्रयणे अनेकश्रुतिस्वारस्यभङ्गप्रसङ्ग इति भावः । प्रतीयत इति । प्रतीतिस्तावदविगीतेति भावः । . ।
1 अज्ञानासिद्धीति । अत्रेदं वोध्यम्-असिद्धिरित्यत्र सिद्धिर्नाम ज्ञानं सद्भावश्च । तत्र ज्ञानाभावरूपासिद्धिरेवाज्ञानासिद्धिरित्युच्यते । सैवाप्रसिद्धिः ; अप्रामाणिकता । पक्षसाध्यहेतुतद्धर्मादिविषया विविधा । आश्रयासिद्धिरत्रान्तर्भवति । असद्भावरूपा चासिद्धिः हेतु रूपधर्मि स्वरूप संबन्धिनी स्वरूपासिद्धिरिति, सामान्यतः असिद्धिरिति चोच्यते । पूर्व व्यधिकरणासिद्धिपदेनापि सैवोक्ता । हेतुत्वरूपधर्मासिद्धिरेव व्याप्यत्वासिद्धिः, अप्रयोजकत्वम्, अन्यथासिद्धिरिति । 2-23
१७८ श्रुतप्रकाशिकापते श्रीमाध्ये
ननु च कार्यानुगुणेनैव कारणेन भवितव्यम् ॥ सत्यम् । सर्वकार्यानुगुण एव सर्वज्ञः सर्वेशक्तिः सत्यसंकल्पः पुरुषोत्तमः सूक्ष्मचिदचिद्वस्तुशरीरकः । यथाऽऽह, “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलेक्रिया च”, “यस्सर्वज्ञस्सर्ववित् यस्यं ज्ञानमयं तपः”, “यस्यान्यत शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्मा” इति । तदेतत्, “न विलक्षण त्यात्” इत्यादिषु प्रतिपादयिष्यते । अत्र सृष्टिवाक्यानि न प्रधानप्रतिपादनयोग्यानीत्युच्यते । वस्तुविरोधस्तु तत्रैव परिहरिष्यते ।
यत्ततम् - प्रतिशादृष्टान्तयोगादनुमानरूपमेव इदं वाक्यमिति तदसत् हेत्यनुपादानात् । येनाश्रुतं श्रुतमिति एकविज्ञानेन सर्वविज्ञाने प्रतिपिपादयिषिते सर्वात्मना तदसंभवं मन्वानस्य तत्संभवमात्रप्रदर्शनाय हि दृशन्तोपादानम् । ईक्षत्यादिश्रवणादेव हनुमानगन्धाभावोऽवगतः ॥ ( ५ ) स्वपक्षसाधकम् उक्त्वा पूर्वपक्षयुक्ति परिहर्तुं चोद्यमुपक्षिपति
ननु चेति । कार्यकारणयोः सालक्षण्यं तावत् अङ्गीकार्यम्; मृत्तत्कार्यादिषु दर्शनात् । तच्च सालक्षण्यं ब्रह्मणस्त्रिगुणात्मकत्वादियोगेन षा • जगतस्तद्विधुरत्वेन वा निर्वाचम् । आधे शब्दान्तरेण प्रधानाङ्गीकारः । द्वितीये सुखदुःखमोहान्वयाधुपलम्भविरोध इति भावः । परिहरति सत्यमिति । अर्धाङ्गीकारे सत्यशब्दः । कार्यानुगुण्यमङ्गीकृतम् -; न तु प्रधानत्वमिति । सर्वेति । प्रधानस्यैव हि सर्वकार्या
ननुगुणत्वम्, कार्यानुप्रविष्टचिदपेक्षया तस्य कारणत्वौपयिकाकारविरहादिति भावः । कार्यानुगुणनिमित्तोपादानभावसिद्ध्यर्थं सर्वज्ञ सर्वशक्तिपदद्वयम् ; तदुभयफलितमाह सत्यसंकल्प इति । सर्वशक्तित्वा संकोचान्न तस्य संकल्पप्रतिबन्धसंभावनेति भावः । विकारादीनां सद्वारकत्वसिद्ध्यर्थं सूक्ष्मेत्यादिपदम् — उक्ताकार विरहे कारणत्वायोगात् तद्वत्त्वे श्रुतिवाक्यानि दर्शयति पराऽस्येति । चिदचितोः शरीरत्वं कथम् ; शरीरत्वे च तद्वतः कर्मवश्यत्वादिदोषः स्यादित्यत्राह तदेतदिति । नविलक्षणत्वादित्यादिसूत्रैरेषां सूत्राणां पौनरुक्तयमा शङ्कयाह अत्र सृष्टीति । ’ वस्तुविरोधः - अर्थसामर्थ्यविरोधः । अत्र वाक्यतर्केणार्थनिष्कर्ष ःतत्र त्वाभिमानिक-व्याप्त्याभासनिबन्धनवाद्यतर्कविमर्श-तन्निरासमुखेनार्थनिष्कर्ष इति भिदेत्यर्थः । एवं सत्त्वादिगुणमयस्येदंशब्दवाच्यस्य कारणत्वम्, तदुत्तम्भकमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं च परिहृतं भवति । अथ परोक्तं हेत्वन्तरमनुवदति यत्तक्तमिति । तस्यानुपपन्नत्वमाह तदसदिति । कथमित्यत्राह हेत्वनुपादानादिति । वक्तुरनुमानविवक्षाऽस्ति चेत्, तत्र प्रधानावयवो हेतुरवश्योपादेयः; तदभावान्न तद्विवक्षेति भावः । प्रतिज्ञादृष्टान्ताभ्यां हेत्वाक्षेपोऽप्ययुक्त इत्याह येनाश्रुतमिति । अनन्यथासिद्धं ह्याक्षेपकम् ; सर्वप्रमाणसाधारणत्वात् प्रतिज्ञा अन्यथासिद्धेति सिद्धं कृत्वा दृष्टान्तस्य हेत्वाक्षेपकत्वायोग उच्यते । न केवलं व्याप्तिप्रदर्शनायैव दृष्टान्तोपन्यासः - अपितु असंभवव्यावृत्तिप्रदर्शनायापि संभवतीति अनन्यथासिद्धत्वात् स नाक्षेपक इत्यर्थः । सर्वात्मना तदसंभवमिति । एकविज्ञानेन सर्वविज्ञानं धर्म्येवयात्, एकाकारान्वयाद्वा, वस्त्वन्तरव्यतिरेकाद्वा संभवति । घटपटादिषु त्रेधाऽपि तन्न संभवति, घटपटादिषु धयैक्यस्य अन्वयेनान्यस्माद्व्यतिकेण वा समानाकारयोगस्य चाभावादिति भावः । अस्तु दृष्टान्तस्यानुमानाङ्गत्वे संभव प्रदर्शनार्थत्वे च साधारण्यम् । तथा सति अस्मन्मतेऽपि संभवः स्यादित्यत्राह ईत्यादीति । आदिशब्देन वक्ष्यमाणहेतवो विवक्षिताः । प्रतिज्ञादृष्टान्तयोः साधारण्येनानुमानत्वं शङ्कितम् ; ईक्ष गाद्यसाधारणहेतुसद्भावात् शङ्काऽपि निरस्तेत्यभिप्रायेणोक्तमनुमानगन्धाभाव इति ।
१-१५ ईक्षत्यधिकरणम् (१-१-६) १७९ अथ स्यात्–न चेतनगतं मुख्यमीक्षणमिहोच्यते ः अपि तु प्रधानगतं गौणमीक्षणम् ः “तत्तेज ऐक्षत”, “ता आप ऐक्षन्त” इति गौणेक्षणसाहचर्यात् । भवति चाचेतनेष्वपि चेतनधर्मोपचारः ।, यथा ‘वृष्टिप्रतीक्षाः शालयः’, “वर्षेण वीजं प्रतिसञ्जहर्ष” इति । अतो गौणमीक्षणमिति । इमामाशङ्कामनुभाप्य परिहरति- गौणवेनात्मशब्दात् ॥ १-१-६ ॥ यदुक्तम्गौणेक्षणसाहचर्यात् सतोऽपीक्षणव्यपदेशः सर्गनियत पूर्वावस्थाभिप्रायो गौण इति-तन्न; “ऐतदात्म्यमिदं सर्व तत् सत्यं स आत्मा” इति सच्छन्दप्रतिपादितस्य आत्मशब्देन व्यपदेशात् । एतदुक्तं भवति - " ऐतदात्म्यमिदं सर्वम् । स आत्मा” इति चेतनाचेतनप्रपञ्चोद्देशेन सत आत्मत्वोपदेशोऽयं नाचेतने प्रधाने सङ्गच्छत इति । अतस्तेजोवन्नानामपि परमात्मैवात्मेति उत्तरसूलमवतारयितुमीक्षणस्य गौणत्वं शङ्कते अथस्यादिति । चेतनगतम् चेतनत्वानुगुणम् । इहेति । प्रकरणमालोचनीयमिति भावः । प्रधानगतं - अचेतनत्वानुगुणमित्यर्थः । प्रथमेक्षणस्य तेजःप्रभृतिकार्याचिद्गतत्वायोगात् प्रधानशब्दः । हेतुमाह तत्तेज इति । प्रायदर्शनाय वाक्यद्वयमुपात्तम् । अग्रयप्रायन्यायोऽपि ( पू. मी. भा. २ -२-१२) बाधकाभावे जीवतीति भावः । सेयं देवतेति देवता शब्दोप्यनेनैव न्यायेन, इमास्तिस्रो देवता इतिवत् अचिद्विपयत्वौचित्यात् न गौणत्वबाधक इति भावः । गौणप्रयोगं दर्शयति भवतिचेति । ईक्षणतुल्ययोगक्षेम हर्षादिधर्मान्तरसंग्रहाय चेतनधर्मशब्दः । लोके शास्त्रे च प्रयोगद्वयं दर्शितम् । गौणत्वं निगमयन् उक्तशङ्कापरिहाराय सूत्रस्यावतीर्णत्वमाह अत इति । शङ्काया उत्सूत्रत्वाभावात् अनुभाष्येत्युक्तम् । गौणथेनात्मशब्दात् ॥ केन गुणयोगेन गौणत्वमिति शङ्कां परिहरन् सूत्र योजयति यदुक्तमिति । पुलिगौण शब्दविशेष्यः प्रकृत ईक्षतिरित्यभिप्रायेणोक्तमीक्षणव्यपदेश इति । गौण ईक्षतिर्नेत्युक्ते विशेष्यप्रतिक्षेपशङ्काव्युदासाय यत्तच्छन्दाभ्यां विशेषणनिषेधपरत्वेन व्याख्यातम् । यत् गौणत्वमुक्तम्, तत्रेत्यर्थः । सर्गेति । गौणोऽर्थः सर्गप्रागवस्था । तत्र नियंतपूर्वस्वलक्षण कार्यानुरूप्यं गुणयोग इत्यर्थः । आत्मशब्दादिति सौत्रेण पदेन अविशेषेण ‘ऐतदात्म्यम्’ ‘स आत्मा’ इति वाक्यद्वयगतात्मशब्दो विवक्षित इत्यभिप्रायेण वाक्यद्वयमुपात्तम् । सच्छन्दप्रतिपादितस्येति । ऐतदात्म्यमित्यत्र एतच्छब्दस्य, स आत्मेत्यत्र स इति पदस्य च प्रकृतपरामर्शित्वादिति भावः । आत्मशब्दोऽपि मृदात्मको घटः, घटस्य मृदात्मेतिवत् खरूपानतिरिक्तार्थः स्यादित्यत्राह एतदुक्तमिति । चेतनाचेतनप्रपञ्चोद्देशेनेति । इदं सर्वमिति सर्वशब्दासङ्कोचस्य स्वतः प्राप्तत्वात्, ‘सन्मूलाः सर्वाः प्रजाः’ इति पूर्ववाक्यैकार्थ्यात्, ‘इदं सर्वमसृजत’, ’ ‘सच्च त्यच्चाभवत् ‘, ‘विज्ञानं चाविज्ञानं च’ इति श्रत्यन्तरैकार्थ्याच्च सर्वशब्दचिदचिदात्मकजगद्गोचर इति भावः । नाचेतने इति । न हि चेतनस्याचेतनेन स्वरूपैक्यं संभवतीत्यर्थः । एवं गौणेक्षण साहचर्यमभ्युपगम्य दूषणमुक्तम् अथ तदेव नास्तीत्याह अत इति । अतः - चिदचिदात्मकप्रपञ्चस्यात्मत्वादित्यर्थः ॥ किमर्थमीक्षणोपदेशरहितस्यान्नस्योपादानम् ॥ उच्यते । ईक्षगोपदेशविरहनिबन्धनात्रझात्मकत्व शङ्कानिराकरणार्थम् । अन्यथा सर्वस्य कार्यस्य ब्रह्मात्मकत्वानवगमादिदं सदिति सामानाधिकरण्यायोग्यत्वेनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं न घटते । अतस्तदुपादानेन प्रतिज्ञासिद्ध्यौपयिकमनुप्रवेशश्रुतिसिद्धमन्नस्य ब्रझात्मकत्व मिहानुषङ्गिकं दर्शितम् । न हि किञ्चिदप्यतदात्मकमिति अपिशब्दामिनायः । अनदात्मकःवेन त्वदभिमतानामपीति /
१८० श्रुतप्रकाशिकोषते श्रीभाष्ये तेजःप्रभृतयोऽपि 1 शब्दाः परमात्मन एव वाचकाः । तथा हि-“हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति परमात्मानुप्रवेशादेव तेजःप्रभृतीनां वस्तुत्वं तत्तन्नामभाक्त्वं चेति, “तत्तेज ऐक्षत”, “ता आप ऐक्षन्त” इत्यपि मुख्य एवेक्षणव्यपदेशः, अतः साहचर्यादपि " तदैक्षत” इत्यत्र गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्रायः ॥ ६ ॥ इतश्च न प्रधानं सच्छन्दप्रतिपाद्यम्- तन्निष्ठस्य मोक्षोपदेशात् ॥ १-१-७ ॥ वा । यदाश्रयतया प्रथममीक्षणं मुख्यम्, स एवेत्येवकाराभिप्रायः । तेजःप्रभृतयोऽपीति । । सच्छन्दवदिति अपिशब्दस्य भावः । लोके तेजः प्रभृतिमात्रपरत्वेन व्युत्पन्ना अपीति वा । परमात्मन एवेति । विशेष्यतया प्राधान्येन प्रतिपाद्यः परमात्मैव; तेजः प्रभृतयस्तु द्वारमात्रमिति भावः । परमात्म वा चित्वमुपपादयति तथाहीति । वस्तुत्वम् — तद्रूपवस्तुत्वम् । तेजसो वस्तुत्वं तेजस्त्वम्, अपां वस्तुत्वमप्त्वम्, पृथिव्या वस्तुत्वं पृथिवीत्वम्, देवमनुष्यादीनां वस्तुत्वं देवत्वमनुप्यत्वादिकम् । तत्तदवस्थाभाकत्वमित्यर्थः । नामभाक्त्वम् – नामवाच्यत्वम् ॥
ननु कथं परस्य नामव्याकर्तृत्वश्रवणात् नामवाच्यत्वसिद्धिः ॥ उच्यते । ‘तन्नामरूपाभ्यां व्याक्रियत’ इति समानवाक्ये व्याकृतत्वश्रवणात् । नाम्ना विशेषितत्वं हि नामव्याकृतत्वम् । नामविशेषितत्वञ्च नामवाच्यत्वरूपमिति प्रसिद्धम् ; न तु तदुत्पादकत्वमात्रम् । न ह्याकाशस्य वा मातापित्रादेर्वा देवदत्तादिनामविशेषितत्वप्रसिद्धिः । अतो नामव्याकृतत्वं नामवाच्यत्वंम् । अतस्तदैकार्थ्यादिहापि नामवाच्यत्वं विवक्षितम् । ‘वचसां वाच्यमुत्तमम्’ इति चायमर्थ उच्यते । एवं तेजः प्रभृतिशब्दानां परमात्मबाचित्वोपपादनफलमाह इति तत्तेज ऐक्षतेति । इतिशब्दो हेतुपरः । मुख्यत्व फलमाह अत इति । अपिशब्दो गौणत्वशङ्का हेतुसमुच्चयपरः । इदंशब्दवाच्यजगत्कारणत्वादिना गौणत्वशङ्का परिहृता । गौणेक्षणसाहचर्याच्च गौगत्वशङ्का निरस्तेत्यर्थः । यद्वा त्वन्मतसाधकादपि त्वन्मतं निरस्तमिति भावः । दूरोत्सारितेति । गौणसाहचर्ये सत्यपि सर्वशब्द तत्प्रतिसंबन्धिवाचकात्मशब्दस्वारस्येन तदैक्षतेत्यत्र गौणत्वाशक्का उत्सारिता, गौणसाहचर्यासिद्ध्या दूरोत्सारितेत्यर्थः । गौणेक्षण साहचर्ये सत्यपि आत्मशब्दात् प्रथमेक्षणमगौणम्, आत्मशब्दादेव गौणेक्षण साहचर्यमसिद्धं चेत्यर्थद्वयं कथमेकेन वावयेनोच्यत इत्यत्राह इति सूत्राभिप्राय इति । प्रतिज्ञादृष्टान्तयोर्हेत्वना क्षे पकत्वं मुख्यामुख्यार्थानुग्राहकेषु मुख्यानुग्राहकस्यानुरोद्धव्यत्वं चास्मिन्नधिकरणे व्युत्पाद्यमिति सूत्रद्वये स्पष्टम् ॥ ६ ॥ गौणेक्षणसाहचर्ये अवान्तरसाध्यविषयत्वशङ्कां व्युदस्यन् उत्तरसूत्रमवतारयति इतश्चेति । कारणत्वौपयिकेक्षणधर्मनिरूपणेन परमात्मत्वं सतः समर्थितम् । अथ “कारणं तु ध्येयः” इति कारणवस्त्वसाधारणमोक्षप्रदत्वधर्मेण परमात्मत्वं साध्यत इति सङ्गतिः । … तनिष्ठस्य मोक्षोपदेशात् ॥ तस्य तावत् इति श्रुतौ तस्येति पदस्य व्याख्यानं सूले 1 सृष्टिकर्मतया कर्तृतया च यथायथं निर्दिष्टाः शब्दा इत्यर्थः । अतोऽन्नस्य कर्तृत्वाश्रवणेऽपि न क्षतिः । 2 अनेन वाक्येन आत्मत्वस्य नामवाच्यत्वे प्रयोजकत्वावगमात् तुल्यनयात् समष्टिशब्देष्वपि तदिति भावः ।
१-१-५ ईक्षत्यधिकरणम् (१-१-७) १८१ मुमुक्षोः श्वेतकेतोः, ‘तत्त्वमसि’ इति सदात्मकत्वानुसन्धानमुपदिश्य तन्निष्टस्य, “तस्य तावदेव चिरम्, यावन्न विमोक्ष्ये । अथ सम्पत्स्ये” इति शरीरपातमात्रान्तरायो ब्रह्मसंपत्तिलक्षणो मोक्ष इत्युपदिशति । यदि च प्रधानमचेतनं कारणमुपदिश्येत, तदा तदात्मकत्वानुसन्धानस्य मोक्षसाधनत्वोपदेशो नोपपद्यते । “यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति” इति तन्निष्ठस्याचेतनसंपत्तिरेव स्यात् । न च मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रमेवंतन्निष्ठस्येति पदमिति दर्शयन् तच्छन्दनिष्टाशब्दयोरर्थं विवृण्वन् सूत्रार्थमाह मुमुक्षोरिति । अर्वाचीनफलकदृष्टिविधिसंभवाच्चेतने कृत्स्नजगदुपादानत्योत्कृष्टप्रधानदृष्टिविधिरयमिति शङ्का मुमुक्षोरिति पदेन निरस्ता । तत्त्वमसीति सदात्मकत्वानुसन्धानमुपदिश्येति । सदात्मकत्वोपदेशवाक्यगतस्तच्छन्दः प्रकृतसद्विषय इति ज्ञापनपरः सूत्रे तच्छन्द इत्यभिप्रायेण सदात्मकत्वेत्युक्तम् । अनुसंधानशब्देन निष्ठाशब्दार्थ उक्तः ॥ इहोपदेशस्यानुसन्धानार्थत्वं कथमवगतम् । उच्यते ॥ उपक्रमे, ‘येनाश्रुतं श्रुतं भवति अतं मतमविज्ञातं विज्ञातम्’ इति श्रवणमननसमनन्तरभाविविज्ञानशब्द उपात्तनपरः ; ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यनेनैकार्थ्यात् । उपसंहारे च ‘तद्धास्य विजज्ञौ’ इति तत्तुल्यार्थं विजज्ञाविति पद्मावर्तितम् ’ । मध्येऽपि, ‘आचार्यवान् पुरुषो वेद’ इत्याचार्यवत्ता फलत्वेन प्रतिपादितार्थविशेषवेदनवचनमाचार्योपदिष्टार्थस्यानुसंधेयत्वे लिङ्गम् । एवमेभिः कारणैः सदात्मकत्वोपदेशस्योपासनार्थत्वावगमः । शरीरपातमात्रान्तराय इति । अन्तरायशब्देन विलम्बो लक्ष्यते । " शरीरपातावधिविलम्ब इत्यर्थः ॥ ’ यावन्न विमोक्ष्ये’ इत्युक्ते कथं शरीरान्मोक्षसिद्धिः ॥ उच्यते । मोक्ष इत्युक्ते कस्मान्मोक्ष इति बन्धकं किञ्चिदाकाङ्क्षितम् । तच्च किमित्यपेक्षायामस्यामेव विद्यायाम् अथ यदाऽस्य वाङ्मनसि सम्पद्यते " इत्यादिना देहादुत्क्रमणश्रवणात्, अन्यत्र च, “अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य, " ‘धूत्वा शरीरम्’, ‘अशरीरं चा व सन्त न प्रियाप्रिये स्पृशतः ’ इति श्रवणात्, ’ त्यक्त्वा देहं पुनर्जन्म नैति’ इत्यादिस्मरणाच शरीरमित्यवगम्यते । ब्रह्मसंपत्तिलक्षण इति । ‘अथ संपत्स्ये’ इति सम्पत्तेः, ‘सता सोम्य तदा संपन्नो भवति’ इति वाक्यान्तरप्रतिपन्नं ब्रह्मैव कर्मेति भावः । मोक्ष इति । सौत्रस्य मोक्षशब्दस्य शरीरपातपूर्विका ब्रह्मसंपतिरेवार्थः ; न तु शरीरपातमात्रमित्यभिप्रायः । ततः किं प्रधानवैलक्षण्यस्येत्यपेक्षायां मुमुक्षोरिति पदेनाभिप्रेतं विवृणोति यदि चेति । कथमनुपपत्तिः ? तीर्थक्षेत्र सेवादिवत् अचिदुपासनस्य मोक्षोपयोगित्वं शास्त्रबलात् किं न स्यादिति शङ्कायामाह यथाक्रतुरिति । उपासनानुरूपफलभाकुत्वं श्रुत्यर्थः । ततश्च हेयोपासनात् हेयप्रहाणानुपपत्तिः । अचेतनसंपत्तिः - अचित्प्राप्तिः; संसारित्वम् । कर्मकृताचित्सम्बन्धो हि संसारः । संपत्तिशब्दस्य प्राप्त्यर्थत्वं तापत्रयाभिहतिहेतुभूतामचित्संपत्तिमित्यनन्तरभाष्येण व्यक्तम् । अचेतनसंपत्तिरस्तु ; ततः किमित्यत्राह न चेति । अत्र, “शास्त्रं हि वत्सलतरं मातापितृसहस्रतः” इति पुराणवचनं स्मारितं मातापितृसहस्रेभ्य इति । मातापितरावेकस्मिन् जन्मनि ऐहिक- । 1 शब्दावृत्तावप्यर्थावृत्तौ मानाभावात् प्रथमं विजज्ञाविति पदं विशदबोधार्थकम् । अथ इति विजज्ञावित्यनेन श्वेतकेतुरुपासितवानित्युच्यतामिति भावः । 2 मात्रा - परिच्छेदः । शरीरपातेन परिच्छिन्नः तदवधिकः कालः शरीरपातमात्रः । सोऽन्तरायो यस्येति भाष्यस्थपदा इति भावः । प्रारब्धकर्मफलंचरमशरीरपातोऽत्र विवक्षितः ।
१८२
विधतापत्रयाभिद्दति हेतुभूतामचित्संपत्तिमुपदिशति । प्रधानकारणवादिनोऽपि हि प्रधाननिष्ठस्य मोक्षं नाभ्युपगच्छन्ति ॥ ७ ॥ इतश्च न प्रधानम् - हेयत्वावचनाच्च ॥ १-१-८ ॥ यदि प्रधानमेव कारणं सच्छन्दाभिहितं भवेत्, तदा मुमुक्षोः श्वेतकेतोस्तदात्मकत्वं मोक्षविरोधित्वाद्धेयत्वेनैवोपदेश्यं स्यात् । न च तत् क्रियते । प्रत्युत उपादेयत्वेनैव, “तत्त्वमसि " “तस्य तावदेव चिरम् " इत्युपदिश्यते ॥ ८ ॥ इतश्च न प्रधानम् - प्रतिज्ञाविरोधात् ॥ १-१-९॥ प्रधानकारणत्वे प्रतिज्ञाविरोधश्च भवति । वाक्योपक्रमे ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । पोषणमात्रपरौ; शास्त्रं त्वनेकेषु जन्मसु ऐहिकामुष्मिक सर्वविधरक्षण पर मिति भावः । तापत्रयेति । शास्त्रस्य प्रयोजनपर्यवसानं न स्यादित्यभिप्रायः । एवं श्रुतिसिद्धन्यायविरोध-प्रयोजनपर्यवसानाभावाभ्यां मोक्षोपयोगित्वं निरस्तम् । अस्मिन्नर्थे परमतसंवादं दर्शयति प्रधान कारणेति । प्रधाननिष्ठस्येति । ‘व्यक्ताव्यक्तज्ञविज्ञानात् ’ इति वदताऽपि साङ्ख्येन प्रधानस्य व्याधेरिव परिज्ञानमात्रं विवक्षितम् ; न तूपासनमिति भावः ॥ ७ ॥
ननु तत्त्वमसीति न सदात्मकत्वानुसन्धानोपदेशः, किन्तु स्थूलोऽहमित्यादिदेहात्मभ्रमानुवादः । अतः सच्छव्दवाच्याचेतनस्य मुमुक्षुणा ज्ञातव्यत्वं हानार्थमिति शङ्कया अनन्तरसूत्र सङ्गतिमभिप्रयन्नाह इतश्चेति । हेयत्वावचनाच्च ॥ न परं प्रति आनुकूल्याभावमात्रम् ; किन्तु प्रातिकूल्यं चास्तीत्याह प्रत्युतेति । स्थूलोऽहमित्याद्यनुसन्धानस्येव न सदात्मकत्वानुसन्धानस्य हेयत्वं प्रतिपाद्यते ; अपि तु उपादेयत्वमेवोच्यते । तच्च प्रधानपरत्वेऽनुपपन्नम् ; ““अनादिमायया सुप्तः “, " मायया संनिरुद्धः”, “अनीशया शोचति मुखमानः”, “जहात्येनां भुक्तभोगामजोऽन्यः” इत्यादिषु प्रधानप्रस्तावेषु तस्य हेयत्वेनैव प्रतिपादनादित्यर्थः । एवं तदैक्षतेत्यादिवाक्यप्रभृति तदुपरितनवाक्यावगता हेतव उक्ताः । तेषां समाप्तौ चशब्दः प्रयुक्तः । यद्वा उपादेयतोक्त्यनुपादेयतानुक्त्योः सूत्रद्वयप्रतिपादितयोरन्वयव्यतिरेकात्मना परस्परसङ्गतयोरेकीकारार्थ इह चशब्दः । अत एव हि प्रत्युतेत्यादिना पूर्वसूत्रार्थ निगमनं कृतम् ॥ ८ ॥ अथोपक्रमविरोधे सति उत्तरवाक्यगतहेतूनां दौस्यात् प्रधानमेव प्रतिपाद्यमिति शङ्कां परिहरति प्रतिज्ञाविरोधात् ॥ कस्मिन्नर्थे विरोध इत्यपेक्षां पूरयन् व्याचष्टे प्रधानकारणत्व इति । त्वन्मतानुगुणत्वेन यदुक्तम्, तदेव त्वन्मतप्रतिकूलमिति सूत्रकारहृदयमिति भावः । कथमित्यत्राह वाक्योपक्रमे हीति । प्रतिज्ञावाक्ये सर्वशब्दाभावेऽपि, “कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञात भवति’, ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विज्ञातम्’ इति समानप्रकरणवाक्यैकार्थ्यात् सर्वाः प्रजा इति वक्ष्यमाणस्वारस्याच्च सर्वविज्ञानं प्रतिज्ञातमित्युक्तम् । न च सर्वं मृण्मयमितिवत् 1 अनादीति । अस्य गौडपादीयत्वात् श्रुतिवाक्यत्वाभावेऽपि तदर्थविवरणादुपादानम् । मत मवास्य भाष्ये जिज्ञासाधिकरणे महापूर्वपक्षे श्रुतिस्मृत्युभयानन्तरं प्रहणम् । CC-0. Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya, ऽharada Peethama१-१-५ ईत्यविकरणम् १८३ सच्च कार्यकारणयोरनन्यत्वेन कारणभूतसद्विज्ञानात् तत्कार्यभूतचेतनाचेत्तनप्रपञ्चस्य ज्ञाततयैवोपपादनीयम् । तत्तु प्रधानकारणले चेतनवर्गस्य प्रधानकार्यत्वाभावात् प्रधानविज्ञानेन चेतनवर्गविज्ञानासिद्धेर्विरुद्धयते ॥ ९ ॥ इतश्च न प्रधानम् - स्वाप्ययात् ॥ १-१-१० ॥ तदेव सच्छन्दवाच्यं प्रकृत्य आह, “स्वप्नान्तं मे सोम्य विजानीहीति । यत्रैतत्पुरुषः स्वपिति नाम, सता सोस्य तदा सम्पन्नो भवति । स्वमपीतो भवति । तस्मादेनं स्वपितींत्याचक्षते । स्वं पीतो भवति” इति सुषुप्तं जीव सता सम्पन्नं, स्वमपीतः - स्वस्मिन् प्रलीन इति व्यपकार्यभूतसर्वाचिद्विज्ञानमेव सर्वविज्ञानमिति वाच्यम् ; - - ’ सन्मूला ः सोम्येमाः सर्वाः प्रजाः’ इति सर्वशब्दसमानाधिकरणप्रजाशब्दखारस्यावगतानां चेतनानामपि सन्मूलतया ज्ञातव्यसर्वकार्यान्तर्भावादिति भावः । ततः किमित्यत्राह तच्चेति । कार्यकारणयोरनन्यत्वेनेति । न हि चिदचितोरनन्यत्वमिति भावः । नन्दन्यत्वेऽपि एक विज्ञानात् सर्वविज्ञानं घटते; पृथिव्यादीनां कार्यतया चिदंशस्याकार्यतया च ज्ञानसंभवादित्यत्राह तत्कार्यभूतचेतनाचेतनप्रपश्चस्येति । मृत्पिण्डतत्कार्यादिदृष्टान्तवलात् ‘सन्मूलाः सर्वाः प्रजाः’ इति वाक्ये प्रजाशब्दस्वारस्याच्च चेतनस्यापि कार्यतयैव ज्ञातत्वं वक्तव्यमिति भावः । ज्ञातयैवोपपादनीयमिति । देवदत्तज्ञानेन ग्रामविज्ञानवत् नात्र सर्वविज्ञानमौपचारिकम् ; औपचारिकत्वे सर्वविज्ञानस्य लोकदृष्टत्वेन कथं तु भगव इति प्रश्नायोगात् ; अनन्यभूतमृत् तत्कार्यादिदृष्टान्तमुखेन मुख्यतयैव सर्वविज्ञानोपपादनदर्शनाच्चेति भावः । उक्तविपर्ययेण प्रतिज्ञाविशेघं दर्शयति तत्त्विति ॥ - ९-॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं कार्यकारणभावनिबन्धनम्, सुषुप्तौ परमात्मनि चेतनस्य प्रलयश्च तन्निबन्धन इति कार्यकारणभावनिबन्धनत्वसाम्यात् सङ्गतं सुषुप्तौ लयं हेतुत्वेनाऽऽहेत्यभिप्रयन्नाह इतश्चेति । स्वाप्ययात् ॥ सच्छब्दस्य जीवोपस्थापक खशब्दसमानविषयत्वनिबन्धनामर्थान्तरत्वशङ्कां व्युदस्यति तदेव सच्छब्दवाच्यमिति । जगत्कारणवस्तुविषय एवात्रापि सच्छन्दः इत्यभिप्रायः । यत्र यदेत्यर्थः । नंनु सता संपत्तिः प्रकृतिसंसर्गोऽस्तु; स्वाप्ययोऽपि जीवस्य स्वखरूपेऽवस्थानमिति स्वसच्छब्दयोर्भिन्नार्थः स्यादिति नैतद्वाक्यं प्रधानकारणताविरोधीति; तदेतत् परिहरन् व्याचष्टे सुषुप्तमिति । स्वमपीत इतीदं विवृणोति स्वस्मिन् प्रलीन इति । स्वमिति द्वितीया, सतेति तृतीया च फलतः सति सम्पद्येति सप्तम्यनुगुणार्थे; व्यपदेशभेदस्तु धातुस्वभावभेदादित्यभिप्रायः । अपीतेः प्राप्तिरूपत्वात् द्वितीयानिर्देशः । “ब्रह्मैव सन् ब्रह्मांप्येति”, “यत् प्रयन्त्यभिसंविशन्ति” इति हि श्रुत्यन्तरम् । साहित्यसद्भावात् तृतीया निर्देशः । सम्पन्न इति कर्मणि निष्ठा वा तदानीं संपतेः प्राप्तिरूपत्वात् सतः कर्तृत्वविवक्षया तृतीया; “प्राज्ञेनात्मना सम्परिष्वक्तः” इतिवत् । अप्ययस्य स्थानसापेक्षत्वात् सप्तमीनिर्देशः । व्युत्पत्तिवशेन प्रलयवाचिनां शब्दानां स्थानापेक्षाया उत्कटत्वात् सप्तम्यनुरोधेन व्याख्यातम् । एवं संपत्त्यप्ययशब्दयोः प्रलयपरतयैकार्थ्यमुक्तम् । खसच्छन्दयोश्च प्रलयस्थानपरतया ऐकार्थ्यमुक्तम् । अयमभिप्रायः - ‘सता सोम्य तदा संपन्नः’, ‘सति संपद्य’ इति प्रतिज्ञा निगमनवाक्यमध्य- ;
१८४
दिशति । प्रलेयश्च स्वकारणे लयः । न चाचेतनं प्रधानं चेतनस्य जीवस्य कारणं भवितुमर्हति । [स्व-मपीतो भवति । आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । चिद्वस्तुशरीरकं तदात्मभूत ब्रह्मैव जीवशब्देनाभिधीयत इति नामरूपव्याकरणअत्योक्तम् । तत् जीवशब्दाभिधेयं ब्रह्म सुषुप्तिकालेऽपि प्रलंयकाल इव नामरूपपरिष्वङ्गाभावात् केवलसच्छन्दाभिधेयमिति ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ इत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात्, “प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्” इत्युच्यते । श्रामोक्षाजीवस्य नामरूपपरिष्यङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते, “यदा सुप्तः स्वप्नं न कथञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवति”, “एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते” तथा “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा देशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति” इति । ] तथा सुषुप्तं जीवं ‘प्राज्ञेनाऽऽत्मना सम्परिष्वक्तः’ इति च वदति । गतस्य स्वाप्ययवाक्यस्यानपेक्षितार्थान्तरपरत्वेऽन्वयवैघटयं स्फुटम् । ‘अथैतदपियन्त्यन्ततः ‘, ‘ब्रह्मैव सन् ब्रह्माप्येति’, ‘तदा सम्पद्यते ब्रह्म’ इत्यादिप्रयोगप्राचुर्यात् अप्ययसम्पत्तिशब्दस्वारस्योपस्थापितस्य प्रलयस्य स्थानप्रतिपादकत्वात् स्वसच्छन्दयोरेकार्थपर्यवसायित्वं तु उचितम् । “जीवेनात्मना’, ‘तत्त्वमसि’ इति जीवात्मशब्दयोः त्वतच्छब्दयोरिव च खसच्छन्दयोरपि जीवरूपेण स्वेन रूपेण चावस्थितकारणवस्तुविषय तयैकार्थपरत्वं प्रकरणवशादप्युचितम् । जीवादर्थान्तरे सति तस्य लयानुपपत्तिशङ्कापरिहारार्थं खशब्दाभिधेयस्य तस्यं सत्पर्यन्तताप्रतिपादनस्यापेक्षितत्वाच्च तयोरेकार्थत्वं युक्तमिति ॥ अस्तु लयस्थानोपस्थापकयोः स्वसच्छब्दयोरैकार्थ्यम् । तत्तु स्वशब्दस्य स्वीयपरत्वेन स्वसच्छन्दयोरुभयोरपि प्रधानपरत्वेऽप्युपपद्यत इत्यत्राह प्रलयश्चेति । कार्यतारूपविसदृशावस्थाप्रहाणेन कारणान्तर्भावो हि लयः । ततः किमित्यत्राह नचेति । अचेतनम् - अचित्त्वादित्यर्थः । स्थूलावस्थस्य जीवस्य सूक्ष्मावस्थे स्वकारणीभूते सत्तायोगिनि स्वात्मनि लयोपपत्तेः सच्छब्दस्य तत्परत्वं संभवतीति शङ्कां व्युदसितुमाह तथा सुषुप्तमिति । सृज्य देहेन्द्रियानपेक्षेक्षणादिगुणक परमकारणविषयत्वात् तत्संवादिश्रुत्यन्तरानुगुण्याच्च नात्र सच्छन्दोऽतिसङ्कचितज्ञानसूक्ष्मावस्थजीवमात्रविषय इत्यभिप्रायः ॥
ननु नित्यस्य जीवस्य लयोऽनुपपन्नः । कार्यकारणयोरनन्यत्वात्, जीवविलक्षणस्य परस्य तत्कारणत्वायोगात् तस्मिन् जीवस्य लयश्चानुपपन्नः ॥ नैवम्; सर्वदा जीवविशिष्टस्य परमात्मनोऽवस्थाविशेषरूपकार्यकारणभावोपपत्तेः । तथा हि’ स्वमपीतः’ इत्यत्र स्वशब्दस्तावत् न जीवमात्रपरः “सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति” इति स्वशब्दस्य सच्छन्दसमानविषयत्वात् ; सच्छन्दस्य चास्मिन् प्रकरणे परमात्मविषयत्वात् । नापि निष्कृष्टब्रह्मपरः ; नित्यनिर्विकारस्य 1 प्रक्षिप्तोऽन स्वमपीत इत्यादिः भवन्तीतीत्यन्तः कुण्डलितः, न भाष्यग्रन्थः ; अपितु भाष्य कृदनुगृहीतसारग्रन्थः । टीकायामव्याख्यानात्, अनत्यस्योपरि सारस्थत्वेनोदाहरणात् पौनरुक्तवादिप्रसंगाच्चेति संप्रदायः । प्राचीनतालकोशेऽभावाच्च । 2 स्वशब्दः स्वकीयवाचितया स्वसंबन्धिशुद्धब्रह्मपर इति च नेत्यर्थः ।
; १-१-५ ईक्षत्यधिकरणम् १८५ सस्योपादानत्वायोगेन अध्ययस्थानत्वायोगात् । कार्यस्य हि प्रलय उपादान एव । अतो नीवरूपेणावस्थितपरमात्मपरत्वं वक्तव्यम् । तत्रापि न शुक्तौ रजतस्येव लयः ; तस्येव जीवस्य स्वरूपनिवृत्तिप्रसङ्गात् । नापि महाकाशे घटाकाशस्येव लयः ; देहाद्युपाधेरवस्थितत्वात् । नापि क्षितितले घटस्येव लयः ; घटत्वस्येव जीवत्वस्य प्रहाणे जीवनित्यत्वश्रुतिविरोधात् उपाधेरवस्थितत्वेन जीवत्वप्रहाणायोगात् ; आमोक्षावस्थायितयाऽभिमतस्य जीवभावस्य स्वापमात्रेण निवृत्तौ मोक्षोपायवैयर्थ्यप्रसङ्गात् ; अकृताभ्यागमादिप्रसङ्गात् । प्रत्यभिज्ञाविरोधात्; ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरम्’ इति तदानीमज्ञत्वसर्वज्ञत्वाभ्यां भेदव्यपदेशाच्च जीवत्वे स्थित एव स्वाप्ययस्य सर्वैरभ्युपगन्तव्यत्वात् । अतो मेदादेव स्वशब्दो जीवविशिष्टपरमात्मपरः । अत एव ह्यक्तं सारे, ’ “आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । जीवस्वरूपो हि पर एव; नामरूपव्याकरणश्रुतेः” इति । तस्य संपत्तिर्नाम बहिर्मुखज्ञानप्रसरविरहितजीवरूपेणावस्थानम्, निर्गमो नाम बहिर्मुखज्ञानप्रसरः ॥
ननु कथं देहविशिष्टस्य सतो जीवस्य स्थिते देहे विशेष्यांशलयः ॥ नैवम्; विशेष्यांशे रागद्वेषाद्यन्वयवत् तत्रैव प्रलयरूपाबस्थान्वयोपपतेः ॥
ननु तर्हि स्वापे ज्ञानेन देहधारणाभावात् स्वरूपेण धारणस्य महाप्रलयेऽपि " तुल्यत्वात् देहस्य जीवं प्रति अपृथक सिद्धिर्देहलक्षणं च न घटते ॥ न; जीवस्य 4 देहापरित्यागात् देहस्व तत्सङ्कल्पेन धारणयोग्यत्वाच्चापृथक् सिद्धिदेहलक्षणोपपत्तेः । परमात्मा, अतो 1 . मनुष्यादिनामरूपाभिमान-राग-लोभाद्यनुगुणबहिर्मुखज्ञानप्रसरवज्जागरितावस्थजीव विशिष्टः. देवमनुष्यादिनामरूपरागद्वेषलोभमोहाद्यौपाधिकबाह्याभ्यन्तराकाराभिमानकालुप्यविरहितजीव- । शरीरकः सन् आत्मन्यन्तर्भूत इति श्रुत्यर्थः । अप्ययस्य प्राप्तिरूपत्वात् सारे आत्मानमिति द्वितीया निर्देशः 1। अध्ययस्य स्थानसापेक्षत्वात् स्वस्मिन् प्रलीन इत्युक्तं भाष्ये । एकस्य परमात्मनः स्थानस्थानिभावव्यपदेशश्च अंशभेदाभिप्रायः । घटादेर्लयस्थानस्य घटानुपयुक्तस्यापि पृथिव्यंशस्यं हि कारणजातीयत्वात् कारणत्वम् । ब्रह्मणि तु जीवविशेषविशिष्ट तदितरांशभेदेन स्थानस्थानिभावः । घर्यैक्यात् कारणत्वम् । कारणावस्थान्वयिनि धर्मिण्यन्तर्भावः सर्वत्र समानः । औपाधिकाकाराभिमानानुगुणज्ञानविकासवज्जीवविशिष्टता कार्यावस्था । अतदभिमानजीवविशिष्टता कारणावस्था । तत्र लयस्थानभूतस्य परमात्मनः कारणवस्थापेक्षया लीयमानांशस्य विसदृशावस्था हि नामरूपाद्यौपाधिकाकाराभिमानानुगुणज्ञानप्रसरवज्जीवविशिष्टता । तस्मादौपाधिकाकारानभिमानजी व विशिष्टतारूपकारणावस्थाश्रये स्वात्मनि अवस्थानं स्वाप्यय इत्युपपन्नम् । अत एव जीवस्य नित्यत्वाविरोधश्च । ज्ञानसङ्कोचविकास विशेषव्यतिरेकेण जीवत्वप्रहाणाभावात् । आमोक्षाज्जीवभावस्य स्थिरत्वं हि परैरप्यभ्युपेयम् । अतस्तदविरोधेन स्वाप्ययो वर्णनीयः । तदानीं 1 अनेन अस्य सारग्रन्थस्थस्यात्त्रासत्वावगमेन कुण्डलितो न भाष्यग्रन्थ इति स्पष्टम् । 2 तुल्यत्वादिति । स्वरूपेण प्रकृतिं प्रत्यपि धारकत्वप्रसंगादित्यर्थः । 8 देहस्याने कावयवसमुदायरूपतया सर्वावयवापृथक्सिद्धेर्ज्ञानमादायैव वाच्यत्वादिति भावः । 4 विषयग्राहित्वरूपावस्थाराहित्येऽपि अन्यादृशरूपेण ज्ञानं सर्वावयवेषु सौभरिदेहेष्विव वर्तेतेत्याशयेनाह देहापरित्यागादिति । 2-24
१८६ श्रुतप्रकाशिकोपेते श्रीमाण्ये तस्मात् सच्छन्दवाच्यः परं ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव । तदाह वृत्तिकारः, “सता सोम्य तदा संपन्नो भवतीति, संपत्त्यसंपत्तिभ्यामेतदध्यवसीयते । ‘प्राज्ञेनाऽऽत्मना संपरिष्वक्तः’ इति चाह” इति ॥ १० ॥ इतश्च न प्रधानम्— गतिसामान्यात् ॥ १-१-११ ॥ ‘प्राज्ञेनात्मना संपरिष्वक्तः’ इति भेदप्रतिपादनाविरोधश्चैवं सति भवति । एवंविध एव प्रलयो महाप्रलयो (ये ?) ऽपीत्यभ्युपगन्तव्यम् ; जीवबहुत्वानादित्व कर्मवासना विशेष स्थित्युपगमेन वैषम्यनैर्नृण्यादेः परिहर्तव्यत्वात् । न च ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ इति ज्ञाननित्यत्व श्रुतिविरोधः, तस्य सङ्कोचमात्रवतः तुच्छत्वाभावात् । न च प्रसरोपलम्भयोरभावात् ज्ञानद्रव्यस्य तुच्छत्वं शङ्कनीयम् ; न अनुल्लिखितरत्नप्रभायाः प्रसरोपलम्भाभावान्नास्तित्वम् । “यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा” इति हि स्मृतिः । आत्यन्तिकप्रलयेऽपि यथोक्तप्रकार उपपद्यते । तदानीं नामरूपाद्यौपाधिकाकाराभिमानरूपविसदृशदशाप्रहाणेन कारणावस्थे परमात्मन्यवस्थानात् । औपाधिकाकाराभिमानाईत्वरूपकार्यावस्थाविरहितजीवविशिष्टत्वं हि परस्य कारणावस्थत्वम्; विकृतिविरहितजीवविशिष्टत्वमिति यावत् । तत् महाप्रलये मुक्तौ च समानम् ॥ ;
ननु ‘प्राज्ञेनात्मना संपरिव्यक्तो न बाह्य किञ्चन वेद नान्तरम्” इति सुषुप्तौ प्राज्ञत्वाज्ञत्वरूपवैषम्यावगमात् मोक्षे चेश्वरत्वेशितव्यत्वादिवैषम्यस्थित्यभ्युपगमात् भवदभिमतप्रलय प्रकारोऽनुपपन्न इति ॥ नैवम् कारणावस्थामपेक्ष्य विसदृशावस्थाया विवक्षितत्वात्, नामरूपाद्यौपाधिकाकाराभिमानविरहितजीवविशिष्टता कारणावस्था, तदपेक्षया विसदृशावस्था च तादृगभिमानवज्जीवविशिष्टता । तत्महाणस्य चात्र विद्यमानत्वात् सुषुप्तौ लय उपपन्नः । मोक्षे चेशितव्यत्वाकारेण वैषम्यं नात्यन्तिकप्रलयविरोधि ; ईशितव्यताया अवस्थारूपत्वाभावात् ; कादाचित्कधर्मो ह्यवस्था । ईशितव्यत्वादि तु नित्यम् ; “स ईशेऽ (शोऽ)स्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय”, “यस्यात्मा शरीरम्, य आत्मानमन्तरो यमयति” इत्यादिश्रुतेः । अतो नेशितव्यत्वादिकमवस्थेति वैधर्म्यरूपस्यापि तस्याप्रहाणं न दोषः । अतो यथोक्त एव खाप्ययः ॥ सौत्र हेतुं परमसाध्येन सङ्गमयति तस्मादिति । अप्ययस्थानस्य परमकारणत्वायाह परं ब्रह्मेति । नीवव्यावृत्त्यर्थं सर्वज्ञशब्दः । प्राज्ञेनात्मनेति हि श्रुतिः ‘तदैक्षत’ इत्येतत्संवादिनी । अप्ययेऽपि जीव नियन्तृत्वज्ञापनार्थमीश्वरोत्तीर्णतत्त्वव्युदासार्थं च परमेश्वरशब्दः । सुपुप्तपुरुषवैलक्षण्यपरो देवताविशेषपरब्ध पुरुषोत्तमशब्दः । व्याख्यानान्तरव्यावृत्त्यर्थमाह तदाहेति । सम्पश्यसम्पत्तिस्यामिति । ‘सति सम्पद्य न विदुः सति संपत्स्यामह इति । सत आगम्य न विदुः सत आगच्छामह इति’ इत्युक्ताभ्यां संपत्ति निर्गमाभ्यामित्यर्थः । यद्वा परमात्मनि संपत्त्या, अन्यत्र असंपत्त्या चेत्यर्थः । स्वाप्ययशब्देनासंपत्तिरप्यभिप्रेतेति वृत्तिकारस्य भावः । एतत् –परब्रह्मकारणत्वमित्यर्थः ॥ १० ॥ 11 पूर्वसूत्रे ‘प्राज्ञेनात्मना’ इत्यादेः सुषुप्तिविषयस्य श्रुत्यन्तरस्य प्रकृतार्थोपपादकतया बुद्धिस्थत्वात् कारणस्य परमात्मत्वमपि कारणविषयैः श्रुत्यन्तरैरुपपाद्यते गतिसामान्यात् ॥ पूर्वं गौणइवेनात्म- 1 व्याख्यानान्तरेति । एतदाशयो भाष्यार्थदर्पणे द्रष्टव्यः ।
१-१५ ईक्षत्यधिकरणम् १८७ “आत्मा वा इदमेक एवात्र आसीत् ; नान्यत् किवन मिषत् । स ईक्षत लोकान्नु सृजा इति । समाल्ँलोकानसृजत”, “तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अह्नयः पृथिवी”, “अस्य महतो भूतस्य निश्वसितमेतत् यत् ऋग्वेदः” इत्यादिसृष्टिवाक्यानां या गतिः - प्रवृत्तिः तत्सामान्यात्तत्समानार्थत्वादस्य । तेषु च सर्वेषु सर्वेश्वरः कारणमवगम्यते । तस्मादत्रापि सर्वेश्वर एव कारणमिति निश्चीयते ॥ ११ ॥ इतश्च न प्रधानम्—
श्रुतत्वाच्च ॥ १-१-१२ ॥ श्रुतमेव हास्यामुपनिषदि अस्य सच्छब्दवाच्यस्य आत्मत्वेन नामरूपयोव्र्याकर्तृत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वाधारत्वमपहतपाप्मत्वादिकं सत्यकामत्वं सत्यसङ्कल्पत्वञ्च -“अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि”, “सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः”, “ऐतदात्स्यमिदं सर्वं तत् सत्यं स आत्मा”, “यञ्चास्येहास्ति यच्च नास्ति सर्व तदस्मिन् समाहितम् । अस्मिन् कामाः समाहिताः । एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” इति । तथा च श्रुत्यन्तराणि, “न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं कारणाधिपाधिपो न चास्य कश्विजनिता न चाधिपः”, “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते”, “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा”, “विश्वात्मानं परायणम्”, “पति विश्वस्यात्मेश्वरम्”, “यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्वद्दिश्च तत् सर्वं व्याप्य नारायणः स्थितः”, “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इत्यादीनि । शब्दादित्युक्तत्वादात्मशब्द वतीः श्रुतीरुदाहरति आत्मा वा इत्यादिना । तस्य ह वा एतस्येत्यत्रापि आत्मशब्दः श्रूयते, “आत्मा वा अरे द्रष्टव्यः”, “आत्मनि खल्वरे दृष्टे”, “योऽन्यत्राऽऽत्मनः सर्व वेद” इति च । गतिशब्दं व्याचष्टे प्रवृत्तिरिति । बोधनव्यापारपरः प्रवृत्तिशब्दः, “भिन्नप्रवृत्तिनिमित्तानाम्” इत्यन्न प्रवृत्तिशब्दवत् । समानत्वमर्थद्वारकमित्याह तत्समानेति । ततः किमित्यत्राह तेषु चेति । ततोऽपि किमित्यत्राह तस्मादिति ॥ ११ ॥ न केवलमुपनिषदन्तरेषु, अत्रैव सर्वेश्वरकारणत्वं स्फुटमित्याह-थतत्वाच्च ॥ आत्मत्वेन ॥। नामरूपव्याकर्तृत्वं दर्शयति अनेन जीवेनेति । सर्वज्ञत्व सर्वशक्तित्वे, “तदैक्षत नहु स्याम्” इत्यादिवाक्येन पूर्वमेव दर्शिते ; सन्मूला इति सूचिते च । आधारत्वं दर्शयति सदायतना इति यच्चास्येति च । धारकत्वं चात्मत्वेनेति दर्शयति ऐतदात्म्यमिति । न पत्र कारणतया कार्याधारत्वमात्र विवक्षितमिति भावः । यचेत्यादिकं सत्यकामत्वप्रतिपादनोपयुक्तश्च । अपहतपाप्मत्वादिगुणान् दर्शयति एष आत्मेति । उक्तगुणवैशद्यार्थमनुक्तगुणदर्शनार्थं तद्वत ईश्वरत्व देवताविशेषत्व स्फुटीकरणार्थे च पूर्वसूत्राभिप्रेतानि अनुदाहृतानि श्रत्यन्तराण्युदाहरति तथा चेति ; न त्वेतत्सूत्रविषयवाक्यत्वेन ; अस्य सूत्रस्य छान्दोग्योपनिषन्मात्रविषयत्वं दीपसारयोरपि हाम्, “श्रुतमेव स्यामेवोपनिषदि” इति । नात्र कमविवक्षा । लिङ्गम् — शरीरम् । नाशब्द- 1 भाष्यार्थदर्पणो द्रष्टव्यः । ।
१८८
तस्माज्जगत्कारणवादिवाक्यं न प्रधानादिप्रतिपादनयोग्यम् । अतः सर्वज्ञः सर्वशक्तिः सर्वेश्वरेश्वरो निरस्तनिखिलदोषगन्धोऽनवधि कातिशयासङ्ख्ये य कल्याणगुणगणौघ ‘महार्णवः पुरुषोत्तमो नारायण एवं निखिलंजगदेककारणं जिज्ञास्यं ब्रह्मेति स्थितम् ॥ अत एव निर्विशेषचिन्मात्र ब्रह्मवादोऽपि सूत्रकारण आभिः श्रुतिभिर्निरस्तो वेदितव्यः ; पारमार्थिकमुख्येक्षणादिगुणयोगि जिज्ञास्यं ब्रह्मेति स्थापनात् । निर्विशेषवादे हि साक्षित्वमप्यपारमार्थिकम् । वेदान्तवेद्यं ब्रह्म जिज्ञास्यतया प्रतिज्ञातम् ; तच्च चेतनमिति ‘ईक्षतेनशब्दम्’ इत्यादिभिः सूत्रैः प्रतिपाद्यते । चेतनत्वं नाम चैतन्यगुणयोगः । अत ईक्षणगुणविरहिणः मित्युपक्रमसूत्रानुरोधेन प्रधानस्याप्रतिपाद्यत्वं निगमयति तस्मादिति तेन फलितं ब्रह्मणः प्रतिपाद्यत्वं निगमयति अत इति । सर्वज्ञत्वादयः सर्गादिकारणत्वोपयोगिगुणाः । शोधकवाक्योक्तगुणाः निरस्तनिखिलेत्यादिनोक्ताः । अनवधिकेत्यादिना पुरुषार्थत्वञ्च दर्शितम् । “ओघशब्दः, अस्ति चेत्, गुणानामन्यत्रापर्यवसायित्वं दर्शयति । महार्णवशब्दो गुणेभ्योऽपि तदाश्रयस्य महत्त्वं दर्शयति । पुरुषोत्तमनारायणशब्दौ पुरुषसूक्तनारायणानुवाकसिद्धविशेषपर्यवसायित्वं कारणशोधकवाक्यानां दर्शयन्तौ चिदचिद्विलक्षणत्वं तच्छरीरकत्वं च दर्शयतः । निखिलजगदेककारणमिति । निखिलशब्देन गगनादिकमपि कबलीकृतम् । एकशब्देन निमित्तोपादानत्वे अभिप्रेते ॥ ; एषां सूत्राणां ब्रह्माज्ञानवादिनोऽ
ननुगुणत्वं पूर्वमुक्तं विस्तरेणाऽऽह अत एवेति । सूत्रकारेणेति । न्यायनिबन्धनकृतेत्यभिप्रायः । आभिरिति अर्थप्रत्यायकत्वं विवक्षितम् न्यायानुगृहीताभिर्विशदार्थाभिः श्रुतिभिरिति भावः । किञ्च प्रामाणिकस्याप्रामाणिकत्वाभिमानादपसिद्धान्तता, सिद्धान्तस्यापि भ्रान्तिमूलत्वादप्रामाणिकता च लोके दृष्टेति तदुभयव्यवच्छेदार्थः सूत्रकार ‘श्रुत्योर्निर्देशः । निरस्तो वेदितव्य इति । निरासः फलित इत्यर्थः । अत एवेत्युक्तं विवृणोति पारमार्थिकेति । ईक्षणस्यापारमार्थिकत्वे साङ्ख्याभिमतं प्रधानमेव ब्रह्म स्यात्; शुक्तित्वापारमार्थ्य हि रजतमेव परमार्थः स्यादिति साङ्ख्यनिरासोऽनुपपन्नः स्यादिति पारमार्थिकशब्दाभिप्रायः । सच्छन्दोक्त खरूपस्य संशयसहत्वात् तदतिरिक्तेन व्यावर्तकेन भाव्यमिति गुणशब्दस्य भावः । अतः सदादिशब्दानां साङ्ख्याभिमतप्रधानपरत्वव्यवच्छेद सिद्ध्यर्थमीक्षणादिगुणतत्पारमार्थिकत्वविवक्षावद्भिः सूत्रैर्निर्विशेषनिरासः फलित इत्यर्थः । ‘तदैक्षत’ इत्यादिवाक्यानि साक्षित्वमात्रपराणि, न तु गुणविशेषपराणि । साक्षित्व- । मात्रेणापि सूत्राभिमता प्रधानव्यावृत्तिः सिध्यतीत्यत्राह निर्विशेषेति । सच्छब्दोपस्थापित-विमतिपदस्वरूपातिरेकेण साक्षित्वमप्यपारमार्थिकं त्वन्मत इत्यर्थः । ज्ञातृत्वाभावे साक्षित्वमपि न सिध्यतीति प्रागेवोक्तमिति अपिशब्दाभिप्रायः । अपारमार्थिकत्वे किं स्यादित्यत्राह वेदान्तेति । न ह्यारोपिताकारः तत्त्वावेदकप्रमाणविषयः ; न चार्वाचीन ब्रह्म जिज्ञास्यतया प्रतिज्ञातमिति भावः । ततः किमित्यत्राह तच्चेति । ततोऽपि किम् ? न ह्यस्माभिरचेतनमुच्यत इत्यत्राह चेतनत्वं नाम चैतन्यगुणयोग इति । ईक्षितृत्वं हि न चिद्रूपतामात्रमित्यभिप्रायः । निर्विशेषनिरासस्य फलितत्वं निगमयति अत इति । न 1 1 ओघः प्रवाहः । नदीप्रवाहो ह्यर्णव एव पर्यवस्यति । यद्वा ओघरूपो महार्णव इति टीकाशयः स्यात् । न हि सूत्रकृतो विपरीताभिमानः, न च श्रुत्युक्तस्य भ्रान्तिमूलत्वमिति भावः । 2
१-१-५ ईक्षत्यविकरणम् (अद्वैत निरासः) १८९प्रधानतुल्यत्वमेव । किञ्च निर्विशेषप्रकाशमात्रब्रह्मवादे तस्य प्रकाशत्वमपि दुरुपपादम् । प्रकाशो हि नाम स्वस्य परस्य च व्यवहारयोग्यतामापादयन् वस्तुविशेषः । निर्विशेषस्य वस्तुनस्तदुभयरूपत्वाभावात् घटादिवदचित्त्वमेव ॥ तदुभयरूपत्वाभावेऽपि तत्क्षमत्वमस्तीति चेत्-तन्न । तत्क्षमत्वं हि तत्सामर्थ्यमेव । सामर्थ्यगुणयोगे हि निर्विशेषवादः परित्यक्तः स्यात् ॥ अथ श्रुतिप्रामाण्यादयमेको विशेषोऽभ्युपगम्यत इति चेत् — हन्त तर्हि तत एव सर्वज्ञता, सर्वशक्तित्वम्, सर्वेश्वरेश्वरत्वम्, सर्वकल्याणगुणाकरत्वम्, सकलं हेयप्रत्यनीकतेत्यादयः सर्वेऽभ्युपगन्तव्याः । शक्तिमत्त्वं च कार्यविशेषानुगुणत्वम् तच्च कार्यविशेषैकनिरूपणीयम् । कार्यविशेषस्य निष्प्रमाणकत्वे तदेकनिरूपणीयं शक्तिमत्त्वमपि निष्प्रमाणकं स्यात् । किञ्च निर्विशेषवस्तुवादिनो वस्तुत्वमपि निष्प्रमाणम् । प्रत्यक्षानुमानागमस्वानुभवाः सविशेषगोचरा इति पूर्वमेवोक्तम् । तस्मात् विचित्रचेतनाचेतनात्मकजगद्रूपेण बहु स्यामितीक्षणक्षमः पुरुषोत्तम एव जिज्ञास्य इति सिद्धम् ॥ १२ ॥ इति ईक्षत्यधिकरणम् (५) -0-0-0 . ात्र चिद्रूपतामात्रेण प्रधानव्यावृत्तिः सूत्रिता ; अपि त्वीक्षणगुणयोगेन । तदनभ्युपगच्छतो व्यावर्तकाभावे व्यावृत्तिरेव न स्यादित्यर्थः । पारमार्थिकेत्यादिना एतदधिकरणविरोध उक्तः । वेदान्तेत्यादिना पूर्वाधिकरणैर्विरोध उक्तः ; यद्वा - स्वरूपमेव साक्षित्वम्, न धर्मः ; अतो नापारमार्थिकमित्यत्राह वेदान्तेति । स्वरूपमेव चेत् तत्, पूर्वसूत्रैः सिद्धमिति प्रतिपाद्याधिक्याभावात् ईक्षतेरित्यादिसूत्रवैयर्थ्यमित्यभिप्रायः ॥ स्वरूपविशेषोऽप्रतिपन्न इति चेत् — किं स्वरूपमेव विशेषः, उत स्वरूपस्य विशेषः । प्रथमे, प्रागुक्तदोषः । द्वितीये, सविशेषत्वम् ॥ पूर्वसूत्रेषु ब्रह्म कारणात्मना सिद्धम्, न तु चेतनरूपेण ; अतः ईक्षतेरित्यादिसूत्राणामारम्भणीयत्वमिति शङ्कायाम्, चेतनरूपेण प्रतिपाद्यत्वमभ्युपगच्छन्नाह तच्चेति । चेतनतया प्रधानव्यावृत्तिः चैतन्यगुणविरहे न सिध्यतीति वक्तुं चेतनत्वं शोधयति चेतनत्वं नामेति । गुणशब्दो धर्मपरः । ततः किमित्यत्राह अत इति । व्यावर्तकाभावात् व्यावृत्त्यसिद्धिरित्यर्थः । चेतनशब्दस्य स्वरूपमात्रपरत्वे अधिकरणारम्भवैयर्थमर्थसिद्धम् । न प्रधानतुल्यत्वम्, प्रकाशत्वाभ्युपगमात्; यथा आत्मधर्मभूतज्ञानस्य ज्ञानान्तरायोगेऽप्यचिद्व्यावृत्तिस्त्वन्मते, तद्वदित्यत्राह किश्चेति । कथं दुरुपपादत्वमित्यत्राह प्रकाशो हीति । व्यवहार योग्यता - व्यवहारप्रतिसंबन्धिता । तदुभयरूपत्वाभावात् - स्वव्यवहारहेतुत्व-परव्यवहारहेतुत्वाभावादित्यर्थः । अथ तदुभयक्षमत्वं शङ्कते तदुभयेति । तत्क्षमत्वमभ्युपगम्य दूपणमाह तन्नेति । परस्यागतित्वं दर्शयितुमाह अथेति । परिहरति हन्त तहींति । तत्क्षमत्वमेव नास्तीत्याह शक्तिमत्त्वं चेति । कार्यविशेषस्य निष्प्रमाणकत्वे - स्वपरव्यवहार योग्यतापादनाभावे । निरूपकाभावे निरूप्याभाव इत्यर्थः । वस्तुत्वे संभवत्यपि प्रधानतुल्यत्वमुक्तम् ; अथ वस्तुत्वमेव न सिध्यतीत्याह किश्चेति । वस्तुत्वम् तुच्छव्यावृत्तत्वम् । कुत इत्यत्राह प्रत्यक्षेति । प्रत्यक्षान्तर्भूतस्यापि स्वानुभवस्य पृथक्प्रमाणत्वं परमताभ्युपगमेनोक्तम् । सविशेषगोचराः - वस्तुतः सविशेषभूतार्थगोचरा इत्यर्थः । वस्तुत्वं चिदचित्साधारणम् । तच तुच्छव्यावृत्तत्वम् । तन्न सिध्यतीत्यर्थः । परपक्षदूषणानन्तरं स्वपक्षं निगमयति तस्मादिति ॥ ; 1 परैस्त्वेवं सूत्रयोजना कृता — प्रधानं न प्रतिपाद्यम्, अशब्दं हि तत् शब्देन प्रतिपाद1 परैरिति न मृषावादिमातग्रहणम्। भास्करीयेऽप्येवमेव दर्शनात् । अधिकांशदूषणं विशिष्य यादवप्रकाशीये उपरि ।
१९० ; अतप्रकाशिकोपेते श्रीभाष्ये (परमतदूषणम् ) यितुमशक्यं हि तत् । अशक्यत्वश्च ईक्षतिश्रवणादिति । नैषोचिता; प्रतिज्ञावावये धयुपस्थापकशब्दस्याध्याहार्यत्वात् 1 अशब्दं हि तदित्युक्तेऽपि हेत्वन्तरसाकाङ्क्षत्वाच । " नानुमानमतच्छब्दात्, " " आनुमानिकमप्येकेषाम् ” इत्यादिसूत्रेषु आनुमानिकादिशब्दवत् अशब्द शब्दस्याप्यवयवार्थमुखेन धर्म्युपस्थापनक्षमतया अध्याहार निरपेक्षत्वात् अवयवशक्त्यैवानुमानाकारावगमरूपपूर्वपक्षबीजस्य सूत्रेणैव द्योतमानत्वसिद्धेश्व भाष्यकाराभिमता योजना साधीयसी । गौणश्वेनात्मशब्दात् इत्यत्रात्मशब्दस्य स्वरूपपरत्वमाश्रित्य जीवं निर्दिश्य सच्छन्दवाच्यस्य स्वरूपत्वेन व्यपदेशादगौणमीक्षणमित्यप्ययुक्तम् ; तस्यामो घेक्षणत्वायोगात् । सूत्रास्वारस्याम्च । न हि, गौणश्चेन्न जीवशब्दादित्युक्तम् । स्वरूपपर” आत्मशब्दः सापेक्षः, जीववाचिपदसमभिव्याहारेण विना तस्याचिद्यावर्तनासामर्थ्यात् । चेतन परस्त्वात्मशब्दः ‘ऐतदात्म्यमिदं सर्वम्’ इति चिदचिदात्मकसमस्तप्रपञ्चं प्रति आत्मत्वं दर्शयन् अचिव्द्यावर्तनेऽतीव निराकाङ्क्षः । अतः साकाङ्क्षा हेतु निर्देशादपि निराकाङ्क्षहेतु निर्देशो वरमिति तस्यापि सूत्रस्य यथोक्त एवार्थः । चिदचिदात्मक समस्तजगदन्तरात्मवाचिन आत्मशब्दस्य ‘ममात्मा भद्रसेन ः’ इतिवत् मुख्यार्थानुपपत्त्यभावेन गौणत्वशङ्कानुदयात्, आत्मशब्दो न गौण इति प्रतिज्ञावाक्यान्तरनिरपेक्षत्वान्च तृतीयं सूत्रमपि परमसाध्यहेतुदाचीत युक्तम् । सर्ववेदान्तानामैककण्ठ्यं दर्शयता गतिसामान्यसूत्रेणैव श्वेताश्वतरवाक्यस्यापि क्रोडीकृतत्वात् श्वेताश्वतरवाक्यस्य श्रुतत्वात् इति सूत्रविषयत्वाश्रयणमयुक्तम् ॥ ; यत्तक्तं यादवप्रकाशीयैः - सता संपन्न इति सत्प्राप्तिमात्रमुक्तम्, न त्वैवयम् सच्छन्दस्य प्रधानपरत्वेऽपि, सति संपत्तिर्घटते ; स्वाप्ययश्च सर्वेषां जीवानां पृथक् पृथक् स्वस्मिन्नप्ययो भवत्विति शङ्कापरिहाराय सुषुप्तौ सर्वजीवानां गन्तव्यस्य वस्तुन एकत्वम्, तत्र सति तेषामैक्यापत्तिश्च गतिसामान्यसूत्रेणोच्यते । विषयश्च, “यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति ; नानात्ययानां वृक्षाणां रसान् समवहारमेकतां रसं गमयन्ति । ते यथा तत्र न विवेकं लभन्ते, अमुष्याहं वृक्षस्य रसोऽस्मि, अमुण्याहं वृक्षस्य रसोऽस्मीति — एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः” इति वाक्यमिति । तदप्ययुक्तम् । तथा हि-दृष्टान्तानुगृहीतमेकतामवगमयत् ‘सति संपद्य’ ‘इत्यादि वाक्यं किं कारणत्वमुपजीव्य सतः प्रधानत्वव्युदासकम् उत कारणत्वमनुपजीव्य 1 प्रथमे, गतिसामान्यसूत्रवैयथ्यं स्यात्; स्वाप्ययस्य कारणत्वापात्तिरूपतया स्वाप्ययसूत्रेणैव प्रधानत्वव्युदाससिद्धेः । दृष्टान्तवैघटयञ्च; बहूनां रसानामेकस्मिन् कारणे लयस्य निदर्शितत्वाभावात् । रसवतामवयवानां मधुत्वरूपेण समानरसत्वापत्तिरेव हि तत्र दृश्यते । द्वितीये च जीवानां कीदृशमेकत्वं सतः 1 नन्दस्मन्मते अशब्दशब्दस्य पक्षपरत्वाय, शब्द एव प्रमाणं न भवतीति एवकारघटिततया व्याख्यानं कार्यम्; अन्यथा अजामेकामित्यादिशब्दगम्यतया विरोधात् । तन्मते प्रकृतसद्विद्यागम्यत्वाभावमात्रकथनान्न दोष इति चेन्नएवकारघटितव्याख्याने भाष्यतात्पर्याभावस्यान्यत्नोकत्वात् । प्रकृतेर्घटादिकार्यात्मना प्रत्यक्षत्वात् आकारान्तरेणानुमानिकत्वाच्च कतिपय विशेषांशे शब्दगभ्यत्वेऽपि धर्म्यशे अज्ञातत्राप्यत्वरूपशब्द गम्यत्वाभावात् अशब्दत्वात् । धर्युपस्थापकत्वाभावे ‘न प्रतिपाद्यम्’ इति साध्यांशस्य अशब्दमित्येतदर्थस्य हेतोश्चाविशिष्टत्वमिति परपक्षे दोषात् ; पौनरुक्तयाच्च । 2 जीवेनात्मनेत्यत्रात्मशब्दः अस्मत्पक्षेऽपि स्वरूपपर एव । जीवशब्दस्य जीव विशिष्टपरस्थमित्येव विशेषः ।
१-१-६ आनन्दमयाधिकरणम् आनन्दमयाधिकरणम् १-१-६ १९१ एवं जिल्हासितस्य ब्रह्मणश्चेतनभोग्यभूतज रूपसम्बरजस्तमोमयप्रधानात् व्यावृत्तिरुका। इदानीं कर्मचश्यात् त्रिगुणात्मक प्रकृति संसर्गनिमित्तनानाविधानन्तदुःखसागरनिमज्जनेनाशुद्धात् शुद्धाच्च प्रत्यगात्मनोऽन्यत् निखिलहेषप्रत्यनीकनिरतिशयानन्दं ब्रह्मेति प्रतिपाद्यते— आनन्दमयोऽभ्यासात् ॥ १-१-१३ ; तैत्तिरीया अधीयते -“स वा एष पुरुषोऽन्नरसमयः” इति प्रकृत्य, “तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः” इति । तत्र संदेहः, मियमानन्दमयो बन्धमोक्षभागिनः प्रत्यगात्मनो जीवशब्दाभिलपनीयादन्यः परमात्माः उत स एवेति ॥ किं युक्तम् ? प्रत्यगात्मेति । प्रधानत्वव्युदासकम् ? न तावत् जीवत्वप्रहाणेन सतैकत्वम् ; जीवत्वप्रहाणस्य भवताऽनभ्युपगमात् ; जीवनित्यत्वश्रुतिविरोधात; ‘प्राज्ञेनात्मना संपरिष्वको न वा किञ्चन वेद नान्तरम्’ इति अज्ञस्य जीवस्य तदा प्राज्ञाधिष्ठितत्वश्रवणविरोधात् पुनरपि व्यवस्थित कर्मफलभोगाद्यनुपपत्तेश्च । न च सद्रूपेणैकत्वम्, तत् जाग्रद्दशायामप्यस्तीति तदानीमिव जीवानां स्वापे स्वस्वरूपावस्थानप्रधानसंसर्गचोरविरोधादभिमतासिद्धेः । न च देवत्वमनुष्यत्वरागद्वेषादिवाद्याभ्यन्तरविकल्पाभिमानविरहेणैकत्वम् तस्यापि स्वस्वरूपावस्थानप्रधानसंसर्गयो र विरोधित्वेन संपत्त्यप्ययाधिकरणस्य स्वखरूपप्रधानव्यतिरेकासिद्धेः । अतः सूत्र वैयर्थ्यशङ्कापरिहारा सिद्ध्योरन्यतरावश्यम्भावात् परोक्तार्थपरत्वं सूत्रस्यायुक्तम् । यच्च श्रुतत्वादिति सूत्रस्य प्रतिज्ञावावयप्रभृति स एपोऽणिमा, ऐतदात्म्यमित्यादिवात्रयजातं विषयतयोपात्तम्तदप्ययुक्तम् ; प्रतिज्ञाविरोधात् नात्मशब्दात् इत्यादिभिः सौत्रपदैरस्य पुनरुक्तिप्रसङ्गात् । अतः सूत्राणां यथोक्त एवार्थः ॥ इति ईक्षत्यधिकरणम् ॥ अथोत्तराधिकरणस्य पूर्वाधिकरणेन सङ्गतिमाह एवं जिज्ञासितस्येति । जगत्कारणस्य निरूपणीयत्वे चतुस्सूच्या सिद्धे, प्रत्यक्षादिसिद्धतया प्रसिद्ध्यतिशयात् अचेतने प्रथममवतरन्ती बुद्धिः ईक्षणादिभिस्ततो व्यावत्यै चेतनवस्त्वभिमुखीकृता । इदानीम चेतनापेक्षया प्रसिद्धिमान्द्येऽपि परमात्मापेक्षया प्रसिद्धतरे अहम्प्रत्ययसिद्धे ‘प्रत्यगात्मन्यवतरन्ती बुद्धिर्व्यावर्त्यत इत्यर्थः । आनन्दमयोऽभ्यासात् ॥ कारणविषयस्य ‘तस्माद्वा एतस्मादात्मनः” इति वाक्यस्योत्तरल चोद्यपरिहारमुखेन उदाहरिष्यमाणत्वात् प्रथमम् आत्मशब्दव्याख्यानोपक्रमभूतं ‘स वा एष पुरुषः ’ इत्यादिकमुपातम् । अत एव हि प्रवन्धान्तरे ‘तस्माद्वा’ इत्यादिकमुदाहृतम् । तत्रेति । शारीरत्वानन्दप्राचुर्याभ्यां संशय इत्यभिप्रायः । सद्विद्यायां जीवेनात्मनेति समानाधिकरण्यमत्र पूर्वपक्षोत्थानचीज मिति सूचनार्थं जीवशब्दाभिलपनीयादिति पदम् । किं कारणवादिनः सर्वे वेदान्ताः परिशुद्धप्रत्यगात्मस्वरूपपराः, उत तद्विलक्षणपरराः इति प्रथम विचारः ; " तदर्थमानन्दमयः किं परिशुद्धावस्थः प्रत्यंगात्मा ; ; 1 प्राय उपनिषद्वचसाम् आन्यपर्यकल्पनया यथाश्रुतापलापेदम्परत्वात् पूर्वपक्षिणाम्, ईक्षत्यात्मशब्दमुख्यत्वायाचेतननिरासे कृते, गतिसामान्यादिहेतुना सर्वेश्वरप्रदर्शनेऽपि, ‘अतो न् प्रधानम्’ इति निगमननिक्षिप्तदृष्टिः पूर्वपक्षी अचेतनव्यावर्तकाकारमात्र एव सिद्धान्तिहृदयमिति स्वयमुत्प्रेक्ष्य जीवग्रहणेनेश्वरापलापे प्रवर्तत इति भावः । एवमयोगव्यवच्छेदपरत्वमस्य पादस्य । 2 अस्य जीवपरत्वे गतिसामान्यादैकरस्याय सर्व जीवपरमिति ग्राह्यम् ।
१९२
कुतः । ‘तस्यैष एव शारीर आत्मा’ इति आनन्दमयस्य शारीरत्वश्रवणात् । शारीरो हि शरीरसंबन्धी जीवात्मा ॥
ननु च जगत्कारणतया प्रतिपादितस्य ब्रह्मणः सुखप्रतिपत्त्यर्थमन्नमयादीन् अनुक्रम्य तदेव जगत्कारणमानन्दमय इत्युपदिशति ; जगत्कारणञ्च ‘तदैक्षत’ इतीक्षणश्रवणात् सर्वज्ञः सर्वेश्वर इत्युक्तम् ॥ सत्यमुक्तम् ; स तु जीवान्नातिरिच्यते । “अनेन जीवेनात्मनाऽनुप्रविश्य”, “तत्त्वमसि श्वेतकेतो” इति कारणतया निर्दिष्टस्य जीवसामानाधिकरः यनिर्देशात् । सामानाधिकरण्यं ह्येकत्वप्रतिपादनपरम् ; यथा ‘सोऽयं देवदत्तः’ इत्यादौ । ईक्षापूर्विका च सृष्टिः चेतनस्य जीवस्योपपद्यत एव । उत परमात्मेति ; तदर्थमिह प्रतिपन्नः शरीरसंबन्धः किं जीवात्मासाघारणः, उत न ; तदर्थे मयटू किं स्वार्थिकत्वविकारार्थकत्वयोरन्यतरवान् ; उत प्राचुर्यार्थः ; तदर्थं किं विकाराद्यर्थानुगुणहेतवोऽनुरोद्धव्याः, उत प्राचुर्याद्यर्थानुगुणहेतवः ; विज्ञानमयशब्दः किं विज्ञानमात्रपरः, उत जीवपरः ; तदर्थं तत्र मयूट किं स्वार्थिकः, उत न ; तदर्थं ‘विज्ञानं यज्ञ तनुते’ इति विज्ञानशब्दः किं ज्ञानमात्रे वर्तते, उत ज्ञानगुणके प्रत्यगात्मनि इति । पूर्वे कल्पाः पूर्वपक्षाः, इतरे तु राद्धान्ताः । यदा विकारार्थत्वाद्यनुगुण हेतोरनुरोद्धव्यत्वेन मयटू स्वार्थिको विकारार्थो वा भवति, तदा निरतिशयप्राचुर्याप्रतिपत्तेः आनन्दमात्रस्य जीवे संभवात् स्वतो जीवानुगुणतया प्रतिपन्नस्य शरीरसंबन्धस्य जीवासाधारणत्वे विरोधाभावात् आनन्दमयो जीवः ; यदा च श्लोकस्थविज्ञानशब्दो विज्ञानमात्रपरः, तदा विज्ञानमयशब्दस्यापि स्वार्थिकमयडन्तत्वेन विज्ञानमात्रपरत्वात् विज्ञानशब्दस्य बुद्धिपरत्वसंभवात् तदन्तर आनन्दमयः प्रत्यगात्मेति पूर्वपक्षे फलफलिभावः । राद्धान्ते तु यदा प्राचुर्यार्थानुगुण हेतोरनुरोद्धव्यत्वेनानन्दमय इत्यत्र मयट् प्राचुर्यार्थः, तदानीमानन्दप्राचुर्यस्य निरवधिकतयाऽवगतस्य श्रुतिविरुद्धाश्रतोपाधिकल्पनायोगेन स्वतो निरतिशयस्य जीवात्मन्यसंभवात् तद्विरोधेन शरीरसंबन्धस्य जीवासाधारणकर्ममूलत्वाभावाच्च नानन्दमयः प्रत्यगात्मा; यदा च श्लोकस्थविज्ञानशब्दो विज्ञानगुण के प्रत्यगात्मनि वर्तते, तदा विज्ञानमयशब्दस्यापि प्राचुर्यार्थमयडन्ततया प्रत्यगात्मवाचित्वाच्च तदन्तर आनन्दमयः परमात्मेति फलफलिभावः ॥ पूर्वपक्षोत्थानमाक्षिपति
ननु चेति । सुखप्रतिपत्यर्थमन्नमयादी
ननुक्रम्येति । अनेन जगत्कारणप्रकरणस्याविच्छित्तिद्यतिता । तदेव जगत्कारणमिति । वक्ष्यमाणपर्यालोचनया विभूतिप्रकर्षाघीनातिशयितानन्दस्याश्रयत्वोपपादकं सकलजगत्कारणत्वमिति भावः । ततः किमित्यत्राह जगत्कारणश्चेति । ज्ञानशक्त्युपयोगज्ञापनाय जगत्कारणमिति पुनरुपादानम् । परिहरति सत्यमिति । चेतनत्वादावभ्युपगमः, जीवादतिरेके विवादः । सामानाधिकरण्यनिर्देशोऽस्तु ; ततः किं जीवादबैलक्षण्यस्येत्यत्राह सामानाधिकरण्यमिति । ईक्षतिश्रवणाज्जीव विलक्षणत्वमुक्तमित्यत्राह ईक्षेति । उपपद्यत एवेत्येवकारः अस्वारस्यसूचकः । साक्षित्वमेव ईक्षितृत्वमिति भावः । भेदव्यपदेशाच्च इति भेदव्यपदेशं सिद्धान्तहेतुं वदता सूत्रकारेण ऐक्यव्यपदेशस्य पूर्वपक्षहेतुत्वं विवक्षितमित्यवगम्यते । एवमुत्थानोपपत्तेः सौत्रहेतुवशाच्च ऐक्यव्यपदेशः पूर्वपक्षहेतुतयोपन्यस्तः । एवं पूर्वाधिकरणेन जीवव्यतिरेका सिद्धेरधिकरणान्तरमारम्भणीयमिति भावः ।
ननु ‘त्रसविदाप्नोति परम्’ इत्यत्र ब्रह्म प्राप्यं
१९३ अतः ‘ब्रह्मविदाप्नोति परम्’ इति जीवस्याचित्संसर्गवियुक्तं स्वरूपं प्राप्यतयोपदिश्यते । अचिद्वियुक्तस्वरूपस्य लक्षणमिदमुच्यते, “सत्यं ज्ञानमनन्तं ब्रह्म” इति । तद्रपप्राप्तिरेव हि मोक्षः । “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः” इति । अतो जीवस्याविद्यावियुक्तं स्वरूपं प्राप्यतया प्रक्रान्तमानन्दमय इत्युपदिश्यते । तथा हि शाखाचन्द्रन्यायेन आत्मस्वरूपं दर्शयितुम् ‘अन्नमयः पुरुषः’ इति शरीरं प्रथमं निर्दिश्य, तदन्तरभूतं तस्य धारकं पञ्चवृत्तिप्राणम्, तस्याप्यन्तरभूतं मनः, तदन्तरभूतां च बुद्धिम्, ‘प्राणमयः’, ‘मनोमयः’, ‘विज्ञानमयः’ इति तत्र तत्र बुद्धधवतरणक्रमेण निर्दिश्य सर्वान्तरभूतं जीवात्मानम्, ‘अन्योऽन्तर आत्माऽऽनन्दमयः’ इत्युपदिश्य अन्तरात्मपरम्परां समापयति । अतो जीवात्मस्वरूपमेव ‘ब्रह्मविदाप्नोति’ इति प्रक्रान्तं ब्रह्म ; तदेवाऽऽनन्दमय इत्युपदिष्टमिति निश्चीयते ॥ ; श्रूयते । अनन्तरं लक्षणं कथ्यते । तत्र सत्यत्वमानन्त्यञ्चान्तर्भूतम् । जीवस्य नित्यप्राप्तत्वात् प्राप्यत्वमनुपपन्नम् । ज्ञातत्वाल्लक्षणञ्च न वाच्यम् । सत्यत्वानन्तत्वरूप लक्षण विशेषश्च नैकरूपज्ञानस्य परिच्छिन्नस्य नोपपद्यते । अतः परमात्मैव प्रतिपाद्यत इति शङ्कां परिहरन् पूर्वपक्षमाह अतो ब्रह्मविदिति । अतः शारीरत्वश्रवणात् सामानाधिकरण्यबलेनैक्यस्य प्रतिपन्नत्वाच्चाचिद्वियुक्त खरूपप्राप्यता परत्वं कल्प्यमित्यर्थः । लक्षणकथनं तत्प्रतिपत्त्यर्थं तद्विशेषोक्तिश्च अचिद्वियुक्ते खरूपे संभवतीत्याह अचिद्वियुक्तेति । न केवलं शारीरत्व सामानाधिकरण्यचलादचिद्वियुक्तस्वरूपस्य प्राप्यत्वम्, किन्तु कण्ठोक्तं चेत्याह तद्रूपेति । हिशब्दः श्रुतिप्रसिद्धि द्योतकः । यद्वा स्वरूपस्यैवोपाधिकाकार निवृत्तिमात्रपरमोक्ष शन्द्रस्वारस्यसूचकः । श्रुतिमेव दर्शयति न ह वा इति । इतीति । श्रवणादिति शेषः । प्राप्यत्वानुगुणपुरुषार्थतां दर्शयन् निगमयति अत इति ।
ननु नात्राचिद्वियुक्त जीवस्वरूपमुपदिश्यते ; ‘स वा एष पुरुषोऽन्नरसमयः’ इति शरीरसंबन्धश्रवणादपरिच्छिन्नानन्दत्वरणाच्चेत्यत्राह तथा हीति । शरीरमुपलक्षणमात्रम्, न तु विशेषणमिति तद्वियोगेना परिच्छिन्नानन्दत्वादिकमुपदिश्यत इत्यर्थः । तदन्तरभूतां च बुद्धिमिति । प्राणमयमनोमययोर्मयट्पत्ययस्य स्वार्थिकत्वात् विज्ञानमय इत्यत्रापि मयट् स्वार्थिकः । ‘विज्ञानं यज्ञ तनुते’ इति मयडन्तत्वं विना वक्ष्यमाणत्वात्, “विज्ञानसारथिर्यस्तु”, “बुद्धि. तु सारथिं विद्धि” इति बुद्धिविज्ञानशब्दयोरेकार्थत्वेन प्रयोगाच्च विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानं बुद्धिरिति भावः । किमर्थमन्नमयादिनिर्देश इत्यत्राह तत्रतत्र युद्ध्यवतरणेति । अपरिच्छिन्नानन्दत्वमपि परिशुद्धात्मस्वरूपस्य संभवतीत्यर्थसिद्धम् । शारीरत्वश्रवणाव, जीवसामानाधिकरण्यात्, विज्ञानमयशब्दस्यान्तःकरणपरत्वात् प्राप्यत्वादेः परिशुद्धखरूपेऽप्युपपन्नत्वात्, शरीरस्योपलक्षणत्वेन तद्वियुक्तखरूपेण प्राप्यत्वादिसंभवात्, मयट्प्रत्ययस्य स्वार्थिकत्वेन विकारपरत्वाभावाच्च परिशुद्धप्रत्यगात्मस्वरूपविषयमिदं वाक्यमिति पूर्वपक्षसङ्ग्रहः । तत्र द्वौ हेतू साधकौ; अन्ये तु शङ्कितदूषणान्यथासिद्धिरूपाः ॥ 1 नैकरूपेति सविकारत्वमुक्तम् । 2 आत्मभिन्नज्ञप्तेः परमते द्रव्यत्वाभावात् द्रव्यप्रायकोशमध्ये ज्ञप्तेरद्रव्यस्य विज्ञानशब्देन ग्रहणं पूर्वपक्षिणो नेष्टमित्याशयेन अन्तःकरणपरत्वाय अनेनेति व्युत्पत्तिरुक्ता । 2-25
१९४ (पुच्छब्रह्मशंका परिहारौ )
ननु च “ब्रह्म पुच्छं प्रतिष्ठा” इत्यानन्दमयादन्यद्ब्रह्मेति प्रतीयते ॥ नैवम् ; ब्रह्मैव स्वस्वभावविशेषेण पुरुषविधत्वरूपितं शिरःपक्षपुच्छरूपेण व्यपदिश्यते । यथा अन्नमयो देहोऽवयघो स्वस्मादनतिरिक्तः स्वावयवैरेव, ‘तस्येदमेव शिरः’ इत्यादिना शिरःपक्षपुच्छवत्तया निदर्शितः, तथा आनन्दमयं ब्रह्मापि स्वस्मादनतिरिक्तैः प्रियादिभिर्निदर्शितम् । तत्रावयवत्वेन रूपितानां प्रियमोदप्रमोदानन्दानामाश्रयतया अखण्डरूपमानन्दमयं ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युच्यते । यदि चानन्दमयादन्यद्ब्रह्लाभविष्यत्, ‘तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्म’ इत्यपि निरदेक्ष्यत । न चैवं निर्दिश्यते । एतदुक्तं भवति -‘ब्रह्मविदाप्नोति परम्’ इति प्रक्रान्तं ब्रह्म, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति लेक्षणतः सकलेतरव्यावृत्ताकारं प्रतिपाद्य, तदेव “तस्माद्वा एतस्मादात्मनः " इत्यात्मशब्देन निर्दिश्य तस्य सर्वान्तरत्वेनात्मत्वं व्यञ्जयत् वाक्यमन्नमयादिषु तत्तदन्तरतया आत्मत्वेन निर्दिष्टान् प्राणमयादीनतिक्रम्य ‘अन्योऽन्तर आत्माऽऽनन्दमयः’ इत्यात्मशब्देन निर्देशमा नन्दमये समापयति । अत आत्मशब्देन प्रक्रान्तं ब्रह्म आनन्दमय इति निश्चीयत इति । एवमानन्दमयशब्दस्य प्रत्यगात्मपरत्ववादिनं पूर्वपक्षिणं साङ्ख्यं मृषावादिपक्षस्थश्धोदयति
ननु चेति । तस्य पुच्छमिति षष्ठ्या अवयविसंबन्धप्रतीतेः संबन्धस्य द्विनिष्ठतया प्रतिष्ठातद्वद्भावेन च व्यतिरेकावगमादन्यत्वमित्यर्थः । परिहरति नैवमिति । ‘अन्वयं पुरुषविधः’ इति श्रुतिवाक्यस्मरणार्थं ‘पुरुषविधत्वरूपितमित्युक्तम् । पुरुषविधत्वेन रूपितम् । अनतिरिक्तत्वमुपपादयति यथेति । प्रकरणे स्वस्मादनतिरिक्तैः स्वावयवैः पुच्छप्रतिष्ठात्वरूपणदर्शनादत्रापि पुच्छप्रतिष्ठात्वेन रूपितं ब्रह्म आनन्दमयादनतिरिक्तमित्यर्थः । षष्ठीनिर्देशः समुदायत देकदेशत्वनिबन्धनतयोपपन्न इति भावः ॥
ननु ‘आनन्द आत्मा’ इत्यानन्दोऽवयवित्वेन रूपितः, न त्ववयवत्वेन, तत् कथमुच्यते अवयवत्वेन रूपितानां प्रियमोदप्रमोदानन्दानामिति ॥ नैष दोषः ; आत्मशब्दस्य स्ववाचित्वाभावात् । कायस्य मध्यभागो ह्यात्मशब्दवाच्यः । “दश हस्त्या अङ्गुलयो दश पाद्याः, द्वावूरूः, द्वौ बाहू, पञ्चविंश आत्मा” इत्यादौ तथा प्रयोगदर्शनात् । अत एव तस्यानन्द आत्मेति षष्ठ्या व्यतिरेकनिर्देशस्वारस्यं सिध्यति । तस्मादानन्दो मध्यभागत्वेन रूपितः ॥
नन्वेवमपि पुच्छतया निर्दिष्टं ब्रह्मेत्यङ्गीकृतं स्यात् ॥ ततः किम् ॥ तर्हि किं निरसनीयम् ॥ आनन्दमयस्याब्रह्मत्वम् । अतस्तन्निरासमुखेन पुच्छस्य तदन्तर्भावोऽभिधीयते । हेत्वन्तरमाह यदि चेति ।
ननु — तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्मेत्यन्तरात्मतयैव भेदो वक्तव्य इति न वस्ति नियमः, “पृथगात्मानं प्रेरितारम्”, “पतिं विश्वस्य” इत्यादिवत् व्यावर्तकाकारान्तरेणाप्यन्यत्वप्रतिपादनसंभवादित्याशङ्कयाह एतदुक्तमिति । प्रकरणस्य ततदन्तरतयैवान्यत्वप्रतिपादनपरत्वात् तत्प्रकरणस्थेन वाक्येन तादृशेन भवितव्यमित्यर्थः । आत्मशब्दस्य श्रुत्यैव व्याख्यानं कृतमिति कथमवगम्यत इति शङ्कायां स्वोक्तस्य स्वयमेव व्याख्यानं प्रकरण सिद्धमिति दर्शयितुम्, आत्मशब्दनिर्दिष्टस्यैव ब्रझत्वोपपादनोपयोगितया च ब्रह्मविदाप्नोति इत्यादि उक्तम् । तत्र ब्रह्मशब्दव्याख्यानं सत्यज्ञानादिवाक्यम् । आत्मशब्दव्याख्यानमानन्दमये समाप्तमस्तु ; ततः किमानन्दमयस्यैव ब्रह्मत्वे इति शङ्कायां ब्रह्मशब्देन प्रकृतस्यैव आत्मशब्देन निर्दिष्टत्वं दर्शयति तदेवेति । तस्माद्वा एतस्मात् इति तदेतच्छन्दौ प्रकृतपरामर्शिनावित्यभिप्रायः ।
११ ६ आनन्दमयाधिकरणम् १९५
ननु च ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युक्वा ‘असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः” इति ब्रह्मज्ञानाज्ञानाभ्यामात्मनः सद्भावासद्भावौ दर्शयति ; नानन्दमयज्ञानाज्ञानाभ्याम् । न चानन्दमयस्य प्रियमोदादिरूपेण सर्वलोकविदितस्य सद्भावासद्भावज्ञानाशङ्का युक्ता । अतो नानन्दमयमधिकृत्यायं. श्लोक उदाहृतः । तस्मादानन्दमयादन्यद्ब्रह्म ॥ नैवम् ; ‘इदं पुघ्छं प्रतिष्ठा’, ‘पृथिवी पुच्छं प्रतिष्ठा’, ‘अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा’, ‘महः पुच्छं प्रतिष्ठा’ इत्युक्त्वा तत्रतत्रोदाहृताः, ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यादिश्लोकाः यथा न पुच्छमात्रप्रतिपादनपराः, अपित्वन्नमयादिपुरुषप्रतिपादनपराः, - एवमत्राप्यानन्दमयस्यायम् ‘असन्नेव’ इति श्लोकः; नानन्दमयव्यतिरिक्तस्य पुच्छस्य । आनन्दमयस्यैव ब्रह्मत्वेऽपि प्रियमोदादिरूपेण रूपितस्यापरिच्छिन्नानन्दस्य सद्भावासद्भावज्ञानाशङ्का युक्तैव । पुच्छब्रह्मणोऽप्यपरिच्छिन्नानन्दतयैव ह्यप्रसिद्धता ॥ शिरःप्रभृत्यवयवित्वाभावाद्ब्रह्मणः नानन्दमयो ब्रह्मेति चेत् — ब्रह्मणः पुच्छत्वप्रतिष्ठात्वाभावात् पुच्छमपि ब्रह्म न भवेत् । अथा विद्यापरिकल्पितस्य वस्तुनस्तस्याश्रयभूतत्वात् ब्रह्मणः पुच्छं प्रतिष्ठेति रूपणमात्रमित्युच्येत - हन्त तर्हि तस्यासुखाद्वधावृत्तस्यामन्दमयस्य ब्रह्मणः प्रियशिरस्त्वादिरूपणं भविष्यति । 1 पुनश्चोदयति
ननु चेति । पूर्वं प्राधान्येनोक्तानामन्नमयादीनां श्लोकेषु तत्तच्छन्दैरेव निर्देशो दृष्टः ; एचमत्राप्यानन्दमयः प्रधानश्चेत्, तद्विषयश्लोकेऽपि तच्छब्देनैव निर्देष्टव्यम् । यद्वा — यद्यानन्दमये आत्मशब्दव्याख्यान परिसमाप्तिः, तर्द्धात्मशब्देन निर्देष्टव्यम् । तथा च न कृतम् अपि तु ब्रह्मशब्देन निर्दिष्टम् । तस्मादानन्दमयस्य न प्राधान्यम् । अतः पुच्छब्रह्मैव प्रधानप्रतिपाद्यमित्यर्थः । ब्रह्मशब्दस्याऽऽनन्दमयविषयत्वे सिद्धे ब्रह्मशब्देन निर्देशो न दोष इति शङ्कामर्थात्परिहरन् युक्त्यन्तरमाह न चानन्दमयस्येति । आशङ्काशब्देनोदाहृतश्रुतिवाक्यद्वयस्थः चेदर्थो (स्थचेदर्थो ?) व्याख्यातः । सर्वलोकप्रसिद्धस्य दुरपह्नवत्वेनासद्भाव इव सद्भावेऽप्याशङ्कावादो न युक्त इत्यर्थः । परिहरति नैवमिति । ब्रझात्मानन्दमयशब्दानामैकायै निश्चिते आनन्दमयशब्द निर्देशसमो ब्रह्मशब्दनिर्देश इति स्फुटमिति बुद्ध्वा आनन्दमयप्राधान्ये युक्तिमाह इदं पुच्छमिति । प्रकरणस्थ पूर्वश्लोकानां पुच्छमात्रप्रतिपादनपरत्वाभावादयमपि श्लोको न पुच्छमात्रप्रतिपादनपर इत्यर्थः । प्रसिद्धानन्दस्य सद्भावासद्भावशङ्कानुपपत्ति परिहरति आनन्दमयस्येति । प्रतिबन्दीमभिप्रेत्याह पुच्छब्रह्मणोऽपीति । ‘विज्ञानमानन्दं ब्रह्म’, ‘आनन्दो ब्रह्म’ इत्यादिवाक्येन ब्रह्मण आनन्दरूपत्वस्योक्तत्वात् आनन्दस्य च प्रसिद्धत्वात् न तस्य सद्भावासद्भावज्ञानाशङ्का युक्तेति चोदिते, तस्यानन्दरूपस्य ब्रह्मणोऽविदितत्वमपरिच्छिन्नानन्दत्वादेव हि त्वयोपपादनीयम् ; तदत्रापि तुल्यमित्यर्थः । शङ्कते शिरःप्रभृतीति । परिहरति ब्रह्मण इति । पुच्छत्वम्अवयव विशेषत्वम् । प्रतिष्ठात्वम् – आधारत्वम् । ब्रह्मणोऽवयवित्वमनुपपन्नमिति चेत् — अवयवत्वमप्यनुपपन्नमित्यर्थः । अवयवत्वं रूपणमात्रमिति शङ्कते अथेति । परिहरति हन्ततर्हीति । असुखादिति । असुखव्यावृत्तिविशेषाः शिरःप्रभृतित्वेन रूपिता इत्यर्थः । सत्यज्ञानादिवाक्येन सकलेतरव्यावृतत्वे. सिद्ध 1 निर्दिष्टेन भाव्यमित्यर्थः । यद्वा सामान्ये नपुंसकम् ।
१९६
एवञ्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति विकारास्पदजडपरिच्छिन्न वस्त्वन्तरव्यावृत्तस्य असुखाद्वयावृत्तिः आनन्दमय इत्युपदिश्यते । ततश्चाखण्डैकरसानन्दरूपे ब्रह्मण्यानन्दमय इति मयट् प्राणमय इव स्वार्थिको द्रष्टव्यः ॥ तस्मादविद्यापरिकल्पित विविध विचित्र देवादिभेदभिन्नस्य जीवात्मनः स्वाभाविकं रूपमखण्डैकरसं सुखैकतानमानन्दमय इत्युच्यत इत्यानन्दमयः प्रत्यगात्मा ॥ किमत्र क्रियत इत्यत्राह एवश्चेति । सत्यशब्द निर्दिष्टस्य ब्रह्मणः कस्यचिद्विकारत्वाभावादानन्दमयशब्द- सत्यशब्दनिर्दिष्टस्य वाच्यत्वमप्ययुक्तमित्यत्राह ततश्चेति । ततः — उक्तानुपपत्तीनां परिहृतत्वात् उपपत्त्यन्तरसद्भावाच्चेत्यर्थः । किञ्च ‘सोऽकामयत’ इति वाक्ये स इति पुंल्लिङ्गतच्छब्देन कारणवस्तुनिर्देशाच्च आनन्दमयः परं ब्रश । ‘तस्माद्वा एतस्मादात्मनः’ इत्यात्मशब्द निर्दिष्टात्माभिप्रायोऽयं पुंल्लिङ्गनिर्देश इति चेन्न ; व्यवहितादव्यवहितस्य ग्राह्यत्वेनानन्दमयस्य ग्राह्यत्वात् ॥ ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति वाक्यात्पश्चात्पठितस्य ‘तस्यैष एव शरीर आत्मा’ इतिवाक्यस्थस्वात्मशब्दस्य व्यवधानाभावात् तदभिप्रायः स इति पुंल्लिङ्गनिर्देशः ; आनन्दमयस्त्वेतद्वाक्यापेक्षया व्यवहित इति न स परामृश्यत इति चेत्-न; ‘तस्यैष एव शारीर आत्मा’ इति वाक्यस्थखात्मनः सर्वपर्यायसाधारणत्वेन एतत्पर्यायस्य प्रधानप्रतिपाद्यत्वाभावात् । सर्वनामशब्दस्य प्रधानपरामशित्वस्वारस्याच्च स इति आनन्दमय एवोच्यते । ‘विज्ञानं ब्रह्मेति व्यजानात् ‘, आनन्दो ब्रह्मेति व्यजानात्’ इत्यत्र, ‘विज्ञानमयमात्मानमुपसङ्क्रम्य, " आनन्दमयमात्मानमुपसङ्कम्य’ इत्यत्र च स्थानप्रमाणेन आनन्दानन्दमयशब्दयोरेकार्थत्वावगमादानन्दशब्दस्य परब्रह्मविषयत्वप्रसिद्धेश्चानन्दमयः परं ब्रह्म । न च ‘आनन्दो ब्रह्मेत्यत्रानन्दशब्दोऽप्यानन्दमयशब्दवत् बाह्यकोशपर इति वाच्यम् ; ‘मन्नं ब्रह्म’, ‘प्राणो ब्रह्म’ इत्यादिविज्ञानानन्तरमिव ‘आनन्दो ब्रह्म’ इति विज्ञानानन्तरं भृगोर्वरुणोपसत्त्यभावात् । न हि तद्विज्ञाय, ‘पुनरेव वरुणं पितरमुपससार’ इति पुनः श्रूयते । एतदुक्तं भवति — ‘अनं ब्रह्मेति व्यजानात्’ इत्यत्र किमन्नाद्युपलक्षितब्रह्मवेदनमुक्तम् ; उत अन्नमयादौ ब्रह्मबुद्धयवतरणम् ? । आद्ये, अन्नं ब्रह्मेति ज्ञानानन्तरं वरुणो पसत्तिर्न स्याउ उपलक्षणभूतेन तेन ब्रह्मणः प्रतिपन्नत्वात् । द्वितीये ह्यानन्दविषयत्रबुद्धेर्यथार्थत्वं स्यात्, पुनर्वरुणोपसत्त्यभावादिति । किञ्च आनन्दो ब्रह्मेत्यत्रानन्दशव्दस्य ब्रह्मपरत्वं युष्माभिरेव व्याख्यातम् उक्तं हि (शं-भा) “या तु भार्गवी वारुणी विद्या, आनन्दो ब्रह्मेति व्यजानादितितस्यां मयटोऽश्रवणात् प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्” इति । अतश्च आनन्दो ब्रह्मेत्यस्य वाक्यस्य परमात्मपरत्वात् स्थानप्रमाणेन ‘आनन्दमयमात्मानम्’ इत्यत्र आनन्दमयशब्दोऽपि परमात्मपरः 1 आनन्दमयस्य शोध्यत्वञ्च तदनुगुणसंसारनिर्हरणादिरूपमिति चानुसन्धेयम् ॥ प्रत्यगात्मस्वरूपमेवापरिच्छिन्नानन्दरूपञ्चेत्, कथं जीवानां दुःखित्वं सुखित्वतारतम्यञ्चोपलभ्यत इति शङ्कां च परिहरन् पूर्वपक्षमुपसंहरति तस्मादिति । ‘तस्य प्रियम्’ इति संबन्धवाचिन्या षष्ठ्या व्यतिरेकप्रतीतेः, ब्रह्मविषयस्योपरितनश्लोकस्य आनन्दमयविषयत्वाभावेन पुच्छतयोक्तब्रह्मण एव प्रधानत्वावगमात् प्रियमोदादिरूपेण लोकविदितस्यानन्दमयस्य सद्भावासद्भावज्ञानाशङ्कानुपपत्तेः, निरवयवस्य परमात्मनोऽवयवित्वानुपपतेः, अविकारस्य विकारित्वानुपपत्तेः, ‘तस्यैष एव शारीर आत्मा’ इत्यानन्दमयविषयवाक्यावगतस्यात्मान्तरस्य परमात्मतया आनन्दमयस्य परमात्मत्वानुपपत्तेः, “अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमया मे शुद्ध्यन्ताम् ” इति श्रुतस्य
N ११-६ आनन्दमयाधिकरणम् (पुच्छत्रम तन्निरासयुक्तिसमहः) १९७ एवं प्राप्ते प्रचक्ष्महे - आनन्दमयोऽभ्यासात् । आनन्दमयः परमात्मा । कुतः ? अभ्यासात् । शोध्यत्वस्य नित्यशुद्धे परमात्मन्यनुपपत्तेश्च नानन्दमयः परमात्मा; अपि तु पुच्छतया निर्दिष्टमेव ब्रह्म परमात्मेति पुच्छब्रह्मवाद हेतु सङ्ग्रहः । प्रकरणस्य स्वस्मादनतिरिक्तैः स्वावयवैः शिरःपक्षादिरूपण परत्वात्, तदन्तरतया आत्मशब्दव्याख्यानस्यानन्दमये पर्यवसितत्वात्, अन्नमयादिविषयाणां प्रकरणस्थश्लोकानां पुच्छवद्विषयत्वात्, कारणत्वप्रतिपादके ‘सोऽकामयत’ इत्यनन्तरवाक्ये स इति पुंल्लिङ्गान्तेन प्रधानप्रकृतार्थपरामर्शिना तच्छब्देन व्यवहितस्यानन्दमयस्यैव वक्तुं युक्तत्वात, ‘आनन्दो ब्रह्म’ इत्यानन्दशब्दस्य ब्रह्मपरत्वाभ्युप गमात्, ‘आनन्दो ब्रह्मेति व्यजानात्’, ‘आनन्दमयमात्मानमुपसङ्क्रम्य’ इत्यानन्दानन्दमयशब्दयोरेकार्थत्वेनानन्दमयशब्दस्यापि परब्रह्मपरत्वात्, आनन्दमयशब्दतुल्यार्थानन्द शब्द वाच्यब्रह्मज्ञानानन्तरं वरुणोपपत्त्यश्रवणात्, सूत्रस्वारस्यातू, स्वस्मादनतिरिक्तखादयौरेव शिरःपक्षपुच्छादिरूपण पर प्रकरणानुगुण्येन षष्ठीनिर्देशस्य समुदायसमुदायिभावनिबन्धनत्वोपपत्तेः, आनन्दमयात्मब्रह्मशब्दानामैकायैन तेष्वन्यतमेन तद्विषयश्लोके निर्देशस्य युक्तत्वात्, अपरिच्छिन्नानन्दस्याप्रसिद्धत्वेन ‘आनन्दो ब्रह्म’ इत्युक्ततयाऽभ्युपेतपुच्छत्रक्षण इव सद्भावासद्भावशङ्कासंभवात्, अवयवत्ववत् अवयवित्वेन रूपणसंभवात्, आनन्दमय इत्यत्र मयट्प्रत्ययस्य स्वार्थिकत्वेन प्राचुर्यार्थत्वेन वा विकारपरत्वाभावेन ब्रह्मणो निर्विकारत्वाविरोधात्, ‘तस्यैष एव शारीर आत्मा’ इति वाक्यस्यानन्यात्मत्वप्रतिपादनपरत्वात्, ‘अन्नमयप्राणमयमनोमयविज्ञानमयानन्दनया मे शुद्ध्यन्ताम्’ इत्यत्र शोधनं तत्तद्वस्त्वनुगुणं कार्यमिति प्रत्यगात्मत्वपक्षे संसार निर्हरणेन शोध्यत्वात् अतिरिक्तत्वपक्षे भगवतः कालुष्यशान्तिरूप शोध्यत्वस्य प्रपदनसाध्यस्योपपन्नत्वाच्च आनन्दमयानतिरिक्तं पुच्छनत्यानन्दमय एव परमात्मेति पुच्छब्रह्मवादनिराकरणयुक्तिसङ्ग्रहः । अत्राऽऽद्यं हेतुषट्कं सिद्धान्तसाधकम्, इतरहेतुगणः शङ्कितविपक्षयुक्तिपरिहारपरः ॥ अस्मिन् पूर्वपक्षे प्राप्ते सिद्धान्तसूत्रमवतारयति एवं प्राप्त इति । तत्र प्रतिज्ञांश साध्यसमर्पकपदेन पूरयन् व्याचष्टे आनन्दमय इति । उत्तराधिकरणे, ‘भेदव्यपदेशाच्चान्यः’ इत्यन्यशब्दः प्रयुक्तः ; इह तदाकर्षणलब्धोऽर्थ उक्तः परमात्मेति । यद्वा पूर्वाधिकरणसूत्रस्थयोर्नाशब्दमिति पदयोरनुष लब्धार्थमाह परमात्मेति । यस्मिन् शब्द एव प्रमाणं न भवति स शब्दः । स्वयम्प्रकाशप्रत्यक्षानुमानादिभिः सिध्यतो जीवस्यापि तत् अशब्दत्वमुपपद्यते । यथा आत्मसिद्धौ " एवमात्मा स्वतः सिध्यन् आगमेनानुमानतः । योगाभ्यासभुवा स्पष्ट प्रत्यक्षेण प्रकाश्य (श) ते " इति । यद्वा — एतदधिकरणसूत्रस्थ एव नेतर इति साध्यांशोऽत्रापि विवक्षित इत्यभिप्रायेणोक्तं परमात्मेति । अन्तरात्मपरम्परासमाप्तिद्योतनाय अत्र परमात्मशब्देन धर्मि निर्देशः । अभ्यासादानन्दमयत्वं श्रुतौ प्रतीतम् । अत आनन्दमयत्वापेक्षया हेतु निर्देशशङ्काव्युदासाय साध्यांशे हेत्वाकाङ्क्षां दर्शयति कुत इति ॥
ननु भेदव्यपदेशस्य जीवादन्यत्वे स्फुटतरतया ‘निरपेक्षहेतुत्वात् स्ववाक्यस्थत्वाच्च स एव प्रथमं वक्तव्यः ; न तुं वाक्यान्तरस्थोऽनुग्राहकयुक्तयपेक्षोऽभ्यासः ॥ नैवम् ; स्ववाक्यस्थात् भेदव्यपदेशादपि खपदैकदेशमयाच्यस्य प्राचुर्यस्योपपादनसापेक्षस्यापि आसन्नतरत्वात् तद्विवरणरूपस्य निरतिशयदशा शिरस्कस्याभ्यासस्यैव प्रथमं हेतुतया वक्तुं
१९८ ( सिद्धान्तः ) “सैषानन्दस्य मीमांसा भवति” इत्यारभ्य, “यतो वाचो निवर्तन्ते” इत्येवमन्तेन वाक्येन शतगुणितोत्तरक्रमेण निरतिशयइशाशिरस्कोऽभ्यस्यमानः आनन्दः 1
युक्तत्वात् । कस्याभ्यासात् इत्याकाङ्क्षा पूरयन् हेतुपदं व्याचष्टे सैषानन्दस्येति । अभ्यासः गुणनम्, आवृत्तिः । ‘यतो वाचो निवर्तन्ते ‘इत्यस्यार्थमभिप्रेत्य निरतिशयदशा शिरस्क इत्युक्तम् । ‘स एको ब्रह्मण आनन्दः’ इति वाक्यस्यार्थमभिप्रेत्य अभ्यस्यमानं इत्युक्तम् । शतगुणितोत्तरक्रमेण गुणितत्वादित्यर्थः । ‘स एको ब्रह्मण आनन्दः’ इति वाक्यस्य चतुर्मुखानन्दविषयत्वेन, ‘यतो वाच’ इत्यादिवाक्यस्यैव ब्रह्मानन्दविषयत्वाङ्गीकारे अभ्यासादिति हेतोर्व्यधिकरणता स्यात् । किञ्च अयं ब्रह्मशब्दः परमात्मवाचकः, ब्रह्मशब्दस्य भगवत्येव मुख्यत्वात्; ‘ब्रह्मविदामोति’, ‘अस्ति ब्रह्मेति’ इत्यादिषु वाक्येषु परब्रह्मपरतयैव ब्रह्मशब्दस्य प्रयोगप्रकरणात्, ‘यतो वाचो निवर्तन्ते’ इति पूर्वोत्तरयोर्वावश्योरानन्दप्रति संबन्धिवाचिषष्ठ्यन्तब्रह्मशब्दस्य परत्रद्मपरत्वदर्शनात् ‘सैषानन्दस्य मीमांसा’ इति प्रकृतब्रह्मानन्दनिगमनस्यापेक्षितत्वात्, ‘स यश्चायं पुरुषे’ इति प्रकृतपरामर्शिना अनन्तरवाक्यस्थेन कारणपरतच्छदेन पूर्ववाक्यस्थस्यास्य ब्रह्मशब्दस्य परब्रह्मपरत्वनिश्चयात्, अन्यथा चतुर्मुखस्य सर्वान्तरात्मत्वपरमकारणत्वप्रसङ्गात्, ’ तदप्येष श्लोको भवति’ इति भगवदानन्द विषयश्लोकोत्थानस्य भगवदानन्दप्रसङ्गसापेक्षत्वात्, निरुपपदप्रजापतिशब्दस्य चतुर्मुखे स्वरसत्वात्, दक्षादिपरत्वे एकवचनखारस्याभावात्, देवानाम्, देवगन्धर्वाणाम्, इन्द्रस्य, बृहस्पतेः इति बढी (हु) षु व्यक्तिषु बहुवचनस्य, एकैकव्यक्तिषु च एकवचनस्य प्रकरणे प्रयुज्यमानत्वाचं । तथा ‘स एकः प्रजापतिलोक आनन्दः । यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ते ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः । यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ एष एव पर आनन्दः एष ब्रह्मलोकस्समाडिति होवाच” इति वृहदारण्यकवाक्यैकार्थ्याच्च, ‘स एको ब्रह्मण आनन्दः’ इति वाक्यस्य परमात्मानन्दपरत्वं सिद्धम् । न च स एक इति निर्देशात् ब्रह्मानन्दस्य परिच्छिन्नत्वम् ; आधिक्यमात्रे वाक्यतात्पर्यात् । यथा ‘क्षिप्तेषुरिव सर्पति’ इति वाक्यं सूर्यगतिमान्द्यनिवृत्तिपरम् ; न त्विषु साम्यपरम् ; सूर्यस्य निमेषमात्रे बहुयोजनातिलङ्घित्वस्य प्रमाणसिद्धत्वात् - तथाऽत्रापि पूर्वापर वाक्यादिभिरपरिच्छिन्नानन्दत्वसिद्धेः ‘स एकः’ इति वाक्यस्य चतुर्मुखानन्दादाधिवये तात्पर्यमित्यवगम्यते । यद्वा “रोमकूपेष्वनन्तानि ब्रह्माण्डानि भ्रमन्ति ते”, “अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च”, “गङ्गायाः सिकता धारा यथा (तथा ?) वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥” इत्यादिभिरण्डानां तत्र तत्र चतुर्मुखानां चासङ्ख्येयत्वावगमात् नियाम्यान्नियन्तुः शतगुणानन्दत्वे कथिते चतुर्मुखेभ्योऽसङ्ख्यातेभ्यः शतगुणानन्दतयाऽवगतस्य भगवतो. ऽपरिच्छिन्नानन्दत्वमर्थसिद्धमिति । अतो यथोक्त एवार्थः । अभ्यस्यमान इति । अभ्यासशब्दः कर्मार्थघञन्तः इत्यभिप्रायः । यद्वा भावार्थत्वेऽप्यानन्दस्याभ्यस्तत्वं फलितमिति तथोक्तम् । तच हेतोर्वैयधिकरण्यशङ्काव्युदासार्थम् ॥
ननु सुपनम् - वर्द्धनम् । प्रजापत्यानन्दो हि शतगुणत्वेन वर्धते ; न तु ब्रह्मानन्दः ॥ सत्यम् ;
१-१-६ आनन्दमयाधिकरणम् १९९ अनन्तदुःखमिश्रपरिमितसुखलंवभागिनि जीवात्मनि असंभवन् निखिल हेयप्रत्यनीकं कल्याणैकतानं सवलेतरविलक्षणं परमात्मानमेव स्वाश्रयमावेदयति । यथाह, “तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मा आनन्दमयः” इति । व तथापि गुणितः प्रजापत्यानन्द एव ब्रह्मानन्द इत्युपचारेणोक्तिः ; त्रीहिचतुष्टयं गुञ्जेतिवत् । गुणितततदानन्द सदृशस्त्वेकदेशतया प्रतिपाद्यमानो ब्रह्मानन्द इत्यर्थः । यद्वा मुहुर्मुहुरुक्तिरभ्यासः 1 । तेन तात्पर्य लिङ्गवत्त्वं सूचितम् । अस्त्वानन्दस्यापरिच्छिन्नत्वम् ; ततः किमित्यत्राह अनन्तदुःखेति । अनेन निरतिशयानन्दविरुद्धधर्मयोग उक्तः । परिमितेति निरतिशयानन्दाभाव उक्तः । विरुद्धधर्मोपलम्भादभावोपलम्भाच्चासंभव इत्यर्थः । कथमसंभवः ; मुक्तस्यापरिच्छिन्नानन्दत्वं श्रुतमित्यत्राह निखिलहेयेति । प्रत्यनीकत्वमत्र प्रत्यनीकत्वमत्र निवर्तकत्वं विवक्षितम् । मुक्तस्यापि परमात्मप्रसादादेव हि हेयनिवृत्तिपूर्वक निरतिशयानन्दप्राप्तिः । इह च स्वत एवापरिच्छिन्नानन्दत्वमवगम्यते ; हेत्वश्रवणात् ; निरतिशयत्व श्रवण विरोधेन हेतुकल्पनायोगाच्च । न च मुक्तस्य खतोऽपरिच्छिन्नानन्दत्वम्, ‘अथ सोऽभयं गतो भवति’, ‘एष ह्येवानन्दयाति’, ‘रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति’ इति परमात्मायत्तत्वश्रुतेः । न ह्येवं परमात्मानन्दस्यान्याधीनत्वं श्रुतम् । " ’ श्रोत्रियस्य चाकामहतस्य ’ इति मुक्तः पृथनिर्दिश्यते । श्रोत्रियः -श्रुतवेदान्तः । अकामहतः - उपासनान्निवृत्त समस्तक्लेशः । ‘यश्च श्रोत्रियोऽवृजिनोऽकामहतः’ इति श्रुत्यन्तरम् । मुक्तस्य जगद्व्यापाराभावाच्च परस्यैव खतो निरतिशयानन्दयोगः । एवं निरतिशयानन्दस्य जीवात्मनि अयोग्यतारूपतर्कानुगृहीत आनन्दमयशब्दः परमात्मविषय इत्युक्तं भवति ।
न केवलं निरतिशयानन्दत्वरूप वस्तु सामर्थ्यानुगृहीतत्वात् वैलक्षण्यमवगतम् तत् कण्ठोक्तं चेत्याह यथाऽऽहेति ॥
ननु भेदव्यपदेशादिति सूत्रस्य विषयवाक्यं हीदम् । तत्र व्याख्यास्यमानस्यास्य कथमिहोपादानम्, अर्थोपपादनं च ॥ उच्यते । निरतिशयानन्दस्य जीवात्मन्ययोग्यतारूपस्तक द्यानन्दमयशब्दस्य परमात्मविषयत्वव्यवस्थापक उक्तः । अस्य’ तर्कस्य अनेन वाक्येन गर्भितत्वात् तत्सूचकत्वेनेदवाक्यमत्रोपन्यस्तम् । अत्र हि एतस्मादिति पदेन ‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च’ इति पूर्ववाक्यप्रकृतकर्मवश्यत्वा दिवैशिष्टयं जीवस्याभिप्रेतम् । धर्मिवाचिनाऽपि मयडन्तेन विज्ञानमयशब्देन सर्वोपाधिविनिर्मुक्तं स्वाभाविकरूपमसङ्कुचितज्ञानमित्यवयवशक्त्या दर्शितम् । अनेन वाक्येन स्वभावपरिशुद्धस्यापि जीवस्य कर्मकृतानन्तदुःखभाजनस्य निरतिशयानन्दासंभवात् ततः परमात्मनो विलक्षणत्वं प्रतिपादितमिति अत्रेदमुपात्तम् । 1 अभ्यासानन्तरं यतो वाच’ इत्यारम्भसिद्धः ‘उपर्युपर्यब्जभुवोपि’ इति श्लोकोक्तरीत्या ब्रह्मानन्दं मानुषानन्दपदे परिकल्प्य मुहुर्मुहुः शतगुणितोत्तरकथनरूपोऽभ्यास इत्यर्थः । सिद्धमिदानीं निरतिशयानन्द स्यैवाभ्यसनम् । 2
ननु एको ब्रह्मण आनन्द इत्यत्न ब्रह्मपदं मुक्तजीवपरं भवतु । ब्रह्मणोद्दिप्रतिष्ठाऽहमित्यादिदर्शनादित्याशंकायाम्, उपरि तत्कथनात् तद्धेतुब्रह्मानन्द एवायमित्याह श्रोत्रियस्यचेति । 3 अस्येति । भाष्यार्थदर्पणोक्तमपि द्रष्टव्यम् ।
२०० श्रुतप्रकाशिकोपेते श्रीमान्ये ( विज्ञानशब्दव्युत्पत्तयः ) विज्ञानमयो हि जीवः ; न बुद्धिमात्रम् ; मयट्प्रत्ययेन व्यतिरेकप्रतीतेः । प्राणमये त्वगत्या स्वार्थिकता आश्रीयते । इह तु तद्वतो जीवस्य सम्भवान्नानवेक्यं न्याय्यम् । बद्धो मुक्तश्च प्रत्यगात्मा ज्ञातैवेत्यभ्यधिष्महि । प्राणमयादी च मयडर्थसंभवोऽनन्तरमेव वक्ष्यते । कथं तर्हि विज्ञानमयविषयश्लोके, “विज्ञानं यज्ञं तनुते” इति केवल विज्ञानशब्दोपादाममुपपद्यते । ज्ञातुरेवात्मनः स्वरूपमपि स्वप्रकाशतया विज्ञानमित्युच्यत इति न दोषः ः ज्ञानैकविरूपणीयत्वाच्च ज्ञातुः स्वरूपस्य । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन धर्मिस्वरूपमपि प्रतिपादयन्ति, गवादिशब्दवत् । ’ कृत्यल्युटो बहुलम्” इति वा कर्तरि ल्युडाथीयते । नन्द्यादित्वं वाऽऽश्रित्य “नन्दिग्रहि” इत्यादिना कर्त्तरि ल्युः । अत एव [च] “विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च " अस्मिन् वाक्ये विज्ञानमयशब्दस्य बुद्धिमानपरत्वं व्यवस्यति विज्ञानमयो हीति । “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्र्ज्योतिः पुरुषः” इति श्रतिप्रसिद्धियोतको हिशब्दः । शब्दस्वारस्यमा हकप्रत्यक्षप्रसिद्धिद्योतको वा । अहं जानामीति ज्ञातृत्वं ह्यात्मनः प्रतीयते । ‘ज्ञप्तिवाचिनो विज्ञानमयशब्दस्य (विज्ञानशब्दस्य ?) ज्ञायतेऽनेनेति व्युत्पत्त्याऽन्तःकरणपरत्वमस्वरसमित्यभिप्रयन् आह न बुद्धिमात्रमिति । मात्रचा अभिप्रेतं प्रत्ययवैयर्थ्य विशदयति मयट्प्रत्ययेनेति । प्रकरणवशात् स्वार्थिकत्वमाशङ्कयाह प्राणमये त्विति । अगत्या — विकारमाचुर्याद्यर्थान्तरासंभवात् । पक्षे तद्वैषम्यमाह इह त्विति । तद्वत इति । प्राचुर्यार्थत्वं संभवतीत्यर्थः । नात्र मयडर्थः संभवति ; ज्ञप्तिमात्रखरूपो ह्यात्मा; ज्ञातृत्वं हि काल्पनिकस्; मुक्तावस्थायां तदपि नास्तीत्यत्राह बद्ध इति । प्राणमयादौ खार्थिकत्वमभ्युपगम्य परिहार उक्तः ; अर्थ तदेव नास्तीत्याह प्राणमयादाविति । विज्ञानम्रयशब्दस्य तद्विषयश्लोकस्थविज्ञानशब्द समानार्थत्वात् मयटू स्वार्थिक इत्यभिप्रायेण पृच्छति कथं तर्हीति । उपपद्यते । न हि विज्ञानस्य विज्ञानान्तराश्रयत्वं संभवतीति भावः । विज्ञानशब्दस्य ज्ञातरि प्रवृत्तौ निमित्तं दर्शयति ज्ञातुरेवेति । एवकारः शङ्कितविरोधाभावद्योतकः । अपिशब्दः स्वरूपधर्मयोर्निमित्तसाधारण्यपरः । ज्ञातृशब्दतुल्यार्थतयाऽपि निर्वाहं दर्शयति ज्ञानैकेसि । ततः किमित्यत्राह स्वरूपेति । स्वरूपनिरूपणधर्मशब्दाः - अयुत सिद्धधर्मवाचिशब्दाः । आकृतिनयविषयतया संप्रतिपन्नं शब्द निदर्शयति गवादीति । एवं सौत्रन्यायाभ्यां द्विधा निर्वाह उक्तः । अध शाब्दमर्यादया द्विधा निर्वाहमाह कृत्येति । प्रथमे पक्षे कर्तृपरत्वं कल्पनीयम् । द्वितीये गणान्तर्भावः कल्पनीय इत्युभयत्राश्रयण शब्दप्रयोगः । प्रत्यक्षानुगुण्यात्, श्रुत्यन्तरप्रत्यभिज्ञानात्, प्रथम श्रुतत्वात्, प्रकृतिस्वारस्यात्., प्रत्ययानर्थक्यानुपपत्तेश्च प्रबल विज्ञानमयशब्दानुरोधेन विज्ञानशब्दो निर्वाद्य इति भावः । स्ववावयस्थं युक्त्यन्तरमाह अत एवेति । अत एव - विज्ञानशब्दस्य चेतनपरत्वादेवेत्यर्थः । यज्ञादिकर्तृत्वे 1
ननु न बुद्धिरिति वक्तव्ये मात्रपदप्रयोगो भाष्याकथम् । वुद्धिर्हि अन्तःकरणम् । न ह्यन्तःकरणवानिति विज्ञानमयशब्दार्थः सिद्धान्तीष्ट इति शंकायामवतारयति ज्ञप्तीति । मयडर्थत्यागिना अन्तःकरणरूपार्थापेक्षया ज्ञप्तिरूपार्थग्रहणमेव युक्तम् । अन्यथा बुद्धौ मनोमयभेदस्यापि क्लेशनिर्वाह्यत्वात् । अस्तु कामं शप्तिग्रहणमिति चेत्-तथा ज्ञानमात्रमपि न युक्तमिति भाष्याशय इति भावः । 2 सौतन्यायाभ्याम् - प्रकाशवच्चावैयर्थ्यात् यावदात्मभावित्वाच्चेति सूत्रद्वयगतयुक्तिभ्याम् । द्विधा - स्वप्रकाशत्व ज्ञानाश्रयत्वोभयवत्तया ।
१-१-६ आनन्दमयाधिकरणम् (विज्ञानपदस्यात्मवाचित्वम् ) २०१ इति यज्ञादिकर्तृत्वं विज्ञानस्य श्रूयते । बुद्धिमात्रस्य हि न कर्तृत्वं संभवति । अचेतनेषु हि चेतमोपकरणभूतेषु विज्ञानमयात्प्राचीनेष्वन्नमयादिषु न चेतनधर्मभूतं कर्तृत्वं श्रूयते । अत एव चेतनमचेतनं च स्वासाधारणैर्निलयनत्वानिलेयनत्वादिभिर्धर्मविशेषैर्विभज्य निर्दिशत् वाक्यम “विज्ञानं चाविज्ञानं च” इति विज्ञानशब्देन तद्गुणं चेतनं वदति । तथाऽन्तर्यामिब्राह्मणे, “यो विज्ञाने तिष्ठन्” इत्यस्य काण्वपाठगतस्य पर्यायस्य स्थाने, “य आत्मनि तिष्ठन् " इति पर्यायमधीयानाः माध्यन्दिनाः काण्वपाठगतं विज्ञानशब्दनिर्दिष्टं जीवात्मेति स्फुटीकुर्वन्ति । विज्ञानमिति च नपुंसकलिङ्गं वस्तुत्वाभिप्रायम् । तदेवं विज्ञानमयाजीवादन्यस्तदन्तरः परमात्मा श्रुते कथं विज्ञानशब्दवाच्यस्य चेतनत्वमित्यत्राह बुद्धिमात्रस्येति । बोधुरेव हि कर्तृत्वं प्रत्यक्षश्रुतिभिः सूत्रैश्च सिद्धमिति भावः ॥
ननु सर्वेषां स्वव्यापारकर्तृत्वमस्ति ॥ सत्यम् । नात्र तावन्मात्रं विवक्षितम् ; किन्तु चेतनासाधारणः कर्तृत्वविशेषः प्रयत्नाधारत्वलक्षणः । यज्ञादिकर्तृत्वमिति युक्तम् । अत्र विज्ञानशब्दा स्वारस्यमुभयोरप्यविशिष्टम् । यज्ञादिकर्तृत्वास्वारस्य तु परस्याधिकम् ।
ननु ‘अद्यतेऽत्ति च भूतानि’ इत्यन्नमय इव प्राकरणिकमौपचारिकं कर्तृत्वमुपकरणत्वाविशेषात् बुद्धेरपि स्यादित्यत्राह अचेतनेषु हीति । बाधकाभावे सति उपचार एव दोषः । स च प्रकरणानुवृत्तश्चेत्, सोढव्यः स्यात् । न च तदनुवृत्तिः, प्राणमये मनोमये च तस्य विच्छिन्नत्वादित्यभिप्रायः । विज्ञानशब्दस्य चेतनपरत्वे प्रयोगान्तरं दर्शयति अत एव चेतनमिति । अत एवविज्ञानशब्दस्य चेतनपरत्वादेवेत्यर्थः । चेतनमचेतनं चेति । न ह्यन्तःकरणानन्तःकरण विभागोऽत्र क्रियते ; किन्तु चिदचिद्विभाग एवेति भावः । कुत इत्यत्राह निलयनत्वेति । अचिद्विकारविशेषस्यान्त करगस्य “जीवभूतां महाबाहो ययेदं धार्यते जगत्” इति प्रकारेण चेतनघार्यस्य विश्वनिलयनत्वायोगात, परेण तस्य सत्यत्वानभ्युपगमाच्चेति भावः । विज्ञानशब्दस्य संवित्परत्वमप्ययुक्तम् ; ‘अनुप्रविश्येति’ अनेनानुप्रवेशश्रवणात् । न हि संविद्रूप आत्मा आत्मान्तरख्याप्यतयाऽभिमतः • परस्य । विज्ञानशब्दस्य चेतनपरत्वे प्रयोगान्तरं दर्शयति तथेति । विज्ञानशब्दस्यात्मशब्दस्थाने श्रुतत्वादन्तःकरणपरत्वमनुपपन्नम् । न चात्मशब्दोऽप्यन्तःकरणपरः, विज्ञानशब्दवत् तस्यापि यथा ज्ञायतेऽनेनेति व्युत्पत्त्याश्रयणं विज्ञानशब्दस्य क्लिष्टम्, तद्वत चेतनव्यतिरिक्तेष्वात्मशब्दोऽपि ह्यखरसः । अन्तःकरणपरत्वे विज्ञानात्मशब्दयोर्द्वयोरप्यस्वारस्यम् ; चेतनपरत्वे तु विज्ञानशब्दमात्रास्वारस्यम्, न तु द्वयोरिति विशेषः । अत्राऽऽत्मशब्दस्य परमात्मतया स्वाभिमतसंवित्परत्वञ्च परेण दुर्वचम् ; ‘य आत्मनि तिष्ठन्’ इति अत्र आत्मान्तरस्थितिश्रवणात् आत्मान्तरव्याप्यस्य परमात्मत्वासिद्धेः । सर्वत्र प्रयुक्तस्य विज्ञानशब्दस्य ल्युट्प्रत्ययान्तत्वे विशेष्यानुगुणलिङ्गत्वादात्मविषयस्य तस्य कथं नपुंसकत्वमित्यत्राह विज्ञानमिति । उपपादितमर्थ परमसाध्येन घटयति तदेवमिति । तत् — उक्तोपपत्तिभिः । एवम् — विज्ञानशब्दस्य चेतन परत्वसिद्धेरित्यर्थः । तत्राखरसत्वात् । 1 तदनुप्रविश्येति वाक्ये विज्ञानस्य अन्येनाऽऽत्मना अनुप्रविष्टत्वश्रवणादित्यर्थः । 2
ननु सर्वत्रेति किमर्थम् ; एकस्थले प्रयोगेपि कथन्तायाः सत्त्वादित्ति चेत् — सर्वनेत्यस्य शप्ताविवाऽऽत्मन्यपीत्यर्थः । भावे ल्युडन्तमेव ज्ञप्त्यर्थकम् आत्मनि लाक्षणिकं वक्तव्यमिति शंकितुराशयः । सर्वत्र - भावरूपार्थे इव कर्तृरूपार्थेऽपीति वाऽर्थः । 2-26
२०२ श्रुतप्रकाशिकोपेते श्रीमान्ये (तस्त्वमो जीवनोपयपरत्वायोगः) आनन्दमयः । यद्यपि ‘विज्ञानं यज्ञं तनुते’ इति लोकेन ज्ञानमात्रमेवोपादीयते, न ज्ञाता—तथापि “अन्योन्तर आत्मा विज्ञानमयः” इति तद्वान् ज्ञातैयोपदिश्यते ; यथा ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यत्र श्लोके केवलानोपादानेऽपि, “स वा एष पुरुषोऽन्नरसमयः” इत्यचं नात्रमात्रे निर्दिष्टम अपि तु तन्मयः -तद्विकारः । एतत् सर्व हृदि निधाय सूत्रकारः स्वयमेव, “भेदव्यपदेशात्” इति अनन्तरमेव वदति ॥ 1 यदुक्तं जगत्कारणतया निर्दिष्टस्य “अनेन जीवेनात्मनाऽनुप्रविश्य”, “तत्वमसि’ इति व जीवसामानाधिकरण्यनिर्देशात् जगत्कारणमपि जीवस्वरूपाश्नातिरिष्यत इति कृत्वा जीवस्यैव स्वरूपं “ब्रह्मविदाप्नोति परम्” इति प्रक्रान्तमसुखाद्व्यावृत्तत्वेनानन्दमय इत्युपदिश्यत इति - तदयुक्तम्; जीवस्य चेतनत्वे सत्यपि, ‘तदैक्षत वह स्यां प्रजायेयेति । तसेजोऽसृजत’ इति स्वसङ्कल्पपूर्वकानन्त विचित्रसृष्टियोगानुपपत्तेः । शुद्धावस्थस्यापि हि तस्य सर्गादिजगद्वयापारासम्भवः “जगद्वयापारवर्जम्”, “भोगमात्रसाम्यलिङ्गाच्च” इत्यत्रोपपादयिष्यते ॥ कारणभूतस्य ब्रह्मणो जीवस्वरूपत्वानभ्युपगमे, “अनेन जीवेनात्मना”, “तत्वमसि’ इति सामानाधिकरण्यनिर्देशः कथमुपपद्यत इति चेत् — कथं वा निरस्तनिखिलेदोपगन्धस्य सत्यसङ्कल्पस्य सर्वज्ञस्य सर्वशक्तेः अथ श्लोकस्थविज्ञानशब्दस्य ज्ञातृपरत्वोपपादनेन विज्ञानमयशब्दस्य ज्ञातृपरत्वमुक्तम् ; श्लोकस्य ज्ञातृपरत्वाभावेऽपि विज्ञानमयशब्दस्य ज्ञातृपरत्वमाह यद्यपीति । मयड़हितवाक्ये तदर्थः परित्यक्त इति तद्वत्यपि वाक्ये स न त्याज्य इत्यर्थः । तर्हि ब्राह्मणस्य श्लोकस्य च कथमै कार्थ्यमित्यत्राह यथेति । पूर्ववाक्योक्तार्थैकदेशविषयत्वात् इलोकस्य तदैकार्थ्यम्, यथा अन्नमयविषयश्लोकस्येत्यर्थः । तन्मय इति, श्रुतिवाक्यगतमयड [ःता ? ]र्थानुवादः । तद्विकार इति तद्व्याख्यानम् । उक्तार्थजातस्य उत्सूत्रत्वशङ्कां परिहरन् व्याख्यास्यमानसूत्रोपयोगित्वभ्व दर्शयितुमाह एतत्सर्वमिति । " तस्माद्वा एतस्माद्विज्ञानमयात्” इति वाक्यं जीवपरयोर्भेदप्रतिपादकं वदन् सूत्रकारो विज्ञानशब्दस्य ज्ञातृपरत्वं तदुपपत्तीश्च हृदि निदधदेव वदतीत्यर्थः । पूर्वपक्षे जीवसामानाधिकरण्यं शारीरत्वश्रवणं च हेतुद्वयमुक्तम् । तत्र सामानाधिकरण्यस्य भेदावहत्वमुपपादयितुं यदुक्तमित्यादिना उपदिश्यत इत्यन्तेनानूदितं पूर्वपक्षहेतुं दूषयति तद्युक्तमिति । प्राकरणिकवाक्यैः समानाधिकरणपदप्रातिपदिकांशेन च विरुद्धधर्माध्यासप्रतिपत्त्या भेदसिद्धेः कालात्ययापदिष्टहेतुरिव परोक्तहेतुर्न साध्यसाधक इति दूषणं वक्तुं तत्पदोपस्थाप्यविशेषसमर्पकैः प्राकरणिकवाक्यैः पराभिमतैक्यविरुद्ध भेद सिद्धिं दर्शयति जीवस्येति । प्रलयदशायामुपसंहृतकरणकलेवरस्य कर्मवश्यस्य सङ्कल्पमात्रेण विचित्रजगत्सर्गायोगात् बद्धस्य स्रष्टृत्वमनुपपन्नमित्यर्थः । शुद्धावस्थस्य संभवतीत्यत्राह शुद्धेति । उक्तं विवरीतुं शङ्कते कारणेति । समानविभक्तयचगतैक्योपपत्तिः कथमित्यर्थः । कथं वेति । प्रातिपदिकावगतविशेषणान्वयः कथमित्यर्थः । निरस्तेत्यादिपदैः तत्पदप्रातिपदिकावगत विशेषणान्वयो दर्शितः । “तदैक्षत… असृजत” इति यथासङ्कल्पं जगत्सृष्टिश्रवणेन सत्यसङ्कल्पादिगुणानामतिरोहितत्वावगमात् तिरोघायकहेयसंबन्धानर्हत्यमर्थसिद्धमित्यभिप्रायेण निरस्त निखिलदोषगन्धत्वमुक्तम् । जगद्व्यापारौपयिकगुणान्तराणाम् अन्यत्र कण्ठोक्तानां सद्वियायां गतिसामान्यनयात् अर्थसिद्धत्वमभिप्रेत्योक्त- 1 CC-0. Lal Bahadur-ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham3 ? १-१ ६ आनन्दमयाधिकरणम् २०३ अनवधिका तिशयासत्येयकल्याणगुणगणस्य सकलकारणभूतस्य ब्रह्मणः नानाविधानन्तदुःखाकरकर्माधीनचिन्तितनिमिषितादिसकलप्रवृत्तिजीवखरूपत्वम् ? ॥ अन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत्-कय भोः । । किं हेयसम्बन्धस्य ? किंवा हेयप्रत्यनीककल्याणैकतानखभावस्य ? ॥ प्रत्यनीककल्याणैकतान [स्वभाव ] स्य ब्रह्मणोऽनाद्यविद्याश्रयत्वेन हेयसम्बन्धमिथ्याप्रतिभासो मिथ्यारूप इति चेत् — विप्रतिषिद्धमिदमभिधीयते ब्रह्मणो हेयप्रत्यनीककल्याणैकतानत्वम् अनाद्यविद्याश्रयत्वेनानन्तदुःखविषय मिथ्याप्रतिभासाश्रयत्वञ्चेति । अविद्याश्रयत्वं तत्कार्यदुःखप्रतिभासाश्रयचैव हि हेयसम्बन्धः । तत्सम्वन्धित्वं तत्प्रत्यनीकत्वञ्च विरुद्धमेव । तथापि तस्य मिथ्यात्वात् न विरोध इति मा वोचः । मिथ्याभूतमन्वपुरुषार्थ एव ः यन्निरसनाय सर्वे वेदान्ता आरभ्यन्त इति नृपे । निरसनीयापुरुषार्थयोगश्च हेयप्रत्यनीककल्याणैकतानतया विरुध्यते ॥ किं कुर्मः ? ‘येनाश्रुतं श्रुतं भवति” इत्येकविज्ञानेन सर्वत्रिज्ञानं प्रतिज्ञाय, ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिना निखिल जगदेककारणताम्, ‘तदैशत बहु स्याम्’ इति सत्यसङ्कल्पताञ्च ब्रह्मणः प्रतिपाद्य, तस्यैव ब्रह्मणः “तरवमसि’ इति सामानाधिकरण्येनानन्तदुःखाश्रयजीवैक्यं प्रतिपादितम्; तदन्यथा नृपपत्त्या ब्रह्मण एवाविद्याश्रयत्वादि परिकल्पनीयमिति चेत् श्रुतोपपत्तयेऽप्यनुपपन्नं विरुद्धञ्च मनवधिकेति । त्वंपद प्रातिपदिकावगत विशेषणान्वयो दर्शितः नानाविधेति । जीवस्वरूपत्वम्जीवेन सह स्वरूपैक्यम् । जीवत्वमित्युक्ते जीवशरीरकत्वप्रतिपत्तिश्च संभवतीति तद्यावृत्त्यर्थं जीवस्वरूपत्वमित्युक्तम् । साक्षात् पराभिमतं पदद्वयावगत विशेषणपरित्यागपक्षं दूषयिष्यन् संभावित पक्षद्वयं शङ्कते अन्यतरस्येति । तत्त्वंपदप्रतिपन्न विशेषणयोरन्यतरस्येत्यर्थः । विकल्पयति कस्येति । प्रत्यक्षसिद्धागमसिद्धत्वन्तत्पदावगतविशेषणजात दुस्त्यजमिति भावः । सहेतुकमविरुद्ध परेण प्रथमशिरःपरिग्रहं शकते हे प्रत्यनीकेति । हेयम् - दुःखम् । मिथ्याप्रतिभासः भ्रान्तिज्ञानम् । स्वतश्शुद्धस्य पटस्योपाधिकमालिन्यवत् परमार्थतो निर्मलस्य स्फटिकस्याध्यासादरुणिमवच्च ब्रह्मणो निर्दोष कल्याणगुणैकतानत्वं हेयसंबन्धश्च स्वाभाविकौपाधिकविभागेन परमार्थपरमार्थविभागेन वा अविरुद्धम् ; उभयोरपि वाभाविकत्वसत्यत्वाभ्युपगमे हि विरोध इति शङ्काऽभिप्रेता । दूषयति विप्रतिषिद्धमिति । विप्रतिषेधमुपपादयति अविद्याश्रयत्वमिति । न केवलं दुःखमेव हेयम्, अपि तु तद्धेतुतत्प्रतिभासावपि हेयावित्यर्थः । ततः किमित्यत्राह तत्सम्बन्धित्वमिति । अविद्यातत्कार्यदुःखतत्प्रतिभासरूपहेयानामाश्रयत्वं तत्प्रत्यनीकत्वश्च विरुद्धमित्यर्थः । संबन्धमिध्यात्वादविरोधं शङ्कते तथापीति । तथापि –अविद्यादीनां हेयत्वेऽपि । तस्य –माथयत्व स्वरूप सम्बन्धस्येत्यर्थः । दूषयति मिध्याभूतमपीति । आश्रयत्वं मिथ्याभूतमप्यपुरुषार्थं इत्यर्थः । अपुरुषार्थत्वमुपपादयति यन्निरसनायेति । ततः किमित्यत्राह निरसनीयेति । एतदुक्तं भवति — मिथ्यात्वं किम् अत्यन्ताभावः, उत ज्ञानबाध्यत्वम् । प्रथमे, निरसनीयाभावात् तन्निरासाय शास्त्रारम्भो न स्यात् । द्वितीये च मिथ्याभूतस्यापुरुषार्थत्वमस्ति, न वा ? न चेत्, निरसनीयत्वाभावात् शास्त्रारम्भवैयर्थ्यम् । अपुरुषार्थत्वमस्ति चेत्, हेयप्रत्यनीकत्वव्याघातो दुष्परिहर इति । तद्विरोधेऽपि हेयसम्बन्धस्य श्रुतिबलादभ्युपगन्तव्यत्वं शङ्कते किं कुर्म इति । परिहरति श्रुतोपपत्तय इति । अनुपपणम् तर्कपराहतम् । निरुद्धम् प्रमाणविरुद्धम् । ‘अपहतपाप्मा…. विशोको विजिघत्सः’, 1 R
208
न कल्पनीयम् ॥ अथ हेयसम्बन्ध एव पारमार्थिकः, कल्याणैकस्वभावता तु मिथ्याभूताहन्तैवं तापत्रयाभिहतचेतनोजिजीवयिषया प्रवृत्तं शास्त्रम्, ‘तापत्रयाभिहतिरेव तस्य पारमार्थिकी, कल्याणैकस्वभावस्तु भ्रान्तिपरिकल्पितः’ इति बोधयत् सम्यगुज्जीवयति ॥ अथैतद्दोषपरिजिहीर्षया ब्रह्मणो निर्विशेषचिन्मात्रस्वरूपातिरिक्तं (क्त ) जीवत्वदुःखित्वादिकं सत्यसङ्कल्पत्व कल्याणगुणाकरत्वजगत्कारणत्वाद्यपि मिथ्याभूतमिति कल्पनीयमिति चेत् — अहो भवतां वाक्यार्थपर्यालोचनकुशलता । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति (संपत्स्यते) । यथैकविज्ञानं परमार्थविषयम्, तथैव सर्वविज्ञानमपि यदि परमार्थविषयम्, तदन्तर्गतञ्च - तदा तज्ज्ञानेन सर्वविज्ञानमिति शक्यते वक्तुम् । न हि परमार्थशुक्तिकाज्ञानेन तदाश्रयम-परमार्थ रजतं ज्ञातं भवति ॥ अथोच्येत - एक विज्ञानेन सर्वविज्ञानप्रतिज्ञायाः अयमर्थः -निर्विशेषवस्तुमात्रमेव सत्यम्, अन्यदसत्यमिति [इति] न तर्हि ‘येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातमिति भूयेत । ‘एष हि सर्वेभ्यः पाप्मभ्य उदितः’, ‘अनश्नन्नन्यः’, ‘अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम्’, ‘अस्मान्मायी सृजते …. तस्मिंश्चान्यो मायया संनिरुद्धः ‘, ’ तमक्रतुं पश्यति’, ‘अनात देवतां प्रपद्ये’ इत्यादिश्रुतिविरोधः । एकस्मिन् हेयप्रत्यनीकत्व - हेयास्पदत्वादिविरुद्धधर्मान्वयानुपपत्तिस्तर्कविरोधः । शिरोन्तरं शङ्कते अथेति । दूषयति हन्तैवमिति । शास्त्रस्य प्रयोजनपर्यवसायित्वाभावादप्रामाण्यं प्रसजेदित्यर्थः । परस्य सिद्धान्सभूतमुभयप्रहाणं शङ्कते अथैतदिति । परिहरति अहो भवतामिति । अर्थनिष्कर्षोपयुक्तपदद्वयवाक्य एतत्प्रकरणप्रकरणान्तरोपनिषदन्तरप्रमाणान्तर तर्क-सामानाधिकरण्यनिरूपणं पर्यालोचनम् । प्रथममेतत्प्रकरणोपक्रमविरोध दर्शयति एकेति । सर्वसत्यत्वेऽपि कथं सेत्स्यतीत्यत्राह यथैकेति । परमार्थविषय मिथ्याविषयत्वे ज्ञानयोर्वैरूप्यं स्यादिति भावः । तदन्तर्गतश्चेति । परिषद्ज्ञानेन तद्गताः पुरुषा हि ज्ञाता भवन्ति; न तु तद्बहिंष्ठा इति भावः । ज्ञानस्य तदन्तर्गतत्वं तद्विषयान्तर्गतत्वम् । यद्वा तद्न्तर्गतम् । सर्वमिति शेषः । परमार्थविषयं तदन्तर्गतमित्युक्तमर्थं व्यतिरेकेणोपपादयति न हि परमार्थेति । न हि शुक्तिरजतयोरेकधी विषयत्वमित्यर्थः " । एकत्वसर्वत्वावस्था मे सत्यपि धक्यात् एकविज्ञानेन सर्वविज्ञानसुपपद्यते । ज्ञातत्वसर्वत्वे काश्रयवर्तिनी । न हि ज्ञातत्वविशिष्टाकारेण सर्वत्वम्, सर्वत्वविशिष्टाकारेण ज्ञातत्वं वा । प्रागेवायं मया ज्ञात इत्यपि हि धर्मिमात्रस्यैव ज्ञातत्वम् ; न त्वेतदवस्था विशेषविशिष्टस्य ; देशकालादि मेदात् । न हि पूर्वमेतत्कालादिविशिष्टतया ज्ञातत्वम् ॥ ब्रह्मैकमेव सत्यमिति ज्ञाते अन्यत् मिथ्यात्वेन ज्ञातं स्यादिति शङ्कते अथोच्येतेति । परिहरति न तर्हीति । सर्वं मिथ्यात्वेन ज्ञातं भवतीति वा, सर्व निवृत्तं भवतीति वा श्रूयेतेत्यर्थः । एवञ्चार्थे सति मिथ्यात्वेनेति पदस्याध्याहारः । धर्म्यन्तरविषयतया ज्ञानशब्दयोर्वैरूप्यम् । स्वरसतः प्राप्तं हि ज्ञानैकरूप्यम् । तच्च भज्यते । ज्ञातं भवतीति 1 उपादानज्ञाने कार्यज्ञानस्यान्तर्गतत्वम् उपादाने एकस्मिन् कार्याणामनेकेषामन्तर्गतत्वात् । अन्तत इहान्तर्गतत्वं ऐक्यमेव । 2 2 रजतस्यापि रजतत्वस्येव कल्पितत्वात् शुक्त्याश्रितत्वाच्चैक्याभावात् न ज्ञाततेति भावः । 8 ज्ञानप्रकारीभूतो यः, स घटत्वादिरिति वा, घटत्वादिर्शानप्रकारीभूत इति वा नेत्यर्थः ।
१ - १६ आनन्दमयाधिकरणम् (सद्विद्याया निर्विशेषपरत्वायोगः) २०५ येन श्रुतेनाश्रुतमपि श्रुतं भवतीति ह्यस्य वाक्यस्यार्थः । कारणतयोपलक्षितनिर्विशेषवस्तुमात्रस्यैव सद्भावश्चेत् प्रतिज्ञातः, “यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञानम्” इति दृष्टान्तोऽपि न घटते । मृपिण्ड विज्ञानेन हि तद्विकारस्य ज्ञातता निदर्शिता ॥ तत्रापि विकारस्यासत्यता अभिप्रेतेति चेत्-मृद्विकारस्य रज्जुसर्पादिवत् असत्यत्वं शुश्रूषोरसिद्धमिति प्रतिज्ञातार्थ संभावनाप्रदर्शनाय ‘यथा सोम्य’ इति प्रसिद्धवदुपन्यासो न युज्यते । न च तत्त्वमस्यादिवाक्यजन्यज्ञानोत्पत्तेः प्राक् विकारजातस्यासत्यतामापादयत् तर्कानुगृहीतम
ननुगृहीतं वा प्रमाणमुपलभामह इति । अयमर्थः, “तदनन्यत्वमारम्भणशब्दादिभ्यः” इत्यत्र वक्ष्यते । तथा “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” “तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत”, " हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि”, “सन्मूला ः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः - ऐतदात्म्यमिदं सर्वम्” इत्यादिनाऽस्य जगतः सदात्मकता, सृष्टेः पूर्वकाले नामरूपविभागप्रहाणम्, जगदुत्पत्तौ सच्छन्दवाच्यस्य ब्रह्मणः स्वव्यतिरिक्तनिमित्तान्तरानपेक्षत्वम्, सृष्टिकाले अहमेवानन्तस्थिरत्रसरूपेण चहु स्याम् इत्यनन्यसाधारणसङ्कल्पविशेषः, यथा संकल्पमनन्त विचित्रतत्त्वानां विलक्षणक्रम विशेष विशिष्टा सृष्टिः, समस्तेष्वचेतनेषु वस्तुषु स्वात्मकजीवानुप्रवेशेनैवानन्तनामरूपव्याकरणम्, स्वव्यतिरिक्तस्य समस्तस्य स्वमूलंत्वम्, स्वायतनत्वम्, स्वप्रवर्त्यत्वम्, स्वेनैव जीवनम् स्वप्रतिष्ठत्वमित्याद्यनन्तविशेषाः शास्त्रैकसमधिगम्याः प्रतिपादिताः । तत्सम्बन्धितया प्रकरणान्तरेष्वप्यपहतपाप्मत्वादिनिरस्तनिखिलदोषता सर्वज्ञता सर्वेश्वरत्व सत्यकामत्व सत्यसङ्कल्पत्व सर्वानन्दकरणनिरतिशयानन्दयोः गादयः सकलेतरप्रमाणाविषयाः सहस्रशः प्रतिपादिताः । एवमनन्यगोचरानन्त विशेष विशिष्टप्रकृतब्रह्मपरामर्शितच्छब्दस्य निर्विशेषवस्तुमात्रोपदेशपरत्वम् असङ्गतत्वेनोन्मत्तप्रलपितायेत । ज्ञातृज्ञेयतदवच्छिन्नज्ञानाभावान्निवृत्तिलक्षणा च । इति दोषत्रयमभिप्रेतम् । श्रथमाणान्वयप्रकारस्य परविरुद्धतामाह येनेति । एवं प्रतिज्ञावाक्या स्वारस्यमुक्तम् । अथ दृष्टान्तवाक्या
ननुगुणत्वमाह कारण तयेति । अघटितत्वमुपपादयति मृत्पिण्डेति । न हि शुक्तिज्ञानाद्रजतनिवृत्तिवत् मृत्पिण्डज्ञानात् घटादिनिवृत्तिर्निदर्शितेति भावः । दृष्टान्ताविरोधं शङ्कते तत्रापीति । प्रसिद्धवदुपन्यासानुपपत्त्या दूषयति मृद्विकारस्येति । मृद्विकारासत्यत्वमनुमानादिनाऽवगतमित्यत्राह न चेति । अ
ननुगृहीतमिति ज्वालैक्यबुद्धिवत् आपातप्रतीतिमात्रजनकत्वं विवक्षितम् । उपरितनवाक्यापर्यालोचनां दर्शयति तथेति । सदा यतनत्वफलितं स्वप्रवर्त्यत्वं स्वेनैव जीवनञ्च । प्रशासनेन हि धारणम् ; धृत्या च तज्जीयनम् । निषेधाय गुणानुवाद इति शङ्कायाः व्युदासायाह शास्त्रैकेति । न हि विधेरनुवादित्वमिति भावः । श्रत्यन्तरापर्यालोचनां दर्शयति तत्सम्बन्धितया प्रकरणान्तरेष्वपीति । अपहतपाप्मत्वादिरूपा निरस्तनिखिलदोषतेत्यर्थः । अपूर्वतालक्षणं गुणेषु तात्पर्यलिङ्गं दर्शयितुं सकलेतर प्रमाणाविषया इत्युक्तम् । ततः किमित्याकाङ्गां पूरयन् पदद्वयपर्यालोचनाभावं दर्शयति एवमिति । एवमनन्यगोचरानन्तविशेषविशिष्टप्रकृतेत्यनेन प्राकरणिकवाकयविरोधो विवक्षितः । प्रकृतन्नक्षपरामर्शितच्छब्दस्येत्यनेन यत्र क्वापि प्रकृताकार विशिष्टपरामर्शितया तच्छब्दव्युत्पत्तिविरोध उक्तः । स्वपदस्यापि 1 1 यत्त्रकापीत्यस्य सर्वनेत्यर्थः । परामर्शितयेत्यस्य व्युत्पत्तावन्त्रयः ।
२०६ कोनीषा समानाधिकरणवाक्ये परपक्षः) संपदा संसारित्वविशिष्टजीववाचि । तस्यापि निर्विशेषस्वरूपोपस्थापनपरत्वे स्वार्थः परित्यतः स्थात् । निर्विशेषाकाशसरूपस्य च वस्तुनो ह्यविद्यया तिरोधानं खरूपनाशप्रसङ्गादिभिर्न संभवतीति पूर्वमेवोकम् । एवशं सति समानाधिकरणवृत्तयोः तत् त्वमिति द्वयोरपि पदयोर्मुख्यार्थपरित्यागेन लक्षणा च समाश्रयणीया ॥ - • अथोच्येत - समानाधिकरणवृत्तानामेकार्थप्रतिपादनपरतया विशेषणांशे तात्पर्यासंभवादेव विशेषणनिवृत्ते वस्तुमा त्रैकत्वप्रतिपादनाच लक्षणाप्रसङ्गः । यथा ‘नीलमुत्पलम्’ इति पदद्वयस्य विशेष्यैकत्वप्रतिपादनपरत्वेन नीसत्योत्पलत्वरूपविशेषणद्वयं व विवक्ष्यते । तद्विवक्षायां हि नीलत्वविशिष्टाकारेणोत्पलत्वविशिष्टाकारस्यैकत्वप्रतिपादन प्रसज्येत । तन्तु न सम्भवति । न हि नैल्यविशिष्टाकारेण तद्वस्तु उत्पलपदेन विशेष्यते, जातिगुणयोरन्योन्यसमवायप्रसङ्गात् । अतो नीलत्वोत्पलत्वोपलक्षितवस्त्वेकत्वमात्रं सामानाधिकरण्येन प्रतिपाद्यते । तथा “सोऽयं देवदत्तः’ इति अतीतकालविप्रकृष्टदेशविशिष्टस्य तेनैव रूपेण संनिहित देशवर्तमानकालविशिष्टतया प्रतिपाद- वस्तुमात्रपरत्वे मुख्यार्थप्रहाणमाह त्वंपदश्चेति । खाभिमुखश्चेतनः वंशव्दार्थः । आभिमुख्यं च स्ववाक्यवोध्यत्वम्, बोध्यत्वं चाज्ञस्य संसारिणः स्वतः प्राप्तमिति भावः । तस्माद्बोधनहितोपयोग्याकारविशिष्टः त्वमर्थः । अतः स परित्यक्तो भवति । प्रमाणतर्कापर्यालोचना पूर्वोक्तेत्याह निर्विशेषेति । पदद्वयनिमित्तप्रहाणे निर्विशेषत्वस्य बुद्धिस्थत्वात् तदनुपपत्तिरूपतर्कापर्यालोचनं दर्शितम् ! सामानाधिकरण्यबलान्निर्विशेषवस्वभ्युपगम इति शङ्कायां पदद्वयलक्षणालक्षणं दूषणमाह एवञ्चेति । एवञ्च सति निर्विशेषस्वरूपोपस्थापनपरत्वे मुख्यार्थसंबन्धितया वस्तुमात्रावबोधनेऽभ्युपगते लक्षणास्वीकार इत्यर्थः ॥ ;
अथ परमतमुपन्यस्यति अथोच्येतेति । समानाधिकरणवृत्तानामित्यादि ग्रन्थः पक्षविषयसङ्ग्रहरूपः । विशेषणांशे तात्पर्यासंभवादिति । अन्यथा विशेषण बहुत्वादेकार्थत्वासिद्धेरिति भावः । पूर्वमप्युक्तादेवेत्येवकाराभिप्रायः । प्रथमसूत्रे हि बहुश उक्तः । यद्वा अन्यनैरपेक्ष्यपर एवकारः । न लक्षणाप्रसङ्ग इति । बाय्यानहिभूतप्रतिपादनादिति भावः । एवं पक्षविषये सङ्क्षेपेणोक्तमर्थमुपपादयति यथेत्यादिना । तत्र महाभाष्यो केऽप्युदाहरणे विशेषणांशे तात्पर्यासंभवं सिद्धं कृत्वा उदाहृतः’ (तमू) । कथं तत्र विशेषणांशाविवक्षेत्यत्राह तद्विवक्षायामिति । प्रसक्तस्यानिष्टतां दर्शयति तन्त्विति । युगपदभिधाने उद्देश्योपादेयविभागहानिप्रसङ्गात् पदद्वयमकृत्युपस्थापितविशिष्टैक्ये समानविभक्तया प्रतिपाद्यमाने विशेष्यांशस्येव विशेषणभूतनातिगुणांशियोरप्यैक्यप्रसङ्गाच्च क्रमेणाभिधानपक्षोऽभ्युपगन्तव्य इति हृदि निधावाऽऽह न हीति । क्रमपक्षेऽपि पूर्वपदप्रतिपन्नाकार विशिष्टस्य पदान्तरप्रतिपन्नाकार विशिष्टवस्तुतादात्म्यं किं समानविभक्तघा बोध्यम्, उत पूर्वपदप्रतिपन्ने विशिष्टे विशेषणान्तरान्वय इति विकल्पमभिप्रेत्य प्रथमे विशेषणमूतनातिगुणयोरप्यैक्यप्रसङ्गं सिद्धं बुद्धा, द्वितीये शिरसि अन्योन्यसमवायप्रसङ्गमाद जातिगुणयोरिति । तात्पर्यबहिष्ठस्यापि विशेषणत्योपयोगं दर्शयन् फलितमाह अत इति । नीलोत्पलमित्यत्र विशेषणान्वये स्फुटेऽपि तात्पर्याभाव उक्तः ; तत्र विशेषणानन्वयस्यास्फुटत्वाद्विशेषणान्वये स्पष्टतात्पर्याभावमुदाहरणान्तरं दर्शयति तथेति । विशिष्टवाचिनः शब्दस्य विशिष्टपरित्यागेन विशिष्टैकदेशतया 1 उक्त हत्यलेव उदाहृत हत्यत्रापि तात्पर्याशंभयस्यैव विशेष्यत्वम् ।
१-१-६ बाकन्दमभाषिकद १७७५ अनुपपत्तेरुभयदेशकालोपलक्षितखरूपमात्रैक्यं सामानाधिकरण्येव प्रतिपाचये । बद्यपि नोड विजयाद्येकपदश्रवणे प्रतीयमानं विशेषणं सामानाधिकरण्यवेलायां विरोधाच प्रतिपाद्यते -तथाजि अव्येऽर्थे प्रधानांशस्य प्रतिपादनान्न लक्षणा ः अपितु विशेषणांशस्याविवक्षामात्रम् । सधीक सामानाधिकरण्यस्यैष एव स्वभाव इति न कश्चिद्दोष इति– तदिदमसारम् ; सर्वेष्वेव वाक्येषु पदानां व्युत्पत्तिसिद्धार्थसंसर्गविशेषमात्रं प्रत्याय्यम् । तत्र समानाधिकरणवृत्तानामपि नीलादिपदानां नैल्यादिविशिष्ट एवार्थी व्युत्पचिखितः पदान्तरार्थ संसटोऽभिधीयते ; यथा नीलमुत्पलमानयेत्युक्ते नीलिमादिविशिष्टमेवाऽऽनीयते, तत्संबन्धिन विशेष्यस्वरूपमात्रे वृतिर्लक्षणैव स्यादित्यत्राह यद्यपीति । परिहरति तथापीति । वाच्येऽर्थे । न हि शक्तिविषयाद्विशिष्टाद्वहिर्भूतं विशेष्यमिति भावः । प्रधानांचस्येति । तात्पर्यविषयतया धर्मितया च प्रधानस्य विशेष्यांशस्यावर्जनादप्रधान विशेषणत्यागेऽप्यनुश्या दिविकले पुरुषशब्दस्येव न लक्षणेति भावः । मुख्यार्थत्वे तुल्येऽपि विशिष्टप्रतिपादनदशातो वैलक्षण्यं दर्शयति अपि त्विति । अविवक्षामात्रमिति । अशक्ये कचिद्यापाराभावात् व्यापारविषयांशेऽपि न शक्तिरिति भावः । पूर्वं पक्षे लक्षणाभाव उक्तः इदानीं सपक्षे विश/दीकृतो भवति । विशेषणाविवक्षायामखारस्य स्यादित्यत्राह सर्वत्रेति । सामानाधिकरण्यव्युत्पत्तेरीदृशत्वानास्वारस्यम् । व्युत्पत्स्य
ननुरोधे सति ह्यखारस्यम् । अत ऐकार्थ्यव्युत्पत्तिविरोधिविशेषणविवक्षायामेवास्वारस्यमिति भावः । 1 इमं पूर्वपक्षं प्रतिक्षिपति तदिदमसारमिति । प्रथमं चरमोक्ततया बुद्धिस्थं व्युत्पत्त्यन्तराश्रयणं निरस्यति सर्वेष्वेवेति । सर्वेषु - समानाधिकरणेषु व्यधिकरणेषु च वाक्येष्वित्यर्थः । गामानय, गां बधानेत्यादिव्यधिकरणवाक्येषु न हि प्रतिवाक्यं पदानामर्थभेदव्युत्पत्तिकल्पनम् “क्लप्त कल्प्यविरोधे तु युक्तः वऌप्तपरिग्रहः” इति न्यायेन क्लृप्तन्युत्पत्स्यैव स्वार्थबोधनसंभवे व्युत्पत्त्यन्तर कल्पनानुपपत्तेः । तथा समानाधिकरणवावयेष्वपि न पदानां व्युत्पत्यन्तरं प्रवृत्तिनिमित्ताविशिष्टार्थविषयं कल्पनीयमिति भावः । व्युत्पत्त्यन्तराभावेऽपि वाक्यानां परस्परवैषम्यसंभवोपपादनपरं व्युत्पत्तिसिद्धार्थ संसर्ग विशेषमात्रमिति पदम् । व्युत्पत्तिसिद्धार्थ संसर्गविशेषाद्वाक्यवैषम्यम् ; न तु प्रकृत्यंशस्य व्युत्पत्त्यनवगतार्थान्तरकल्पनादित्यभिप्रायः । एवं सर्ववाक्यसाधारण रूपमुक्तम् ; अनेन समानाधिकरणवाक्येषु फलितमर्थमाह तत्रेति तत्र — तेषु ‘वात्रयेषु । समानाधिकरणपदानां विशिष्टैकार्यप्रतीतिहेतुत्वमुदाहरणेन दर्शयति यथेति । प्रत्यक्षविषयं परोक्षविषयञ्चोदाहरणद्वयम् । अत एव हि, आनीयते प्रतीयत इत्युक्तम् । कारकविभक्त्यन्तत्वं न सामानाधिकरण्यविरोधीत्यभिप्रायेण नीलमुत्पलमानयेत्युक्तम् । नीलिमादिविशिष्टमेवानीयत इति । समानाधिकरणपदसमुदायो वस्तुमात्रप्रत्यायकश्चेत्-वस्तुमात्रत्वाविशेषादनीलमप्यानीयेतेत्यभिप्रायः । किञ्च समानाधिकरणपदानां विशेषणपरित्यागे को हेतुः । समानविभक्तचावगतमैक्यमिति चेन । प्रातिपदिकावगतविशेषणान्वयवलात् समानविभक्तिरैक्यं न प्रतिपादयेत् । तदेव युक्तम् ; विमुक्तचर्थादपि प्रातिपदिकार्थप्राधान्यात्, “अदितिः पाशान् " अहं संमार्ष्टि " इत्यादिषु हि 66 विभक्त्यर्थोऽनादृतः ॥ ऐक्यविषयप्रयोगदर्शनादैवयविषयमिति चेत्; विशेषणाम्ययेऽपि प्रयोगदर्शनाद्विशेषज्ञान्वयमपि प्रतिपादयति । शाब्दप्रतीतिर्वस्तुमानस्यैव विशेषणान्वयस्तु प्रत्यक्षबलात् स्वीक्रियते । ず
१०८ श्रतप्रकाशिकोपेते श्रीभाष्ये (विशेषणत्या गायोगः ) यथा च, ‘विन्ध्याटव्यां मदमुदितो मातङ्गगणस्तिष्ठति’ इति पदद्वयावगतविशेषणविशिष्ट एवार्थः प्रतीयते । एवं वेदान्तवाक्येष्वपि समानाधिकरणनिर्देशेषु तत्तद्विशेषणविशिष्टमेव ब्रह्म प्रतिपत्तव्यम् । न च विशेषणविवक्षायामि नरविशिष्टाकारं वस्तु अन्येन विशेष्टव्यम्; अपि तु सर्वैर्विशेषणैः स्वरूपमेव विशेष्यम् । तथा हि"भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्’ । अन्वयेन निवृत्त्या घा पदान्तरप्रतिपाद्याकारान्तरयुक्ततया तस्यैव वस्तुनः पदान्तरप्रतिपाद्यत्वं सामानाधिकरण्यकार्यम् । यथा ‘देवदत्तः श्यामो युवा लोहिताक्षोऽदीनो ऽकृपणोऽनवद्यः’ इति । प्रत्यक्षागोचरे तु यथाशब्दं न विशेषणप्रतीतिरिति चेन्न । विशेषणान्वयः शाब्दप्रतीतिविषयः, ऐवयं तु प्रत्यक्षबलादङ्गीक्रियत इति किं न स्यात् ॥ प्रत्यक्षागोचरेऽपि देवदत्तः श्यामो युवेत्यादिप्रयोगेष्वैवयवीदर्शनादैक्यं शब्दप्रतीतिविषय इति चेत् — तत्रैव परोक्षविषयप्रयोगे विशेषणान्वयस्यापि प्रतीतेर्विशेषणान्वयः शाब्द एव ; न पत्यक्षसिद्ध इति । इत्थं प्रत्यक्षपरोक्षविभागरहितं समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थबोधकत्वं दृश्यत इति चरमपर्वाभिप्रायेणोदाहरणद्वयं दर्शितम् । तस्मात्, “य एव लौकिकास्त एव वैदिकाः” इति लोकवेदाधिकरणन्यायेन वेदान्तवाक्येष्वपि पदद्वयावगत विशेषणापरित्यागेनैवार्थः प्रतिपत्तव्य इत्याह एवं वेदान्तेति । अन्योन्यसमवायप्रसङ्गं परिहरति न चेति । अरुणाधिकरणे विस्तरेण परिहारो वक्ष्यत इति अत्र संक्षिप्तः । न हि, यथाऽनुपपत्तिः स्यात् तथा वक्तव्यमिति भावः । युगपदभिधानं हृदि निधाय सर्वैर्विशेषणैः स्वरूपमेव विशेष्यमित्युक्तम् ।
सर्व विशेषणैः स्वरूपस्य विशेष्यत्वेऽनुगुणं सामानाधिकरण्यलक्षणमित्याह तथा हीति । न हि विशेषणान्तर विशिष्टाकारे विशेषणान्तरान्वप्रतिपादनं सामानाधिकरण्यमित्युक्तमित्यर्थः । सामानाधिकरण्यलक्षणग्रन्थ विवृणोति अन्वयेन निवृत्या वेति । अन्वयरूपार्थस्य व्यावृत्तिरूपार्थत्वं न कल्प्यम्, यथान्युत्पत्ति अन्वयमुखेन व्यावृत्तिमुखेन वा वस्तुनः पदान्तरप्रतिपाद्याकारादाकारान्तरयुक्तताप्रतिपादनं समानाधिकरणपदसमुदाय कार्यमित्यर्थः । तत्रोदाहरति यथेति । अन्वयमुखेनानेकप्रवृत्तिनिमित्तवैशिष्टयोहाहरणं श्यामो युवेति । व्यतिरेकमुखेनानेकाकारान्बयोदाहरणम् अदीन इत्यादि । दीनत्वम्अभास्वरमनस्कत्वम् । कृपणत्वम् – निर्धनत्वम् । अत्रायमर्थः — क्रमेणाभिधाने, व्यधिकरणवाक्येष्वपि करणकारक विशिष्टेऽधिकरणकारकान्वयः स्यात्, तद्विशिष्टे इतरकारकान्वयो वा प्रसजेदिति अन्योन्यविशेषणविशेष्यभावचोद्यं व्यधिकरणवाक्येऽपि समानम् । तत्र यः परिहारः, स एवात्रापि । तथापि — “पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसंपादितव्यक्ति पश्चात् वाक्यार्थबोधकम् ॥” इत्युक्तप्रकारेण स्मरणदशायां सर्वैः पदैः पृथक् खार्थस्मरणान्न विशेषणानामन्योन्यसमवायप्रसङ्गः । परामर्शदशायां च, उपपन्नं भवति यथा, तथा परामर्शान्नायं प्रसङ्गः । पश्चाद्युगपत् सर्वैः पदैर्वाक्यार्थबोधनान्न मिथस्समवायप्रसङ्गः । तस्मात् समानाधिकरणपदैर्युगपत् तत्तत्प्रवृत्तिनिमित्तविशिष्टैक विशेष्यप्रतिपादनेन क्रमाभावान्नान्योन्यसमवाय इति । सर्वैर्विशेषणेः स्वरूपमेव विशेष्यमिति ग्रन्थे अयमर्थोऽभिप्रेतः । अत्र सामानाधिकरण्यलक्षण ग्रन्थोपादानेन अन्यदपि चोद्यं परिहृतं भवति — युगपदभिधाने विशिष्टयोरैक्यं समानविभक्तिः प्रतिपाद्रयतीति विशेष्यै (शिष्टे) वयवत् विशेषणैक्यमपि स्यादिति चोद्यम् । अत्र
१-१-६ आनन्दमयाधिकरणम् (विशेषणभेदेन विशेष्यभेदशंका) २०९ यत्र त्वेकस्मिन् वस्तुनि समन्वयायोग्यं विशेषणद्वयं समानाधिकरणपदनिर्दिष्टम्, तत्राप्यन्यतरत् पदममुख्यवृत्तमाश्रीयते, न द्वयम्; यथा ‘गौर्वाही (हो) कः’ इति । नीलोत्पलादिषु तु विशेषणद्वयान्वयाविरोधादेकमेवोभयविशिष्टं प्रतिपाद्यते ॥ ब अथ मनुषे - एक विशेषणप्रतिसंन्धित्वेन निरूप्यमाणं विशेषणान्तरप्रतिसंन्धित्वात् विलक्षणमिति घटपटयोरिवैकविभक्तिनिर्देशे ऽप्यैक्यप्रतिपादनासंभवात् समानाधिकरणशब्दस्य न विशिष्टपरिहारः, ‘एकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्’ इति समानविभक्तया विशेष्यस्यैक्यप्रतिपादनान्न विशेषणैवयमिति ।
ननु विशेषणे विशेष्ये चाविशेषेण प्रातिपदिकेनावगते सति समानविभक्तिविशेष्यमात्रैक्यपरा, न तु विशेषणैवयपरेति किं नियामकमिति चेत् — समानविभक्तिरैक्यबोधिका, न तु भेदबोधिकेति किं नियामकम् ? व्युत्पत्तिरिति चेत् — साऽत्रापि तुल्या । किञ्च पदान्तरासमानाधिकृते घट इति पदे प्रयुक्ते तत्स्था विभक्तिः प्रातिपदिकावगतानां विशेषणविशेष्यतत्सम्बन्धानामैक्यं न प्रतिपादयति, विशेष्यमात्रैवयमेव प्रतिपादयतीति किं नियामकम् ॥ प्रत्यक्षमूला हि व्युत्पत्तिः; प्रत्यक्षञ्च विशेष्यमात्रैक्यं दर्शयति ; न तु विशेषणविशेष्यतत्सम्बन्धानामैक्यम् । अतः प्रत्यक्षमूला व्युत्पत्तिर्नियामिकेति चेत् —–सैवात्रापि नियामिकेति तुल्यमिति । एवं सर्वत्र व्युत्पत्तिसिद्धोऽर्थ एव स्वीकार्यश्चेत्, न कचिदपि वृत्त्यन्तरकल्पनं व्युत्पत्त्यन्तरकल्पनं वा स्यादित्यत्राह यत्र त्विति । विशेषणद्वयमिति त्रित्वादेरप्युपलक्षणम् । व्युत्पत्तिसिद्धार्थस्वीकार एव सर्वत्र स्वतः प्राप्तः । तस्य प्रमाणविरोधादन्वयायेग्यत्वे सति वृत्त्यान्तरकल्पनं प्राप्तम् । तदसंभवे व्युत्पत्त्यन्तरकल्पनम् । गोशब्दस्य किरणवाचित्वे वृत्त्यन्तराभावाद्धि शक्तिकल्पनम् । यदा वृत्त्यन्तरकल्पनम्, तदानीमप्यन्यतरपदस्यामुख्यत्वकल्पनम्, तावतैव विरोधशमनात् । न पुनस्सर्वेषां पदानाम् ; तात्पर्यनिश्चायकाभावप्रसङ्गात् । गौर्वाह्नी(ही)क इति प्रयोगे गोपदस्यैव ह्यमुख्यत्वम् ; न तु बाह्री (ही) कपदस्यापि । अन्यतरपदस्य वृत्त्यन्तरकल्पनेऽपि न निर्विशेषवस्तुपरत्वम् ; मुख्यवृत्त्युपनीत विशेषणानन्वयेऽपि वृत्त्यन्तरोपनीतविशेषणान्वयादि त्यभिप्रायः । नीलोत्पलादिवाक्येषु वृत्त्यन्तरकल्पनहेतुरेव नास्तीत्याह नीलेति । विशेषणभेदेन विशेष्य भेद शङ्कते अथ मनुष इति । विशेषणप्रतिसम्बन्धित्वम्- भावप्रधाननिर्देशः 1 विशेषणविशिष्टता । एक विशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणमिति निरूप्यमाणत्वं विवक्षितम् । एकविशेषणप्रतिसंबन्धित्वं विशेषणान्तरप्रतिसंबन्धित्वात् विलक्षणमित्यर्थः । यद्वा एक विशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणं वस्तु विशेषणान्तरप्रतिसम्बन्धित्वाद्धेतोः तस्माद्विशेषणान्तरविशेष्यात् पदार्थाद्विलक्षणमित्यर्थः । । विशेषणप्रतिसम्बन्धित्व भेदाद्विशेष्य स्वरूप भेदं निदर्शयति घटपटयोरिवेति । यथा घटत्वविशिष्टतायाः परत्वविशिष्टतायाश्च भेदेन तद्विशिष्टयोर्घटपटयोर्विशेष्ययोर्भेद्रः, तथा विशेषणान्तरान्वयस्य अन्यविशेषणान्वयस्य च भेदेन तद्विशेष्ययोश्च भेदः समानविभक्तिनिर्देशे सत्यप्यवर्जनीय इति सामानाधिकरण्यं न विशिष्टैक्यप्रतिपादनक्षममित्यर्थः । न विशिष्टप्रतिपादनपरत्वमिति । विशेषणान्वयप्रतीतेरवर्जनीयत्वेऽपि न तत्र गत्पर्यमिति भावः । विशेषणत्यागे तत्प्रतिसंबन्धि 1 यथाश्रुतोपपत्तये विलक्षणमिति पदस्यार्थे चैलक्षण्यमादतं भाष्यार्थदर्पणे 12
- 27
२१० ; ( तच्छंका परिहारः ) प्रतिपादनपरत्वम् अपि तु विशेषणमुखेन स्वरूपमुपस्थाप्य तदैक्यप्रतिपादनपरत्यमेवेतिस्यादेतदेवम्, यदि विशेषण द्वयप्रति संबन्धित्वमात्रमेवैक्यं निरुन्ध्यात् । न चैतदस्ति; एकस्मिन् धर्मिण्युपसंहर्तुमयोग्यधर्मद्वय विशिष्टत्वमेव ह्येकत्वं निरुणद्धि । अयोग्यता च प्रमाणान्तर सिद्धा घटत्व पटत्वयोः । ‘नीलमुत्पलम्’ इत्यादिषु तु दण्डित्वकुण्डलित्ववत् रूपवत्त्वरसवत्त्वगन्धवत्त्वादिवच्च विरोधो नोपलभ्यते । न केवलमविरोध एव ; प्रवृत्तिनिर्मित्त भेदेनैकार्थनिष्ठत्वरूपं सामानाधिकरण्यमुपपादयत्येव धर्मद्वयविशिष्टता (ताम् ) । अन्यथा स्वरूपमात्रैक्ये अनेकपदप्रवृत्तौ निमित्ताभावात् सामानाधिकरण्यमेव न स्यात् । विशेषणानां स्वसंबन्धानादरेण वस्तुस्वरूपोपलक्षणपरत्वे (रूपत्वे) सति एकेनैव वस्तु उपलक्षितमिति उपलक्षणान्तरमनर्थकमेव ; उपलेक्षणान्तरोपलक्ष्याकारभेदाभ्युपगमे तेनाकारेण सविशेषत्वप्रसङ्गः । विशेष्योपस्थापनायोगात् तदैक्यमपि दुष्प्रतिपादमित्यत्राह अपि त्विति । तात्पर्याविषयस्यापि विशेषणस्य परामर्शदशाप्रतीतिमात्रेण तद्विशेष्यप्रतीतिसिद्धेस्तदैवयप्रतिपादन संभवतीत्यर्थः । परिहरति स्यादेतदिति । यत्रा योग्यत्वमभ्युपगतम्, तत्रापि विशेषणत्वमेव योग्यत्वे प्रयोजकम् ; अतो नीलत्वादिविशेषणमपि विरुद्धं ●स्यादित्यत्राह अयोग्यता चेति । प्रमाणान्तरसिद्धेति । न पुनर्विशेषणत्वप्रयुक्तम योग्यत्वमिति भावः । प्रमाणान्तरमपि घटत्वपटत्वयोर्भिन्नाधिकरणत्वलक्षणं विरोधमवगमयति । नीलत्वोत्पलत्वयोरपि स विशेधस्तुल्यः ; षट्पदे कुमुदे च पृथग्दर्शनादित्यत्राह नीलमुत्पलमित्यादिष्विति । न केवलं भिन्नाश्रयत्वमात्र विरोधः; अपि तु तन्नियमः । न च नीलत्वोत्पलत्वयोस्तादृशविरोधः ; क्वचित् सहप्रतीतत्वादिति भावः । दण्डित्वेति । दण्डादिकं ‘युत सिद्धम् । रूपादिकमयुतसिद्धम् । युतसिद्धत्वायुत सिद्धत्वादिविभागवत् विशेषणत्वमपि विरोधाप्रयोजकमिति भावः । यद्वा दण्डित्वादिकं परस्पर परिहारेण (रेऽपि ) वर्तते । रूपं तु रसं परिहृत्य वर्तते । रसस्तु रूपं परिहृत्य न वर्तते । तत्र रूपापरिहारिणो रसस्य रूपस्य चाविरोधो दुरपह्नवः, कचित्सहोपलम्भात् । तथा परस्परपरिहारिणोरपि नीलत्वोत्पलत्वयोः कचित्सहोपलम्भादविरोध इत्यभिप्रायेणोदाहरणद्वयं दर्शितम् । आविरोधेऽपि विवक्षितैक्यानुपयोगाद्विशेषणाविवक्षेत्यत्राह न केवलमिति । [अ] पर्याययोः पदयोरेकार्थवृत्तौ निमित्तसापेक्षत्वात् तेन विना तत्र वृत्त्ययोगाचात्यन्तोपयोगात् विशेषणस्य विवक्षितत्वमित्यर्थः । उपपादकत्वमेव विपक्षे वाघदर्शनेन द्रढयति अन्यथेति । अन्यथा - विशेषणत्यागे । उपलक्षणतया निमित्तत्वं स्यादित्यत्राह विशेषणानामिति । अनादरः तात्पर्याभावः । यथा उपलक्षणभूतायां शाखायां न तात्पर्यम् अपि तु चन्द्र एव तात्पर्यम्, तद्वदित्यर्थः । ननूपलक्षणान्तरवैयथ्यं तवापि प्रसजेत्, एकस्मिन्नुपलक्ष्ये जन्माद्यने कोपलक्षणाभ्युपगमादित्यत्राह उपलक्षणान्तरेति । अस्माभिस्तु जन्मादिभिरुषलक्षणैरुलपाक्ष्याः तदनुगुणज्ञानशक्तद्याद्याकारमेदाः स्वीकृता इति न नैरर्थक्यमिति भावः । तेनाकारेणेति । अन्ततो गत्वाऽप्यवर्जनीयं सविशेषत्वम् । एवञ्च सति उपलक्ष्याकारान्तराभ्युपगमेन तस्योपलक्षणत्वाङ्गीकारादप्युपलक्षणतयाऽभिमतानामेव विशेषणत्वाङ्गीकारो वरमिति भावः । पूर्व लक्षणाङ्गीकारपक्षेऽन्यतरपदा मुख्यत्वादिदूषणान्युक्तानि । यतु वाच्ये प्रधानांशस्य प्रतिपादनान्न लक्षणेति – तत्रापि लक्षणा स्यादेव द्वारभूतप्रवृत्तिनिमिताभावेन तद्द्वारकस्याभिधानस्यानुपपत्तेरिति । इदञ्च दूषणं प्रवृत्तौ निमित्ताभावादिति भाष्येण फलितम् ।
। ; 1 यु-मिश्रणामिश्रणयोः । युतम् - अमिश्रितं - पृथक् सिद्धं युत सिद्धम् ।
। ’ १-१ ६ आनन्दमयाधिकरणम् २११ सोऽयं देवदत्त इत्यत्त्रापि लक्षणागन्धो न विद्यते, विरोधाभावात् । देशान्तरसंबन्धितयाऽतीतस्य संनिहितदेशसंबन्धितया वर्तमानत्वाविरोधात् । अत एव हि सोऽयमिति प्रत्यभिज्ञया कालंद्वय संबन्धिनो वस्तुन ऐक्यमुपपाद्यते वस्तुनः स्थिरत्ववादिभिः । अन्यथा प्रतीतिविरोधे सति सर्वेषां क्षणिकत्वमेव स्यात् । देशद्वय संबन्धविरोधस्तु कालभेदेन परिहियते ॥ यतः समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थवाचित्वम्, अत एव “अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति” इत्यारुण्यादिविशिष्टैकहायन्या क्रयः साध्यतया विधीयते ॥
अथोभयपद विशेषणाविवक्षायामपि सामानाधिकरण्यं सोऽयं देवदत्त इत्यादिषु दृश्यत इति यदुक्तम्, तत् प्रतिवक्ति सोऽयमित्यादिना । विरोधाभावात् — मुख्यार्थभूतविशेषणद्वयसंबन्धे विरोधाभावात् । प्रथम कालद्वयसंबन्धविरोधाभावमुपपादयति देशान्तरेति । वस्तुविशेषणतया निर्दिष्टावपि देशान्तरसंबन्धसंनिहितदेशसंबन्धो अतीतवर्तमानकालोपाधितया विवक्षितौ । इदञ्च कालोपाध्यन्तराणामुपलक्षणम् । अतीतवर्तमानशब्दौ अतीतवर्तमानकालसंबन्धिपरौ । देशान्तरसंबन्धितयाऽतीतस्यदेशान्तरसंबन्धाद्यपाध्यवच्छिन्नातीतकालसंबन्धिनः संनिहितदेशसंबन्धाद्युपाधिमद्वर्तमानकालसंबन्धाविरोधादित्यर्थः । अतीतत्वञ्चान्यापेक्षया विवक्षितम् ; न तूभयकालानुगतवस्त्वपेक्षया । एतदुक्तं भवति — एकस्य कालद्वयासंबन्ध वदतोऽतीतत्व वर्तमानत्व विरोधो विवक्षितः; स किं प्रध्वस्तस्य वर्तमानत्व विरोधो विवक्षितः ? स नास्ति, प्रध्वंसानभ्युपगमात् । यदि अतीतोपाधिमत्कालसंबन्धिनो वर्तमानत्व विरोध उच्यते तत् निरूप्यम् किं स्वापेक्षयाऽतीतोपाधिमत्कालसंबन्धित्वम्, उतान्यापेक्षयाऽतीतोपाधिमत्काल संबन्धित्वम् । न प्रथमः, स्वापेक्षयाऽतीतोपाधिमत्कालसंबन्धित्वाभावात् घटादेः । न द्वितीयः, एकक्षणसंबन्धस्यापि विशेषप्रसङ्गात् । एकस्य वस्तुन एकोऽपि हि क्षणः स्वपाश्चात्ययत्किञ्चिदुपाध्यपेक्षयाऽतीतो भवति । अतोऽन्यापेक्षया अतीतोपाधिमत्कालसंबन्धिनो वर्तमानत्वमविरुद्धम् । एवमेकस्य स्वप्रागभावस्वध्वंसोपहितकालसंबन्धस्यैव विरुद्धत्वात् अन्यापेक्षयाऽतीतागाम्युपाधिमत्कालसंबन्धे तदभावाच्च स्वाभावानुपहित कालद्वय संबन्ध एकस्य वस्तुन उपपन्न इति । युक्त्यन्तरञ्चाह अत एवेति । अत एव – कालद्वयसंबन्धाविरोधादेव । उपपाद्यते-सौगतान् प्रतीति शेषः । सौगतमतनिरासकस्य कालद्वय संबन्धविरोधाभ्युपगमो विरुद्ध इत्यर्थः । तदेवोपपादयति अन्यथेति । अन्यथा — कालद्वयसंबन्धविरोधेन । प्रतीतिविरोधे वस्तुस्थिरत्व विषय प्रतीतिविरोधे । सर्वेषां क्षणिकत्वमेव स्यादिति । एकस्य देशद्वयकालद्वयान्वयविरोधे देशकालान्तरसाध्यफलसाधनविधानम् आत्मनित्यत्वोपदेशश्चाप्रमाणं स्यादित्यभिप्रायः । देशद्वयसंबन्धविरोध परिहरति देशद्वयेति । परिच्छिन्नस्य वस्तुनः खानवच्छिन्न देश संबन्धो यौगपद्य एव विरुध्यते ; न तु क्रमभावित्वे इत्यर्थः । । एवं लोकसिद्धस्थ नीलोत्पलादिसमानाधिकरणपदप्रयोगस्य विशेषणविवक्षा स्थापिता । एवं प्रवृतिनिमित्त मेदेनैकार्थपर्यवसायित्वं समानाधिकरणपदानां वैदिकप्रयोगसिद्धं चेत्याह ‘यत इति । अनेन वस्तुमात्रपत्वे अरुणाधिकरणसिद्धान्तन्यायविरोधश्वोक्तः स्यात् । यतः अत एवेति लौकिकप्रयोगसिद्धवत्कारोक्त्या पूर्वोक्तखपक्षपरपक्षसाधनदूषणानि अरुणाधिकरणे (ण) विवक्षितानीति भावः ॥ 1 इत्याहेति । प्रकारान्तरेणावतरणं भाष्यार्थदर्पणे । 2 भाव इति । आविष्क्रियत इति शेषः ।
.२१२ (अरुणाधिकरणपरिष्कारः) तदुक्तम्“अर्थैकत्वे द्रव्यगुणयोरैककर्यान्नियमः स्यात् " इति । तत्रैवं पूर्वपक्षी मन्यते - यद्यप्यरुणयेति पदमाकृतेरिव गुणस्यापि द्रव्यप्रकार तैकस्वभावत्वात् द्रव्यपर्यन्तमेवारुणिमानमभिदधाति, तथापि एकहायन्यन्वयनियमोऽरुणिम्नो न संभवति; एकहायन्या क्रीणाति ; तच्चारुणयेत्यर्थद्वय विधानासंभवात् । । अरुणयैकहायन्येत्यादिवाक्ये पदानां न सामानाधिकरण्यमित्यत्राह तदुक्तमिति । अर्थैकत्व इत्यादिसूत्रस्यान्यथा व्याख्यातत्वात् न सामानाधिकरण्यपरत्वमित्यत्राह तत्रैवमिति । एवमिति । अस्मदुक्तावेव पूर्वपक्षसिद्धान्तौ सूत्रकाराभिप्रेताविति भावः । किमत्र अरुणयेति पदोक्तमारुण्यमेकहायनीमात्रान्वयि, उत प्राकरणिकसर्वद्रव्यान्वयि इति प्रथमो विचारः; तत्रारुणयेति पदं किमेकहायन्येत्यादिपदैरेकवाक्यतया अन्वेति उत भिन्नवाक्यतया स्थितमिति तदर्थविचारः । इदं विचारद्वयं पूर्वमीमांसाव्याख्यातृभिरभ्युपेतम् । अधिकस्तदर्थविचार उच्यते - किमरुणयेत्यादिपदानि व्यधिकरणानि, उत समानाधिकरणनि इति ; पुनस्तदर्थविचारः - कारकविभक्त्यन्तत्वं किं सामानाधिकरण्यविरोधि, उत्ताविरोधि इति । विरोधीति पूर्वपक्षः, अविरोधीति सिद्धान्तः । यदा विरोधि, तदा सामानाधिकरण्याभावेनैकवाक्यत्वाभावात् प्राकरणिकसर्वद्रव्यान्वयीति पूर्वपक्षे फलफलिभावः । अविरोधे सामानाधिकरण्येन वाक्यमेदाभावादे कहायन्यन्वयनियम इति सिद्धान्ते फलफलिभावः । अस्माकं तु पूर्वपक्षे सिद्धान्ते च अरुणयेति पदस्य द्रव्यपर्यन्तत्वमनुयायि । परेषां तु गुणमात्रपर्यन्तत्वमुभयत्रानुयायि । आकृत्यधिकरणे गुणवाचिशुक्लादिपदानां जातिवाचिगवादिशब्दवत् द्रव्यपर्यन्तत्वं निर्णीतम् । “आक्षिप्तद्रव्ये गुणजाती” इति हि टीकाकारः ॥ तत्र चात्र च को विशेष इति चेत् — एकैकप्रातिपदिकार्थनिरूपणमा कृत्यधिकरणे ; अत्र त्वनेकप्रातिपदिकस्यसमानविभक्त्यर्थनिरूपणमिति मेदः ॥ मनुं गुणवाचिपदस्य द्रव्यपर्यन्तत्वे एतदधिकरणपूर्व पक्षोत्थानं न स्यात् । गुणमात्रपर्यन्तत्वे हि गुणस्य कारकतया निर्दिष्टस्य क्र (क्रि ? )यान्वयस्य द्रव्यान्वयस्य च एकवाक्येन बोधयितुमशक्यत्वेन वाक्यभेदात् प्राकरणिक सर्वद्रव्यान्वयीति पूर्वपक्षोत्थानं स्यात् । द्रव्यपर्यन्तत्वे त्वेकहायनी पदसामानाधिकरण्येन विशिष्टकरणैकत्वात् तस्य क्रयान्वयमात्रस्य एकवाक्येन बोधयितुं शक्यत्वेन वाक्यमेदाभावात् एकहायनी मात्रान्वयीति वाक्यमेदायतपूर्वपक्षानुदय इत्याशङ्कयाह यद्यपीति । आकृतेरिव गुणस्यापि द्रव्यप्रकारतैकस्वभावत्वात् तद्वाचिशब्दो यद्यपि द्रव्यमात्रपर्यन्तः, तथाप्येकहायनीत्वा श्रयद्रव्यविशेषपर्यन्तत्वं न सिध्यतीत्यर्थः । कुत इत्यत्राह एकहायन्या क्रीणाति, तच्चारुणयेत्यर्थद्वयविधानासंभवादिति । न च वाच्यम् – अरुणयेति इदं क्रीणातिनाऽन्वेति ; द्रव्यविशेषाकाङ्गायां स विशेषः स्ववावयस्यैकहायनीपदोपस्थापितं द्रव्यं भवतीति; क्रयस्यैकहायन्यवरुद्धतयाऽरुणापदविभागे साकाङ्क्षत्वाभावात्; आकाङ्क्षोत्थापकचशब्दद्वन्द्वाद्यभावाच्च । अत आरुण्यस्य क्रयान्वयद्वारा नैकहायन्यन्वयः । स किं पदयोः सामानाधिकरण्येन उत वैयधिकरण्येन स्ववाक्यस्थतया । न तावत् पदद्वयसामानाधिकरण्येन एकहायन्यन्वयनियम आरुण्यस्य संभवति, कारकविभक्त्यन्तत्वप्रयुक्तानुपपत्त्या विशेषणविवक्षानुपपत्त्या च सामानाधिकरण्यायोगात् । तत्र यद्यपि विशेषणविवक्षायां विशेषणमे देन विशेष्यमेदो जन्माद्यधिकरणन्यायेन परिहृतः ; विशेषण कचान्योन्यसमवायादयश्च पूर्वमेव परिहृताः तथापि कारकविभक्त्यन्तत्वप्रयुक्तानुपपत्तिः स्थिता ।
२१३ ततश्च अरुणयेति वाक्यं भित्त्वा प्रकरणविहित सर्वद्रव्यपर्यन्तमेवारुणिमानमविशेषेणाभिदधाति । अरुणयेति स्त्रीलिङ्गनिर्देशः प्रकरणविहितसर्वलिङ्गकद्रव्याणां प्रदर्शनार्थः । तस्मादेकहायन्यन्वयनियमोऽरुणिम्नो न स्यादिति " अत्राभिधीयते - ‘अर्थैकत्वे द्रव्यगुणयोरैककर्यान्नियमः स्यात्’ । “अरुणयैकहायन्या” इत्यारुण्य विशिष्टद्रव्यैकहायनीद्रव्यवाचिपदयोः सामानाधिकरण्येनार्थैकत्वे सिद्धे सति एकहायनीद्रव्यारुण्यगुणयोः अरुणयेति पदेनैव विशेषणविशेष्यभावेन संवन्धितयाऽभिहितयोः कयाख्यैककर्मा- वयाविरोधात् अरुणिम्नः क्रयसाधनभूतैकहायन्यन्वयनियमः स्यात् ॥ कारकविभक्तिर्हि क्रियान्वयबोधोपक्षीणत्वान्न परस्परान्वयबोधं जनयितुं शक्नोति । परस्परान्वयो (ये ?) हि विशेष्यैक्यम् । एवं विशेषणविवक्षाकारकविभक्त्यन्तत्वप्रयुक्तानुपपत्तिभिर्न सामानाधिकरण्यम् । अतोऽरुणयैकहायन्येति पदद्वयं पृथक्करणवाचीत्येतावत् सिद्धं कृत्वा, वैयधिकरण्ये सति स्ववाक्यस्थतया आरुण्यस्यैकहायन्यन्वयनियमेऽनुपपत्तिरुच्यते । एकहायन्या क्रीणातीति वाक्येन एकहायन्याः क्रयस्य च संबन्धः प्रतिपन्नः । तच्च क्रयणमरुणया कर्तव्यमिति वाक्येनैकहायनी साध्यत्व विशिष्टरूपेण क्रयणमरुगद्र व्यसाध्यमिति प्रतिपन्नम् । तत्पदं कहायनी साध्यत्वविशिष्टक्रयणोपस्थापकम् । तत्र द्रव्यांशस्य तत्साध्यकयणस्य च पूर्वप्रतिपन्नत्वेनानूदितत्वात् एकहायनीद्रव्यस्यारुणिमसंबन्ध एव विधेयः । एवञ्चैकहायन्या क्रयः साध्यः, तया चारुणया भवितव्यमित्युक्तं भवति । ततश्चैकहायन्याः क्रयसंबन्धोऽरुणिम संबन्धश्चेत्यर्थद्वयस्यैकवाक्येन विधानासंभवादित्यर्थः । ततः किमित्यत्राह ततश्चेति । वाक्यभेदे सति स्ववाक्यस्थत्वाभावादवान्तरप्रकरणेन वा महाप्रकरणेन वा द्रव्यविशेषनिश्चये वासोयजमानादिसर्वद्रव्याणां प्रकरणान्वयाविशेषात् क्रीणातीति वाक्यं भित्त्वा अरुणयेति पदं प्राकरणिकसर्वद्रव्यपर्यन्तं स्वार्थमरुणिमानमभिदधातीत्ययः । अरुणयोति स्त्रीलिङ्गनिर्देशः कथमित्यत्राह अरुणयेतीति । पूर्वपक्षमुपसंहरति तस्मादिति । अत्राभिधीयत इति । अस्मिन् पूर्वपक्षे प्राप्ते सूत्रकारः स्वसिद्धान्तमाहेत्यत्रः । सूत्रमुपादत्ते अर्थैकत्व इति । सूत्रस्याक्षरार्थमाह अरुणयेत्यादिना । कयोरर्थैकत्वे इत्याकाङ्क्षायां शब्दस्यार्थप्रतिसम्बन्धित्वात् पदविशेषयोः संनिहितविषयवाक्यस्थत्वाच्च आरुण्यविशिष्टद्रव्यैकहायनीद्रव्यवाचिपदयोरित्यध्याहृतम् । पदद्वयसंनिधिज्ञापनार्थम् अरुण यैकहायन्येतीत्युक्तम् । आरुण्यविशिष्टमे कहायनीत्वविशिष्टं च द्रव्यम्, तद्वाचिपदयोः सामानाधिकरण्येन तत्तद्विशेषणद्वारैकविशेष्यवृत्तित्वादर्थैकत्वे सिद्धे इत्यर्थः । द्रव्यगुणयोरैककर्म्यादित्येतत् व्याचष्टे एकहायनीद्रव्यारुण्यगुणयोरित्यादिना । गुणान्वयस्य क्रयान्वयस्य च वाक्यबोध्यत्वे वाक्यभेदप्रसङ्गो विरोध उक्तः, गुणान्वयस्य प्रातिपदिकसिद्धत्वान्न वाक्यबोध्यत्वम्, नार्थसिद्धत्वञ्च 1 । अतः क्रयान्वयवोधनमेव वाक्यकृत्यमित्यभिप्रायेणारुणयेतिपदेनैवेत्युक्तम् । क्रयाख्यैककर्मान्वयाविरोधादिति । वाक्यभेदप्रसङ्गरूपविरोधाभावादित्यर्थः । नियमः स्यादित्येतव्याचष्टे अरुणिम्न इत्यादि । सर्वद्रव्यसाधारणप्रकरणानपेक्षत्वाद्वाक्यस्थतयैव नियमसिद्धिरित्यर्थः । अत्र गुणद्रव्ययोर्विशेषणविशेष्यभावः प्रातिपदिकावसेयः, विशेष्यैक्यं सामानाधिकरण्यावसेयम्, क्रयान्वयो वावयावसेय इति वाक्यस्य क्रयान्वयबोधनमेव 1 अरुणपदस्य गुणमात्त्रार्थकत्वेऽपि गुणस्य क्रयान्वयः द्रव्यद्वारमन्तरा नेति अर्थाद्द्द्रव्यान्वयसिद्धिरिति मीमांसकोक्तञ्च नेत्यर्थः । 2 इत्यादीत्येतत् व्याख्यानरूपशब्द प्रयोगक्रिया विशेषणं
२१४ (समानाधिकरणवाक्ये परपक्षः) यद्येकहायन्याः क्रयसंबन्धवत् अरुणिमसंबन्धोऽपि वाक्यावसेयः स्यात्, तदा वाक्यस्यार्थद्वयविधानं स्यात् । न चैतदस्ति, अरुणयेति पदेनैवारुणिमविशिष्टद्रव्यमभिहितम् । एकहायनीपदसामानाधिकरण्येन तस्यैकहायनीत्वमात्रमवगम्यते, न गुणसंबन्धः । विशिष्टद्रव्यैक्यमेव हि सामानाधिकरण्यस्यार्थः । ‘भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्’ इति हि सामानाधिकरण्यलक्षणम् । अत एव हि ‘रक्तःपटो भवति’ इत्यादिष्वैकार्थ्यादेकवाक्यत्वम् । पटस्य भवनक्रियासंबन्धे हि कृत्यम् । तस्मादेकस्मिन् वाक्येऽर्थद्वयविधानप्रसङ्गाभावात् ’ वाक्य भेदाभावेनारुण्यं न प्राकरणिक सर्वद्रव्यान्वयि, अपि त्वेकहायनी मात्रान्वयीति सूत्रार्थः । वैयधिकरण्येन पदयोरर्थभेद इति पूर्वपक्षे प्राप्ते अर्थैकत्व इत्युक्तम् । द्रव्यगुणयोः कयान्वये द्वारद्वारिभावेन विना तदयोगाद् द्वारान्वयद्वार्यन्वयरूपार्थयोर्भिन्नत्वात् वाक्यभेदप्रसङ्गरूपविरोधः स्यादिति शङ्कायाम् ऐककर्म्यादित्युक्तम् । एकहायन्यन्वयानियम इति पूर्वपक्षे नियमः स्यादित्युक्तमिति । अत्र गुणसंबन्धः प्रातिपदिकावसेयोऽस्तु ततः किं वाक्यमेदायत्ता नियम परिहारस्येति शङ्कायां सूत्राक्षरयोजनायां सङ्ग्रहेणोक्तमर्थं विवृणोति यदीत्यादिना । किमारुण्यस्य द्रव्यमात्रान्वये वा द्रव्यविशेषान्वये वा वाक्यवोध्ये तद्भेद उच्यते इति विकल्पे, द्रव्यमात्रान्वयस्य प्रातिपदिकावसेयत्वमाह अरुणयेतीति । यदि गुणगुणिसंबन्धः प्रातिपदिकावसेयः, तर्हि सामानाधिकरण्यस्य किं कृत्यमित्यपेक्षां शमयन् द्वितीयं शिरः प्रतिवक्ति एकहाय सक्देति । तस्यैकहायनीत्वमात्रम् – अरुणिमविशिष्टद्रव्यस्यैकहायनीत्वाश्रयत्वम् ; विशेष्यैवयमित्यर्थः । अनेन आकृत्यधिकरणारुणाधिकरणयोः प्रतिपाद्यभेदश्वोक्तो ‘भवति । प्रातिपदिकस्य धर्मिपर्यन्तत्वमाकृत्यधिकरणार्थः, अनेकप्रातिपदिकस्थसमानविभक्तेर्विशेष्यैक्यपरत्वप्रतिपादकमरुणाधिकरणमिति कथं गुणसंबन्धो न सामानाधिकरण्यावसेय इत्यत्राह विशिष्टद्रव्यैक्यमेव हि सामानाधिकरण्यस्यार्थ इति । विशिष्टैक्यमित्युक्ते विशेषणांशस्त्रैक्यं मा भूदिति विशिष्टद्रव्यैक्यमित्युक्तम् । द्रव्यशब्देन विशेष्यांशो विवक्षितः । एतदुपपादकत्वेन सामानाधिकरण्यलक्षणग्रन्थमाह भिन्नेति । न हि विशेषणविशेष्यवाचिनोः पदयोः विशेषणविशेष्यभावसंबन्धे वृत्तिः सामानाधिकरण्यमित्युक्तमित्यर्थः । एवं प्रातिपदिकेन गुणान्वयः समानविभक्त्या परस्परान्वयः, वाक्येन क्रयान्वयश्च वोध्यत इति कृत्यत्रयमुक्तम् । एतत् परैरभ्युपेतमित्याह अत एवेति । किञ्च द्रव्यपर्यन्ताभिधानेऽप्येकहायनीपदेन वाक्यस्य निराकाङ्क्षत्वादरुणयेति पदं न तत्रान्वेतीति शङ्का च परिहृता भवति । अर्थवादाधिकरणे ऽर्थवादनैरपेक्ष्येण विधेरेव प्रवर्तकत्वात् विधिवाक्येनार्थवादस्य नैकवाक्यत्वमिति शङ्कायाम्, अर्थवादस्य श्रयमाणत्वात् तत्रापि विधेराकाङ्क्षाऽस्तीति कल्प्यम् ; तस्मादुस्थापिताकाङ्क्षोऽर्थवादः विधिनैकवाक्यतयाऽन्वित इति निश्चितः । तत्र तैरेवोक्तमुदाहरणमिदम्, रक्तः पटो भवतीति । तत्र हि पटो भवतीत्येतावता निराकाङ्क्षत्वेऽपि वाक्यस्य, प्रयुक्तं रक्तपदं कीदृशः पट इत्युत्थापिताकाङक्षमन्वेति । एवमत्रापि अरुणयेतिपदं श्रयमाणमुत्थापिताकाङ्क्षत्वादेकना वयतयाऽन्वितमिति भावः । अत एव - कृत्यत्रयस्यापि यथोक्तप्रकारत्वादेव । रक्तः पटो भवतीति वाक्ये यथोक्तप्रकारेण कृत्यत्रयं दर्शयति पटस्येति । रक्तः पट इत्यादिवाक्ये विशेषणस्यैकत्वात् तदुत्थापि1. विशेषणानेकत्वेपि नानाविशेषणविशिष्टरूपैकार्थस्य विध्यन्वयात् पृथक्पृथगनन्व- 2 परैःमीमांसकैः । तत् उपरि विशदयति । पादिति भावः ।
१-१-६ आनन्दमयाधिकरणम् २१५ } वाक्यव्यापारः । रागसंबन्धस्तु रक्तपदेनैवाभिहितः । रागसंबन्धिद्रव्यं पट इत्येतावन्मात्र सामानाधिकरण्यावसेयम् । एवमेकेन गुणेन द्वाभ्यां बहुभिर्वा, तेन तेन पदेन समस्तेन व्यस्तेन वा विशिष्टमुपस्थाप्य सामानाधिकरण्येन सर्वविशेषणविशिष्टोऽर्थ एक इति ज्ञापयित्वा तस्य क्रियासंवन्धाभिधानमविरुद्धम्, ‘देवदत्तः श्यामो युवा लोहिताक्षः दण्डी कुण्डली तिष्ठति शुक्लेन वाससा यवनिकां संपादयेत्; नीलमुत्पलमानय; नीलोत्पलमानय; गामानय शुक्लां शोभनाक्षीम्’; “अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्” इति । एवम् ‘अरुणयैकहायन्या ताकाङ्क्षमन्वेति । बहूनि विशेषणानि समस्तपदोक्तानि चेत्, अन्वितानि स्युः ; न तु व्यस्तपदोक्तानि; अत्र तु पदानि व्यस्तानि । तत्र प्रथमान्तत्वात् सामानाधिकरण्यम् ; अत्र तु पदानि कारकविभवत्यन्तानि । तस्मान्नात्र सामानाधिकरण्यमिति शङ्कालयमभिप्रेत्याह एवमेकेनेति । पदेन समस्तेन व्यस्तेन वेति । कारकविभक्त्यन्तेन प्रथमान्तेन वेति चात्राभिप्रेतम् । तत्र प्रथमान्तबहु विशेषणान्वये उदाहरणमाह देवदत्त इति । देवदत्तः श्याम इत्यादिकमुदाहरतोऽयं भावः — रक्तः पट इति पदद्वयमचिद्वाचकम्, अरुणयेतिपदं चेतनवाचकमिति वैषम्यं यथा न प्रयोजकम्, तथा प्रथमान्तत्वकारक विभक्त्यन्तत्ववैषम्यमध्यप्रयोजकमिति । अन्तरङ्गबहिरङ्गविशेषणे अप्येवमित्यभिप्रायेण दण्डी कुण्डलीत्युक्तम् । कारकविभक्त्यन्तैकपदान्वयोदाहरणमाह शुक्लेन वाससेति । कर्मकारकमुदाहरति नीलमुत्पलमिति । समस्तोदाहरणमाह नीलोत्पलमिति । कारकविभक्त्यन्ताने कपदान्वयोदाहरणमाह गामिति । सम्प्रदानकारकविषयं वैदिकं चोदाहरणमाह अग्नय इति । पुरोडाशमष्टाकपालमिति कर्मकारकमपि सिद्धम् । एवमरुणयेत्यादिवाक्येऽपि तुल्यमित्याह एवमिति । र
ननु कारकविभक्तेः क्रियान्वयबोधोपक्षीणत्वान्न परस्परान्वयबोधकत्वम् ॥ उच्यते । कारकविभक्तिः क्रियान्वयबोधिका स्यात् । किमत्रायोगव्यवच्छेद एव उतान्ययोगव्यवच्छेदश्च । अयोगव्यवच्छेदमात्रं न विरुद्धम् । अन्ययोगव्यवच्छेदश्चेत् — तर्हि क्रियान्वयबोधोपक्षीणा कारकविभक्तिः ‘पशुना यजेत’ इत्यादिषु सङ्ख्यान्वयमपि न बोधयेत् ॥ कारकविभक्तित्वाकारात् क्रियान्वयबोधनम्, एकवचनत्वद्विवचनत्वाकारात् सङ्ख्यान्वयबोधनमित्याकार मेदादविरोध इति चेत् — समानविभक्तित्वाकारविशेषेण तद्वत् परस्परान्वयमपि बोधयेत् ॥
नन्वेकपदस्था कारकविभक्तिर्युगपत् सङ्ख्यान्वयं क्रियान्वयञ्च बोधयतीति तुल्यबलत्वान्नान्योन्यासहत्वम् । परस्परान्वयस्तु पदान्तरपरामर्शसापेक्ष इति विलम्बितत्वात् स बाधित इति चेत् किं विलम्बितत्वाविलम्बितत्वमात्रमेव प्राबल्यदौर्बल्यहेतुः ? तर्हि प्रत्यक्षमेकमेव प्रमाणम् ; अन्यदुर्बलं स्यात् ; तत्सापेक्षत्वेन विलम्बितत्वात् । तस्माद्विजयी लोकायतिकः । किञ्च श्रुतिरेव प्रमाणम्, न स्मृतिः, विलम्बात् । श्रुतिलिङ्गादिष्वपि श्रुतिरेव प्रमाणम्, न लिङ्गादि; विलम्बादेव । प्रथमाविभक्त्यन्तेषु चैकपदस्थैकवचनादिना प्रागेव सङ्ख्यान्वयप्रतीतेः पदान्तरस्थसमानविभक्ति परामर्शसापेक्षसामानाधिकरण्यासिद्धिः स्यात् । इहापि द्रव्यगुणयोः पराभिमत आर्थः परस्परान्वयो न सिध्येत् ; शब्दतः प्रथमावगतक्रियान्वयापेक्षया तस्य आर्थत्वेन चरमावगतत्वाभ्युपगमात् ॥ नैवम्; विरोधे सति हि विलम्बिताविलम्बितयोर्बाध्यबाधकभाव इति चेत् — तर्ह्यत्रापि क्रियान्वयसङ्ख्यान्वयवत् परस्परान्वय-
२१६
G पिङ्गाक्ष्या सोमं क्रीणाति” इति । एतदुक्तं भवति - यथा ‘काठैः स्थाल्यामोदनं पचेत्’ इत्यनेककारक विशिष्ठैका क्रिया युगपत् प्रतीयते तथा समानाधिकरणपद संघाताभिहितमेकैकं कारकं तत्तत्कारकप्रतिपत्तिवेलायामेवानेकविशेषणविशिष्टं युगपत्प्रतिपन्नं क्रियायामन्तीति स्यापि विरोधाभावात् विलम्बाविलम्बाव किञ्चित्करौ । अत्राविरोधः परैरभ्युपेतः; पश्चादार्थान्वयः सिध्यतीति सिद्धान्तोक्तेः ॥ न केवलमविरोधमात्रात् परस्परान्वयसिद्धिः, प्रयोगस्य नियामकत्वात् कारकविभक्त्यतपदानां सङ्ख्यान्वयेन सह क्रियान्वयबोधने हि प्रयोगो दृश्यत इति चेत् — तथा परस्परान्वयबोधनमपि प्रयोगसिद्धमिति चरमयुक्त्यभिप्रायेण प्रथमान्तकारकविभक्त्यन्तबहूदाहरणमुदाहृतं देवदत्तश्श्याम इत्यादिकम् । यथैकवचनादीनामेकत्वादिसङ्ख्यान्वयबोधकत्वं प्रथमान्तेषु कारकविभक्त्यन्तेषु चाविशिष्टमङ्गीक्रियते, उभयत्राविशेषेण प्रयोगदर्शनात् - समानविभक्तेरप्यविरुद्धार्थक्यबोधकत्वमुभयत्राविशेषेण प्रयोगदर्शनादङ्गीकरणीयमित्यर्थः । एवं कारकविभक्तिप्रयुक्तानुपपत्तिः परिहृता । तथा विशेषणविवक्षायां यत् अनुपपत्तित्रयम्, तत्र विशेषण मेदे विशेष्यभेदो जन्माद्यधिकरणन्यायेन परिहृत इति नात्र विवक्षितः, विशेषणैक्यपरिहारः प्रागुक्तोऽत्रानुसन्धेयः । अथान्योन्यसमवायः परिहर्तव्यः, विशिष्टमुपस्थाप्य’, ‘विशिष्टोऽर्थ एक इति ज्ञापयित्वा’ इति ल्यबन्त क्त्वान्तनिर्देशेन कृत्यत्रयस्य क्रमभावित्वं प्रतीयते ततश्वान्योन्यसमवायप्रसङ्ग’ इति । तद् अपनोद्यम् ; करणकारकविभक्त्यन्तसामानाधिकरण्यं वदतः सूत्रकारस्य तावन्मात्राभिप्रायत्वशङ्का च निवार्या; अतस्तदर्थमाह एतदुक्तं भवतीति । “पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम्” इति न्यायेन युगपद्बोधनात् क्रमभावित्वाभावान्न विशेषणान्तर विशिष्टे विशेषणान्तरान्वयविधानेन विशेषणानामन्योन्यसमवायप्रसङ्ग इत्यर्थः । यौगपद्यकथनेन पूर्वं ल्यबन्त निर्देशः कृत्यत्रयभेदनिर्वाहक परामर्शकमप्रकटनार्थमित्युक्तं भवति । तत्तत्कारकप्रतिपत्तिवेलायामित्य 1 विशिष्टोऽर्थ एक इत्यस्य आरुण्यविशिष्टोऽर्थ एकहायनोत्वविशिष्ट इत्यर्थश्चेत्आरुण्ये एकहायनत्वसमवायप्रसंगः; एवं विपरिवर्तोऽपीत्यर्थः । 2 यौगपद्येति । भाष्ये युगपत्प्रतीयत इति वाक्येन कर्मकरणाधिकरणादिसर्वकारकाणां क्रियान्वये यौगपद्यमुक्तम् । न तु समानाधिकरणपदोपात्तविशेषणविशेष्ययोः क्रियान्वये यौगपद्यम् । नानाविशेषणविशिष्टेऽर्थे समानाधिकरणपदकदम्बज्ञापिते सति तस्य पश्चात् क्रियान्वयः । तत्र विशेष्येऽनेकविशेषणवैशिष्टयप्रतीतिर्युगपदित्ययमर्थः युगपत्प्रतिपन्नमिति भायेणोक्तः । अतः पदजन्य पदार्थस्मृत्यनन्तरं समानाधिकरणपदबलात् समस्तपद इव सर्वविशेषणविशिषैकार्थज्ञप्तिः ततस्तादृशस्य क्रियान्वयबोध इति क्रमस्य ल्यप्क्त्वाप्रत्ययाचगतस्य, प्रकृतभाष्याचगतस्य योगयद्यस्य त्र भिन्नविषयत्वान्न विरोधः । अत इयं टीका विचार्या । न हि प्रतिपन्नं विशेषणं विशेष्यञ्च युगपत् क्रियायामन्वेतीति भाष्येणोक्तंम् ; युगपत्प्रतिपन्नमित्येव टीकायामनुवादात् । न च समानाधिकरणपदान्तर परामर्शसापेक्षा ऐक्यप्रतीतिः ः कारकप्रतीतिस्तु इतरनिरपेक्षं विभक्तिश्रवण एव भवतीति अरुणाकारकस्यैकहायनीकारकस्य च पृथकपृथगेव क्रियान्वय इति वाच्यम् ; विभक्तेस्तृतीयादेः नानाकारकाकारकसाधारण्यात् विशेषनिश्चयस्य क्रियापदसापेक्षत्वात् । विशेषणस्य प्रातिपदिकोक्तस्य विभक्तयपात्तकारकाकांक्षापेक्षया विशेष्याकांक्षाया एव प्राग्भावितया विशिष्टैकार्थप्रतीतेः पूर्वभावित्वौचित्याच । अतो भाष्योक्तक्रमः स्मृति-विशिष्टार्थ प्रतीतिक्रियान्वयबोधानां नानुपपन्न इति । टीका तु व्यवहारात् व्युत्पत्तौ अज्ञातपदादिविभागस्य पुंसः समुदायजन्यबोधरीतिशीलनेन ।
1 १-१६ आनन्दमयाधिकरणम् (मीमांसकोक्तनिरासः) २१७ म कश्चिद्विरोधः, ‘खादिरैः शुष्कैः काष्ठैः समपरिमाणे भाण्डे पायसं शाल्योदनं समर्थः पाचकः पचेत्’ इत्यादिष्विति । । यत्त ( यत्तक्तम् ) उपात्तद्रव्यकवाक्यस्थगुणशब्दः केवलंगुणाभिधायीति अरुणयेति पदेन केवलेगुणस्यैवाभिधानमिति । तन्नोपपद्यते - लोकवेदयोर्द्रव्यवाचिपदसमानाधिकरणस्य गुणवाचिनः कचिदपि केवलगुणाभिधानादर्शनात् । उपात्तद्रव्यकवाक्यस्थं गुणपदं केवलगुणाभिधायीत्यप्यसङ्गतम; ‘पटः शुक्लः’ इत्यादिषु उपात्तद्रव्यकेऽपि गुणविशिष्टस्यैवाभिधानात् । नेनेदं सूत्रं सर्वकारकविभक्त्यन्तपद प्रदर्शनार्थमिति दर्शितम् । इत्यादिषु न कश्चिद्विरोध इत्यन्वयः । । विरोधोऽन्योन्यसमवायादिर्विवक्षितः । युगपत्प्रतिपन्नमित्यनेन तत्र परिहारो विवक्षितः । यथा काष्ठैरित्यादिकं वदता समानाधिकरणपदविषयचोद्यपरिहाराः व्यधिकरणवाक्येऽपि समाना इति प्रतिबन्दी अभिप्रेता । अयमर्थः - व्यधिकरणानि पदानि तत्तत्कारकविशिष्टां क्रियां किं युगपत् क्रमेण वा प्रतिपादयन्ति । यौगपद्ये, उद्देश्योपादेयविभागाभावप्रसंगः । अनेक कारक विशिष्टक्रियैकत्वे विशेष्यक्रियैक्यवत् विशेषण भूतकारकैक्यमपि स्यात् । क्रमेण चेत् — कारकान्तरविशिष्ट क्रियायां कारकान्तरान्वयविधानं स्यात् । तदा काष्ठस्यात्यादेरन्योन्यसमवायप्रसङ्गेन काष्ठस्य स्थाली अधिकरणं स्थास्याः काष्ठमधिकरणं ( काष्ठं करणं ?) वा स्यात् ॥ न तदस्ति । विशेष्यभूतक्रियाया एवैकत्वं वाक्यप्रतिपाद्यम् ; न तु विशिष्टस्य । अतो न विशेषणभूतकारकैक्यप्रसङ्गः । सर्वकारकैः क्रियाया एव विशेष्यत्वेन नान्योन्यसमवायप्रसङ्ग इति चेत् तथा समानविभक्तेर्विशेष्यांशमात्रैक्य परत्वान्न विशेषणैक्यम् । प्रत्यक्षमूला व्युत्पत्तिरत्र नियामिका । यथा पट इत्येकपदप्रयोगे तत्स्थमेकवचनं न विशेषणविशेष्यैक्यं प्रतिपादयति, किन्तु विशेष्यैक्यमेव । तत्र नियामिका व्युत्पत्तिः - इहापि तद्वत् । युगपत् ’ सर्वैर्विशेषणैरेकस्यैवार्थस्य विशेष्यत्वेन न विशेषणानामन्योन्यसमवायप्रसङ्गश्चेति । एवं सूत्रकाराभिप्रेतपूर्वपक्षराद्धान्तौ अभिहितौ ॥
। अथ परोक्तं पूर्वपक्षराद्धान्तयोरनुयायिनमर्थं ततदसाधारणार्थं च व्युदस्यति यत्त्वित्यादिना । ‘कृष्णो गच्छति’, ‘श्वेतमालभेत’ इत्यादिषु गुणवाचिपदानां गुणिपर्यन्तत्वं तैरभ्युपेतमा कृत्यधिकरणन्यायात् । तत्रोपात्तद्रव्यकवाक्यस्थत्वं गुणवाचिपदानां गुणमात्रपर्यन्तत्वे प्रयोजकमभ्युपेतम् ; पटस्य शुक्ल इत्यादिषु तथा दर्शनात् । पटः शुक्ल इत्यादिषु उपातद्रव्यकवाक्यस्थत्वेऽपि तदपवादकसामानाधिकरण्यात गुणिपर्यन्ताभिधानमिति चाभ्युपेतम् । तत्र गुणमात्रपर्यन्तत्वे यत् प्रयोजकमुक्तम्, तदभ्युपगम्य प्रकृते गुणमात्रपर्यन्तत्वं दूषयति तन्नोपपद्यत इति । कुत इत्यत्राह लोकवेदयोरिति । कारकविभक्त्यन्तत्वस्य सामानाधिकरण्याविरोधित्वोपपादनमुपजीव्य इदं दूषितम् । गुणिपर्यन्तत्वापवादकमुपाद्रव्यकवाक्यस्थ गुणवाचिपदत्वं यत्, तस्यापवादरूप सामानाधिकरण्यस्य अरुणयेत्यादिवाक्ये विद्यमानत्वोपपादनात् केवलगुणाभिधायित्वमयुक्तमित्यर्थः । एवं परोक्तप्रयोजकाभ्युपगमेन तत्साध्यप्रयोज्यं गुणमात्रपर्यन्तत्वं दूषितम् । अथ तदुक्तं प्रयोजकं दूषयति उपात्तद्रव्यकेति । तत्र हेतुमाह पटश्शुक्क इत्यादिष्विति । 1 एवं क्रमपक्षेऽपि दोषो नास्त्येव । अथाप्याह युगपदिति । 2 उपात्तद्रव्यकवाक्यस्थत्वरूपं यत् प्रयोजकम्, तेन हेतुना साध्यं तत्प्रयोज्यञ्च यत् गुणमानपरत्वम्, तत् दूषितमित्यर्थः । 2-28
२१८ श्रुतप्रकाशिकोपेते श्रीमाध्ये ‘पटस्य शुक्लः’ इत्यत्र शौक्षविशिष्टपटाप्रतिपत्तिः असमानविभक्ति निर्देशकृता ; न पुनरुपात्तद्रव्यकत्वकृता । तत्रैव ‘पटस्य शुक्लो भागः’ इत्यादिषु समानविभक्तिनिर्देशे शौक्लयविशिष्टद्रव्यं प्रतीयते । यत्पुनः क्रयस्यैकहायन्यवरुद्धतयाऽरुणिम्नः क्रयान्वयो न संभवतीति–तदपि विरोधिगुणरहितद्रव्यवाचिपदसमानाधिकरणगुणपदस्य तदाश्रयगुणाभिधानेन क्रियापदान्वयाविरोधादसङ्गतम् । राद्धान्ते च उक्तन्यायेनारुणिम्नः शाब्दे द्रव्यान्वये सिद्धे, द्रव्यगुणयोः क्रयसाधनत्वानुपपत्त्या अर्थात् परस्परान्वयः सिध्यतीत्यप्यसङ्गतम् । अतो यथोक्त एवार्थः ॥ गुणमात्रपर्यन्तत्वे गुणिपर्यन्तत्वेऽपि साधारणमुपात्तद्रव्यकवाक्यस्थगुणवाचित्वं गुणमात्रपर्यन्ततायाः प्रयोजकं न भवतीत्यर्थः ।
ननु न तस्य प्रयोजकत्वहानिः, अपवादेन हि कचित् गुण्यभिधानमित्यत्राह पटस्येति । असमानविभक्तिनिर्देशः प्रयोजक इत्यर्थः । असमानविभक्तिनिर्देशः - असमानाया विभक्तेर्निर्देशः । न समानविभक्तिनिर्देशाभावः ; श्वेतो यातीत्यादिष्वपि गुणमात्रपर्यन्तत्वप्रसङ्गात् । व्यभिचारिणः प्रयोजकत्वकल्पनं व्यभिचारस्थले तदपवादकल्पनं चायुक्तम्; अव्यभिचारिप्रयोजकसद्भावादित्यभिप्रायः ॥ गुणमात्रपर्यन्तत्वे, नेदमपि प्रयोजकमसाधारणम्, पटस्य शुक्लो भाग इत्यसमानविभक्ति निर्देशेऽपि गुणिपर्यन्तत्वादिति चेत् — तत्राह तत्रैव पटस्येति । अयमर्थः - पटशब्देन असमानविभक्तिनिर्देशेऽपि । शुक्कशब्दस्य विशष्यवाचिभागशब्देना समानविभक्तिनिर्देशाभावान्न तस्य गुणमात्रपर्यन्तत्वे प्रयोजकत्वभङ्गः ; ‘यथा त्वत्पक्षे गुणमात्रपरत्वापवादकाभिमतभागशब्दसामानाधिकरण्यात् न तस्य धर्मिपर्यन्तत्वात् प्रयोजकत्व - हानिरिति । किञ्च न केवलमुपात्तद्रव्यकवाक्यस्थताया व्यभिचार एव; कल्पनागौरवमप्यस्ति परमते । ‘श्वेतमालमेत’ इत्यादिषु गुणवाचिपदस्य गुणिपर्यन्तत्वमुक्तम् । पटस्य शुक्ल इत्यादिषु तदपवादकत्वेन उपात्तद्रव्यकवाक्यस्थत्वमभ्युपेतम् । तस्याप्यपवादकत्वेन पटः शुक्ल इत्यादिषु सामानाधिकरण्यमुक्तमिति प्रयोजकत्रय कल्पनाऽस्ति । अस्मत्पक्षे तु ‘श्वेतमालमेत, ‘पटः शुक्लः’ इत्यादिप्रयोगेषु अपृथक सिद्धधर्मवाचित्वादेव गुणिपर्यन्तत्वं सिद्धम् ; पटस्य शुक्ल इत्यत्र असमानविभक्तिनिर्देशकृतं गुणपर्यन्तत्वमिति प्रयोजकद्वयमेवेति । इदमर्थसिद्धमिति न कल्पनागौरव कण्ठोक्तम् । एवं परस्य पूर्वपक्षसिद्धान्तानुगतमरुणयेति पदस्य गुणमात्रपरत्वं निरस्तम्; अथ पूर्वपक्षासाधारणार्थस्य स्वसिद्धान्तयुक्त्या परिहृतत्वं वक्तुमाह यत्पुनरिति । एकहायन्यवरुद्धतया - एकहायन्या निराकाङ्क्षत्वात् । विभागे साकाङ्क्षत्वे सत्येव वकवाक्यत्वम्; इह तदभावान्न क्रयान्वय इत्यर्थः । तस्य परिहृतत्वं दर्शयति तदपीति । नीलं शुक्कमित्यादिव्यावृत्त्यर्थं विरोधिगुणरहितशब्दप्रयोगः । गुणपदस्यैव गुणिपर्यन्तत्वेन गुणविशिष्टमेकं करणमिति अरुणिम्नो द्रव्यद्वारा क्रयान्वयात् क्रयान्वयासंमवोऽनुपपन्न इत्यर्थः । राद्धान्तासाधारणमर्थं दूषयति राद्धान्ते चेति । “संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते” इति न्यायेन वाक्यैकत्वे कथञ्चित् संभवति वाक्यभेदाश्रयणायोगात्, “गुणे द्रव्यव्यपेक्षे च द्रव्ये च गुणकाङ्क्षिणि” इति न्यायेन द्रव्यगुणयोः परस्परापेक्षत्वात् नष्टाश्वदग्धरथन्यायेनार्थादन्वय इति तद्भाद्धान्तः । तदयुक्तम् शाब्दान्क्यसिद्धेरित्यर्थः । स्वोक्ताधिकरणार्थमुपसंहरति अतो यथोक्त एवार्थ इति । 1 नेति । उत्सर्गस्यापवादव्यतिरिक्तविषयकत्वादिति भावः । शुक्लादिशब्दः स्वार्थगुणेऽन्वयिद्रव्यवाचिपदे सति गुणमानवाचीति नियमः । भागपदे सति पदस्येति पदं तत्रैवान्वेति, न शुक्ल इति उभयैर्वक्तव्यमिति ध्येयम् ।
1 ११ ६ आनन्दमयाधिकरणम् २१९ तस्मात् तत्त्वमस्यादिसामानाधिकरण्ये पदद्वयाभिहितविशेषणापरित्यागेनैवैक्यप्रतिपादनं वर्णनीयम् । तत्त अनाद्यविद्योपहितानवधिकदुःखभागिनः शुद्धवशुद्धयभयावस्थात् चेतनादर्थान्तरभूतम् अशेषहेयप्रत्यनीकानवधिक कल्याणगुणैकतानं परमात्मानमनभ्युपगच्छतो न संभवति ॥ अभ्युपगच्छतोऽपि समानाधिकरणपदानां यथावस्थित विशेषणविशिप्रैक्यप्रतिपादनपरत्वाश्रयणे त्वम्पदप्रतिपन्नसकलदोषभागित्वं परस्य प्रसज्येतेति चेत् — नैतदेवम; त्वम्पदेनापि जीवान्तर्यामिणः परस्यैवाभिधानात् । एतदुक्तं भवति- किञ्च ‘गुणे शुक्लादयः पुंसि’ इति गुणपर्यन्तत्वे पुल्लिङ्गतायाः प्राप्तत्वादरुणयेति 1 स्त्र्यन्तपदस्य गुणमात्रपरत्वं दुर्वचम् । किञ्च पूर्वपक्षश्चात्यन्ताभासः । भिन्नवाक्यमिति हि पूर्वः पक्षः । तथा सति अरुणयेति पदं नोपात्तद्रव्यकवाक्यस्थं भवति । उपात्तद्रव्यकवाक्यस्थत्वे सिद्धे हि गुणमात्रपर्यन्तत्व सिद्धिरिति ॥ वाक्यभेदेपि ‘अरुणयैकहायन्या’ इति प्रत्यासत्त्यतिशयादेकवाक्यतुल्यतया उपात्तद्रव्यकवाक्यस्थत्वमिति चेत् — संनिधिविशेषादेकवाक्यस्थत्व फलभूत गुणमात्रपर्यन्तत्व सिद्धिश्चेत्, तत एव एकवाक्यस्थताफलभूतैकहायन्यन्वयनियमोऽपि स्यादिति वाक्यभेदहेतुकस्य पूर्वपक्षस्यानुदय एव स्यादिति । राद्धान्तोऽपि दुस्स्थः ; एकहायन्या आरुण्येन च क्रयः साध्य इत्येकक्रियायाः करणद्वयसाकाङ्क्षत्वकल्पकस्य चशब्दस्य द्वन्द्वसमासस्य चाश्रवणात् । अत इमौ पूर्वपक्षराद्धान्तौ, अतिदुस्स्थतया, सूत्रकाराभिमताविति वक्तमयुक्तम् । अतोऽस्याधिकरणस्य यथोक्तावेव पूर्वपक्षराद्धान्तौ सूत्रकाराभिमतौ ॥ एवमस्तु ; ततः किं प्रस्तुतसामानाधिकरण्यस्येत्यत्राह तस्मादिति । तस्मात् सामानाधिकरण्यस्य अनेक विशेणविशिष्टै कार्थपरत्वस्य लोकवेदसिद्धत्वात् । ईदृशं सामानाधिकरण्यं परपक्षे न संभवति, पदद्वयावगतगुणहानादित्याह तत्त्विति । जीवब्रह्मभेदमनभ्युपगच्छतो न संभवतीति प्रतिज्ञाया उपपादनार्थमनाद्यविद्येत्यादिकम् अशेषहेयप्रत्यनीकेत्यादिकं च विशेषणमुभयत्र प्रवृत्तिनिमित्तफलतयोक्तम् । कर्मवश्यो निग्राद्योऽनुप्रासश्च जीवः निग्राहकोऽनुग्राहकश्च परात्मा भवितुं नाहतीत्येषां विशेषणानामभिप्रायः । मुक्तिदशायामैक्यशङ्काव्युदासार्थं शुद्धयशुद्धयभयावस्थादित्युक्तम् । न हि निग्रहदशायां निग्रह कर्तुर्नरपतेरन्यः पुरुषोऽनुग्रहदशायामनुग्राह्योऽयमनुग्रहकृता तेन नृपेणाभिन्नो भवतीति भावः । स्वेतरवैलक्षण्यं तृणादेरप्यस्तीति तद्व्यावृत्त्यर्थमुभयलिङ्गत्वेन वैषम्यमुक्तम् अशेषेत्यादिना । निर्विशेषवादिन इत्येतावता पर्याप्तत्वेऽपिं स्वपक्षमनभ्युपगच्छतो दूषणवचनं कुदृष्टिपक्षत्रयेऽपि दूषणसाम्यज्ञापनार्थम् ॥ तच्छब्दावगतविशेषणाभ्युपगमवत् त्वंशब्दावगतविशेषणमभ्युपगन्तव्यम्; तथा सति ब्रह्मणो दुःखित्वादिप्रसङ्ग इति शङ्कते अभ्युपगच्छतोऽपीत्यादिना । परिहरति नैतदिति । कुत इत्यत्राह त्वमिति । एवेति । तत्पदप्रतिपन्नस्य जीवविलक्षणस्यैवेति भावः । जीववाचित्वेन व्युत्पन्नस्य पदस्य तदन्तर्यामिपरत्वं लाक्षणिकम् ; तत् कथं परस्यैवाभिधानादित्युक्तमित्यत्राह एतदुक्तमिति । द्वारद्वारिभावविपर्ययशका व्युदासार्थोऽयमारम्भः । वेदव्युत्पत्तिसिद्धं सर्वशब्दानां परमात्म- 1 स्त्र्यन्तेति - स्त्रीप्रत्ययान्तेत्यर्थः ।
- इति वक्तमयुक्तम्अतिदुःस्थतयेत्यन्वयार्थः । 3 तत्पदस्यैव तत्सृज्यत्बपाल्यत्य संहार्यत्वादिविशिष्टजीवार्थकत्वशं काव्युदासार्थ इत्यर्थः ।
२२० (त्वम्पदस्य जीवविशिष्टवाचित्वम् ) सच्छब्दाभिहितं निरस्तनिखिलेदोषगन्धं सत्यसङ्कल्पत्वमिश्रानवाधिकातिशयासङ्ख्येय. कल्याणगुणगणं समस्तकारणभूतं परं ब्रह्म ‘बहु स्याम्’ इति सङ्कल्प्य तेजोबन्नप्रमुखं कृत्स्नं जगत् सृष्ट्वा, तस्मिन् देवादिविचित्र संस्थानसंस्थिते जगति चेतनं जीववर्ग स्वकर्मानुगुणेषु शरीरेष्वात्मतया प्रवेश्य, स्वयञ्च स्वेच्छयैव जीवान्तरात्मतयाऽनुप्रविश्य एवम्भूतेषु स्वपर्यन्तेषु देवाद्याकारेषु संघातेषु नामरूपे व्याकरोत् । एवं [स्व ] रूपसंघातस्यैव घाचित्वमप्युपपादयति सच्छब्देत्यादिना । सामानाधिकरण्यबलात् तत्त्वम्पदावगतविशेषाः स्वीकार्याः । ब्रह्मणो निर्दोषत्वमङ्गलास्पदत्वादि श्रुत्यन्तर सिद्धश्च । अतस्तदविरोधायान्तर्यामिपरत्वं युक्तमिति तत्त्वम्पदसामानाधिकरण्यमुख्यत्व निर्दोषत्व श्रुत्यन्यथानुपपत्त्यभिप्रायेण निरस्तनिखिलेत्यादिविशेषणमुक्तम् । सच्छन्दाभिहितमिति कारणवस्तुवाचिसच्छन्दः कारणत्वानुगुणगुणान्वितवस्तुपर इति भावः । बहु स्यामितीति । यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यत्र लिडवाच्येन ग्राहकेण परमापूर्वेण संनिधिसमाम्नातेषु पदार्थेष्वविशेषेण स्वशेषतया गृहीतेषु, तत्र प्रोक्षणावघातगोत्वादेः परमापूर्वं प्रति शेषत्वं ब्रीहिगवादिद्वारकम्, यागादेस्तु तच्छेषत्वमद्वारकं च कैश्चि निश्चीयते - तथा, बहु स्यामिति ग्राहकमहणेन तेजः प्रभृतिसर्वनामरूपेषु सामान्येन परमात्मीयतयाऽवगतेषु तत्रानुप्रवेशपूर्वकनामरूपव्याकरणश्रुत्यादिभिः सद्वारक मध्यवसीयत इत्यनुसन्धेयम् । यथा उपबृंहणेषु ‘गुणवान्’, ‘तमेवगुणसंपन्नम्’ इत्यविशेषोक्तेषु भगवद्गुणेषु ‘समः समविभक्ताङ्गः स्निग्धवर्णः’ इत्युक्तानां स्निग्धवर्णत्वादीनां ‘धर्मज्ञस्सत्यसन्धध्ध’ इत्युक्तानां सत्यसन्धत्वादीनाञ्च गुणानां दिव्यचिग्रहद्वारकत्वमद्वारकत्वञ्च दृश्यते - तथेहापि ईश्वरशरीरभूतचिदचिद्वारकोऽद्वारकश्च गुणान्वयो यथाश्रुति स्वीकार्य इति भावः । बहु स्यामिति । बहुनामरूपभाकभवेयमित्यर्थः । तेजोवन्नप्रमुखमिति । प्रमुखशब्देन तत्त्वान्तरसृष्टिर्विवक्षिता । देवादिविचित्रसंस्थान संस्थित इति च वक्ष्यमाणचिदचिदंश विभागार्थ जगदाकारकथनम् ; न तु जीवानुप्रवेशपूर्वावस्थाकथनम् । परमात्मन एव कृत्स्नजगच्छरीरित्वं चेत् — कथं जीवात्मनः शरीरित्वमिति शङ्का अपनोद्यते चेतनमिति शब्देन । चेतनत्वं शरीरित्वे प्रयोजकमित्यर्थः । चेतनमित्यनेन विज्ञानश्चाविज्ञानं चेत्यत्र विज्ञानशब्दस्य ज्ञातृवाचित्वं दर्शितम् । जीववर्गशब्देन ‘विज्ञानम्’, ‘जीवेन’ इति चैकवचनम्, ‘नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्’ इत्यादिभिरैकार्थ्यात् जाताविति व्याख्यातं भवति । ‘अनेन जीवेन’ इत्यत्रानेनेति निर्देशस्याभिप्रायविवरण स्वकर्मानुगुणेष्विति । जीवविशिष्टपरमात्म विशेषणेदंशब्दस्य नीवद्वारकवैचित्र्यपरत्वात् । जीववैचित्रयस्य च कर्मवैचित्रयाधीनत्वात् । जीवकर्तृक * प्रवेशव्यावृत्त्यर्थं स्वेच्छयैवेत्युक्तम् । पारतन्त्र्यं स्वातन्त्र्यञ्चानुप्रवेशहेतुवैषम्यमित्यर्थः । एवम्भूतेषु — द्वारद्वारिभावेन व्यवस्थितेषु चिदचिदात्मकेष्वित्यर्थः । खपर्यन्तेषु देवाद्याकारेषु सङ्घातेषु ततद्देवाद्यवस्थाः तत्तद्वाचिशब्दांश्चाकरोदित्यर्थः । ‘नामरूपे व्याकरोत्’ इत्युक्ते नामरूपव्याकरणस्य परमात्मपर्यन्तत्वस्यास्फुटत्वात् तत् विशदयति एवमिति । पूर्वं स्यबन्तनिर्दिष्टानां क्रियाणां क्रमविवक्षाराहित्यं चानेन प्रदर्श्यते । एवंरूपसङ्घातस्य - चिदचिदीश्वरात्मकस्य सङ्घातस्येत्यर्थः । एवं स्वरूपसंघातस्येति पाठे अयमर्थः - स्वं [च ?] रूपं च 1 पुनः पश्चात् प्रतीकग्रहणम् उक्तगुणविशिष्टवया अभिहितत्वज्ञापनाय । 2 कैश्चित् - प्राभाकरैः । 3 सद्वारकमिति । नामरूपभाक्त्वमिति शेषः । 4 जीवकर्तृकेति । व्यावृत्तिर्वैलक्षण्यम् । स्वप्रवेशांशे जीवकर्मणोऽकारणत्वज्ञापनार्थमित्यर्थः ।
१-१६ आनन्दमयाधिकरणम् 22१ वस्तुत्वं शब्दवाच्यत्वञ्चाकरोदित्यर्थः । अनेन जीवेनात्मना -जीवेनः मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयति । ब्रह्मात्मकत्वं च जीवस्य जीवान्तरात्मतया ब्रह्मणोऽनुप्रवेशादित्यवगम्यते; “इदं सर्वमसृजत, यदिदं किञ्च । तत् सृष्टवा तदेवानुप्राविशत् । तदनुप्रविश्य त्यच्चाभवत्” इति । अत्र इदं सर्वमिति निर्दिष्टं चेतनाचेतनवस्तुद्वयं सत्त्यच्छन्दाभ्यां विज्ञानाविज्ञानशब्दाभ्याञ्च विभज्य निर्दिश्य चिद्वस्तुन्यपि ब्रह्मणोऽनुवेशाभिधानात् । अत एवं नामरूपव्याकरणात् सर्वे वाचकाः शब्दा अचिज्जीवविशिष्टपरमात्मवाचिन इत्यवगतमिति ॥ ; सच्च किञ्च “ऐतदात्म्यमिदं सर्वम्” इति चेतनमिश्रं प्रपञ्चन् इदं सर्वमिति निर्दिश्य, तस्यैष आत्मा इति प्रतिपादितम् । एवञ्च सर्व चेतनाचेतनं प्रति ब्रह्मण आत्मत्वेन सर्वे सचेतनं जगत् तस्य शरीरं भवति । तथा च श्रुत्यन्तराणि, “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा”, “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद । यस्य पृथिवी शरीरम् । यः पृथिवीमन्तरो यमयति । स त आत्मा अन्तर्याम्यमृतः” इति प्रारभ्य “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति । स त आत्मा अन्तर्याम्यमृतः’ [ इत्यादि], “यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम् । योऽपोन्तरे सञ्चरन् यस्याऽऽपः शरीरम्” इत्यारभ्य ‘योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरम् । यमक्षरं न वेद - एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इत्यादीनि सचेतनं जगत् तस्य शरीरत्वेन निर्दिश्य तस्यात्मत्वेन खरूपे 1 तत्संघातः (स्वम्, स्वीयं रूपञ्च स्वरूपम् । तस्य सङ्घातः) स्वशब्देन शरीरी ईश्वर उच्यते; रूपशब्देन चिदचिद्वस्तुनी । शरीरिशरीररूपसङ्घातस्येत्यर्थः । वस्तुत्वम् — देवादिवस्तुत्वम् । जीवेनात्मनेत्यत्र जीववैलक्षण्यस्यास्पष्टत्वात् आत्मशब्दस्यानेकार्थसाधारण्याच्च तत् विवृण्वन् स्वपरपक्षसाधारणमन्वयार्थ तावदाह अनेनेति । मयेत्यात्मशब्दव्याख्यानम् । आत्मशब्दस्यास्मद्वाचित्वे सति हि ब्रझात्मकत्वं दर्शित भवति । स्वरूपैक्चशङ्कां व्युदस्यति ब्रह्मात्मकत्वं चेति । इदं सर्वमिति निर्दिष्टं चेतनाचेत नवस्तुद्वयमिति । अत्र सर्वशब्दस्यासङ्कोचोऽभिप्रेतः । ‘तदनुप्रविश्य सच त्यच्चाभवत् ….विज्ञानञ्चाविज्ञानञ्च’ इत्यनन्तरवाक्येन सर्वशब्दस्य खतः प्राप्तमसङ्कचितत्वं स्थापितमित्याह इदं सर्वमिति । ‘अनुप्रविश्य नामरूपे व्याकरवाणि’ इत्यत्र नामरूपव्याकरणस्यानुप्रवेशपूर्वकत्वं गम्यते ; ‘तत् सृष्ट्वा तदेवानुप्राविशत्’ इत्यनुप्रवेशस्य सृष्टिपूर्वकत्वं गम्यते ; तस्मान्नात्र पौर्वापर्यविवक्षा; समानकर्तृकत्वमेवात्र विवक्षितम् । “तस्य त्वष्टा विदधत् रूपमेति” इति वाक्ये सृष्टयनुप्रनुवेशयोः समानकालीनत्वावगमात् । तस्मात् भाप्येऽप्यनुप्रविश्येति ल्यबन्तनिर्देशो ऽनुप्रवेशसृष्टयोर्विविच्य ज्ञापनार्थ इत्यवगन्तव्यम् । सृष्ट्वाऽनुप्राविशदिति स्थित्यर्थानुप्रवेशो वा एवं नामरूपव्याकरणप्रकार उक्तः । ततः किं प्रस्तुतस्येत्यत्राह अत एवमिति । अतः - उदाहृतश्रुतिवाक्यात् । एवम् — परमात्मपर्यन्तनामरूपव्याकरणप्रतिपादनात् ॥ सर्वशब्दानां परमात्मपर्यन्तत्वे मानं दर्शितम् । देहवाचिशब्देष्वाकृतिनयसञ्चारणेन परमात्मपर्यन्तत्वमुपपादयिष्यन् शरीरत्वाक्षेपकं वाक्यं दर्शयति किश्चेति । ततः किमित्यत्राह एवश्चेति । न केवलमात्मशब्देन शरीरत्वं गम्यम्, अपि तु शरीरत्वं शरीरलक्षणेन कण्ठोक्तं चेत्याह तथा च श्रुत्यन्तराणीति । ‘अन्तः प्रविष्टः शास्ता’ इति सर्वात्मशब्दविवरणम् । विशेषणद्वयेन नृपनभोज्यावृत्तिः । 1 अन भावप्रकाशिकामुद्रणेऽप्यशुद्धिः ।
२२२ श्रुतप्रकाशिकोपेते श्रीमाध्ये (शरीरिवाचित्वे प्रमाणोक्तिः ) …. परमात्मानमुपदिशन्ति । अतश्चेतनवाचिनोऽपि शब्दाश्चेतनस्याप्यात्मभूत चेतनशरीरकं परमात्मानमेवाभिदधति, यथा अचेतन देवादिसंस्थानपिण्डवाचिनः शब्दाः तत्तच्छरीरकजीवात्मन एव वाचकाः, " चत्वारः पञ्चदश रात्राः देवत्वं गच्छन्ति” इत्यादिषु । देवा भवन्तीत्यर्थः । शरीरस्य शरीरिणं प्रति प्रकारत्वात् प्रकारवाचिनां च शब्दानां प्रकारिण्येव पर्यवसानात्, शरीरवाचिनां शब्दानां शरीरिपर्यवसानं न्याय्यम् । प्रकारो हि नाम इदमित्थमिति प्रतीयमाने वस्तुनि इत्थमिति प्रतीयमानोंऽशः । तस्य तद्वस्त्वपेक्षत्वेन तत्प्रतीतेस्तदपेक्षत्वात् तस्मिन्नेव पर्यवसानं युक्तमिति तस्य प्रतिपादकोऽपि शब्दः तस्मिन्नेव पर्यवस्यति । भगवतो नियन्तृत्वकथनात् तदेकनियाम्यत्वं शरीरलक्षणमुक्तं भवति । जगत् परमात्मशरीरमस्तु ; ततः किं प्रस्तुतस्य सामानाधिकरण्यस्य । शरीरात्मभावो हि भेदरूपतया सामानाधिकरण्यस्य विरोधीत्यत्राह अतश्चेतनवाचिन इति । अतः –चिदचिदात्मक जगतः परमात्मशरीरत्वात् । शरीरभूतचेतनवाचिपदानां तच्छरीरिपरमात्मवाचित्वं कथमिति शङ्कायां शरीरवाचिपदानां शरीरिपर्यन्ताभिघायित्वदर्शनादित्याह यथेति । शरीरिपर्यन्तं वैदिकप्रयोगं दर्शयति चत्वार इति । देवशब्दस्य शरीरिपर्यन्तत्वं स्पष्टयति देवा भवन्तीति । देवत्वं गच्छन्तीत्युक्तम् ; न तु देवं गच्छन्तीति । देवशब्दस्य शरीरमात्रपरत्वे शरीरत्वं गच्छन्तीत्युक्तं स्यात् । ततश्च देहात्मैक्यमुक्तं स्यात् । अतः शरीरित्वं गच्छन्तीत्यभ्युपगन्तव्यम् । अतो भावप्रत्ययान्तत्वं प्रकृतिभूतदेवशब्दस्य शरीरिपर्यन्तत्वज्ञापकमित्यर्थः । शरीरवाचिपदानां शरीरिपर्यन्तबोधकत्वमपि लाक्षणिकमित्यत्राह शरीरस्येति । शरीरवाचिनां प्रकारिपर्यन्तत्वं जातिगुणवाचिपदानामिव आकृत्यधिकरणन्यायसिद्धमित्यर्थः । जातिगुणवाचिनां द्रव्यपर्यन्तवाचित्वं कथमित्यपेक्षायामाकृत्यधिकरणन्यायं विवक्षुः तदर्थं प्रथमं प्रकारप्रकारिणौ विविच्य दर्शयति प्रकाशे हि नामेति । तद्वाचिशब्दस्य प्रकारिपर्यन्तत्वमुपपादयति तस्येति । तस्य तद्वस्त्वपेक्षत्वेन – प्रकारस्य प्रकार्यपेक्षस्वरूपस्थितित्वेन, तत्प्रतीतेः — प्रकारस्य यथावस्थितस्वरूपप्रतीतेः, तदपेक्षत्वात् - प्रकारिसापेक्षत्वात् तस्मिन्नेत्र पर्यवसानं युक्तमिति, प्रकारप्रतीतेः प्रकारिण्येव पर्यवसानं युक्तमिति, प्रकारवाचिशब्दः प्रकारिणि पर्यवस्यतीत्यर्थः । “शब्दक्तेर्विशेषणमात्रविषयत्वेऽप्यर्थसामर्थ्याद्विशेष्यांशबोधनम् ! अतोऽर्थसामर्थ्य सचिवा शब्दशक्तिविशिष्टार्थबोधसामग्री । तच्च बोधनं मुख्यकोटिनिविष्टम् । यथा संस्कार सचिवेन्द्रियजन्यमि प्रत्यभिज्ञानमिन्द्रियप्रसूतत्वात् प्रत्यक्षमेव न स्मृतिर्भवति – तथात्र मुख्यत्वम् । अतः शब्दशक्तिः प्रवृत्तिनिमित्तमात्रे पर्यवस्यति, विशेष्यबोधनमर्थसामर्थ्यात्” इति केचिदाहुः । तदयुक्तम् ; शब्दशक्तेः विशेष्यपर्यन्तत्वाभावे निष्कर्षकशब्देऽप्यर्थ सामर्थ्याद्विशेप्यपर्यन्तधीप्रसङ्गात् । रूपग्रहणे नयनशक्तिः, रूपिज्ञानमर्थसामर्थ्यजन्यं (न्यमिति ?) स्यात् । तदभ्युपगमे गन्धशब्दादिग्रहणे सति अर्थसामर्थ्यात् पृथिवीगगनादिप्रतिपत्तिश्च स्यात् । न च तथा प्रतीतिरस्ति ॥ जात्यादिशब्दशक्तिर्जात्यादिस्वरूपमात्र विषया, गवादिशब्दशक्तिर्द्रव्यपरतन्त्रजात्यादिविषयेति निष्कर्षकानिः कर्षकशब्द विभाग इति चेत्-तर्हि शब्दशक्तेः प्रकारिविषयत्वमभ्युपगतं स्यात् । धर्मिपरतन्त्ररूपतावगतेर्घ मिप्रतिपत्तिसापेक्षत्वात् ; श.
1 चत्वारः पञ्चदशरात्रा इत्युपक्रमवाक्यम् पञ्चदशरात्र संज्ञक चतुर्विधकर्म विधायकम् । तद्विशदीकरणानन्तरमुपसंहारे फलश्रवणम् देवत्वं गच्छन्तीति ।
१-१-६ आनन्दमयाधिकरणम् (विशिष्टवाचित्वगमकानुगताकारः) २२३ अत एव ‘गौरभ्वो मनुष्यः’ इत्यादिप्रकारभूताकृतिवाचिनः शब्दाः प्रकारिणि पिण्डे [ऽ] पर्यवस्यन्तः पिण्डस्यापि चेतनशरीरत्वेन तत्प्रकारत्वात् पिण्डशरीरकचेतनस्यापि परमात्मप्रकारत्वाच्च परमात्मन्येव पर्यवस्यन्तीति सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचिशब्देन सामानाधिकरण्यं मुख्यमेव ॥
ननु ’ खण्डो गौः खण्डः शुक्लः’ इति जातिगुणवाचिनामेव पदानां द्रव्यवाचिपदैः सह सामानाधिकरण्यं दृष्टम्, द्रव्याणां तु द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः, यथा ‘दण्डी कुण्डली’ इति ॥ नैवम् । जातिर्वा गुणो वा द्रव्यं वा नैतेष्वेकमेव सामानाधिकरण्ये प्रयोजकम्; अन्योन्यस्मिन् व्यभिचारात् । यस्य पदार्थस्य, कस्यचित् प्रकारतयैव सद्भावः, तस्य तदपृथक्सिद्धिस्थितिप्रतीतिभिः तद्वाचिनां शब्दानां स्वाभिधेय विशिष्टद्रव्यवाचित्वात् धर्मान्तर विशिष्टतद्द्रव्यवाचिना शब्देन सामानाधिकरण्यं युक्तमेव । यत्र पुनः पृथक सिद्धस्य स्वनिष्ठस्यैव द्रव्यस्य कदाचित् क्वचित् द्रव्यान्तरप्रकारत्वमिष्यते, तत्र मत्वर्थीयप्रत्यय इति निरवद्यम् । शब्दशक्तस्तत्प्रतिपत्तिहेतुत्वाच्च । किञ्च " वचसां वाच्यमुत्तमम्”, “नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती” इत्यादिवचनखारस्य च शब्दशक्तेरेव विशेष्यपर्यन्तत्वे सिध्यति । ततो विशेष्यपर्यन्ता शब्दशक्तिरित्यत्र तात्पर्यम् । एवं न्यायशिक्षा कृता । इत्थं प्रमाणोपपत्तिसिद्धत्वात् सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचितत्पदेन त्वंपदसामानाधिकरण्यं मुख्यवृत्तमित्याह अत एवेति । पर्यवस्यन्तः । पूर्वं कचिद्व्यापृतस्य तत्रानुपरम्य तदन्वयिनि अन्यत्र व्यापारः पर्यवसानमिह विवक्षितम् ; न तु व्यापारोपरमः । व्यापारोपरमवाचित्वे सति अपर्यवस्यन्त इति पदच्छेदः । यद्वा - पर्यवस्यन्तः पर्यवस्थातुं प्रवृत्ता इत्यर्थः । परमात्मप्रकारत्वाच्चेत्यन्तेन पूर्वोक्तन्यायः सञ्चारितः । नामरूपव्याकरणश्रुतिः प्रमाणत्वेन पूर्वोदाहृता अत्राभिप्रेता ॥ विशेषणवाचिशब्दो विशेष्यपर्यन्तोऽस्तु, न तु विशेषणवाचिशब्दस्य परमविशेष्यवाचिशब्देन सामानाधिकरण्यं दृष्टमिति चेत् — उच्यते । यथा नैल्यगुणगतावान्तरजातिवाचिनीलशब्दो नैल्यगुणद्वारा तद्विशिष्ट पर्यवसितः उत्पलशब्देन समानाधिकरणो दृश्यते, तथा गवादिशब्दा गोत्वादिजातिवाचिनस्तद्विशेष्यपिण्डद्वारा तद्विशिष्टचेतने पर्यवसिताः खण्डादिशब्दैः समानाधिकरणा दृश्यन्ते तद्वत् । उक्तं प्रयोजकमतिव्याप्त्या दूषयन् चोदयति
नन्विति । परिहरति नैवमिति । प्रयोगदर्शनमविशिष्टमित्यभिप्रायेण द्रव्यं वेत्युक्तम् । सामानाधिकरण्ये मत्वर्थीयप्रत्ययानपेक्षे इति भावः । हेतुमाह अन्योन्यस्मिन्निति । व्यभिचारात् । साध्यस्य सामानाधिकरण्यस्य जातिवाचिमात्रं गुणवाचिमात्रं चातिलङ्य वृतेरित्यर्थः । जातिर्वा गुणो वा मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजकमिति किमिति नाभ्युपेतम् ? ॥ मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यस्य जातिगुणवाचिशब्दयोरविशेषेण प्रयोगदर्शनादिति चेत् तर्हि शरीरवाचिशब्दानामपि मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्येन प्रयोगदर्शनात् सर्वप्रयोगविषयानुयायि प्रयोजकं वाच्यमिति भावः । जातिगुणयोरन्यतरत्वञ्च्च अव्याप्तमित्यर्थः । इदमव्याप्तम् प्रकारत्वश्चातिव्याप्तम् । तत् किं प्रयोजकमित्यत्राह यस्येति । तदपृथकू सिद्धिस्थितिप्रतीतिभिरिति । सिद्धिः - सत्ता, प्रमाणसंबन्धयोग्यत्वरूपा । स्थितिः - तदनुवृत्तिः । अपृथकशब्दः सिद्ध्यादिसाधारणः । प्रतीतिशब्देनापृथकप्रतीतेः स्वतः प्राप्तत्वं विवक्षितम् । प्रकारतैकस्वभाववस्तुवाचिशब्दत्वं मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजकमित्यर्थः । निष्कर्षकशब्दान्यत्वे सतीति विशेष्टव्यम् । मत्वर्थीयप्रत्ययसापेक्षसामानाधिकरण्ये हेतु पक्षे तदभावज्ञापनाय दर्शयति यत्र पुनरिति । इति निरवद्यमिति । मत्वर्थीयप्रत्ययसापेक्षदण्ड कुण्डला दिव्यावृत्तं
२२४
तदेवं परमात्मनः शरीरतया तत्प्रकारत्वादचिद्विशिष्टजीवस्यापि जीवनिर्देशविशेषरूपाः अहं त्वमित्यादिशब्दाः परमात्मानमेवाऽचक्षत इति ‘तत्त्वमसि’ इति सामानाधिकरण्येनोपसंहृतम् । एवञ्च सति परमात्मानं प्रति जीवस्य शरीरतया अन्वयात् जीवगता धर्माः परमात्मानं न स्पृशन्ति, यथा स्वशरीरगता वालत्वयुक्त्वादयो धर्माः जीवं न स्पृशन्ति । अतः ‘तत्त्वमसि’ इति सामानाधिकरण्ये तत्पदं जगत्कारणभूतं सत्यसङ्कल्पं सर्वकल्याणगुणाकरं निरस्तसमस्तहेयगन्धं परमात्मानमाचष्टे, त्वमिति च तमेव सशरीरजीवशरीरकमाचष्ट इति सामानाधिकरण्यं मुख्यवृत्तम्, प्रकरणाविरोधः, सर्वश्रुत्यविरोधः, ब्रह्मणि निरवद्ये कल्याणैकताने अविद्यादिदोषगन्धाभावश्च । अतो जीवसामानाधिकरण्यमपि विशेषणभूताज्जीवादन्यत्वमेवापादयतीति विज्ञानमयाजीवादन्य एवाऽऽनन्दमयः परमात्मा ॥
यदुक्तम् - “तस्यैष एव शारीर आत्मा” इत्यानन्दमयस्य शारीरत्वश्रवणाजीवादन्यत्वं न संभवतीति । तदयुक्तम् ; अस्मिन् प्रकरणे सर्वत्र “तस्यैष एव शारीर आत्मा, यः पूर्वस्य” इति मत्वर्थीयप्रत्ययनिरपेक्ष सर्वप्रयोगविषयानुयायिप्रयोजकं सिद्धमिति नाव्याप्त्यादिदोष इत्यर्थः । इति निरवद्यमित्यनेन सहोपलम्भनियमादेः प्रयोजकत्वशङ्कापरिहारादिः प्रथमसूत्रोक्तोऽभिप्रेतः । परिहृतचोद्येन शिक्षितेन न्यायेन परमसाध्यसिद्धिमाह तदेवमिति । तत् — चोद्यस्य परिहृतत्वात् । एवम् — पूर्व शिक्षितप्रकारेण । ‘ऐतदात्म्यमिदं सर्वम्’ इति पूर्वमेव वैयधिकरण्येन ब्रह्मात्मकत्वं सर्वस्य विहितम् । तस्य सामानाधिकरण्येन जीवविशेषे उपसंहारः । यथा, ‘स त आत्मान्तर्याम्यमृतः’ इति जीवविशेषे कृत्स्नस्य ब्रह्मशरीरत्वं वैयधिकरण्येनोपसंहृतम् तद्वदित्यर्थः । अनेन उद्देश्योपादेय विभागनिबन्धनचोद्यपरिहारोऽभिप्रेतः । त्वम्पदप्रतिपन्नदोषभावत्वप्रसङ्गस्य परिहृतत्वं दर्शयति — यद्वा अपुरुषार्थस्य ब्रह्मणि अस्पर्शाय हि शरीरशरीरिभाव उक्तः । तथापि तत्संसर्गात् तत्प्रसङ्ग इत्यत्राह एवश्च सतीति । जीवशरीरगतधर्माः जीवमिव, जीवधर्माः परमात्मानं न स्पृशन्तीत्यर्थः । पूर्वं यानि दूषणानि परमते स्वोक्तानि तानि खपक्षे नायान्तीत्याह अत इत्यादिना । अतः - सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वोपपादनात् । अयं हेतुः प्रकरणाविरोधादीनामपि साधारणः । पदद्वयावगतविशेषण । परित्यागेन विशेष्यैक्यात् सामानाधिकरण्यस्य मुख्यत्वसिद्धिः । प्रकरणाविरोध इति । “तदैक्षत”, “ऐतदात्म्यमिदं सर्वम्”, “अनुप्रविश्य नामरूपे व्याकरवाणि”, इत्यादिवाक्याविरोध इत्यर्थः । सर्वश्वत्यविरोध इति भेदश्रुतिघटक श्रुत्यविरोध उक्तः । अविद्यादिदोषगन्धाभावश्चेति उभयलिङ्गत्वश्रुतिसिद्धार्थ विरोधाभाव उक्तः । पूर्वपक्षिणा जीवानतिरेकसाधकतयोक्तस्य जीवसामानाधिकरण्यस्य राद्धान्तानुगुणत्वमाह अत इति । अतः -तत्त्वम्पदयोः प्रवृत्तिनिमित्तस्यावश्याश्रयणीयत्वात् त्वंशव्दावगतधर्माणां ब्रह्मणि साक्षादन्वयविरोधेन जीवद्वाराऽन्वयात् द्वारभूतजीवात् द्वारिणो ब्रह्मणो वैलक्षण्यसाधकं सामानाधिकरण्यमित्यर्थः । उक्तमर्थं परमप्रकृतेन सङ्गमयति इति विज्ञानमयादिति । इतिशब्द हेतौ ॥ पूर्वपक्षे जीवानतिरेकसाधकतयोक्तस्य जीवसामानाधिकरण्यस्य भेदावहत्वादेतदधिकरण साध्यमानन्दमयस्य जीवादन्यत्वं सुस्थमित्यर्थः ॥ अथ शारीरत्वश्रवणं पूर्वपक्षहेतुमनुवदति यदुक्तमिति । परिहरति तदयुक्तमिति ।
ननु प्राणमयपर्यायस्थशारीरात्मशब्दो मनोमयपरः, मनोमयपर्यायस्थस्तु विज्ञानमयपरः, ततदन्तर सद्भावज्ञापन-
१-१-६ आनन्दमयाधिकरणम् (परमात्मनः शारीरत्वम् ) २२५ परमात्मन एव शारीरात्मत्वाभिधानात् ॥ कथम् ॥ “तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इत्याकाशादिसृज्यवर्गस्य परमकारणत्वेन प्रज्ञातजीवव्यतिरेकस्य परस्य ब्रह्मणः आत्मत्वेन व्यपदेशात् तद्यतिरिक्ताकाशादीनामन्नमयपर्यन्तानां तच्छरीरत्वमवगम्यते । “यस्य पृथिवी शरीरम् … यस्या परशरीरम्… यस्य तेजइशरीरस्… यस्य वायुः शरीरम्… यस्याकाशः शरीरम्….यस्याक्षरं शरीरम्… यस्य मृत्युः शरीरम्, एप सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः ” इति सुवगलत्या सर्वतत्त्वानां परमात्मशरीरत्वं स्पष्टमभिधीयते । अतः ‘तस्माद्वा एतस्मादात्मनः ’ इत्यत्रैवान्नमयस्य परमात्मैव शारीर आत्मेत्यवगतः । प्राणमयं प्रकृत्याह, “तस्यैष एव शारीर आत्मा, यः पूर्वस्य” इति । पूर्वस्यान्नमयस्य यः शारीर आत्मा श्रुत्यन्तरसिद्धः परमकारणभूतः परमात्मा, स एष (च) तस्य प्राणमयस्यापि शारीर आत्मेत्यर्थः । एवं मनोमयविज्ञानमययोर्द्रष्टव्यम् । आनन्दमये तु ‘एप एव’ इति निर्देशः तस्यानन्यात्मत्वं दर्शयितुम् ॥ तत् कथम् ॥ विज्ञानमयस्यापि पूर्वोक्तया नीत्या परमात्मैव शारीर आत्मेत्यवगतः । एवं सति विज्ञानमयस्य यः शारीर आत्मा स एवानन्दमयस्यापि शारीर आत्मेत्युक्ते, आनन्दमयस्याभ्यासावगतपरमात्मभावस्य परमात्मनः परत्वाच्छारीरात्मशब्दस्य ; अतः सर्वत्र शारीरात्मत्वं परमात्मन एवेति कथमवगतमिति पृच्छति कथमिति । प्रतिवक्ति तस्माद्वा इत्यादिना । अन्नमये शारीरात्मत्व कण्ठोवत्यभावात् प्राणमये ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इत्युक्तत्वाच्च तस्य वाक्यस्यार्थं विवक्षुः तत्सङ्घटनायाह तस्माद्वा इति । आकाशादिसृष्टेः पश्चाद्धि जीवस्य करणकलेबरसृष्टिः । अतः ततः पूर्वं जीवस्य सृष्टयक्षमत्वादाकाशादिस्रष्टृत्वं जीववैलक्षण्यसाधकम् । तस्य जीवविलक्षणस्याऽऽत्मशब्देनाभिधानादात्मशब्दस्य पुत्रादिवत् सप्रतियोगिकत्वात् अन्नमयादीनां परमात्मशरीरत्वमर्थादवगतमित्यर्थः । शरीरत्वं कण्ठोक्तं चेत्याह यस्य पृथिवीति । अत इति । श्रुत्यन्तरेषु शरीरत्वस्य कण्टोक्तत्वात् ‘तस्माद्वा’ इत्यादिवाक्ये आत्मशब्दनिर्देशेन अन्नमयादीनां शरीरत्वस्यार्थसिद्धत्वाच्च परमात्मैवान्नमयस्यात्मेत्यवगत इत्यर्थः । एवमात्मशब्दनिर्दिष्टः परमात्मैवान्नमयस्यात्मेति ‘यः पूर्वस्य’ इत्युत्तरत्रानुवादस्य पुरोवादनिर्वाहः कृतः । उपादित्सितस्य तस्यैष इति वाक्यस्य प्राणमयपरत्वज्ञापनायाह प्राणमयं प्रकृत्येति । तद्व्याचष्टे पूर्वस्येति । य इति प्रसिद्धवन्निर्देशः श्रुत्यन्तरसिद्धिमेतत्प्रकरणसिद्धिञ्च ज्ञापयतीत्यभिप्रायेण श्रुत्यन्तरसिद्धः परमकारणभूत इति विशेषणद्वयमुक्तम् । उक्तमर्थं मनोमयादावतिदिशति एवमिति । आनन्दमयस्य परमात्मत्वमयुक्तम्, तस्याऽऽत्मान्तरश्रवणादित्यत्राह आनन्दमये त्विति । अनन्यात्मत्वं दर्शयितुम् । “पतिं विश्वस्यात्मेश्वरम्”, “न तस्येशे कश्चन”, " नान्योऽaऽta द्रष्टा " इत्यादिवत् अयं निर्देश इत्यर्थः । अत्रोपपत्तिजिज्ञासया पृच्छति तत् कथमिति । अनन्यात्मत्वप्रदर्शनार्थत्वं कथमित्यर्थः । परिहरति विज्ञानमयस्यापीति । आनन्दमयं प्रति श्रूयमाणे ‘यः पूर्वस्य’ इति वाक्ये पूर्वशब्दविवरणार्थं विज्ञानमयस्येत्युक्तम् । विज्ञानमयशारीरात्मनः परमात्मत्वे सिद्धे यानन्दमयशारीरात्मनः परमात्मत्वसिद्धिरिति शङ्काव्युदासाय विज्ञानमयस्यापीत्युक्तम् । पूर्वोक्तयाप्राणमयादावुक्तया । ततः किमित्यत्राह एवं सतीति । अभ्यासावगतपरमात्मभावस्येति । ‘आनन्दं ब्रह्मणो विद्वान्’ इति पूर्वमभ्यस्तस्याऽऽनन्दस्य ब्रह्मसंबन्धित्वनिर्देशात् ब्रह्मणश्च ‘आनन्दो ब्रह्म’ इत्यानन्दशब्दवाच्यत्वात्, ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्यानन्दशब्दवाच्यस्थाने ‘एतमानन्दमयमात्मानमुपसङ्कम्य’ 2-29
२२६ भूतप्रकाशिकोपेते श्रीभाष्ये (शास्त्रस्य शारीरकस्वम् ) स्वयमेवात्मेत्यवगम्यते । एवञ्च स्वव्यतिरिक्तचेतनाचेतन वस्तुजातं स्वशरीरमिति स एव निरुपाधिकः शारीर आत्मा । अत एवेदं परं ब्रह्माधिकृत्य प्रवृत्तं शास्त्रं शारीरकमित्यभियुक्तैरभिधीयते । अतो विज्ञानमयाजीवादन्य एव परमात्मा आनन्दमयः ॥ १३ ॥ आहनायमानन्दमयो जीवादन्यः, विकारशब्दस्य मयप्रत्ययस्य श्रवणात् ॥ “मयतयो….” इति प्रकृत्य, “नित्यं वृद्धशरादिभ्यः” इति विकारार्थे मयट् स्मर्वते । वृद्धश्चायमानन्दशब्दः ।
ननु इत्यानन्दमयशब्द निर्देशेन आनन्दानन्दमयशब्दयोः पर्यायत्वाच्च आनन्दमयस्य परमात्मभावोऽवगत इत्यभिप्रायः । । अभ्यासावगतपरमात्मभावत्वं पुच्छब्रह्मवादनिरासयुक्तीनामुपलक्षणतयोक्तम् । ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति पुच्छब्रह्म प्राधान्येन निर्दिष्टं चेत्, ‘सोऽकामयत’ इत्यनन्तरवाक्येऽपि तच्छब्देन पुच्छब्रह्म परामर्शनीयम् । तदयुक्तम् ; स इति पुल्लिङ्गनिर्देशात् ॥ ‘आत्मन आकाशः सम्भूतः ’ इत्यात्मशब्दाभिप्रायः पुंल्लिङ्गत्वनिर्देश इति चेन्न ; व्यवहितादव्यवहितस्यानन्दमयस्यैव परामर्शनीयत्वात् ॥ “तस्यैष एव शारीर आत्मा’ इत्यनन्तरपूर्वोक्तस्यात्मनः पुंल्लिङ्गनिर्देशेन परामर्श इति चेन्न; तस्यान्नमयादिसर्व पर्यायसाधारणत्वेन एतत्पर्याय [स्य ] प्रधानप्रतिपाद्यत्वाभावात् । अतः प्रधानप्रतिपाद्याव्यवहितानन्दमय एव स इति परामृश्यते । अतः कारणभूतः स एव परमात्मेति । एवं विज्ञानमयस्य जीवस्यान्तरतया व्यपदेशात्, अभ्यासावगतपरमात्मभावात् तदन्तरत्वेनात्मशब्दव्याख्यानपर्यवसानभूमित्वात्, आत्मशब्दवाच्यस्याऽऽदावेव जगत्कारणत्वेनोक्तत्वात्, अनन्तरकारणवाक्ये ‘सोऽकामयत’ इति पुंल्लिङ्गनिर्देशात्, पुच्छतया निर्दिष्टब्रह्मणोऽप्यानन्दमयानतिरिक्तत्वात्, वक्ष्यमाणसूत्रस्थहेतुभिश्चाऽऽनन्दमयः परमात्मेत्यवगतम् । तस्य च परमात्मन आत्मान्तरवत्त्वम्, “आत्मेश्वरम्’, ‘न तस्येशे कश्चन’, ‘नान्योऽतोस्ति द्रष्टा’ इत्येवमादिश्रुतिविरुद्धमुपपत्तिविरुद्धश्च । 5 आकाशादिसृज्यवर्गपरमकारणत्वादिना शारीरात्मनः परमात्मत्वमवगतम् । एवमानन्दमयस्य शारीरात्मनश्च परमात्मत्वे सति परमात्माद्वित्वासंभवात् परमात्मन आत्मान्तरवत्त्वव्याघाताच, ‘तस्यैष एव शारीर आत्मा’ इत्युक्तिः आत्मेश्वरमित्यादिवत् तस्यानन्यात्मत्वज्ञापनार्थेत्यर्थसामर्थ्यादवगम्यत इत्यर्थः । शारीरात्मत्वं परमात्मन एव मुख्यमित्याह एवश्चेति । निरुपाधिक इति । कचित्कदाचित्किञ्चित्प्रति कर्मानुगुणं हि कश्चिदात्मा भवति, अयं तु सर्वेषां सर्वदा सर्वत्राकर्मवश्यः स्वत आत्मेति निरुपाधिक इति भावः । तदेवोपपादयति अत एवेति । अभियुक्तैः - भगवद्धोधायनादिभिः । “संहितमेतच्छारीरकम्” इति वृत्तिकारवचः । सूत्रार्थमुपसंहरति अत इति ॥ १३ ॥
मुखान्तरेणानन्दमयशब्दस्य परमात्मपरतामाक्षिप्य प्रतिवक्ति विकारेत्यादिना सूत्रेण । तत्र पूर्वपक्षमुपन्यस्यति आहेत्यादिना । मयटो विकारवाचित्वमुपपादयति मयद्वैतयोरित्यादिना । विकारार्थत्वस्य ज्ञापनाथ मयद्वैतयोरित्युक्तम् । एतयोः – “तस्य विकारः”, “अवयवे च प्राण्योषधिवृक्षेभ्यः " इति प्रकृतयोर्विकारावयवयोरिति हि तस्यार्थः । अयमर्थः - “प्राग्दीव्यतोऽणु” इत्यधिकारसूत्रम् । अस्मिन्नर्थद्वयेपि वृद्धसंज्ञानां शरादिगणान्तर्गतानां च मयडेव, नाणप्रत्यय इत्यपवदति, “नित्यं वृद्धशरादिभ्यः” इति सूत्रम् । “वृद्धिर्यस्याचामादिस्तत् वृद्धम्” इति सूत्रेण आनन्दशब्दस्य वृद्धसंज्ञकत्वाद्विकारार्थे मयट्पत्ययो विहित इति । सिद्धान्तच्छायया चोदयति
नन्विति । स एवायं
१-१६ आनन्दमयाधिकरणम् ( विकारसूत्रावतरणम्) २२७ प्राचुर्येपि मयडस्ति, “तत्प्रकृतवचने मयट्” इति स्मृतेः । यथा ‘अन्नमयो यज्ञः’ इति । स एवायं भविष्यति ॥ नैवम् ; अन्नमय इत्युपक्रमे विकारार्थत्वं दृष्टम्, अत औचित्यादस्यापि विकारार्थत्वमेव युक्तम् । किञ्च - प्राचुर्यार्थत्वेऽपि जीवादन्यत्वं न सिध्यति । तथा हि-आनन्दप्रचुरइत्युक्ते दुःखमिश्रत्वमवर्जनीयम् । आनन्दस्य हि प्राचुर्य दुःखस्याल्पत्वमवगयमयति । दुःखमिश्रत्वमेव हि जीवत्वम् । अत औचित्यप्राप्तविकारार्थत्वमेव युक्तम् । किञ्च-लोके मृन्मयं हिरण्मयं दारुमयमित्यादिषु वेदे च, ‘पर्णमयी जुहूः’, ‘शमीमय्यः स्रचः’ ‘दर्भमयी रशना’ इत्यादिy Heat faaraर्थे प्रयोगबाहुल्यात् स एव प्रथमतरं धियमाधिरोहति । जीवस्य त्र आनन्दविकारत्वमस्त्येव, तस्य स्वत आनन्दरूपस्य सतः संसारित्वावस्था तद्विकार एवेति । अतो विकारवाचिनो मयप्रत्ययस्य श्रवणात् आनन्दमयो जीवादनतिरिक्त इति ॥ तदेतदनुभाष्य परिहरति– विकारशब्दानेति चेन्न प्राचुर्यात् ॥ १-१-२४ ॥ ; नैतद्युक्तम ; कुतः ! प्राचुर्यात् परस्मिन् ब्रह्मण्यानन्दप्राचुर्यात् प्राचुर्यार्थे च मयटः भविष्यतीति । विकारथित्वेऽपि जीवात्मनि विकारासंभवात् विकारपरत्वं त्वन्मतेऽप्यनुपपन्नमिति भावः । अन्यप्रायन्यायेन परिहरति नैचमिति । अतः - उपक्रमदर्शनात् । औचित्यात् – उपक्रमप्रतिपन्नस्वीकारौचित्यात् । प्राचुर्यार्थत्वेऽप्यभिमतासिद्धिमाह प्राचुर्येति । जीवादनन्यत्वे हेतुमाह तथा हीति । दुःखमिश्रत्वे हेतुमाह आनन्दस्येति । प्राचुर्यार्थस्वभावात् प्रतियोगिन्यपेक्षिते सुखपतिसंबन्धितया साहचर्यप्रसिद्धदुः खगताल्पत्वस्य प्रतियोगित्वमिति भावः । ततः किमित्यत्राह दुःखेति । उभयथाऽपि जीवत्वसिद्धौ किमिति विकारार्थत्वमाद्रियत इत्यत्राह अत इति । अतः - प्राचुर्येऽपि जीवान्यत्वासिद्धेः औचित्यस्याधिकत्वाच्च विकारार्थत्वमेव ग्राह्यमित्यर्थः । प्रयोगप्राचुर्यमा ह किश्चेति । अवयवार्थादपि प्राचुर्यार्थे प्रयोगबाहुल्यात् तद्व्यावृत्त्यर्थं प्रथमतरमिति तरपः प्रयोगः । प्रसिद्धमप्ययोग्यं न ग्राह्यमिति शङ्कायां जीवस्य विकारत्वमुपपादयति जीवस्य चेति । तीजत्वनित्यत्वादिविरोध इत्यत्राह तस्येति । स्वत आनन्दरूपस्य तस्य दुःखित्वाद्यवस्थायोगो जीवत्वम् । अतः आनन्दविकारो जीवः । आनन्दात्मकखरूपापेक्षया नित्यत्वाविवाद इत्यर्थः । शङ्कायाः सूत्रस्थत्वात् अनुभाष्येत्युक्तम् । सूत्रमुपादत्ते विकारशब्दानेति चेन प्राचुर्यादिति । द्वितीयस्य नञो निषेध्यं पूर्वपक्षिमतस्योपपन्नत्वमित्यभिप्रायेण नैतयुक्तमित्युक्तम् । प्रतिज्ञां हेतुपदेन घटयितुमाकाङ्क्षां दर्शयति कुत इति । कस्मिन् कस्य प्राचुर्यमित्यपेक्षायामाह परस्मिन्निति । न केवलं प्राचुर्यरूपार्थसद्भावेनालम्, शब्दशक्तिश्वापेक्षितेति शङ्कायां सूत्राभिप्रेतार्थमाह प्राचुर्यार्थे चेति । मयटूप्रत्ययस्य प्राचुर्थत्वमपि 1 प्रतिसंवन्धितया - विरोधितया । सहचरितधर्मगताल्पत्वं प्रतियोगि । तत्र द्वेषरागाद्यल्पत्वं विहाय दुःखाल्पत्वग्रहणं दुःखस्य विरोधितया शीघ्रोपस्थितेः । 2 ● सद्भावमानं न पर्याप्तमित्यर्थः ।
२१८ शुतप्रकाशिकोषते श्रीभाष्ये संभवात् । एतदुक्तं भवति - शतगुणितोत्तरक्रमेणाभ्यस्यमानस्यानन्दस्य जीवाश्रयत्वासंभवाद्ब्रह्माश्रयोऽयमानन्द इति निश्चिते सति, तस्मिन् ब्रह्मणि विकारासंभवात् प्राचुर्येऽपि मयडिधि’संभवाच्चानन्दमयः परं ब्रह्मेति । औचित्यात् प्रयोगप्रौढ्या च मयटो विकारार्थत्वमर्थविरोधान्न संभवति । किञ्च औचित्यं प्राणमय एव परित्यक्तम् ; तत्र विकारार्थत्वासंभवात् । अतस्तत्र पञ्चवृत्तेर्वायोः प्राणवृत्तिमत्तामात्रेण प्राणमयत्वम् ; प्राणापानादिषु पञ्चसु वृत्तिषु प्राणवृत्तेः प्राचुर्याद्वा । न च प्राचुर्ये मयटू प्रत्ययस्य प्रौढिर्नास्ति; अन्नमयो यज्ञः, शकटमयी यात्रा इत्यादिषु दर्शनात् ॥ 1 1 यदुक्तमानन्दप्राचुर्यमल्पदुःखसद्भावमवगमयतीतितदसत् । तत्प्रचुरत्वं हि तत्प्रमृतत्वम्, तच्चेतरस्य सत्तां नावगमयतिः अपि तु तस्याल्पत्वं निवर्तयति । इतरसद्भावासद्भावौ तु प्रमाणान्तरावसेयौ । इह च प्रमाणान्तरेण तदभावोऽवगम्यते ’ अपहतपाप्मा’ इत्यादिना । तत्र एतावदेव वक्तव्यम् - ब्रह्मानन्दस्य प्रभूतत्वम् अन्यानन्दस्याल्पत्वमपेक्षत इति । संभवतु, तथाऽपि विकारार्थत्व परित्यागे को हेतुरित्यत्राह एतदुक्तमिति । अभ्यस्यमानानन्दयोगः उत्तरसूत्रगतानामन्येषामपि हेतूनां प्रदर्शनार्थः । अयोग्यत्वं त्यागहेतुरित्यर्थः । बाघकसद्भावाद्विकारार्थत्वं त्यज्यते चेत्, पूर्वोक्तसाधकसद्भावात् तत् स्वीक्रियतामिति शङ्कायाम्, परेण विकारार्थत्वस्वीकारसाघकतयोक्तमद्रयप्रायन्यायं प्रयोगप्राचुर्यं च परिहरति औचित्यादिति । औचित्यम् — प्रकरणौचित्यम् । तत् लिङ्गबाध्यम् । प्रयोगप्रसिद्धिरपि गङ्गापदादिष्वर्थविरोधेन बाधिता । अतः उभयमपि प्रमाणान्तराबाधितत्वे सत्येवार्थसाधकम् । अत्र त्वर्थविरोधान्न साधकमित्यर्थः । अर्थविरोधात् – आनन्दमये जीवत्वविकारत्वयोः पूर्वोक्तादसंभवादित्यर्थः । प्रकरणरूपमौचित्यमेव नास्तीत्याह किश्चेति । अर्थात्, मयटूप्रत्ययस्य विकारवाचित्वं प्रकरणविवक्षितमिति शङ्कामपि शमयन् प्राणमयशब्दस्यार्थमाह अत इति । [प्राणवृत्तिमत्तामात्रेण१] प्राणशब्दोऽननरूपवृत्तिमात्रपरः । मयट्प्रत्ययः प्राचुर्येण सह संबन्धमभिदधाति । तत्र संबन्धमात्रपरत्वेन प्रथमयोजनायां प्राणनवृत्तिमानित्यर्थः । ’ कृत्स्नमुख्यार्थत्यागादपि मुख्यार्थैकदेशाङ्गीकारो न्याय्य इति भावः । यद्वा प्राणा (प्राणना ?) ख्यवृत्तिविशेषसंबन्धित्वमात्रेण । प्रत्ययस्यानर्थक्यादमुख्यार्थत्वं वरमिति भावः । उचिततमं योजनान्तरमाह प्राणापानादिष्विति ॥ पूर्वपक्षयुक्त्यन्तरमनुवदति यदुक्तमिति । आनन्दप्राचुर्यप्रतियोगि तत्समानाश्रयं दुःखाल्पत्वमेव, आश्रयान्तरगतस्यानन्दप्राचुर्यस्याश्रयान्तरगतमानन्दारूपत्वं न प्रतियोगितामर्हति स्वाश्रयगतदुःखाल्पत्वस्यैवान्तरङ्गत्वेन प्राद्यत्वादिति पशुभिप्रायः । दूषयतितदसदिति । प्रमाणान्तरविरुद्ध प्रतियोग्यपेक्षत्वं न युक्तम् अपि तु प्राणान्तर सिद्धप्रमाणान्तरा विरुद्ध प्रतियोग्यपेक्षत्वमेव युक्तमिति परिहर्तुं प्रचुरशब्दस्यार्थान्तरसद्भावव्यावृत्त्यर्थमाह तत्प्रचुरत्वं हीति । ततः किमित्यत्राह तच्चेति । तर्हि व्यवच्छेद्याभावे प्रत्ययवैयर्थ्यमित्यत्राह अपि त्विति । यदि प्राचुर्यवाचिमट्प्रत्ययः स्वयं नार्थान्तरसद्भावे प्रमाणम्, तर्हि तत्सद्भावः केनावगम्यत इत्यत्राह इतरेति । ततः किमत्यपेक्षायां पराभिमतप्रतियोग्यभावो ब्रह्मणि प्रमाणसिद्ध इत्याह इह चेति । तर्हि ब्रह्मणि प्रमाणविरुद्धप्रतियोगिदुःखान्वयद्योतको मयडर्थस्त्यज्यताम् ; इतरथा तस्यानन्दप्राचुर्यस्य प्रतियोगि किमित्यत्राह तत्रैतावदिति । प्रमाणान्तरसिद्धार्थान्तरप्रतियोगिकं प्राचुर्यमभिदघतो मयूट्प्रत्ययस्य स्वयमर्थान्तरसाधकत्वाभावात् ब्रह्मणि च 1 विकारार्थत्वपक्षे कृत्स्नार्थत्यागः ; प्राचुर्यसंबन्धार्थत्वपक्षे एकदेशस्वीकारः । विशेषसंन्धित्वम् - विशेषाश्रयजातीयत्वम् । जातिश्च आनारवायुत्वम् ।
१-१-६ आनन्दमयाधिकरणम् १-१-१५ २२९ उच्यते च तत्, ‘स एको मानुष आनन्दः’ इत्यादिना जीवानन्दापेक्षया ब्रह्मानन्दो निरतिशयदशापन्नः प्रभूत इति ॥ यच्चोक्तम् - जीवस्थानन्दविकारत्वं संभवतीति - तदपि नोपपद्यते । जीवस्य ज्ञानानन्दखरूपस्य केनचिदाकारेण मृद इव घटाद्याकारेण परिणामः सकलश्रुतिस्मृतिन्यायविरुद्धः । संसारदशायां तु कर्मणा ज्ञानानन्दौ सङ्कुचितावित्युपपादयिष्यते । अतश्चानन्दमयो जीवादन्यः परं ब्रह्म ॥ १४ ॥ इतश्च जीवादन्य आनन्दमयः परं ब्रह्म- तद्धेतुव्यपदेशाच्च ॥ १-१-१५॥ " को ह्येवान्यात् कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति” इति । एष एव जीवान् आनन्दयतीति जीवानामानन्दहेतुरयं व्यपदिष्यते । अतश्चानन्दयितव्याजीवादानन्दयिताऽयमन्य आनन्दमयः परमात्मेति विज्ञायते । आनन्दमय एवात्र आनन्दशब्देनोच्यत इति वानन्तरमेव वक्ष्यते ॥ १५ ॥ दुःखसंबन्धस्य प्रमाणबाधितत्वात् जीवानन्दाल्पत्वस्य लोकसिद्धत्वाच्च ब्रह्मानन्दप्राचुर्यप्रतियोगि जीवानन्दारूपत्वमिति अर्थात्सिद्धमित्यर्थः । जीवानन्दारूपत्वस्य प्रतियोगित्वं न केवलमर्थसिद्धम् अपि तु कण्ठोक्तं चेत्याह उच्यते चेति । अयमर्थः - यदि सजातीयाल्पत्वं समानाश्रयं प्रतियोगि, तत् व्याहृतम् । यदि विजातीयं समानाश्रयम्, तत् प्रमाणान्तराधीनसद्भावासद्भावम् । अन्याश्रयमपि सजातीयं विजातीयं वा प्रतियोगि मानान्तरावसेयम् । तत्र च - यथा तेजः प्रचुरो गभस्तिमानित्युक्ते तेजः प्राचुर्यस्य चन्द्रादिगते सजातीयतेजोमान्द्यं प्रतियोगि; न तु गभस्तिमद्गततिमिरारूपत्वादि । तद्धि प्रमाणबाधितम् इतरत् प्रमाणसिद्धम् । तारतम्यवाचिनः शब्दस्य सजातीयप्रतियोगिज्ञापनपरत्वं खारसिकम् । बलवत्तर इत्युक्ते पुरुषान्तरबलं हि प्रतियोगितया प्रतीयते; न तु स्वगतं विजातीयं ज्ञानम् । अतोऽन्तरङ्गत्वं विफलम् - एवं ब्रह्मणि समानाश्रयमानन्दविजातीयदुःखाल्पत्वरूपं प्रतियोगि श्रुतिनिषिद्धम् ; अन्याश्रयं सजातीयाल्पत्वलक्षणं प्रतियोगि श्रुत्यैव सिद्धमिति ॥ … … । जीवस्यानन्दविकारत्वमनुवदति यथोक्तमिति । आनन्दविकारत्वम् मयाच्यमित्यर्थः । दूषयति तदपीति । स्वरूपान्यथाभावलक्षण विकारारार्थत्वमेव मयटो व्युत्पत्तिसिद्धम् । तच्चात्र नास्तीत्यर्थः । ज्ञानानन्दौ जीवस्य स्वरूपञ्चेत् — कथं दुःखाज्ञानसंभव इत्यत्राह संसारदशायांत्विति । सूत्रार्थं प्रकृतार्थेन सङ्गमयति अत इति ॥ प्रसिद्धतर मुख्यार्थांसंभवे तदनुग्राहक हेत्व
ननुरोधेन संभवदनतिप्रसिद्धमुख्यार्थानुग्राहक हेतूनामनुरोद्धव्यत्वमस्मिन् प्रकरणे व्युत्पाद्यमिति स्फुटम् ॥ १४ ॥ हेत्वन्तरञ्चाह सूत्रकारः तद्धेतुव्यपदेशाच्च ॥ पूर्वोक्तमानन्दप्राचुर्यमप्यनेनोपपादितं भवति । अनितरसुकरमोक्षप्रदानक्षमत्वं हि नितरामानन्दहेतुर्भवति । किञ्च धनप्रचुरो हि पुरुषोऽन्यस्मै तदभिप्रेतं घनं ददातीति सूत्रानन्तर्यम् । अस्य सूत्रस्य विषयवाक्यमाह को ह्येवेति । श्रुतेरर्थमाह एष एवेति । अन्यात् प्राण्यादिति भोगापवर्गसुखहेतुत्वमुक्तम् । यद्वा सताहेतुत्वं सुखहेतुत्वं चोक्तम् । पूर्वोक्त एव सम्यगर्थः । फलितहेतुमाह अतश्चेति । कर्मकत्रैक्यं न संभवतीति हेतुः । आनन्दशब्दवाच्यस्य पानन्दयितृत्वमुक्तम्, न स्वानन्दमयस्येत्यत्राह आनन्दमय एवेति ॥ १५ ॥
५३० इतञ्च जीवादन्य आनन्दमयः– श्रुतप्रकाशिकोपेते श्रीभाग्ये सान्त्रवर्णिकमेव च गीयते ॥ १-१-१६ ॥ “सत्यं ज्ञानमनन्तं ब्रह्म” इति मन्त्रवणोदितं ब्रह्मवानन्दमय इति गीयते । तत्त जीवस्वरूपादन्यत् परं ब्रह्म । तथा हि-“ब्रह्मविदाप्नोति परम्” इति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम् ॥ “तदेषाऽभ्युक्ता” इति । तत्-ब्रह्म, अभिमुखीकृत्य -प्रतिपाद्यतया परिगृह, ऋगेपण अध्येतृभिरुक्ता । ब्राह्मणोक्तस्यार्थस्य वैराद्यमनेन मन्त्रेण क्रियत इत्यर्थः । जीवस्योपासकस्य प्राप्यं ब्रह्म तस्माद्विलक्षणमेव । अनन्तरञ्च, “तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इत्यारभ्य उत्तरोत्तरै ब्रह्मणैर्मन्त्रैश्च तदेव विशदीक्रियते । अतो जीवादन्य आनन्दमयः ॥ १६ ॥ अत्राह - यद्यप्युपासकात् प्राप्यस्य भेदेन भवितव्यम्-तथापि न वस्त्वन्तरं जीवात् मान्त्रवर्णिकं एवमानन्दस्य पदप्रकृतिप्रत्ययार्थविषयं सूत्रत्रयं प्रवृत्तम् । अथानन्दवल्लीम् आदिमध्यान्ततोऽनुसंघाय अर्थ निष्कपटुकामः प्रथममुपक्रमस्थहेतुमवतारयति इतश्येति । मान्त्रवर्णिकमेव च गीयते ॥ अक्षरार्थमाह सत्यमिति । शाब्द एवार्थः, न तु उच्छन्दः फलित इति ज्ञापयितुं वर्णशब्दः । ततः किमित्यत्राह तत्विति । ब्राह्मणस्थपरशब्दप्रत्यभिज्ञापनाय पर ब्रह्मेत्युक्तम् । मान्त्रवर्णिकस्य जीवादन्यत्वं कथमित्यत्राह तथा हीति । प्राप्यत्वमस्तु ततः किं मान्त्रवणिकत्रह्मणो जीवादन्यत्वे इत्यपेक्षायां ब्राह्मणमन्त्रयोर्घटक वाक्यमाह तदेपाभ्युक्तेति । तत् व्याचष्टे तदिति । सत्पदं ब्रह्मवाचि । अभिमुखीकरणं चेतनधर्म इति तद्व्यावृत्त्यर्थमाह प्रतिपाद्यतयेति । एपेति पदस्य विशेष्यमाह ऋगिति । उक्तेति कथिते पौरुपेयत्वशक्का स्यादिति तद्युदासार्थमाह अध्येतुभिरिति । किमुक्तं भवतीत्यत्राह ब्राह्मणेति । श्रुतिषु मन्त्राणां प्रावश्यं केचिद्वदन्ति तद्व्युदासार्थमाह ब्राह्मणोक्तेति । ब्राह्मणोक्तार्थविशदीकरणरूपो मन्त्र इति प्रयोजकम्” । सङ्ग्रहेणोक्तत्य विस्तरेण कथनं विस्तृतस्य प्रतिपत्तिसौकर्याय सङ्ग्रहेण कथनमपि वैशद्यावहम् । नित्यनिर्दोषत्वाविशेषात् मन्त्रत्राणयोः मावश्वदौर्बल्यविभागोऽनुपपन्न इति भावः । एवं मन्त्रवर्णेन जीवब्रह्मभेदसिद्धि फलितां दर्शयति जीवस्येति । प्राप्तुरस्योपासकात्मखरूपस्य, प्राप्तव्यस्य परब्रह्मणश्च कथमैक्यमित्यर्थः । मान्त्रपर्णिकं ब्रह्म जीवादन्यदस्तु ; अस्यैवानन्दमयत्वं कथमित्यत्राह अनन्तरश्चेति । पूर्वस्मिन् अस्मिन्नपि सूत्रे शब्द हेतुसमुच्चये । विकारशब्दादिति सूत्रे स्वतन्त्रहेत्वन्तराभावान्न चशन्दः । तद्धि ‘आनन्दमयोऽभ्यासात्’ इति सूत्रशेषम् ॥ १६ ॥ उत्तर सूत्रस्य शङ्कामाह अत्राहेति । अत्र - उपासक प्राप्यभेदेऽभिहिते सतीत्यर्थः । 1 किमुक्तं भवतीति । किं संप्रहेणोक्तं भवति, उत विस्तरेणेत्यताहेत्यर्थः । साध्ये ब्राह्मणोक्तस्येति पदस्य फलमाह श्रुतिष्विति । अपूर्वतयाऽर्थवोधकं व्राह्मणम्, मन्त्रस्तु ज्ञातार्थस्मारक इति मन्त्रस्य पश्चादुत्पत्तिरिति ब्राह्मणप्रावल्यवादः । मन्त्रा एवं प्राकस्थिताः, ब्राह्मणं पश्चादुत्पन्नम्, ‘मन्त्रेषु कर्माणि कवयो यान्यपश्यन तानि नेतायां बहुधा संततानि’ इति रीत्या मन्त्रप्रावल्यवादः कतिपयाधुनिक लोकप्रसिद्धः । अत्र द्वितीयपक्षदूषणं ब्राह्मणो कस्मेति पदेन भाव्ये सूचितमिति भावः । अन ब्राह्मणोक्तार्थविशदीकरणस्य मन्त्रे दर्शनात् ब्राह्मणस्य प्राच्यत्वं किं न स्यादिति प्रतिबन्धा तद्दपणमिति भावः । भाष्यकृतां वस्तुतः पौर्वापर्यमत्र कस्यापि नेष्टमिति दर्शयति नित्येति ॥ । 2 प्रयोजकमिति । अत्र मन्दप्रदर्शने हेतुरित्यर्थः । एक्लोकस्य वैशद्यचिकीर्षया नान्यस्य वाक्यस्य प्रवृत्तिः । किं तु उभयं स्वतन्त्रम् । अस्माकं तु उभयं श्रृण्वतां वैशद्यमर्थात् भवतीति तात्पर्यम् ।
१-१-६ आनन्दमयाधिकरणम् १-१-१७ २३१ वथ, किंतु तस्यैवोपासकस्य निरस्तसमस्ता विद्यामन्यनिर्विशेषचिन्मात्रैकरसं शुद्धं स्वरूपम् । तदेव “सत्यं ज्ञानमनन्तं ब्रह्म’ इति मन्त्रेण विशोध्यते । तदेव च, “यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह” इति वाकानसागोचरतया निर्विशेषमिति गम्यते । अतस्तदेव मान्त्रवर्णिकमिति तस्मादतिरिक आनन्दमय इति । अत उत्तरं पठति- नेतशेऽनुपपत्तेः ॥ १-१-१७ ॥ परमात्मन इतरो जीवशब्दाभिलयो मुक्तावस्थोऽपि न भवति मन्त्रवर्णिकः । कुतः ? अनुपपत्तेः । तथाविधस्यात्मनः निरुपाधिकं विपश्चित्त्वं नोपपद्यते । इदमेव हि निरुपाधिकं विपश्चित्वं ‘सोऽकामयत बहु स्यां प्रजायेय’ इति सत्यसङ्कल्पत्वप्रदर्शनेन विवरिष्यते । विविधं पश्यवित्वं हि विपश्चित्त्वम् । पृषोदरादित्वात् पश्यच्छन्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्विच्छन्दः । यद्यपि मुक्तस्य विपश्चित्वं संभवति–तथापि तस्यैवात्मनः संसारदशायाम विपश्चित्त्वमप्यस्तीति निरुपाधिकं विपश्चित्त्वं नोपपद्यते । निर्विशेषचिन्मात्र तापत्रस्य मुक्तस्य विविधदर्शनाभावात् सुतरां विपश्चित्त्वं न संभवतीति ॥ 1 तस्यैवेति । कारणाविद्या आच्छादिका अविद्या, कार्याविद्या विशेषिका अविद्या च विवक्षिता समस्तशब्देन । गन्धशब्देनापारमाध्यै फलितम् ; अपुनः संबन्धो वाऽभिप्रेतः । शुद्धस्–कर्म तत्फलान्वयरहितम् । । निर्विशेषत्वमेवोपपादयति तदेवेति । ज्ञानपदेन निर्विशेषत्वमर्थसिद्धम् । ज्ञानस्य ज्ञानान्तराश्रयत्वाद्ययोगात् । वाङ्मनस निवृत्तिवचनाच्च निर्विशेषत्वसिद्धिमाह तदेव चेति । तदेव शुद्धखरूपमेव । उपासक प्राप्यभेदोऽवस्थाभेदेनाप्युपपन्न इति न जीवविलक्षणत्वसिद्धिरित्यर्थः । नेतरोऽनुपपत्तेः ॥ इतरशब्दस्य सप्रतियोगिकत्वात् परमात्मन इत्युक्तम् । अनुपपत्तेरित्यस्मिन् पदे पञ्चम्यर्थं पश्चाद्वक्ष्यन् अनुपपत्तिस्खरूपमाह तथेति । निरुपाधिकं विपश्चित्वमिति । कर्मविशेषेन्द्रियाद्यनपेक्षत्वं निरुपाधिकत्वम् । इह चोपाधिरस्ति चेत्, स वक्तव्यः । तदभावादेव तदनुक्तिरिति केवलविपचिच्छन्दो निरुपाधिकं विपश्वित्त्वमाहेत्यर्थः । न केवलं निरुपपदत्वात् विपश्चित्त्वस्य निरुपाधिकत्वमर्थसिद्धम् ; श्रुतिसिद्धमपीत्याह इदमेवेति । मुक्तस्य निरुपाधिकविपश्चित्त्वं संभवतीति शङ्कायाम्किं भवदभिमतमुक्तस्य विपश्चित्त्वोपपत्तिः, उत्तास्मदभिमतमुक्तस्येति विकल्पमभिप्रेत्य स्वाभिमतस्य मुक्तस्य तदनुपपत्तिः इदमेवेत्यादिभाष्येणोच्यते । विपश्विच्छन्दार्थे ज्ञाते हि, जीवे तदनुपपत्तिर्वाच्येत्यत्राह विविधमिति । तर्हि विपश्यच्चिदिति वक्तव्यमित्यत्राह पृषोदरादित्वादिति । “पृषोदरादीनि यथोपदिष्टम्” इति पाणिनिः । पृषच्छब्दावयवतकारलोपवत् यच्छब्दलोपः । पाणिनिवत् आप्ततममुनिभिः कृतनिर्वाहत्वात् ईदृशशब्दानां साधुत्वस्य पाणिन्यभिमतत्वमनेन ज्ञातं भवति । अतो विविधं पश्यच्चेतनत्वं विपश्चित्त्वमित्यर्थः । चिच्छब्दस्य ज्ञानवाचित्वे विविधपश्यच्चिच्चमिति बहुबीहिः । स्वपक्षे मुक्तस्य निरुपाधिकविपश्चित्त्वायोग उक्तः ; अथ पराभिमतमुक्तस्य विपश्वित्वायोगमाह निर्विशेषेति । विपब्धि (पश्य ?) त्त्व” मात्रमेव न संभवतीत्यभिप्रायेण सुतरामित्युक्तम् । न संभवतीतीत्यत्र इतिशब्दः सूत्रस्थपञ्चमीव्याख्यानम् । न केवलं विपश्विच्छन्दमात्रासङ्गतिः, 1 अपारमार्थ्यमिति । परमार्थत्वे वस्तुनाशेऽपि गन्ध ईषत् शिष्टः कदाचित् स्यात् । अपरमार्थत्वादवशेषासंभव इति ज्ञापनादिति भावः । ः विपश्चित्त्वमातमित्यत पश्यत्त्वमातमिति पश्यचित्वमातमिति वा पाठो युक्तः ।
२३२ १-१-१७ 9 न केनापि प्रमाणेन निर्विशेषं वस्तु प्रतिपाद्यत इति च पूर्वमेवोक्तमम् । ‘यतो वाचो निवर्तन्ते’ इति च वाक्यं यदि वाड्यनसयोः ब्रह्मणो निवृत्तिमभिदधीत न ततो निर्विशेषतां वस्तुनोऽवगमयितुं शक्नुयात् । अपि तु वाङ्मनसयोस्तत्राप्रमाणतां वदेत् । तथा च सति तस्य तुच्छत्वमेवापद्यते । ‘ब्रह्मविदाप्नोति’ इत्यारभ्य ब्रह्मणो विपश्चित्त्वं जगत्कारणत्वं ज्ञानानन्दैकतानताम् इतरान् प्रति आनन्दयितृत्वं कामादेव चिदचिदात्मकस्य कृत्स्नस्य स्रष्टृत्वं सृज्यवर्गानुप्रवेशकृततदात्मत्वं भयाभयहेतुत्वं वाय्वादित्यादीनां प्रशासितृत्वं शतगुणितोत्तरक्रमेण निरतिशयानन्दत्वम् अन्यच्चानेकं प्रतिपाद्य, वाङ्मनसयोः ब्रह्मणि प्रवृत्त्यभावेन निष्प्रमाणकं ब्रह्मेत्युच्यत इति भ्रान्तजल्पितम् । ‘यतो वाचो निवर्तन्ते’ इति यच्छन्द निर्दिष्टमर्थम् ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यानन्दशब्देन प्रतिनिर्दिश्य तस्य ब्रह्मसंवन्धित्वं ब्रह्मण इति व्यतिरेकनिर्देशेन प्रतिपाद्य, तदेव वामनसागोचरं विद्वान् इति तद्वेदनमभिदधत् वाक्यं जरद्गवादिवाक्यवत् अनर्थकं वाच्यनन्तर्गतञ्च स्यात् । सर्वप्रमाणविरोधश्चेत्याह न केनापीति । आर्थगुणनिषेधपरस्य सत्यज्ञानादिवाक्यस्य परिहारः प्रथमसूत्रोक्तोऽनुसन्धेयः । ‘यतो वाच’ इत्यस्य वाक्यस्य निर्विशेषपरत्वं व्युदस्यति यतो वाच इत्यादिना । यदीत्यनुज्ञा (न) प्रदर्शनम् (नार्थम्) । तर्हि किमवगमयेदित्यपेक्षायाम् — न केवल मिष्टाबोधकत्वम्, किंत्वनिष्टबोधकत्वं चेत्यभिप्रयन्नाह अपि त्विति । कथमस्या निष्टत्वमित्यत्राह तथा च सतीति । मनसोऽप्यगोचरत्वेन सर्वप्रमाणागोचरत्वं सिद्धं कृत्वा प्रमाणान्तरागोचरत्वमप्युंजीपव्य तुच्छत्वमापादितम् । किं सर्वधा वाङ्मनसनिवृत्तिरुच्यते, उत इयत्तागोचरवाङ्मनस निवृत्तिः ? । द्वितीयशिरसोऽभ्युपगमो वक्ष्यत इति प्रथमशिरसि तुच्छत्वमुक्तम् । ब्रह्मविदाप्नोति परमिति पूर्वापरवाक्यविरोधात् ब्रह्मणस्तुच्छत्वं व्याहतमित्यत्राह ब्रह्मविदिति । व्याहतार्थं श्रुतिर्न प्रतिपादयतीति चेत् तत् निर्विशेषपरत्वेऽपि तुल्यमित्यभिप्रायेण तत्तद्वाक्यप्रतिपन्नान् गुणानाह विपश्चित्त्वमित्यादिना । ‘ब्रह्मणा विपश्चिता’, ‘आकाशः संभूतः’, ‘रसो वै सः’, ‘एष वानन्दयाति’, ‘सोऽकामयत बहु स्यां प्रजायेय’, ‘तदनुप्रविश्य’, ‘अथ सोऽभयं गतो भवति’, ‘भीषाऽस्माद्वातः पवते’, ‘स एको मानुष आनन्दः’ इत्येतेषां वाक्यानामर्थो विपश्चित्त्वमित्यादिना उक्तः । शतगुणितोत्तरक्रमेणेति । निर्विशेषत्वं विवक्षितं चेत् — गुणापकर्षो वाच्यः, गुणप्रकर्षमुक्ता वाङ्मनसनिवृत्त्यभिधानमानन्त्यविवक्षाकृतमित्यभिप्रायः । अन्यच्चेति आदित्यमण्डलान्तर्तित्वादिकं विवक्षितम् । एवम् — पूर्वापर वाक्यव्याहतिपरिहारार्थं स्वरूपमङ्गीक्रियते ’ चेत्, तद्वत् गुणाश्च स्वीकार्या इत्युक्तं भवति । एवं प्रकरणविरोध उक्तः ; अथ खवाक्यविरोधमाह यतो वाच इति यच्छन्दनिर्दिष्टमानन्दमित्यत्र “कश्चै (स्यै )ष मौनः” “यतो न वेदाः” इति सनत्सुजातो तश्लोकद्वयैकार्थ्यमनुसन्धेयम् । व्यतिरेकनिर्देशेन – भेदनिर्देशेन; वैयधिकरण्येनेत्यर्थः । यच्छन्देनानन्द निर्देश. आनन्दशब्देन प्रतिनिर्देशः, ब्रह्मसंबन्धित्व निर्देशश्च वागविषयत्वे व्याहताः स्युः ; विद्वानिति तद्वेदनाभिधानं मनोगोचरत्वाभावे व्याहतं स्यादित्यर्थः । अनर्थकं वाच्यनन्तर्गतं च स्यादिति । अनर्थकम् व्याहतार्थे स्यात् । व्याहतिपरिहारोऽभिमतश्चेत्, ब्रह्म न शब्दवाच्यमितीदं समुद्रघोषादिवत् 1 स्वरूपमङ्गीक्रियते चेदिति । तुच्छत्वं नेष्यते चेदित्यर्थः । " । 3
२३३ अतः शतगुणितोत्तरक्रमेण ब्रह्मानन्दस्यातिशयेयत्तां वक्तुमुद्यम्य तस्येयत्ताया अभावादेव वाङ्मनसयोस्ततो निवृत्तिः, ‘यतो वाचो निवर्तन्ते’ इत्युच्यते । एवायत्तारहितं ब्रह्मण आनन्दं विद्वान् कुतश्चन न विभेति इत्युच्यते । किञ्च अस्य मान्त्रवर्णिकस्य विपश्चितः ‘सोऽकामयत्त’ इत्यारभ्य वक्ष्यमाणस्वसङ्कल्पाचवलृप्तजगजन्मस्थितिजगदन्तरात्मत्वादे मुक्तात्मस्वरूपादन्यत्वं सुस्पष्टमेव ॥ ६७ ॥ इतञ्चोभयावस्थात्प्रत्यगात्मनोऽन्य आनन्दमयः- भेदव्यपदेशाच्च ॥ १ १ १८ ॥ “तस्मादा एतस्मादात्मन आकाशः” इत्यारभ्य मान्त्रवर्णिकं ब्रह्म व्यञ्जयत् वाक्यमन्नप्राणमनोभ्य इव जीवादपि तस्य भेदं व्यपदिशति, “तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमयः” इति । अतो जीवादस्य व्यपदेशाच्चायं मान्त्रवर्णिक आनन्दमयोऽन्य एवेति ज्ञायते ॥ १८ ॥ वाक्यमेव न स्यादित्यर्थः । वाक्यत्वे व्याहतिरनिवार्येति भावः । ब्रह्मणोऽशब्दगो’ चरत्वं (त्वे ?) ‘ब्रह्म न शब्दगोचरः इत्यनेनापि शब्देन व्याहतं स्यादिति चाभिप्रायः ॥ सत्यं ज्ञानमिति स्वरूपस्य सत्यत्वं कण्ठोक्तम्, न गुणानाम् अतस्तन्निषेध इति चेत्-न; तत्र सत्यपदेन ह्यविकारित्वमुक्तम्, न तु मिथ्यात्यव्यावृत्तिः । मिथ्यात्वव्यावृत्तिरुक्ताऽस्तु ; तथापि गुणानां च सत्यत्वं दुरपह्नवम् प्रमाणसिद्धत्वात् । प्रामाणिकत्वं हि सत्यत्वम् । किञ्च गुणानां सत्यत्वं कण्ठोक्तम्, “सत्यकामः सत्यसङ्कल्पः “, “त इमे सत्याः कामाः ”, “ एतांश्च सत्यान् कामान्” इत्यादिभिः । अतः स्वरूपवत् गुणा अपि स्वीकार्याः ; प्रमाणोपपत्तिसाम्यात् । अतो वाङ्मनसनिवृत्तिर्न निर्विशेषत्वनिबन्धना ।
ननु न शब्देन मुख्यवृत्त्या प्रतिपाद्यते ब्रह्म; अपि तु लक्षणया । अतः यतो वाच इति मुख्यवृत्तिविषयो निषेध इति विषयविभागान्न व्याहतिरिति चेत् — न; निवर्तन्त इत्येकस्य वाक्यस्य मुख्यत्वायानेकवाक्यलक्षणाश्रयणायोगात् । “भूयसां स्यात् बलीयस्त्वम् (सधर्मत्वम् ?)” इति न्यायादेकवाक्यस्वारस्यभङ्गेन अनेकवाक्यस्वारस्य ह्यनुवर्तनीयम् । किञ्च अत्र ‘न हिंस्यात् सर्वा भूतानि’, ‘अमीषोमीयं पशुमालमेत’ इतिवत् विषयविभागेनोभयमुख्यत्वं सिध्यति चेत् — तदेव हि युक्तम् । लोके च गामानय बलीवदं विनेति (बलीव नेति ?) विषयविभागो मुख्यत्वानुरोधी दृश्यते ॥ अविरुद्धार्थः क इत्यपेक्षायां विषयविभाग दर्शयति अत इति । वाङ्मनस निवृत्तिरस्ति चेत् — कथं वेदनवचनमित्यत्राह एवमिति । इयत्तारहितत्वेन वेदनमुच्यत इत्यथी । अनुपपत्तेरिति सौत्रपदस्य विपश्चिच्छन्दोक्तसर्वज्ञत्वानुपपत्तिरर्थ उक्तः ; अथ सर्वशक्तित्वानुपपत्तिमर्थान्तरमाह किश्चेति । इदं सूत्रं मान्त्रवर्णिकसूत्रोक्त हेत्वन्यथासिद्धिपरिहार परतया तच्छेषमिति स्वतन्त्र हेतु परत्वाभावात् चशब्दाप्रयोगः ॥ १७ ॥
एवमनेन सूत्रद्वयेनोपक्रम स्थहेतुरनुसंहितः ; अथ मध्यगतं स्फुटतरं हेतुमनुसन्धतेऽनन्तरसूत्रेण । आनन्दमयस्य जीवादन्यत्वं स्ववाक्यैकदेशमयडन्तपदवाच्यनिरतिशयानन्दयोगेन प्रथमसूत्रेणोपपादितम् । अतोऽत्र स्वाक्यस्थ हेतुश्वोक्तो भवति ॥ भेदव्यपदेशाच्च ॥ यदि जीवात्मस्वरूपं शुद्धावस्थं ब्रह्म, तर्हि 1 अत्र भावप्रकाशिकायाम् इत्यनेनापि इत्यस्य इत्येतत् अनेनापि -स्वेनापि व्याहतं स्यादिति व्याख्यानात् गोचरत्वे इति सप्तम्यन्तपाठ उन्नीयते । 2 कामनासंकल्पयोः सत्यत्वं सत्यविषयकत्वम् । तेन गुणसत्यत्वमपि सिद्धम् । सत्यकामपदस्य नित्यविभूतिपरत्वे बहुब्रीहिणा तद्वत्त्वरूपगुणसत्यत्वमपि सिद्धम् । 2-30
२३१ इतश्ध जीवादन्यः– सतप्रकाशिकोपेते श्रीभाग्ये कामाच्च नानुमानापेक्षा ॥ १११९ ॥ जीवस्याविद्या परवशस्य जगत्कारणत्वे ह्यवर्ज़नीया आनुमानिकप्रधानादिशब्दाभिधेयाचिद्वस्तुसंसर्गापेक्षा । तथैव हि ‘चतुर्मुखादीनां कारणत्वम् । इह च सोऽकामयत चहु स्यां प्रजायेय’ इत्यचित्संसर्गरहितस्य स्वकामादेव विचित्रचिदचिद्वस्तुनः सृष्टिः, ‘इदं सर्वमसृजत, यदिदं किञ्च’ इत्याम्नायते । अतोऽस्यानन्दमयस्य जगत् सृजतो नानुमानिकाचिद्वस्तुसंसर्गापेक्षा प्रतीयते ॥ १२ ॥ इतश्च जीवादन्य आनन्दमयः- अस्मिन्नस्य च तद्योगं शास्ति ॥ ११२० ॥ अस्मिन् — आनन्दमये अस्य - जीवस्य तद्योगम् - आनन्दयोगम् शास्ति शास्त्रम्, “रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” इति । रसशब्दाभिधेयानन्दमय लाभादयं जीवशब्दाभिलेपनीयः आनन्दी भवतीत्युच्यमाने, यल्लाभात् य आनन्दी भवति, स स एवेत्यनुन्मत्तः को ब्रवीतीत्यर्थः । एवमानन्दमयः परं ब्रह्मेति निश्चिते सति, “यदेष आकाश आनन्दः “, " विज्ञानमानन्दं ब्रह्म” अन्नमयादेविकावस्थायां भेदव्यपदेशो न संभवति ; तस्मादन्नमयादिभिरिव जीवेनैक्यं ब्रह्मणो न संभवतीत्यर्थः । विज्ञानशब्दस्यान्तःकरणपरत्वानुपपत्त्यादिकं पूर्वोक्तमिहानुसन्धेयम् ॥ १८ ॥ अथोपसंहारस्थहेतुमाह — कामान्च नानुमानापेक्षा ॥ कैश्चित् प्रधानव्यावृत्तिपरमिदं सूत्रं व्याख्यातम् । तत्पक्षोऽतिदुस्स्थत्वात् नानूद्य दूषितः । पूर्वाधिकरणे अचिव्यावृत्तिः कृता । प्रधानत्वशङ्काहेतुश्चास्मिन्
ननुवाके” नास्ति; अपेक्षाशब्दवैयर्थ्यञ्च स्यादिति । जीवस्येति । अत्यन्तम चिदनपेक्षत्वे स्वरूपपरिणामप्रसङ्गः । देहातिरिक्ताचिदनपेक्षत्वं देवादिसृष्टौ चतुर्मुखादीनामप्यस्ति । अतस्तत्परिहारार्थमाह इह चेति । सङ्कल्पहेतु भूतकरणकलेवररावस्था चित्संसर्गापेक्षा नास्तीत्यर्थः ॥ १९ ॥ । देहानपेक्षं सत्यसङ्कल्पत्वकार्यं स्रष्टृत्वमाविर्भूतगुणाष्टकस्य मुक्तस्यापि श्रूयत इति शङ्कां परिहरन्, ‘सोऽकामयत’ इति वाक्यादुपरितनहेत्वन्तरमाह । अस्मिन्नस्य च तद्योगं शास्ति ॥ कस्मिन् कस्य केन योगं किं शास्तीत्यपेक्षायामक्षरार्थमाह अस्मिन् — आनन्दमय इति । अस्मिन्निति विषयसप्तमी । ब्रह्मानुभवरूपानन्दस्य श्रावच्छेदकं ब्रह्म । शास्तिशब्दार्थः क., शास्त्रं किम् एतत्सूत्रार्थस्य हेतुत्वं कथमित्यत्राह रसो वै स इति । ‘रसो वै स’ इति शास्त्रमुक्तम् । उच्यमान इति शास्तिशब्दार्थ उक्तः । हेतुत्वमुपपादयति यल्लाभादिति । हेतुत्वस्य स्फुटतरत्वात् सूत्रे हेतुत्वानिर्देश इत्यभिप्रायेण अनुन्मत्तः को ब्रवीतीत्युक्तम् । मान्त्रवर्णिकसूत्रेऽपि हेतुत्वानिर्देशस्यायमेवाभिप्रायः ॥ । कथमानन्दमये जीवस्यानन्दयोगं वदति शास्त्रम्, आनन्दे द्यानन्दयोगं वदतीति शङ्कायामानन्दानन्दमयशब्दयोरेकविषयत्वमाह एवमिति । कथमानन्दशब्दस्यानन्दमयवाचित्वमित्यपेक्षायां विज्ञानशब्द- 1 एकावस्थायाम् - बद्धदशायामेवेति उपरि वक्ष्यते । 2 वक्ष्यमाणयादवप्रकाशीयरीत्या अनुवाकान्तरे तच्छंका सत्तत्या अस्मिन्
ननुवाके इत्युक्तम् । 3 तद्योगमित्यत्र तच्छब्दार्थे आनन्दे अनुभवरूपे अस्मिन्नित्यस्य विषयतयाऽन्वय इति भावः ।
११ ६ आनन्दमयाधिकरणम् (पूर्वपक्षसिद्धान्तहेतुकोडीकारः) २३५ इत्यादिष्वानन्द शब्देनानन्दमय एव परामृश्यते, यथा विज्ञानशब्देन विज्ञानमयः । अत एव “आनन्दं ब्रह्मणो विद्वान्” इति व्यतिरेकनिर्देशः । अत एव च ‘आनन्दमयमात्मानमुपसङ्क्रामति’ इति फलनिर्देशश्च । उत्तरे चानुवाके पूर्वानुवाकोक्तानाम् अन्नमयादीनाम् ‘अन्नं ब्रह्मेति व्यजानात्’, ‘प्राणो ब्रह्मेति व्यजानात्’, ‘मनो ब्रह्मेति व्यजानात्’, ‘विज्ञानं ब्रह्मेति व्यजानात्’ इति प्रतिपादनात् ‘आनन्दो ब्रह्म’ इत्यप्यानन्दमयस्यैव प्रतिपादनमिति विज्ञायते । तत एव च तत्रापि ‘आनन्दमयमात्मानमुपसंक्रम्य’ इत्युपसंहृतम् । अतः प्रधानशब्दाभिलंप्यादर्थान्तरभूतस्य परस्य ब्रह्मणो जीवशब्दाभिलपनीयादपि वस्तुनोऽर्थान्तरत्वं सिद्धम् ॥ २० ॥ इति आनन्दमयाधिकरणम् ॥ निर्वाहे पूर्वोक्तन्यायमिहातिदिशति यथा विज्ञानेति । अत्र पूर्वोक्तहेतवोऽनुसंघेयाः । स्वरूपस्यानुकूलवेदनीयत्वादानन्दशब्दो धर्मिपरः ; धर्मपरत्वेऽप्यपर्यवसानाद्धर्मिपर इति भावः । व्यतिरेक निर्देशं हेतुमाह अत एवेति । अत एव - आनन्दानन्दमयशव्दयोरेकविषयत्वेनेत्यर्थः । हेत्वन्तरमाह अत एवेति । स्थानप्रमाणमाह उत्तरे चेति । पूर्वानुवाके एतदनुवाकोर्ध्वभागे च मयडन्तपद निर्दिष्टानाम् अत्र मयडरहित पद निर्देशन करणे आनन्दशब्देन प्रतिपादनात् आनन्दमय एवानन्दशब्दवाच्य इत्यर्थः । आनन्दशब्दवाच्यस्य परमात्मत्वं हि पराङ्गीकृतम् । तद्धेतुव्यपदेशाच्च, अस्मिन्नस्य च तद्योगं शास्ति इति सूत्रयोरियं भिदापूर्वत्र सामान्येन समस्त सुखहेतुत्वम्; उत्तरत्र मोक्षहेतुत्वञ्चोक्तमिति । तदा ‘को ह्येवान्यात् कः प्राण्यात्’ इत्यत्र अन्यात्प्राण्यादिति पदाभ्यां सत्ता हेतुत्वं सुखहेतुत्वं चोक्तं भवति । यद्वा पूर्वसूत्रमुपायपरम् एतत्तु उपेय परमिति भिदा; ‘आनन्दयाति’, ‘रसो वै सः’ इति तादृशत्वप्रतीतेः । तदा अन्यात्प्राण्यादिति पदाभ्यां सांसारिक सुखहेतुत्वं मोक्षहेतुत्वं चोक्तं भवति । अथवा अन्यादिति सताहेतुत्वं प्राण्यादित्यविशेषेण त्रैवर्गिकापवर्गिक सेकल सुखहेतुत्वम् । अधिकरणार्थमुपसंहरति अत इति । जीवसामानाधिकरण्यं शरीरसंबन्धः शोध्यत्वं विकारश्रवणं प्राप्यत्वानन्त्यादीनामवस्था मेदेनोपपत्तिः ज्ञानस्वरूपत्ववाङ्मनसनिवृत्त्यभिधानरूपार्थगुणनिषेधश्च आनन्दमयस्य प्रत्यगात्माव्यतिरिक्तत्वे हेतुः । स्वतस्सिद्ध निरतिशयदशा शिरस्कानन्दाभ्यासः आनन्दयितृत्वं भयाभयहेतुत्वं समस्त प्रशासितृत्वं प्राप्यत्वं निरुपाधिकविपश्चित्त्वं बद्धमुक्तयोरसंभावितमाकाशादिसमस्तजगत्कारणत्वं पद्धदशायामेव विज्ञानमयाज्जीवद्भेिदव्यपदेशः करणकले वराद्यनपेक्षसत्यसङ्कल्पत्वम् मुक्तानां निरतिशयभोग्यत्वं च सिद्धान्तहेतुः । शरीरशरीरिभावः तस्य निरुपाधिकत्वं प्रसाद्यत्वं प्राचुर्यसंभवः बद्धदशायामेव भेदव्यपदेशस्यावस्थाभेदेन निर्वाहानुपपत्तिः, प्रभाप्रभावन्न्यायेन स्वरूपतो धर्मतश्च ज्ञानत्वोपपत्तिः वाङ्मनसनिवृत्तेरियताराहित्यनिबन्धनत्वं [च ?] पूर्वपक्षयुक्तिपरिहारहेतवः । षष्ठ्याऽन्यत्वमवेदि नैनमवदत् श्लोको नचाज्ञातता ज्ञातस्यास्य तथापि नाबयचिता तस्यान्य आत्मा श्रुतः । शोध्यत्वं च विकारवाचकवचः तद् ब्रह्म पुच्छं भवेत् न त्वानन्दमयः स चान्नमयवत् कोशो बहिः कथ्यते ॥
२३६ (पुच्छब्रह्मवादतन्निरासश्लोकौ ) पुल्ँलिङ्गान्तप्रधान प्रकृत परवचो रूपणं चाप्यनन्यैः श्लोकाः पुच्छं न चाहुः स्वरसमपि हि नः सूत्रमन्योऽन्तरो न । षष्ठ्यादिश्रांशभावात् निरतिशयतया रूपणात् आनुरूप्यात् पर्यायत्वात् अनन्यात्मकवचनतया पुच्छहेतुः परास्तः ॥ इति पुच्छब्रह्मवाद - तन्निराससङ्ग्रहः ॥ भास्करीये तु - अभ्यासादिति पदस्यानन्दशब्दाभ्यासादित्यर्थ उक्तः । कथमानन्दशब्दाभ्यासस्य परमात्मत्वसाधकत्वमित्यपेक्षायाम् भानन्दशब्दस्य कारणविषयत्वात् निरतिशयानन्दविषयत्वाच्चेति वक्तव्यम् । तत्र हेत्वन्तरसाकाङ्क्षस्य हेतुत्वोक्तेरपि निराकाङ्क्षस्य हेतुत्वपरत्वं युक्तम् । नेतरोऽनुपपत्तेरित्यत्र च संसारिजीवादन्यत्वोपपादनमयुक्तम्, निरतिशयानन्दयोगिनो मान्त्रवर्णिकस्य ब्रह्मणः संसारित्वशङ्काया अभावात् । भेदव्यपदेशाच्चेति सूत्रस्यापि ‘रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति’ इति लब्धलब्धव्यभावेन भेदोपपादकत्वमुक्तम् । ततोऽपि विज्ञानमयादन्य इत्यन्यत्वव्यपदेशस्यैव हेतुत्वोक्तिपरत्वमत्यन्तोचितम् ; मेदव्यपदेशशब्द्स्वारस्यात् । कामाच्चेत्यादिसूत्रं च न प्रधानव्युदासपरम्; अपेक्षाशब्दवैयर्थ्यात् ; निरतिशयानन्दयोगिनः प्रधानत्वशङ्काया हेत्वभावात् । तृतीयसूत्रचरमसूत्रगतयोस्तच्छन्दयोरानन्दपरतया एकरूपार्थवाचित्वं युक्तम् । ‘यदा चैवैष’ इत्यादिवाक्यविषयतया निर्वाहे तन्न सिध्यति । वक्ष्यमाणमपि दूषणमिहानुसन्धेयम् ॥…. .. यादवप्रकाशीये च - अभ्यासादिति पदस्य ब्रह्मशब्द भ्यास परत्व [मुक्त ? ] मयुक्तम् ; विज्ञानमयपर्यायेऽपि ‘ब्रह्म ज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेद’ इति ब्रह्मशब्दस्य अभ्यस्ततया हेत्वनैकान्त्यात् । तद्धेतुव्यपदेशाच्चेत्यस्य प्राचुर्यस्य हेतुव्यपदेशादित्यर्थो न युक्तः, तद्विषयस्य ‘एष ह्येवानन्दयाति’ इति वाक्यस्यानन्द हेतुत्वप्रतिपादकस्य प्राचुर्यहेतुवाचित्वाभावात् प्रथमप्रकृतस्य साध्यस्य हेत्वन्तरवाचित्वाभावेन चशब्दानन्वयाच । नेतरः, भेदव्यपदेशादित्यनयोरनुपपत्तिः पूर्ववत् । कामाच्चेत्यादिसूत्रे च “अधीहि भगवो ब्रह्म” इति ब्रह्मविषयाया विद्यायाः, “सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता” इति परमव्योमविषयत्वावगमात् परमाकाशस्य चाचेतनस्य प्रधानाविलक्षणत्वात् अचेतनस्य स्वकार्यापेक्षया कारणत्वसंभवाच्च ब्रह्मशब्दवाच्यं प्रधानमित्याशङ्कय निराक्रियत इति यदुक्तम् तदयुक्तम्; परमव्योमप्रतिष्ठितत्वमात्रेण तद्विषयत्वासिद्धेः । न हि ब्राह्मणभूयिष्ठदेशे वेदविद्या प्रतिष्ठितेत्युक्ते तस्यास्तद्देशप्रतिपादकत्वम् ॥ ‘परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ इति परमाकाशस्य ब्रह्माधारत्वावगमात् तस्य ब्रह्मत्वशङ्कानिराकरणमस्मिन् सूत्रे क्रियत इत्यप्ययुक्तम् । ‘मन्त्रवर्णिकमेव च गीयते’ इति मन्त्रवर्णं विषयीकुर्वता सूत्रेणैवास्याः शङ्कायाः प्रतिहतोदयत्वात् । नापि सत्यत्वज्ञानत्वत्रिविधपरिच्छेद विरहादयः परमाकाशस्य सामस्त्येन संभवन्ति । अपेक्षा शब्दवैयथ्यं च पूर्ववत् । चरमसूत्रमप्येवं व्याख्यातम् - अस्मिन् ब्रह्मणि प्रतिबुद्धस्यास्य जीवस्य तद्योगं परमात्मप्राप्तिं दर्शयति ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति, तथा ‘यदा होवैष’ इत्यादिवाक्यैश्चास्मिन् निष्ठां गतस्यास्य ‘अथ सोऽभयं गतो भवति’ इति ब्रह्मप्राप्तिरुच्यत इति ।
१-१-७ अन्तरधिकरणम् ( अवतारिका ) २३७ यद्यपि मन्दपुण्यानां जीवानां कामात् जगत्सृष्टिः अतिशयितानन्दयोगो भयाभयहेतुत्वमित्यादि न संभवति -तथापि विलक्षण पुण्यानामादित्येन्द्रप्रजापतिप्रभृतीनां संभवत्येवेतीमामाशङ्कां निराकरोति- तदनुपपन्नम् ; मन्त्रवर्णोदितायाः परमात्मविदस्तत्प्राप्तेः, मान्त्रवर्णिकमेव च गीयत इति सूत्रेणैव दर्शितत्वात् इह तदुक्तयनपेक्षणात् । ‘यदा होवैष’ इत्यादिवाक्योक्ताभयप्राप्तिहेतुत्वञ्च तद्धेतुव्यपदेशाच्चेति सूत्रेणैव दर्शितमिति इह तदुक्तिरनपेक्षिता । तद्विषयभूतवाक्योक्तमानन्दयितृत्वं हि मोक्षानन्दहेतुत्वम् । मोक्षानन्दश्च संसारभयनिवृत्तिपूर्वकः । तस्मादानन्दयितृत्ववाक्यासन्नतरवाक्योक्तमभयप्राप्तिहेतुत्वं मोक्षप्रदत्वान्तर्भूतमिति न पृथग्धेतुः ॥ आनन्दयातीति वाक्ये आनन्दहेतुत्वमुक्तम् । ब्रह्म प्राप्तस्यै वचानन्दः । अतोऽस्मिन् वाक्ये अभयशब्दवाच्यब्रह्मप्राप्तिरुच्यत इति चेत् —न; तस्य ब्रह्मशब्दसामानाधिकरण्याभावात् ‘अथ तस्य भयं भवति’ इत्युक्तभयाभावप्राप्तेरेव ‘अथ सोऽभयं गतो वमति’ इत्युच्यमानत्वाच्च । अतो भवनिवृत्तिपूर्वक निरतिशयानन्दहेतुत्वं तद्धेतुव्यपदेशादित्यन्तर्भूतमिति न पृथग्वक्तव्यम् । अतो मोक्षप्रदत्वेऽभिहिते मुक्तप्राप्यत्वकथनं प्राप्तेर्निरतिशयानन्दत्वरूपविशेषकथनं चात्यन्तापेक्षितमिति तदेव वक्तव्यम् । अतः सूत्राणां यथोक्त एवार्थः ॥ इति आनन्दमयाधिकरणम् ॥ ; ; अथावान्तरसङ्गतिमाह यद्यपीति । कारणवादिवाक्यानां परमात्मपरत्वं हि निरूप्यते तत्र कारणवाक्यत्वाभावेऽपि कथमन्तरादित्यविद्याऽत्र निरूप्यत इति चेत् — उच्यते, आनन्दमयाधिकरणशेषतयेति ॥ कथमुपनिषद्भेदे सत्यपि तच्छेषतया निरूपणम् ॥ इत्थम् । आनन्दवल्ल्याम्, " स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इत्यानन्दमयस्यैव आदित्यमण्डलवर्तित्वमुक्तम् । छान्दोग्यप्रतिपादितस्य आदित्यान्तर्वर्तिनो देहसंबन्धेन जीवानतिरेके सति आनन्दवल्ल्यामपि जीवानतिरिक्त आदित्यान्तर्वर्तिपुरुष उक्तः स्यादिति आनन्दमयो जीव एवेति शङ्कायां तच्छेषत्वेन उत्तराधिकरणारम्भ इति । अधिकरणभेदः उक्तन्यायाविषयभूतोपनिषद्भेदहेतुक’ ॥
ननु " तस्यैष एव शारीर आत्मा” इति वाक्यप्रतिपन्नशरीरसंबन्धस्य (?) परिहृतत्वात् शारीरत्वश्रवणहेतुकजीवत्वशङ्का नोपपद्यत इति चेत्उच्यते । तत्र यन्नमयादीनां शरीरत्वमुक्तम् । न हि ते प्रत्येकं करचरणादिसंस्थानवन्तः । तैः संबन्धश्वाधिष्ठात्रधिष्ठेयभावलक्षणः शेषशेषिभावलक्षणो वा येन केनापि प्रकारेणोपपद्यते । अत्र तु “हिरण्यश्मश्रुहिरण्यकेशः " इत्यादिना करचरणादिसंस्थानकं शरीरं श्रूयते । तस्य च कर्मकृतत्वं लोकप्रसिद्धम् । अतः उपकरणोपकर णित्व लक्षण संबन्धश्चार्थसिद्धः तत्राप्यन्नमयस्यात्मत्वश्रवणादात्मप्रतिसंबन्धिनः शरीरस्य करचरणादिमत्त्वात् तत्कृतजीवत्वशङ्कापि तत्रैव निरस्तेति चेन्न ; प्राणमयादीनां करचरणादिमत्त्वाभावात् ; अन्नमयस्य तु तथाविधत्वे सत्यपि तं प्रति विज्ञानमयस्यैव शरीरित्वात्, विज्ञानमयं प्रति शरीरिण आनन्दमयस्य करचरणादिमच्छरीरकत्वाभावात् । शरीरमात्रेण संबन्धमात्र निबन्धनशङ्केव तत्र निरस्ता । अत्र त्वानन्दमयस्यैव आदित्यान्तर्वर्तिनः करचरणादिमत्त्वं प्रतीयते । अतः पूर्वाधिकरणे शरीरमात्रेण संबन्धमात्रश्रवणादुत्थितायां जीवत्वशङ्कायां निरस्तायां पुनः करचरणादिसंस्थानकदेहविशेषेणोपकरणोपकरणित्वलक्षण संबन्धविशेषावगमेन जीवत्वशङ्का स्यादिति तन्निरासार्थमानन्दमयाधिकरणशेषत्वेन एतदधिकरणारम्भ इति । अयमर्थो यद्यपीत्यादिसङ्गतिग्रन्थेऽभिप्रेतः ॥
ननु
श्रुतप्रकाशिकोपेते श्रीभाव्ये ( अन्तरधिकरणम्) अन्तस्तद्धर्मोपदेशात् ॥ ११२१ ॥ इदमाम्नायते छान्दोग्ये –” य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यइमथुर्हिरण्यकेश आ प्रणखात् सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम । अन्तस्तद्धर्मोपदेशात् ॥ विषयं दर्शयति इदमिति । ‘य एष’ इति प्रसिद्धवन्निर्देशात् नानुवादरूपता शङ्कया ; अस्यार्थस्य प्रमाणान्तराप्राप्तत्वात्, “यदाग्नेयोऽष्टाकपालः " इतिवत् । आदित्यशब्दः, “दित्यदित्यादित्यपत्युत्तरपदाण्यः” इति ण्यप्रत्ययान्तो मण्डलवाची । " य एष एतस्मिन् मण्डले पुरुषः, यश्चायं दक्षिणेऽक्षन्” इति बृहदारण्यके, “य एष एतस्मिन् मण्डलेऽर्चिषि पुरुषः " इति तैत्तिरीयके च पुरुषस्य मण्डलवर्त्तित्वश्रवणात् । हिरण्मयशब्दो रमणीयत्वपरः, “हिरण्मय इति “रूपसामान्याच्चन्द्रमुखवत्” इति हि वाक्यकारः । दृश्यते योगिभिरित्यर्थः । " दृश्यते त्वमचया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः” इति श्रुत्यैकार्थ्यात् । “य एवं वेद’ इत्युत्तरत्रोपासनविधानादुपासनार्थमारोपितरूपपरमिदं वाक्यमिति नाऽऽशङ्कनीयम्; “न संदृशे तिष्ठति रूपमस्य” इत्युक्त्वा, “हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति” इति, “यदा पश्यः पश्यते रुक्मवर्णम्” इति प्रकरणे “मनसा तु विशुद्धेन " इति च विशुद्धमनोग्राह्यत्वो (त्वेनो) तेः । आरोपिताकारो हि दुष्टमनोग्राह्यः । न च रूपमस्येति खरूपमुच्यते, षष्ठीखारस्यभङ्गप्रसङ्गात् । अतो विग्रहविशिष्टस्य विशुद्धमनोग्राह्यत्वात् विग्रहपारमार्थ्यम् । किञ्च दृश्यत इति वर्तमानव्यपदेशाच उपासनाया आरोपितत्वमयुक्तम् । आत्मन्यारोप्यमाणं हि गरुडत्वं न ततः पूर्वं केनाप्यवगम्यते । इह । तूपासनविधानात्प्रागेव विद्यमानताऽनेन वर्तमानव्यपदेशेन प्रतीयते । अतो वास्तवत्वम् ॥ दृश्यत इत्यनेन पूर्वपूर्वोपासक प्रवाहैरारोपेणानुसंधीयमानत्वमुच्यत इति चेत् —–न; अशाब्दत्वात् । न ह्यारोपित (प्यं) दृश्यत इति श्रूयते ॥ दृश्यत्वमेवारोपितत्वमिति चेत्-न; व्युत्पत्तिविरोधात् । “दृश्यते त्वक्रयया बुद्धया” इति दृश्यतयोक्तपरमात्म स्वरूपस्याप्यवास्तवत्वप्रसङ्गाच्च ॥ तन्मिथ्यात्वं प्रमाणविरुद्धमिति चेत् — तुल्यम् । “आदित्यवर्णं तमसः परस्तात् " इति तमसः परस्तात् स्थितस्य विप्रहस्य स्वरूपस्येव मिथ्यात्वं हि प्रमाणविरुद्धम् । अतो वास्तवत्वसिद्धिः । अशरीरत्वश्रुतेरवकाशो वक्ष्यते । तस्य यथेति । अस्य वाक्यस्य वाक्यकारेण षडर्थाः पूर्वपक्षतया (त्वेन) सिद्धान्तत्वेन चोक्ताः । तत्रार्थत्रयस्य पूर्वपक्षत्वं तत्स्वभावादेवावगतम् । 1 कपिः - आदित्यः । “कपि चलने” इति धातोर्निष्पन्नः कपिशब्दः ; कं पिवतीति च । ‘कपिर्विमस्ति तेजनम्’ इति च वैदिकप्रयोगः । तस्य आसं मण्डलम् कप्यासम् । यथा आदित्यमण्डलं हृदयपुण्डरीकं च परमात्मन उपासनस्थानम्-तथा तस्योपासकस्याक्षिणी अप्युपासनस्थानमित्येकोऽर्थः । अयं नोपपद्यते । तथा हि’अग्निश्चेन्द्रश्च’ इतिवत् अपवादकचशब्दाद्यभावेऽपि समानविभक्त्यन्तयोः पदयोः स्वतः प्राप्तसामानाधिकरण्यस्वारस्यभङ्गः । पुण्डरीकसदृशे हृदये पुण्डरीकशब्दो गौणः स्यात् । हृदयपुण्डरीकमिति प्रयोगस्तु पुरुषव्याघ्र इतिवत्, “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति 1 हिरण्मयेन सामान्यम् - सादृश्यम् । हितत्वे सति रमणीयत्वम् रूपम् । यद्वा वर्णः । 2 एनमिति रूपविशिष्टपरमात्मवाचि ।
१-१-७ अन्तरधिकरणम् १-१-२१ २३९ स एष सर्वेभ्यः पाप्मभ्य उदितः । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । तस्यर्च साम च सूत्रविहितसमासत्वात् उपमानोपमेयवाचकशब्दसद्भावाच्च मुख्य एव । अत्र तु तदभावात् गौणत्वमवर्जनीयम् ; उपासनस्थानमिति प्रथमान्तपदाध्याहारः ; उपासकस्येति षष्ठ्यन्तपदाध्याहारश्च । तत्परिहाराय तस्येत्युपासकपरत्वे सति अप्रकृतपरामर्शित्वम् अनन्तरवाक्यस्थषष्ठ्यन्तशब्द विरूपार्थता च स्यात् । दिव्याङ्गवर्णनप्रकरणानौचित्यच । नामविधिवाक्यात्पूर्वं रूपकथन चितम् । ‘य एप एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्’ इति दक्षिणस्वाक्ष्णः उपासनस्थानत्वश्रवणात् अक्षिणी इति द्विवचनविरोधश्च । ऊर्ध्वमक्षिविद्याया उक्तत्वादिह तदुक्त्यनपेक्षणाद अस्य वाक्यस्य पुनरुक्तिश्च । अन्तरादित्यविद्यायाम्, ‘च एषोऽन्तरादित्ये ’ इति स्थानस्योक्तत्वात् अक्षिविद्यायां च ‘य एपोन्तरक्षणि’ इति स्थानस्योक्तत्वादुभयत्र स्थानविध्यपेक्षा नास्तीत्यनाकाङ्गितत्वादिदं वाक्यमनन्वितं स्यात् । ‘अन्तरादित्ये’ इत्यादित्यमण्डलस्य स्थानतया विहितत्वात् ’ एवमक्षिणी’ इत्यक्ष्णः स्थानत्वे विहिते सति स्थानभेदाद्रूपभेदेन विद्याभेदात् एकवाक्येन विद्याद्वयस्य विधातुमशक्यत्वाच्च वाक्यभेदः स्यात् । स चैकवाक्यत्वे संभवति नोपपद्यते ॥ कप्यासं पुण्डरीकञ्च दृष्टान्ततया अनूद्य ‘एवमक्षिणी’ इत्यक्ष्णः स्थानत्वस्य विधेयत्वं गम्यत इति चेत् — तथा (दा ?)च अन्तरादित्य इत्युपक्रमविरोधः ॥ उपक्रमेपि आदित्यमण्डलस्यानुवाद इति चेत् — तथा सति इयमक्षिविद्यैव स्यात् । तथा चान्तरादित्यविद्येत्याख्याविरोधः । अक्षिविद्यायामेतद्विद्योतरूपाद्यतिदेशानुपपत्तिश्च । न केवलं कप्यासवाक्यमात्रस्व, अपि तु कृत्स्नाया अन्तरादित्यविद्यायाः पुनरुक्तिश्च स्यात् ; उभयोरप्यक्षिविद्यात्वाविशेषात् रूपादिवैषम्याभावाच । तस्मादस्य वाक्यस्य उपासनस्थानचिधिपरत्वमनुपपन्नम् ॥
; कपिः मर्कटः; तस्य आसं जघनप्रदेशः ; मर्कटपृष्ठ साम्यमुच्यत इति यावत् (यत्) - मर्कटपृष्ठसाम्यमुच्यत - तदप्ययुक्तम् ; मर्कटपृष्ठं पुण्डरीकञ्च किमुपमानद्वयम् उतैकोपमा । तत्रोपमा द्वित्वमयुक्तम्, स्वतः प्राप्त सामानाधिकरण्यपरित्यागप्रसङ्गात् ; इलाध्यार्थेन निर्वाहे संभवत्यपि हीनोपमाश्रयणायोगाच्च यद्येकोपमा, तथा सति मर्कटपृष्ठ सदृशपुण्डरीकसदृशे इत्युक्तं स्यात् । तदा कप्यासपदस्य गौणता स्यादिति । कप्यासम् - ईषद्विकसितमित्यपरोऽर्थः । तत्रात्यन्तार्थानौचित्यं नास्त्यव; तथाप्यवयवशक्तघा वा. रूढा बा ईषद्विकास परत्वं नास्तीति सोऽप्ययुक्तः । एवं शब्दार्थ स्वभावपर्यालोचनायामिदमर्थत्रयं पूर्वपक्षतया वाक्यकाराभिप्रेतमित्यवगतम् । अर्थान्तरत्रयं तूपपन्नम् । कं पिवतीति कपिः आदित्यः । तेन अस्यते क्षिप्यते विकास्यत इति कप्यासम् । तथाऽऽह वाक्यकारः, “आदित्यक्षिप्तं वा श्रीमत्त्वात्” इति । कं पिवतीति कपिः नालम् ; तस्मिन् अस्ति इति कप्यासम् । अपचितादपि पक्कजात् नालस्थपुण्डरीकस्य शोभातिशयोऽस्तीति सोऽत्र विवक्षितः । कं जलम् । आस उपवेशने इति धातुरपिपूर्वकः । “वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयोः” इति वचनात् अपेः अकारलोपः । कप्यासम् - सलिलस्थमित्युक्तं भवति । एवमस्यार्थत्रयस्योपपन्नतया वाक्यकारेण सिद्धान्ततयोक्तत्वमभिप्रेत्य हि भगवता भाष्यकारेण वेदार्थसङ्ग्रहेऽभिहितम्, “गम्भीराम्भस्समुद्भत-सुसृष्टनाल-रविकर विकसितपुण्डरीकदलामलायतेक्षणः” इति ।
२४० १-१-१७ (अन्तरधिकरणसंशयक्रमः) गेष्णौ इत्यधिदैवतम्”, “अथाध्यात्मम्, । अथ य एषोऽन्तरक्षणि पुरुषो दृश्यते सैवर्क तत् साम तदुक्थं तद्यजुस्तद्ब्रह्म । तस्यैतस्य तदेव रूपम्, यदमुष्य रूपम् । यावमुष्य गेष्णो, तो गेष्णो । यन्नाम, तन्नाम” इति ॥ तत्र संदिह्यते - किमयम् अक्ष्यादित्यमण्डलान्तर्वतीं पुरुषः पुण्योपचयनिमितैश्वर्यः आदित्यादिशब्दाभिलेप्यो जीव एव, आहोस्वित् तदतिरिक्तः परमात्मेति । किं युक्तम् । उपचितपुण्यो जीव एवेति । कुतः । सशरीरत्वश्रवणात् । शरीरसंबन्धो हि जीवानामेव संभवति । कर्मानुगुणप्रियाप्रिययोमाय हि शरीरसंबन्धः । अत एव हि कर्मसंन्धरहितस्य गोक्षय
गेष्णौ – ‘मानविशेषौ । अधिदैवतम् -देवतायामुपासनम् । अध्यात्मम् — आत्मन्युपासनम् । अध्या (अत्रा ?) त्मशब्दो देहवचनः । अमुष्य – आदित्यस्थस्य । आदित्ये तद्धर्मोपदेशाविति वा अक्षणि तद्धर्मोपदेशादिति वा न सूत्रितम् ; अपि त्वन्तः शब्दः सूत्रकारेण प्रयुक्तः । अन्तः शब्दस्य ‘अन्तरादित्ये’, ‘अन्तरक्षणी’ इत्युभयत्र श्रवणात् विद्याद्वितयमपि सङ्गृहीतमित्यभिप्रायेणाक्षि. विद्यावाक्यमप्युदाहृतम् ॥ संशयं दर्शयति तत्रेति । शरीरसंबन्धापहतपाप्मत्वादियोगात् संशयः । आदित्या दिशब्दाभिलप्यो जीव एवेति । यत्र यत्र प्रकरणेषु करणकलेवरावस्थशरीरसंबन्धेन जीवत्वशङ्का, तेषां प्रकरणानां सर्वेषां परमात्मपरत्वस्य प्रदर्शनार्थम् अयमधिकरणारम्भ इत्यभिप्रायेण आदिशब्दः प्रयुक्तः । अत एव हिरण्यगर्भादिजीवेभ्योऽन्य इति अधिकरणोपसंहारे, मध्येऽपि आदित्यादिजीवव्यतिरिक्त इति चोक्तम् । वेदान्तवेद्यं कारणं ब्रह्म किं प्रकृष्टपुण्यो जीवः, उत नेति विचारः ; तदर्थमानन्दमयः किं जीवः, उत परमात्मेति ; तदर्थमन्तरादित्येऽन्तरक्षणि च वर्तमानः किं जीवः, उत परमात्मा ; तदर्थं सशरीरत्वं जीवस्यैव, उत परमात्मनोऽपि संभवतीति ; तदर्थं शरीरसंबन्धस्यैच्छत्वं संभवति, नेति ; तदर्थं पाप्मोदितत्वादिश्रुतिः ‘अजायमानः’ इत्यादिश्रुतिः आदित्यवर्णत्वादिश्रुतिश्च कथमैच्छत्वं ज्ञापयति, नेति ; तदर्थमिह पाप्मशब्दः किं पापमात्रपरः उत पुण्यपापरूपकर्मपरः, अपहतशब्दः किं प्रध्वंसपरः ‘उतात्यन्ताभावपरः, अजत्वादिश्रुतिः किं कर्मकृतजन्म विषयतया व्यवस्थापयितुं शक्यते नेति, आदित्य वर्णत्वादिश्रुतिः विग्रहस्य प्रकृतिप्राकृतविलक्षणत्वज्ञा (प्रा)पिका न वेति चतुर्घा संशयः । अत्र पूर्वे कल्पाः पूर्वपक्षाः । अपरे तु सिद्धान्ताः । यदा - पाप्मशब्दः पापमात्रपरः, अपहतिः प्रध्वंसः, जन्मनिषेधश्च न कर्ममूलजन्मविषयः, विग्रहश्च न प्राकृतविलक्षणः - तदानीं विग्रहसंबन्धस्येच्छामात्र मूलत्वासंभवेन कर्मनिबन्धनतया परस्मिन्नसंभवेन जीवासाघारण्यादादित्यादिवर्ती पुरुषो जीव इति अन्तरादित्यवाक्यैकार्थ्यात् आनन्दवल्लीवाक्येऽपि जीवस्य प्रतिपाद्यत्वात् सर्वाणि कारणवाक्यानि प्रकृष्टपुण्योपचयजीव पराणीति पूर्वः पक्षः । यदा पाप्मशब्दः कर्ममाश्रपरः, अपहतशब्दो ऽत्यन्ताभावपरः, जन्मनिषेधश्च कर्ममूलजन्मविषयः, विग्रहश्च प्राकृतविलक्षणः - तदानीं विग्रहस्यैच्छतया तस्य जीवात्परस्मिन् संभवाच्चाक्ष्यादित्यान्तर्वर्तिपुरुषः पर इति तदैकार्थ्यादानन्दवल्लीप्रतिपाद्यस्य परमात्मत्वमविचाल्यमिति तदैककण्ठयात् सर्वाणि कारणवाक्यानि परमात्मपराणीति राद्धान्ते फलफलिभावः । 1 पूर्वपक्षमाह उपचितेति । जीवानामेव शरीरसंबन्धमुपपादयति कर्मानुगुणेति । कर्मकृतप्रियाप्रिययोगार्थत्वं व्यतिरेकेणोपपादयति अत एव हीति । अत एव – शरीरसंबन्धस्य कर्ममूलप्रिया1 गानविशेषौ गीत्यंशौ । गीयमानायाम् ऋचि गीतिरूपसाम्नः ऋचश्च प्रविष्टत्वादेशत्वम् ।
१-१-७ अन्तरधिकरणम् २४१ प्राप्यत्वमशरीरत्वेनोच्यते, “न ह वै सशरीरस्य सतः प्रियाप्रिययोर पहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः” इति । संभवति च पुण्यातिशयात् ज्ञानाधिक्यं शक्त्याधिक्यञ्च । अत एव लोककामेशत्वादि तस्यैवोपपद्यते । तत एव चोपास्यत्वं फलदायित्वञ्चः पापक्षपणकरत्वेन मोक्षोपयोगित्वञ्च । मनुष्येष्वप्युपचितपुण्याः केचित् ज्ञानशक्त्यादिभिरधिकतरा दृश्यन्ते; ततश्च सिद्धगन्धर्वादयः ः ततश्च देवाः ; ततश्चेन्द्रादयः । अतो ब्रह्मादिष्वन्यतम एवैकैकस्मिन् कल्पे पुण्यविशेषेणैवम्भूतमैश्वर्य प्राप्तो जगत्सृष्टवाद्यपि करोतीति । जगत्कारणत्व जगदन्तरात्मत्वादिवाक्यम् अस्मिन्नेवोपचितपुण्यविशेषे सर्वशे सर्वशक्तौ वर्तते । अतो न जीवादतिरिक्तः परमात्मा नाम कश्चिदस्ति । एवञ्च सति, ‘अस्थूलमनण्वहस्वम्’ इत्यादयो जीवात्मनः स्वरूपाभिप्राया भवन्ति । मोक्षशास्त्राण्यपि तत्स्वरूप तत्प्राप्त्युपायोपदेशपराणि - इति ॥ एवं प्राप्तेऽभिधीयते - अन्तस्तद्धर्मोपदेशात् । अन्तरादित्ये अन्तरक्षाणि च यः पुरुषः प्रतीयते, सजीवादन्यः परमात्मैव । कुतः । तद्धर्मोपदेशात् । जीवेष्वसंभवन् तदतिरिक्तस्यैव परमात्मनो धर्मोऽयम् अपहतपाप्मत्वादिः, “स एष सर्वेभ्यः पाप्मभ्य उदितः” इत्यादिनोपदिश्यते । अपहतपाप्मत्वं ह्यपहृतकर्मत्वम् कर्मवश्यतागन्धरहितत्वमित्यर्थः । कर्माधीनसुखदुःखभागित्वेन प्रिययोगार्थत्वादेव हि कर्मसंवन्धरहितो मोक्षोऽशरीरतया प्राप्यत्वेनोच्यत इत्यर्थः । ज्ञानशक्तचादिकं लोकका मेशितृत्वादिकञ्च कथं जीवस्य स्यादित्यत्राह संभवति चेति । तथा दर्शयति मनुष्येष्वपीति । अत्र, ‘स एको मानुष आनन्दः’ इत्यादि अभिप्रेतम् । आदित्येन्द्र प्रजापतिप्रभृतीनां सर्वेषां कारणत्वश्रवणात् व्याहतिः स्यात्, पुण्यहेतुत्वात् क्षयित्वञ्च स्यादित्यत्राह अतो ब्रह्मादिष्विति । सर्व विधवाक्यानां जीवपरत्वमाह जगदित्यादिना । अपहतपाप्मत्वादिश्रुतयो नाकर्मवश्यतां वदन्ति, अपि तु केवलपुण्यहेतुकशरीरवतः पापराहित्यम् ; पापहेतुकं पुण्यहेतुकं मिश्रहेतुकञ्चेति त्रिविधं शरीरम् इत्यभिप्रायेण उपचितपुण्यविशेष इत्युक्तम् । मोक्षशास्त्राणि । उपायपराण्युपेयपराणि चेत्यर्थः ॥ राद्धान्ते-सौत्रं प्रतिज्ञापरमन्तरशब्दं व्याचष्टे अन्तरादित्य इति । द्वितीयसूत्रस्थान्यशब्दान्वयलब्धं साध्यधर्ममाह स जीवादन्य इति । तेन फलितमाह परमात्मेति । हेत्वंशमवतार्थ व्याचष्टे कुत इत्यादिना । तद्धर्मोपदेशादिति तच्छन्दः परमात्मपरः । परमात्मनि सिद्धे तद्धर्मोपदेशः तद्धर्मोपदेशात्परमात्मत्व सिद्धिरिति परस्पराश्रयशङ्कायामाह जीवेष्वसंभवन्निति । जीवेष्वसंभवन्नयं धर्मो जीवातिरिक्तखाश्रयप्रतिपादकत्वं श्रतेर्निश्वाययति । योग्यतापरामर्शसहकृतेय श्रुतिः परमात्मानमभिधत्त इत्यर्थः । अपहतपाप्मत्वं पापहेतुकमिश्रहेतुकशरीरवत्त्वव्यावर्तकमित्यत्राह अपहतेति । यद्यपि, ‘सर्वेभ्यः पाप्मभ्य उदितः’ इति विषयवाक्यम्, तथाप्यपहतपाप्मशब्दप्रयोगः श्रुत्यन्तरस्मरणार्थः । अपहतकर्मत्वमिति । पाप्मस्य इति पाप्मशब्दः पुण्यपापरूपोभयविधकर्मपर इत्यर्थः । हिशब्दः परमात्मप्रकरणेषु पापशब्दस्य पुण्यपापपरत्वप्रसिद्धि सूचयति । “नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते” इति (?) “स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्”, इत्यादिश्रुतयो यस्मिन्नर्थे प्रमाणम् । “स्युः पाप्मानः कालजरामृत्युशोकादयः सङ्ख्यातत्वात्” इति वाक्यकारवचः । 1अलौकिकत्वे सति अनिष्टफलसाधनत्वरूपप्रवृत्तिनिमित्तयोगादुपपन्नं च पुण्यस्यापि 1 अहोरात्रशब्द आयुरर्थकः । आयुरादेः पाप्मानुयायित्वात् पाप्मत्वम् । एवमहोरात्रजरादौ लक्षणविरहात् पाप्मशब्दस्यामुख्यत्वेऽपि पुण्ये मुख्य एवेत्याशयेनाह अलौकिकेति । 2-31
२४२ कर्मवश्या हि जीवाः । पापशब्दाभिधेयत्वम् । उक्तं हि मुमुक्ष्वपेक्षया स्वर्गादीनामनिष्टफलत्वम्, “अमूनि यानि स्थानानि देवानां परमात्मनः” इत्यारभ्य, “एते वै निरयास्तात स्थानस्य परमात्मनः " इति, “क्क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो वासुदेवेति मुक्तिबीजमनुत्तमम्” इति च । पाप्मशब्दव्याख्यानमुखेन बद्धव्यावृत्तिरुक्का; अथापहतशब्दव्याख्यानमुखेन मुक्तन्यावृत्तिमाह कर्मेति । जीवव्यावृत्ति स्फुटयति कर्माधीनेति । अपहृतपाप्मशब्दोऽसङ्कोचात् स्वस्मिन् परत्र च पाप्मनामपघातकत्वं 1 स्वतः सिद्धं वदतीति हे प्रत्यनीकत्पसिद्धिः ॥ अतप्रकाशिकोपेते श्रीभाष्ये ( अपहतपाप्मत्वशोधनम् ) अतोऽपहतपाप्मत्वं जीवादन्यस्य परमात्मन एव धर्मः 11 — " नन्वपहतशब्दः प्रध्वंसपरः । उत्पन्नस्यैव प्रध्वंसः । अतः प्रध्वस्तपाप्मत्वश्रवणात् परमात्मनः कर्मसंबन्धस्य प्राग्विद्यमानत्वं गम्यते । अतश्च प्रध्वस्तपाप्मनः परमात्मनो मुक्तादवैलक्षण्यं स्यात् । यदि नित्यासंस्पृष्टपाप्मत्वं विवक्षितम्, तदत्यन्तमशाब्दम् परस्य कुर्वतो वा अकुर्वतो वा पाप्मासंस्पृष्टत्वम् । प्रथमे व्याघातः, कर्तृसमवेतत्वात् क्रियायाः । द्वितीये त्वस्मदादेरवैलक्षण्यम् । न कृतेन कर्मणा कश्चिल्लिप्यत इति ॥ उच्यते । परस्य तावत् पाप्माभावपराणि वाक्यानि विविधानि श्रूयन्ते “सर्वेभ्यः पाप्मभ्य उदितः” इति पाप्मभ्य उदयः श्रूयते ; अपहतपाप्मेति पाप्मनामपहतिः श्रुता; ‘नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्, सर्वे पाप्मानोऽतो निवर्तन्ते” इति तरतेः प्राप्तिवाचित्वादप्राप्तिर्निवृत्तिश्व श्रयते ; “स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् " इति कर्मफलास्पर्श उच्यते । तत्र प्रथममुदितशब्दस्य मुख्यार्थोऽनुपपन्नः, विभोः परस्य पाप्मान्वितदेशादूर्द्धगमनायोगात् । तस्मादश्लेषलक्षणा युक्ता । तत्राकृतकर्मा श्लेषस्य सर्वसाधारणस्य प्रतिपादनवैयथ्यं स्यात् । अतः कृतानामपि कर्मणामश्लेषपरत्वं तस्य वाक्यस्याभ्युपगन्तव्यम् । क्रियायाः कर्तृसमवेतत्वेन स्वरूपासंश्लेषस्य व्याघातादेव फलासंश्लेषपरत्वमाश्रयणीयम् । तत्र हेत्वकथनात् तिरोधानाविर्भावयोः निष्प्रमाणकत्वाच तस्य स्वाभाविकत्वं नित्याविर्भूतत्वश्च सिद्धम् । अपहृतशब्दश्ध हिंसारूप धात्वर्थासंभवात् विनाश लक्षयन् क्रियास्वरूपस्य नश्वरतया खरूपनाशप्रतिपादनवैयर्थ्यात् फलजननशक्तिविशिष्टरूपेण नाश प्रतिपादयति । यथा “सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा” इति नाशशब्दो दानस्य फलजननशक्तिहानिं प्रतिपादयति, तद्वत् । मत ईश्वरेण कृतानि पुण्यपापसजातीयानि कार्यामि य शुभाशुभफलजननशक्तानि स्युः । ईदृशमपहतपाप्मत्वञ्च पूर्वोक्तन्यायान्निरुपाधिकं नित्याविर्भूतञ्चाभ्युपगन्तव्यम् । ‘स न साधुना कर्मणा’ इत्यत्रापि’ असाधु कर्मफल / स्पर्शः तत्प्रायश्चित्तरूपसाधुकर्म निबन्धन इति शङ्का च साधुकर्मप्रतिषेधेनैव निरस्ता । न च साधुकर्महतिस्तस्यापि निवर्तकविद्याबलादिति शनी, ध्यानकर्तृत्वानुक्तेः । ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’ इति तस्य ध्येयत्व श्रवणा । 1 मुमुक्ष्वपेक्षितापहतपाप्मत्वापादकस्य तस्यापि तादृशमपहतपाप्मत्वमावश्यकमिति भावः 2 पाप्मनोऽचेतनत्वात् न हिंसाकर्मस्थम् मरणरूपस्य वेदनारूपस्य वा फलंस्य पाप्मन्यभावाद । 3 इत्यत्रापीत्यस्य उपरि प्रतिषेधेनैवेति पदेनान्वयः । अपिशब्दः ‘नसुकृतम्’ इत्येतत्ससुखायकः । उपर्येव वा अस्य पाठोऽपि । 4 मनु यएवं वेदेति वेदनं उन्नामकत्वानुसंधानं वा उद्गीथे आदित्यपुरुषदृष्टिर्वा । सर्वथा तस्य न मोक्षरूप सर्वपाप्मापहतिकरत्वमिति चेत् न ; औचित्यादव सर्वपाप्मनिवर्तनसमर्थादेव तस्मात्
२४३ तत्पूर्वकं स्वरूपोपाधिकं लोककामेशत्वम् सत्यसङ्कल्पत्वादिकम् सर्वभूतान्तरात्मत्वञ्च तस्यैव धर्मः । यथाऽऽह, “एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” इति । तथा, “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति । “सोऽकामयत । बहु स्यां प्रजायेयेति” इत्यादिसत्यसङ्कल्पत्वपूर्वक समस्तचिदचिद्वस्तु सृष्टियोगः निरुपाधिकभयाभयहेतुत्वम् वाङ्मनसपरिमितिकृतपरिच्छेदरहितानवधिका तिशयानन्दयोगः इत्यादयोऽकर्म संपाद्याः स्वाभाविका धर्माः जीवस्य न संभवन्ति ॥ ; साधुकर्मनिषेधादेव ध्यानकर्तृत्वमपि निषिद्धं भवति । यज्ञादिकमुपासनात्मकञ्च कर्म हि साधुकर्मशब्दाभिलापार्हम् । अतः प्रायश्चित्तादिभिर्विनैव कर्मफलाश्लेष इति अपहतपाप्मशब्दस्थो हन्तिधातुश्च हानिपरः न प्रध्वंसपरः । नैतं सेतुमित्यत्रापि कृतानामेव कर्मणां फलजननशक्तिमत्त्ववेषेण प्राप्त्यभाव उच्यते । अतो निरुपाधिकमपहतपाप्मत्वं नाम कर्मवश्यतागन्धरहितत्वम् । न च परमात्मनि फलजननासमर्थस्य तत्कृतकर्मणः तं प्रति न पाप्मत्वमिति श्रुतिवावयस्थपाप्मशब्दस्या मुख्यत्वमिति वाच्यम् ; “अनन्तख्याति निर्वीर्यं जरयामास तद्विषम् “, " जपन् विषधरो हरः” इत्यादिषु निगीर्णजीर्णविषान् ईश्वरादीन् प्रति विषशब्दस्येव मुख्यत्वोपपत्तेः । क्षेत्रज्ञेषु प्रत्यवायकरपापसजातीयानां कर्मणां खलीलाकृतानामपि फलजननशक्तिप्रतिभटत्वं नाम कश्चिदयमीश्वरस्य स्वभावविशेषः । परिशुद्धात्म स्वरूपविषयस्याप्यपहतपाप्मशब्दस्यायमेवार्थः । स तु तस्य तिरोधानार्हः प्रतिबन्धनिवृत्तावाविर्भवति, ईश्वरस्य तु तिरोधानानर्हो नित्याविर्भूत इति विशेषः । अतोऽपहतपाप्मत्व विषयश्रुतीनां यथोक्त एवार्थ इति तेन धर्मेण अन्तरादित्येऽवस्थितस्य भगवतो जीववैलक्षण्यसिद्धिः ॥ गुणान्तराणामपि जीवेष्वसंभवं दर्शयति तत्पूर्वकं स्वरूपोपाधिकमिति । अपहतपाप्मत्वपूर्वकत्वात् स्वरूपोपाधिकम् ; स्वाभाविकमित्यर्थः । एवं प्रसिद्धाप्रसिद्ध्योरर्थयोरेकनिमित्तसंभवे प्रसिद्धवाचिनैकेनैव शब्देनोपादानात्वमिह व्युत्पादितम् । आदित्यान्तर्वर्त्तिनोऽपहतपाप्मत्वगुणयोगेन आनन्दवल्लीदहरविद्यासुबालोपनिषत्प्रतिपाद्यस्येह प्रत्यभिज्ञानात् तत्र तत्रोक्ता गुणा अप्यस्यैव हिरण्मयपुरुषस्य धर्मा इत्यभिप्रायेण सत्यसङ्कल्पत्वादिकं सर्वभूतान्तरात्मत्वश्चेत्युक्तम् । अपहतपाप्मत्वपूर्वक सत्यसङ्कल्पत्वादौ श्रुतिं वर्शयति एष आत्मेति । तत्पूर्वक सर्वभूतान्तरात्मत्वे श्रुतिमुदाहरति एष सर्वभूतान्तरात्मेति । तत्तदन्तरत्वेन आत्मत्वव्याख्यानपरस्यानन्दवल्ली वाक्यस्य नारायणपरत्वज्ञापनार्थं च एष सर्वभूतान्तरात्मेति वाक्योपादानम् । केषुचिद्वाक्येषु अपहतपाप्मत्वपूर्वकगुणविधानात् सर्वशाखाप्रत्ययन्यायेन वाक्यान्तरेष्वपि तत्पूर्वकत्वं विवक्षितमित्यभिप्रायेणाह सोऽकामयतेति । जगत्कारणत्वमेव वेदान्तवेद्यस्य ब्रह्मणो लक्षणम् ; कारणञ्चेत् — सत्यसंकल्पम् ; सत्यसङ्कल्पत्वं चेत् — अपहतपाप्मत्वपूर्वकम् ; तच्च नारायणप्रत्यभिज्ञापकं तप्तदपेक्षित परिमितपापनिवृत्तेरेव विवक्षितत्वात् । एवमपि, तमेवविदित्वाऽतिमृत्युमेतीत्यादिबलात् मोक्षत्रत्वमेष्टव्यम् । किञ्च पापमात्त्रग्रहणेऽपि आदित्यादीनां सर्वपापहरत्वम संभावितम्दुःखानुभवप्रमाणदर्शनात् । अतः स्वभावतस्तद्राहित्ये सत्येव सर्वगपनिवर्तकता स्यात अपहृत - पाप्मकमादित्यादितोऽन्यदेव ) जीवस्य स्वाभाविकत्वेनोच्य राममपहतपाप्मत्वमपिं वय घटते, म तु ध्वंसार्थकत्वपक्षे ।
३४४
यत्तु शरीरसंबन्धान्न जीवातिरिक्त इत्युक्तम्-तदसत् ; न हि सशरीरत्वं कर्मवश्यतां साधयतिः सत्यसङ्कल्पस्येच्छयाऽपि शरीरसंवन्धसंभवात् । अथोच्येत - शरीरं नाम त्रिगुणात्मकप्रकृति परिणामरूपभूतसंघातः, तत्संवन्धश्चापहृतपाप्मनः सत्यसङ्कल्पस्य पुरुषस्येच्छया . न संभवति, अपुरुषार्थत्वात् । कर्मवश्यस्य तु स्वस्वरूपानमिज्ञरा कर्मानुगुणफलोपभोगाय अनिच्छतोऽपि तत्संबन्धोऽवर्जनीय इति ॥ स्यादेतदेवम्, यदि गुणत्रयमयः प्राकृतोऽस्य देहः स्यात् । स तु स्वाभिमतः स्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम् ॥ एतदुक्तं भवति - परस्यैव ब्रह्मणो निखिलेहेयप्रत्यनीका नन्तज्ञानानन्दैकस्वरूपतया सकलेतर विलक्षणस्य स्वाभाविकानवधिकातिशयासङ्ख्येय कल्याणगुणगणाश्च सन्ति । तद्वदेव स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतसुबालोपनिषदैकार्थ्यादिति भावः । वाङ्मनसेति परिच्छेदकासिद्धिमाह । पूर्वपक्षमनुवदति यत्विति । परिहरति तदसंदिति । शास्त्रैकप्रमाणके वस्तुनि लोकदृष्टव्याप्तिमूलस्तक न कर्मवश्यत्वसाधक इत्यभिप्रायेणाह न हीति । कल्पकस्यान्यथा सिद्धिमाह सत्यसङ्कल्पस्येति । सत्यमङ्कल्पस्य कर्मनैरपेक्ष्यम् अपहतपाप्मत्वपूर्वक सत्यसङ्कल्पत्वत्युपपादनेन समर्थितम् । अत एव “स एष ये चामुप्मात्पराञ्चो लोकाः तेषां चेष्टे देवकामानां च”, “स एष ये चैतस्मादवञ्चो लोकाः, तेषाञ्चष्टे मनुष्यकामानाश्च” इति आदित्याक्षिपुरुषविषयवाक्यद्वयेन प्रतिपन्नमैश्वर्यम् अनवच्छिन्नम् ; तदवच्छेदे शङ्कयमानेऽपि सोऽवच्छेदोऽप्यैच्छतयाऽन्यथासिद्ध इति फलितत्वान्न कण्ठोक्तम् । विग्रहविषयाया असंभवं शङ्कते अथोच्येतेति । हेयत्वसूचक स्त्रिगुणात्मकशब्दः ; “सत्त्वं लघु प्रकाशक मिष्टमुपष्टम्भकं चलञ्च रजः । गुरु वरणकमेव तमः” इत्युक्तेः । इच्छाया अभावेऽपि कर्मपारवश्याज्जीवस्य तत्संबन्धसंभवमभिप्रेत्याह कर्मेति । कर्मावरणहेतुः स्वस्वरूपानभिज्ञस्येति विशेषणम् । परिहरति स्यादिति । स्वाभिमतेत्युक्ते, अभिमतत्वमयोग्येऽपि संभवतीति, तद्व्यावृत्त्यर्थमाह अनुरूपेति । कुत इत्यत्राह अप्राकृत इति । परमात्मस्वरूपं हि निरतिशयानन्दरूपम् ; सर्वज्ञत्वात् तच्च जानात्येवेति स्वस्वरूपादन्यत्र भोग्यत्वज्ञानं न वक्तुं युक्तम् । अतः सर्वज्ञस्य तस्य विग्रहे स्पृहणीये स्वरूपस्य भोग्यतावैकल्यं स्यादित्यत्राह सर्वमुपपन्नमिति । कथमुपपन्नमित्यत्राह एतदुक्तमिति । स्वतस्सर्वज्ञस्य सर्वशक्तेर्ज्ञानार्थं प्रवृत्त्यर्थञ्च करणानपेक्षत्वात् न देहापेक्षा ; रूपादिमत्त्वे च प्राकृतत्वं स्यात् ; नित्यत्वे चानित्यबह्ववतारासंभवः ; तिर्यगादिरूपपरिग्रहे, “वाचिकैः पक्षिमृगताम्” इत्यादिप्रकारेण तन्मूलकर्मसंबन्धः स्यात् — इति शङ्कापरिहारार्थञ्च एतदुक्तमित्यारम्भः । यथा परस्य ब्रह्मणो धर्मिस्वरूपं स्वाभाविका गुणाश्च प्रामाणिकत्वादङ्गीक्रियन्ते, तथा विलक्षणं शरीरमभ्युपगन्तव्यमित्यभिप्रायेणाह परस्यैवेति । स्वाभिमतेति । करणानपेक्षज्ञानक्रियस्यापि परस्य भोगार्थो विग्रहः । निरतिशयानन्दस्यापि तस्य प्रीतिविशेषापेक्षा घटते, प्रभूतानन्दानामप्यानन्दान्तरापेक्षादर्शनादिति भावः । एकरूपेति । हेयप्रतिभटत्वमङ्गलाकारत्वाद्याकारेणैकरूप्यम् । शरीरत्वादस्मदादिशरीरवत् दुःखावहमित्यादितर्कागोचरत्वमभिप्रयन्नाह अचिन्त्येति । अचिन्त्यत्वे हेतुमाह दिव्येति । अनेन दिव्यशब्देन विलक्षणद्रव्यत्वमुक्तम् । रूपादिमत्त्वात् प्राकृतत्वं धर्मिग्राहकमानबाधितमिति भावः । द्वितीयेन दिन्यशब्देन विलक्षणसंनिवेशत्वम् । यथा, “तद्विश्वरूपवैरूप्यं रूपमन्यत् हरेर्महत्” इति । अद्भुतत्वम् CC-0, Lal Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham १-१-७ अन्तरधिकरणम् (अप्राकृतदेहे प्रमाणानि ) २४५ नित्य - निरवद्य - निरतिशयौज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमाय लावण्य यौवनाद्यनन्तगुणगणनिधि-दिव्यरूपमपि स्वाभाविकमस्ति । तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूपसंस्थानं करोति अपारकारुण्य सौशील्यवात्सल्यौदायैश्वर्य जलनिधिर्निरस्तनिखिलं हे यगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायण इति ॥ “यतो वा इमानि भूतानि जायन्ते”, “सदेव सोम्येदमग्र आसीत् “, “आत्मा वा इदमेक एवाग्र आसीत् “, “एको ह वै नारायण आसीन्न ब्रह्मा नेशानः” इत्यादिषु निखिलजगदेककारणतयाऽवगतस्य परस्य ब्रह्मणः, “सत्यं ज्ञानमनन्तं ब्रह्म”, “विज्ञानमानन्दं ब्रह्म” इत्यादिष्वेवम्भूतं स्वरूपमित्यवगम्यते । ‘निर्गुणम्’, ‘निरञ्जनम्’, ‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः’, “न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शाक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च”, “तमीश्वराणां परमं प्रतिक्षणमभिनवत्वम् । नित्येति । सावयवत्वादनित्यमित्याद्यनुमानं धर्मिग्राहकप्रमाणबाधितमिति भावः । कल्याणाकरत्वेऽपि हेयमिश्रत्वशङ्काव्युदासार्थो निरवद्यशब्दः । निरतिशयाः – वक्ष्यमाणसर्वगुणाः । आदिशब्देन पराक्रमादयो विवक्षिताः । नित्यत्वे कथमनित्यबह्व्वतारसंभवः; कथञ्च निकृष्टदेवादिसाजात्यमित्यत्राह तदेवेति । तदेव - अप्रच्युतसंनिवेशमेवेत्यर्थः । संस्थानाशैथिल्येऽपि देवाद्यानेकदेहोत्पादकत्वं चतुर्मुख देहे दृष्टं परमात्मविग्रहे घुज्यत इति भावः । “नित्याऽलिङ्गया स्वभावसंसिद्धिरिन्द्रियाकारा अङ्गप्रत्यङ्गव्यञ्जनवती” “उज्जहारात्मनः केशौ सितकृष्णौ”, “अंशांशेनावतीर्योर्व्याम्”, “समस्तशक्ति रूपाणि तत् करोति जनेश्वर”, “कल्पे कल्पे जायमानः स्वमूर्त्या “, सोंऽशो विष्णुमयं स्थानम्” इत्यादि अत्रानुसन्धेयम् । ।
उपासकानुग्रहोपयुक्ता गुणा उच्यन्ते अपारेति । कारुण्यम् – परदुःखासहिष्णुत्वम् । सौशील्यम्महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्वम् । वात्सल्यम्दोषानादरहेतुः स्नेहः ; यथा मातुः पुत्रे । औदार्यम् — दातृप्रतिगृहीतृविभाग बुद्धिरहितं दातृत्वम् । एते सौलभ्योपयुक्ता गुणाः । अथ परत्वमुच्यते निरस्तेति । परत्वसौलभ्ये अप्युपास्यत्वोपयोगिनी । मनुष्यादिसाजात्येऽपि तत्प्रयुक्तशोकमोहाद्यस्पृष्टत्वमभिप्रयन्नाह निरस्तेति । जीवानुप्रवेशेषु शोकादयो जीवांशगताः । साक्षादवतारेष्वभिनयमात्रम् । निखिलशब्देन चिदचिद्गता दोषा विवक्षिताः । शोकाद्यस्पर्शहेतुमाह अपहतेति । अर्वाचीनात्मव्यावृत्त्यर्थः परमात्मशब्दः । प्रधानव्यावृत्त्यर्थः तत्समानाधिकृतः परब्रह्मशब्दः । पुरुषोत्तमशब्दो वैलक्षण्यपरः । नारायणशब्दो घटकः । यथा परमात्मपरब्रह्मशब्दौ सामान्यशब्दावेक विषयौ, यथा पुरुषोत्तमनारायणशब्दौ विशेषशब्दावेकविषयौ — तथा सामान्यविशेषशब्दाः एकविषया इति भावः । अत्र स्वरूपस्य भोग्यत्ववैकल्यशङ्का च परिहृता भवति । स्वसंबन्धिभोग्यत्वं स्वस्य न भोग्यताविरोधि ; अपि तु खभोग्यत्वातिशयावहम् ; यथा स्वसंबन्धिगुणगणभोग्यत्वम् । न हि स्वसंबन्धिनामप्यामोदकरस्य कस्तूरिकादेरामोदवैकल्यम् अपि तु तत्पौष्कल्यमेव तथा स्वसंबन्धाद्विग्रहभोग्यत्वमपि स्वभोग्यत्वातिशयावहमिति । — अथोक्तार्थे प्रमाणान्याह यतो वा इमानीत्यादि । जगत्कारणत्वधर्मिस्वरूपविषयप्रमाणोपन्यासो
२४६ श्रुतप्रकाशिकोषते श्रीभाष्ये महेश्वरं तं देवतानां परमञ्च दैवतम्”, “स कारणं कारणाधिपाधिपो न चास्य कश्चिजनिता म चाधिपः”, “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते”, “वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात्”, “सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि” इत्यादिषु परस्य ब्रह्मणः प्राकृत हेयगुणान् प्राकृतद्देय देहसंबन्धं तन्मूलकर्मवश्यतासंवन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपञ्च वदन्ति । तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्त्यनुगुणाकारं देवमनुष्यादिसंस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान् । तदिदमाह श्रुतिः, “अजायमानो बहुधा विजायते” इति । । दृष्टान्तार्थः । गुणविभागकथनं वादिविवादशमनार्थं दृष्टान्तार्थञ्च । विद्युतः - विद्युद्वर्णात् । ‘आदित्यवर्णम्’, ‘रुक्मवर्णम्’ इति वाक्यसरूपार्थस्वीकारस्यो चितत्वात् । ‘आदित्यवर्णो विग्रहश्च न प्राकृतः ; ‘तमसः परस्तात्’ इति श्रुतेः । अतिसूक्ष्मप्रकृतिर्हि तमः ; अतस्तत्कार्यवैलक्षण्यसिद्धिः । अन्यथा स्वरूपस्य तमसोऽन्यत्वकथनं स्यात्, तदानीं परस्तादिति अस्तातिप्रत्ययस्य आदित्यवर्णतोक्तेश्च वैयर्थ्यं स्यात् । अतो विग्रहविशिष्टस्यैव तमःस्पर्शाभावोक्तिरिति विग्रहवैलक्षण्यसिद्धिः । प्राकृत हेयेति । कचित् सतो हि क्वचिन्निषेधः । अतो निषेध्यहेयगुणानां प्रकृतितत्संश्लिष्टजीवेषु विद्यमानत्वं प्राकृतेत्यादिना शब्देन दर्शितम् । विग्रहविशेषविधानदर्शनात् विग्रह सामान्यनिषेधः तद्व्यतिरिक्तविषयः ; न हिंस्यादितिवत् निर्गुणमितिवच्च । विशेषनिषेधदर्शनात् देहसामान्यनिषेधो विशेषे पर्यवस्यति, ‘पशुना यजेत’ इति ‘पशुशब्दवत्, निर्गुणशब्दवच्चेति तात्पर्यम् । पूर्वोक्तमर्थ वक्ष्यमाणवचनस्यैतदर्थविषयताज्ञापनार्थमनुवदन् पूर्वोक्तसंस्थानशब्दं विवृणोति तदिदमिति । परमकारुणिक इति । देवादिसाजात्यं न कर्मनिबन्धनम्, उपासकानुग्रहार्थत्वादित्यर्थः । श्रुतिं दर्शयति तदिदमिति । अजायमान इति कर्महेतुक सुखाद्यर्थप्राकृतदेह संगतिरूपजन्मनिषेधः । बहुधा विजायत इति च इच्छाहेतुकजगद्रक्षणार्थापाकृतविग्रहाधिष्ठानरूपजन्मविधिः ॥ J
ननु अजायमान इति परमार्थजन्मनिषेधः, बहुधा विजायत इत्यपरमार्थजन्मविधिः स्यात् ॥ न; कृत्स्नमिथ्यात्ववादिपक्षे प्रयोजनाभावात् । प्रपञ्चमिथ्यात्ववचनेनैव ईश्वररूपमिध्यात्वमपि हि सिद्धम् ; किं विशेषतोऽभिधानेन ? विहितस्य निषेघायोगाच्चायुक्तम् । मानान्तरागोचरं जन्माभिधाय तदेव कथं निषिध्यते ॥ स्वरूपस्याजत्वम्; शरीरद्वारा बहुभवनं चोच्यत इति चेत् —न; स्वरूप नित्यत्व देहद्वारकजन्मनोः जीवानामपि समानतया, “तस्य धीराः परिजानन्ति योनिम् " इति अनन्तरवाक्यप्रतिपन्नवैलक्षण्यानुपपत्तेः । सर्वसाधारण लोकविदितजन्मप्रकारवैजात्ये सत्येव ह्येवं वक्तुं युक्तम् । न हि देवदत्तस्य जन्म धीरैरेव परिज्ञायत इति वक्तव्यम्; यज्ञदत्तजन्मनो वैलक्षण्याभावात् ॥ स्वरूपेणाजस्य विचित्रसमस्तजगद्रूपेण बहुभवनमुच्यते; तद्धि जीवेषु न संभवतीति चेन्न -“सर्वाणि रूपाणि विचित्य धीसे नामानि कृत्वाऽभिवदन् यदास्ते” इति पूर्वानुवाकेऽभिधाय, “तस्य त्वष्टा विदधत् रूपमेति” इत्यस्मिन्नप्यनुवाके जगद्रूपेण बहुभवनस्योक्तत्वात् । एवमर्थान्तर ‘परत्वे सति आनर्थक्यप्रसङ्गात् 1 निषेधो वा विधिर्वा भवतु, वैयर्थ्याप्रसक्तौ विशेषे पर्यवस्यति । विधेरुदाहरणं पशुनेति, निषेधस्य निर्गुणमिति । ३ मर्यान्तरेति । भवतारातिरिक्तार्थेत्यर्थः ।
१-१-७ अन्तरधिकरणम् १-१-२१ २१७ स्मृतिश्च, “अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्वमासया । परित्राणाय साधूनां विनाशाय च दुष्कृताम्” इति । साधवो ह्युपासकाः । तत्परित्राणमेवोद्देश्यम्; आनुषङ्गिकस्तु दुष्कृतां विनाशः; सङ्कल्पमात्रेणापि तदुपपत्तेः । ‘प्रकृतिं स्वाम्’ इति प्रकृतिः स्वभावः । स्वमेव स्वभावमास्थाय; न संसारिणां स्वभावमित्यर्थः । आत्ममाययेति, स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । ‘माया वयुनं ज्ञानम्’ इति ज्ञानपर्यायमपि मायाशब्दं नैघण्टुका अधीयते । आह च भगवान् पराशरः, “समस्ताः शक्तयश्चैता नृप ! यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ समस्तशक्ति रूपाणि तत् करोति जनेश्वर ! । देवतिर्यमनुष्याख्याचेष्टावन्ति स्वलीलया । जगतामुपकाराय न सा कर्मनिमित्त जा” इति । महाभारते चावताररूपम्याप्यप्राकृतत्वमुच्यते’न भूतसंघसंस्थानो देहोऽस्य परमात्मनः’ इति । अतः परस्यैव ब्रह्मणः एवंरूपरूपवत्त्वादयमपि तस्यैव धर्मः । अत आदित्यमण्डलाक्ष्यधिकरणः आदित्यादिजीवव्यतिरिक्तः परमात्मैव । २१ । भेदव्यपदेशाच्चान्यः ॥ १-१-२२ ॥ आदित्यादिजीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मनः, “य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयति”, “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम् य आत्मानमन्तरो यमयति” इति । “योऽक्षरमन्तरे संचरन् तत्परिहारायास्याः श्रुतेरवतारपरत्वमभ्युपगन्तव्यम् । तथाऽस्याः श्रुतेरवतारविषयत्वे सत्येव, “अजोऽपि सन्’ इत्याद्युपगृहणैकार्थ्यं सिध्येत् । अतोऽस्य वाक्यस्य यथोक्त एवार्थः । उपबृंहणैकार्थ्यं दर्शयति स्मृतिश्चेति । ‘अजोऽपि सन्’, ‘संभवामि’ इति विधिनिषेधयोरपि यथोक्त एवार्थः । उपासकानुग्रहार्थत्वं कथमत्रावगम्यत इत्यत्राह साधव इति । आनुषङ्गिक इति । ‘विनाशाय च दुष्कृताम्’ इति चशब्दोऽन्वाचयपर इति भावः । समुच्चयः समप्रधानयोः; अन्वाचयः प्रधानानुषङ्गिकयोः । दुष्कृद्विनाशस्यानुषङ्गिकत्वमुपपादयति सङ्कल्पेति । प्रकृतिसंबन्धभ्रमनिवृत्त्यर्थं व्याचष्टे प्रकृति स्वामितीति । स्वभावः – निरुपाधिकधर्मः । अनेन विग्रहश्च स्वाभाविक इत्युक्तं भवति । अपारमार्थिकत्वभ्रमनिवृत्त्यर्थं व्याचष्टे आत्ममाययेति । नैखण्टुकाः – वेद निघण्टुकाराः । तन्मूलभूत प्रयोगश्च, “यावन्तः पांसवो भूमेः सङ्ख्याता देवमायया” इति । स्वोक्तार्थवैशद्यार्थमाह आह चेति । अयमपि तस्यैव धर्मः । एवंरूपरूपमपि जीवादन्यत्वसाधकमित्यर्थः । तद्धर्मोपदेशादिति सौत्रधर्मशब्देन एवंरूपरूपवत्त्वमपि विवक्षितमिति भावः । सूत्रार्थमुपसंहरति अत इति ॥
1 हेत्वन्तरमाह - भेदव्यपदेशाच्चान्यः ॥ अयमन्यशब्दः पूर्वापरसूत्रेष्वप्यन्वेतव्यः । आदित्याख्यजीवाद्भेदव्यपदेशे श्रुतिमाह य आदित्य इति । आदित्यपर्यायोपादानं प्रकरणस्थजीवान्तरविषयपर्यायाणां प्रदर्शनार्थम् । आदित्यादीत्यत्रादिशब्दोपात्तदेवताविशेषेभ्यो भेदव्यपदेशश्च अत एव दर्शितो भवति । तत्र हि प्रकरणे, “यस्सर्वेषु देवेषु तिष्ठन्” इति पर्याये सर्वदेवताभ्यो मेदो व्यपदिश्यते । आसां देवतानां मुक्तावस्थायामपि ताभ्यः परमात्मनो भेदज्ञापनार्थं निष्कृष्टात्मनः परमात्मनियाम्यत्वादिप्रतिपादकं पर्यायमुदाहरति य आत्मनीति । कारणावस्थायामपि भेदज्ञापनार्थमाह यस्याक्षरमिति ।
२४८
यस्याक्षरं शरीरम् यमक्षरं न वेदः यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युश्शरीरं यं मृत्युर्न वेद, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति चास्यापहतपाप्मनः परमात्मनः सर्वान् जीवान् शरीरत्वेन व्यपदिश्य तेषामन्तरात्मत्वेनैनं व्यपदिशति । अतः सर्वेभ्यो हिरण्यगर्भादिजीवेभ्यो ऽन्य एव परमात्मेति सिद्धम् ॥ २२ ॥ ॥ इति अन्तरधिकरणम् ॥ आकाशाधिकरणम् ॥ १-१-८ ॥ ‘यतो वा इमानि भूतानि जायन्ते’ इति जगत्कारणं ब्रह्मेत्यवगम्यते । किं तत् जगत्कारणमित्यवे (पे) क्षायाम्, ‘सदेव सोम्येदमग्र आसीत्’, ‘तत्तेजोऽसृजत’, ‘आत्मा वा इदमेक एवाग्र आसीत्’, ‘स इमान् लोकानसृजत’, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इति साधारणैः शब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेषानन्दविशेषरूपविशेषार्थ स्वभावात् प्रधानक्षेत्रज्ञ [[दि]व्यतिरिक्तं ब्रह्मेत्युक्तम् । इदानीमाकाशादिविशेषशब्दैर्निर्दिश्य जगत्कारणत्व जगदैश्वर्यादिवादेऽप्याकाशादिशब्दाभिधेयतया प्रसिद्धचिदचिद्वस्तुनोऽर्थान्तरमुक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यते - आकाशस्तलिङ्गादित्यादिना पादशेषेण- अक्षरम् - अचित्समष्टिसंसृष्टा पुरुष (जीव) समष्टिः । मृत्युः - चित्समष्टिसंसृष्टा चित्समष्टिः ॥ देवकामानां चेष्टे इति वाक्यमस्य सूत्रस्य विषयतयोपातं यादवप्रकाशैः । तन्नात्यन्तोचितम् ; इन्द्रादीनामपि स्वावरदेव काम निष्पादकत्वसंभवेन क्षेत्रज्ञवैलक्षण्यसाधकत्वाभावात् देवकामेशनस्य । आदित्यपुरस्कारेणोत्थिते पूर्वपक्षे तमादित्यं कण्ठोवत्या निर्दिश्य तदितरदेवतानां तस्य च नियाम्यत्वं व्याप्यत्वमज्ञत्वं चोक्ता नियन्तृत्वव्यापित्वसार्वश्यैः परमात्मनस्तेभ्यः स्फुटतरभेदव्यपदेशपर प्रकरणस्य विषयतयोदाहरणं ह्यत्यन्तोचितम् ॥ ; शरीरसंबन्धावच्छिन्नैश्वर्य श्रवणसिद्ध कमवश्यत्वात्, लोककामेशत्वादीनां सुकृत प्रकर्षेणोपपत्तेः, पाप्मोदयश्रवणस्य पापसंबन्धनिवर्तकत्वेन पुण्यसंबन्धनिवर्तकत्वाभावाच्च पूर्वः पक्षः । मोक्षप्रकरणेपूभयकर्मविषयपाप्म शब्दप्रयोग श्रत्यन्तरैकार्थ्यप्रवृत्तिनिमित्त योगैः पाप्मशब्दस्योभयपरत्वेन कर्मवश्यत्वनिषेधात्, तत्पूर्वक गुणान्तराणामपि जीवेष्वसंभवात् हेतुतः फलतो द्रव्यतश्च विलक्षणविग्रहयोगस्य जीववैलक्षण्यसाधकत्वात्, आदित्यादिजीवेभ्यो भेदव्यपदेशाच परमात्मेति राद्धान्तः । अधिकरणार्थमुपसंहरति अत इति ॥ ॥ इति अन्तरधिकरणम् ॥ अथ चिदचिद्विलक्षणस्य वस्तुनो वेदान्तवेद्यत्वनिर्णयात् तदुत्तराधिकरणमनारम्भणीयमिति शङ्कां परिहरन् पेटिका भेदतत्सङ्गती आह यतो वा इमानीत्यादिना । सद्ब्रह्मात्मादिसाधारणशब्दानां जगत्कारणवाचिनामर्थस्वभावादभिमतविशेषपर्यवसानं कृतम् ; वस्त्वन्तरविशेषासाधारणत्वेन व्युत्पन्नैरपि शब्दैर्जगत्कारणे निर्दिष्टे तेषामप्यर्थस्वभावादभिमतविशेषपर्यवसानं क्रियत इत्यर्थः । पूर्वं संशयव्युदासः कृतः ; अथ विपर्ययव्युदासः क्रियत इति यावत् । लिङ्गाच्छ्रुतेर्बलीयस्त्वात् कारणविशेषे आकाशादिपदश्रुत्या निश्चिते सति, लिङ्गात् तद्विरुद्धविशेषनिश्चयोऽनुपपन्न इति पूर्वपक्षोत्थानादधिकरणस्यारम्भणीयत्वं सिद्धमिति भावः । पादशेषेणेति । पादशेषोऽधिकरणचतुष्टयात्मकः । तत्र प्रथमे वस्त्वन्तरप्रसिद्धशब्दविशेषेण प्रत्यवस्थानम् ; अर्थविरोधेन परिहारः । अर्थाविरोधशङ्कया प्रत्यवस्थानं द्वितीये ।
१-१-८ आकाशाधिकरणम् आकाशस्तल्लिङ्गात् ॥ १·१-२३ ॥ २४९ इदमाम्नायते छान्दोग्ये, “अस्य लोकस्य का गतिरिति । आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते; आकाशं प्रति अस्तं यन्ति । आकाशो होवेभ्यो ज्यायान् आकाशः परायणम्” इति । तत्र संदेहः - किं प्रसिद्धाकाश एवात्राकाशशब्देनाभिधीयते, उतोक्तलक्षणमेव ब्रह्मेति । विरोधोद्घाटनमुखेन परिहारः । विरोधिलिङ्गाभावेनाल्पानुकूल लिङ्गसद्भावेन च प्रत्यवस्थानं तृतीये ; स्ववावये विरोधिलिङ्गाभावेऽप्युपक्रमवाक्यस्थ विरोधिलिङ्गप्रदर्शनेन सिद्धान्तः । उपक्रम एवानुकूल लिङ्गभूयस्त्वेन प्रत्यवस्थानं चतुर्थे, तन्निरासेन सिद्धान्त इति भिदा । अनेनाधिकरणसङ्गतिश्च फलिता ॥ आकाशस्तलिङ्गात् । सिद्धान्ते कारणत्वानुवादस्य वक्ष्यमाणत्वात् विधेयं किमित्यपेक्षायाँ विधेयार्थज्ञापनार्थम्, अस्य लोकस्य का गतिरित्यादिकमुपात्तम् । गतिः प्राप्यम् ।
संशयमाह तत्रेति । भूताकाशे प्रसिद्यतिशय — परायणात्वाद्यनुपपत्तिभ्यां संशयः । भूताकाशे परमात्मनि च आकाशशब्दप्रयोगात् संशय इत्युक्तं परैः । तदयुक्तम् ; अश्रुतवेदान्तस्य ‘सर्वाणि ह वा इमानि भूतानि’ इति वाक्यस्थाकाशशब्दवत्, “आकाशो वै नाम नामरूपयोर्निर्वहिता’ इत्यादिवाक्यस्थाकाशशब्दस्य च परमात्मविषयत्वाप्रतिपत्तेः ; श्रुतवेदान्तस्य संशयाभावाच्च । चिड़चिद्विलक्षण कारणास्तित्वायोगव्यवच्छेदो हि प्रथमपादसाध्यः ; न त्वन्ययोगव्यवच्छेदः । स त्रिपादीसाध्य एव ॥ इतः पूर्वैरधिकरणैरेवायोगव्यवच्छेदः सिद्ध इति चेन्न ; ‘सदेव’, ‘ब्रह्मविदाप्नोति’, ‘आत्मन आकाशस्सम्भूतः ’ इत्यादिषु कारणविषयाणां सब्रह्मादिशब्दानां साधारणानाम् आकाशप्राणेन्द्रादिविशेषपर्यवसाने सति चिदचिद्विलक्षण कारणास्तित्वासिद्धेः ; आकाशादिपदानामीक्षणानन्दविशेषयोगानुगुणतया नेयत्वे सत्येव तत्सिद्धेश्व । अतो यथोक्त हेतु निबन्धनः संशयः ॥ जगत्कारणवादिवाक्यप्रतिपाद्यं वस्तु किमाकाशः, उत परमात्मेति विचारः; तदर्थम् " अस्य लोकस्य का गतिः… आकाशः” इत्यात्राकाशः किं प्रसिद्धः, उत परः ; तदर्थ किमत्राकाशशब्दो रूढ्या वर्तते, उतावयवशक्तया ; तदर्थं ज्यायस्त्वादिगुणाः किं मुख्यतया नेयाः, उत न ; तदर्थम् “आत्मन आकाशः संभूतः” इत्यात्मशब्दः किं कारणाकाशपरः, उत परमात्मपरः; तदर्थं किमयम् आत्मशब्दः स्वरूपपरः, उत देहप्रतिसंबन्धिपरः इति विचारः । यदा स्वरूपपरः, तदा ‘आत्मन आकाशः ’ इत्यत्रात्मशब्दस्य कारणाकाशपरतया, ज्यायस्त्वादिगुणानामपि कथञ्चिन्नेयत्वेन रूढिशक्तेः स्थितत्वात् विषयवाक्यस्थाकाशशब्दः प्रसिद्धाकाशपर इति वेदान्तवेद्यं वस्तु प्रसिद्धाकाश इति पूर्वपक्षे फलफलिभावः । यदा आत्मशब्दः शरीरप्रतिसंबन्धिपरः, तदा ‘आत्मन आकाशः’ इत्यत्रात्मशब्दस्य परमात्मपरतया ज्यायस्त्वादिगुणानामपि मुख्यत्वात् यौगिकवृत्त्या विषयवावयस्थाकाशशब्दः परात्मपर इति कारणवाक्यप्रतिपाद्यः परमात्मेति राद्धान्ते फलफलिभावः । 1.
नन्वर्थान्तरत्वव्यपदेशाधिकरणेन तत्रत्याकाशशब्दस्य परमात्मपरत्वं सिद्धमिति संशयोपपत्तिरित्यत्राह चिदिति । तत् खल्वेतदाकाशाधिकरणसिद्धब्रह्मोपजीवनेन प्रवृत्तमिति एतदभावे तदभावात् नैतादृशस्थले एकोन सहस्राधिकरणन्याय इति भावः । 2_32
२५० मुतप्रकाशिकोपेते श्रीभाष्ये किं प्राप्तम् । प्रसिद्धाकाश इति । कुतः । शब्दैकसमधिगम्ये वस्तुनि य एवार्थी व्युत्पत्तिसिद्धः शब्देन प्रतीयते, स एव ग्रहीतव्यः । अतः प्रसिद्धाकाश एव चराचरभूतजातस्य कृत्स्नस्य कारणम् । अतस्तस्मादनतिरिक्तं ब्रह्म ॥
नन्वीक्षा पूर्वकसृष्ट्यादिभिरचेतनात् जीवाच्च व्यतिरिक्तं ब्रह्मेत्मुक्तम् ॥ सत्यमुक्तम्; अयुक्तं तु तत् । तथा हि-‘यतो वा इमानि भूतानि जायन्ते … तद्ब्रह्य’ इत्युक्ते, कुत इमानि भूतानि जायन्त इत्यादिविशेषापेक्षायाम्, “सर्वाणि ह वा इमानि भृतान्याकाशादेव समुत्पद्यन्ते” इत्यादिना विशेषप्रतीते जगज्जन्मादिकारणमाकाश एवेति निश्चिते सति, ‘सदेव सोम्येदमग्र आसीत् ’ छायादिष्यपि सदादिशब्दाः साधारणाकाराः तमेव विशेषमाकाशमभिदधति । ‘आत्मा वा इदमेक एवानं आसीत्’ इत्यादिष्वात्मशब्दोऽपि तत्रैव वर्तते । तस्यापि हि चेतनैकान्तत्वं न संभवति ; यथा ‘मृदात्मको घटः’ इति । आप्नोतीत्यात्मेति व्युत्पत्त्या सुतरामाकाशेऽप्यात्मशब्दो वर्तते । अत एवमाकाश एव कारणं ब्रह्मेति निश्चिते सति ईक्षणादयः तदनुगुणा गौणा घर्णनीयाः । यदि हि साधारणशब्देरेव सदादिभिः कारणमभ्यधायिष्यत, ; पूर्वपक्षसमर्थनौपयिकं प्रयोजकं शिक्षयति शब्देति । प्रमाणान्तर सिद्धार्थानुवादे सति हि तदनुरोधाय क्लिष्टगत्या अर्थस्य वर्णनीयत्वं स्यात् । ‘आदित्यो यूपः’ इत्यादिषु यूपादेः प्रमाणान्तरगोचरतया हि तदनुरोधात् ऐक्यहानम् । मानान्तरागोचरे वस्तुनि प्रतिपाद्ये न तथा व्युत्पत्तिसिद्धार्थस्त्याज्यः, अनुरोद्धव्यान्तराभावेन शब्दस्वातन्त्र्यस्याकुण्ठितत्वादिति भावः । ततः किमित्यत्राह अत इति । प्रसिद्धाकाश एवेति । अर्थान्तरपरत्वे हि यौगिकवृत्तिराश्रयणीया । न तत् युक्तम् ; रूढिर्हि योगात् प्रबलेति भावः । अर्थविरोधात् व्युत्पत्तिसिद्धार्थः त्यज्यत इति चोदयति
नन्विति । परिहरति सत्यमिति । इत्यादीत्यादिशब्देन, किं प्रयन्ति, केन जीवन्ति इत्यपेक्षा विवक्षिता । विशेषप्रतीतेरिति एतद्वाक्यविशेषेण वस्तुविशेषप्रतीतिर्हेतुतयोक्ता । जगज्जन्मादिकारणमाकाश एवेति निश्चिते इति । सद्विद्यादिप्रतिपन्नकारणानुवादिलक्षणवाक्योक्तं ब्रह्म आकाश एवेति निश्चिते इत्यर्थः । यद्वा आपातप्रतीतिः पूर्वमुक्ता निश्चित इति युक्तितो निर्णय उक्तः ॥
ननु ‘यतो वा इमानि’ इत्यादिवाक्यप्रकरण एव ‘आनन्दो ब्रह्म’ इत्यानन्दशब्देन विशेषनिर्णयोऽस्ति ॥ नैवम्; ‘यदेष आकाश आनन्दो न स्यात्’ इत्याकाशशब्दसामानाधिकरण्यादानन्दशब्दः किमाकाशपरः, आकाशशब्दः किमानन्दपरः इति संशयः स्यात् । तस्मादानन्दशब्दसामानाधिकरण्यरहितात् ‘आकाशादेव समुत्पद्यन्ते’ इति वाक्यादेव विशेषनिर्णय इत्यभिप्रायेण आकाश एवेति निश्चित इत्युक्तम् । साधारणाकाराः - साधारणरूपाः । “छागो वा मन्त्रवर्णात्’ इति न्यायोऽभिप्रेतः । आत्मशब्देन विशेषनिर्णयशङ्कां निरस्यति आत्मा वा इत्यादिना । तत्रैव - आकाशे । आकाशशब्दापेक्षया आत्मशब्दोऽपि साधारण इत्यर्थः । आत्मशब्दस्यावयवशक्त्याऽप्याकाशपरत्वं दर्शयति आप्नोतीति । व्यवस्थितरूढिशक्तेराकाशशब्दस्य रूढिभङ्गादपि नानार्थसाधारणरूढिशक्तेरात्मशब्दस्य रूढिभङ्ग उचित इति भावः । ईक्षणादीनां गौणत्वेन निर्वाद्यत्वमाह अत एवमिति । श्रुतिप्राबल्यात् लिङ्गं तदनुगुणं नेयमित्यर्थः । ईक्षणादिमुख्यत्वानुरोघी सदादिशब्दैरेव विशेषनिर्णय इति शङ्कायां सदादि शब्देभ्यः आकाशादिपदश्रुतेः प्राचल्यमुपपादयति यदि हीति । साधारणशब्दैरेवेति । न तु विशेष- / 1 आत्मशब्दस्य नियन्तृवाचित्ववत् स्ववाचित्वस्यापि सत्त्वात्, उपादानोपादेययोरभेदात् इदं नानारूपमग्रे एकं स्वमासीदित्यर्थवर्णने तत् खमाकाश इति आकाशवाक्यान्निर्णय इति भावः ।
१-१-८ आकाशाधिकरणम् १-१-२१ २५१ ईक्षणाद्यर्थानुरोधेन चेतनविशेष एव कारणमिति निरवेष्यत । आकाशशब्देन तु विशेष एव निश्चित इति नार्थखाभाव्यानिर्णेतव्यमस्ति ॥
ननु ‘आत्मन आकाशः सम्भूतः” इति आकाशस्यापि कार्यत्वं प्रतीयते ॥ सत्यम् । सर्वेषामेवाकाशवाय्वादीनां सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाद्वयमस्ति । तत्राकाशस्य सूक्ष्मावस्था कारणम् ; स्थूलावस्था तु कार्यम् । ‘आत्मन आकाशस्संभूतः’ इति, स्वस्मादेव सूक्ष्मरूपात् स्वयं स्थूलरूपः संभूत इत्यर्थः । ’ सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इति सर्वस्य जगतः आकाशादेव प्रभवाप्ययादिश्रवणात् तदेव हि कारणं ब्रह्मेति निश्चितम्। यत एवं प्रसिद्धाका. शादनतिरिक्तं ब्रह्म, अत एव [च] ‘यदेष आकाश आनन्दो न स्यात्’, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ इत्येवमादिनिर्देशोऽप्युपपन्नतरः । अतः प्रसिद्धाकाशादनतिरिक्तं ब्रह्मेति ॥
एवं प्राप्ते ब्रूमः - आकाशस्तलिङ्गात् । आकाशशब्दाभिधेयः प्रसिद्धाका शादचेतनादर्थान्तरभूतो यथोक्तलक्षणः परमात्मैव । कुतः । तल्लिङ्गात् । निखिलजगदेककारणत्वं सर्वस्मात् ज्यायस्त्वं शब्दान्तरे सतीति भावः । यदीत्यभिप्रेतं विपर्ययेण विशेषनिश्चायकसद्भावं दर्शयति आकाशशब्देन विति । रूढिर्हि योगमपहरतीति न्यायात् विलम्बितप्रतिपन्नात् यौगिकादपि शीघ्रधीविषये रूढ्यर्थ एवाकाशशब्दस्य परिग्राह्ये, सदादिशब्दानामीक्षणादिलिङ्गपर। मर्शसापेक्षत्वेन विलम्बितप्रवृत्तितया अतिशीघ्रप्रवृत्तित्वात् प्रबलतराकाशपदश्रत्याऽपेक्षिते विशेषे लब्धे, अर्थखभावनिर्णेतव्यविशेषाभावादीक्षणादयः तदनुरोधेन वर्णनीयाः । अतो न चेतनविशेषकारणत्व सिद्धिरित्यर्थः । (; कार्यतयाऽवगतस्य परमकारणत्वानुपपत्तिमुखेन चोदयति
नन्विति । परिहरति सत्यमिति । कार्यत्वेऽभिमतिः, तस्य कारणत्वभञ्जकत्वेऽनङ्गीकारः । वाय्वाद्युपादानं निदर्शनतया । सूक्ष्मावस्थाशब्देन तन्मात्रावस्था’ कथ्यते । ‘आत्मन आकाशः’ इति वाक्ये आत्मशब्दः खवाचीत्यर्थः । कुतः इत्थमखारस्येन अर्थो वर्ण्यत इत्यत्राह सर्वाणीति । प्रभवाप्ययादीत्यादिशब्देनावकाशप्रदानेन स्थितिहेतुत्वमुच्यते । परायणमिति यत्रोक्तम् । नामरूपयोर्निर्वहितेत्येवमादीत्यादिशब्देन “कं ब्रह्म खं ब्रह्म ‘प्राणं चास्मै तदाकाशं चोचुः’ ‘परमे व्योमन् प्रतिष्ठिता’ इति वाक्यान्यभिप्रेतानि । पूर्वपक्षमुपसंहरति अत इति । राद्धान्तमारभते एवमिति । पूर्वाधिकरण इव नात्र तद्धर्मोपदेशादित्युक्तम् ; अपि तु सल्लिङ्गादित्युक्तम् वाक्यान्तरप्रसिद्धार्थस्यानूदितस्य हेतुतया विवक्षितत्वात् । लिङ्गिसंबन्धित्वेन प्रमाणान्तरोपलब्धं हि लिङ्गं भवति । लिङ्गं च किमित्यत्राह निखिलजगदिति । ‘सर्वाणि ह घा इमानि भूतानि’ इत्यस्मिन् विषयवाक्ये सर्वशब्दस्यासङ्कोचमभिप्रेत्य निखिलेत्युक्तम् । भृतशब्दस्य वाय्वादिचतुष्टयमात्र परत्वव्युदासाय जगच्छन्दः । महच्छन्द्र पञ्च शब्दपृथिव्यादिशब्दसमभिव्याहाराभावे भूतशब्दस्याचित्संसृष्टचेतनपरत्वं स्वतः प्राप्तम् “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति”, “न हिंस्यात् सर्वा भूतानि”, “भूतानां प्राणिनः तन्मात्रावस्था - शब्दतन्मात्रावस्था । तस्या अप्याकाशशब्दवाच्यत्वमस्तीति भावः । यद्वा तन्मात्रेत्यस्य आकाशमा लेख्यर्थः । तेन त्रिवृत्कृतकार्याकाराव्यावृत्तिः । स तन्मात्रजन्यः । 2 अनूदितस्येति । लिङ्गपदस्य पूर्वप्रसिद्धत्वोपलक्षितार्थवाचित्वस्वाभाव्यमस्ति । अत्रायं धर्मः हृवै इति प्रसिद्धत्वेनावगत इति तेन पदेनेयं सिद्धान्तयुक्तिः सूच्यत इति भावः । 1
२५२ श्रतप्रकाशिकोपेते श्रीमाण्ये परायणत्वमित्यादीनि परमात्मलिङ्गान्युपलभ्यन्ते । निखिलेकारणत्वं ह्यचिद्वस्तुनः प्रसिद्धाकाशशब्दा भिधेयस्य नोपपद्यते ; चेतन वस्तुनस्तत्कार्यत्वासंभवात् । परायणत्वं च चेतनानां परमप्राप्यत्वम् । तच्चाचेतनस्य हेयस्य सकलपुरुषार्थविरोधिनो न संभवति । सर्वस्माज्ज्यायस्त्वं च निरुपाधिकं सर्वैः कल्याणगुणैः सर्वेभ्यो निरतिशयोत्कर्षः । तदप्यचितो नोपपद्यते । यदुक्तम्जगत्कारणविशेषाकाङ्क्षायामाकाशशब्देन विशेषसमर्पणादन्यत् सर्वे तदनुरूपमेव वर्णनीयमिति - तदयुक्तम् ; “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते” इति प्रसिद्धवनिर्देशो हि प्रमाणान्तरप्राप्तिमपेक्षते । प्रमाणान्तराणि च, “सदेव सोम्येदमग्र आसीत् " इत्येवमादीन्येव वाक्यानि । तानि च यथोदितप्रकारेणैव ब्रह्म प्रतिपादयन्तीति तत्प्रतिपादितं ब्रह्म आकाशशब्देन प्रसिद्धवन्निर्दिश्यते । संभवति च परस्य ब्रह्मणः प्रकाशकत्वादाकाशशब्दाभिधेयत्वम्, आकाशते आकाशयति चेति । 4 श्रेष्ठाः” इत्यादिप्रयोगस्वारस्यात् । अतः सर्वभूतकारणत्वोक्त्या चिदचिदात्मक समस्त प्रपञ्चकारणत्वमुक्तं भवतीत्यभिप्रायेण निखिलजगदित्युक्तम् । तत्र निमित्तान्तराश्रवणात् वाक्यान्तरैकार्थ्याच्च निमित्तोपादानादिरूपसर्वविधकारणत्वामिप्रायेणैककारणत्वमित्युक्तम् । आकशस्य तल्लिङ्गानुपपत्तिमाह निखिलकारणत्वमिति । अनेनैककारणत्वानुपपत्तिश्चाभिप्रेता । न ह्याकाशो निमित्तकारणं भवितुमर्हति । हेयत्वात् पुरुषार्थविरोधित्वाच्च प्राप्यत्वं च न संभवतीत्याह परायणत्वं चेति । अचेतनस्य । अचेतनत्वेन स्वरूपानन्तर्भूतत्वात् हेयत्वमित्यर्थः । सकलपुरुषार्थविरोधिनः । सकलानां पुरुषाणां साक्षात्पुरुषार्थो मोक्षः ; बन्धहेतुतया तस्य विरोधिन इत्यर्थः । यद्वा मोक्षविरोधितया हेयस्य, शब्दादिनिषिद्धविषयप्रावण्यजननात् धर्मादिसकलपुरुषार्थविरोधिनः । सर्वविधसुखस्य मोक्षान्तर्भावात् सकलपुरुषार्थरूपो मोक्षः, तद्विरोधिन इति वाऽर्थः । यद्वा कारणावस्थायामत्यन्तज्ञानसङ्कोच हेतुतया चतुर्णामपि पुरुषार्थानां विरोधिन इत्यर्थः । ज्यायस्त्वानुपपत्तिमाह सर्वस्मादिति ।
। अत्र पूर्वपक्षयुक्तेः कः परिहार उक्तो भवतीत्यपेक्षायां सूत्राभिप्रेतार्थं वक्ष्यन् परोक्तमनुवदति यदुक्तमिति । परिहरति तदयुक्तमिति । प्रथमं पुरोवादसापेक्षेण अनुवादेन पुरोवादिवाक्यविरुद्धार्थप्रतिपादनायोगं वक्तुमनुवादलिङ्गवत्वमाह सर्वाणीति । प्रसिद्धवन्निर्देशोऽस्तु ; ततः किमित्यत्राह प्रसिद्धवदिति । सापेक्षत्वमस्तु ततः किमित्यत्राह प्रमाणान्तराणि चेति । कथमाकाशशब्दस्म परब्रह्मवाचित्वमित्यत्राह संभवति चेति । प्रकाशकत्वात् - अन्येषां सर्वार्थप्रकाशकत्वात् । आकाशते स्वस्मै प्रकाशते । आकाशयति अन्यं प्रकाशयति खात्मने इत्यर्थः । यद्वा प्रकाशकत्वादिति णिजन्तत्वेन च अणिजन्तत्वेन च व्युत्पतिद्वयस्य तन्त्रोक्तिः । तस्यैव विवरणमाकाशत इत्यादि । रूढिप्राबल्यमर्थाविरोधे सतीति अपशूद्भाधिकरणनयोपजीवनेनात्रावयवशक्या निर्वाहः कृतः ; रूढ्य परित्यागेनापर्यंव सानवृत्त्या आकाशशब्दस्य आकाशशरीरकपरमात्मपरतया निर्वाहोऽप्यभिमतः ; वैश्वानराधिकरणे वैश्वानर शब्दस्योभयथाऽपि परमात्मपरत्वस्य वक्ष्यमाणत्वात्; आकाशादिशब्दानां तत्तच्छरीरकपरमात्मवाचित्वस्यानन्तरपादेऽनुवदिष्यमाणत्वाच्च ’ । आकाशशब्दस्याव्याकृतशरीरकपरमात्मपरत्वं तु यादवप्रकाशोक्तं विलम्बद्वयवत्त्वादुपेक्षितम् । 1 अन्तराधिकरणे ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इत्यत्र, ‘प्राणसरीरतया प्राणस्य नियन्तृत्वेन’,
२५३ किञ्च अनेनाकाशशब्देन विशेषसमर्पणक्षमेणापि चेतनांश प्रति असंभावित कारणभावमचेतन विशेषमभिदधानेन, “तदैक्षत बहु स्यां प्रजायेय, “सोऽकामयत बहु स्य प्रजायेय " इत्यादिवाक्य [वि] शेषावधारित सार्वश्यसत्यसङ्कल्पत्वादिविशिष्टा पूर्वार्थप्रतिपादनसमर्थवाक्यार्थान्यथाकरणं न प्रमाणपदवीमधिरोहति । एवमपूर्वामन्तविशेषणविशिष्टापूर्वार्थप्रतिपादनसमर्थानेकवाक्यगतिसामान्यं च एकेनानुवादसरूपेणान्यथा कर्तुं न शक्यते । यत्त-आत्मशब्दश्चेतनैकान्तो न सवति, ‘मृहात्मको घटः’ इत्यादिदर्शनादित्युक्तम्-तत्रोच्यते । यद्यपि चेतनादन्यत्रापि कचिदात्मशब्दः प्रयुज्यते, तथापि शरीरप्रति संबन्धिनि आत्मशब्दस्य प्रयोगप्राचुर्यात् ‘आत्मा वा इदमेक एवाग्र आसीत्’, ‘आत्मन आकाशः संभूतः’ इत्यादिषु शरीरप्रतिसंबन्धिचेतन एव प्रतीयते । यथा गोशब्दस्यानेकार्थवाचित्वेऽपि प्रयोगप्राचुर्यात् सास्नादिमानेव स्वतः प्रतीयते ; अर्थान्तरप्रतीतिस्तु तत्तदसाधारणनिर्देशापेक्षा - तथा स्वतःप्राप्तं शरीरप्रतिसंबन्धिचेतनाभिधानमेव, ‘स ईक्षत लोकान्नु सृजा इति’, ‘सोऽकामयत । बहु स्यां प्रजायेय’ न केवलं प्रसिद्धवन्निर्देशमात्रमनुवादकत्वसाधकम्, “यदाग्नेयोऽष्टाकपालः”, “उपरि हि देवेभ्यो धारयति” इत्यादौ अदर्शनादिति शङ्कायाम्, अयोग्यत्वे निश्चिते सति प्रसिद्धवन्निर्देशोऽनुवादकत्वसाधकइत्यभिप्रायेणाह किश्चेति । विशेषसमर्पणक्षमेणापीति । एकपदश्रवणवेलायां विशेषसमर्पणक्षमेणापि, परामर्शदशायामयोग्यतया निश्चितोऽर्थो न प्रतिपादयितुं शक्यत इत्यभिप्रेत्य असंभावित कारणभावमित्युक्तम् । तदैक्षतेति सद्विद्यावाक्यशेषः’ । सोऽकामयतेति ब्रह्मविदाप्नोतीत्यनुवाकवाक्यशेषः । ब्रह्मणो योग्यार्थत्वज्ञापनाय सार्वश्यादिकमुक्तम् । न प्रमाणपदवीमधिरोहतीति । अयोग्यार्थेनानुवादरूपेण वाक्येन योग्या पूर्वार्थवाक्यानामन्यथाकरणमयुक्तमित्यर्थः । उक्तवैषम्यद्वयानुवादेन अनेकवाक्यान्येकेन वाक्येन बाघयितु (बाधितु ? ) मशक्यानीत्याह एवमिति । गतिसामान्यम् – प्रवृत्तिसामान्यम् । अस्य लोकस्य का गतिः’ इत्युपक्रमवशादन्यपरत्वं स्फुटम् । एवमाकाशकारणपक्षे अन्यपरत्वमेकवाक्यत्वमयोग्यार्थत्वमनुवादरूपत्वम् खपक्षे अनन्यपरत्वं वाक्यबहुत्वं योग्यार्थत्वमपूर्वत्वञ्चेति वैषम्यचतुष्टयमुक्तम् । एवं योग्यार्थ - श्रुतिमूलं लिङ्गम् अयोग्यार्थश्रुतितः प्रबलमिति सिद्धान्तन्याय उक्तो भवति । यथा गङ्गाशब्दः स्वार्थसमर्पणक्षमो भूतलधर्मतया प्रत्यक्षसिद्धघोषाधिकरणत्व लिङ्गविरोधेनान्वयायोग्यः स्वार्थप्रतिपादनक्षमत्वाभा - . बात् श्रुत्याभासः, एवं योग्यार्थं श्रुतिमूललिङ्गापेक्षया आकाशश्रुतिः श्रुत्याभास इति । आत्मशब्दानैकान्त्यं यत्त्वत्यादिनाऽनूद्य परिहरति तत्रेति । स्वतः प्राप्त्या आत्मशब्दो विशेषवाचीत्यर्थः । प्रकृतब्रह्मवाचितच्छन्दसामानाधिकरण्याच्च न स्वरूपपरत्वमिति अर्थसिद्धम् । न केवलमर्थान्तरसाधक निर्देशाभावः, स्वतः प्राप्तार्थसाधक निर्देशो ऽप्यस्तीत्याह स ईक्षतेति ॥ . ‘सुखाकाशयोरपि ब्रह्मणः शरीरतया…विशेषणत्वमिति खपदप्राणपदयोः विशिष्टपरत्वसंभवभाषणादिति भावः । पाञ्चरात्राधिकरणेऽपि भाषितमनुसंधेयम् । प्रकृतविषयवाक्ये तदयोगेऽपि अधिकरणेऽत्र तस्यापि विवक्षितत्वं नायुक्तम् । प्रकृतविषेयवाक्यम पिसर्वत्र प्रसिद्ध्यधिकरण प्रथमसूत्रसिद्धान्ते निर्देक्ष्यति । 1 तदैक्षतेत्यादेः आकाशवाक्यव्यूहनिविष्ठत्वाभावात् कथं वाक्यशेषेत्युक्तमित्यत्राह तदिति । वाक्यविशेषेति पाठे तु नैष लेशः ।
२५४. १-१-९ प्राणाधिकरणम् इत्यादितत्तद्वाक्यविशेषा एव स्थिरीकुर्वन्ति ॥ एवं वाक्य [वि] शेषावधारितानन्य साधारणानेका - पूर्वार्थ विशिष्टं निखिलजगदेककारणं ‘सदेव सोम्य’ इत्यादिवाक्यसिद्धं ब्रह्मैवाऽऽकाशशब्देन प्रसिद्धवत् ‘सर्वाणि ह वा इमानि भूतानि’ इत्यादिवाक्येन निर्दिश्यत इति सिद्धम् ॥ २३ ॥ ॥ हत्याकाशाधिकरणम् ॥ प्राणाधिकरणम् १-१-९ अत एव प्राणः ॥ १-१-२४ ॥ इदमाम्नायते छान्दोग्ये, “प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता” इति प्रस्तुत्य “कतमा सा देवतेति । प्राण इति होवाच, सर्वाणि द्द वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज़िहते । सैषा देवता प्रस्तावमन्वायत्ता । तां चेदविद्वान् प्रास्तोष्यः, मूर्द्धा ते व्यपतिष्यत् ” इति ॥ अत्र प्राणशब्दोऽप्याकाशशब्दवत् प्रसिद्धप्राणव्यतिरिक्ते परस्मिन्नेव ब्रह्मणि वर्तते, तद्साधारणनिखिलेजगत्प्रवेशनिष्क्रमणादिलिङ्गात् प्रसिद्धवन्निर्दिष्टात् । अधिकाशङ्का तु कृत्स्नस्य भूतजातस्य प्राणाधीन स्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्ध एव प्राणो अधिकरणार्थमुपसंहरति एवमिति । योगादूढेः प्राबल्यात् प्रसिद्धार्थपरत्वे सति श्रुतिविरोधात् दुर्बलं लिङ्गादि तदनुरोधेन नेयमिति पूर्वपक्षयुक्तिः । योग्यार्थश्रुतिमूललिङ्गादयोग्यार्थस्य पदस्य श्रुत्याभासत्वात् योग्यार्थः स्वीकार्य इति राद्धान्तयुक्तिः ॥ ( २३ ) …
उक्ताधिकरणन्यायमतिदिशति अत एव प्राणः ॥ विषयमाह इदमिति । मूर्द्धा ते व्यपतिष्यत् - 1 आत्मसत्ता न लभ्येतेत्यर्थः । किं वेदान्तवेद्यः प्रसिद्धः प्राणः, उत परमात्मा ; तदर्थं प्राण इति होवाच, प्राणमेवाभिसंविशन्तीत्युक्तः प्राणः किं प्रसिद्धः, उत परः; तदर्थे किं प्राणशब्दो रूढः, उत यौगिक ः ; तदर्थं भूतजातस्य प्रसिद्धप्राणायत्त स्थितिप्रवृत्तित्वमस्ति, उत न—इति विचारः । यदाऽस्ति, तदा रूढत्वात् विषयवाक्यस्थप्राणशब्दः प्रसिद्धप्राणपर इति सर्ववेदान्तवेद्यः प्रसिद्धः प्राण इति पूर्वपक्षे फलितम् । राद्धान्ते तु यदा प्राणायत्तस्थितिप्रवृत्तित्वं नास्ति, तदाऽवयवशकचा विषयवाक्यस्थप्राणशब्दः परमात्मपर इति सर्ववेदान्तवेद्यः परमात्मेति फलफलिभावः । अक्षरार्थमाह अत्रेति । आकाशशब्दवदित्यत्र रूढिप्राबल्यतत्परिहारादिकं पूर्वोक्तं सर्वमनुसन्धेयम् । न हि प्रत्युदाहरणं न्यायोऽतिदेष्टव्यः । अतिदेशस्य हि प्रयोजनम् अधिकाशङ्का परिहारः । अतः सूत्रकाराभिमतामधिकाशङ्कां दर्शयति कृत्स्नस्येति । अत्र अविरोधशङ्कया प्रत्यवस्थानं विरोधफुटीकरणं चानुसन्धेयम् । स्थितिप्रवृच्यादीत्यादिशब्देन निवृत्तिरुच्यते ; प्रवृत्तिहेतुभूतज्ञानचिकीर्षे च । स्थितिप्रवृत्तिहेतुत्वेनोत्पत्तिकारणत्वमर्थसिद्धमिति भावः । यद्वा – “यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति, प्राणं चक्षुः, प्राणं श्रोत्रम्, प्राणं मनः । यदा प्रबुद्धयते, प्राणादेवाधि पुनर्जायन्ते” इति प्रसिद्धवं निर्देशर हिंतयां श्रुत्या प्राणस्य अप्ययोद्गमनहेतुत्वावगमश्व आदिशब्देन विवक्षितः । अस्मिन् प्रकरणे उद्गीथ प्रतिहारयोर्देषतात्वेन अन्नादित्यावुक्तौ । तयोश्चाब्रह्मत्वात् प्राणोऽपि ब्रह्मव्यतिरिक्तः प्रसिद्ध एव प्राच इतीदं भाष्येऽनादृतम् ; प्रकरणोक्तानाम् अन्नमयादीनामब्रह्मत्वेऽपि कारणस्य परब्रह्मत्वमानन्दवल्ल्यां 1 श्रुतेर्यथाश्रुतार्थग्रहणसंभवादिदमेष ठीकावाक्यमप्रथाक्षुतार्थे नेयम् - भा० प्र०
१-१-१० ज्योतिरधिकरणम् २५५ जगत्कारणतया निर्देशमर्हतीति ॥ परिहारस्तु - शिलाकाष्ठादिषु, चेतनस्वरूपे च तदभावात्, “सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते” इति नोपपद्यत इति । अतः प्राणयति सर्वाणि भूतानीति कृत्वा परं ब्रह्मैव प्राणशब्देनाभिधीयते । अतः प्रसिद्धाकाशप्राणादेरन्यदेव निखिलं जगदेकारणमपहतपाप्मत्व सार्वश्य सत्य सङ्कल्पत्वाद्यनन्तकल्याणगुणगणं परं ब्रह्मवाकाशप्राणादिशब्दाभिधेयमिति सिद्धम् ॥ २४ ॥ ॥ इति प्राणाधिकरणम् ॥ ज्योतिरधिकरणम् १-१-१० अतः परं जगत्कारणत्वव्याप्तेन येन केनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैरप्यभिधीयमानं परं ब्रह्मैवेत्यभिधीयते ज्योतिश्चरणाभिधानादित्यादिना - ज्योतिश्चरणाभिधानात् ॥ १-१२५ ॥ इदमाम्नायते छान्दोग्ये - " अथ यदतः परो दिवो ज्योतिदीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्ते मेषूत्तमेषु लोकेषु, इदं वा व तत् यदिदमस्मिन्नन्तःपुरुषे ज्योतिः” इति । तत्र संशयः, किमयं ज्योतिश्शब्देन निर्दिष्टो निरतिशयदीप्तियुक्तोऽर्थः प्रसिद्धमादित्यादिज्योतिरेव कारणभूत समर्थितमिति प्रकरणमात्रस्य पूर्वपक्षावलम्बनत्वेन बुद्धावनारोहात् । जगत्कारणतयेति । संसृष्टं प्रति कारणत्वं संभवतीति भावः ॥ अधिकं परिहारं दर्शयति परिहारस्त्विति । आदिशब्दोक्त आकाशादिः । ‘प्राणं तर्हि वागप्येति’ इत्यादिश्रुतिरिन्द्रियव्यापारविषया । प्राणशब्दस्य परब्रह्मवाचित्वं कथमिति शङ्कां परिहरन् अधिकरणार्थमुपसंहरति अत इति । वृताधिकरणद्वयस्य अवान्तरपेटिकात्वं दर्शयति अतः प्रसिद्धेति ॥ वर्तिष्यमाणाधिकरणद्वयस्य पेटिकान्तरत्वमाह अतः परमिति । वस्त्वन्तरासाधारणैः शब्दैर्जगत्कारणे निर्दिश्यमानेऽपि कारणत्वाभिधायिनां वाक्यानां विशेषपर्यवसानं कृतम् । अथ कारणत्वाक्षेपकलिङ्ग [विशेष ] वाचिनां वाक्यानामभिमतविशेषपर्यवसानमुच्यत इत्यवान्तरपेटिका भेदस्तत्सङ्गतिश्चेत्यर्थः । ज्योतिश्शब्दे नावान्तरसङ्गतिश्च द्योतिता । प्राणः वायुविशेषः ; आदित्यादिज्योतिः तेजोविशेषः; अतः आकाशप्राणज्योतिषां क्रमो युक्त इति ॥
नन्वाकाशादिशब्दत्रयं परमात्मपरमिति सिद्धान्तितम् ॥ सत्यम् ; तथापि प्रसिद्ध्यनुसारिण्या पूर्वपक्षदृष्ट्या सङ्गत्युपपचिः । येन केनापीति न लिङ्गारूपत्वं विवक्षितम् ; किन्तु उदाहृतविषयवाक्यप्रतिपन्नोऽयमेव गुणः कारणत्वाक्षेपक इति गुणविशेषानियम इति भावः । उभयोः पेटिकयोरनुयायिनमाकारं दर्शयति अर्थान्तरप्रसिद्धेरपीति ।
ज्योतिश्चरणाभिधानात् ॥ इदमित्यादि । पृष्ठेषु — उपरितनेषु । ‘त्रिपादूर्ध्वः’, ‘तमसोपरिष्टात् इत्यादिश्रुतिभ्यः । व्यष्टिसमष्टिविवक्षया विश्वतः सर्वत इत्युक्तम् । अनुत्तमेषु — स्वस्मादन्य उत्तमो नास्तीत्यनुत्तमः । विश्वतः कृत्स्नभूमिप्रदेशात्, सर्वतः कृत्स्नान्तरिक्षप्रदेशात् पृष्ठेषु-बहिर्भूतेषु, इति योजनासंभवात् पूर्वपक्षोत्थानम् । आदित्यो मूर्ध्वलोकेष्वपि रश्मिद्वारा दीप्यते । तत्रेति । लोकप्रसिद्धि-भूतचरणत्वाभ्यां संशयः । निरतिशयदीप्तियुक्तोऽर्थ इति पूर्वपक्षसिद्धान्तसाधारण निर्देशः । निरतिशयदीतिरेव कारणत्याक्षेपकं लिङ्गम् ; “न तत्र सूर्यो भाति….तस्य भासा सर्वमिदं विभाति”
२५६ १-१-१० ज्योतिरधिकरणम् ( पूर्वपक्षः ) ब्रह्म, उत समस्तचिदचिद्वस्तुजातविसजातीयः परमकारणभूतोऽमितभाः सर्वज्ञः सत्यसङ्कल्पः पुरुषोत्तमः इति । किं युक्तम् । प्रसिद्धमेव ज्योतिरिति । कुतः । प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपान्त परमात्मव्याप्तलिङ्गविशेषादर्शनात् परमपुरुषप्रत्यभिज्ञानासंभवात् । कौक्षेयज्योतिषैक्योपदेशाच्च प्रसिद्धमेव ज्योतिः कारणत्वव्याप्त’निरतिशयदीप्तियोगाज्जगत्कारणं ब्रह्मेति इति प्रकरणे " तथाऽक्षरात् संभवतीह विश्वम्” इति निरतिशयदीतियुक्तस्य वस्तुनः कारणत्वश्रवणात् । तत्प्रकरणस्य कारणविषयत्वं ह्यविगीतम् । परमात्मविषयत्वे हि विमतिः । निरतिशदीप्तियोगात्कारणभूतं ब्रह्म भवन् ज्योतिःशब्दनिर्दिष्टोऽर्थः किं प्रसिद्धमादित्यादिज्योतिरेवेत्यन्वयार्थः । सावान्तर भेदसमष्टिव्यष्टयादिविवक्षया समस्त चिदचिद्वस्तुजातशब्दः । व्याप्तिग्रहणस्थानोपनिषत्प्रसिद्धं विशेषणमाह सर्वज्ञः सत्यसङ्कल्प इति । “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः” इति हि श्रूयते । अस्यामुपनिषदि पुरुषसूक्तप्रत्यभिज्ञानात् पुरुषोत्तम इत्युक्तम् । “अथ यदतः परो दिवो ज्योतिर्दीप्यते” इत्यत्र ज्योतिश्शब्दः किं प्रसिद्धादित्यादिज्योतिविषयः, उत परमात्मपर इति तदर्थं पूर्ववाक्ये संबन्धितया निर्दिष्टस्य परमात्मनः किमत्र प्रत्यभिज्ञानं नास्ति, उतास्ति ; तदर्थं कौक्षेयज्योतिषैक्योपदेशः उपदेशभेदश्च किं प्रत्यभिज्ञाविरोधिनौ, उताविरोधिनौ; पूर्वस्मिन् ब्राह्मणवाक्ये गायत्रीशब्दः किं प्रसिद्ध गायत्रीपरः, उत न-इति विचारः । यदा विरोधिनौ, गायत्रीशब्दार्थश्च प्रसिद्धः - तदाऽस्मिन् वाक्ये परमात्म प्रत्यभिज्ञाऽभावात् द्यसंबन्धिज्योतिः प्रसिद्धादित्यादिज्योतिरेवेति पूर्वपक्षे फलफलिभावः । यदा कौक्षेयज्योतिषैक्योपदेशो विभक्तिभेदश्च न परप्रत्यभिज्ञाविरोधिनौ, गायत्रीशब्दश्च ब्रह्मपरः - तदा पूर्ववाक्योक्तसंबन्धिपरमात्मन इह प्रत्यभिज्ञानात् दिवः परत्वेनोक्तज्योतिः परमात्मैवेति राद्धान्ते फलफलिभावः ॥ [ स्ववाक्येति । १]
ननु कथं स्ववाक्ये परमात्मलिङ्गाभावः ; निरतिशयदीप्तियोगाक्षिप्तं कारणत्वं हि परमात्मलिङ्गम् ॥ नैवम् । न हि जगत्कारणत्वमात्रं परमात्मलिङ्गम्, अपि तु कारणत्वविशेष एव तल्लिङ्गम् । कृत्स्नचेतनाचेतनं प्रति सर्वविधकारणं हि परमात्मा । पूर्वाधिकरणद्वयविषयवाषयेऽपि ‘सर्वाणि ह वा इमानि भूतानि ’ इति समस्तचेतनाचेतनं प्रति कारणत्वरूपं परमात्मलिङ्गं स्ववाक्यस्थम् । न तथाऽत्र परमात्म लिङ्गभूतकारणत्वविशेषः स्ववाक्ये दृश्यत इत्यभिप्रायेणोक्तं परमात्मव्याप्त लिङ्गविशेपादर्शनादिति । ततः किमित्यत्राह परमपुरुषेति । हेत्वन्तरमाह कौक्षेयेति । प्राकृततेजस्तत्त्वकार्यतया आदित्यादेः कौक्षेयज्योतिषश्च एकजातीयतया सामानाधिकरण्यनिर्देशः ऐक्योपदेशः । कौक्षेयज्योतिषश्च भौतिकत्वम् उष्णत्वघोषगुणकत्वामननात्सिद्धम् । “तस्यैषा दृष्टिः, यत्रैतदस्मिंश्छरीरे संस्पर्शनोव्णिमानं विजानाति । तस्यैषा श्रुतिः, यत्रैतत्कर्णावपिगृद्य निनदमिव नदथुमिव अमेरिव ज्वलतः उपशृणोति” इति हि श्रयते । प्रसिद्धमेव ज्योतिरिति । आदित्यादौ ज्योतिश्शब्दस्य प्रसिद्धत्वादिति भावः । एवं स्ववाक्येत्यादिना कौक्षेयेत्यादिना च खवाक्ये विरोधिलिङ्गाभावाल्पानुकूललिङ्गसद्भावौ दर्शितौ भवतः । [दीप्तीति । १] दीप्यत इति श्रूयमाणा दीप्तिश्च रूपवत्पदार्थनिष्ठा भवतीत्यभिप्रेतम् अस्यापि हेतोः परिहरिष्यमाणत्वात् । तु 3] 1 कारणत्वव्याप्तेति । कारणमात्रवृत्तीत्यर्थः । तदितरावृत्तित्वमेव विवक्षितम् । न व्यक्तधनेकत्वघटिता व्याप्तिरिह । एवमुत्तराधिकरणेऽपि । 2 तर्हि वाक्यान्तरात् परमात्मसिद्धौ किं वाधकमिति चेत्-अधिककारणत्वाश्रयवस्त्वन्तरसत्त्वे एतद्दीप्तिनिरतिशयत्वभङ्ग इति स एवं बाधकः 1.
१-१-१० ज्योतिरधिकरणम् १-१-२५ २५७ एवं प्राप्ते प्रचक्ष्म-ज्योतिश्चरणाभिधानात् । द्यसंबन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योतिः परमपुरुष एव । कुतः । " पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि” इत्यस्यैव संबन्धिनश्चरणत्वेन सर्वभूताभिधानात् ॥ 1 सर्वगतस्य ब्रह्मणो द्यमर्यादत्वासंभवस्तु परैः पूर्वपक्षहेतुतयोक्तो माप्ये नाहतः; भौतिकज्योतिषोऽपि मर्यादत्वासंभवात । सर्वत्र भौतिकानि ज्योतींषि हि विद्यन्ते । उपासनार्थप्रदेशविशेषपरिग्रहस्तु ब्रह्मणोऽप्युपपद्यते । लोकेष्वित्यधिकरणबहुत्वप्रतीतिश्च सर्वत्र सतो ब्रह्मण उपपन्ना । ‘तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद’ इत्यल्पफलत्वश्रवणं तु ब्रह्मविदामपि विद्यानुकूलसकलफलप्रदत्वात् परमात्मन उपपद्यते । एवमेतेषां हेतूनामधिकरणान्तरपरिहार्यत्वादमी पूर्वपक्षेऽनादृताः ॥ । ; एवं प्राप्त इति । चरणत्वेन सर्वभूताभिधानं कारणस्य जीववैलक्षण्यनिश्चायकम् जीवमात्रस्य सर्वभूतपादवत्त्वानुपपते । तत एव पुरुषसूक्तप्रत्यभिज्ञापकतया देवताविशेषनिश्चयः । तद्द्वारा, दीप्तियोगस्य भौतिकज्योतिष्टे हेतुता परिहारश्च भवति ॥ पुरुषसूक्तं कस्मात् सूत्रकारेण न निरूपितम् ॥ संशयहेत्वभावादिति ब्रूमः । सन्दिग्धे हि न्यायः प्रवर्तते । पुरुषसूक्ते च ज्योतिश्शब्दः छन्दोभिधानादिकं प्रधानक्षेत्रज्ञासाधारणलिङ्गान्तरं वा कचिन्न दृश्यते । सर्वभूतपादवत्त्वादिधर्माश्च तयोरसंभाविताः ॥ तर्हि चिदचिद्विलक्षणकारणास्तित्वविषयस्य प्रथमपादस्यानारम्भः स्यादिति चेन्न; बहूनां वेदान्तवाक्यानां प्रकृतिपुरुष कारणमात्रवादित्वे तद्विरोधेनात्रापि संशयप्रसङ्गात् तेषां भूयसां बलीयस्तया विपरीतनिश्चयप्रसङ्गाच्च तद्वयुदासायारम्भणीयत्वात् । तेषु च प्रकृतिपुरुषविलक्षण विषयतया न्यायतो निश्चितेषु संशयविपर्ययाभावात् पुरुषसूक्तस्य चिदचिद्विलक्षणे परे ब्रह्मणि प्रामाण्यमप्रतिभटमवतिष्ठते । अतो न तंत्र निरूपणीयम् । तस्य च तत्त्वपरत्वं [ पुरुषसूक्तस्य भगवत्परत्वम् ] तत्रापि महापुरुषसंज्ञदेवताविशेषविषयत्वमप्यविगीतम् ; अनेकोपपत्तिसिद्धञ्च । । तथा हिइदं तावत् “अग्निमीडे पुरोहितम्”, “अभि त्वा शूर नो नुमः”, “स्तौमीन्द्र नाधितो जोहवीमि”, “स्तौम्यग्निं नाधितो जोहवीमि” इत्यादिवत् अस्य स्ववाक्यं न ( न स्ववाक्यस्य) ( न खवाक्येन ?) स्तुतिपरत्वमवगमयति, “अर्हन् विभर्षि सायकानि धन्वेत्याह; स्सौत्येवैनमेतत्”, “ततो देवा ऊर्द्धबाहवो रुद्रमस्तुवन्” इत्यादेखि वात्रयान्तरेणास्य स्तुतिपरत्वं नावगम्यते । नापि स्तुतिपरत्वे लिङ्गमुपलभ्यते । न हि, “नमस्ते अस्तु मा मा हिंसीः”, “देहि मे ददामि ते” इतिवत् नमस्कारः अनिष्टनिवृत्तीष्टलाभप्रार्थना वा दृश्यते । “विश्वस्मादिन्द्र उत्तरः “, " तस्य वज्रमादाय शीर्षाण्यच्छिनत् । तं भूतान्यभ्यकोशन् ब्रह्महन्निति”, “अग्निस्सर्वा देवताः”, “अनि वै जातं पाप्मा जग्राह” इत्यादिभिरनीन्द्रादीनामिव प्रतिपन्नस्य प्रकर्षस्य बाधकश्च (ञ्च १) न दृश्यते । न हि परमपुरुषस्य कार्यत्व कर्मवश्यत्वादिकं क्वचिदनन्यपरवाक्येनावगम्यते “आकाशो ह वै नाम” “यतो वा इमानि” इत्यादिवाक्यानामिवानुवादरूपतया साकाङ्खत्वं नास्य प्रतीयते । “तदेषाऽभ्युक्ता”, “तदेतदृचाऽभ्यनूक्तम् " इतिवत् स्वोपदिष्टार्थसाक्षित्वेन प्रमाणान्तरानुपस्थानाच्च नैरपेक्ष्यमवगम्यते । “तदेतदृचाऽभ्यनूक्तम्-तावानस्य 1 भाष्ये परोक्तबहुहेतूनामनुपन्यासे कारणमाह सर्वेति । 233
२५८ १-१-१० ज्योतिरधिकरणम् (पुरुषसूक्तवैशेष्यम्) 1 महिमा” इत्यादिभिः साक्षित्वेनोदाहृतत्वाच्च स्वयमन्यानपेक्षस्य प्रमाणान्तरोपजीव्यत्वं च प्रतीयते । “इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । ऋतं सत्यं च विख्यातम् ऋषिसिंहेन चिन्तितम्” इति मोक्षधर्मे तत्त्वनिष्कर्ष कतया व्यासेनोदाहृतम् । अत्र च सर्वेषु वेदेषु पठिततया संनिहितत्वात् तत्तच्छाखागतानां तत्त्वपरवाक्यानामाकाङ्क्षितयोग्यविशेषसमर्पकतयाऽनुरोद्धव्यमिदमित्यवगम्यते । एवं तत्त्वपरस्यास्य सूक्तस्य देवताविशेषपरत्वं दुरपह्नवम् । “पुरुषो ह वै नारायणोऽकामयत” इति’ (?) बृहदारण्यके पुरुषशब्दस्य नारायणपरत्वदर्शनात् । किञ्च छान्दोग्ये (?) “एषा वैष्णवी नाम संहिता एतां प्रयुञ्जन् विष्णुं प्रीणाति” इत्युक्तम् । आथर्वणे अष्टादश महाशान्तिप्रकरणे ततद्देवत्यशान्तिषु तचद्देवत्यमन्त्रविनियोगावसरे, “वैष्णव्यां पुरुषसूक्तम्” इति वैष्णव्यां शान्तौ पुरुषसूक्तं विनियुज्यते । तथा “आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम्” इत्यादिना शौनकेन भगवत्समाराधने, “जितं ते” इत्यादिमन्त्रतुल्यं विनियुज्यते । महापुरुषशब्दश्च कल्पसूत्रकारैर्देवताविशेष एव प्रयुक्तः, “महादेवं वा महापुरुषं वाऽर्चयेत्” इति । इह च “वेदाहमेतं पुरुषं महान्तम्” इत्युच्यते । अतश्च भगवदसाधारण्यन् । तथा “पुरुषस्य हरेस्सूक्तं स्वग्र्ग्यं धन्यं यशस्करम्” इति च स्मर्यते । तथा " योऽनूचानं द्विजं मर्त्यो हतवान् अर्थलोभतः । स पठेत् पौरुषं सूक्तं स्मरन् विष्णुं जले सकृत्” इति यमस्मृतौ रहस्यप्रायश्चितेषूक्तम् । तथा योगवासिष्ठे, “आसीनः प्राङ्मुखः शुद्धः चिन्तयन् मनसा हरिम् । पौरुषेणैव सूक्तेन जुहुयाद्धव्यवाहनम्” इत्युक्तम् । लक्ष्मीपतिप्रतिपादकोत्तरनारायण समानप्रकरणं चेदम् । ‘सहस्रशीर्षापुरुषः’ ‘पुरुष एवेदं सर्वम्’ इति नारायणानुवाकै कार्थ्यञ्च प्रतीयते । ‘पुरुष एवेदं सर्वम्’ इति वाक्येन सुबालोपनिषदैकार्थ्यञ्च प्रतीयते । तत्र हि, “दिव्यो देव एको नारायणः” इति नारायणपरत्वमवगम्यते । तत्र च, ‘पुरुष एवेदं सर्वम्’ इत्युपसंहृतम् । तथा पाने पुराणे, “ब्रह्महत्यादिपापानां सर्वेषामपनुत्तये । पठेत्तु पौरुषं सूक्तमेकान्ते संस्मरन् हरिम्” इत्युच्यते । तथा स्कान्दे “यथा भास्करशब्दोऽयमादित्ये प्रतितिष्ठति । यथा चानौ बृहद्भानुर्यथा वायौ सदागतिः ॥ यथा पुरुषशब्दोऽयं वासुदेवे प्रतिष्ठते ( प्रतिष्ठितः । तथा शक्करशब्दोऽयं महादेवे प्रयुज्यतेः इति शंकर शब्ददृष्टान्तत्वेन पुरुषशब्दस्य भगवदसाधारणत्वकथनाच्च पुरुषसूक्तस्य तदसाधारण्यं प्रतीयते । पाद्मे पुराणे नामनिर्वचनाध्याये, “पूस्सज्ञे तु शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्यासेन प्रयुज्यते ॥ यद्वा पुरे शरीरेऽस्मिन् आस्ते स पुरुषो हरिः । यदि वा पुरि वासीति पुरुषः प्रोच्यते हरिः । यदि वा पूर्वमेवासमिहेति पुरुषं विदुः । यदि वा बहुदानाद्वै विष्णुः पुरुष उच्यते । पूर्णत्वात् पुरुषो विष्णुः पुराणत्वाच्च शार्ङ्गिणः । पुराणभजनाच्चापि विष्णुः पुरुष ईर्यते । यद्वा पुरुषशब्दोऽयं रूढ्या वक्ति ‘जनार्दनम् " इति च योगरूढत्वमवगम्यते । अतः पुरुषप्रतिपादकं सूक्तं भगवदसाधारणमिति ‘चरणाभिधानात्’ इति वदता सूत्रकारेण देवताविशेषनिष्कर्षः कृतः । सारे चैवं विशदतममुक्तं भगवता भाष्यकारेण । अंतो यथोक्तार्थ उपपन्नः ॥ घु अत्र ‘पादोऽस्येति मन्त्रे ‘त्रिपादस्यामृतं दिवि’ इति शब्देन द्योतमानसंविदात्म स्वरूपमुच्यत 1 नेदमत्र 2 भावप्रकाशिकायामेतत्पूर्ववाक्यमप्युपान्तम्, इदं विष्णुरिति । नेदं छान्दोग्ये 1
१-१-१० ज्योतिरधिकरणम् (परोकऋगर्थव्युदासः) २५९ एतदुक्तं भवति - यद्यपि ‘अथ यदतः परो दिवो ज्योतिः” इत्यस्मिन् वाक्ये परमपुरुषाइति केचिदाहुः । तदानीमस्य दिवीति व्यतिरेकनिर्देशस्य क्लिष्टता स्पष्टा । किञ्च सम्बन्धिप्रत्यभिज्ञापकतया तदेकार्थत्वेन सूत्रकारोदाहृते, “अथ यदतः परो दिवो ज्योतिर्दीप्यते” इति वाक्ये पञ्चम्यन्ततया श्रूयमाणेन शब्देन विरोधश्व स्यात् । न हि द्योतमानमात्मस्वरूपं स्वस्वरूपात्परं भवति । दिवि हृदयाकाशे स्थितमिति भास्करः । तदयुक्तम् ; ‘अतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु’ इति श्रुतिविरोधात् । न हि हृदयाकाशो दिव उपस्तिनेषु लोकेषु वर्तते ॥ परमात्मन आदित्यमण्डलेऽप्यवस्थानात् तद्विषयं तद्वाक्यमिति चेन्न ; रविमण्डलस्य भूमेर्योजनलक्षेऽवस्थितस्य विश्वप्रपञ्चबहिर्भावाभावात्; विश्वसर्वशब्दयोर्भूम्यन्तरिक्षमात्रपरत्वे स्वारस्यभङ्गाच्च । किञ्च सप्तम्यन्तपञ्चम्यन्तयोर्धशब्दयोर विरोधेनार्थैकत्वं चतुर्थसूत्रे समर्थितम् ; तच्च तयोर्हृदयाकाशरविमण्डलपरत्वेऽनुपपन्नम् । विश्व सर्वशब्दस्वारस्यभङ्गप्रसङ्गादेव द्युशब्दस्य प्रसिद्धद्युपरत्वं चायुक्तम् ॥ 1 जाग्रत्स्वप्न सुषुप्त्यवस्थासु जीवसञ्चारभूमितया त्रेधा विभक्ताः कार्याकाशप्रदेशविशेषास्त्रयः पादाः, तदुपलक्षणं कारणब्रह्मखरूपं त्रिपादमृतमुच्यते इति चायुक्तम् ; अस्य त्रिपादिति व्यतिरेक निर्देशस्यामुख्यत्वात् । जीवस्य जाग्रदवस्थायां बाह्याकाशः सञ्चारभूमिरिति चायुक्तम् ; तदानीमपि शरीरान्तर्वतित्वात् । स्वप्ने शरीराकाशवर्तित्वमप्ययुक्तम् ; ईश्वरसृष्टशरीरैर्वे हिरण्यवस्थानात् तदनभ्युपगमेऽपि पूर्वसंस्कार सहकृतमनोव्यापारमात्रेण हृदयावस्थानेऽपि जीवस्य स्वानभ्रमोपपत्तेः स्वप्ने जीवस्य हृदयान्निष्क्र मणस्य निष्प्रमाणकत्वाच्च । ‘हृदि ह्ययमात्मा’ इति जीवस्य स्वतो हृद्यवस्थानं श्रूयमाणं स्वप्नावस्थायां कथं वचनेन विनाऽपोद्यते । तस्मादृचोऽयमर्थः - सर्वा भूतानीति कार्यजगदन्तर्गताचित्संसृष्टचेतना उच्यन्ते । धशब्दस्त समस्तव्यष्टिसमष्टितत्त्ववहिर्भूतस्थानविशेषपरः, “विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु” इति श्रवणात् । विश्वशब्दविवरणं सर्वशब्द इति गत्यभावलिङ्गम् । ‘तथाऽक्षरात्संभवतीह विश्वम्’ इति जगदन्तर्वर्तिव्यष्टिजाते विश्वशब्दप्रयोगात् विश्वशब्दो व्यष्टिपरः । सर्वशब्दः परिशेषात् समष्टितत्त्वपरः । अत एव गद्येऽपि गदितं भाष्यकारैः, “समस्तं कार्यकारणजातमतीत्य वर्तमाने” इति । पुरुषसूक्ते “ते ह नाकं महिमानः सचन्ते” इति मुक्तप्राप्यदेशस्य नाकशब्देनोक्तत्वात्, मुक्तस्य च दुःखमिश्रकार्यलोकानां हेयत्वात् नास्मा अकं भवतीत्यवयवार्थपौष्कल्योपपतेः, तत्रैव ‘तमसः परस्तात्’ इति विशेषितत्वात्, क्षयन्तमस्य रजसः पराके” इति निवासशब्दात् ‘तदक्षरे परमे व्योमन्’, ‘विश्वं पुराणं तमसः । परस्तात्’ इति तमसः परस्य स्थानस्य स्थानिनो ब्रह्मणश्च व्यतिरेकनिर्देशात्, तस्य तमसः परत्वविशेषणेन पुरुषसूक्तप्रत्यभिज्ञानाच्च दिवीत्यप्राकृतं स्थानमुच्यते । त्रिपात्त्वञ्च अप्राकृतैर्भोग्यगोपकरणभोगस्थानविशेषैर्वा – भूषणास्त्रादिरूपेण जगदन्तर्गतवस्त्वभिमानिभिर्नित्यैः, भगवदनुभवमात्रपरैश्च नित्यसिद्धैः, मुक्तैश्वात्मभिर्वा संभवति । एवञ्चास्य दिवीति व्यतिरेकनिर्देशोऽमृतत्वं च मुख्यं भवतीति ॥ एवं पूर्ववाक्ये संबन्धिनश्वरणाभिधाने सति कथमस्य वाक्यस्य परमात्मपरत्वम् ॥ एकविषयत्वादिति चेत्, कथमेकविषयत्वमित्यत्राह एतदुक्तमिति । ज्योतिश्शब्द श्रुत्यपेक्षया स्ववाक्यस्थं पूर्ववाक्य 1 वाचस्पतिव्याख्यानं दूषयति जाग्रदिति । भा० प्र०
२६०
साधारणलिङ्गं नोपलभ्यते - तथापि पूर्ववाक्ये संबन्धितया परमपुरुषस्य निर्देशादिदमपि संवन्धिज्योतिः स एवेति प्रत्यभिज्ञायत इति । कौक्षेयज्योतिषैफ्योपदेशश्च फलोय तदात्मकत्वानुसन्धानविधिरिति न कश्चिद्दोषः । कौक्षेयज्योतिषश्च तदात्मकत्वं भगवता स्वयमेवोक्तम्, “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः” इति ॥ छन्दोभिधानान्नेति चेन्न तथाचेतोर्पणनिगमात् तथा हि दर्शनम् ॥१-१-२६ ॥ पूर्वस्मिन् वाक्ये, “गायत्री वा इदं सर्वम्” इति गायत्र्याख्यं छन्दोऽभिधाय, “तदेतदृचाभ्यनूक्तम्” इत्युदाहृतायाः " तावानस्य महिमा” इत्यस्या ऋचोऽपि छन्दोविषयत्वान्नात्र परमपुरुषाभिधानमिति चेत्-तन्न ; तथाचेतोर्पणनिगमात् । न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते, छन्दोप्रत्यभिज्ञापकं द्युसंबन्धित्वलितं प्रकरणञ्च दुर्बलमिति चेन्न ; अनुवादलक्षणयच्छन्दसमभिव्याहारेण अन्यसापेक्षताज्ञापकेन ज्योतिश्शब्दस्य दुर्बलत्वावगमात् प्रथमप्रतिपन्नयच्छन्दश्रुत्या ; घुसंबन्धित्वलिङ्गस्य प्रबलत्वाच्च । इदं ज्योतिश्शब्दस्यादित्य द्यसाधारण्याभ्युपगमेनोक्तम् । तच न ; अवभासकत्वनिमित्तकत्वात् ज्योतिश्शब्दस्य; ‘नारायण परो ज्योतिः’ इत्यादिप्रयोगांच । सहकृतस्य उक्तं पूर्वपक्षहेतुं परिहरति कौक्षेयेति । फलायेति । चक्षुष्यः श्रुतो भवतीत्युक्तफलायेत्यर्थः । तदात्मकत्वेति । " तदेतद्दृष्टञ्च श्रुतं चेत्युपासीत” इत्यत्र तदेतच्छन्दौ तदात्मकज्योतिर्विषयौ, तदात्मकत्वेन प्रकृतत्वादिति भावः । “अन्नादो वसुदानः”, “चतुर्विधा भजन्ते माम्”, “सकलफलप्रदो हि विष्णुः” इत्यादिश्रुतिस्मृतिवशात् सकलफलप्रदस्य परमात्मनश्चक्षुष्यत्वादिविद्यानुगुणफलहेतुत्वमत्र युक्तमित्यभिप्रायेणाह न कश्चिद्दोष इति । तदात्मकत्वे प्रमाणं दर्शयति कौक्षेयज्योतिषश्चेति । वेदनस्य यथार्थविषयत्वे संभवति अतस्मिंस्तद्दृष्टिरूपताश्रयणं परोक्तमयुक्तमिति भावः ॥ संबन्धिविषयस्य पूर्ववाक्यस्य परमात्मपरत्वमाक्षिप्य समाघते - छन्दोभिधानान्नेति चेन्न तथाचेतोर्पणनिगमात् तथा हि दर्शनम् ॥ सूत्रे शङ्कोपन्यासपरमंशं व्याचष्टे पूर्वस्मिन्निति । परिहारखण्डस्थं नेति पदं सपूरकमादते तन्नेति । छन्दोभिधानं नेत्यर्थः । तथाचेतोर्पणनिगमादिति स्वाभिमतनिर्वाहं वदता सूत्रकारेणाभिप्रेतां छन्दोमात्रपरत्वानुपपतिमाह न गायत्रीति । कुत इत्यत्राह छन्दोमात्रस्येति । पूर्वसूत्रे चरणाभिधानादिति खपक्षसाधकतया कण्ठोक्तस्य हेतोः पूर्वपक्षेऽनुपपतिः सूत्रकाराभिप्रतेति भावः ॥
ननु गायत्र्यां ब्रह्मदृष्टिरिति दृष्टिविशेषणभूतब्रह्मणः चरणाभिधानोपपत्तिरिति चेन्न; ‘मनो ब्रह्म’ इतिवत् दृष्टिविशेषणभूतब्रह्मवाचिपदसामानाधिकरण्याभावात् । दृष्टिविधानाभ्युपगमेऽपि ‘तावान्’ इति मन्त्रस्य दृष्टिविशेषण ब्रह्मपरत्वेनोत्तरवाक्ये ब्रझप्रत्यभिज्ञानोपपत्तेस्तदभ्युपगमवैयर्थ्यात् । अतो गायत्र्यां ब्रह्मदृष्टिः चोदयितुरनभिमता । " यादवप्रकाशैस्तु ‘गायत्री वा’ इत्यादिब्राह्मणोक्तसर्व मूतवाक्पृथिवी शरीर हृदयप्राणात्मकत्वाभिधानात् न छन्दोमात्रमिति व्याख्यातम् । ततोऽपीदमुचितम् अश्रुतं हेतु कल्पयित्वा तदनुपपत्त्या छन्दः परत्वप्रतिक्षेपादपि पूर्वसूत्रश्रतहेतोरेवानुपपत्त्या तत्प्रतिक्षेपोपपत्तेः ॥ स्ववाक्यस्य हेतुविवक्षा न्याय्येति चेत् — सत्यम् ; स तु हेतुरनन्तरसूत्रे विवक्षितः ॥ मन्त्रवर्णोक्तपादवत्त्वं तत्र विवक्षितमिति चेन्न ;
१-१-१० ज्योतिरधिकरणम् १-१-२६ २६१ मात्रस्य सर्वात्मकत्वानुपपत्तेः । अपि तु ब्रह्मण्येव गायत्रीचेतोर्पणमिह निगम्यते । ब्रह्मणि गायत्री सादृश्यानुसन्धानं फलायोपदिश्यत इत्यर्थः । संभवति च, “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि” इति चतुष्पदो ब्रह्मणः चतुष्पदद्या (पदा) गायत्र्या च सादृश्यम् । चतुष्पदा च गायत्री क्वचिद्द्द्दश्यते । तद्यथा “इन्द्रश्शचीपतिः। वलेन पीडितः। दुश्च्यवनो वृषा । समित्सु सासहिः” इति । तथा ह्यन्यत्रापि सादृश्यात् छन्दोभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो दृश्यते । यथा संवर्गविद्यायाम्, “ते वा एते पञ्चान्ये पञ्चान्ये दश संपद्यन्ते’ इत्यारभ्य ‘सैषा विराडन्नात् 1 इत्युच्यते ॥२६॥ स्वपक्षसाघनाय तस्य आद्यसूत्रे कण्ठोक्तत्वात् शङ्कापरिहाराय तन्नेत्यत्र तस्यैवाभिप्रेतत्वाश्रयणोपपत्तेः । कचिदुक्तस्य धन्यत्रोपजीव्यत्वं न्याय्यम् । अन्यत्रानुक्तस्य च क्वचिदुक्तिरपेक्षिता । सा चेत् सिध्यति, तदनुगुणो निर्वाहो न्याय्यः ॥ “C एवं छन्दः परत्वेऽनुपपन्ने सति तस्य वाक्यस्य कोऽर्थ इत्यत्राह अपि त्विति । चेतोर्पणशब्द निगमशब्दं च विवृण्वन् कस्मिन् किमर्थमित्याकाङ्क्षां च पूरयति । ब्रह्मणीति । अनुसन्धानउपदेशशब्दाभ्यां चेतोर्पणनिगमशब्दौ विवृतौ । केनाकारेण सादृश्यमित्यत्राह संभवति चेति । गायत्रीसादृश्यं चतुष्पात्त्वलक्षणम् । चतुष्पात्त्वमेवानुन्धेयम् ॥
नन्विह न अनुसन्धेयत्वं फलं च श्रूयते ॥ न ; पूर्णामप्रवर्तिनीं श्रियं लभते, य एवं वेद” इति श्रवणात् । पूर्णत्वम् अपरिच्छिन्नत्वम् । अप्रवर्तित्वम् अचलत्वं स्थिरत्वम् । अनन्तस्थिरा च श्री मुक्तैश्वर्यम् ।
ननु हार्दाकाशविशिष्टपरमात्मोपासनफलं हि तत् श्रूयते, " यद्वै तद्ब्रह्मेति, इदं वा व तद्योऽयं बहिर्धा पुरुषादाकाशः । यो वै स बहिर्घा पुरुषादाकाशः, अयं वाव सः योऽयमन्तःपुरुष आकाशः । यो वै सोऽन्तःपुरुष आकाशः, अयं वाव सः योऽयमन्तर्हृदय आकाशः । तदेतत्पूर्णमप्रवर्ति” इति हि श्रयते । अतो न गायत्री सादृश्यानुसन्धानफलमिदमिति ॥ उच्यते; स्वतोऽपरिच्छिन्नत्वेऽपि ब्रह्मणः परिच्छिन्नैः पदार्थः चतुष्पात्त्वोपदेशस्योपासनार्थत्वाभावे वैयर्थ्यात् प्रकरणे तस्य फलान्तराविधानाच्च [तत्फलार्थमेव ?] गायत्री सादृश्यरूपस्य चतुष्पात्त्वस्यानुसन्धेयता प्रतीयते । तत्र भूतपृथिवी शरीर हृदयैश्चतुष्पात्वेऽभिहिते ब्रह्मणोऽपूर्णत्वा स्थिरत्वशक्काव्यावृत्त्यर्थं पूर्णत्वाद्रवर्तित्वगुणकतयैव चतुष्पाद्रह्मण उपासनं विधीयत इति ॥ “त्रिपदा गायत्री” इति हि श्रुतिः, तत् कथं चतुष्पात्त्वमित्यत्राह चतुष्पदा चेति । गायत्रीशब्दस्य मुख्यार्थाविवक्षा कथमिति शक्रायाम्, तथा हि दर्शनम् इति सूत्रखण्डं व्याचष्टे तथा ह्यन्यत्रापीत्यादिना । वाय्वग्निसूर्यचन्द्रसलिलानि प्राणवावचक्षुः श्रोत्रमनांसि च दशसङ्ख्यस्वाद्विराट् । सदृशे सदृशान्तरवाचिशब्दप्रयोगः श्रुतिसमाधिरित्यर्थः । अन्नात् अन्नञ्च तत् अत्ति चेत्यन्नात् ॥
ननु ज्योतिर्वाक्ये परमात्मलिङ्गाभावादाद्यं सूत्रं तस्य परमात्मपरत्वसमर्थनार्थमिति सप्रयोजनम्, द्वितीयं तु किमर्थम् । छन्दोमात्रप्रसिद्धस्यापि गायत्रीशब्दस्य परमात्मा साधारण सर्वात्मकत्व लिङ्गलात् परमात्मविषयत्वं ह्याकाशाधिकरण नयेन सिद्धम् ॥ उच्यते ; गायत्रीशन्दस्य स्वार्थप्रहाणेन ब्रह्मपरत्वे चतुष्पात्त्वमविवक्षितं स्यात् । तच्चोपदिश्यते । गायत्र्यवच्छिन्नब्रह्मपरत्वे सर्वात्मकत्वमनुपपन्नम् ॥ गायत्र प्रवच्छिन्नब्रह्मणः सर्वात्मकत्वोक्तिः स्तुतिरिति चेत् — ततोऽपि गायत्र्या एव स्तुतिः सर्वात्मकत्वोक्तिरिति वरमित्यधिकशङ्कापरिहारपरं सूत्रम् । गायत्रीशब्दस्य तत्सदृशब्रह्मपरत्वाच्चतुष्पात्वसर्वात्मकत्वोपपत्तिरिति परिहारः ॥ 1 टीकानुसारेण अन्नात् इति पाठः । पाठान्तरं तु अन्नादी इति । तदर्थो भाष्यार्थदर्पणादौ ।
२६२ श्रुतप्रकाशिकोपेते श्रीमाष्ये (यादवोक्तनिरासः) इतश्च गायत्रीशब्देन ब्रह्मवाधिधीयते- भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ १-१-२७॥ भूतपृथिवीशरीरहृदयानि निर्दिश्य, “सैषा चतुष्पदा’ इति व्यपदेशो ब्रह्मण्येव गायत्रीशब्दाभिधेये उपपद्यते ॥ २७ ॥ उपक्रमस्थगायत्रीशब्दानुरोधेन मन्त्रगत सर्वात्मकत्वम स्वारस्येन निर्वाह्यम्; न तु सर्वात्मकत्वानुरोधेनोपक्रमस्थगायत्रीपदाखारस्यं न्याय्यमिति शङ्कायाम् — उपक्रम एव गायत्रीपरत्वे स्वारस्यहानिरुच्यते भृतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ पूर्वस्मिन् सूत्रे ‘पादोऽस्य’ इति मन्त्रोक्त सर्वात्मकत्वानुपपतिरुक्ता; अत्र तु ‘गायत्री वा’ इत्यादिब्राह्मणोक्तचतुष्पात्त्वानुपपत्तिरुच्यते । भूतम् आत्मवर्गः । पृथिवी अयं लोकः, कर्मार्जनभोगस्थानम् । तदुपकरणं शरीरम् । हृदयम् आत्मनः स्थित्यनुगुणः प्रदेशविशेषः । एवमुपक्रमस्यैव परमात्मपरत्वं दर्शितम् । यादवप्रकाशैस्त्विदं सूत्रं पादोऽस्येति मन्त्रवर्णोक्तभूतादिपादानुपपत्त्या ब्रह्मप्रतिपादन समर्थन परं व्याख्यातम् । " गायत्री वा इदं सर्वमित्यादिब्राह्मणं न चतुष्पात्त्वपरम्, किं तु सर्वभूतवाक्पृथिवीशरीर हृदयप्राणरूपविधाषट्रकपरम् । ‘सैषा चतुष्पदा षड्विधा’ इति वावयञ्च षाविध्यानुवादेन चतुष्पात्त्वविधानपरम् । चतुष्पात्त्वं च पादोऽस्येति मन्त्रवर्णप्रतिपाद्यम् । तत्र चेतनाचेतनरूपनिखिलविकारात्मा प्रथमः पादः । त्रिपादस्यामृतं दिवीति वाङ्मयप्राणमयमनोमयात्मानः त्रयः पादा उच्यन्ते” इति प्रतिपादितम् । तदनुपपन्नम् । कथम् । उच्यते । तत्र मन्त्रवर्णोक्तचतुष्पात्त्वपरत्वादपि ब्राह्मणोक्तार्थविषयत्वोपपत्तिः पूर्वमेव दर्शिता । किच प्राथमिक गायत्री वाक्यानुरोधेन पश्चादुदाहृतमन्त्रवर्णो नेय इति शङ्का तावदवतरति । सा च मन्त्रवर्णोक्तार्थस्य हेतुतयोपन्यासेऽप्यवतिष्ठते । उपक्रमस्थगायत्रीवाक्य एव परमात्मसाधकहेतुप्रदर्शनेन तु निवर्तते ॥ स तु हेतुः सूत्रे नेत्यनेनाभिप्रेत इति चेत् — न ; शङ्कायाः परिहारस्य च उत्सूत्रत्वादपि शङ्कामात्रस्य उत्सूत्रस्य शब्दादेव परिहारसिद्ध्यनुगुणनिर्वाहस्य न्याय्यत्वात् । गायत्री वा इदं सर्वमित्यादिवाक्यस्य षाडिध्य[मात्र ? ] परत्वमप्ययुक्तम् ; ‘सैषा चतुष्पदा षड़िधा’ इति निगमनवाक्यस्य स्वरसतश्चतुष्पात्त्वषाडिध्यनिगमनपरत्वप्रतीतेः ॥
ननु सर्वभूतवाक् पृथिवीशरीरहृदयप्राणाख्यपदार्थषटूकप्रतिपादनात् खारस्यभङ्गेनापि षाडिध्यनिगमनपरत्वमास्थेयमिति चेन्न; वाकूपाणयोर्गानत्राणादिवत् अन्यार्थमुक्ततया भूतपृथिव्यादिवत् प्राधान्यतः प्रतिपाद्यत्वाभावेन पदार्थषट्कासिद्धेः । ब्रह्मणो गानत्राणाभ्यां गायत्रीशब्दवाच्यत्वोपपादनाय वाक् प्रस्तुता, शरीरस्य प्राणप्रतिष्ठात्वोपपादनाय प्राणपसंङ्गः । तथा हि’गायत्री वा इदं सर्वं भूतम्’ इति गायत्रीशब्दः चतुष्पाद्ब्रह्मपरः । सर्वभृतशब्दः आत्मपरः । आत्मवर्गस्य तत्पादत्वं सामानाधिकरण्येनोक्तम् । तस्यैव ब्रह्मणो गानत्राणादिभिः षडिध्यश्च विवक्षुः श्रुतिर्गानत्राणोपपादनाय बाग्रूपत्वमाह – वाग्वै गायत्रीति । गायत्रीशब्दवाच्यं चतुष्पाद्धम वाग्रूपविशिष्टमित्यर्थः । “रसोऽहमप्सु कौन्तेय” इत्यारभ्योच्यते, “शब्दः खे पौरुषं नृषु” इति । तथा भगवत्पराशरवचनम्, “शब्दमूर्तिधरस्यैतद्रूपं विष्णोर्महात्मनः” इति । ततः किं CC-0. Lal, Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham- १-१-१० ज्योतिरधिकरणम् (गायत्रीखण्डार्थः) ; २६३ विवक्षितषाडिध्यस्येत्यत्राह – वाग्वा इदं सर्वं भूतं गायति च त्रायते चेति । वाग्विशिष्टं परं ब्रह्म सबै भूतं गायति — अभिधत्ते, हिताहितविधिनिषेधमुखेन त्रायते चेत्यर्थः । एवमेकः पादः, गानत्राणरूपविधाद्वयञ्चोक्तम् । तदनुवादपूर्वकं द्वितीय पाद सामानाधिकरण्येनाह - या वै गायत्री इयं वा वसा येयं पृथिवीति । उक्ताकारविशिष्ट कृतधर्मिपरौ यत्तच्छन्दौ । या सर्वभूतरूपैकपादा गायत्री - गायत्र्याख्यं ब्रह्म, तदेव पृथिवीत्यर्थः । कथं पृथिव्या ब्रह्मात्मकत्वमित्यत्राह अस्यां हीति । ब्रह्मात्मकत्वादेव हि सर्वभूतप्रतिष्ठात्वम् न हि केवलपृथिव्याः सर्वभूतधारणे शक्तिरित्यर्थः । प्रतिष्ठात्वश्च नियतमित्याह - एतामेव नातिशीयत इति । पृथिवीं भूतजातं नातिवर्तते, कर्मवश्यात्मनां नियमेन प्रतिष्ठात्वादशक्यातिक्रमणेत्यर्थः । पृथिवीमयब्रह्माण्डोदरे हि कर्तृभोक्तृवर्गः परिवर्तते । एवं द्वितीयः पादः भूतप्रतिष्ठात्वतदनतिवर्त्यत्वरूपं विधाद्वयं चोक्तम् । अथ तृतीय पादमाह - या वै सा पृथिवी इयं वाव सा, यदिदमस्मिन् पुरुषे शरीरमिति । पुरुषशब्दः शरीरविशिष्टजीव परः । पृथिवीरूपपादविशिष्टा या, सा गायत्री - गायत्र्याख्यं ब्रह्म; सा शरीरम्, शरीराख्यपादविशिष्टेत्यर्थः । भूतपृथिव्योर्गायत्री सामानाधिकरण्येन निर्दिष्टतया पृथिवीशब्दस्य ब्रह्मपर्यन्तत्वेन तदुपस्थापनक्षमत्वात, अक्रयप्रायन्यायेन अत्रापि पादान्तरस्य तत्सामानाधिकरण्येन निर्देष्टुं युक्तत्वाच्च । शरीरस्य ब्रह्मात्मकत्वं प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वाभ्याम् उपपादयति —– अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्त इति । चतुर्थं पादमाह – यद्वै तत् पुरुषे शरीरम्, इदं वाव तत् यदिदमस्मिन्नन्तः पुरुषे हृदयमिति । शरीराख्यपादविशिष्टं यत् गायत्र्याख्यं ब्रह्म तदेव हृदयमित्यर्थः । पूर्ववद्धझात्मकत्वमुपपादयति — अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्त इति । प्राणाः - प्राणापानादयः ; इन्द्रियाणि वा । तेषां हृदयसंबन्धिनाडीद्वारा हृदयप्रतिष्ठितत्वम् । प्राणशब्दस्य जीवपरत्वं केचिदाहुः । तदयुक्तम् ; भूतप्राणशब्दयोरथैवैषम्याभावेन तदभिमतषाडिध्यासिद्धेः । भूतपृथिवीशरीरहृदयवाक्प्राणैर्हि ते वाडिष्यं वदन्ति । एवं तृतीयचतुर्थौ पादौ प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वरूपं विधाद्वयञ्चोक्तम् । एवमुक्तं चतुष्पात्वं बाडिष्य च निगमयति — सैषा चतुष्पदा षड़िधा गायत्रीति । नन्वेवं तर्हि ब्रह्मणः परिच्छिन्नत्वं स्यादिति शङ्कायाम्, उक्तस्य महिम्न एतावत्त्वप्रतिक्षेपिकामृचमुदाहरति तदेतदिति । ब्रह्माभिप्रायेण नपुंसकत्वम् । तदेतत् - चतुष्पात् षडिषं च ब्रह्मेत्यर्थः । “स भूमिं विश्वतो वृत्वा” इत्युक्ता, “एतावानस्य महिमा अतो ज्यायांश्च पुरुषः” इति पुरुषसूक्ते श्रूयते । इह च पृथिव्यां भूतशरीरहृदयानि अन्तर्गतानि । अतस्तावानस्य महिमेत्यनेन । पृथिवीतदन्तर्गतपदार्थैश्चतुष्पात्वरूपमहिमानुवादः । तावत्त्वं. प्रतिषेधति — अतो ज्यायानिति । पादोऽस्येति । इहोक्तं पादचतुष्टयमेकपादस्थानीयम् । अतोऽतिरिक्ता त्रिपाद्विभूतिः । तस्मात् अतो ज्यायानित्युपपन्नमित्यर्थः । एवमस्या ऋचः परिच्छिन्नत्वशङ्कान्युदासार्थत्वं युक्तम्; अनन्तरमपि ‘तदेतत्पूर्णमप्रवर्ति । पूर्णामप्रवर्त्तिनीं श्रियं लभते, य एवं वेद’ इति पूर्णत्वादिगुणकतयोपासनविधानात् ॥ -
नन्वेवं सति ब्राह्मणोक्तचतुष्पात्त्वविषयत्वाभावेन ब्राह्मणस्य ऋचश्चैकायै न सिध्येत्–न उभयोर्ब्रह्मविषयत्वात् ॥ यदि इयमृक् चतुष्पात्त्वविषया न भवति, तर्हि किमर्थं तदुदाहरणम् ॥
; २६४ १-१-१० ज्योतिरधिकरणम् परिच्छिन्नत्वशङ्कान्युदासार्थमित्युक्तम् । तथा सत्येवार्थवत्त्वम् । न ह्युक्तमात्रज्ञापने प्रयोजनम् । व चेयमृक् पूर्वोक्तविवरणरूपां दृश्यते । किञ्च ऋचश्चतुष्पात्त्वान्तरपरत्वं परेषामप्यवर्जनीयम्; ‘जाप्रदाद्यवस्थात्रयोपलक्षितं बाह्यशारीरहार्दरूपेण त्रेधा विभक्तकार्याकाशोपलक्षितं वा कारणस्वरूपं त्रिपादुच्यत इति तत्कृतयोजना । तत्र कथं सर्वभूतैर्जाग्रदाद्यवस्थात्रयत्रिविधाकाशोपलक्षितरूपेण चतुष्पात्त्वं भूतपृथिवीशरीरहृदयैश्चतुष्पत्त्वञ्चैकरूपं भवति । चतुष्पात्त्वं हि बहुविधं श्रूयते, “चतुष्पाद्रा - वाकू पादः प्राणः पादः चक्षुः पादः श्रोत्रं पादः” इति । तथा “अभिः पादो वायुः पाद आदित्यः पादो दिशः बादः” इति च। एवं ज्ञातमात्रज्ञापने प्रयोजनाभावात् पुरुषसूक्तप्रक्रियानुगुण्यात्, अनन्तरवाक्यानुगुण्यात् ब्रह्मणो विविधचतुष्पात्त्वसंभवात् चतुष्पात्त्व भेदस्य परपक्षेऽप्यवर्जनीयत्वाच्च यथोक्त एवास्या ऋचोऽर्थः ।
अथ चतुर्थपादत्वेनोक्तहृदयस्थाकाशस्य महत्त्वं वक्तुं बाह्याकाशस्य ब्रह्मतुल्यत्वं सामानाधिकरण्येनाह – “यद्वै तद्ब्रह्मेति इदं वाव तत् योयं बहिर्धा पुरुषादाकाशः " इति । आकाशः स्वकार्यव्यापित्वामूर्तत्वाचलत्वादिभिर्ब्रह्मतुल्य इत्यर्थः । " अयं वाव सः योऽयमन्तः पुरुष आकाशः, अयं वाव स योऽयमन्तर्हृदय आकाशः " इति निर्देशो धर्मैक्याभिप्रायः । एवं हार्दाकाशमाहात्म्येन हृदयं स्तुतं भवति । एवं चतुष्पदः षडिधस्य ब्रह्मणः प्रपञ्चान्तर्भावेन परिच्छिन्नत्वा स्थिरत्वशङ्काव्यावृत्त्यर्थं पूर्णत्वाप्रवर्तित्वगुणकतयोपासनं मोक्षफलकं विदधाति तदेतदिति । तदेतत्-चतुष्पात् षडिधमित्यर्थः । नात्र हृदयमात्रे ब्रह्मोपासनविधिः, सप्तम्यश्रवणात् । अथ ब्रह्मोपासनाङ्गत्वेन द्वारपोपालनं विधीयते - तस्य ह वा एतस्य हृदयस्येत्यादिना । तत्र च प्राणवृत्तिविशेषाप्यायितचक्षुराद्यनुग्राहकाः आदित्यादय उपास्याः । न च हृदयस्येत्युक्तत्वात् द्वारपोपासनं हृदयोपासनाङ्गमिति वाच्यम्; किंतु प्रकृतचतुष्पाद्ब्रह्मोपासनाङ्गम् । हृदयस्येति निर्देशस्तु चतुर्थपादत्वेन हृदयस्याव्यवहितप्रकृतत्वात्, नाडीद्वारा चक्षुरादीनां तत्संबन्धित्वाच्च कृतः । एवं गायत्रीविद्याप्रकृतस्य सकलफलप्रदस्य संबन्धिनः परस्य ज्योतिष आभिरूप्यकीर्तिमत्त्वरूपफलविशेषार्थं कौक्षेयज्योतीरूपत्वेनोपासनविधानाय, “अथ यदतः परो दिवो ज्योतिः” इत्यादि आरभ्यते । एवं वाकप्राणयोरन्यार्थमुदाहृतत्वात् निगमनवाक्यस्वारस्याच्च भूतपृथिवीशरीरहृदयान्येव पादाः, गानत्राण भूतप्रतिष्ठात्व तदनतिशय प्राणप्रतिष्ठात्वतदनतिशयाः षट् विघाः ॥
ननु ’ सैषा’ इत्यादिवाक्यस्य षाडिध्यानुवादेन चतुष्पात्त्वविधानपरत्वे सति ऋचश्चतुष्पात्त्वोपदेशपरत्वं सिध्यति । ततश्च ‘तदेतदृचाऽभ्यनूक्तम्’ इति घटकवाक्यस्वारस्य भवेदिति चेत् — तदयुक्तम् ; प्रथमश्रुतस्य ब्राह्मणवाक्यनिगमनस्य स्वारस्यभङ्गेन पाश्चात्यसंदंशकवाक्यानुरोधानुपपत्तेः ; अन्यर्थितया प्रस्तुतयोर्वाकूप्राणयो भूतपृथिव्यादितुल्यतापरिकल्पनस्योपक्रम स्वारस्य विरुद्धत्वाच्च । ऋगुपन्यासस्य प्रयोजनं तत्रोपपत्तयश्च दर्शिताः । न ह्येकरूपमेव ब्रह्मणश्चतुष्पात्त्वमिति नियन्तुं शक्यम्, चतुष्पात्त्ववैविध्यस्यान्यत्रापि श्रुतत्वात् ॥
- जाग्रदित्यादिना भामत्युक्तं विवक्षितम् । 2 अत्र भावप्रकाशिका द्रष्टव्या । ‘बुद्धयर्थः पादवत्’ इति सूत्रेऽपि सर्व द्रष्टव्यम् । 3 एवं तथाहीत्यारब्धां पदार्थष्टकासिद्धिं निगमयन् स्वाभिमतं चतुष्पात्त्वादिकमुपसंहरति एवमिति ।
१-१-१० ज्योतिरधिकरणम् (यादबोक्त त्रिपाच्छब्दार्थचिन्ता) २६५ किञ्च त्रिपाच्छन्दनिर्वाहश्च निरूपणीयः । तथा हि-मनोमय वाङ्मयप्राणमयास्त्रय ईश्वरव्यूहाः । तैस्त्रिप्रकारमवस्थितं ब्रह्म त्रिपादमृतं विवक्षितमित्युच्यते । तत्र तावत् प्रसिद्धमनोवाक्प्राणानामचिद्विकारत्वान्नेश्वरव्यूहत्वममृतत्वं च संभवति । सप्तान्नब्राह्मणोक्तानां मनोवाक्प्राणानुग्राहकाणामन्यादित्यचन्द्राणां च कर्मवश्यत्वात् सृज्यत्वाच्च नेश्वरव्यूहत्वममृतत्वं च युज्यते । “चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च”, “भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च”, “असौ योऽपक्षीयति असौ य आपूर्यति” इति तेषां सृज्यत्व कर्मवश्यत्वे हि श्रयेते ॥ मनोबाकूप्राणशब्दवाच्यतयाऽभिमतानां सत्त्वतमोरजसां शक्तिरूपाणां प्रज्ञाशक्तिवाक्छक्ति क्रियाशक्तिशब्दवाच्यानाम्, द्युपृथिव्यप्च्छन्दवाच्यतयाऽभिमतानां स्थूलानां सविकाराणां सत्त्वतमोरजसां चाधिष्ठातार ईश्वरांशास्त्र्य ईश्वरव्यूहा इति चेत् — तैरपि त्रिपात्त्वं दुर्वचम् ; वाङ्मयप्राणमययोर्मनोमयादुत्पत्त्यभ्युपगमेन त्रयाणां नित्यत्वायोगेन त्रिपादमृतमिति निर्देशानुपपत्तेः ॥ तेषां शक्तिरूपेणामृतत्वमिति चेत् — शक्तिरूपेणामृतत्वम्, ‘पादोऽस्य सर्वा भूतानि’ इति पादत्वेनोक्तानां सर्वभूतानां सप्रकृतिकानामप्यस्तीति ‘त्रिपादस्यामृतं दिवि’ इति वचनवैयर्थ्यं स्यात् । किञ्च ‘ईश्वरः पर आत्मा तपो ब्रह्म मनोमयः’ इत्यारभ्य तस्य द्वौ व्यूहावाकाशशरीरः प्राणशरीरश्च । तयोरन्ये प्रत्येकमसंख्याताः प्रतिजीवमवस्थिता व्यूहाः’ इत्युपनिषत्कल्पे भवद्भिरुच्यते । किमसङ्ख्येयानामीश्वरव्यूहानां जीवानामिव स्वत एव स्वरूपगतो भेदः, उताधिष्ठेयगतभेद एवेश्वरव्यूह भेद इत्युपचारादुच्यते । प्रथमे, जीवबहुत्वेश्वरैकत्व श्रुतीनां वैयर्थ्यम् ; समष्टचैक्यस्य व्यष्टिभेदस्य च जीवेश्वरयोस्तुल्यत्वात् । श्रूयते हि ‘त्वमेकोऽसि बहू
ननुप्रविष्टः’, ‘अन्तः प्रविष्टः शास्ता जनानाम्’, ‘एकः सन् बहुधा विचचार’, ‘एको देवः सर्वभूतेषु गूढः’, ‘एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति’, ‘एको बहूनां यो विदधाति कामान्’, ‘यः पृथिवीमन्तरे सञ्चरन् ’ इत्यारभ्य बहुष्ववस्थानमुक्त्वा ‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’ इत्यादि । द्वितीये च पक्षे, किमीश्वरव्यूहाधिष्ठेयाः गुणाः, उत गुणशक्तयः । । प्रथमे, सत्त्वतमोरजसामुत्पत्तेः पूर्वं निर्गुणानां तेषामवस्थानवादों न घटते । उक्तं हि तत्त्वविचारणायां भवद्भिः, ‘यस्मादेषां प्रलयकालेऽप्यवस्थानमाम्नायते, तस्माद्गुणोत्पत्तेः प्रागप्येषामवस्थानान्निर्गुणा एते’ इति । द्वितीये च, गुणप्रलयात्पश्चात् गुणशक्तीनामीश्वराधिष्ठेयत्वं नोपपद्यते । तासामधिष्ठानं हि कार्याभिमुखीकरणलक्षणं प्रेरणम् । तत् तदानीमस्ति चेत्–आसर्गकालात गुणानुत्पत्तिरनुपपन्ना ॥ कार्यानुत्पादनमपि ईश्वराधिष्ठानाधीनमिति चेत् तर्हि परमात्मनः खापे गुणशक्तीनां तदधिष्ठितत्वाभावात् कार्योत्पत्तिप्रसङ्गः । स्वापप्रबोधौ हीश्वरस्य त्वदभ्युपगतौ । अतः कार्यानुत्पादनस्येश्वर। धिष्ठानानपेक्षस्वेन गुणशक्तीनामधिष्ठातृत्वाभावेन व्यूहमेदाभावात् गुणोत्पत्तेः प्राकू निर्गुणत्वेन त्रयाणां व्यूहानां ‘कञ्चित्कालमव स्थानमयुक्तम् ॥ अधिष्ठेयमेदमनपेक्ष्य स्वत एत भेदश्चेत् — त्रित्वस्यानादित्वात् मनोमयात् इतरयोरुत्पत्तिरनुपपन्ना । . किञ्च तिसृष्वपि ईश्वरव्यष्टिषु किं प्रमाणम् १ । “एतन्मयो वा अरे अयमात्मा वाड्मयो मनोमयः प्राणमयः” इति श्रुतिरिति चेत् — न; जीवस्य मनोवाक्प्राणोपकरणित्वप्रतिपादनपरत्वात् तस्याः । 234
२६६ १-१-१० ज्योतिरधिकरणम् (स्खमते सप्तात्नब्राह्मणार्थः) 1 " तथा हि ’ - " यत् सप्तान्नानि मेधया तपसाऽजनयत् पिता’ इति परमात्मनः सङ्कल्पात् देहिनामुपजीव्यत्वादन्नशब्दवाच्यानां सप्तानामुत्पत्तिमुक्ता, तत्र प्रसिद्धान्नं दर्शपूर्णमासौ पयश्चेत्यन्नचतुष्टयस्य मानुषदेव तिर्यक्षु विनियोगमुक्ता, ’ त्रीण्यात्मनेऽकुरुत’ इत्यवशिष्टान्नत्रयस्य सर्वविधप्रवृत्तिहेतुत्वात् सामान्येन सर्वभोक्तृवर्गशेषमकरोदित्युक्ता, ‘अन्यत्रमना अभूवं नादर्शम् । अन्यत्रमना अभूवं नाश्रौषम् । … कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींर्धीर्भीरित्येतत्सर्वं मन एव’ इति प्रसिद्धं मन एव प्रतिपादितम् । कामादीनां मनःकार्यत्वात् सामानाधिकरण्यम् । ‘यः कश्च शब्दो वागेव’ इति सामानाधिकरण्यमपि शब्दस्य वागिन्द्रियाधीनोच्चारणत्वनिबन्धनम् । अतः शब्दोच्चारणकारणं प्रसिद्धवागिन्द्रियमेवोक्तम् । ‘प्राणोऽपानो ब्यान उदानस्समानोऽनः इत्येतत्सर्वं प्राण एव’ इति पञ्चवृत्तिप्राण एव स्पष्टमभिहितः । एतन्मयः इत्येतच्छन्दश्च प्रकृतमनोवाक्प्राणपरः । ‘अयमात्मा’ इत्ययं शब्दविशेषित आत्मा च प्रसिद्धो जीवः ; न तु परमप्रकृतः परमात्मा । तस्य जीवस्य त्रिविधोपकरणवत्त्वमेतन्मय इति प्रतिपादितम् । पश्चात् ‘त्रयो लोका एत एव इत्यादिना तेषां प्रशंसा कृता । ‘यत्किञ्च विज्ञातं वाचस्तद्रूपं वाग्धि विज्ञाता । वागेवैनं तद्भूत्वाऽवति’ इति यद्वाग्व्यवहाराद्विज्ञातम् तत् सर्वं वाचो रूपम् — अवच्छेदकम् । वाक् विज्ञाता - विज्ञायमानं सर्वं वागधीनम् । उपचारात् सामानाधिकरण्यम् । वागेवैनं तद्भत्वाऽवति - यद्वाचा विज्ञातं वस्तु पुरुषस्योपकरोति, तद्भूत्वा — तद्रूपेण वागेवोपकरोतीत्यर्थः । …. ‘विजिज्ञास्यम्… इति - चिन्तनीयम् । पूर्ववद्योजना । यच्चिन्तितं देवतादिकम् उपकरोति, तद्धत्वा मन एवोपकरोतीत्यर्थः । …. अविज्ञातम्… इति । पूर्वसुकृतवशादचिन्तितं यदुपकरोति, तद्भूत्वा प्राण उपकरोतीत्यर्थः । एवं प्रशस्य त्रयाणाम् अधिष्ठानानि अधिष्ठातंश्च दर्शयति — “तस्यै वाच” इत्यादिना । वाचः वागिन्द्रियस्य पृथिवी शरीरमायतनम्। जिहागोलकस्थं पार्थिवां शमाश्रित्य वागिन्द्रियं तिष्ठतीत्यर्थः । ज्योतीरूपमयमग्निः ज्योतिर्मयमधिष्ठातृदेवता स्वरूपम निरित्यर्थः । यावत्येव वाक् तावती पृथिवी तावानयमग्निरिति । यत्र यत्र वागिन्द्रियं तत्र तत्र तदधिष्ठानतया पृथिव्यस्ति, अधिष्ठातृतया अग्निरप्यस्तीत्यर्थः । अथैतस्य मनसो द्यौः शरीरमिति । इह शब्द आकाशमात्रपरः ; न तु लोकविशेषपरः, अनुपपत्तेः । न हि स्वर्गलोक एव मनसोऽधिष्ठानम् ; मनुष्याणाममनस्कत्वप्रसङ्गात् । यशब्दो हि लोकविशेषे नभोमात्रे च वर्तते । “सुरलोको द्योदियौ द्वे स्त्रियाम्”, “द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्” इति हि नामानुशासनम् । अतः आकाशमात्रविवक्षा । तत्रापि सामर्थ्यात् हृदयाकाशे पर्यवस्यति । हृदयच्छिद्ररूपाकाशः आयतनमित्यर्थः । ज्योतीरूपमित्यादेः । । पूर्ववत् । तौ - भग्न्यादित्यौ । मिथुनं समेतामू-मिथुनीभावमगच्छताम् । ततः प्राणोऽजायत । अयमस्याभिप्रायः -आदित्याधिष्ठेयमनःपूर्विका अग्न्यधिष्ठेयवाक्प्रवृत्तिः, तदुभयपूर्विका पञ्चवृत्तिप्राणाधीना शरीरप्रवृत्तिरिति । प्राणस्यासपत्नत्वम् चक्षुरादिषु स्वसदृशस्वप्रतिस्पर्धिविरहितत्वम् । अथैतस्य प्राणस्याऽऽपश्शरीरमिति । ‘प्राणा वा आपः’ इति हि श्रुतिः । “पानीयं प्राणिनां प्राणा विश्वमेव च
। 1 यादवप्रकाशोक्तमीश्वरव्यूहपरत्वं खण्डयिष्यन् प्रथमतः स्वपक्षेण श्रुतिवाक्यानि विशदं व्याख्याति तथाहीति । 1 प्रायः पूर्वदर्शितवाक्यस रूपत्वात् पूर्णवाक्यानि अगृहीत्वा व्याख्याति ।
१-१-१० ज्योतिरधिकरणम् (तलवका रिश्रुतिप्रस्तावः) २६७ तन्मयम्” इत्यायुर्वेदविदः । अतः प्राणस्य आप आयतनम् । ज्योतीरूपमित्यादि । पूर्ववत् । मनः प्राणयोर भिमानिदेवतान्तर श्रवणेऽपि श्रुतित्वा विशेषादेवमपि संभवतीत्यभ्युपगन्तव्यम् । आनत्यं प्रतिशरीरं मन आदिव्यष्टिभेदात् । स एष संवत्सर इत्यादिना - ‘चन्द्रमाः षढढोता स ऋतुन कल्पयाति’ इति प्रकारेण सर्वर्तुप्रवर्तकतया संवत्सरसंज्ञस्य राज्यधीनोपचयापचयान्वितकलामयस्य प्राणाधिदैवस्य चन्द्रस्य प्रजारक्षकत्वम्, “सौम्यो वै देवतया पुरुषः” इति प्रक्रियया पुरुषस्य चन्द्राधीनत्वं तद्वेदनफलञ्चोक्तम् । पश्चात् मनोवाक्प्राणानां व्यापारस्य परलोकेऽभ्यधिकत्वं वक्तुम्, ‘अथ त्रयो वाव लोकाः’ इत्यादिना लोकत्रयं प्रस्तुत्य, पुत्रे विन्यस्तभारस्य तत्मुखेनेह लौकिकार्थप्राप्ति केवल कर्मणाऽन्तरिक्षप्राप्ति काम्यविद्याविशेषेण देवलोकप्राप्तिश्चाभिधाय, प्रैष्यतो मनुष्यस्याध्ययनयज्ञादिकं श्रेयः सर्वं पुत्रेण संपाद्यमिति तस्मिन्निहितभरत्वमुक्ता, अयं यदैवंविदस्माल्लोकात् प्रति, अथैभिरेव प्राणैस्सह पुत्रमाविशति इत्युक्तम् । पुत्रो भूत्वा यज्ञादिकम् अयमेव करोति पुत्रकृतं सर्वं परलोकगतस्य पितुः स्वानुष्ठितसुकृतवत् उपकारकं भवतीत्यर्थः । अथैनमेते देवाः प्राणा अमृता आविशन्तीति — एवं पुत्रे निक्षिप्तमरं परलोकगतं पुण्यकर्माणं पुरुषं दैवाः प्राणशब्दवाच्याः मनआदयः आविशन्तीत्यर्थः । तदेव प्रपञ्चयति - पृथिव्यै चैनमित्यादिना । शापानुग्रहसमर्थ वाक् दैवी वाक् । अमोघसङ्कल्पमानन्दैककारणं मनो दैवं मनः । अप्रतिहतगगनगमनादिव्यापारहेतुः प्राणो देवः प्राणः । एते पृथिवीधुसलिलरूपाधिष्ठानेभ्यो ऽग्न्यादित्यचन्द्ररूपाधिष्ठातृदेवताभ्यश्चास्य संभवन्ति । देवताप्रसादादेवास्य मनोवाक्प्राणा एवंविधा भवन्तीत्यर्थः । एवं जीवोपकरणानां तेषां परलोके शक्त्यतिशयमुक्ता, “स एवंवित् सर्वेषां भूतानामात्मा भवति” इति वागिन्द्रयादिदेवताविज्ञानप्रकर्षेणास्य सर्वभूतान्तर्वर्तिज्ञानसामध्ये तस्य दुःखासंस्पर्शश्चाभिघायोपसंहृतम् । 1 अत्र पृथिव्यपशब्दानां मनोवाक्पाणशब्दानाञ्च सत्त्वतमोरजोवाचित्वाभावात् प्रज्ञाशक्तिवाकुछक्तिक्रियाशक्तिवाचित्वाभावाच्च तदधिष्ठात्रीश्वरव्यूह प्रतिपादनमनुपपन्नम् ॥ शब्दस्वारस्याभावेऽप्यर्थानुपपत्त्या तादृगर्थपरत्वमाश्रयणीयमिति चेत् — का पुनरत्रानुपपत्तिः ॥ ‘यावती वाकू तावती पृथिवी’ इत्यादिवाक्यैः पृथिव्यादीनां व्याप्त्यवगमात् प्रसिद्ध पृथिव्यादिपरत्वमनुपपन्नमिति चेन्न ; वागिन्द्रियादिभिस्तदधिष्ठानभूतानां पृथिव्यादीनां तुल्यदेशत्वमात्रप्रतिपादनात् । इन्द्रियसमष्टेरपि हि न व्याप्तिमत्त्वम्, कार्याणां तत्त्वानां दशगुणकारणपरिच्छिन्नत्वेनेन्द्रियसमप्टेरहङ्कारतत्त्वपरिच्छिन्नत्वात् ।
ननु तलवकारिणां श्रुतौ “नासदासीन्नो सदासीत् तदानीम्, नासीद् रजो नो व्योमापरो यत् । किमावरीवः कुह कस्य शर्मन् अम्भः किमासीद्गहनं गभीरम्” इति । " तस्मिन्नसति सति न कस्मिश्चन सति ऋतं ज्योतिष्मदुदप्लवत; तपो ज्योतिष्मदुदप्लवत । तद्यदृतमिति, वाक् सा । यत्सत्यमिति, प्राणः सः । यत् तप इति मनस्तत् । तेषामन्नमेव ज्योतिरासीत् । तान्येकमभवन् । तदेकं भूत्वाऽन्नेन ज्योतिषाऽप्यायत । तद्यथा मध्वष्ठीला वा स्वासितास्या वृतिर्वैव [म् ?] । तदैक्षत हन्त प्राण करवे” इत्यादिना तेषामृतसत्यतपश्शब्दवाच्यानां वाक्प्राणमनसां प्रलयेऽप्यवस्थानात् (वस्थानवचनात् ?) सत्त्वाद्यधिष्ठातार ईश्वरव्यूहा एव मनआदिशब्दवाच्या इति चेत्- 1 मनसम्धन्द्र इति सौबाले । प्राणस्य वायुरिति बृहदारण्यक एव प्रसिद्धम् ।
१६८ न ; उद्गमनम् ; मुतप्रकाशिकोपेते श्रीभाष्ये (इन्द्राणार्थ चिन्ता) अस्यां श्रुतौ प्रलयेऽप्यवस्थानाप्रतीतेः । उत्प्लवनञ्च न स्थितिः ; किंतु तेनोत्पत्तिरेवावगम्यते ; यथा अब्धेस्तरङ्गोद्गम इति, कारणात्कार्योदय’ इति च । नद्युद्गमनादिशब्दैः कचिदप्यवस्थानं प्रतीयते । अत्र प्रसिद्धवागाद्युत्पत्तौ प्रतिपाद्यमानायामाख्यातपदानां कारकपदानां च खरसता स्यात् । इतरत्र अस्वारस्यमेव । “तेषामन्नमेव ज्योतिरासीत्” इत्यन ज्योतिश्शब्दः ओजश्शब्दवत् ’ प्रवृत्तिसामर्थ्यापरः । त्रिविधकरणानामप्यन्नमेव प्रवृत्तिसामर्थ्यहेतुरित्यर्थः । करणत्रयेणापि हि यज्ञादिकर्मनिष्पत्तिः । अनन्तरं ‘तदैक्षत’ इति तच्छन्दश्च सृष्टिप्रतिपादनाक्षिप्तकारणब्रह्मपरः । एवं प्रलयदशायामप्यवस्थानश्रवणरूपापवादाभावात् मनआदिशब्दो नेश्वरव्यूहपरः । यत एवम्, तस्मात् सप्तान्नसृष्टौ ‘तौ मिथुत समेतां ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः’ इति वाङ्मयव्यूह पलीकात् मनोमयादीश्वरात् प्राणमयव्यूहोत्पत्तिरुच्यत इति चानुपपन्नम् ॥ 2
ननु बृहदारण्यक एव षष्ठेऽध्याये, “इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः । तं बा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः । अथैतद्वामेऽक्षणि पुरुषस्य रूपम्, एषाऽस्य पत्नी विराट् । तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः” इत्यल दक्षिणा क्षिप्रतिष्ठितस्य पुरुषस्य वामाक्षिगतं पुरुषरूपं पत्नीत्वेनोच्यते । अतोऽत्र वाङ्मयपत्नीको मनोमयः प्रतिपादित इति ॥ न ; ‘ततः प्राणोऽजायत स इन्द्रः’ इति मिथुनोत्पन्नस्येन्द्रशब्द वाच्यत्वावगमात् ; इह च पत्नीवतः पुरुषस्येन्द्रशब्दवाच्यत्वावगमाच्च । ततश्चेन्द्रशब्दवाच्यप्राणमयस्य वाङ्मयः पत्नी प्रसजेत्, न तु मनोमयस्य । मनोमयस्य वाङ्मयपत्नीकत्वं प्राणमयस्य तदुत्पन्नत्वमपि हि भवदभिमतम् । तस्मादत्रायमर्थः –दक्षिणाक्षिस्थः पुरुषोत्तमः; ‘य एष एतस्मिन् मण्डले पुरुषो यश्वायं ‘दक्षिणेऽक्षन्’ इति दक्षिणाक्षिस्थस्य आदित्यान्तरवस्थितत्वश्रवणात् तस्य च पुण्डरीकाक्षत्वात् । “इन्द्रं निचिक्युः परमे व्योमन् “, “इन्द्रो मायाभिः” इत्यादिषु परमपुरुषस्य इन्द्रशब्दवाच्यत्वं च सिद्धम् । वामा क्षिस्था तत्पत्नी साक्षालक्ष्मीरेव ; इन्द्रशब्दवाच्यस्य पत्नीत्वेन प्रतीतेः । तैत्तिरीयके च, “राडसि बृहती श्रीरसीन्द्रपत्नी धर्मपत्नी” इतीन्द्रपत्न्याः श्रीशब्दवाच्यत्वावगमात् । किञ्च हृदयगुहायामवस्थानमनयोरिह श्रूयते, “सयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः” इति । संस्तावः - अधिकरणे घञ । संस्तावः स्थानम् (संस्तवस्थानम् १) । संस्तवः परिचयः ; सहवासः । ‘पद्मकोशप्रतीकाशम्’ इत्यारभ्य, ‘तस्याशिवाया मध्ये परमात्मा व्यवस्थितः’ इति नारायणस्य हृदयस्थितिश्रवणादत्रापि श्रियः पतिर्नारायण एष प्रतिपादित इति वाडमयपत्नीक पुरुषप्रतिपादनमसङ्गतम् । 1 अत एवैषां वाकूप्राणमनसां भुक्ततेजोजलपार्थिवाप्यायितत्वेन छान्दोग्योक्तानां बृहदारण्यके, त्रीण्यात्मनेऽकुरुतेति अन्नधयस्वम व्यवहारः । 2 यद्वृहदारण्यकंगलं वाङ्मयः प्राणमयोमनोमय इति वाक्यमीश्वरव्यूहपरं न वेति संप्रति विचार्यते ; पूर्वोक्तसप्तान्नवाक्यमपि यत्न, तत्रैव इति एवकाराशयः ।
नन्वधिकरणे घञ् इति सत्यम् ; परंतु “यज्ञे समि स्तुवः” इति सूत्रेण छन्दोगकर्तृकस्तोत्राधिकरणयज्ञदेश एव हि तदर्थः ; इह कथमित्यत्र हृद्यागादौ तस्य तद्विषयकस्तोत्राधिकरण तदाराधनयज्ञदेशत्व विवक्षयेति मनसिकृत्य विस्तरोपेक्षषा पर्यवसितमात्रमाहोपरि । तत्र टीकावाक्यै पाठः शोध्यः ।
१-१-१० ज्योतिर विकरणम् (अघमर्षणश्वेताश्वतरराद्यर्थः) २६९ तलवकारिश्रुतावपि ईश्वरव्यूहत्रयप्रतिपादनाभावात् अघमर्षणसूक्तेऽपि न तत्प्रतिपादनम् [इति ’ वाङ्मय पत्नी कपुरुषप्रतिपादनमसङ्गतम् ]; अपि तु तपशब्दः परमात्मपरः ; ‘यस्य ज्ञानमयं तपः ’ इति तपश्शब्दस्य ज्ञानवाचित्वात् परस्य ज्ञानगुणसारत्वेन ज्ञानशब्दस्येव धर्मिपर्यन्ता भिधानोपपत्तेः । तस्मात् ऋतशब्दसत्यशब्दवाच्ययोर्यज्ञादिकर्मतद्भोक्तृचेतनवर्गयोरुत्पत्तिः ; वाक्प्राणयोर्वा, “ तद्यदृत मिति, वाकू सा । यत्सत्यमिति प्राणस्सः’ इति श्रुतेः । यद्वा ऋतं यथार्थशब्दः, सत्यमबाध्योऽर्थः । नामरूपे उत्पन्ने इत्यर्थः । अतो मिथः कार्यकारणभावेनावस्थितं वाङ्मयादिव्यूहत्रयं निष्प्रमाणकम् । 1 किञ्च वाङ्मयपत्नीकात् मयोमयात् प्राणमयोत्पत्तिः किं प्रलयदशायां महदादिसर्गात्पूर्वभाविनी, उत महदादिसर्गानन्तरभाविनी ? । तत्र प्रथमशिरो निष्प्रमाणकत्वान्निरस्तम् । द्वितीये तु ब्रूमः” वाङ्मयः पृथिवीशरीरो लयपरिणामशक्तिमधितिष्ठति । तमः पृथिवीत्युच्यते । लयपरिणामशक्तिः वागिति, मोक्षस्थानमिति च” इत्युक्तमुपनिषत्कल्पे । तत्रैव, “प्राणमयोऽप्च्छरीरः क्रियाशक्तिमधितिष्ठति । । रज आप उच्यन्ते, क्रियाशक्तिः प्राणः” इति चोक्तम् । यदि तमोरजश्शक्तयधिष्ठातारौ वाङ्मयप्राणमयौ, तदा वाङ्मयपत्नीकात् मनोमयात् प्राणमयोत्पत्तिं वदता चतुर्मुखोत्पत्तेः पूर्वमेव रुद्रोत्पत्तिरुक्ता स्यात् । तत् श्रुतिविरुद्धम् । महोपनिषदि, ‘तत्र ब्रह्मा चतुर्मुखोऽजायत’ इति ब्रह्मसृष्टिमुक्ता ‘अथ पुनरेव नारायणः सोऽन्यं कामं मनसा ध्यायीत । तस्य ध्यानान्तः स्थस्य ललाटात् त्र्यक्षश्शूलपाणिः पुरुषोऽजायत’ इति रुद्रसृष्टेः पश्चात्तनत्वःश्रवणात् ; सुबालोपनिषदि, ‘ललाटात् कोधजो रुद्रोऽजायत’ इति रुद्रस्य चतुर्मुखललाटोत्पन्नत्वश्रवणात् ; शैलालि ब्राह्मणे रुद्रस्य चतुर्मुखसृष्टाग्न्यादिजीववदुत्पन्नत्वश्श्रवणात् ; शतपथे चाष्टमूर्ति ब्राह्मणे, संवत्सरशब्दवाच्येन प्रजापतिना रुद्रसृष्टेः श्रुतत्वात्, तद्रोदन परिहाराय तेन तस्य नाममूत्यैष्टक प्रदानप्रतिपादनाश्च ।
ननु श्वेताश्वतरे, “विश्वाधिको रुद्रो महर्षिर्हिरण्यगर्भं जनयामास पूर्वम्” इति श्रूयत इति चेत् — तदपि भवत्पक्षे विरुद्धम् अनन्तरमेव, “वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात्”, “महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः “, " अनुष्ठमात्रः पुरुषोऽन्तरात्मा”, “सहस्रशीर्षा पुरुषः” इत्यादिषु वाक्येषु, ‘एतं महान्तं पुरुषम्’, ‘एष " महान् पुरुषः इति प्रकृतरुद्रपरामर्शिना एतच्छब्देन महापुरुषशब्दसामानाधिकरण्यात्, “यदेष आकाश आनन्दी न स्यात्” इत्यानन्दशब्दसमानाधिकरणाकाशशब्दस्य प्रसिद्धाकाशप्रहाणेन परमात्मपरत्ववत् रुद्रशब्दस्यापि प्रसिद्धार्थप्रहाणेन महापुरुषपरताया न्याय्यत्वात्, सच्चप्रवर्तक विषयस्य वाक्यस्य तमोधिष्ठातृवाङ्मयपरत्वाभावात्, पुरुषसूक्तवाक्योपादानेन पुरुषोत्तमविषयत्वस्य स्फुटत्वाच्च परमपुरुषादेव हिरण्यगर्भोत्पतेस्तत्र प्रतिपाद्यमानतया वाङ्मयपत्नीकत्वप्रसङ्गाभावात् । यथा - “मृत्युनैवेदमावृतमासीत् अशनावया । अशनाया हि मृत्युः । तन्मनोकुरुत, आत्मन्वी स्वामिति । सोऽर्चन्नचरत् । तस्यार्चत आपोऽजायन्त” इत्यारभ्य अशनायालक्षणात् मृत्योरम्बुपृथिव्य मीनां सृष्टिप्रतीतावपि न प्रसिद्धमृत्योः क्षुधो वा पृथिव्यादिप्रपञ्चकारणत्वमभ्युपगम्यते ; “भीषास्मादनिःश्चेन्द्रश्व मृत्युर्षावति पञ्चमः”, “मृत्युर्यस्योपसेचनम्”, “तच्छ्रेषो रूपम त्यसृजत क्षत्रम्, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः” 1 इतीत्यादिरधिकपाठः । 39 अत्र मुद्रितको अशुद्धिः ।
2७० ( मुक्तिस्थानाप्राकृतत्वम् ) इति परमात्मसृज्यत्वसंहार्यत्वनियाम्यत्वश्रवणात् — एवं ब्रह्मसृष्टस्य रुद्रस्य न ब्रह्माणं प्रति स्रष्टृत्व मिहोच्यत इत्यभ्युपगन्तव्यम् । शैलालिब्राह्मणशतपथसुबालोपनिषदां तु नैवमर्थान्तरपरत्वं वक्तुं शक्यम् । 1 नन्वेवमपि कल्पभेदेन सृष्टिप्रकार इत्यास्थेयम् ॥ नैवम् ; त्वदभिमतसृष्टिप्रकारस्य स्फुटश्रवणाभावात् ; आकाशादीनामपि कल्पभेदेन परमकारणत्वकल्पनाप्रसङ्गात् । श्रुतिविरोधेन कल्पनानुपपत्तेश्च । अतो वाङ्मयरुद्रपत्नीकान्मनोमयात् प्राणमयहिरण्यगर्भोत्पत्तिः श्रुतिविरुद्धा । किञ्च वाङ्मयो लयपरिणामशक्तिमधितिष्ठति ; लयपरिणामशक्तिश्च वागिति कथ्यते ; मोक्षस्थानमिति च । मोक्षस्थानं परमाकाशः । स च प्रकृतेस्तमश्शब्दवाच्याया आद्यावस्था इति च भवद्भिरुच्यते । तथा तत्त्वविचारणायामुक्तम्, “परमाकाशो नाम प्रकृतेराद्यावस्था” इत्युपक्रम्य, “सा च तमोवस्थापन्ना प्रकृतिः परस्मादात्मनो विभागरूपं विकारं प्रतिपद्यते । स एव परमाकाशः । स एव मुक्तानामीश्वरस्य च स्थानं शब्दपरिणामशक्तियुक्तत्वाद्वागिति चोच्यते अक्षरमिति च” इति । यदि अव्यक्ततमसोर्मध्यपठितमक्षरं परमाकाशः, स तावन्नाद्यो विभागः, “तम एकीभवति”, “मृत्युर्वे परे देव एकीभवति”, “तस्मात् तमः सञ्जायते” इति तमस एव विभागश्रवणात् । विभक्तात् तमसो ह्यक्षरविभागः । तमस्तस्मादक्षररूपेण जायत इति योजना त्वस्वरसा । 1’ अक्षरं तमसि लीयते’ इति लयश्रवणविरुद्धा च । ; 1 तच्चाक्षरं न मुक्तानामीश्वरस्य च स्थानम् ; तस्याव्यक्ताद्यपेक्षया अक्षरत्वेऽपि तमसि लयश्रवणेन क्षरत्वात्, ‘तदक्षरे परमे व्योमन्’ इति परमव्योम्नः क्षरणाभावाच्च ॥ तत्राप्यापेक्षिकमक्षरत्वमिति चेन्न ; तत्र खारस्यभञ्जकप्रलयश्रवणाभावात् ॥ तमसो विभक्तमक्षरमेव तत्राक्षरशब्देन प्रत्यभिज्ञाप्यत इति चेन्न ; वर्णानुपूर्वी सादृश्येऽप्यन्यविशेषणतया प्रयुक्तेनाक्षरशब्देन विशेष्यसमर्पकाक्षरशब्दार्थस्य प्रत्यभिज्ञानाभावात । न ह्यरुणः पट इति वाक्यस्थोऽरुणशब्दो रविरथस्थमरुणं प्रत्यभिज्ञापयति । किश्व स्वप्रकरणे, “विश्व पुराणं तमसः परस्तात्” इति, समानप्रकरणे च, “आदित्यवर्णं तमसः परस्तात् “, " ते ह नाकं महिमानस्सचन्ते”, “आदित्यवर्णं तमसस्तु पारे” इति मुक्तात्मेश्वरस्थानस्य तमसः परत्व श्रवणात् तमसोऽर्वाचीनस्याक्षरस्य न तत्र प्रत्यभिज्ञा ॥ ’ तमसः परस्तात्’ इति परखरूपस्य तमोवैलक्षण्यमुच्यत इति चेत् — न ; दिग्देशकालेष्वस्तातिप्रत्ययस्य विहितत्वेन वैलक्षण्यमात्रपरत्वस्य क्लिष्टत्वात् स्थानविशेषस्य संनिहितत्वाच्च तमसः परत्वस्य देशविशेषवर्तिपरमात्मविशेषणत्वोपपत्तेः । ‘तमसस्तु पारे’ इति पारशब्दश्वावधिवाचकः, न तु वैलक्षण्यवाचकः । अतस्तमसः परस्य स्थानस्येह प्रत्यभिज्ञानाभावात् तमोविभागरूपमक्षरं न मुक्तात्मपरमात्मस्थानम् । तमोविभागरूपं चाक्षरं न वाङ्मयाधिष्ठेयम्, तस्याक्षरस्य ब्रह्मरुद्रसृष्टेः पूर्वभावित्वात् । ‘यः पृथिवीमन्तरे सञ्चरन्’ इत्यारभ्य, ‘योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरम्’, ‘यस्य मृत्युः शरीरम्’ इत्युक्ता “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " इति तस्याक्षरतत्कारणभूतमृत्युशरीरकस्य नारायणत्वप्रतिपादनाच्च । तस्यैवान्तरात्मत्वश्रवणात् वाङ्मयोऽन्तरात्मेति चानुपपन्नम् । अत एव हिरण्यगर्भस्य प्राणमयान्तर्यामित्वं च निरस्तम् ; नारायणस्यैव द्यन्तर्यामित्वं श्रुतम् । हिरण्यगर्भस्य महत्तत्त्वाभिमानित्वं तु ब्रह्माण्डान्तर्गतव्यष्टिशरीरविषयं कचिदुक्तमिति 1
ननु तम एव विभक्तं क्षरणाभावादक्षरमित्युच्यते । अतः सैवाऽऽद्यावस्थेत्यत्नाह अक्षरमिति । लयश्रवणात् भक्षरत्वमागन्तुकावस्थेति भावः ।
१-१-१० ज्योतिरधिकरणम् (मानवाद्यर्थः) उपदेशभेदानेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ १-१-२८ ॥ । २७१ पूर्ववाक्ये, “त्रिपादस्यामृतं दिवि” इति दिवोऽधिकरणत्वेन निर्देशात् इह च दिवः पर इत्यवधित्वेन निर्देशादुपदेशस्य भिन्नरूपत्वेन पूर्ववाक्योक्तं ब्रह्म परस्मिन्न प्रत्यभिज्ञायत इति चेत्-तन्न, उभयस्मिन्नप्युपदेशे अर्थस्वभावैक्येन प्रत्यभिज्ञाया अविरोधात् ; यथा ‘वृक्षाग्रे श्येन.’ ‘वृक्षाग्रात्परतः श्येनः’ इति । तस्मात् परमपुरुष एव निरतिशयतेजस्कः, दिवः परो ज्योतिदप्यत इति प्रतिपाद्यते । “एतावानस्य महिमा अतो ज्यायांश्च पुरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” इति प्रतिपादितस्य चतुष्पदः परमपुरुषस्य, “वेदाहमेतं पुरुषं महान्तम् मन्तव्यम् ; परमकारणत्वाभावात् । अमीन्द्रादीनां वाकूपाण्याद्यभिमानित्ववत् । ‘सर्वभूतान्तरात्मा’ इत्यत्र सर्वभूतशब्देन ब्रह्मरुद्रयोरपि जीवान्तर्भावः, ‘तस्माद्विराडजायत । विराजो अधिपुरुषः’, ‘त्र्यक्षः शूलपाणिः पुरुषोऽजायत’, ‘इन्द्रो वरुणस्मोमो रुद्रः’, ‘स ब्रह्मा स शिवः सेन्द्रः’ इतीन्द्रवत् कार्यत्वादिश्रवणात् । एवमेव पबृंहितं भगवता व्यासेन ब्रह्मरुद्रसंवादे, “ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् ॥”, “अहं ब्रझा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगत् स्थावरजङ्गमं च सर्वे वेदाः सरहस्याश्च पुत्र” इति । अत एव मानवे धर्मशास्त्रेऽपि, ‘यो ऽस्यात्मनः कारयिता’ इत्यादिवचनानि च न भवदभिमतवाङ्मयप्राणमयविषयाणि, श्रुत्यनुसारित्वात् स्मृतिवचनानाम् । अत एव ‘मनोमयः प्राणशरीरो भारूपः सत्यङ्कल्प आकाशात्मा,’ ‘प्राणो ब्रह्म के ब्रह्म खं ब्रह्म’ इत्यादिश्रुतयश्च न भवदभिमतपरिपाटी प्रतिपादिकाः, स्ववावयस्वारस्याभावात् श्रुत्यन्तरविरोधात् अनुपपन्नत्वाच्च । यत ईश्वरस्य न प्रलयकाले व्यूहत्रयं प्रामाणिकम्, अत एव ब्रह्मरुद्रयोर्वाड्मयप्राणमयव्यूहत्वं च दूरोत्सारितम् । स्मृतयश्च श्रत्यनुरोधेन वर्णनीयाः अशक्यवर्णनाश्चेत् अनादरणीयाः ॥ एवं 1 वाङमयादिव्यूत्रय कल्पनस्य निर्मूलत्वात् ‘त्रिपादस्यामृतं दिवि’ इति वाक्यस्य यादवप्रकाशैरभिहितार्थोऽनुपपन्नः । तस्मात् भूतादिपादेत्यादिसूत्रस्य भाष्यकाराभिमत एवार्थ उपपन्न इति स्थितम् ॥ २७ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ यथा वृक्षाग्रे श्येन इति । सप्तमी अन्तर्बहिरधरोर्ध्वभागस्थितिसाधारणी, पञ्चमी तु उपरिस्थित्यसाधारणी । अत उभाभ्यां 1स्थांनावि(स्थानवि) शेषादुपरि स्थितिरेव विवक्षितेति भावः । सूत्रार्थं परमसाध्येन घटयति तस्मादिति । न खल्वात्मस्वरूपे दीप्तिरस्ति ; तत् कथं ‘ज्योतिर्दीप्यते’ इत्युक्तज्योतिश्शब्दाभिधेयत्वमिति शङ्कां परिहरन् अधिकरणार्थं निगमयति एतावानिति । पुरुषसूक्तवाक्योपादानं विग्रहविशेषज्ञापनार्थम् ॥ २८ ॥ 1 वाङ्मयादिव्यूहत्रयमीश्वरीयमिति त्रिपाच्छब्दार्थवर्णनव्युदासाय यादवप्रकाशदर्शित. बृहदारण्यक तलवकारतैत्तिरीय मानवधर्मशास्त्रादिवाक्यविचारः । मध्ये तदूग्रन्थदूषणाय अक्षिस्थान रुद्रोत्पत्तिप्रकारविशेषादिविचारश्च ।
/
- स्थानविशेषादिति पाठ एवानेककोशस्थः । अत एव भा० प्रा० स्थानविशेषस्येति षष्ठ्यन्तं युक्तमित्युक्तम् । अयमप्युपलभ्यमान इति निवेश्यते । अर्थखभावैक्येनेति भाष्यानुगुण्यमप्यस्मिन् पाठे ।
२७२ १-१-११ इन्द्राणाधिकरणम् आदित्यवर्णं तमसस्तु पारे” इत्यभिहिताप्राकृतरूपस्य तेजोऽप्यप्राकृतमिति तद्वत्तया स एव ज्योतिश्शब्दाभिधेय इति निरवद्यम् ॥ २८ ॥ इति ज्योतिरधिकरणम् । इन्द्रप्राणाधिकरणम् १-१-११. निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रसिद्धवन्निर्दिष्टं परमपुरुष एवेत्युक्तम् । इदानीं कारणत्वव्याप्तामृतत्व प्राप्त्युपायतयोपास्यत्वेन श्रुतः इन्द्रप्राणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याहप्राणस्तथाऽनुगमात् ॥ १-१-२९ ॥ कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम्, “प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च” इत्यारभ्य “वरं वृणीष्व” इति वक्तारमिन्द्रं प्रति, “त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे” इति प्रतर्दनेनोक्ते स होवाच, प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इति श्रूयते । तत्र संशयः - किमयं हिततमोपासनकर्मतया इन्द्रप्राणशब्द निर्दिष्टो जीव एव, उत तदतिरिक्तः परमात्मेति । किं युक्तम् ? जीव एवेति । कुतः । इन्द्रशब्दस्य अवान्तरसङ्गतिमाह निरतिशयेति । ज्योतिश्शब्दाभिधेयमिति । आकाशप्राणतेजसां क्रमोपपत्तेः ‘अत एव प्राणः’ इत्यस्यानन्तरं ज्योतिश्चरणाभिधानादित्यधिकरणं सङ्गतमिति भावः । प्रसिद्धवन्निर्दिष्टमिति । अनेनाधिकरणयोः पौर्वापर्यनियम उक्तः । ‘सर्वाणि ह वा इमानि भूतानि’ इति पूर्वस्मात् पूर्वाधिकरणद्वयविषयवाक्ययोः प्रसिद्धवन्निर्देशो दृश्यते । अत्रापि, ‘अथ यदतः’ इति यच्छन्देन प्रसिद्धवनिर्देशो दृश्यते । तस्मात् ज्योतिरधिकरणं पूर्वाधिकरणद्वयेन सङ्गतम् । एवं सति उत्तराधिकरणस्य ज्योतिरधिकरणानन्तरभावित्वं प्राप्तमिति भावः । अवान्तरपेटिकानुगतमर्थमाह कारणत्वव्याप्तेति । पूर्वाधिकरणे परमपुरुषस्य ज्योतिश्शब्दाभिधेयत्वमुक्तम् ; तदयुक्तम् ; परमपुरुषादन्यस्येन्द्रादिशब्दवाच्यस्य वेदान्तप्रतिपाद्यत्वादिति शङ्कया सङ्गतिरित्यर्थः । तत्र कारणत्वाक्षेपक लिङ्गभूयस्त्वमनुसन्धेयम् ॥ प्राणस्तथाऽनुगमात् ॥ तत्रेति । ‘इन्द्रस्य प्रियं धामोपजगाम’ इत्युपक्रमे इन्द्रशब्दनिर्दिष्टत्वात् “प्राणोऽस्मि प्रज्ञात्मा”, “स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः” इति प्राणशब्देन निर्दिष्टत्वाचेन्द्रप्राणशब्दनिर्दिष्ट इत्युक्तम् । प्राणशब्दस्य परमात्मलिङ्गप्रतिपादकवाक्यस्थत्वेन सिद्धान्तहेतुद्योतकत्वात् सूत्रे प्राणशब्देन धर्मी निर्दिष्टः; न त्विन्द्रशब्देन । इन्द्रशब्द निर्दिष्टस्य विचारविषयत्वमार्थमिति सूत्रकाराभिप्राय इति भावः । जीवमात्र लिङ्गसद्भावेऽपि विशेषाकाङ्क्षायां जीवधर्मस्य इन्द्रशब्दवाच्य प्रकृतजीव विशेषनिष्ठत्वप्रतीतेः, जीवो वेति शिरोन्तरं परोक्तमयुक्तमिति भावः । प्राणलिने सत्यपि प्राणोऽस्मीति सामानाधिकरण्येन प्राणस्य जीवविशेषणत्वप्रतीतेः प्राधान्येन 1 इन्द्रप्राणशब्देति । इन्द्रवाचिप्राणशब्देत्यर्थः । 2 अत्रोपनिषदि मामिति शब्दस्यार्थविचारः, न त्विन्द्रशब्दस्य । अथापि अत्र मामित्यस्य, इन्द्रमित्यर्थकत्वात् इन्द्रशब्देत्युक्तम् । एवमुपर्यपि । 8 सूत्रे प्राणमात्रनिर्देश सति भाष्ये इन्द्रप्राणेति कथं विशेषनिर्देश इत्यत्राह इन्द्रस्येति । 4
नन्विन्द्रवाची मामिति शब्दोऽपि विचार्यः । एवंसति प्रधानभूतः स कथं न निर्दिश्यत इत्यत्राह प्राणशब्दस्येति । इन्द्रशब्देन –इन्द्रकाव्याच्छन्देन ।
२७३ जीवविशेष एव प्रसिद्धेः तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्तेः । अयमिन्द्राभिधानो जीवः प्रतर्दनेन, ‘त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इत्युक्तः, ‘मामुपास्ख इति स्वात्मोपासनं हिततममुपदिदेश । हिततमश्चामृतत्वप्राप्त्युपाय एव । जगत्कारणोपासनस्यैवामृतत्वप्राप्तिहेतुता, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये” इत्यवगता । अतः प्रसिद्धजीवभाव इन्द्र एव कारणं ब्रह्म ॥ ; " । इत्याशङ्कायामभिधीयते - प्राणस्तथानुगमादिति । अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रम्, अपि तु जीवादर्थान्तरभूतं परं ब्रह्म । " स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः” इतीन्द्र- प्रतिपाद्यत्वशङ्काया असंभवात् प्राणो वेति चानुपन्यस्तम् । कारणवाक्यप्रतिपाद्यं ब्रह्म किं प्रसिद्धजीवभाव इन्द्रः, उत परमात्मेति विचारः; तदर्थं हिततमोपासनकर्मतयेन्द्रप्राणशब्दनिर्दिष्टः किं प्रसिद्ध इन्द्रः उत परमात्मेति तदर्थमानन्दादिगुणाः किं गौणाः, उत मुख्याः ; तदथ किमुपक्रमावगतत्वाष्टहननादिलिङ्गानुरोधेन आनन्दादिवर्णनम्, उत आनन्दादिलिङ्गानुगुणतया त्वाष्टहननादिवर्णनम् ; तदर्थं मामुपास्स्वेति किं स्वोपासनमुच्यते, उत स्वावस्थपरमात्मोपासनम् इति विचारः । यदा स्वोपासनोक्तिः, तदा त्वाष्टवधाद्यनुगुणमा नन्दा देवर्णनीयत्वेन आनन्दादिगुणानाममुख्यत्वात् हिततमोपासनकर्मतयोक्त इन्द्र इति जगत्कारणं प्रसिद्धजीवभाव इन्द्र इति पूर्वपक्षे फलफलिभावः । यदा स्वावस्थपरमात्मोपासनोपदेशः, सदा आनन्दादिगुणानुगुणं त्वाष्ट्रवधादेर्वर्णनीयत्वादानन्दादिगुणानां मुख्यत्वान् हितमोपासनकर्म’ भूतेन्द्रप्राणशब्दनिर्दिष्टः परमात्मेति सर्ववेदान्तवेद्यं जगत्कारणं ब्रह्म परमात्मेति राद्धान्ते फलफलिभावः जीवविशेष एव प्रसिद्धेरिति । अनेन जीवमात्र’ पक्षस्यानुदयः सूचितः । प्राणशब्दस्य कथं जीवपरत्वमित्यत्राह तत्समानाधिकरणस्येति । अनेन प्राधान्येन प्राणपरत्वशङ्कानुत्थानमप्यर्थात् सूचितम् । इन्द्रस्य जीवत्वे कथं कारणस्य जीवानतिरिक्तत्वमित्यत्राह अयमिति । खात्मोपासनं हिततममुपदिष्टमस्तु, ततः किम् इन्द्रस्य जगत्कारणत्वे इत्यत्राह हिततम इति । ततः किमित्यपेक्षायां मुमुक्षूपास्यत्वस्य कारणत्वव्याप्तिं दर्शयति जगदिति । अत इति पूर्वपक्षोपसंहारः ॥ राद्धान्तं प्रतिजानीते अयमिति । उपपादयति स एष इति । अनुगमः पूर्ववाक्यप्रकृतस्व उत्तरवाक्यसंबन्धः । स्ववाक्यानभिव्यक्तस्य सिद्धान्तहेतोः उत्तरवाक्याभिव्यक्ततया अनुगमादित्युक्तम् । आकाशाधिकरणे ज्योतिरधिकरणे च सिद्धान्तहेतोर्हि स्ववाक्यपूर्ववाक्याभिव्यक्ततयाऽनुगमादित्यनुक्तिः । सौत्र तथापदं साधकाकारपरामर्शित्वेन व्याचष्टे आनन्दाजरेति । प्राणः - परमात्मा ; तथानुगमात् — परमात्मत्वानुगुण्येनानुगमादिति सूत्रयोजना । तथाशब्दस्य साध्याकारपरामर्शित्वमप्यभिप्रयन्नाह 1 भूतपदस्य निर्दिष्टपदेन सह कर्मधारयः । भूतः इति व्यस्तपाठो वा । 2 मात्रेति । सामान्येत्यर्थः । 3 पूर्ववाक्यं प्राणोऽस्मि प्रज्ञात्मेति । उत्तरवाक्यं दूरस्थं प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽऽमृत इति । उपरि स्ववाक्यपूर्ववाक्येत्यत्र कर्मधारयः । स्ववाक्याव्यवहितोत्तरेति वाऽर्थः । यद्वा आकाशविषये स्ववाक्येऽभिव्यक्तिः, ज्योतिर्विषये पूर्ववाक्ये ऋचि अभिव्यक्तिः । न तु कुत्राप्युत्तरवाक्ये इत्यर्थः । 2_35
२०४
प्राणशब्दाभ्यां प्रस्तुतस्यानन्दाजरामृतशब्दसामानाधिकरण्येनानुगमो हि तथासत्येवोपपद्यते ॥ २९ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ १-१-३० ॥ यदुक्तम् - इन्द्रप्राणशब्दनिर्दिष्टस्य “आनन्दोऽजरोऽसृतः” इत्यनेनैकार्थ्यादयं परं ब्रह्मेतितन्नोपपद्यते ; " मामेव विजानीहि”, “प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व” इति वक्ता हीन्द्रः, ‘त्रिशीर्षाणं त्वाष्ट्रमहनम्’ इत्येवमादिना त्वाष्ट्रवधादिभिः प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति ; अत उपक्रमे जीवविशेष इत्यवगते सति ‘आनन्दोऽजरोऽमृतः’ इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति चेत्-परिहरति - अध्यात्म संबन्धभूमा ह्यस्मिन् । आत्मनि यः संबन्धः सोऽध्यात्मसंबन्धः । तस्य भूमा - भूयस्त्वम् । बहुत्वमित्यर्थः । आत्मन्याधेयतया संबध्यमानानां बहुत्वेन संबन्धबहुत्वम् । तच्चास्मिन् - वक्तरि परमात्मन्येव हि संभवति । “तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्नाः प्राणेऽर्पिताः । स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः” इति भूतमात्रातथा सत्येवेति । तथा सति — इन्द्रप्राणशब्दनिर्दिष्टे परस्मिन् ब्रह्मणि सत्येवेत्यर्थः । प्राणः परमात्मा तथाऽनुगमात् – परमात्मतया अनुगमादिति योजना । अनुगमक्रियाविशेषण तथाशब्दः । बुद्धिस्थसाध्यसाधकधर्मवत्तयाऽनुगमो विवक्षित इत्यभिप्रायः । आद्यसूत्रं ’ स एष प्राण एव’ इत्यादि - वाक्यमात्रविषयं व्याख्यातम् ; न तु परैरिव वाक्यान्तरस्थहेतवोऽप्यत्र विवक्षितत्वेनोक्ताः । अध्यात्मसंबन्धभूमेति द्वितीयसूत्र एव बहुवाक्यस्थ हेतुबाहुल्यस्य विवक्षितत्वावगमात् । आनन्दादिगुणप्रतिपादकवाक्यस्य प्राणशब्दचिह्नितत्वात् तद्गतहेतुपरत्वेन हि प्राणशब्दचिह्नितसूत्रव्याख्यानं युक्तम् । प्राणशब्दचिह्नितस्यापि प्राणोऽस्मीत्यादेरत्रानुदाहरण - मन्यविशेषण भूतपरमात्मलिङ्गत्वात् । ‘प्राणेऽर्पिताः’ इत्यस्यानुदाहरणं तु सूत्रान्तरैकार्थ्यात् ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ निषेध्याध्याहारेण नञर्थमाह यदुक्तमिति । त्वाष्ट्रवादीत्यत्र आदिशब्देन सालानुकयतिप्रदानदैत्यातिसन्धानपौलोमनिरासेन्द्रशब्दाः ’ विवक्षिताः । ततः किमित्यत्राह अत इति । उपक्रमो बलीयानित्यर्थः । ’ विकारशब्दान्नेति चेन्न ’ इतिवत् सूत्रे सिद्धान्तखण्डे निषेधवाचिशब्दाभावात् खण्डान्तरस्य सिद्धान्तपरत्वद्योतनाय परिहरतीत्युक्तम् ॥ भ्रमशब्दो भूयस्त्वशब्देन व्याख्यातः । भूमशब्दप्रकृति दर्शयितुं बहुत्वमित्युक्तम् । आपेक्षिकं हि बहुत्वम् । पूर्वपक्षयुक्ति बहुत्वादपि बहुतरमिति भावः । संबन्ध बहुत्वनिबन्धनमाह संबध्यमानानामिति । संबन्धः कीदृश इत्यत्राह आधेयतयेति । अस्मिन्निति पदं व्याचष्टे तच्चेति । आधेयतया संबन्धे श्रुतिमाह तद्यथेति । न केवलमुपसंहारवचनमात्रम्, किंतु पूर्वमप्यस्तीति ‘बहुत्वाभिप्रायेण ‘स एष प्राण एव’ इत्यादिकमुपात्तम् । पूर्वोपातश्रुत्यर्थमाह भूतमात्रेति । . 1 तद्वाक्योक्तामृतत्वेन परमात्मत्वास्थापनम् अमृतमित्यस्य परमात्मलिङ्गस्य इतिशब्दघटितीपास्यन्वयितया तात्त्विकत्वनिश्चयायोगादित्यर्थः । 2 ऐकार्थ्यादिति । ऐकार्थ्य प्रसंगादित्यर्थः । 8 तस्य मे इति इन्द्रवाच्यस्मच्छन्द इत्यर्थः । अस्मच्छब्दस्य सर्वचक्तृवाचित्वात् इन्द्रेति विशिष्योक्तिः । वक्तारमित्यादि - इन्द्र परशब्दान्तर संग्रहाय च । 4 पूर्वसूत्रोदाहृतवाक्यात् पूर्वे प्रकृतसूत्रविषयवाक्यमिति शापयित्वा अस्मिन्नध्यात्म संबन्धबहुत्वप्रदर्शनाभिप्रायेणेत्यर्थः ।
१-१-११ इन्द्रप्राणाधिकरणम् (भूतप्रज्ञामात्राशब्दार्थविचारः) २७५
ननु कथं प्रज्ञामात्रांशब्देन चेतनवर्गाभिधानम् ? वाकूघ्राणचक्षुः श्रोत्रजिह्वाः पाणिपादोपस्थशरीरमनांसि च प्रतिपाद्य, “ता वा एता दशैव भूतमात्रा अधिप्रज्ञम् दश प्रज्ञामात्रा अभिभूतम् ॥ यदु ह वै (यद्धि) दश भूतमात्रा न स्युः, न प्रज्ञमात्राः स्युः । यदु ह वै (यद्धि) न प्रज्ञामात्राः स्युः, न भूतमात्राः स्युः” इति भूतमात्राः प्रज्ञामत्राश्च प्रत्येकं दशसङ्ख्याः परस्यप्ररसाकांक्षा उक्ताः । तत्र प्रज्ञामात्र शब्दो गन्धादिचतुष्टयवागादिव्यापार चतुष्टयशारीरसुखदुःखमन्तव्यविषयज्ञप्तिपरः यद्वा भोग्या गन्धादयः, शरीरानुप्रविष्टभूतांशाश्च भूतमात्राः । दशेन्द्रियाणि प्रज्ञामात्राः, प्रत्येकं दशसङ्ख्याश्रवणबलात् । अनुक्ताः पदार्थाश्च अजहल्लक्षणया विवक्षिता इत्यभ्युपेत्यम् । प्रज्ञामात्राशब्दस्य जीवपरत्वे दशसङ्ख्याविरोधात् । एवं ताश्व ताश्च दश दशोक्ताः । “न झन्यतरतो रूपं किञ्चन सिध्येत् ; नो एवैतन्नाना” इत्यासामुभयविधानामपि परस्पराविनाभावमुक्ता तत्र दृष्टान्तमाह-तद्यथा रथस्येति वाक्येन । न च वाच्यम्, ‘यो वै प्राणः सा प्रज्ञा या प्रज्ञा स प्राणः । सह ह्येतावस्मिन् शरीरे वसतः; सहोत्क्रामतः’ इतिप्रकृतजीवविषयोऽयं प्रज्ञामात्राशब्द इति । मात्रान्तेन प्रज्ञाशब्देन व्यवहितवाक्यस्थ केवलप्रज्ञाशब्दनिर्दिष्टजीवप्रत्यभिज्ञानाभावात् अनन्तरपूर्ववाक्यप्रकृतदशसङ्खयप्रज्ञामात्राणामेव स्वतः प्रत्यभिज्ञायमानत्वाच्चेति — तदयुक्तम् ; अर्थविरोधात् दृष्टान्तदाष्टन्तिकभावानुपपत्तेश्च प्रत्यभिज्ञानस्य भद्मत्वात् । न हि वागादीन्द्रियाणि भूतमात्राणामाश्रयः ; भूतसङ्घातरूपशरीरमेव हि इन्द्रियाश्रयः इत्यर्थविरोधः स्फुटः तथा ‘दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्’ इति परस्परसाकाङ्क्षत्वं पूर्ववाक्योक्तम् । अरनाभिदृष्टान्तवाक्ये तु न परस्परसाकाङ्क्षत्वं प्रदर्श्यते, ‘भूतमात्राः प्रज्ञामात्रास्खर्पिताः’ इत्युक्ता, प्रज्ञामात्रा भूतमात्राखर्पिता इति न ह्युक्तम् । तथा सति हि परस्परसाकाङ्क्षत्वे (त्वेन) दृष्टान्तता विवक्षिता स्यात् । अपि तु ‘प्राणेऽर्पिताः’ इत्येवोक्तम् । प्राणश्च परमात्मा; अनन्तरमेव ‘स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः’ इयुक्तेः । अतो दृष्टान्यदान्तिकभावानुपपत्तिः । अतः प्रत्यभिज्ञानभञ्जकहेतुसद्भावात् " तपसा चीयते ब्रह्म”, “तस्मादेतद्धम” इति वाक्यद्वय स्थब्रह्मशब्दयोरिव पूर्वापरवाक्यस्थयोः प्रज्ञामात्राशब्द योनैकार्थ्यम् । किञ्च द्वयोर्वाक्ययोर्मिथस्सन्निकृष्टत्वेऽप्यन्यतरस्य संभवन् मुख्यार्थः तयोरैकार्थ्यश्रद्धया न त्याज्यः ; तयोरेव ब्रह्मशब्दयोस्तथा दर्शनात् । प्रज्ञाशब्दश्च इन्द्रियेष्वमुख्यः, जीवेषु तु मुख्यः; तेषां ज्ञानखरूपत्वात् । प्रज्ञाशन्दोऽपि तत्तदर्थविषयज्ञानपर इति चेत् तर्हि दृष्टान्तविरोधः ; शरीरगतानां भूतमात्राणां वैषयिकज्ञानैर्धार्यत्वाभावात् । एवमर्थविरोधादिभिर्भिन्नार्थत्वे सति मात्राशब्दः सङ्घातैकदेशाभिप्रायः । विशिष्टस्य ब्रह्मण एकदेशभूतानि हि चिदचित्तत्त्वानि ॥ / किञ्चास्मिन् प्रकरणे प्राणशब्दस्येव प्रज्ञाशब्दस्यापि बहुविषयप्रयोगदर्शनात् न एकार्थनियतत्वम् । अतश्च जीवविषयत्वं युक्तमाश्रयितुम् । विशेषतो जीवे प्रयुक्तत्वाच्च । प्राणशब्दस्तावत् मुख्यप्राणे प्रयुक्तः, “यावदस्मिन्छरीरे प्राणो वसति तावदायुः” इति । तथेन्द्रियेषु “प्राणं प्राणन्तं सर्वे प्राणा अनु प्राणन्ति” इति । तथा परमात्मनि, “यत्रैतत्पुरुषः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति” इति । तथा जीवेषु, ‘एतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते, प्राणेभ्यो देवाः/ देवेभ्यो
१७६ श्रुतप्रकाशिकोपेते श्रीमान्ये व शब्देनाचे तनवस्तुजातमभिधाय प्रज्ञामात्राशब्देन तदाधारतया चेतनवर्ग चाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रप्राणशब्दाभिधेयं निर्दिश्य तमेव, “आनन्दोऽजरोऽमृतः” इत्युपदिशति । लोकाः” इति । न चात्र बहुवचनान्तः प्राणशब्दः पञ्चवृतिप्राण (वायु) परः ; तस्य सुषुप्तौ उपरत्यभावान्निष्क्रमणानुपपत्तेः । नापीन्द्रियपरः ; देवशब्देन पृथगुक्तत्वात् । न च देवशब्दः प्रकाशरूपज्ञानवाची ; लोकशब्देन तदुक्तेः ; अखारस्याच्च । न च लोकशब्दो लोकनीयविषयपरः ; देवेभ्यो लोका इत्यत्र विषयाणां ज्ञानतो निष्क्रमणाभावात् ॥ ज्ञानैर्माय इत्यर्थ इति चेन्न ; पञ्चम्यर्थेकरूप्यभङ्गात्, अखारस्यात, ग्राद्यपदाध्याहारप्रसङ्गाच्च । अतोऽस्मिन् वाक्ये बहुवचनान्तः प्राणशब्दो जीवपरः । प्राणसाहचर्माज्जीवे प्रयोगः । परमात्मनि तु प्राणशरीरकत्वात् । तथा प्रज्ञाशब्दश्व जीवे तावत् प्रयुक्तः ‘प्राणोऽस्मि प्रज्ञात्मा’ इति । प्रज्ञारूप आत्मा प्रज्ञात्मा । तथा “यो वै प्राणः सा प्रज्ञा, या प्राज्ञा स प्राणः । सह ह्येतावस्मिन्छरीरे वसतः; सहोत्क्रामतः । तस्यैषैव सिद्धिरेतद्विज्ञानम्, यत्रैतत् पुरुषः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति” इति च । न चायं प्रज्ञाशब्द उपरितनखण्डगतप्रज्ञाशब्दवत् मनोविषयः; ‘सहोत्क्रामतः’ इति श्रवणात् ; ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ इति श्रुत्यन्तरैकार्थ्या । तथा उत्तरत्र वागादीन्द्रियाणां जीवोपकरणत्वप्रपञ्चनेन पृथङ्निर्देशाच्चायं प्रज्ञाशब्दो जीवपरः । ‘अस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति’ इत्युपक्रम्य ‘वागेवास्या एकमङ्गमदूदुहत् घ्राण एवास्या एकमङ्गमदूदुहत्’ इत्येवमादिपर्यायैः पादपर्यन्तानां करणानां कृत्यमुक्ता ‘प्रज्ञैवास्या एकमङ्गमदूदुहत्’ इत्युक्तम् । अत्र हि. अस्यै इति चतुर्थ्यन्तं पदं प्रज्ञाशब्दनिर्दिष्टजीवपरम् । प्रथमान्तप्रज्ञाशब्दो हि मनोवाची । ‘नेत्यां विजिज्ञासीत; एतारं विद्यात्’, ‘न मनो विजिज्ञासीत; मन्तारं विद्यात्’ इति स्थानप्रमाणात् ॥ तस्मात् चतुर्थ्यन्तः प्रज्ञाशब्दः प्रथमान्तप्रज्ञाशब्दवाच्यमनः करणकजीवविषयः ! अतः सहोत्क्रमणपृथगुप देशाभ्याम् ‘यो वै प्राणस्सा प्रज्ञा’ इति प्रज्ञाशब्दो जीवविषयः । उत्क्रमणश्रुतिप्रत्यभिज्ञापकत्वात् वागादीनामुपकरणित्वाच्च बुद्धिपरत्वमप्यनुपपन्नम् । अतो जीवविषयत्वं दृष्टम् । तथा मनसि च प्रज्ञाशब्दः प्रयुज्यते, “न हि प्रज्ञापेता वाक् नाम किञ्चन प्रज्ञापयेत् । अन्यत्र मनो मेऽभूदिति नाहमेतन्नाम प्राज्ञासिषम्’ इति । तथा इन्द्रियेषु च, “दश प्रज्ञामात्राः” इति । अतः पूर्वं प्रज्ञाशब्दनिर्दिष्टो जीवः इह प्रज्ञामात्र शब्दोक्तः । जात्यभिप्रायेण एकवचननिर्दिष्टस्य व्यक्त्यभिप्रायेण बहुवचननिर्देश उपपद्यते । यथा, “सता सोम्य तदा संपन्नो भवति”, “सति संपद्य न विदुः सति संपत्स्यामहे” इति च । यद्वा मा भूत् प्रज्ञामात्राशब्दस्यार्थवैरूप्याश्रयणम् ; अरनाभिदृष्टान्तवाक्ये प्रज्ञामात्राशब्दस्य भूतेन्द्रियाभिमानिदेवतारूपदशविधचेतनपरत्वं स्यात् तदानीमपि तदाधारतय चेतनाधारत्वं परस्यार्थसिद्धम् । एवमेतत्प्रकरणपर्यालोचनासुलभमुपपत्तिजातं सर्वे भाष्य एव व्यक्तीभविष्यति ।
प्रज्ञामात्राशब्देन तदाधारतयेति । न हीन्द्रियाणां पृथिव्यादिभूताधारत्वं युक्तमिति भावः । चेतनवर्गमिति । प्राकरणिकप्रज्ञाशब्देकवचनं जात्यभिप्रायमिति भावः । तस्याप्याधारतया प्रकृतमिन्द्रप्राणशब्दाभिधेयं निर्दिश्येति । ‘ता वा एताः’ इत्यादिपूर्ववाक्योक्ते परस्परसाकाङ्क्षत्वे दृष्टान्तत्वं न घटते; प्रज्ञामात्राणामाघारान्तरकथनादिति भावः । तस्म च परमात्मत्वं कथमित्यत्राह समेवा-
• १-१-११ इन्द्रप्राणाधिकरणम् (अध्यात्मसंबन्धशब्दार्थः)
२७७ तदेतच्चेतनाचेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन् — परमात्मन्येवोपपद्यते इत्यर्थः॥ अथवा, अध्यात्म संबन्धभूमा ह्यस्मिन् — परमात्मा साधारणधर्म संबन्धोऽध्यात्मसंबन्धः । तस्य भूमा बहुत्वं हि अस्मिन् 1 - प्रकरणे विद्यते । तथा हि-प्रथमम्, ‘त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इति, ‘मामुपास्स्व’ इति च परमात्मा साधारण मोक्षसाधनोपासनकर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रतीयते । तथा, ‘एष एव साधु कर्म कारयति तम्, यमेभ्यो लोकेभ्य उन्निनीषति । एष एवासाधु कर्म कारयति तम्, यमधो निनीपति’ इति सर्वस्य कर्मणः कारयितृत्वं च परमात्मधर्मः । तथा ‘तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्खर्पिताः प्रज्ञामात्त्राः प्राणेऽर्पिताः’ इति सर्वाधारत्वं च तस्यैव धर्मः । तथा ‘स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः’ इत्येतेऽपि परमात्मन एव धर्माः । ‘एष लोकाधिपतिरेष सर्वेशः’ इति च परमात्मन्येव संभवति । तदेवमध्यात्म संवन्धभूम्नोऽत्र विद्यमानत्वात् परमात्मैवात्रेन्द्रप्राणशब्दनिर्दिष्टः ॥ ३० ॥ नन्दोऽजर इति । एवमर्थविरोध-दृष्टान्तदान्तिकभाववैघट्य - मुख्यत्व-प्राकरणिकप्रयोगसाधारण्यैरनुगृहीतस्य श्रुतिवाक्यस्यार्थमुपन्यस्य सूत्रार्थमुपसंहरति तदेतदिति । एवं प्रथमयोजनायां तद्यथा रथस्यारेष्वित्यादिवाक्यमेकमेव विषयः स्यात् । स एष प्राण एवेति एतद्वाक्योदाहरणं वाक्यान्तराण्यपि परब्रह्मपराणि सन्तीति प्रदर्शनार्थम् । तेन उपक्रमस्वारस्यादपि समुदायस्वारस्यं प्रबलमिति फलितम् ॥ एवमवयविस्वारस्य प्राबल्यस्यार्थसिद्धत्वादपि कण्ठोक्कत्वं युक्तमिति मुखान्तरेण योजयति अथवेति । पूर्वयोजनायाम् अध्यात्मशब्दस्य आत्मनीत्यर्थः । अस्यां तु आत्मनि वर्तमानपरोऽध्यात्मशब्दः । उपसंहारवाक्यमुपक्रमबाधितमिति पूर्वपक्षिणोक्तम् । तत्रेदमुत्तरमुक्तं भवति–उपक्रमोपसंहारौ वाक्यावयवौ । तयोरवयवभूतयोः परस्परविरोधे उपक्रमप्राबल्यम् । न त्ववयविविरोधे । अत्र त्वनेकावान्तरवाक्यैः पर्यालोचितः प्रतिपन्नस्य महावाक्यार्थस्य अवयविनो विरोधे अवयवभूतोपक्रमो दुर्बलः, यथा गङ्गायां घोषः प्रतिवसतीत्यादिषु घोषः प्रतिवसतीति पदाभ्यां प्रतिपन्नवाक्यार्थमुपक्रमस्थगङ्गापदं न बाधते, अपि तु स्वयं तदनुगुणार्थं भवति — तद्वदिति । तदेतदभिप्रयन् परमात्मा साधारणधर्मभूयस्त्वं दर्शयति तथाहीति । हिततमं मन्यसे इति वाक्यं त्वाष्ट्रवधादेरप्युपक्रमगतम् । उपक्रमोपक्रमस्यापि महावाक्यान्तर्भावात् तदुक्तिः ; न तु तावन्मात्रस्य साधकत्वाभिप्रायेण । लोकाधिपतिः लोकखामी । सर्वेशः – सर्वनियन्ता ॥
ननु ‘पा रक्षणे’ इति धातोः पतिशब्दः; तत् कथमत्र शेषिवाचित्वम् ॥ उच्यते । न हि सर्वत्रावयवशक्तिरेव, रूढिशक्तिरपि ह्यस्ति । अन्यथा ‘गमेर्डोः’ इति व्युत्पत्त्या गोशब्दस्य सर्वजङ्गमवाचित्वप्रसङ्गात् ; स्थिताया गोरवाचकत्वप्रसङ्गाच्च । अतः शेषिणि पतिशब्दो रूढः । अन्यथा “वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥” इति न्यायेन पितुः संरक्षके पुत्रेऽपि पितरं प्रति पतिशब्दप्रयोगप्रसङ्गादिति । सूत्रार्थ निगमयति तदेवमिति । अध्यात्मसंबन्धभूमा ह्यस्मिन् इति सूत्रांशः परैरेवं व्याख्यातः - अध्यात्मसंबन्धः - प्रत्यगात्मसम्बन्धः ; तस्य भूमा बाहुल्यमुपलभ्यते अस्मिन् अध्याये ; मायुषः प्रभुत्वमिन्द्रियाश्रयत्वं 1 द्वितीययोजनायां सौत्तमस्मिन्नतिपदं प्रकरणे इत्यर्थकमिति विशेषोऽपि द्रष्टव्यः ।
2८ (शास्तदत्रिः ) कथं तर्हि प्रशासजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशः सङ्गच्छते ? तत्राह- शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ १-१-३१ ॥ ; प्रज्ञातजीवभावेनेन्द्रेण, “मामेव विजानीहि”, ‘मामुपास्स्व’ इति उपास्यस्य ब्रह्मणः स्वात्मत्येनोपदेशोऽयं न प्रमाणान्तर प्राप्तस्वात्मावलोकनकृतः, अपि तु शास्त्रेण स्वात्मदृष्टिकृतः । एतदुक्तं शरीरोत्थापकत्वं विषयेन्द्रियादिविज्ञानप्रतिक्षेपेण प्रत्यगात्मवेदनं चोपदिश्यत इति । अपरैश्ध - प्रज्ञा देहेन्द्रियमनः प्राणात्मनां संबन्धोऽध्यात्मसंबन्धः स मूयानिति व्याख्यातम् । तदयुक्तम् ; आयुरधिपतित्वादीनां मनः प्राणसंबन्धित्वादीनां च परमात्मसाधकत्वाभावात् ॥ इन्द्रसंज्ञदेवताविशेषे तात्पर्यनिषेघपरं सूत्रमिति चेन्न ; इन्द्रस्य शरीरेऽपि प्राणेन्द्रियमनः प्रभृतीनां विद्यमानतया तत्प्रतिक्षेपासामर्थ्यात् । ’ अस्मिन्छरीरे’ इति निर्देशो हीन्द्रशरीरेऽपि संभवति, “सदेव सोम्येदम् " इतीदंशब्दवत् सर्वनामपदस्य साधारणत्वात् ॥ प्रत्यगर्थविषयस्योपदेशस्य पराचीनदेवताविषयत्वमयुक्तमिति चेन्न, इन्द्रस्यापि खात्मानं प्रति अहमिति प्रत्यक्तयाऽवभासात् । ‘प्राणोऽस्मि’, ‘मामुपास्ख’ इति हि तद्वाक्यम् ॥ इन्द्रमात्रस्य प्राधान्यतः प्रतिपाद्यता प्रतिक्षिप्यत इति चेन्न ; प्राणेन्द्रियमन आदिसंबन्धानां तत्प्रतिक्षेपासामर्थ्यात् । सौत्त्रवचनव्यक्तघनुगुणता च न स्यात् । प्राणः परमात्मेति प्रतिज्ञातमाद्यसूत्रे । द्वितीयसूत्रस्थेन नना परमात्मत्वमेव निषेध्यम् । न परमात्मेति पूर्वपक्षिते, तत्प्रतिसमाधानपरेण, परमात्मैव प्राण इति प्रतिज्ञाय समर्थनीयम् । न परमात्मेति वदन्तं प्रति, नेन्द्र इत्युक्ते कः प्रतिक्षेपः; न घटोऽस्तीत्युक्ते न पट इतिवत् तयोर्विरोधाभावात् । परमात्मत्वे प्रतिज्ञाते मनःप्राण संबन्धादयस्तु न परमात्मत्वसाधनसार्थाः ॥
ननु ‘नायं परमात्मा, अपि त्विन्द्रः’ इति प्रतिज्ञाते सति, नेन्द्र इति प्रतिविधानं युक्तमिति चेन्न ; त्वदुक्तयुक्तेरिन्द्रप्रतिक्षेपकत्वाभावात् । अस्तु वा तत्प्रतिक्षेपः ; ततः किम् ॥ स तु परमसाध्यस्य परमात्मपरत्वस्योपयोगीति चेन्न ; परमसाध्यस्याव्यवहितसाधक हेतूपस्थापकत्वे संभवति परम्परया साधकार्थपरत्वेन निर्वाहानुपपत्तेः ॥ ३० ॥ उत्तरसूत्रं शङ्कयाऽवतारयति कथं तर्हीति । प्रज्ञातजीवभावस्येति । " इदि परमैश्वर्ये " इत्यादिप्रकृतिप्रत्ययविभागेन परमात्मपरत्वमिन्द्रादिशब्दानामयुक्तम्; स्वाष्ट्रवघादिलिङ्गनिर्वाहानुपपत्तेः । तत् कथमिन्द्रशब्देन परमात्मनिर्देश इति भावः । पूर्व परमात्मपरत्वसाधक हेतुरुक्तः । पूर्वपक्षयुक्तेः कः परिहार इत्यपेक्षायां सूत्रावतार इत्यर्थः ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ कीदृश उपदेश इत्यत्राह प्रज्ञातेति । शास्त्रदृष्टिशब्दस्य व्यवच्छेद्यमाह न प्रमाणान्तरेति । शास्त्रस्य दृष्टिः, शास्त्ररूपा दृष्टिरिति च (वा) प्रतीतिः स्यादिति तद्व्यावृत्त्यर्थमाह शास्त्रेणेति । कस्य दृष्टिरित्यपेक्षायां स्वात्मशब्दः । स्वानुभवप्रल्पक्षेण आत्मावलोकने जीवमात्रप्रकाशः; शास्त्रेण तन्मूलयोगेन चात्मानुभवे परमात्मपर्यन्ततया प्रकाश इति भावः । न हि प्रमाणविशेषेण अन्यत् प्रमेयमन्यद्भवति तच्च शास्त्रं किमित्यत्राह एतदुक्त मिति । जीववाचिपदानां परमात्मसामानाधिकरण्येपपादिकाः श्रुतीरुदा जिहीर्षुर्नामरूपव्याकरण श्रुतिमाह 1 इन्द्रस्य प्रियंधामोपजगानेत्यत्र आदावेव इन्द्रशब्देन विष्णुः उपेन्द्रो वा योगव्युत्पत्या पृह्यतामिति सिद्धान्ती न वक्तुमईतीत्यर्थः ।
१-१-११ इन्द्रप्राणाधिकरणम् २७९ भवति - ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’, ‘ऐतदात्म्यमिदं सर्वम्’, ‘अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा’ ‘य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति’, ‘एप सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’ इत्येवमादिना शास्त्रेण जीवात्मशरीरकं परमात्मानमवगम्य, जीवात्मवाचिनामहन्त्वमादिशब्दानामपि परमात्मन्येव पर्यवसानं ज्ञात्वा ‘मामेव विजानीहि’, ‘मामुपास्स्व’ इति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेशेति । वामदेववत् —यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वं सर्वस्य तच्छरीरत्वं शरीरवाचिनां शब्दानां च शरीरिणि पर्यवसानं पश्यन्, ‘अहम्’ इति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति, “तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च”, “अहं कक्षीवान् ऋषिरस्मि विप्रः” 1 इत्यादिना । यथा च प्रह्लादः, “सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्व मयि सर्व सनातने ।” इत्यादि वदति ॥ ३१ ॥ अस्मिन् प्रकरणे जीववाचिभिः शब्दैरचिद्विशेषाभिधायिभिश्चोपास्यभूतस्य परस्य प्रह्मणोऽभिधाने कारणं चोद्यपूर्वकमाह - जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ १-१-३२ ॥ “न वाचं विजिज्ञासीत; वक्तारं विद्यात्”, “त्रिशीर्षाणं त्वाष्ट्रमहनम् ; अरुन्मुखान् यतीन् सालाघृकेभ्यः प्रायच्छम्” इत्यादिजीवलिङ्गात्, “यावद्धयस्मिन् शरीरे प्राणो वसति तावदायुः”, “अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति” इति मुख्यप्राणलिङ्गाच्च नाध्यात्मसंबन्धभूमेति चेत्-न; उपासात्रैविध्यात् हेतोः । उपासनात्रैविध्यमुदेष्टुं तत्तच्छब्देनाभिधानम्निखिलकारणभूतस्य ब्रह्मणः स्वरूपेणा (स्वरूपा ? )नुसन्धानम् भोक्तृवर्गशरीरकत्वानुसन्धानम् भोग्यअनेनेति । जीवेऽप्यनुप्रवेशं दर्शयितुमाह ऐतदात्म्यमिति । तदेव स्पष्टयति अन्तः प्रविष्ट इति । शरीरत्वतल्लक्षणे दर्शयति य आत्मनीति । पर्यवसानं ज्ञात्वेति नामरूपव्याकरणश्रुतिलब्धार्थः उक्तः । उपदिदेशेत्यन्तेन शास्त्रदृष्टया तूपदेश इत्यशो व्याख्यातः । वामदेववदित्यशं व्याचष्टे यथेति । शरीरिणि पर्यवसानं पश्यन्नित्यन्तेन तद्वैतत्पश्यन् इत्येतत् व्याख्यातम् । उक्तार्थविशदीकरणायाह यथा च प्रह्लाद इति ॥ (३१) . उत्तरसूत्रमवतारयति अस्मिन्निति । जीववाचिभिरित्यादि । त्वाष्ट्रवधादिलिङ्गपतिपादनकारणमपि कथनीयमित्यभिप्रेतम् ; उपरितनग्रन्थानुगुण्यात् । कारणं प्रयोजनरूपम् । उपदेष्टुमिति हि वक्ष्यते । चोद्यपूर्वकमाह । न तूक्तार्थप्रतिक्षेपार्थकं चोद्यम् । विशेषणांशे तात्पर्यं प्रतीयत इति तस्य प्रयोजनमेव प्रष्टव्यम् ! तत् चोद्यरूपेण पृष्टवान् इत्यर्थः ॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ न वाचं विजिज्ञासीत वक्तारं विद्यादिति । न केवलं मद्वचनमेव विजानीहि वक्तारं माञ्च विजानीहीत्यर्थः । मुख्यप्राण ःपञ्चवृतिः । मुख्यशब्दः इन्द्रियादिव्यावृत्त्यर्थः । नञो निषेध्याकाङ्गायामनतिविप्रकृष्टं सौत्रपदमध्याहृतम् अध्यात्मेति । हेतुत्वं विवृणोति उपासनेति । उपदेष्टुमित्यनेन प्रयोजनतया हेतुत्वं स्पष्टम् । त्रैविध्यं विवृणोति निखिलेति । स्वरूपेणानुसन्धानम् - अद्वार कगुणविशिष्टानु- 1 एतद्वाक्यविवरणं भाष्यार्थदर्पणे ।
२८०
भोगोपकरणशरीरकत्वानुसन्धानञ्चति त्रिविधमनुसंधानमुपदेष्टुमित्यर्थः । तदिदं त्रिविधं ब्रह्मानुसन्धानं प्रकरणान्तरेष्वप्याश्रितम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘आनन्दो ब्रह्म’ इत्यादिषु स्वरूपा (पेणा?) नुसन्धानम्, “तत्सृष्ट्रा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत्, निरुक्तञ्चानिरुक्तश्च निलयनं चानिलयनञ्च, विज्ञानञ्चाविज्ञानञ्च, सत्यं चानृतञ्च सत्यमभवत्” इत्यादिषु भोक्तृसन्धानम् ’ । त्रिविधानुसन्धानस्य प्रमाणमूलत्वे सिद्धे ह्ययं निर्वाह उपपन्नः स्यादिति शङ्कायाम्, आश्रितत्वादित्येतद्वयाचष्टे तदिदमिति । कुत्रेत्यपेक्षायां प्रकरणान्तरेष्वपीत्युक्तम् । आश्रितम् - प्रतिपन्नमित्यर्थः । तत्सृष्टृत्यादि । ‘सत्यं ज्ञानमनन्तम्’ इति देशकालवस्तु परिच्छेदरहितस्य ब्रह्मणः, ‘ब्रह्मविदाप्नोति’ इति वेद्यत्वविधानात् प्रकरणस्य वेद्यब्रह्मप्रतिपादनपरत्वात्, " स य एवंवित् " इति निगमनवाक्येऽपि पूर्वोक्तसमस्तप्रकार विशिष्टवेदनप्रतीतेश्व चिदचिच्छरीरकत्वानुसन्धानमत्र विवक्षितमिति भाष्याभिप्रायः ॥
ननु ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इत्युक्वाऽनन्तरम्, ‘स य एवंवित्’ इति वाक्येन जीवान्तयमिण आदित्यान्तर्वर्तिनश्च उपासनमुच्यत इति चेन्न ; स्थानमेदेन विद्याभेदप्रसङ्गात् । स चानुपपन्नः ; ‘एतमानन्दमयमात्मानमुपसङ्कामति’ इत्यानन्दमयप्राप्तिफलश्रवणेन ‘ब्रह्मविदाप्नोति परम्’, ‘तस्माद्वा एतस्मादात्मनः’ इत्यादिना प्रतिपादितानन्दमयविषयविद्यैकत्वावगमात् प्रकरणस्य ; संभवत्येकवाक्यत्वे वाक्यभेदानुपपत्तेश्च ॥ स यश्चायमित्यादिवाक्ये किमुच्यत इति चेत् — त्रिविधानुसंधानरूपैकविद्याया मोक्षफलकत्वेन विवक्षितत्वे सति तत्र स्वरूपेणावस्थितस्य अनुसंधाने ज्ञानादिगुणवत् दिव्य विग्रहयोगस्याप्यनुसंधेयता सिद्ध्यर्थं पुण्डरीकाक्षमप्राकृतवपुरतिदिश्यते । तत्र ‘स यश्चायं पुरुषे’ इति विज्ञानमयादन्तरस्याऽऽनन्दमयस्यानुवादः, ‘यश्चासावादित्ये’ इति विग्रहातिदेशः । किञ्च आनन्दमयप्रतिपादनानन्तरं ब्रह्मविदाप्नोतीत्युपक्रमाभिहितप्राप्तिविशदीकारार्थम् ‘अथातोऽनु प्रश्नाः’ इति प्रश्ना उपक्षिप्ताः । पूर्वप्रतिपादनस्य बुभुत्सा हेतुत्वमतश्शब्देनोच्यते उता विद्वानिति । उत विद्वानिति पदम् । “निपातस्य च” इति छान्दसो दीर्घः ; अथा सपत्नानितिवत् । अविद्वानिति पदे सति बाद्युदात्तत्वं स्यात्; “तत्पुरुषे तुल्यार्थ….” इत्यादिस्मरणात् ‘अविद्वान् प्रतिगृह्णाति’ इतिवत् । अन्तोदात्तञ्चदं पदम् । तस्मात् विद्वानिति पदम् । कश्चन - अविप्रकृष्टहृदयादिस्थानस्थमनवच्छिन्नञ्च ब्रह्मोपासीनो विद्वान् किमतः प्रेत्य अमुं लोकं ‘परमे व्योमन् ’ इत्युक्तं लोकं गच्छतीत्येकः प्रश्नः । उत गत्यनपेक्षमिहैव ब्रह्म प्राप्नोतीत्यर्थसिद्धः प्रश्नः । आहो विद्वानिति । समश्नुता इति भोक्तृत्त्वं विवक्षितम् । कश्चित् — अहङ्ग्रहेणोपासीनोऽपि विद्वान् अमुं लोकं गत्वा किं समश्नुते ? भोग्यभूतं ब्रह्मानुभवतीत्येकः प्रश्नः । उत ब्रह्मस्वरूपेणैकीभवतीत्यर्थसिद्धः प्रश्नः । एवं शास्त्रवैविध्यमूलाः गतिविशेष स्वरूपभेदभावाभावविषयाः प्रश्नाः बहुवचनविवक्षिताः । एतान् प्रतिवक्तुं जगत्कारणत्वौपयिकगुणविशिष्टस्यैव विलक्षणस्य ब्रह्मणः प्राप्यत्वादिज्ञापनाय ‘सोऽकामयत’ इत्यादिना जगत्कारणत्वादिकं निरन्शियानन्दपर्यन्तं महिमानमुक्ता, ‘स यश्चायम्’ इत्यादि वाक्यं वदति । संनिकृष्टहृदयस्थं वा 1 स्वरूपनिरूपकधर्ममात्रचिदचिद्गुणग्रहणव्यावृत्त्यर्थमाह अद्वारकगुणविशिष्टानुसंधानमिति । दिव्यमङ्गलविग्रहयोगमपि स्वरूपान्तर्भूतं वक्ष्यति ।
;
१-१-११ इन्द्रप्राणाधिकरणम् (विशिष्टविवक्षा चिम् ) २८१ शरीरतया भोग्यभोगोपकरणशरीरतया चानुसन्धानम् । हृद्वापि प्रकरणे तत् त्रिविधमनुसंधानं युज्यत एवेत्यर्थः ॥ एतदुक्तं भवति - यत्र हिरण्यगर्भादिजीधविशेषाणां प्रकृत्याद्यचेतनविशेषाणाञ्च परमात्मासाधारणधर्मयोगः, तदभिधायिनां शब्दानां परमात्मवाचिशब्दः सामानाधिकरण्यं वा ra तत्र परमात्मनः तप्तच्चिदचिद्विशेषान्तरात्मत्वानुसन्धानं प्रतिपिपादयिषितमिति ॥ अतोऽवेन्द्रप्राणशब्दनिर्दिष्टो जीवादर्थान्तरभूतः परमात्मैवेति सिद्धम् ॥ श्रीः ६ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभान्ये प्रथमस्याध्यायस्य प्रथमः पादः ॥ १-१-१॥ 00 विप्रकृष्टर विमण्डलादिस्थानस्थं वा, पूर्वोक्तं सत्यत्वादिलक्षणमानन्दादिगुणकं वा ब्रह्मोपासीनः सर्वोऽपि विद्वान् अस्माल्लोकात् प्रेत्य अन्नमयादिसमष्टिव्यष्टिविभूतिकं निरतिशयानन्दं परमात्मानं भोग्यभूतं भोक्ता सन्
ननुभवतीति प्रश्नस्योतरमुक्तम् । अतः सर्वेषां विद्याविशेषनिष्ठानामर्चिरादिगतिमत्त्वं भोक्तृभोग्यभावेनावस्थानञ्च प्रतिपादयितुं संनिकृष्ट विप्रकृष्टस्थान विशेषोपलक्षणार्थम्, ‘स यश्चायम्’ इत्यादि उक्तम् । तस्मादादित्यान्तर्वर्तितया उपासनमा नन्दवल्ल्यां न विधित्सितम् । अत उक्तलक्षण त्रिविधोपासनमेवात्र विवक्षितम् । एवम् “भोक्ता भोग्यं प्रेरितारश्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् " इत्यादीनि सदृशानि श्रुत्यन्तराणि च विवक्षितानि ; त्रिविधोपासनस्य स्फुटतरत्वात् । भोक्तृभोग्ययोरीश्वर विधात्वं कथमित्यपेक्षायां चिदचिदनुप्रवेशादीश्वरस्य तत्प्रकारित्वमिति त्रिविधोपासनपरश्रुत्यन्तरार्थविशदीकार हेतुत्वादानन्दवल्ली वाक्यमिहोदाहृतम् । अन्यत्त्वभिप्रेतम् । । इह तद्योगादित्येतद्वद्याचष्टे इहापीति । ‘आनन्दोऽजरोऽमृतः’ इति स्वेन रूपेणानुसंधानम्, ‘प्राणोऽस्मीत्यचिद्विशिष्टानुसंधानम्, ‘मामुपास्व’ इति चिद्विशिष्टानुसंधानमिति त्रिविधानुसंधानमिहोपपद्यत इत्यर्थः । ‘त्रिविधानुसंधाने कर्तव्येऽप्यत्र चिद्विशेषाचिद्विशेषविशिष्टत्वोक्तिः कथम्, सामान्येन चिदचिद्विशिष्टानुसंधानं हि प्रकरणान्तरोक्तम्’ इत्यपेक्षां प्रशमयन् अस्य न्यायस्य प्रतर्दनविद्यामात्रविषयत्वं च निवारयन् विशिष्टोपासनपरत्वचिद्दं च दर्शयति एतदुक्तंभवतीति । यत्रेति । अयं न्यायो न प्रतर्दनविद्यामात्र विषयः, अपि त्वीदृशसर्वप्रकरण विषय इति भावः ! सामान्येन चिदचिद्विशिष्टोपासनं हि विहितत्वात् स्वीक्रियते विधेरवैयर्थ्यार्थम् ; तथा चिदचिद्विशेषविशिष्टोपासनं विदितं चेत्, तत्र तत्र चि (तत्र तत्तच्चि ?) दचिद्विशेषान्तर्यामित्वमनुसंधेयमित्यभिप्रायेणाह हिरण्यगर्भादीति । हिरण्यगर्भादिजीवविशेषाणामिति पदेन परमात्मशब्देन च “परमात्मा व्यवस्थितः । स ब्रह्मा स शिवः सेन्द्रः” इति श्रुतिः स्मार्यते । अनन्यपरेण नारायणानुवाकेन सर्वविद्यासूपास्यो नारायण एवेति निर्णीतत्वादिन्द्राद्युपासनेऽपि तदन्तर्यामी नारायण एवोपास्य इति भावः । पाशुपताधिकरणे तथाऽनुवदिष्यमाणत्वात् । परमात्मपर्यन्तत्वविवक्षाज्ञापकं द्विविधं प्रदर्शयति परमात्मासाधारणेति । परमात्मासाधारणधर्मयोगात् तद्वाचिशब्दसामानाधिकरण्याच्च विशिष्टोपासनपरत्वमवगम्यत इत्यर्थः । अधिकरणार्थमुपसंहरति अत इति ॥ अत्र कैश्विदेवं वर्णितम् - प्राणव्यापारस्यापि परमात्मायत्तत्वात् तत्संङ्कीर्तनम् । जीवसङ्कीर्तनं तु तस्योपाधिकमेदप्रतिक्षेपेण परब्रह्मरूपताज्ञापनार्थम् । अन्यथा त्रिविधमुपासनं प्रसज्येत । ततभ 236
२८२
वाक्यभेदः स्यादिति ॥ तदयुक्तम्; ‘नित्योपलब्ध्यनुपलब्धिप्रसङ्गः’ ‘अपीतौ तद्वत्प्रसङ्गात् इतिवत् प्रसङ्गशब्दस्यातत्वात् वाक्यभेदाभावाच्च । एकवाक्येनैव हि विधीयते, ‘तं मामायुरमृतमित्युपास्स्व’ इति । अत्र मामिति जीवविशिष्टतोता; आयुरिति प्राणविशिष्टता - ‘आयुः प्राणः’ इति ह्यनन्तरवाक्यम् ; अमृतमिति स्वेन रूपेणावस्थितिः । अत एवंविधं परमात्मानमुपास्स्वेकवाक्यत्वम् । उपासात्रैविध्यविधानस्य वृत्तिकाराभिमतत्वात् तदनतिक्रमाय परैरेवं त्रिविधोपासनपरत्वेन योजनान्तरं कृतं तत्र - ज्ञानक्रियाशक्तिद्वयाश्रयबुद्धिप्राणरूपोपाधिधर्मेण स्वधर्मेण च त्रिविधं ब्रह्मोपास्यमिति । तदयुक्तम् ; जीवेश्वर भेदस्यान्तः करण (णा विद्यादि ?) रूपोपाध्यवच्छेद कल्पितत्वाभावात् ; “यस्यात्मा शरीरम्’ ‘मनोमयः प्राणशरीरः " इति जीवप्राणयोः परमात्मानं प्रति शरीरतया प्रकारत्वस्य श्रुतत्वेन प्रकारान्तरेण त्रैविध्यकल्पनायोगाच ॥ अन्ये त्वेवमुपासात्रैविध्येन वाक्यैकत्वमाहुः - प्रज्ञाशरीरों जीवशरीरः प्राणशरीरश्व परमात्मा उपास्यः । तत्र प्रज्ञाशरीरो मनोमयः । जीवशरीरो वाङ्मयः; वाकूशब्दः शब्दपरिणामशक्तियोगात् परमाकाशविषयः; अतो वाङ्मय आकाशशरीरः । आकाशशरीरत्वं च जीवशरीरत्व पर्यन्तम्, “ तस्यान्ते सुषिरं सूक्ष्मम्’ ‘तस्य मध्ये महानग्निः” इति हृदयाकाशमध्ये अग्निशब्देन जाठराग्निपरमात्म ( ? ) ज्वालया संसृष्ट जीवमभिघाय, ‘तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः” इत्याम्नानादिति ॥ तदप्यनुपपन्नम् ; मनोमयादिव्यूहानाम् अप्रामाणिकत्वस्य पूर्वमेव दर्शितत्वात् । किञ्च अस्मिन् प्रकरणे प्रज्ञाशब्दस्य सहोत्क्रमणपृथग्व्यवहाराभ्यां स्थानप्रमाणेन च जीव-प्रसिद्धमनोविषयत्वोपपादनेन ईश्वरप्रज्ञाशक्तिवाचित्वाभावात् ः प्राणशब्दस्य, घटशब्दस्योदकाहरणशक्तिवाचित्वाभाववत् क्रियाशक्तिवाचित्वाभावाच्च । अतः प्रज्ञाप्राणब्दौ न मनोमयप्राणमयवाचकौ । यदि प्रसिद्धमनोवाक्प्राणा एतत्कार्यभूताः विवक्षिताः, तस्मिन् प्रकरणे चक्षुः श्रोत्रादीनामपि प्रकृतत्वात् तेषाञ्च परमात्ममयत्वादुपासात्रैविध्यं विरुध्यते । आकाशशरीरत्वं जीवशरीरत्व पर्यन्तमित्यप्ययुक्तम् ; ‘तस्य मध्ये महानमिः’ इत्यमिशब्दस्य जीववाचित्वाभावात् । “तत्र यः संश्रितो नित्यं स्थास्यामग्निरिवार्पितः । आत्मानं तं विजानीयात्” इति स्मृतिवचनं तु न जीवस्य श्रुतावग्निशब्दवाच्यत्वे प्रमाणम् ; किंतु स्थानस्था निनोर्वैलक्षण्ये दृष्टान्तमात्रसमर्पकम् । वाङ्मयस्य जीवशरीरकत्वं भवत्प्रक्रियया विरुद्धञ्च ; प्राणमयस्यान्तर्यामित्वाभ्युपगमात् । अन्तर्यामिणो जीवशरीरकत्वश्रवणाच्च । ‘यस्याऽत्मा शरीरम्’, ‘स त आत्माऽन्तर्याम्यमृतः’ इति हि श्रूयते । तमोधिष्ठातृतयाऽभ्युपगतस्य वाङ्मयस्य जीवशरीरकत्वं श्रुतिविरुद्धञ्च ‘यः पृथिवीमन्तरे संचरन् यस्य पृथिवी शरीरम्’ इत्यारभ्य ‘एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः’ इति समानप्रकरणे नारायणस्यैवान्तर्यामित्वश्रवणात् ॥ घक्यात् सर्वमुपपन्नमिति चेन्न ; सर्वेषां व्यूहानां सर्वधर्मसंभवेन व्यूहत्त्रयतद्व्यापारविभाग व्यवस्थोपन्यासानुपपत्तेः । अतो यथोक्तमेव उपासात्रैविध्यमिति सिद्धम् ॥ इति इन्द्रप्राणाधिकरणम् । ‘श. ! इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन श्रीमद्वरदाचार्य पाद सेवासमधिगत भगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शन सूरिणा विलिखितायां श्रुतप्रकाशिकायां प्रथमस्याध्यायस्य प्रथमः पादः ॥ शुभमस्तु -0-0-0-
श्रीः श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमाध्याये द्वितीयः पादः प्रथमे पादे अधीतदेदः पुरुषः कर्ममीमांसाश्रवणाधिगत कर्मयाथात्म्य विज्ञानः केवलकर्मणामल्पास्थिर फलत्वमवगम्य, वेदान्तवाक्येषु च आपातप्रतीतानन्तस्थिरफलेब्रह्मस्वरूपतदुपासनसमुपजातपरमपुरुषार्थलक्षणमोक्षापेक्षः अवधारितपरिनिष्पन्नवस्तुवोधनशब्दशक्तिः वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावः तदितिकर्तव्यता रूपशारीरकमीमांसाश्रवणमारभेतेत्युक्तं शास्त्रा- श्रुतप्रकाशिका प्रथमे पाद इत्यादि । किमर्थमत्र प्रथमपादाधिकरणार्थानुक्रमणम् ॥ उच्यते । पादानुयायिनोऽर्थस्य प्रत्यधिकरणमनुयायित्वस्फुटीकरणाय ॥ किमर्थमनुयायित्वकथनम् । त्रिपादीसङ्गत्यर्थम् ॥ सङ्गतिः कुतः ॥ सूत्रकाराभिप्रेतत्वात् । पादभेदो अर्थभेदात् । तत्क्रमश्च सङ्गतिविशेषात् । तत्र किं प्रमाणम् ? सम्प्रदायक्रमः । किञ्च अत्राधिकरणार्थानुक्रमणेन त्रिपाद्या अनारम्भणीयत्वशङ्का चार्थात् परिहृता भवति ; त्रिपाद्यामुदाहरिष्यमाणानां श्रुतीनां प्रथमपादाधिकरणोक्तन्यायाविषयत्वज्ञापनार्थत्वादनुक्रमणस्य । अत एव प्रथमपादे वेदान्तवाक्यानां परमात्मपरत्वे दर्शितेऽपि त्रिपाद्या आरम्भणीयत्वं सिद्धम् । प्रथमे पादेऽपि ईक्षत्यानन्दमयाधिकरणयोः कारणस्य चिदचिद्वैलक्षण्ये सिद्धेऽपि पूर्वाधिकरणन्यायाविषयश्रुतिवाक्यार्थनिर्णयार्थो तरोत्तराधिकरणारम्भः; तद्वदत्रापीति । शास्त्रारम्भप्रयोजनायाश्चतुस्सूत्र्याः कथं प्रथमपादे सङ्गतिः ॥ उच्यते । तस्याः शास्त्रारम्भार्थत्वेन शास्त्रोपोद्घातरूपत्वादर्थतः प्रथमपादान्तर्गतत्वम् ; न तु प्रथमपादस्य प्रथमाध्यायस्य चा (वाड) साधारणत्वात् सङ्गतिः प्रथमे पाद इति । अधीतवेदः - कृतसाङ्गसशिरस्काध्ययनः । तावति अपर्यवसानमाह कर्मेति । तत्राप्यपर्यवसाने हेतुमाह केवलेति । तथापि ब्रह्मविचारप्रवर्तनक्षमापातप्रतीतिरेव न जायते, सिद्धवस्तुनि व्युत्पत्त्यभावादिति शङ्कायां प्रथमसूत्रस्य तात्पर्यमाह अवधारितेति । तर्हि वेदान्तवाक्यैरेवालम्, किमर्थो ब्रह्मविचार इत्यत्राह तदितिकर्तव्यतेति ।
ननु चतुस्सूत्री हि शास्त्रारम्भार्था; तत् कथं प्रथमाधिकरणार्थानुक्रमे शास्त्रारम्भसिद्ध्य इत्युक्तम् ॥ जन्मादिसूत्रत्रयस्यापि प्रथमाधिकरणाधीनारम्भत्वात् तथोक्तिः; न तु तेषां सूत्राणां शास्त्रारम्भर्थित्वाभावात् । यद्वा जन्मादित्रिसूत्र्याः शास्त्रारम्भत्वे सत्यपि प्रथमपादे सङ्गतिरप्यस्ति ; चिदचिद्विलक्षण कारणास्तित्वविषयत्वात् तस्याः । प्रथमपादो हि समस्त चिदचिद्विलक्षणकारणास्तित्व निरूपणपरः । जन्मादिसूत्रे जन्मादिकारणत्वं लक्षणमुक्तम् । कारणस्य प्रमाणान्तरासिद्धिः प्रयोजनरूपता चानन्तरसूत्रद्वयेनोक्ते । अतः प्रथमाधिकरणार्थानुक्रमे शास्त्रारम्भसिद्ध्य इत्युक्तमिति । यद्वा शास्त्रारम्भसिद्ध्य इति पदमुत्तराधिकरणत्रयेऽनुषज्यत इति चतुस्सूत्र्याः शास्त्रारम्भसिद्ध्यर्थत्वमुक्तं
२८४
रम्भसिद्ध्ये । अनन्त-विचित्र स्थिरत्र सरूपभोक्तृ-भोग्य-भोगोपकरण-भोगस्थानलक्षणनिखिलजगदुदय - विभव-लय-महानन्दैककारणं परं ब्रह्म “यतो वा इमानि” इत्यादिवाक्यं वोधयतीति च प्रत्यपादि । जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकप्रमाणकमित्यभ्यधाम । शास्त्रप्रमाणकत्वं च ब्रह्मणः प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपेणैव परमपुरुषार्थभूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयान्निरुह्यत इत्यनूम । निखिलजगदेककारणतया वेदान्तवेद्यं ब्रह्म ‘च ईक्षणाद्यन्वयादानुमानिकप्रधानादर्थान्तरभूतश्चेतनविशेष एवेत्युपापीपदाम । स च स्वाभाविकानवाधिकातिशयानन्द - विपश्चित्त्व-निखिलचेतनभयाभयहेतुत्व-सत्यसङ्कल्पत्वसमस्त चेतनाचेतनान्तरात्मत्यादिभिर्वद्धमुक्तोभयावस्थाजीवशब्दाभिलंपनीयाञ्चार्थान्तरभूत इति च समार्तिधामहि । स चाप्राकृताकर्मनिमित्तस्वासाधारण दिव्यरूप इत्युदैरिराम । आकाशप्राणाच वेतनविशेषाभिधायि - भिर्जगत्कारणतया प्रसिद्धवन्निर्दिश्यमानः सकलेतरचेतनाचेतन विलक्षणः स एवेति समगरिष्महि । परतत्त्वालाधारण निरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो छुसंबन्धितया प्रत्यभिज्ञानात् स एवेत्यातिष्ठामहि । परमकारणासाधारणासृतत्वप्राप्तिहेतुभूतः परमपुरुष एव शास्त्रदृष्ट्वा इन्द्रादिशब्दैरभिधीयत इत्यब्रूमहि । तदेवमतिपतितसकलेतरप्रमाणसंभावनाभूमिः सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरतया स्वेतरसमस्तवस्तुविलक्षणः परं ब्रह्म पुरुषोत्तमो नारायण एव वेदान्तवेद्य इत्युक्तम् ॥ भवति । जन्मादिसूत्रार्थमनुक्रामति अनन्तेति । सौत्रस्य अस्येति पदस्य विवक्षितमर्थमाह अनन्तविचित्रादिविशेषणैः । अनन्तविचित्रशब्दौ भोक्तृभोग्यसाधारणौ । भोक्तृभोग्यसाधारणौ । महानन्दैककारणत्वं ‘तद्विजिज्ञासख’ इति वाक्याभिप्रेतम् । तापत्रयातुरजिज्ञास्यस्य हि लक्षणं निरूपितम् । अतो महानन्दैककारणमित्युक्तम् । यद्वा ‘यत् प्रयन्ति’ इत्यस्य आत्यन्तिकलयपर्यन्तत्वाभिप्रायेणोक्तम् — महानन्देति । “येयं प्रेते’, ‘न प्रेत्य’ इति च आत्यन्तिकलयो हि प्रायणं श्रुतम् । अविरुद्ध विशेषणभेदो न विशेष्यमेदावह इत्यभिप्रायेण एकशब्दप्रयोगः; निमित्तोपादानैकत्वाभिप्रायेण वा । शास्त्रेति । समन्वयात् — परमपुरुषार्थभूतस्यैव ब्रह्मणः प्रतिपादकतया शास्त्रस्य तेनान्वयात् । स चेत्यादि । स्वाभाविकानवाधिकातिशयशब्दौ प्रतिविशेषणमन्वितौ । आकाशप्राणाधिकरणार्थयोः पृथगनुक्तिर्न्यायस्यानतिभिन्नत्वात् । परमेति । परमकारणस्यासाधारणम् — तस्य प्रदेयत्वेन असाधारणम् अमृतत्वम् ; । तत्प्राप्तिहेतुरित्यर्थः । यद्वा परमकारणस्यासाधारणम् — चिह्नभूतमित्यर्थः । उपासकस्यामृतत्वप्राप्तिः उपास्यस्य परमकारणत्वमावेदयति । यद्वा परमकारणासाधारणम् - तद्धर्मभूतममृतत्वम्, तत्प्राप्तिःपरमसाम्यापत्तिरित्यर्थः । पादार्थमाह तदेवमिति । पुरुषत्वादस्मदादिवदित्यादिकुतर्क परिहारार्थमाह अतिपतितेति । तेषां धर्मिग्राहकमानबाध इति भावः । ज्योतिरधिकरणार्थाभिप्रायः पुरुषोत्तमशब्दः । प्रतर्दनविद्याभिप्रायो नारायणशब्दः । ‘मामुपास्स्व’ इत्यस्यापि नारायणानुवाकैवयेन सर्वविद्योपास्यतयोक्तनारायणोपासनपरत्वात् चिदचिद्विलक्षण कारणास्तित्वं पादानुगतार्थ इत्यर्थः । नारायण एवेत्यवधारणाक्षेपेण
१२-१ सर्वत्रप्रसिद्ध्यधिकरणम् ( त्रिपाद्यर्थाः) २८५ अतः परं द्वितीयतृतीयचतुर्थेषु पादेषु, यद्यपि वेदान्तवेद्यं ब्रह्मैव तथापि, कानिचिद्वेदान्तवाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तु विशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसनमुखेन तत्तद्वाफ्योदितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यते ॥ तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यन्ते, स्पष्टलिङ्गकानि तृतीये, तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे ॥ सर्वत्र प्रसिद्ध्यधिकरणम् १-२-१ सर्वत्र प्रसिद्धोपदेशात् ॥ १-२-१ ॥ इदमाम्नायते छान्दोग्ये, “अथ खलु ऋतुमयः पुरुषः ; यथाक्रतुरस्मिल्ँलोके पुरुषो भवति, तथेतः प्रेत्य भवति । स ऋतुं कुर्वीत - मनोमयः प्राणशरीरो भारूपः” इत्यादि ॥ द्वितीया दिपादोत्थानमित्यभिप्रायेणाह अतः परमिति । द्वितीयतृतीयचतुर्थेष्विति । प्रथमपादस्य न केवलमनन्तरपादेन सङ्गतिः ; अपि तु त्रिपाद्यैवेति भावः । यथा, “चोदनालक्षणोऽर्थो धर्मः” इत्यत्र, चोदनैव प्रमाणम्, प्रमाणमेव चोदनेत्यवधारणद्वयम् ; तत्र प्रमाणमेव चोदनेत्यवधारणम् औत्पत्तिकसूत्रे साधितम्, चोदनैव प्रमाणमित्यवधारणं प्रत्यक्षसूत्रे स्थापितम् - तथा जन्मादिसूत्रेऽपि ब्रह्म कारणमेव, ब्रह्मैव कारणमित्यवधारणद्वयमपि विवक्षितम् ; जन्मादिकारणत्वस्य ब्रह्मलक्षणत्वात् ; लक्षणस्याव्याप्त्यतिव्याप्त्यसंभवपरिहारावश्यम्भावात् । तत्र व्यक्तयैक्यान्नाव्याप्तिः ; ; असम्भव परिहाररूपायोगव्यवच्छेदः प्रथमपादे उक्तः ; अतिव्याप्तिपरिहाररूपान्ययोगव्यवच्छेदः त्रिपाद्या क्रियत इति विभागाभिप्रायेण कानिचिद्वेदान्तवाक्यानीत्यु (त्याधु) कम् । तत्तद्वाक्योदितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यत इति । चिदचिद्विलक्षणस्वरूपं साधितम् अथ तस्य गुणविशेषप्रतिपादनं त्रिपाद्यां क्रियत इति च प्रथमपादत्रिपाद्येोर्विभाग इति भावः । पादत्रयस्यावान्तरभिदामाह तत्रेति । अस्पष्टेत्यादिवैषम्यं ब्रह्मलिङ्गगतमिति परैरुक्तम् । अत्र तु जीवादिलिङ्गगतमिति भिदा । द्वितीयतृतीयपादाद्याधिकरणयोर्जीवस्य पूर्वपक्षितत्वाझीवादीत्युक्तम् । तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थ इति । तचत्प्रतिपादनम्जीवादिलिङ्गिप्रतिपादनम् ; न तल्लिङ्गप्रतिपादनम् । अस्पष्टस्पष्ट स्पष्टतरपूर्वपक्षोत्थान हेतु मेदेन भिन्नास्त्रयः पादा इत्यर्थः । । प्रथमपादचरमाधिकरणे अवयवभूतोपक्रमगतजीव लिङ्गम् अवयविभृतवाकयार्थस्वारस्येन बाधितमित्युक्तम् ; सर्वतादात्म्यमनः प्राण संबन्धार्भको कस्त्वाणी यस्त्वव्यपदेशरूपलिङ्गानामवयविगतत्वेनाबाध्यत्वमिति प्रत्यवस्थानं परिहियते द्वितीयपादप्रथमाधिकरणे इत्यवान्तरसङ्गतिः । सर्वत्र प्रसिद्धोपदेशात् ॥ ‘सर्वं स्खलु’ इत्यादेर्द्वितीययोजनायामुदाहरिष्यमाणत्वात् प्रथमयोजनापेक्षितम्–अथ खलु इत्यादिकमुपासम् । द्वितीयसूत्रे ‘भारूपः’ इत्यस्य उपरितनवाक्यस्योपादास्यमानत्वात् नत्र भारूप इत्यन्तमुपात्तम् आदिशब्देनान्यद्गृहीतम् । अत्र रात्रिसत्रन्यायेन मनोमय उपास्यतया संबध्यते ; आर्थवादिकस्यापि विध्यपेक्षितस्य स्वीकार्यत्वात् ॥
ननु ‘स क्रतुं कुर्वीत’ इत्यादिकमुपादीयताम् ; किमर्थं ‘यथाक्रतुरस्मिन्’ इत्यादिवाक्योपादानम् ॥ उच्यते । “फलवत्संनिधावफलं तदङ्गम्” इति भ्यायेन ‘स क्रतुं कुर्वीत’ इति विधेः फलाश्रवणनिमित्तं पूर्वविहितोपासनाङ्गत्वं मा भूदिति
२८६
अत्र “स ऋतुं कुर्वीत” इति प्रतिपादितस्योपासनस्योपास्यः ‘मनोमयः प्राणशरीरः’ इति निर्दिश्यत इति प्रतीयते । तत्र संशयः -किं मनोमयत्वादिगुणकः क्षेत्रज्ञः, उत परमात्मेति । किं युक्तम् ? क्षेत्रज्ञ इति । कुतः ? मनःप्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु “अप्राणो फलसंबन्धप्रदर्शनार्थं तदुपादानम् । ‘शान्त उपासीत’ इति विहितोपासनाधिकृत स्यैव 1 उपासनान्तरविधानमनुपपन्नमिति शंका व्यावृत्त्यर्थम् ‘अथ खलु क्रतुमयः पुरुष’ इति वाक्यं घटकत्वेनोपात्तम् । जीवस्य बहुविधोपासनप्रचुरत्वादनेकोपासनविधानं युक्तमिति भावः ॥ 3 अत्र व्याख्यात्रन्तरैः सर्वं खल्वित्यादिवाक्यस्य ब्रह्मपरत्वं स्पष्टमिति बुद्धा ‘स क्रतुम् ’ इत्यादिवाक्ययोर्जीवविषयत्वेन पूर्वपक्षं कृत्वा ब्रह्मविषयत्वेन सिद्धान्त उक्तः ; इह तु विषयैक्ये स्थित एव पूर्वपक्षसिद्धान्तौ पश्चादभिधास्येते । प्रथमं व्याख्यात्रन्तरोक्त दिशा पूर्वपक्षसिद्धान्तौ उपवते ।
नन्वत्रोपासनान्तरं न विधित्सितम् ; पूर्वविहितोपासनाङ्गभूतक्रतुविधिपरत्वादस्य वाक्यस्य । ततश्च मनोमयादिपदानि उपास्यान्तराभावात् प्रकृतब्रह्मपराणीति निश्चयान्न विचारविषय इति शङ्कां व्युदस्यति अत्रेति । मनोमयादिपदानां प्रकृतोपास्यविषयत्वे प्रमाणाभावात् ब्रह्मपरत्वानिश्चयात्, ‘स क्रतुम् ’ इति निर्दिष्टोपासक विशेषणत्वाश्रयणे तस्यानाविर्भूतगुणाष्टकस्य सत्यसङ्कल्पत्वादेरघटमानत्वाच्च पाश्चात्यविद्यान्तरोपास्य परत्वनिश्चये सति तद्विशेषनिश्चयाभावात् विचारस्यारम्भणीयत्वमित्यर्थः । उपासनस्येति पदेन “तं यथा यथोपासते तथैव भवति”, “यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति” इत्यनयोर्वाक्ययोरैकार्थ्यात् ‘क्रतुं कुर्वीत’ इत्यत्र क्रतुशब्दश्योपासनपर इति तदुपास्ये मनोमयत्वादिगुण के संशय इति भावः । तत्रेति । ‘स क्रतुं कुर्वीत’ इत्यत्र उपास्यतया निर्दिष्टो मनोमयत्वादिगुणकः किं जीवः, उत परमात्मेति विचारः; तदर्थं कर्मकर्तृव्यपदेश-शब्द विशेषउपसंहारगतब्रह्मशब्दादयः किं मुख्याः, उतामुख्याः; तदर्थं मनोमयत्वादिकं जीवस्यैव संभवति, उत परमात्मनोऽपि घटते इति; तदर्थम् ‘अप्राणो ह्यमनाः’ इति किं मनआदिसंबन्धमात्रनिषेधः, उत संबन्धविशेषनिषेधः इति । यदा संबन्धमात्र निषेधः, तदा मनोमयत्वादेर्जीवस्यैवासाधारणतया कर्मकर्तृव्यपदेशादीनाममुख्यत्वेन ‘स क्रतुं कुर्वीत’ इति विहितोपासनस्योपास्यो जीव इति पूर्वपक्षस्थितिः । यदा संबन्धविशेषनिषेधः, तदा मनोमयत्वादेः परस्मिन् संभवेन कर्मकर्तृव्यपदेशादीनां मुख्यत्वात् तत्रोपास्यतया विहितः परमात्मेति सिद्धान्ते फलफलिभावः । 5 1 शान्तउपासीतेति वाक्यस्य प्रथमत्वात् तत्तोपासनविधिः स्वरसः । एवञ्च मध्ये यथाक्रतुरिति वाक्यस्याभावे सक्रतुमितिवाक्येन स इति तमेव निर्दिश्य पुनः तत्कर्तृकोपासन विधानं किमर्थमिति शंका स्यादिति भावः । 2 व्याख्यानन्तरैरिति । अत्न वाक्ये उपासनद्वयं परोक्तमिति न प्रतीयते । अतो न तथा टीकाशयः । 8 मनोमयादिपदानां जीवपरत्वपक्षेऽपि प्रथमं ब्रह्मपदं परब्रह्म परमेवेति व्याख्यान्तरोक्तमेवानु सृत्येत्यर्थः । कात्स्न्र्त्स्न्येन तदनुसारो नेति ज्ञापनार्थ दिशेति पदम् । अत एव सौत्रपञ्चम्यन्तस्य तदुक्कादन्य एवार्थो वक्ष्यते । एवञ्च पूर्वपक्षेऽपि वैषम्ये सत्यपि न दोषः । 4 प्रथमं वाक्यं ब्रह्मपरम्; मनोमयवाक्यं जीवपरमिति पक्षे उपासनैक्यनिर्वन्धः कुतः ; मेद पत्र काममस्त्विति पूर्वपक्षी मन्तुमर्हति तथा परनुक्तत्वेऽपि इत्याशयेन उपासनान्तरमित्युक्तम् । 5 भाव इति । सूच्यत इति शेषः । तत्र पदेनेत्यस्यान्वयः ।
१ - २-१ सर्वत्र प्रसिद्ध्यधिकरणम् (प्रथमयोजना) २८७ ह्यमनाः” इति तत्प्रतिषेधाच्च । न च ‘सर्व खल्विदं ब्रह्म’ इति पूर्व [वाक्य] निर्दिष्टं ब्रह्मात्रोपास्यतया संबन्धुं शक्यते, ‘शान्त उपासीत’ इत्युपासनोपकरणशान्तिनिर्वृत्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् । न च ‘स ऋतुं कुर्वीत’ इत्युपासनस्योपास्यसाकाङ्क्षत्वाद्वाक्यान्तरस्थमपि ब्रह्म संवध्यत इति युक्तं वक्तम्, स्ववाक्योपात्तेन मनोमयत्वादिगुणकेन निराकाङ्क्षत्वात् ; " मनोमयः प्राणशरीरः” इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेणोभयाकाङ्क्षानिवृत्तिसिद्धेः । एवं निश्चिते जीवत्वे ‘एतद्रव’ इत्युपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थ प्रयुक्तमित्यध्यवसीयत इति ॥
एवं प्राप्ते ब्रूमः - सर्वत्र प्रसिद्धोपदेशात् । मनोमयत्वादिगुणकः परमात्मा । कुतः ? सर्वत्र - वेदान्तेषु परस्मिन्नेव ब्रह्मणि प्रसिद्धस्य मनोमयत्वादेरुपदेशात् । प्रसिद्धं हि मनोमय- पूर्वपक्षमुपपादयति कुत इत्यादिना ।
ननु कथमस्य पादस्य अस्पष्टजीवलिङ्गकवाक्यविषयत्वम् ? मनोमयत्वादिकं हि स्पष्ट जीवलिङ्गमिति चेत् — न ; स्पष्टस्य मनस्संबन्धमात्रस्य जीवलिङ्गत्वाभावात्, जीवलिङ्गमूढस्योपकरणोपकरणित्वलक्षण संबन्धविशेपस्यास्पष्टत्वाच्च इत्यभिप्रायेण मनः प्राणयोः क्षेत्रज्ञोपकरणत्वादित्युक्तम् ।
ननु सर्वैखल्विति वाक्ये प्रकृतं ब्रह्मैव ‘स क्रतुं कुर्वीत’ इत्यत्रोपास्यतया संबध्य मनोमयत्वादिगुणानां विशेष्यं स्यादिति शङ्कायाम् - किं ब्रह्मशब्दस्य विधिपदाकाङ्क्षया उत्तरत्रान्वयः, उत ऋतुं कुर्वीतेति विधिपदस्योपास्य साकाङ्क्षत्वात् संनिहितानां मनोमयादिपदानां विशेष्यसाकाङ्क्षत्वाच्च ब्रह्मशब्दस्योतरत्रान्वयः इति विकल्पमभिप्रेत्य प्रथमं शिरो दूषयति न च सर्वमिति । अन्यार्थतया निराकाङ्क्षत्वादित्यर्थः । द्वितीयं दूषयति न च स ऋतुमिति । स्ववाक्योपात्तेनेति । विच्छेदकाभावात् महावाक्यैकत्वं विवक्षितम् । रुतश्च ‘एष आत्मा’ इति स्ववाक्यस्थेनानन्यार्थेन समानलिङ्गेनाऽऽत्मशब्देन विशेप्याकाशमनात् वाक्यान्तरस्थअन्यार्थ-भिन्नलिङ्गन्रह्मशब्दाकर्षो न युक्त इति भावः । प्रथमान्तानां मनोमयादिपदानामुप्रासनवाचिपदेनान्वयायोगात् ब्रह्मपदमन्वेतव्य - मित्यत्राह मनोमय इति । क्रतुशब्देन द्वितीयान्तपदस्याप्यनन्वयात् षष्ठ्यन्ततया विभक्तिविपरिणामे कार्ये संनिहितस्य साकाङ्क्षस्यैव पदस्य विभक्तिविपरिणामो न्यायः ; न तु वाक्यान्तरस्थस्य निराकाङ्क्षस्येत्यर्थः । उभयाकाङ्क्षा – मनोमयादिपदस्य, कर्तुं कुर्वीतेत्यस्य चाकाङ्क्षा । न वक्तुं युक्तमिति पञ्चम्यन्वयः । मनोमयत्वादि च सत्यसङ्कल्पत्वात्पूर्वमेव प्रतिपन्नम् ; अणीयस्त्वञ्च ज्यायस्त्वात् पूर्वं श्रुतम् ; व्यतिरेकनिर्देशश्च मनोमयत्वादेः पाश्चात्यः । अतो मनोमयत्वादिस्वारस्यानुगुणमितरन्नेयमित्यभिप्रायेण चोक्तं मनोमयत्वादिगुणकेनेति । जीवपरत्वे ब्रह्मशब्दः कथमित्यत्राह एवमिति ।
एवं प्राप्त इति । प्रतिज्ञावाक्यमध्याहरति मनोमयत्वादीति । सत्यसङ्कल्पत्वादिविशेषितप्राकरणिकात्मशब्दानुरोधेन परमात्मेत्युक्तम् । सर्वत्रेति व्याख्येयं पदम् ; तद्वयाचष्टे वेदान्तेष्विति । सामान्यशब्दवत्सु विशेषशब्दवत्सु चेति भावः । हेतुपदं व्याचष्टे प्रसिद्धस्येति ।
ननु सर्ववेदान्तेषु परतत्त्वपरतया प्रसिद्ध ब्रह्मशब्दश्रवणादिति परैर्व्याख्यातम् । तन्मतेन व्याख्याने सत्यपि तद्विहाय कथं युक्तयन्तरोक्तिः ॥ उच्यते ; पूर्ववाक्यस्थ ब्रह्मशब्दानन्वयस्योपसंहारस्थब्रह्मशब्ददौर्बल्यस्य च पूर्वपक्षिणो- 1 अनुषञ्जनीयमित्यर्थः । 2 सिद्धेरितिपञ्चम्यन्वयः । 8 इंदं भास्करभाष्ये सुस्पष्टम् । शांकरे फलितम् ।
१८.८ व्रतप्रकाशिकोपेते श्रीमाये त्यादि ब्रह्मणः । यथा “मनोमयः प्राणशरीरनेता’ ‘स एषोऽन्तर्हृदय आकाशः । तस्मिन्ार्य पुरुषो मनोमयः । अमृतो हिरण्मयः’ ‘हृदा मनीषा मनसाऽभिक्लप्तो य एनं विदुरमृतास्ते भवन्ति’, ‘न चक्षुषा गृह्यते नापि वाचा’, ‘मनसा तु विशुद्धेन’; तथा ‘प्राणस्य प्राणः’, ‘अथ खलु प्राण एष प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’, ‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युजिहते’ इत्यादिषु । मनोमयत्वम् - विशुद्धेन मनसा ग्राह्यत्वम् । प्राणशरीरत्वम् –प्राणस्याप्याधारत्वं नियन्तृत्वञ्च ॥ एवञ्च सति ‘एष म आत्माऽन्तर्हृदये पता’ इति ब्रह्मशब्दोऽपि मुख्य एव भवति । “अप्राणो हामनाः” इति मनआयतं ज्ञानं प्राणायन्तां स्थितिश्च ब्रह्मणो निषेधति ॥ । अथवा “सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इत्यत्रैवोपासन विधोयते, क्तत्वान्न तथोत्तरं वक्तुं युक्तमिति भावः । मनस्सामान्येन संबन्धसामान्यपरं वाक्यमाह मनोमया प्राणशरीरनेतेति । ‘अमृतो हिरण्मयः’ इति परमात्मपरत्ववैशद्यायोपात्तम् । मनस्सामान्येन सम्बन्धविशेषपरं वाक्यमाह हृदा मनीषेति । हृदिति भक्तिरुच्यते ; मनीषेति धृतिः । “न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्” इति पूर्वार्धमेकरूपं पठित्वा, “भक्तचा च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह” इति महाभारते उक्तत्वात् । अभिक्लप्तः – ग्राद्यः । मनोविशेषेण संबन्धविशेषवाचिवाक्यमाह न चक्षुषेति । प्राणशरीरत्वे श्रुतिमाह तथेति । प्राणस्य प्राणःआधारः । ’ सर्वाणि ’ इत्यादिवाक्ये प्राणशब्दस्य यौगिकवृत्त्या परमात्मपरत्वं प्रागुक्तम्; इदानीमपर्यवसानवृत्त्याऽपि परमात्मपरत्वेन तद्वाक्यमुपातम् । वैश्वानराधिकरणन्यायेन उभयथापि परमात्मपरत्वं युक्तमिति भावः । अत्र वाक्यजाते प्रतिपन्नं मनोमयादिशब्दार्थमाह मनोमयत्वमिति । ग्राह्यग्राहकलक्षणसंबन्धविशेषाभिप्रायेण मनोमय इत्युक्तमित्यर्थः । प्राणशरीरशब्दार्थमाह प्राणेति ॥ मनोविकारो मनोमयः, सर्वविकाराणां ब्रह्माधिष्ठानत्वात् ब्रह्मसामानाधिकरण्यमिति कैश्चिदुक्तम् ॥ तदा हि मनोविकाराः सुखदुःखेच्छाद्वेषादयो ब्रह्मेत्युक्तं स्यात् । तदयुक्तम् ; सत्यसङ्कल्पत्वादिकल्याणगुणप्रकरणविरोधात् हेयगुणविशेषाणामुपास्यत्वानुपपत्तेश्च । उक्तं हि ’ यथाक्रतुरस्मिरलोके पुरुषो भवति, तथेतः प्रेत्य भवति’ इति । अतो हेयगुणापत्तिरेव फलं स्यात् । प्राणप्रेर्यं शरीरमस्येत्यर्थश्चेत्-प्राणशब्देन प्राणसंबन्ध्यभिधानं क्लिष्टं स्यात् । प्राणश्च शरीरं चास्येति समासो न घटते । प्राणः शरीरे यस्येति व्यधिकरणबहुव्रीहिश्व क्लिष्टः । अतो यथोक्त एवार्थ इत्यभिप्रायः ॥ उपसंहारखारस्यमाह एवश्चेति । मनः प्रभृतिनिषेधवाक्यार्थमुक्तार्थाविरुद्धमाह अप्राण इति । ग्राह्मग्राहकभाव नियन्तृनियाम्यत्वादिरूपसंबन्धविशेषो विधेयः, उपकरणोपकर णित्वलक्षणसंबन्धविशेषो निषेध्य इत्यभिप्रायः ॥ 1 अथ स्वाभिमतार्थयोजनां कर्तुमारभते अथवेति । पूर्वस्यां योजनायां सूत्रे प्रतिज्ञावाक्यस्याध्याहार्यत्वात्, उपक्रमोपसंहारगतब्रह्मशब्देक विषयत्वप्रतीतिस्वारस्येन भिन्नविषयत्वप्रतीतिपूर्वक पूर्वपक्षानुदयेनाधिकरणानारम्भात्, श्रवणमननाभ्यामेव निष्पाद्यायाः शान्तेरुपासन निष्पादकत्वस्य ‘एवंविच्छान्तः’ इति श्रुति सिद्धत्वात् अन्यत्रापि शान्त्युपायत्वेनोपासनविधानादर्शनात् शान्तशब्दस्य शान्तिकामपरत्वा स्वारस्यात् वृत्त्यनुरोधाच इयमेव योजना समुचितेति भावः । अत्रैवोपासनं विधीयत इति । अत्र शान्त्यु- 1 नियन्तृत्वं प्राणस्य - शरीरे सर्वाशेऽपि यथावत् प्रेरणम् ; इदं जीवावृत्ति ।
१२-२ सर्वत्रप्रसिद्ध्यधिकरणम् २८९ सर्वात्मकं ब्रह्म शान्तः सन्नुपासीतेति । “स ऋतुं कुर्वीत” इति तस्यैव गुणोपासनार्थोऽनुवादः । उपादेयाश्च गुणाः मनोमयत्वादयः । अतः सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थः । तत्र सन्देहः - किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्दिश्यते, उत परमात्मेति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः । सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् । ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूलकर्मविशेषोपाधिको विद्यत एव । परस्य तु ब्रह्मणः सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्ता विद्यादिदोषगन्धस्य समस्त हेयाकरसर्वभावो नोपपद्यते । प्रत्यगात्मन्यपि कचित्कचिद्ब्रह्मशब्दः प्रयुज्यते । अत एव परमात्मा पायोपासनम् ; 1 उत्तरत्र मोक्षोपायोपासनमिति नायमर्थः, अपि तु अत्रैव मोक्षार्थीपासनं विधीयत इत्यर्थः । ज्ञान्तशब्दार्थं खरसतो वदन् वाक्यार्थमाह सर्वात्मकमिति । न त्वाशंसायां क्त इति (ह) विहितोऽयमिति भावः । तर्हि ‘स क्रतुं कुर्वीत’ इति किमुच्यत इत्यत्राह स ऋतुमिति । के पुनर्विधेया गुणा इत्यत्राह उपादेयाश्चेति । उपादेयाः - विधेयाः । यथा ‘अग्निहोत्रं जुहोति’ इति होमे विहिते, ‘दध्ना जुहोति’ इत्यत्र दध्नो होमसाधनत्वमात्रं विधेयम्, जुहोतीत्यनुवादः तद्वदिति । ननूपासन विधेरुत्पत्तिशिष्टसर्वात्मकत्वगुणावरोधात् मनोमयत्वादीनां नोपास्याकारत्वमिति चेन्न ; सर्वात्मकत्वस्य उपासनविधिवाक्यस्थत्वाभावात् । तज्जत्वतल्लत्व तदनत्यैः सर्वमिदं ब्रह्म खल्विति प्रसिद्धवन्निर्देशः उपासनविध्येकवाक्यत्वं निवारयति । न हि उपासीत खल्विति प्रसिद्धवन्निर्देशवचनव्यक्तिर्घटते । वाक्यार्थमाह अत इति । एवमेकविषयत्वमङ्गीकृत्यैव पूर्वपक्षसिद्धान्तौ दर्शयितुं संशयमाह तत्रेति । तत्र – एक विषयत्वे सिद्धे । किमत्रोपास्यतया निर्दिष्टो जीवः, उत परमात्मेति विशयः । तदर्थं किं ब्रह्मशब्दो जीवपरः, उत परमात्मपरः ; स्वर्थ किं ब्रह्मशब्दकर्मकर्तृव्यपदेशादयो मुख्याः ; उत नेति ; तदर्थमणीयस्त्वव्यपदेशः किं मुख्यत्वविरोधी, उत न ; तपर्थमणीयत्त्वज्यायस्त्वयोः किं स्वाभाविकम्, किमौवाधिकमिति । ‘यदाऽणीयस्त्वं स्वाभाविकम्, ज्यायस्त्वमन्यथासिद्धम् — तदा अंगीयस्त्व [व्यपदेश ] स्य ब्रह्मशब्दादिमुख्यताविरोधित्वेन ब्रह्मशब्दस्य जीवपरत्वादुपास्यतया निर्दिष्टो जीव इति पूर्वपक्षस्थितिः । यदाऽणीयस्त्वमौपाधिकम्, ज्यायस्त्वं स्वाभाविकम् - तदा अणीयस्त्वव्यपदेशस्य त्रह्मशब्दादिमुख्यताविरोधित्वाभावेन ब्रह्मशब्दस्य परमात्मपरत्वेन अत्रोपास्यतया निर्दिष्टः परमात्मेति सिद्धान्ते फलफलिभावः । हेतुं विवृणोति सर्वशब्देति । ततः किमित्यपेक्षायां जीवस्य सामानाधिकरण्योपपत्तिमाह ब्रह्मादीति । ब्रह्मादिभावः - चतुर्मुखादिभावः । अनादीति । अहितकर्मोत्पादन हेतुरविद्या, तद्धेतुः कर्मेति बीजाङ्कुरादिनयात् अनादिः । तस्यैवेत्यवधारणसूचितां परस्य सर्वभावानुपपत्ति विवृणोति परस्येति । सर्वज्ञत्वात् हेयं जानाति । सर्वशक्तित्वात् निवारयितुं शक्नोति । न च ज्ञानशक्त्योः सङ्कोचः ; अविद्यामूलकर्मविरहात् । अतो न सर्वभावः संभवतीति भावः । ब्रह्मशब्दः कथमित्यत्राह प्रत्यगिति । तदुपपादयति अत एवेति । परमात्मेति दृष्टन्ततयोक्तम् । यथा आत्मशब्दो जीवेश्वरसाधारणः, तद्वत् ब्रह्मशब्द इति भावः । त्रिपाद्याः परब्रह्माभ्युपगमेन वाक्यविशेष-
1 1 1
ननु शान्त्युपायोपासनमिति न परोक्तम् । सत्यम् । शान्त उपासीतेत्यचेन किं शान्तिगुणस्योपासनाङ्गत्वमुच्यते, उतोपासनफलत्वम् । आहो उक्तं श्रवणेति । अन्त्ये उक्तं शान्त्युपायेति । गीतायां २-६१दृष्टमित्यत्रोक्तं शान्तशब्दस्येत्यादि । एवं पूर्वटीकार्थः । परानुक्तावपि स्वयं विकल्प्यैवं दूषणं नायुक्तम । 2-37
२९० श्रुतप्रकाशिकोपेते श्रीमाष्ये परं ब्रह्मेति परमेश्वरस्य क्वचित् सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाधेर्तृहरवं च विद्यते ; “स चानन्याय कल्पते” इति श्रुतेः । अविदुषस्तस्यैव कर्मनिमित्तत्वाजगजन्मस्थितिलेयानाम, तज्जलानिति हेतुनिर्देशोऽप्युपपद्यते । तदयमर्थः - अयं जीवात्मा स्वतोऽपरिच्छिन्नस्वरूपत्वेन ब्रह्मसूतस्सन् अनाद्यविद्यया देवतिर्यङ्मनुष्यष्थावरात्मनाऽवतिष्ठत इति ॥ ; अत्र प्रतिविधीयते - सर्वत्र प्रसिद्धोपदेशात् । सर्वत्र - ‘सर्वं खल्विदम्’ इति निर्दिष्टे सर्वस्मिन् जगति ब्रह्मशब्देन तदात्मतया अभि (वि) धीयमानं परं ब्रह्मैव न प्रत्यगात्मा । कुतः ? प्रसिद्धोपदेशात्’तज्जलान्’ इति हेतुतः ‘सर्वं खल्विदं ब्रह्म’ इति प्रसिद्धवदुपदेशात् । ब्रह्मणो जानत्वाद्ब्रह्माणि लीनत्वाद्ब्रह्माधीन जीवनत्वाच्च हेतोर्ब्रह्मात्मकं सर्वं खल्विदं जगदित्युक्ते, यस्माज्जगजन्मस्थितिलंयाः वेदान्तेषु प्रसिद्धाः तदेवान ब्रह्मेति प्रतीयते । तच्च परमेव ब्रह्म ; तथा हि, “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिशासख ; तद्ब्रह्य” इत्युपक्रम्य, “आनन्दो ब्रह्मेति व्यजावात् । आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते” इत्यादिना पूर्वानुवाकप्रतिपादितानवाधिकातिशयानन्दयोगिनो विपश्चितः परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थितिलया निर्दिश्यन्ते ; तथा “स कारणं करणाधिपाधिपो न चास्य कश्विजनिता न चाधिपः” इति करणाधिपस्य जीवस्याधिपः परं ब्रह्मैव कारणं व्यपदिश्यते । एवं सर्वत्र परस्यैव ब्रह्मणः कारणत्वं प्रसिद्धम् । अतः परब्रह्मणो जातत्वात् तस्मिन् प्रलीनत्वात् तेन प्राणनात् तदात्मकतया तादात्म्यसुपपन्नम् । विचारपरत्वादत्र पूर्वपक्षिणः परमेश्वराभ्युपगमवाद उपपन्नः । आत्मशब्दस्य साधारण्यं युक्तम्, प्रवृत्तिनिमित्तसाधारण्यात् । आप्नोतीति हि तद्वत्पत्तिः ; जगत्, देहं व्याप्नोतीति । एवमुभयसाधारणं ब्रह्मशब्दप्रवृत्तिनिमित्तं वक्तव्यमित्यत्राह प्रत्यगात्मनश्चेति । कथं जन्मादिकारणत्वं हेतुतयोच्यते ; हेतु निर्देशो हि पूर्वप्रसिद्ध्यपेक्षः; प्रसिद्धिश्च परमात्मविषयेत्युक्तमित्यत्राह अविदुष इति । जन्मादिहेतुत्वं बद्धस्य ; ब्रह्मत्वं तु शुद्धस्य । तस्य सर्वशब्दसामानाधिकरण्यं कथं घटत इत्यत्राह तदयमर्थ इति ॥ सिद्धान्तमाह अत्रेति । यथा ‘अन्तस्तद्धर्मोपदेशात् ’ इत्यन्तरशब्दः प्रतिज्ञापरः, एवं सर्वत्रेति सूत्रपदं प्रतिज्ञापरमित्याह सर्वत्रेति । तदेव पदं व्याचष्टे सर्वमिति । सर्वत्रेतिपदं न वाचकवेदान्तपरम्, अपितु वाच्यजगत्परमित्यर्थः । नाशब्दमिति वा, नेतर इति वा, अन्य इति वा पूर्वपादादनुवर्तते । यतः पर्यवसानलब्धं प्रतिज्ञापदं परं ब्रह्मैवेति । न शारीर इत्यत्र वक्ष्यमाणमनुसन्धायाह न प्रत्यगात्मेति । प्रसिद्धोपदेशादिति पदं व्याचष्टे तज्जेति । जगज्जन्म स्थितिलयानां तत्कृततादात्म्यस्य च प्रसिद्धत्वेनोपदेशादित्यर्थः । इतिशब्देन हेतुतयोक्तत्वात् जन्मादीनां प्रसिद्धत्वम् । प्रमाणसिद्धस्यैव हि हेतुता । तत्कृततादात्म्यस्य प्रसिद्धत्वं खलुना सिद्धम् । तत् स्पष्टयति ब्रह्मण इति । कारणत्वनिबन्धनतादात्म्यस्य चात्र प्रसिद्धत्वेनोपदेशः फलितः । प्रसिद्धत्वमस्तु ; ततः किमित्यत्राह तच्चेति । प्रसिद्धि दर्शयति तथाहीति । यतो वा इमानीति वाक्यस्य जीवविषयत्वन्यावृत्त्यर्थमाह आनन्दो ब्रह्मेति । वाक्यान्तराणामप्युक्तार्थपरत्वात् तेष्वपि तत्प्रसिद्धिमाह एवमिति । श्रुत्यन्तरेष्वपि जन्मादिहेतुत्वकृततादात्म्यमप्यर्थसिद्धमित्याह अत इति । तदात्मकतया तदात्म्यमिति । तदात्मकतयेति श्रुत्यन्तरविषयम् । तज्जत्वतदनत्व तल्लत्वैः श्रुत्यन्तरेषु तदात्मकत्वेनोपपादनादिह प्रतिपन्नमपि तादात्म्यमुपपन्नमित्यर्थः ।
१२१ सर्वत्र प्रसिद्ध्यधिकरणम् २९१ अतस्सर्वप्रकारं सर्वशरीरं सर्वात्मभूतं परं ब्रह्म शान्तो भूत्वा उपासीतेति श्रुतिरेव परस्य ब्रह्मणः सर्वात्मकत्वमुपपाद्य तस्योपासनमुपदिशति । परं ब्रह्म हि कारणावस्थं कार्याधस्थं सूक्ष्म स्थूलंचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतम् । एवम्भूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्याणगुणाकरत्वं न विरुध्यते ; प्रकारभूतशरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात् । प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम् ॥ यदुक्तं जीवस्य सर्वतादात्म्यमुपपद्यत इति - तदसत् ; जीवानां प्रतिशरीरं भिन्नाना. मन्योन्यतादात्म्यासंभवात् । मुक्तस्या [य] नवच्छिन्नस्वरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थितिप्रलयकारणत्वनिमित्तं न संभवतीति ‘जगद्व्यापारवर्जम्’ इत्यत्र वक्ष्यते ॥ जीवकर्मनिमित्तत्वात् जगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीयः ः तत्कर्मतित्वेऽपीश्वरस्यैव जगत्कारणत्वात् । अतः परमात्मैवात्र ब्रह्मशब्दाभिधेयः । इममेव सूत्रार्थमभियुक्ता बहुमन्यते । यदाह वृत्तिकारः “सर्व खल्विति सर्वात्मा ब्रह्मशः’ इति ॥ १ ॥ विवक्षितगुणोपपत्तेश्व ॥ १-२-२ ॥ वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते “मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प चिदचिद्विलक्षणस्य कथं तादात्म्योपपत्तिरित्यत्राह अतस्सर्वेति । सर्वात्मशब्द वैशद्याय सर्वशरीरमित्युक्तम् । आक्कृत्यधिकरणन्यायेन प्रकारिपर्यन्ताभिधानसिद्ध्यर्थमाह सर्वप्रकारमिति । श्रुतिरेव - सर्वं खल्वित्यादिश्रुतिरेव । उपपाद्य - तज्जला नित्यंशेन कार्यकारणभावेन शरीरात्मभावेन चोपपाद्येत्यर्थः । तत्र ह्यन्तर्यामिरूपेण कृतस्य प्राणनस्य शरीरात्मभावापेक्षत्वात् तेन च तथोपपादितं भवति । स्थितिदशायां हि. शरीरात्मभावः, प्रलयावस्थायां तु एकमेवाद्वितीयमिति सर्वभेदशून्यत्वान्न शरीरात्मभावसिद्धिरित्यत्राह परं ब्रह्म हीति । स्थितौ शरीरात्मभावोपपादनादुभयलिङ्गकस्य ब्रह्मणः कारणावस्थायामपि विशिष्टत्वमर्थसिद्धम्, श्रुत्यन्तरैः कण्ठोक्तं चेत्यभिप्रायः । सर्वदा विशिष्टं चेत्, कार्यकारणावस्थयोः को भेद इति शङ्कापरिहाराय सूक्ष्मस्थूलचिदचिद्वस्तुशरीरतयेत्युक्तम् । ततः किमुभयलिङ्गकत्वस्येत्यत्राह एवं भूतेति । जीवस्यैव सर्वतादात्म्यं पूर्वपक्षिणोक्तमनूद्य दूषयति यदुक्तमित्यादिना । मुक्तस्य तत् . संभवतीत्यत्राह मुक्तस्येति । जगज्जन्मस्थितिप्रलयकारणत्वनिमित्तमिति बहुव्रीहिः; कारणत्वप्रयुक्तमित्यर्थः । जीवस्य कर्मद्वारा जगत्कारणत्वमनूद्य दूषयति जीवकर्मेति । तत्कर्मनिमित्तत्वेऽपीति । न हि कर्म जगतः कर्तृरूपनिमित्तमुपादानञ्च । उभयमीश्वर एव । कर्म तु केवलं वैषम्यहेतुः । यथा घटादिनिर्माणस्य भोक्तृकर्मनिमित्तत्वेऽपि भोक्तृकर्मणां न कर्तृत्वमुपादानत्वं वा । कुलालमृत्पिण्डयोरेव हि तदुभयम् । न च तज्जलानित्यत्र तच्छन्दस्य कर्मवाचित्वम् । अतो न जीवस्य जगत्कारणत्वकृतं तादात्म्यमस्तीत्यभिप्रायः । सूत्रार्थमुपसंहरति अत इति । द्वितीययोजनोक्तार्थस्यैव साम्प्रदायिकत्वमाह इममेवेति । सर्वं खल्वित्यादिवाक्येन सर्वात्मतयोक्तं ब्रह्म ईशः परमात्मेत्यर्थः ॥ (१) …. । .. विवक्षितगुणोपपत्तेश्च ॥ विवक्षितत्वम् — वक्तुमिच्छाविषयत्वम् । अपौरुषेयवाक्यप्रतिपाद्यगुणानां पुरुषेच्छापूर्वकत्वायोगात् कथं विवक्षितत्वमिति शङ्कायां विवक्षितपदं व्याचष्टे वक्ष्यमाणा इति । विवक्षितानामेव वक्ष्यमाणत्वाद्विवक्षितशब्देन वक्ष्यमाणत्वं लक्ष्यत इत्यर्थः । सबै खल्विति प्रथमवाक्यापेक्षया वक्ष्यमाणं सनन्तस्वाक्यगतगुणजातम् । निषेधवावयविशेषपरिहाराय सामान्य
२९२ श्रुतप्रकाशिकोपेते श्रीभाग्ये आकाशात्मा सर्वकर्मा सर्व कामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यान्तोऽवाक्यनादरः” इति । मनोमयःपरिशुद्धेन मनसैकेन ग्राह्यः । विवेकविमोकादिसाधनसप्तकानुगृहीतपरमात्मोपासन निर्मलीकृतेन हि मनसा गृह्यते । अनेन हेयप्रनीककल्याणैकतानतया सकलेतर विलक्षणस्वरूपतोच्यते ; मलिनमनोभिर्मलिनानामेव ग्राह्यत्वात् । प्राणशरीरः - जगति सर्वेषां प्राणानां धारकः ; प्राणो यस्य शरीरम् - आधयं विधेयं शेषभूतञ्च स प्राणशरीरः । आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्ति - निमित्तानी’त्युपपादयिष्यते । भारूपःभाखररूपः । अप्राकृतवासाधारणनिर तेशय कल्याणदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यर्थः । सत्यसङ्कल्पः - अप्रतिहतसङ्कल्पः । आकाशात्मा - आकाशवत् सूक्ष्मच्चच्छखरूपः ः सकलेतर कारणभूतस्याकारास्याम्यात्मभूत इति वा आकाशात्मा; स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा – क्रियत इति कर्म । सर्व जगत् यस्य कर्म, असौ सर्वकर्मा; सर्वा वा क्रिया यस्यासौ सर्वकर्मा । सर्वकामः - काम्यन्त इति कामाः - भोग्यभोगोपकरणादयः ते परिशुद्धः सर्वविधास्तस्य सन्तीत्यर्थः । सर्वगन्धः सर्वरलः’अशब्दम स्पर्शस्’ इत्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृताः स्वासाधारणा निरवद्याः निरतिशयाः मनोमयशब्दं विशेषवाक्यानुगुणं व्याचष्टे मनोमय इति । परिशुद्धेन मनसैकेनेति । अन्भक्षः, वायुभक्षः इतिवत् अवधारणगर्भ इत्येकशब्दस्य भावः । तच, “न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेन” इति श्रुत्यानुगुण्यात् । तद्विवृणोति विवेकेति । फलितार्थमाह अनेनेति । कुत इत्यत्राह मलिनेति । मलिनमनोग्राह्यत्वं हेयाईत्वव्यापकम् । अतो व्यापक निवृत्त्या व्याप्यनिवृत्तिरित्युभयलिङ्गकत्वसिद्धिरिति भावः ! मुक्तस्यापि विशुद्धमनोग्राह्यत्वं न संभवति । मुक्तं स्वातन्त्र्येण गृह्णाति चेत्, मनोऽशुद्धम् ब्रह्मपर्यन्तत्वेन चेत, विशिष्टस्य ब्रह्मण एव विशुद्धमनोग्राह्यत्वमिति । प्राणशरीरशब्दं व्याचष्टे जगतीति । प्राणशरीरशब्देन प्राणधारकत्वं कथमवगम्यत इत्यत्राह प्राणो यस्येति । शरीरत्वे सति कथमाधेयत्वादिकमित्यत्राह आधेयत्वेति । भारूप इति । ज्ञानस्वरूप इत्यर्थस्त्वतिक्लिष्टः । रूपशब्दो हि धर्मवाची ; भाशब्दो हि दीप्तिपरः । दीप्तिधर्मकत्वं विग्रहद्वारकम् ; ‘आदित्यवर्णं तमसः परस्तात्’ ‘रुक्मवर्णम्’ इत्यादिश्रुत्यैकार्थ्यादित्यभिप्रायेणाह भास्वररूप इति । तत् विवृणोति अप्राकृतेति । सूक्ष्मस्वच्छस्वरूप इति । सूक्ष्मत्वम् — व्याप्त्यर्हत्वम् । स्वच्छ त्वम् – निर्मलत्वम् । सकलेतरकारणभृतस्याकाशस्येत्यनेन ‘आकाश एव तदोतञ्च प्रोतश्च’ इति वाक्यं स्मारितम् । “अक्षरमम्बरान्तधृतेः” इत्यधिकरणन्यायादाकाशशब्दः प्रकृतिवाचीति भावः । अन्यानपि प्रकाशयति-स्वस्मै प्रकाशयतीत्यर्थः । सर्वा वा क्रियेति । लौकिकवैदिकसकलक्रियाणां सद्वारककर्ताऽसौ । यद्वा सर्ववैदिकक्रिया आराधनं यस्य स सर्वकिय इत्यर्थः । इच्छावाहुल्यव्यावृत्त्यर्थं सर्वकामपदं व्याचष्टे काम्यन्त इति । भोग्यभोगोपकरणादीनां प्राकृतत्वव्यावृत्त्यर्थमाह ते परिशुद्धा इति । अप्राकृता इत्यर्थः । सत्यकामपदैकार्थ्यादित्यभिप्रायः । सर्वगन्ध इत्यादि । रूपस्पर्शादिनिषेधपरवाक्यान्तराणामपि तुल्यन्यायत्वद्योतनार्थ आदिशब्दः । गन्धरसादीनामव्यवधानेन खरूपान्वयित्वाभावात् सद्वारकत्वे सति, प्राकृतानां पृथिव्यादिगतगन्धरसादीनां हेयत्वेन कल्याणगुणप्रकरणविरोधात्, ‘भारूप’ इति दिव्यविग्रहस्य प्रकृतत्वाच्चाप्राकृत देहद्वारकगन्धरसादिविधिरित्यर्थः । 1 निमित्तानीति बहुवचनात् पृथक्पृथगर्थत्वं ज्ञायते । 2 सर्वप्रकाशफलित्वं तस्यैव, न तद्धर्मभूतज्ञानस्यापि ।
। 1 1 , ;
५९३ कल्याणाः स्वभोग्यभूताः सर्वविधाः गन्धरसास्तस्य सन्तीत्यर्थः । सर्वमिदमभ्यासः उकं रसपर्यन्तं सर्वमिदं कल्याणपुणजातं स्वीकृतवान् । ‘अभ्यात्तः’ इति ‘भुक्ता ब्राह्मणाः’ इतिवत् कर्तरि क्तः प्रतिपत्तव्यः । अवाकी । वाकः उक्तिः; सोऽस्य नास्तीति अवाको । कुत इति आह सं ब्रह्मगन्धः प्रतिशति; ब्रह्मरस ः प्रविशति’ इति मुक्तात्मनि साम्यापन्ने ब्रह्मगन्धरसप्रवेशव्यपदेशश्चास्यार्थस्योत्तम्भकः । सर्वमिदमिति । जगतोऽपि सर्वकर्मादिगुणान्तर्भावात गुणपरं तत् व्याख्यातम् । अभ्यात्त इत्यत्र स्वीकरण - रूपगुणविधिः ।
ननु नायमादिकर्मणि क्तः ; गुणगणादानस्य नित्यत्वात् । न चाभ्याददातिंर्गत्यर्थः ; स्वीकरणार्थत्वात् । नाप्यकर्मकः; सर्वमिदमिति श्रवणात् । न च शिष्टादिष्वन्यतमः ; अपठितत्वात् । तत् कथं कर्त्तरि क्तः । “तयोरेव कृत्यक्तखलर्थाः” इति भावकर्मणोरेव हि तत्स्मरणम् इत्यत्राह भुक्ता इति । प्रयुक्तानुशासनत्वात् व्याकरणशास्त्रस्य, यथाप्रयोगमनुशासनं कार्यम् ; न तु यथानुशासनं प्रयोगान्यथाकरणमिति भावः । “ये तु भुक्ता ब्राह्मणा इत्यत्र मत्वर्थीयाकारप्रश्लेषमिच्छन्ति, तेषां भुक्तशब्दस्य अर्शआदिगणान्तर्भावकल्पनम् अकारप्रश्लेषणमिति यत्न (तत्र) गौरवं पश्यतोक्तम् कर्तरीति । कर्त्रर्थतया प्रयोग एव हि भुक्तादीनामाकृतिगणान्तर्भावकल्पननिमित्तम् । तेनैव कर्त्रर्थत्वं क्तप्रत्ययस्य कल्प्यताम् ; किमधूयमाणाकारप्रश्लेषेणेति भावः । यद्वा (?) कर्तरि क्तप्रतिपत्तिः [यद्वा कर्तरि प्रतीतिः प्रतिपत्तिः] । सा यथा भुक्ता ब्रह्मणा इत्यत्र प्रतिपाद्यते - निरूप्यते, एवमत्रापि निर्वोढव्येत्यर्थः । सोऽस्य नास्तीत्यवाकीति । फलितार्थकथनमेतत्, वाकः - उक्तिः ; अवाकः - तदभावः । अवाकोऽस्यास्तीत्यवाकशब्दात् तद्धितप्रत्ययः । यद्वा वाकी न भवतीत्यवाकी । कुत इत्याह — कुत इत्यत्राहेत्यर्थः । अवाकत्वं वावसामर्थ्याभावादिति
1 1 स्वीकरणेति । अनेनोक्तस्य सर्वस्य प्राधान्येन स्वार्थत्वसिद्धिः । 2
ननु अभ्यन्त इत्यस्य अर्शआद्यजन्ततथा भक्तिप्रत्ययेष्टौ सर्वमिदमिति द्वितीया न स्यादिति प्रकृते कर्तर्थकत्वकल्पनेऽपि, भुक्ता इत्यत्न शाब्दिकैरुक्तम् अर्शआद्यजन्तत्वं कथं भाष्यकारैरुपेक्ष्य कर्तर्थकत्वमुच्यते इत्यत्नाह येत्विति । महाभाष्योक्तत्वात् अस्तु कामं भुक्ता इत्यत्न भरीआद्यजन्तता । अह्न भाष्ये इतिवदित्यत्र पूर्ण सादृश्ययाविवक्षणान्न विरोध इत्याशय्याह यद्वेति । कर्तृत्वो पलक्षितव्य क्तिपरत्वमात्रेण सादृश्यम् । अतः कर्तृत्वस्य भु का इत्यत्त अर्शआद्यजन्ते प्रतीत्यभावेऽपि न क्षतिः । पूर्वयोजनायां कर्तरिक्तः प्रतिपन्तव्य इत्यस्य कतृत्वेन तद्बोधकः क्तः इह ग्राह्म इत्यर्थः । यद्वेति पक्षे तान्तपदजन्यप्रतिपत्तिः कर्तरि भवति । कथञ्चित् कर्तृभूतव्यक्तिविषयकत्वेन क्तः प्रतिपत्तव्यः - निर्वाह्यः ( ग्राह्यः ) इत्यर्थः । यद्वेत्यादिटीकापाठो न शुद्धः । ‘यद्वा कर्तरिक्त प्रतिपत्तिः’ इतिभा०प्र०पाठः । तस्य तग्रहणं कर्तृभूतव्यक्तिविषयी कारेणेत्यर्थो युक्तः । उपरि प्रतिपाद्यत इति पदं नावश्यकम् । निरूप्यत इत्यत्र निरुह्यत इति पदसत्त्वे निर्वोढव्येत्युपरितननिर्देशानुरूप्यम् । यदि आत्त इत्यप्यर्शआद्यजन्त मिहेष्यते, तर्हि सर्वमिदमिति द्वितीया अभिशब्देऽन्वयानुरोधेन, तदेषाऽभ्युक्तेतिवदिति स्यात् । अभ्यान्त इत्यत्र अततेः कर्तरि क्त इति छान्दोग्योपनिषच्छाङ्करम्। टीकोक्तपक्षद्वये प्रथमः लक्ष्यप्राबल्यमनुरुध्य लक्षणशास्त्र कल्पनया; द्वितीयः स्थितशास्त्रत एव भुक्ता इति निर्वाहात् । 8 9 कुत इति इतीदं पृथककृत्य, एवं कुतः इत्यर्थोऽपि सुवचः । तवेदं तात्पर्यकथनम् । 1
२९४ भुतप्रकाशिकोपेते श्रीभाष्ये अनादर इति । अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः । अत एव अवाको–अजल्पाकः । परिपूर्णैश्वर्यत्वाद्ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत् तृणीकृत्य जोषमासीन इत्यर्थः । त एते विवक्षिता गुणाः परमात्मन्येवोपपद्यन्ते ॥ २ ॥ अनुपपत्तेस्तु न शारीरः ॥ १-२-३ ॥ तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसंबन्धेनापरिमितदुःखसंबन्धयोग्य स्य बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसंबन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रहशङ्का जायत इत्यर्थः ॥ ३ ॥ शङ्काव्यावृत्त्यर्थम् अनादरं इति पदमिति भावः । तदुपपादयति अवाप्तेति । अवाकित्वस्य तत्फलतामाह अत एवेति । निषेध्यो वाको हेयरूप इति दर्शयति अजल्पाक इति । सापेक्षत्व निबन्धनबहुप्रलापो निषेध्यः । न तु वाक्सामर्थ्यविरह ’ इत्यर्थः । पदद्वयप्रतिपाद्योऽयमेको गुण इत्याह परिपूर्णेति । सूत्रार्थमुपसंहरति त एत इति ॥ एवमन्वय उक्तः । कथं परमात्मन्येवेत्यवधारणसिद्धिः, मुक्तेऽपि ह्येते गुणाः शङ्कनीया इत्यपेक्षायां. पूर्वसूत्रोक्तान्वयस्थेने व्यतिरेकमाह – अनुपपत्तेस्तु न शारीरः ॥ शारीरशब्देन मुक्तावस्थस्यापि कौडी कारोपपादको योग्यशब्दः । अनुपपत्तेस्तु नेतर इति वक्तव्येऽपि मुक्तावस्थजीवस्य प्रतिपाद्यत्वानुपपत्तिस्फोरणार्थं शारीरशब्दनिर्देश इति भावः । वद्धोपादानं दृष्टान्ततया । यथा निग्राह्यस्य निग्राहकखरूपैक्यानुपपत्तिः, तथाऽनुग्राह्यस्याप्यनुग्राहक स्वरूपैक्यानुपपत्तिरित्यभिप्रायः । प्रस्तुतगुणानुपपत्तिः प्रतिगुणमनुसन्धेया । पर्यालोचयतां शङ्का न जायत इत्यन्वयः । न मुक्तपरिग्रहशङ्काहेत्वन्यथासिद्धिः, किन्तु हेत्वसिद्धिरेवेति तुशब्दाभिप्राय इत्याशयवतोक्तं शारीरपरिग्रहशङ्का न जायत इति ॥ अनुपपत्तेस्तु न शारीर इत्यत्र यदुक्तं परैः —जीवपरयोरैक्याज्जीवधर्मैः परस्य विशिष्टत्वानुसन्धानोपपतिश्चेत्, तदनन्यत्वादेव परमात्मधर्माः सत्यसङ्कल्पत्वादयोऽपि जीवे उपपद्यन्त इति शङ्कानिरासार्थमिदं सूत्रम् । आरोप्यगतधर्मैरधिष्ठानं विशेष्यते, यथा सर्पगतभीषणत्वादिना तदधिष्ठानम् । न चाधिष्ठानधर्मैरारोप्य विशेष्यते, यथा रज्जुत्वेन सर्पः । अतो जीवधर्ममनोमयत्वादिभिः परमात्मनो विशेष्यत्वं युक्तम्, न तु परमात्मधर्मैः सत्यसङ्कल्पत्वादिभिर्जीवत्य विशेष्यत्वमिति सूत्रार्थ इति ॥ तदयुक्तम् ; सर्पादिव्यावर्तक रज्जुत्वादिधर्मप्रतीतो सर्पादिधर्म भूतभीषणत्वादिभिरधिष्ठानस्य विशेषणायोगात् । इह च जीवव्यावर्तकाः सत्यसङ्कल्पत्वादयः प्रतीयन्ते । अतोऽध्यस्तजीवधर्मैः परमात्मनो विशेष्यत्वमयुक्तम् । मनोमयत्वादिभिः सत्यसङ्कल्पत्वादिभिश्व पदैर्वस्तुमात्र लक्ष्यत इति चेत् तर्हि ‘विवक्षितगुणोपपत्तेश्च’ इति पूर्वसूत्रं विरुध्यते । उभयविधगुणानामविवक्षितत्वं सूत्रकाराभिमतं चेत् —’ अनुपपत्तेस्तु न शारीरः ’ इतिवत् अनुपपत्तेस्तु नेश्वर इति च सूत्रं वक्तव्यम् ; वस्तुमात्रविवक्षायां जीवधर्माणामिवेश्वरधर्माणामप्यनुपपत्त्यविशेषात् । अतः ईश्वरधर्मेषु तात्पर्यमवगम्यते । अतस्तेषु प्रतीयमानेषु रज्जोर्भीषणत्वादिनेव 1 वाक्सामर्थ्यमेव नास्तीति नेति भावः इति टीकार्थः । अन्यथा तु वाक्सामर्थ्यरहितइति नार्थः अवाकीत्यस्येति टीका स्यात् । 2 पूर्वपक्ष्युक्तानां वद्धजीवगुणानां तत्क्रतुनयविरोधादविवक्षणीयतया सिद्धान्त्युक्तगुणा एव ग्राह्याः । तेषां वद्धेष्वसिद्धिः स्पष्टा । मुक्तेषु पुनः स्युरेव; अथापि तदग्रहणमिति न मन्तव्यम् ; तत्राप्यसिद्धिरेवेति भावः ।
१ - २ - १ सर्वत्र प्रसिद्ध्यधिकरणम् (प्रथमयोजना) कर्मकर्तव्यपदेशाच्च ॥ १-२-४ ॥ २९५ “एतमितः प्रेत्याभिसंभवितास्मि’ इति प्राप्यतया परं ब्रह्म व्यपदिश्यते, प्राप्तृतया च जीवः । अतः प्राप्ता जीव उपासकः, प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥ ४ ॥ शब्दविशेषात् ॥ १-२-५ ॥ “ए म आत्माऽन्तर्हृदये” इति शारीरः पया निर्दिष्टः, उपास्यस्तु प्रथमया । एवं समानप्रकरणे वाजिनाञ्च श्रुतौ शब्दविशेषः श्रूयते जीवपरयोः । यथा “त्रीहिर्वा यत्रो वा श्यामाको घा श्यामाकतण्डुलो वा, एवमयमन्तरात्मन् पुरुषो हिरण्मयः, यथा ज्योतिरधूमम्” इति । अत्र ‘अन्तरात्मन्’ इति सप्तम्यन्तेन शारीरो निर्दिश्यते ‘पुरुषो हिरण्मयः’ इति प्रथमया उपास्यः, अतः पर एवोपास्यः ॥ १ मनोमयत्वादिना परमात्मनो विशेष्यत्वमनुपपन्नम् ॥ मनोमयत्वादिकं न जीवासाधारणमिति चेत् — किं मनोमयादिपदैर्मनः प्राणाद्यधीनज्ञानप्रवृत्तित्वं विवक्षितम्, उत विशुद्धमनोग्राह्यत्वप्राणशरीरकत्वादिकम् ? प्रथमे, जीवासाधारणत्वात् मनोमयत्वादिभिः परमात्मनो विशेष्यत्वानुपपत्तिः । द्वितीये तु, मनोमयत्वादीनामारोपितधर्मत्वाभावादारोप्यगत धर्मैरधिष्ठानस्य विशेष्यत्वसंभव रूपन्यायाविषयत्वं वाक्यस्य स्यात् । किञ्च नित्यस्य जीवस्य परस्मिन्नारोपितत्वाभावादेवोक्तन्यायः सुतरामिह न सङ्गच्छते । तस्मात् परोक्तः • सूत्रार्थोऽनुपपन्नः ॥ ३ ॥ अथ परमसाध्यहेतुमाह ॥ कर्मकर्तव्यपदेशाच्च ॥ ‘अभिसंभविता [स्मि ?] - प्राप्ता[स्मि ! ] । प्राप्यप्राप्तृभेदः सूत्रविवक्षितः । ततः किं ‘सर्वं खल्विदं ब्रह्म’ इत्युक्तस्योपास्यस्य ब्रह्मणो जीववैलक्षण्यस्येत्यत्राह अत इति । प्राप्यप्राप्तारावेव ह्युपास्योपासकौ । अतः उपास्यं ब्रह्म उपासकाज्जीवाद्विलक्षणमित्यर्थः । स्वरूपस्यैव प्राप्यत्वमिति चेत् — श्रुतिस्वारस्यभङ्गः । प्राप्तुरन्यदेवेदमिति । अत्र इदमिति निर्देशो ब्रह्मशब्दाभिहितवस्त्वभिप्रायः ॥ ४ ॥ भेदव्यपदेश अवस्थाभेदेन प्राप्यत्वप्राप्तृत्वोपपत्तिरिति शङ्कापरिहारार्थमेकस्यामेवावस्थायां दर्शयत्यनन्तर सूत्रद्वयेन । शब्दविशेषात् ॥ अस्मिन् सूत्रे असमानविभक्तिकशब्दो विवक्षितः । एवं समानप्रकरण इति । तत्रापि शाण्डिल्यविद्यायामित्यर्थः । सौत्रपदशक्तेः सङ्कोचकाभावात्, समानप्रकरणेन प्रकृतोपपादनस्य अन्यत्र दृष्टत्वाच्च न छान्दोग्यवाक्यमात्रविषयमिदं सूत्रमिति भावः । जीवपरयोरिति । उपास्योपासकयोरित्यर्थः । जीवपरयोरित्युक्तिः फलितार्थाभिप्रायेण । अतो नान्योन्याश्रयः । अत्र हिरण्मयशब्देन दिव्यविग्रहवत्त्वं च सिद्धम् । उदाहृतवाक्ये शब्द विशेषं दर्शयति अत्रेति । सप्तम्यन्तेनेति । अन्तरात्मन्नित्यत्र नकारलोपाभावात्, “न ङिसंबुद्धयोः” इति ङिसंबुद्धयोरेव’ नकारलोपप्रतिषेधात् इह संबुद्धयन्तत्वेऽनन्वयान्च्च “आत्मन् पश्यन् सर्वभूतानि” इतिवत् लुप्तसप्तमीकोऽयं निर्देश इति भावः । एवं खप्रकरणे षष्ठीप्रथमात्मकः, समानप्रकरणे सप्तमी प्रथमात्मकश्च शब्दविशेषो विवक्षितः ॥ 1 लुडन्तत्वं युक्तम् । कृदन्तत्वे एतमिति द्वितीयान्तान्वयेऽपि क्लेशः । अर्थानुवादो वा । 2 तत्रापि - बाजिधुतावपीत्यर्थः । 3 अन नञसंबुद्धयोरेवेति पाठोऽत्यन्ताशुद्धः । सूत्रमपि शोधनीयम् । न ङिसंबुद्धयोरिति हि पाणिनिसूत्रम् । ङि इति सप्तम्येकवचनोक्तिः । सप्तम्यां छन्दसि न पदान्तनकारलोप इति ।
२.९६ इतश्च शारीरादन्यः- प्रतप्रकाशिकोपेते श्रीभाष्ये स्मृतेश्व ॥ १-२-६ ॥ “सर्वस्य चाहं हृदि संनिविष्टो गन्त्तः स्मृतिर्ज्ञानमपोहनं च”, “यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्”, “ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ” इति च शारीरकसुपासकं परमात्मानं चोपास्यं स्मृतिर्दर्शयति ॥ ६ ॥ ‘हृदयस्थस्य ईश्वरत्वमुपबृंहणेन विशदयितुमाह - स्मृतेश्व ॥ एष म आत्मान्तहृदये’ इति हृदयशब्द प्रत्यभिज्ञापनार्थमाह सर्वस्येति । उपास्यत्वज्ञापनार्थं तदनन्तरवाक्यम ह यो भामिति । हृत्स्थस्य ईश्वरत्व कण्ठोतिं दर्शपति ईश्वर इति । ‘तमेव शरणं गच्छ’ इत्युपादानं च हृदयस्थस्य भजनप्रदर्शनार्थम् । सर्वस्येति । सर्वशब्दो जीवविषयः, पराधीनस्मृत्याद्याश्रयभूतवस्तुविषयत्वात् । पुरुषोत्तम शब्दवाच्यस्य जीववैलक्षण्यं तत्रैवोक्तम् । सर्वभृतशब्दोऽपि जीवविषयः, भ्रान्त्याश्रयत्वात् देहाख्ययन्त्रारूढत्वाथ । अत्र चशब्दोऽवान्तरशङ्का परिहारहेतुद्वयसमुच्चयार्थः अन्वाचये वा ॥
अत्र केचित् कर्मकर्तृव्यपदेशादयः, घटकरकादिकृतगगन भेदाश्रयणेन बालकहताल्पत्वमहत्त्वादिव्यवहारा इव काल्पनिकं भेदमाश्रित्य तत्त्वमसीत्यात्मैकत्वोपदेशग्रहणात्प्राक् प्रवर्तन्ते ; ऐक्योपदेशग्रहणानन्तरं सर्वव्यवहारपरिसमाप्तिरित्याहुः ॥ अत्र ब्रूमः — यस्य भ्रमः, स एव भ्रान्तिसिद्धमर्थं व्यपदिशति; तस्यैव उपदेशग्रहणात तन्निवृत्तिः । एवं सति जीवेश्वर भेदभ्रान्त्या तयोः कर्मकर्तृभावादिकं को व्यपदिशति ? किं जीवः, उतेश्वरः, उत वेद एव ? । तन्त्राश्रुतशास्त्रस्य जीवस्य देहातिरिक्तं जीवमप्यजानतः सत्यसङ्कल्पत्वादिलक्षणेश्वरप्रतीत्य संभवान्न तद्भान्तिमूलत्वं कर्मकर्तृव्यपदेशस्य संभवति, नापि श्रुतशास्त्रस्य जीवस्य तस्य जीववेश्वर भेदभ्रान्तौ श्रुतिरेव मूलमिति परमनिः श्रेयसार्थिभिर्वेदान्तानामनुपादेयत्वप्रसङ्गः ॥ स्वनिमित्तामपि भ्रान्ति श्रुतिः स्वयमेवैक्योपदेशेन निवर्तयतीति चेत्-तथापि ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्यायादनुपादेयत्वमेव स्यात् । कर्मकर्तृभावादिव्यपदेशस्य ईश्वरभ्रान्तिमूलत्वमपि न घटते, व्यपदेशवैघट्यात् । तथा सति हि ‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति व्यपदेशो न स्यात् अपि तु इतः प्रेतैरभिसम्भाव्योऽहमित्येव स्यात् । किञ्च भ्रमनिवृत्त्यर्थम् ईश्वरं प्रत्युपदेष्टव्यम् । न ह्यन्यस्य भ्रमे सति अन्यं प्रत्युपदेष्टव्यम् । तथा च तत्त्वमसीत्युपदेशो न घटते । किन्तु त्वं जीवोऽसीत्येवं वक्तव्यम् । अतः श्रुतिषु कर्मकर्तृव्यपदेशो नेश्वरभ्रममूलः । यदि वेद एव भ्रान्तो व्यपदिशति, तर्हि वेदस्य तत्त्वोपदेष्टृत्वं न स्यात् भ्रान्तत्वात् ॥ पश्चात् प्रतिबुद्ध उपदिशतीति चेत् — तदयुक्तम्, स्वस्य भ्रमनिवृत्तेः, अन्येषां जीवेश्वरश्रमाभावाच्चोपदेशवैयथ्यात् ॥ अन्येषां जीवेश्वरभेदभ्रान्त्यभावेऽपि जीवबहुत्वभ्रमनिवृत्त्यर्थमुपदेशः कार्य इति चेत्-न; उपदेशवैधट्यादेव । न हि तदानीं तत्त्वमसीत्युपदेशो घटते । किन्तु सर्वे जीवास्त्वमित्युपदेष्टव्यम् । न चैवमुपदेशो वेदान्तेषु क्वचिदपि दृश्यते । न च ‘अहं मनुरभवं सूर्यश्च’, ‘अहं कक्षीवान् ऋषिरस्मि विप्रः’ इत्यानुद्यसंवानदर्शनात् तन्मूलभूत उपदेशः सर्वजीवैकत्वविषयोऽस्तीत्यभ्युपगन्तव्यम् एकस्य जीवस्य ‘सिंहेन भूत्वा बहवो मयाऽत्ताः’ इतिवत् कल्पभेदेनातीत स्वीयमनुसूर्यादिजन्मस्मरणपरत्वसंभवात् तस्य वाक्यस्य । यतः शास्त्रेण विना शरीरिणां जीवेश्वर विभागप्रतीतिर्न संभवति, अत एव लोकसिद्धमेदो निषेधार्थं 1 शाण्डिल्यविद्योपास्यो न जीवः, किं तु ब्रह्मेति गीतादिस्मृत्या साधनायोगात् अन्यथा अवतारयति हृदयस्थस्येति ।
१-२ १९ सर्वत्रप्रसिद्ध्यधिकरणम् अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ १-२-७ ॥ २९७ अल्पायतनत्वमर्भकौ कस्त्वम् ; तद्रयपदेशः - अल्पत्वव्यपदेशः । " एष म आत्माऽन्तर्हृदये” इत्यणीयसि हृदयायतने स्थितत्वात्, “अणीयान् व्रीहेर्वा यवाद्वा” इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं परमात्मा, अपि तु जीव एच; ‘सर्वगतं सुसूक्ष्मं तदव्ययं यदभूतयोनिं परिपश्यन्ति धीराः’ इत्यादिभिः परमात्मनोऽपरिच्छिन्नत्वावगमात् जीवस्य च आरामात्रत्वव्यपदेशादिति चेत्-नैतदेवम्; परमात्मैव ह्यणीयानित्येवं निचाय्यत्वेन व्यपदिश्यते । एवं निचाय्यत्वेनएवं द्रष्टव्यत्वेन, एवमुपास्यत्वेनेति यावत् । न पुनरणीयस्त्वमेवास्य स्वरूपमिति । व्योमवच्चाय चाचैव व्यपदिश्यले, व्यपदिश्यते - स्वाभाविकं महत्त्वं ज्यायान् पृथिव्या ज्याया- 66 श्रुत्याऽनूद्यत इत्येतन्निरस्तम् । न चेश्वरस्यानुमेयत्वसंभवात् जीवेश्वरमेदप्रत्ययस्य लोकसिद्धत्वसंभव इति वाच्यम् ; (?) - तर्क ( र्का ? ) वश्यपुरुषानुमानस्य दूषितत्वात् । अनुमानसंभवेऽपि भारूपत्वसत्यसङ्कल्पत्वमुक्तप्राप्यत्वादीनामनुमातुमशक्यत्वाच्च । कर्मकर्तृव्यपदेशोऽपि छुपास्यत्वादिनिबन्धनः ॥ तत्तत्फलविशेषार्थिनां कर्मकर्तृसापेक्षोपासन सिद्ध्यर्थं जीवेश्वरमेदं श्रुतिः कल्पयतीति चेत्-[न] तथा सति तत्त्वनिरूपणदशायाम्, ‘अत्ता चराचरग्रहणात्’, ‘अनुपपत्तेस्तु न शारीरः’ इति जीवविलक्षणं वस्तु प्रतिज्ञाय कर्मकर्तृव्यपदेशस्य हेतुतयोपन्यासायोगात् । कथमुपासनार्थमपरमार्थ भेदव्यपदेशं विजानन् सूत्रकारः तत्त्वार्थहेतुतया तं ब्रूयात् ? न ह्यतात्त्विकभेदः प्रतिज्ञातः ब्रह्मजिज्ञासेत्युपक्रमविरोधात् । ‘संपत्तेरिति जैमिनिः’, ‘प्रियशिरस्त्वाद्यप्राप्तिः’, ‘आध्यानाय प्रयोजनाभावात्’ इतिवत् जीवेश्वरमेदापारमार्थ्यविषयप्रतिज्ञान्तराभावाच । गरुडनरेन्द्रयोरिव वस्तुतो भिन्नयोः परावरात्मनो रैक्योपदेशस्यैवोपासनार्थत्वाश्रयणौचित्याच गरुडनरेन्द्रयोरिव भेदस्य काल्पनिकत्वाश्रयणमयुक्तम् । अतः श्रुतिसूत्राणां काल्पनिकभेदविषयत्वमनुपपन्नम् ॥ ६ ॥ ; अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ अल्पायतनत्व मि त्यादि । अणीयस्त्वाक्षेपकार्थव्यपदेशात् साक्षादणीपस्त्वव्यपदेशाच्चेत्यर्थः । परमात्मनस्तु वैधर्म्यमाह सर्वगतमिति । निचाय्यशब्दार्थमाह द्रष्टव्यत्वेनेति । “चाय दर्शने” इति हि धातुः । फलरूपदर्शन व्यावृत्त्यर्थमाह उपास्यत्वेनेति । तद्व्यावर्त्यमाह न पुनरिति । तदुपपादकं सूत्रखण्डं व्याचष्टे व्योमवदिति । व्योमवद्रष्टव्यमित्युक्ते प्रतिज्ञामात्ररूपत्वात् प्रमाणाकाङ्क्षा भवति । व्यपदिश्यत इत्युक्ते प्रमाणमेव दर्शितं भवति । अतोऽध्याहारस्य तुल्यत्वेऽपि निराकाङ्क्षयोजना वरमित्यभिप्रायेण व्यपदिश्यत इति पदं पूरकतयाऽध्याहृत्य व्याख्यातम् । व्योमवच्छब्दफलितं स्वाभाविकमिति । 1 अत्र पाठो निरीक्ष्यः । तर्काविषयः परमपुरुषः । तदनुमानं शास्त्र्योनित्वाधिकरणे दूषितमिति प्रमेयम् । तार्किकवश्यस्यानुमानस्येति वाऽर्थः । कर्मावश्यपुरुषेति वा पाठः । 2 भेदस्य काल्पनिकत्वाश्रयणं गरुडनरेन्द्रयोरिवायुक्तमित्यन्वयः । 3 व्यपदिश्यत इति । इदमुपलक्षणम् । महतो व्योम्न इवास्यायमणीयस्त्वव्यपदेश इत्यपि शांकरादार्थः प्रतीयते । चकारस्वारस्यात् लाघवाच्च महत्त्वं व्यपदिश्यत इत्यध्याहार एवोचित इति । 238
२९८
मन्तरिक्षात् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः” इति । अत उपासनार्थमेवाल्पत्वव्यपदेशः ।
तथा हि"सर्व खल्विदं ब्रह्म तजलोनिति शान्त उपासीत” इति सर्वोत्पत्तिप्रलंयकारणत्वेन सर्वस्यात्मतयाऽनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं विधाय, “अथ खलु क्रतुमयः पुरुषः । यथाक्रतुरस्मिल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति” इति यथोपासनं प्राप्यसिद्धिमभिधाय, “ऋतुं कुर्वीत” इति गुणविधानार्थमुपासनमनूद्य, “मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्य आकारणत्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमस्यासोऽवाक्यनादरः " इति जगदैश्वर्यविशिष्टस्य स्वरूपगुणांश्चोपादेयान् प्रतिपाद्य, “एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्वपाद्वा श्यामाकाद्वा श्यामाकतण्डलाना” इत्युपासकस्य हृदयेऽणीयस्त्वेन तदात्मतयोपास्यस्य परम पुरुषस्योपासनार्थमवस्थानमुक्त्वा, ‘एव म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः, सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्पमिदमभ्यान्तोऽवाफ्यनादरः’ इति अन्तर्हृदयेऽवस्थितस्योपास्यमानस्य प्राप्याकारं निर्दिश्य, “एष म आत्मान्तर्हृदये; एतद्ब्रह्म” इति एवम्भूतं परं ब्रह्म परमकारुण्येनास्मदुजिजीवयिपयाऽस्मद्धृदये ज्यायानिति । वृद्धशब्दस्य ज्यादेशे ज्यायश्शब्द निष्पत्तिः । 1 “ज्य च”, “वृद्धस्य च” इति हि सूत्रम् । न तु ‘प्रशस्यस्य श्रः’ इति तन्निष्पत्तिः । वृद्धिश्च परिमाणाधिक्यमिह विवक्षितम् ; न तु कालाधिक्यम् ; अत्राणीयस्त्वप्रतिसम्बन्ध्याकारपरत्वात् ज्यायरशब्दस्य । अतः उपासनार्थमेवेति । अतः पृथिव्यादिभ्योऽपि ज्यायस्त्वश्रवणादित्यर्थः । महत्तयाऽवगतस्य वस्तुन उपाध्युक्तिपूर्वकमुक्तं परिमाणमौपाधिकम् ; असम्भावितोपाधिकं परिमाणं स्वाभाविकमिति न्याय इह शिक्षितो भवति । अत्र हि हृदयमल्पत्वोपाधिभूतं श्रुतम् ; न तु ज्यायस्त्वोपाधिः श्रुतः । पृथिव्यादयस्तदुपाधय इति नाऽऽशङ्कनीयम् ; ततोऽपि ज्यायस्त्वश्रवणात् । न हि ततोऽधिकपरिमाणत्वं तदुपाधिकं भवितुमर्हति । अणीयस्त्वस्योपासनार्थत्वमुपासनप्रकरणाविच्छेदेन स्वाभाविकमहत्त्वप्रपञ्चनेन चोपपादयति तथा हीति । सर्वात्मकं ब्रह्मोपासीतेति । सर्वात्मकत्वं नोपास्यगुणतयोक्तम् ; तस्य वाक्यान्तरस्थत्वात् । अतो लक्षणतो धर्मिनिर्देशः । तत्प्रयोजनञ्च शान्तिरूपाधिकारिविशेषणसिद्धिः । भगवदात्मकत्वे हि शास्त्रतोऽवगते रागद्वेषाद्यभावरूपा शमादिनिष्पत्तिः स्यात् । यथोच्यते, “सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः " इति । शास्त्रजन्यज्ञानपूर्वकशमादिनिष्पाद्यमेवोपासनं श्रुतम्, ‘तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्’ इति । तस्मान्नोपासननिष्पाद्यः शमः ; किंतु शमनिष्पाद्यमुपासनम् । ब्रह्मात्मकत्वं सर्वस्य शास्त्रादवगम्य रागद्वेषादिरहितस्सन् वक्ष्यमाणगुणकं ब्रह्मोपासीतेत्यर्थः । सर्वात्मकं ब्रह्मेत्यनेन उपक्रमस्याणीयस्त्वविरोधित्वं दर्शितम् । प्रकरणाविच्छेदद्योतनाय अथ खल्वित्याद्युच्यते । उपासनमनूद्येति । यथा ‘अमिहोत्रं जुहोति’ इति विहितहोम ः ‘दध्ना जुहोति’ इत्यत्र दघ्नो होमसाधनत्व विधानार्थं जुहोतिपदेनानूद्यते, तथेति भावः । जगदैश्वर्यविशिष्टस्येत्यनेन तज्जलानित्यस्यानुवादः । स्वरूपगुणान् -अद्वारकगुणान्। न हि ते प्रकृतिपुरुषद्वारकाः । निचाय्यत्वादित्यस्यार्थमाह एवम्भूतमिति । सर्वकर्मत्वादिगुणानां द्विरुक्तिः उपास्यतया प्राप्यतया च ; हृदि स्थितेर्द्विरुक्तिर्हृदय स्थिति– 1 अत्र, वृद्धस्य चेति हि सूत्रम् ; न तु, ‘प्रशस्यस्य श्रः ज्य च’ इति तन्निष्पतिः इति पाठो युक्तः । भावप्रकाशिकामतिरपि द्रष्टव्या । वृद्धिः - वृद्धिशब्दवाच्यमित्यर्थः ।
१-२ - १ सर्वत्र प्रसिद्ध्यनिकरणम् २१९ संनिहितमितीदमनुसन्धानं विधाय, “एतमितः प्रेत्याभिसंभवितास्मि” इति यथोपासनं प्राप्तिनिश्चयानुसन्धानं च विधाय, “इति यस्य स्यादद्धा न विचिकित्साऽस्ति” इति एवंविधप्राप्यप्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम् । अत उपासनार्थमर्भ कौकस्त्वमणीयस्त्वञ्च ॥ ७ ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ १-२-८ ॥ जीवस्येव परस्यापि ब्रह्मणः शरीरान्तर्वर्तित्वमभ्युपगतं चेत्, तद्वदेव शरीरसंबन्धप्रयुक्तसुखदुःखोपभोगप्राप्तिरिति चेत्-तन्न; हेतुवैशेष्यात् । न हि शरीरान्तर्वर्तित्वमेव सुखदुःखोपभोगहेतुः ; अपि तु पुण्यपापरूपकर्मपरवशत्वम्; तत्तु अपहतपाप्मनः परमात्मनो न संभवति । तथा च श्रुतिः, “तयोरन्यः पिप्पलं स्वाद्वत्त्वनश्नन्नन्यो अभिचाकशीति” इति ॥ २ ॥ ॥ इति सर्वत्र प्रसिद्ध्यधिकरणम् ॥ ज्ञापनार्थ सौलभ्यानुसन्धानार्थं चेत्यर्थः । एवमत्र पूर्वत्रोत्तरत्र च विभुत्वाभिधानादर्मकौ कस्त्वरूपोपाधिकथनाच्च मध्यगतमल्पत्वमौपाधिकमित्ययमर्थ उक्तो भवति ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ शरीरान्तर्वर्तित्वम्–हृदयवर्तित्वम् । वैशेष्यम् – विशेषः । भोगप्रसञ्जने सुखग्रहणं सांसारिक सुखस्याऽऽदिमध्यावसानेषु दुःखमिश्रत्वेनापुरुषार्थपक्षनिक्षेपनिबन्धनम् । तथा च श्रुतिः - शरीरान्तर्वर्तित्वेऽपि फलसंबन्धासंबन्धौ आहेत्यर्थः । - अधिकरणार्थनिगमनमर्थसिद्धम् ॥ अस्मिन् सूत्रे परस्मादन्यस्य जीवस्यानभ्युपगमे परस्य कर्मफलभोक्तृत्वप्रसङ्ग इति परिचोद्य परिहर्तृत्वाभिमानेन कैश्चिदेवमुक्तम्–आत्मान्तराभावो यद्यनवगतः; तदा तन्निबन्धनचोद्यानुदयः । अवगतत्वे किं शास्त्रादवगतः (मः), उतास्मद्वाक्यात् ? । प्रथमे शास्त्रसिद्धात्मान्तराभाववत् परस्य भोक्तृत्वाभावोऽपि शास्त्रसिद्धतया स्वीकार्यः । न ह्यर्द्धजरतीय न्याय्यम् । द्वितीये तु भ्रान्तिसिद्ध गगनतलमलिनता विकल्पो गगनमिव अपारमार्थिकभोक्तृत्वं परमार्थमद्वितीयं परमात्मानं न स्पृशतीति । तत्र प्रथमं शिरः अनभ्युपगमनिरस्तम् । शास्त्रं जीवपरयोरनन्यत्वं प्रतिपादयतीति प्रतिवादिवाक्यादात्मान्तराभावमवगम्य’ तथा सति परस्य जीववद्धोक्तृत्वप्रसङ्गात् अयोग्यं जीव परैक्यं शास्त्रं न प्रतिपादयितुं शक्नोतीति हि चोदवितुरभिप्रायः । अतो नार्द्धजरतीयम् । अपरमार्थत्वान्न स्पृशतीति वचनव्यक्तिर्दूषणस्य दुष्परिहरतामवगमयति । जीववदुपभोक्तृत्वं हि चोदयित्रा आपादितम् । जीवस्य च भोक्तृत्वं त्वन्मते मिथ्या । अतो गगने मालिन्यवत परस्मिन् कल्पितं भोक्तृत्वं न तं स्पृशतीति वदता जीववत् भोक्तृत्वमभ्युपगतं स्यात् । न चांशभेदेन भोगव्यवस्था; वस्तुनो निरंशत्वात् । सांशत्वेऽप्युपाधीनां गत्वरतया घटे चलति नभस्यल्पत्ववत् सर्वप्रदेशैरौ पाधिकदोषान्वयप्रसङ्गात् । अतः परपक्षे भोक्तृत्वप्रसङ्ग परिहारोऽनुपपन्नः ॥ सर्वत्रेति सूत्रं स्ववाक्यस्थहेतुपरम् । तदनन्तरवाक्यस्थ हेतुपरं द्वितीयम् । तद्व्यतिरेकपरं तृतीयम् । उपसंहारस्थ हेतुपरं चतुर्थम् ! तत्र शङ्काविशेषपरिहार परमनन्तर सूत्रद्वयम् । सूत्रद्वयोक्तहृदयावस्थानप्रयुक्तचोद्यपरिहारपरं तदनन्तर सूत्रद्वयमिति सूत्रसङ्गतिः ॥ इति सर्वत्रप्रसिद्ध्यधिकरणम् । 1 अवगम्येत्यस्य चोदयितुरित्यत्रान्वयः । इति ह्यभिप्राय इति च ।
३५० श्रुतप्रकाशिकोपेते श्रीमाष्ये अत्त्त्रधिकरणम् १-२-२ यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्यादित्याशङ्कयाह- अत्रा चराचरग्रहणात् ॥ १-२-९ ॥ कटवली घाम्नायते, “यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः” इति । अत्रौदनोपसेचनसूचितोऽत्ता किं जीव एव, उत परमात्मेति सन्दिह्यते । किं युक्तम् ? जीव इति । कुतः ? भोक्तृत्वस्य कर्मनिमित्तत्वात् जीवस्यैव तत्संभवात् ॥ अत्रोच्यते-अत्ता चराचरग्रहणात् । अत्ता परमात्मैव । कुतः । चराचरग्रहणात् - चरा- अथ उत्तराधिकरणसङ्गतिमाह यदीति । अत्ता चराचरग्रहणात् ॥ कठेत्यादि । यत्र स इति । यस्मिन् प्रकारे स्थितः, यत्प्रकारविशिष्टः तं प्रकारं को वेदेत्यर्थः । विषयवाक्ये अत्तेत्यश्रवणादस्याः श्रुतेरेतत्सूत्राविषयत्वशङ्कां परिहर्तुमाह अत्रेति । यस्येति षष्ठीनिर्दिष्टः संबन्धः ओदनोपसेचनसामर्थ्याददनीयात्तृभावलक्षण विशेषपर्यवसितः । तस्मादत्ता सूचित इत्यर्थः । “अमिरन्नादः” इति अतिप्रसिद्धिम्, अस्यामुपनिषदि अझेः प्रस्तुतत्वं चावलम्ब्य अग्निः जीवः परमात्मेति शिरस्त्रयं कल्पितं परैः । चित्याग्नेः प्रस्तुतत्वेन साक्षादमिप्रस्तावाभावात्, अग्निप्रकरणस्य विच्छिन्नत्वात्, अध्यात्मप्रकरणे विद्याङ्गकर्मोपयोगित्वमात्रं विना अग्निवैभवप्रतिपादनायोगाच्च तत्परत्वाशङ्काया मन्दोत्थानत्वमभिप्रयता भगवता भाष्यकारेण शिरोद्वयं विचारकोटौ निवेशितम् ॥ ; अता जीवः, उतं परमात्मेति विचारः; तदर्थमिदमत्तृत्वं किं कर्मफलभोक्तृत्वरूपम्, उत जगदुपसंहर्तृत्वरूपम् ; किमत्र पूर्व प्रस्तुतब्रह्मप्रकरणं विच्छिन्नम्, नेति; ‘ऋतं पिबन्तौ’ इति किं बुद्धिजीवौ निर्दिश्येते, उत जीवपरौ ; पिबन्ताविति निर्देशः किं छत्रिवत् लक्षणया, शब्दशक्त्या वा प्रयोज्यप्रयोजकविषयतया नेयः, उत न तं दुर्दर्शम्’, ‘या प्राणेन’ इति परजीवयोर्दर्शनं किं लक्षणामापादयति, उत नेति; उपक्रमे “येयं प्रेते’ इति प्रश्नः किं जीवविषयः, उत परविषय इति । यदा जीवविषयः, तदानीमुपक्रमविरोधेन ‘तं दुर्दर्शस्’ इत्यादिना ऋतपान निर्देशस्य प्रयोज्यप्रयोजकविषयतापादनायोगात् ‘ऋः पिबन्तौ’ इति वाक्यस्य बुद्धिजीवपरत्वेन ब्रह्मप्रकरणं विच्छिन्नमिति इह प्रतिपन्नमत्तृत्वं कर्मफलभोक्तत्वरूपमिति असा जीव इति फलितम् । यदा येयमिति प्रश्नः परविषयः, तदानीमुपक्रमानुगुण्येन तदुर्दर्शमित्यादिना ऋत्पान निर्देशस्य प्रयोज्यप्रयोजक विषयतापादनोपपत्तेः ऋतं पिवन्ताविति वाक्यस्य जीव परमात्मपरत्वेन ब्रह्मपकरणविच्छेदाभावात् इह प्रतिपन्नमत्तत्वं नगदुपसंहर्तृत्वरूपमेवेति अता परमात्मेति फलितम् । भोक्तृत्वस्येति । ओदनोपसेचनसामर्थ्यावगतस्येति भावः । ततः किमित्यत्राह जीवस्यैवेति । ‘सर्वभूतान्तरात्माऽपहतपाप्मा’, ‘न कर्मणा वर्धते नो कनीयान्’, ‘अनन्नन्नन्यः’ इति परस्य भोक्तृत्वं निषिद्धमिति भावः । तत्संभवात् — कर्मफलभोक्तृत्वसंभवात् । ब्रह्मक्षत्रशब्दवाच्यानां देहिनां स्त्रीपुंसात्मकत्वात् तत्तद्रूपजीवानां परस्परभोक्तृभोग्यभावः संभवति । जीवानां नित्यत्वादेव मृत्युवश्यत्वाभावात् मृत्युर्जीवस्य विधेय इत्यभिप्रायेण मृत्यूपसेचनवादोऽपि संभवतीति भावः ॥ राद्धान्तमारभते अत्रेति । चराचरग्रहणादित्येतव्याचष्टे चराचरस्येति । कृत्स्रचराचरविषयं वा
१२-२ अत्तचिकरणम् ३०१ चरस्य कृत्स्नस्य अन्तृत्वं हि तस्यैव संभवति । न चेदं कर्मनिमित्तं भोक्तृत्वम्, अपि तु जगजन्मस्थितिलंय हेतुभूतस्य परस्य ब्रह्मणो विष्णोः संहर्तृत्वम्; “सोऽध्वनः पारमाप्नोति तद्विष्णोः . परमं पदम् " इति अत्रैव दर्शनात् । तथा च ‘मृत्युर्यस्योपसेचनम्’ इति वचनात् ‘ब्रह्म च क्षत्रञ्च’ इति कृत्स्नं चराचरं जगदिहादनीयौदनत्वेन गृह्यते । उपसेचनं हि नाम स्वयमद्यमानं सत् अन्यस्या [य]दनहेतुः । अत उपसेचनत्वेन मृत्योरप्यद्यमानत्वात् तदुपसिच्यमानस्य कृत्स्नस्य ब्रह्मक्षतपूर्वकस्य जगतश्चराचरस्यादनमत्र विवक्षितमिति गम्यते । ईदृशं चादनमुपसंहार एव । तस्मादीदृशं जगदुपसंहारित्वरूपं भोक्तृत्वं परमात्मन एव ॥ ९ ॥ 1 प्रकरणाच्च ॥ १-२-१० ॥ प्रकरणञ्चदं परस्यैव ब्रह्मणः, “महान्तं विभुमात्मानं मत्वा धीरो न शोचति”, “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते कतिपयविषयं वाऽस्तु ; ततः किं जीववैलक्षण्यस्य । उक्तं हि ‘कर्मफलभोक्तृत्वरूपमिदमत्तत्वम्’ इति — अत्राह न चेदमिति । कृत्स्त्रचराचरविषयमत्तृत्वं जीवस्यानुपपन्नमिति भावः । अतृत्वं विष्णुकर्तृकं चराचर संहर्तृत्वमिति कथमवगतमित्यत्र हेतुद्वयमाह सोऽध्वन इति । प्रकरणे परमात्मवाचिपदश्रवणं प्रथमो हेतुः । द्वितीयं हेतुमाह तथा च मृत्युरिति । कथं चराचरस्यादनीयत्वसिद्धिः ; मृत्यूपसेचननिर्देशो हि मृत्युवश्यत्वाभावाभिप्रायः संभवतीत्यत्राह उपसेचनं हीति । यद्यप्युपसेचनशब्दो गौण एव निर्वाचः, तथापि साधारणाकारेणोपचारो न घटते, विशेषाकारसंभवात् । न ह्यमिर्माणवक इत्युक्ते अग्निशब्दो द्रव्यत्वाभिप्रायेण वर्णनीयः । मृत्युः उपसेचनम् — अबाधक इत्युक्ते विशेषाकारोपस्थापनं न स्यात् ; अबाधकत्वस्य लोष्टतृणादिसाधारणत्वात् । स्वयमद्यमानत्वे सत्यन्यस्यादन हेतुत्वं तु विशेषाकार इति तेनैवौपचारिकप्रयोगो युक्त इति भावः । साधारणाकारं विहायावान्तराकारेण गौणार्थो वर्णनीय इति न्यायोऽत्र व्युत्पादितः । परस्य जगत्संहारे मृत्य्वपेक्षाऽपि नास्तीति अस्मदुक्त एवार्थ इति शङ्कां परिहरन् फलितमाह अत इति । कृत्स्नजगत्संहारे मृत्य्वपेक्षाभावेऽप्यत्र मृत्योरद्यमानत्वं व्यष्टिसंहारस्य तद्द्वारकत्वाभिप्रेतम् । एवं मृत्यूपसेचनत्वसामर्थ्यात् ब्रह्मक्षत्र शब्दौ कृत्स्नचराचर प्रदर्शनार्थाविति भावः । ततोऽपि किमित्यत्राह ईदृशमिति । सूत्रार्थमुपसंहरति तस्मादिति । सोऽध्वन इत्यादिवाक्ये विष्णोः श्रूयमाणत्वात्, मृत्यूपसेचनत्वसामर्थ्य सिद्धचराचरादनीयत्वाच कृत्स्नजगदुपसंहर्तृत्वरूपमेवेदं भोक्तृत्वमिति नेदं कर्मनिमित्तम् । अतः परमात्मैवात्तेत्यर्थः ॥ … …. प्रकरणाच्च ॥ स्ववाक्यस्थहेतुः पूर्वमुक्तः ; प्राकरणिकहेतुरत्रोच्यते । अस्य सूत्रस्य “न जायते म्रियते” इत्यादिवाक्यं विषयतया परैरुपात्तम् । तदयुक्तम् ; पित्रादिमरणस्येव परमात्मनो हन्यमानत्वस्य लोकप्रसिद्ध्यभावेन तन्निषेघायोगात् । एतत्सरूपेण, “न जायते म्रियते वा कदाचित् " इति भगवद्गीतावचनेनास्य वाक्यस्य जीवपरत्वावगमात् । “उभौ तौ न विजानीतो नायं हन्ति न 1
ननु सूत्रेऽनुक्तस्यास्य प्रथमहेतुत्वेन गणनं भाष्ये एतद्घटनञ्च कथमिति चेत्उच्यते । मृत्युपदस्वारस्यात् चराचरग्रहणे सिद्धे मृत्युञ्जयो व्यष्टिसंहर्ता रुद्र एव जीव एतदर्थः स्यादिति शंकायाम्, विष्णुवचनबलात् ब्रह्मरुद्र रूपसर्वव्यष्टिसंहारविवक्षेति ज्ञापनार्थं तदिति ।
ः ३०२ . मुतप्रकाशिकोपेते श्रीभाष्ये तनूं खाम्” इति हि प्रकृतम् । ‘क इत्था वेद यत्र सः’ इत्यपि हि तत्प्रसादाहते तस्य दुखबोधत्वमेव पूर्वप्रस्तुतं प्रत्यभिज्ञायते ॥ १० ॥ अथ स्यात् - नायं ब्रह्मक्षत्रौइन सूचितः पुरुषोऽपहतपाप्मा परमात्माः अनन्तरम् “ऋतं शिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः” इति कर्मफलभोक्तुरेव सद्वितीयस्याभिधानात् । द्वितीयश्च प्राणः, बुद्धिर्वा स्यात् । ऋतपानं हि कर्मफलभोग एव; स च परमात्मनो न संभवति ; बुद्धिप्राणयोस्तु भोक्तुर्जीवस्योप- हन्यते” इत्यनन्तरमन्त्रो तहन्तृहन्तव्यताभ्रान्तेः परमात्माश्रयत्वायोगेन जीवपरत्वोपपत्तेश्च । अतो " नायमात्मा” " महान्तं विभुम्” इत्यादिरेव विषयः । एकप्रकरणत्वं कथमित्यत्राह क इत्थेति । तत्प्रसादाहते तस्य दुरवबोधत्वस्य पूर्वोक्तस्य प्रत्यभिज्ञानादित्यर्थः ॥ कैश्विदेवमुक्तम् - “अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्” इति परमात्मनः शरीरेऽवस्थितिश्रवणात् ‘यस्य ब्रह्म च क्षत्रं च’ इत्यनेन श्लोकेन शरीरे हृदयप्रदेशे वा परस्य स्थितिरिति जिज्ञास्यते । अत एव हि, ‘क इत्था वेद यत्र सः’ इति वचनम् ; न पुनः, कस्तं वेदेति ॥ तदनेन निरस्तं वेदितव्यम्, प्रश्नानुगुणप्रतिवचनादर्शनात् ।
ननु अनन्तरमेव दृश्यते, “ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ " इति इति चेत् — सत्यं श्रूयते ; तत्र स्थानत्वेन किमुक्तम् १. किं सुकृतस्य लोकः, उत गुहा ! । तत्र सुकृतस्य लोक इति शरीरं वा, अन्यद्वा ? उभयमपि शरीरसंबन्धिदेशविशेषो न भवतीति तत् नोत्तरं भवितुमर्हति । न च स्थानमात्रमेव पृष्टम् ; ‘अशरीरं शरीरेषु’ इत्यनेनैव तत्सिद्धेः ॥ अथ गुहा स्थानत्वेन निर्दिष्टा, साऽपि पूर्वमेव ज्ञातेति न प्रश्नसंभवः । ‘गुहा हितं गह्वरेष्ठं पुराणम्’ इति हि श्रुतम् । ‘यत्र सः’ इत्येकवचनेन पृष्टे, ‘पिबन्तौ’ इति द्विवचनो ( नेनो ) तरं चानुचितम् । अतः ‘क इत्था वेद’ इति वाक्यस्य यथोक्त एवार्थः ॥ …. .. उत्तरसूत्रस्य शङ्कामाह अथ स्यादिति । प्रकरण विच्छेदं दर्शयति ऋतं पिवन्ताविति । लिङ्गाद्धि प्रकरणं दुर्बलम् । ऋतपानलिङ्गबलात् प्रकरणविच्छेदोऽत्र प्रतिपाद्यते । ‘यस्य ब्रह्म च’ इति वाक्यापेक्षया ‘महान्तं विभुम् ’ इत्यादिपरमात्मप्रकरणविच्छेदो मा भूत् । ऋतमानान्वयवाक्यं तु विच्छिन्नं स्यादिति शङ्कापरिहारार्थमनन्तरमित्युक्तम् । महान्तमित्यादिवाक्यानां व्यवहितत्वाद्विच्छेदो युक्तः; न तु यस्य ब्रह्म चेत्यादिवाक्येनाव्यवहितस्य ऋतं पिवन्ताविति वाक्यस्येति भावः । द्वयोः समप्राधान्यशङ्कापरिहारार्थं सद्वितीयस्येत्युक्तम् । अत्र मोक्तर्जीवत्वं कथम् ; द्वितीयस्य च बुद्धिप्राणयोरन्यतरत्वं कथम् ; कथं न परमात्मत्वमित्यत्राह ऋतपानं हीति । कर्मफलभोग एवेति । न हि सर्व संहर्तृत्वमुच्यत इतिवत् ऋतपानस्य निर्वाहान्तरं सुवचमिति भावः । ततः किमित्यत्राह स चेति । भवदभिमतस्य कथं तत्संभव इत्यत्राह बुद्धीति । यथाकथञ्चित् – उपकरणत्वेनान्वय इत्यर्थः । करणे कर्तृत्वोपचारात् पिबन्तावि- 1 तस्यैष आत्मा विवृणुते तनूं खामित्यन्तस्य परमात्मपरत्वं तस्य प्राधान्येन निर्देशात् । नाविरत इति अजितेन्द्रियपुरुषप्रधानकत्वात् जीवपरम् । तेन व्यवहितश्चान्नात्र परमात्मा पूर्वोक्तो ग्राह्यः । भजितेन्द्रिय एव सर्वभक्षक उच्यते । भोक्तृपात्रैक्यञ्चावश्यकमिति भावः । खण्डभेदस्तु काल्पनिकः
३०३ परमभूतयोर्यथाकथञ्चित् पानेऽन्वयः संभवतीति तयोरन्यतरेण सद्वितीयो जीव एव प्रतिपाद्यते । तदेकप्रकरणत्वात् पूर्वप्रस्तुतोऽत्तापि स एव भवितुमर्हतीति ॥ तत्त्रोच्यते- गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ १-२-११ ॥ न प्राणजीवौ बुद्धिजीयौ वा गुहां प्रविष्ट कां पिवन्तावित्युच्येते, अपि तु जीवपरमात्मानौ हि तथा व्यपदिश्येते । कुतः । तद्दर्शनात् । अस्मिन् प्रकरणे जीवपरयोरेव गुहाप्रवेशव्यपदेशो दृश्यते । परमात्मनस्तावत्, “तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति” इति । जीवथापि, “या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत” इति । कर्मफलान्यन्तीत्यदितिः जीव उच्यते । प्राणेन संभवति - प्राणेन सह वर्तते । देवतामयी - इन्द्रियाधीनभोगा । गुहां प्रविश्य तिष्ठन्ती - हृदयपुण्डरीकोदरवर्तिनी । भूतेभिर्व्यजायत - पृथिव्यादिभिर्भूतैः सहिता देवादिरूपेण विविधा त्युक्तमिति भावः । तयोरन्यतरेण सद्वितीयो जीव एवेति । अयमभिप्रायः यद्यपि प्रयोजक कर्तरि परमात्मनि उपकरणभूतबुद्धिपाणयोरन्यतरस्मिन् वा पिवन्ताविति निर्देशस्य क्लिष्टत्वं समानम् – तथापि बुद्धिप्राणयोरन्यतरपरिग्रहो न्याय्यः । प्रथममेव पिबन्ताविति निर्देशेन भोक्ता जीवः प्रतिपन्न इत्यविगीतम् । द्वितीयविशेषे हि विप्रतिपत्तिः । तत्र गुहावच्छिन्नत्वं सुकृतसाध्यलोकवर्तित्वञ्च सर्वगतस्य परस्य खरसतो न संभवति । अप्रकाशप्रकाशरूपार्थपरच्छायातप शब्द । भ्यामचिदन्तःकरणचेतनोपस्थापनं युक्तम् । तत्र प्रथमत एवानेकैः पदैः स्वरसतः प्रतिपन्नस्य भोक्तुः प्राधान्येन प्रतिपाद्यत्वं यथा न विरुध्यते, तथा द्वितीयो वक्तव्यः । द्वितीयस्य परमात्मत्वे भोक्तुः प्राधान्येन प्रतिपाद्यत्वं विरुध्यते । उपकरणभूतान्तःकरणस्य द्वितीयत्वे भोक्तुः प्राधान्येन प्रतिपाद्यत्वं न विरुध्यत इति ॥ ततः किमत्तुर्जीवभावस्येत्यत्राह तदेकेति ॥… गुहां प्रविष्टावात्मानौ हि तदर्शनात् ॥ ऋतं पिबन्ताविति निर्देष्टव्येऽपि गुहां प्रविष्टाविति सूत्रयतोऽयं भावः -द्वितीयस्य पान पक्षद्वयेऽपि क्लिष्टम् । बुद्धिप्राणयोरन्यतरपक्ष एव छायातपनिर्देशो लोकशब्दनिर्देशश्च घटताम् ; गुहाप्रवेशस्तु न कथञ्चिदपि घटते । ‘आत्मा गुहायां निहितः’ ‘यो वेद निहितं गुहायाम्’, ‘मुहाहितं गुहरेष्ठम्’, ‘विधूय कविरेतदनुतिष्ठेत् गुहाशयम्’, ‘पूः प्राणिनः सर्व एव गुहाशयस्य’ इति परमात्मनो गुहाप्रवेशव्यपदेशप्रसिद्धिप्राचुर्यात् ; बुद्धिप्राणयोरन्यतरस्य तादृशप्रसिद्ध्यभावाच्चेति । एतमेवाभिप्रायं हृदि निघाय सूत्रे प्रतिज्ञाखण्डं व्याचष्टे न प्राणजीवाविति । जीवपरमात्मानौ हीति । सूत्रे हिशब्दः सौत्रार्थस्य परमसाध्योपपादकत्वसूचक इति भावः । सूत्रे प्रतिज्ञोपपादकं हेतुखण्डं व्याचष्टे अस्मिन्निति । परमात्मनस्तावदिति । गुहाप्रवेशव्यपदेशो दृश्यत इत्यन्वयः । तं दुर्दर्शमिति । दुर्दर्शम् - द्रष्टुमशक्यम् । कुतः ? गूढम् — तिरोघायक कर्मरूपाविद्यादिना तिरोहितत्वादित्यर्थः । गुहाहितम् – हृदयवर्तिनम् । गह्वरेष्ठम् - आत्मान्तर्यामिणम्, परमव्योमनिलयं वा । अध्यात्मयोगाधिगमेनेति परोपासनस्य जीवोपासनमङ्गत्वेन विधीयते ; जीवपरयोरुभयोरपि प्रकरणप्रतिपाद्यमानत्वात् । जीवस्यापीति । गुहाप्रवेशव्यपदेशो दृश्यत इत्यन्वयः । अदितिशब्दस्य देवमातरि, भूमौ च वेदप्रसिद्धेः तद्वयावृत्त्यर्थमवयवशक्तया जीववाचित्वं दर्शयति कर्मफलानीति रूढार्थस्य गुहाप्रवेशासंभवात् योगपरिग्रह इति भावः । कर्मफलशब्देन ऋतशब्दार्थोपि दर्शितो
३०४
जायते । एवञ्च सति ‘ऋतं पिबन्तौ’ इति व्यपदेशः छत्रिणो गच्छन्तीतिवत्प्रतिपत्तव्यः । यहा प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुपपद्यते ॥ ११ ॥ विशेषणाच्च ॥ १-२-१२॥ अस्मिन् प्रकरणे जीवपरमात्मानावेवोपास्यत्वोपासकत्व प्राप्यत्व प्राप्तृत्वविशिष्टों सर्वत्र प्रतिपांधेते । तथा हि, “ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति” इति । ब्रह्मजज्ञो जीवः, ब्रह्मणो जातत्वात् ज्ञत्वाच्च । तं देवमीड्यं विदित्वा - जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः । तथा, “यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि” इत्युपास्यः परमात्मोच्यते । नाचिकेतम् - नाचिकेतस्य कर्मणः प्राप्यमित्यर्थः । “आत्मानं रथिनं विद्धि शरीरं रथमेव च” इत्यादिना उपासको जीव उच्यते । तथा “विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इति प्राप्यप्राप्तारावभिधीयेते जीवपरमात्मानौ इहापि छायातपावित्यज्ञत्व सर्वज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्येते ॥ अथ स्यात् - “येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके” इति जीवस्वरूपयाथात्म्यप्रश्नोपक्रमत्वात् (मात्) सर्वमिदं प्रकरणं जीवपरमिति प्रतीयत इति ॥ नैतदेवम्, न हि भवति छत्रिणो गच्छन्तीति न्यायेन निर्वाहे लाक्षणिकत्वं स्यादिति मुख्यकल्पनिर्वाहमाह यद्वेति । मुख्यत्वेऽप्यस्वारस्यमात्रमस्ति, लाक्षणिकत्वादपि तत् वरम् । वुद्धिप्राणयोरन्यतरपरत्वमतीवावरसम् । करणत्वेन हि तयोरन्वयः । परमात्मनस्तु “तत्प्रयोजको हेतुश्च” इत्युक्तप्रक्रियया प्रयोजककर्तृतायाः कर्तृत्व विशेषत्वात् तद्वाचित्वे पिवन्ताविति निर्देशः खरस इति भावः । पिवन्ताविति निर्देशस्वारस्यमुभयोश्चेतनत्व एव घटते । [गुहां प्रविष्टावित्यपि । ? ] उभौ गृहं प्रविष्टाविति निर्देशो हि न दण्डस द्वितीयपुरुषविषयः, अपि तु पुरुषद्वयविषयः । ब्रह्मविदो वदन्तीत्युक्तत्वाच्च जीवसद्वितीयपरमात्मपरत्वं युक्तम् । एवं निर्वाहद्वयेनापि प्रकरणविच्छेदक लिङ्गत्वेन पराभिमतस्य ऋतपानान्वयस्य अन्यथासिद्धिरुक्ता भवति । गत्यभावे यदमुख्यम्, तत्र द्वयोः प्रतिपन्नयोः, प्रकरणानुगुणस्य ग्राह्यत्वम्, सजातीययोरेव द्विवचननिर्देशार्हत्वं चेति न्यायद्वयमत्र शिक्षितम् ॥ ११ ॥ विशेषणाच्च ॥ तत्तद्वाक्योदितविशेषणान्तराणि च प्राप्यत्वप्राप्तृत्वोपास्यत्वोपासकत्वार्भूतानीत्यभिप्रायेण उपास्यत्वोपासकत्व प्राप्यत्व प्राप्तृत्वविशिष्टावित्युक्तम् । ब्रह्मजज्ञमित्युपासकं वदति । शकेमहि । उपासितुं प्राप्तुमिति शेषः । आत्मानं रथिनमित्यादि । शरीराद्युपासनपरिकरसहितो जीव उच्यत इत्यर्थः । इहापि — ऋतं पिबन्ताविति वाक्येऽपि । अज्ञत्व सर्वज्ञत्वाभ्यामित्यनेन ‘ज्ञाज्ञौ द्वौ’ इति वाक्यं स्मारितम् । उदाहृतवाक्यैकार्थ्यात् छायातप शब्दयोरप्ययमेवार्थः । विशेषणाच्च इति सूत्रे छायातपत्वरूपविशेषणमपि विवक्षितमिति भावः ॥ उत्तरत्र " त्रयाणामेव चैवम्…” इत्यादिसूत्रेण वक्ष्यमाणत्वेपि चोद्यस्य बुद्धिस्थत्वात् सुमहत्वाय तत्पूर्वकं परिहारमाह अथ स्यादिति । अस्मिन् प्रकरणे जीवपरमात्मनो विशेष्यत्वमयुक्तम्, उपक्रमस्य जीवपरत्वादित्याह येयमिति । परिहरति नैतदिति । वरद्वयं किम्, तद्वरणानुपपतिः 1 तत् सूत्रमव्यक्तादिपरत्वव्युदासकम् । अत्रैवाक्षेपोऽयं सारावलि दर्पणादिदिशा भवन् परिहर्तव्यः इति भाव्यम् । अत एव, चोद्यस्य बुद्धिस्थ त्वादित्युक्तम् ।
१-२-२ अधिकरणम् ३०५ जीवल देहातिरिकस्यास्तित्वनास्तित्वशङ्कयाऽयं प्रनः तथा सति पूर्ववरद्वयचरणानुपपत्तेः । तथा हि पितुः सर्ववेदसदक्षिण कतुसमाप्तिवेलायां दीयमानदक्षिणावैगुण्येन क्रतुवैगुण्यं मन्यमानेन कुमारेण नचिकेतसा आस्तिकाप्रेसरेण खात्मानेनापि पितुः क्रतुसाद्गुण्यमिच्छता, ‘कस्मै मां दास्यति’ त्यसकृत् पितरं पृष्टवता, स्वनिर्बन्धरूपितृवचनात् मृत्युसवनं प्रविऐन, स्वसदनात्प्रोपुषि यमे तददर्शनात् तत्र तिस्रो रात्रीरूपोषण, स्वोपवासभोतत्तत्प्रतिविधानप्रवृत्तमृत्युप्रत्ते वरत्रये आस्तिफ्यातिरेकात् प्रथमेन वरेण स्वात्मानं प्रति पितुः प्रसादो वृतः । एतच्च सर्व देहातिरिक्तमात्मानमजानतो नोपपद्यते । द्वितीयेन च वरेणोत्तीर्णदेहात्मानुभाव्य फलसाधनभूता अग्निविद्या वृता । तदपि देहातिरितात्मानभिज्ञस्य न संभवति । अतस्तृतीयेन वरेण यदिदं वियते, “येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः” इति भन्न परमपुरुषार्थ रूपन्त्रह्मप्राप्तिलक्षणमोक्षयाथात्स्य विज्ञानाय तदुपायभूतपरमात्मोपासन-परावरात्मतत्वजिज्ञासयाऽयं प्राः क्रियते । एवञ्च ‘येयं प्रेते’ इति न शरीरवियोगमात्राभिप्रायम् ; अपि तु सर्वबन्धविनिर्मोक्षाभिप्रायम् । यथा ‘न प्रेत्य संज्ञाऽस्ति’ इति । अयमर्थः -मोक्षाधिकृते मनुष्ये प्रेते - सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषया वादिविप्रतिपत्तिनिमित्ता अस्तिनास्त्यात्मिका येयं विचिकित्सा, तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं विद्याम् - जानीयामिति । तथा हि बहुधा विप्रतिपद्यन्ते—केचित् वित्तिमात्रस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये वित्तिमानस्यैव सतोऽविद्यास्तमयम् । अपरे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे तु अपहतपाप्मानं परमात्मानमभ्युपगच्छन्तः तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भावलक्षणं मोक्षमातिष्ठन्ते । त्रय्यन्तनिष्णातास्तुनिखिलजगदेककारणस्य अशेषहेषप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवाधिकातिशयाकथमित्यत्राह तथा हीति । पितृप्रसादवरणस्य अग्निविद्यावरणस्य च प्रत्येकनिरपेक्षहेतुत्वसूचनार्थम् ‘एतच सर्व’, ‘तदपि’ इति द्विरुक्तम् । अत्र परमेति । अत्र -यदिदं त्रियते - यद्वरणं क्रियते, तत्र वरणे इत्यर्थः । मोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्त्वजिज्ञासयेति । मोक्षज्ञानाय मोक्षानुबन्धिजिज्ञासयाऽयं प्रश्न इत्यर्थः । येयमित्यादिप्रश्नवाक्ये मोक्षयरूपपश्नः कण्ठोकः । प्रतिवचनप्रकारेणोपासनादिप्रश्नश्वार्थसिद्ध इत्यवगम्यते । एवं विभागज्ञापनार्थं ‘विज्ञानाय ’ ‘‘जिज्ञासया’ इति पृथगुक्तिः । मोक्षप्राप्तिप्रश्ने प्राप्यप्रापक प्राप्तृमश्नोऽप्यन्तर्गत इति भावो दर्शितो भवति । निर्विशेषतापत्तिर्मोक्षश्चेत्, वाक्यार्थज्ञानस्योपायता स्यात् । उभयलिङ्गकं प्राप्यं चेत्, तथात्वेनोपासनमुपायस्स्यात् । अतो मोक्षखरूपज्ञानं तदनुबन्धिज्ञानापेक्षम् । एवं प्रश्नस्य ज्ञातेतरविषयत्वात् प्रतिवचनानुरूप्याच्च यथोक्त एवार्थः । प्रेतपदस्य उक्ताधपरत्वे श्रुत्यन्तरसंवादं दर्शयति यथेति । " न प्रेत्य संज्ञाऽस्ति” इति श्रुतिः । कः पुनः वाक्यार्थः न हि मनुष्यमात्रस्य बन्धविनिर्मोक्षसंभव इत्यत्राह अयमर्थ इति । अस्तिनास्त्यामिका - अस्तिनास्तीत्येवमादिरूपा । विद्यामिति पदस्य द्वितीयान्तकारकपदत्वशङ्कां निवर्तयन् व्याचष्टे जानीयामिति । विप्रतिपत्ति दर्शयति तथा हीति । कारणशोधक’ गुणप्रतिपादकवाक्यार्थविशिष्टमाह निखिलजगदेककारणस्येत्यादि । अनुकूलापरिच्छिन- 1 शोधकपदमिह वैलक्षण्यावहधर्मपरम् । न तु वाक्यपरम् । तथा च कारणस्य, शोधकधर्मस्य, गुणानाञ्च प्रतिपादकेत्यर्थः । 239
३०६
सङ्ख्यकल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकार - भूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्म रूपाविद्यातिरोहितस्वरूपस्याविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादात् विद्यामिति नचिकेतसा पृष्टो मृत्युः तस्यार्थस्य दुरववोधत्व प्रदर्शनेन, विविधभोगवितरणप्रलोभनेन चैनं परीक्ष्य योग्यतामभिज्ञाय परावरात्मतत्त्वविज्ञानं परमात्मोपासनं तत्पदप्राप्तिलक्षणं मोक्षञ्च, “तं दुर्दर्श गूढमनुप्रविष्टम्” इत्यारभ्य " सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इत्यन्तेन उपदिश्य, तदपेक्षितांश्च विशेषान् उपदिदेशेति सर्व समञ्जसम् । अतः परमात्मैवात्तेति सिद्धम् ॥ इति अत्त्रधिकरणम् ॥ २ ॥ ज्ञानस्वरूपस्येति । खरूपशब्दो धर्मधर्मिणोः साधारणः । तत्रेत्यादि । परावरात्मतस्वविज्ञानम् - 1 ज्ञातव्यपरा वरात्मतत्त्वम् ; उपदिश्येत्यन्वयः । तदपेक्षितांश्च विशेषान्– प्रणवाग्निविद्यादीन् । अधिकरणार्थमुपसंहरति अत इति । अत्तेति सूत्रे स्ववाक्यस्थहेतुरुक्तः । प्राकरणिकपूर्ववाक्यस्थ हेतुपरं द्वितीयम् । अनन्तरवाक्यशङ्कापरिहारपरं तृतीयम् । अतस्तत्र चशब्दाप्रयोगः । उपरितनवाक्यस्थ हेतुभिस्तृतीयसूत्रार्थोपपादकं चतुर्थमिति सूत्रसङ्गतिः । …. ‘गुहां प्रविष्टावात्मानौ’ इत्यादिसूत्रद्वयमधिकरणान्तरं केचिदाहुः । तदयुक्तम्; एकप्रकरणस्थवाक्यविशेषविषयाणामधिकरणान्तर” पादान्तराव्यवहितानामुपजीव्योपजीवकभावेन परस्परान्वितार्थप्रतिपादकानां सूत्राणां विषयवाक्यभेदे सत्यपि भिन्नाधिकरणत्वाभावात् । ईक्षत्यानन्दमयाधिकरणादिषु, " तन्निष्ठस्य मोक्षोपदेशात् “, “प्रतिज्ञाविरोधात्’, ‘तद्धेतुव्यपदेशाच्च”, “मान्त्रवर्णिकमेव च गीयते” इत्यादीनां सूत्राणां पूर्वापश्बहुवाक्यविषयत्वेऽप्यव्यवहितत्वात् परस्परोपजीव्योपजीवकभावेन अन्वितार्थपरतयाऽपि मैकाधिकरण्यम् । “अदृश्यत्वादिगुणकः’, ‘धुभ्वाद्यायतनम्’ इत्यधिकरणयोस्तु एकप्रकरणस्थाने कवाक्यविषयत्वेऽपि भेद उपपद्यते । उपपद्यते । स्पष्टास्पष्टलिङ्गकवावयविषयत्वेनैकस्मिन् पादे सङ्गत्यनुपपत्तेः ; उपजीव्योपजीवकभावाभावाच्च । न हि ’ ‘यस्मिन् द्यौः पृथिवी’ इत्यादिवाक्यस्य परमात्मपरत्वम् अदृश्यत्वादिगुणकस्य अक्षरात्परतः परस्य च परमात्मत्वोपपादकम् ; परप्रकरणेऽपि तच्छेषत्वेन अपरमात्मप्रधानादिप्रतिपादनोपपत्तेः । अतः उपजीव्योपजीवकभावाभावादधिकरण मेदस्तत्र युक्तः । इह तु पूर्ववाक्यप्रतिपन्नमत्तृत्वं कर्मफलभोक्तृत्वरूपमित्यनन्तरवाक्येन प्रतिपन्ने सति तस्यातुः परमात्मत्वानुपपतेरनन्तरवाक्यस्य परमात्मपरत्वोपपादनमत्तुः परमात्मत्वोपयुक्तमेव । एवमेकप्रकरण स्थवाक्यविषयत्वे सति अधिकरणान्तरपादान्तराव्यवहितत्वे च सति परस्परोपयुक्तार्थप्रतिपादकानां सूत्राणामैकाधिकरण्यमेवोचितम् ; अन्यथा ईक्षत्यधिकरणादिव्वपि एकैकाधिकरणस्थसूत्राणामधिकरण मेदकल्पना प्रसजेत् । व्यतः ऐकाधिकरण्ये स्थित एव अवान्तरशङ्काविशेषपरिहारपरं सूत्रद्वयं व्याख्यातव्यम् । व्याख्यातञ्च भवगता भाष्यकारेण ॥ सूत्रमङ्गी च ऐकाधिकरण्य एवोपपद्यते ; एकस्मिन् सूत्रे हिशब्दपञ्चम्यन्तपदयोः श्रवणात् । 1 उपासनस्य पुथगुक्तत्वात् तत्त्वपरतया व्याख्याति ज्ञातव्येति । 2 पादान्तरेति नावश्यकम् । पादान्तरस्थत्वेऽपि पादव्यवहितत्वं द्युभ्वाद्यधिकरणे नास्ति च ।
१-२-३ अन्तराधिकरणम् अन्तराधिकरणम् १-२-३ अन्तर उपपत्तेः ॥ १-२-१३ ॥ ३०७ इदमामनन्तिच्छन्दोगाः “य एषोऽक्षणि पुरुषो दृश्यते । एष आत्मेति होवाच एतदमृतमेतद्भयमेतद्ब्रह्म’ इति । तत्र संदेहः - किमयमक्ष्याधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेषः, उत जीवात्मा, अथ परमात्मा इति । किं युक्तम् । गुहां प्रविष्टयोरात्मत्वसाधकं पञ्चम्यन्तपदम्, अतुः परमात्मत्वोपपादकर्ता सूत्रार्थस्य दर्शयति हिशब्दः । ‘सर्वगतस्य ब्रह्मणो गुहावच्छिन्नत्वायोगात् गुहागतौ बुद्धिजीबौ; न पर इति गुहां प्रविष्टाविति सूत्रखण्डः पूर्वपक्षपर इति योजनाऽनुपपन्ना; ‘विकारशब्दान्नेति चेत्’, ‘जीवमुख्यप्राणलिङ्गान्नेति चेत्’, ‘संभोगप्राप्तिरिति चेत् इतिवत् पूर्वपक्षद्योतक निर्देशाभावात् । ‘अर्भकौकस्त्वात्’ इति पूर्वाधिकरणसूत्रेण गुहावच्छेद निबन्धनशङ्कायाः परिहृतत्वाच्च । आत्मानाविति प्रतिज्ञायां हिशब्दोपदितायाम्, तद्दर्शनादिति सूत्रखण्डस्य प्रतिज्ञान्तरमध्याहर्तव्यम्, गुहावच्छेदोऽपि परस्योपपन्न इति । अनध्याहारेण योजना संभवति चेत सैव वरम् । तस्मात् पञ्चम्यन्तपदोपपादितसौत्रार्थस्य परमसाध्योपपादकत्वद्योतको हिशब्दः । अतश्च औचित्यात् कृतकरत्वात् सूत्रशैल्याश्च युक्तमैकाधिकरण्यं सूत्रचतुष्टयस्य । “द्वा सुपर्णा” इति वाक्ये अत्रत्यन्यायातिदेशश्चानुपपन्नः ; ‘स्थित्यदनाभ्याञ्च’ इति सूत्रेण निरूपयिष्यमाणस्य तस्यैतन्न्यायसापेक्षत्वाभावात् । न चास्याधिकरणस्य तद्वाक्यसापेक्षत्वादिह तत्प्रस्तावः ; अस्याधिकरणस्य अत्रत्यन्यायातिदेशसापेक्षवाक्यान्तरोपपाद्यत्वे अन्योन्याश्रयप्रसङ्गात् । तस्य च वाक्यस्य बुद्धिजीवरत्वं भवदभिमतम् । तच्चेह न वक्तव्यम्; प्रकृतानुपयोगात् । ‘ऋतं पिबन्तौ’ इति वाक्यस्य जीवसद्वितीयपरमात्मविषयत्वे वाक्यान्तरस्य बुद्धिजीवपरत्वं कथमुपयुज्यते । तस्य च वाक्यस्य बुद्धिजीवविषयत्वं पूर्व निरस्तम् ; निरसिष्यते च । यतो भाष्यसंदर्शिता सरणिरेव साधीयसी ॥ ॥ इति अनधिकरणम् ॥ अन्तर उपपत्तेः ॥ अत्र सङ्गतिः पूर्वोक्तया दिशा सिद्धेति न कण्ठोका । “गूढोत्मा न प्रकाशते, “तं दुर्दर्श गूढमनुप्रविष्टम्”, “क इत्था वेद” इति च परमात्मा दुर्दर्शश्चेत्, सुदर्शतया प्रसिद्धत्वेन निर्दिष्टो न परमात्मा भवितुमर्हतीति शङ्कया सङ्गतिः । विषयादिकं दर्शयति इदमित्यादि । किमक्ष्याधारतया निर्दिश्यमानः प्रतिविम्ब-चक्षुरधिष्ठातृ-जीवानामन्यतमः, उत परमात्मेति; तदर्थ किमत्रामृतत्वादयो यथाकथञ्चिन्नेयाः, उत मुख्याः; कं ब्रह्मेति प्रकृतमेव ब्रह्मेह किमुपासनस्थानगुणविधानार्थं निर्दिश्यते, उत नेति ; किं मध्यस्थाग्मिविद्यया ब्रह्मप्रकरणं विच्छिन्नम्, उत न; किमग्निविद्या ब्रह्मविद्याङ्गम्, उतन; किमद्मिविद्याफलं ब्रह्मविद्याङ्गत्वानुगुणम्, उत न—इति विचारः । यदा अ
ननुगुणम्, तदा अमिविद्यायाः ब्रह्मविद्याङ्गत्वाभावेन ब्रह्मप्रकरणविच्छेदेन पूर्वप्रकृतब्रह्मण इह परामर्शाभावेन अमृतत्वादीनाम मुख्यतया प्रतिबिम्बादिष्वन्यतम इति फलितम् । सिद्धान्ते यदा त्वनुगुणम्, तदा अङ्गत्वेनामिविद्यायाः ब्रह्मविद्याप्रकरण विच्छेदकत्वाभावेन प्रकृतब्रह्मण इह परामर्शसंभवेन अमृतत्वादीनां च स्वतः प्राप्त मुख्यत्वसिद्धेः परमात्मेति फलितम् । अपरोक्षप्रसिद्धिः, यौक्तिकप्रसिद्धिः, 1 न जीवपरावित्युक्तावपि जीवस्य ततेष्टत्वात् परनिषेध एव पर्यवसानात् तावदेवोक्तम् । * अर्भकौकस्त्यादिति सूत्रेणैव शंकापरिहारादित्यर्थः भा० प्र०
३०८
प्रतिबिम्बात्मेति । कुतः । प्रसिद्धवन्निर्देशात् ः ‘दृश्यते’ इत्यपरोक्षाभिधानाच्च । जीवात्मा वा । तस्यापि हि चक्षुपि विशेषेण सन्निधानात् प्रसिद्दिरुपपद्यते । उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनः शरीरे स्थितिगती निश्चिन्वन्ति । ‘रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः’ इति श्रुतिप्रसिद्ध्या चक्षुःप्रतिष्ठो देवताविशेषो वा । एण्वेव प्रसिद्धवनिर्देशोपपत्तेरेषामन्यतमः — इति प्राप्ते प्रचक्षमहे-अन्तर उपपत्तेः । अक्ष्यन्तरः परमात्मा । कुतः ? “एष आत्मेति होवाचैतदमृतमेतदभयमेतद्ब्रह्मेति”, “एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति । एष उ एव वामनीः । एष हि सर्वाणि वामानि नयति । एप उ एव भामनीः । एष हि सर्वेषु लोकेषु भाति” इत्येषां गुणानां परमात्मन्येवोपपत्तेः ॥ १३ ॥ स्थानादिव्यपदेशाच्च ॥ १-१-१४ ॥ चक्षुपि स्थितिनियमनादयः परमात्मन एव, “यश्चक्षुपि तिष्ठन्’ इत्येवमादौ व्यपदिश्यन्ते । अतश्च य एषोऽक्षणि पुरुषः’ इति स एव प्रतीयते । अतः प्रसिद्धवन्निर्देशश्च परमात्मन्युपपद्यते । श्रुतिप्रसिद्धिश्चेति यथाक्रमं प्रतिविम्बजीवादित्यानामनुसंधेयाः । य एष इति पदाभ्यां प्रसिद्धवन्निर्देशः । दृश्यत इत्यपरोक्षाभिधानम् । अनेन सङ्गतिरभिप्रेता । संनिधानात् - संनिधानावगमात् । जीवस्य देहसंनिधेश्चक्षुष्यवगमादित्यर्थः । तदेव विवृणोति उन्मीलित हीति । अस्मिन् कर्मणि अस्य सामर्थ्य दृष्टमित्युक्ते यथा तत्कर्म तत्सामर्थ्य सूचकमित्युक्तं भवति - एवमक्षणि दृश्यत इत्युक्ते, देहे जीवावस्थानं चक्षुरधीन निश्वयमित्युक्तं भवतीत्यर्थः । उपक्रमानुगुणमन्यन्नेयम् । तस्मादमृतत्वसंयद्वामत्वाद्यक्तिः स्तुतिरूपा । एष आत्मेति इति इतिकरणं च अर्थातात्पर्यद्योतकम् । देवताविशेषः –आदित्यः । एष्वेवन तु परमात्मनि ॥
राद्धान्ते - एषां गुणानामिति । निरुपाधिका अमृतत्वादयो न जीवादिषु संभवन्तीत्यर्थः । एषामिति । उपक्रमस्थमेकं लिङ्गमुपरितनानेकगुणविरोधे दुर्बलम् । अत एव च नामृतत्वाद्युक्तिः स्तुतिरिति भावः । ’ इति होवाच’, ‘इत्यब्रवीत्’ इत्यादिष्वितिकरणमर्थपरमेव दृष्टमिति चानुसंधेयम् । उपपत्तेः अक्षयन्तरः परमात्मेत्यन्वयः । 1” तत् यद्यप्यस्मिन् सर्पिर्वादिकं वा सिञ्चति, वर्त्मनी होन गच्छति” इत्यर्थवादोक्तं सर्पिरुदकादिनिर्लेपत्वं हेतुं कृत्वा निर्लेपस्य परस्य निर्लेपे चक्षुषि स्थितिरुपपन्नेति वक्तुमयुक्तम्, काचादिभिः सलेपे चक्षुषि निर्दोषस्य परस्य न्थित्यनुपपत्तेश्च वक्तुं शक्यत्वात् ॥ स्थानादिव्यपदेशाच्च ॥ अनवस्थितेरिति व्यतिरेकस्य वक्ष्यमाणत्वात् ‘चक्षुषि तिष्ठन् ’ इति श्रुत्यनुरोधेन स्थानशब्दः स्थितिपरतया व्याख्यातः ; न तु प्रदेशपरतया । सौत्रस्य आदिशब्दस्यार्थमाह नियमनेति । आदिशब्दस्य नामरूपान्वयपरत्वेन व्याख्यानमयुक्तम् ; जीवात्मनि संभवतस्तस्य “परमात्मसाधकत्वाभावादिति भावः । स्थितिनियमनादय इत्यादिशब्देन धारकत्वादिरभिप्रेतः । अस्य हेतोः सिद्धान्तसाधकत्वं दर्शयति अतश्चेति । अनेन सिद्धान्तसाधकहेतुं वदता पूर्वपक्षहेतोरन्यथासिद्धिश्व फलिता; तामाह अतः प्रसिद्धवदिति । श्रुतिप्रसिद्धत्वात् प्रसिद्धवन्निर्देशः पूर्वपक्षिणोक्तः 1 उपपत्तिशब्दार्थतया परोक्तेषु भाग्यकारत्यक्तमेकम् । तत्र कारणमाह तदिति । 2 सिद्धांन्तहेतुवाचिना अनेन सौचपदेनेत्यर्थः ; फलितेत्यत्रान्वयात् । 3
ननु न परमात्मत्वसाधकतया तदुपन्यासः, किं तु आशयान्तरेणेति चेत्-एतत्खण्ड नपरि करिष्यते ।
१-२-३ अन्तराधिकरणम् तत एव ‘दृश्यते’ इति साक्षात्कारव्यपदेशोऽपि योगिभिर्द्दश्यमानत्वादुपपद्यते ॥ १४ ॥ सुखविशिष्टाभिधानादेव च ॥ १-१-१५ ॥ ३०५ इतश्चाक्ष्याधारः पुरुषोत्तमः ः “कं ब्रह्म खं ब्रह्म” इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मणः उपासनस्थान विधानार्थं संयद्वामत्वादिगुणविधानार्थ च, ‘य एषोऽक्षणि पुरुषः’ इत्यभिधानात् । एवकारो नैरपेक्ष्यं हेतोर्योतयति ॥ नन्वग्निविद्याव्यवधानात् ‘कं ब्रह्म’ इति प्रकृतं ब्रह्म नेह संनिधत्ते । तथा हि अग्नयः ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति ब्रह्मविद्यामुपदिश्य, “अथ हैनं गार्हपत्योऽनुशशास” इत्यारभ्याग्नीनामुपासनमुपदिदिशुः । न चाग्निविद्या ब्रह्मविद्याङ्गमिति शक्यं वक्तुम् ; ब्रह्मविद्याफलानन्तर्गततद्विरोधिसर्वायुःप्राप्तिसन्तत्यविच्छेदादिफलश्रवणात् ॥ उच्यते । ‘प्राणो ब्रह्म’ ‘एतदमृतमेतदभयमेतद्ब्रह्य’ इत्युभयत्र ब्रह्मसंशब्दनात्, “आचार्यस्तु ते गतिं वक्ता” इत्यग्निवचनाच्च गत्युपदेशात्पूर्व ब्रह्मविद्याया असमाप्तेः तन्मध्यगता अग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते । ‘अथ हैनं गार्हपत्योऽनुशशास’ इति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च । किञ्च ‘व्याधिभिः प्रतिपूर्णोऽस्मि’ इति ब्रह्मप्राप्तिव्यतिरिक्त नानाविधकामोपहति पूर्वकगर्भजन्मजरामरणादिभवभयोपतप्तायोपकोसलाय, “एषा सोम्य अस्मत्पक्षेऽपि संभवतीति । पूर्वपक्षहेत्वन्तरस्य चान्यथासिद्धि सूत्राभिप्रेतां दर्शयति तत एवेति । तत एव - श्रुतिप्रसिद्धेरेव । शास्त्रप्रतिपन्नं हि तत्त्वं योगिभिरुपास्यं दृश्यश्च; ‘यतददेश्यम्’ इत्युक्त्वा, ’ परिपश्यन्ति धीराः’ इत्युक्तः, ‘गूढोऽत्मा न प्रकाशते । दृश्यते त्वम्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ इत्युक्तेश्च । अतोऽर्थतः शब्दतश्च श्रुत्यन्तरप्रसिद्धेरिति भावः । 1 यादसां समुद्रादिवत् स्थानिनः परमात्मनोऽक्षिस्थानात् परिच्छिन्नत्वशङ्कान्युदासपरत्वं सूत्रस्यायुक्तम् ; अर्भकौकस्त्वादिति सूत्रेण तस्याः परिहृततया [अत्र]शङ्कानुदयात् । अतः साधकान्तरप्रदर्शन पर मिदं सूत्रम् । प्रसिद्धवन्निर्देशापरोक्षा भिधानरूपपूर्वपक्षयुक्तिद्वयं चार्थात् परिहृतम् ॥
सुखविशिष्टाभिधानादेव च ॥ सुखविशिष्टम् — सुखत्वशिष्टम् ; “कयोः” इतिवत् । तद्गुणसारत्वादिति न्यायेन धर्मभूतसुखविशिष्टमिति वा । कं ब्रह्म खं ब्रह्म ‘इत्युक्तस्य ब्रह्मणः पुनरभिधानं किमर्थमित्यत्राह उपासनस्थानेति । ‘एतदमृतमेतदभयमेतद्ब्रह्म’ इति ब्रह्मशब्देन कं ब्रह्मेत्युक्तस्य ब्रह्मणः प्रत्यभिज्ञानादित्यर्थः । एवकारप्रयोजनमाह एवेति । पूर्वसूत्रद्वयोक्तं हेतुद्रयं व्यतिरेकोक्तिसापेक्षम् ; ‘अनवस्थितेरसंभवात्’ इति हि वक्ष्यते । अयं तु हेतुर्व्यतिरेकोक्तिनिरपेक्ष इति भावः ॥ प्रकरणविच्छेदं दर्शयन् चोदयति
नन्विति । कथमनिविद्याव्यवधानमित्यत्राह तथा हीति । तर्हि अङ्गाङ्गिभावेनाविरोध इत्यत्राह न चेति । " फलवत्संनिधावफलं तदङ्गम् ” इति न्यायादिति भावः । अङ्गानामप्यङ्गिफलाविरुद्ध फलमुपपद्यत इति शङ्कापरिहारार्थं तद्विरोधीत्युक्तम् । प्रकरणाविच्छेदेन परिहरति उच्यत इति । उभयत्र उपक्रमोपसंहारयोः ब्रह्मसंशब्दनम्, अग्निविद्यायाः प्राक् ब्रह्मविद्यायाः असमाप्तिः, ब्रह्मविद्याधिकृतस्य अम्मिविद्योपदेशः, तापत्रयातुरस्य तच्छान्त्यर्थमुभयोः समुच्चित्योपदेशधेति हेतुचतुष्टयेनाङ्गाङ्गित्वमाह प्राणो ब्रहोत्यादिना । ‘अथ हैनं गार्हपत्योऽनुशशास ’ इत्यन्त्र एनमित्यन्वादेशेन ब्रह्मविद्याधिकृतत्वे तात्पर्ये सिद्धम् । शब्दतः प्रकृतस्यैव पुनः परामर्शो 1 परिच्छिनत्वशंकानिरासयुक्ति प्रदर्शनपरत्वमित्यर्थः ।
३१० श्रतमकाशिकायते श्रीमाण्ये तेऽस्मद्विद्या चात्मविद्या च” इति समुच्चित्योपदेशात् मोक्षैकफलात्मविद्याङ्गत्वमग्निविद्यायाः प्रतीयते । एवं चाङ्गत्वेऽवगते सति फलानुकीर्तनमर्थवाद इति गम्यते । न चात्र मोक्षविरोधिफलं किश्चिच्छूपते, “अपहते पापकृत्यम् । लोकी भवति । सर्वमायुरेति । ज्योकू जीवति । नास्यावरपुरुषाः क्षीयन्ते । उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिश्च’ इत्यमीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात् । अपहते पापकृत्याम् — ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति । लोकी भवति - तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति । सर्वमायुरेति - ब्रह्मोपासनसमाप्तेर्यावत् आयुरपेक्षितम्, तत् सर्वमेति । ज्योग्जीवति - व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्ति जीवति । नास्यावरपुरुषाः क्षीयन्ते - अस्य शिष्यप्रशिष्यादयः, पुत्रपौत्रादयोऽपि ब्रह्मविद एव भवन्ति । ‘नास्याब्रह्मवित् कुले भवति’ इति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते । उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुमिश्च -वयम् अग्नयस्तमेनमुपभुञ्जमः -यावद्ब्रह्मप्राप्ति विघ्नेभ्यः परिपालयाम इति । अतोऽग्निविद्यायाः ब्रह्मविद्याङ्गत्वेन तत्सन्निधानाविरोधात् सुखविशिष्टं प्रकृतमेव ब्रह्म उपासनस्थानविधानार्थ गुणविधानार्थ चोच्यते ॥ प्रायः-
ननु ‘आचार्यस्तु ते गतिं वक्ता’ इति गतिमात्रपरिशेषणादाचार्येण गतिरेवोपदेश्येति गम्यते, तत् कथं स्थानगुणविध्यर्थतोच्यते ॥ तदभिधीयते । ‘आचार्यस्तु ते गतिं वक्ता’ इत्यस्यायमभिः -ब्रह्मविद्यामनुपदिश्य प्रोपुषि गुरौ तदलाभादनाश्वांस ‘मुपकोसलमुज्जीवयितुं स्वपरिचरणप्रीता गाईपत्यादयो गुरोरग्नयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्यामुपदिश्य, “आचार्याद्वैव विद्या विदिता साधिष्ठं प्रापत्’ इति श्रुत्यर्थमालोच्य साधुतमत्व प्राप्त्यर्थमाचार्य एवास्य धन्वादेशः ; न तु यथाकथञ्चित् बुद्धिस्थमात्रपरामर्शः । अत एनमिति निर्देशः श्रुतब्रह्मविद्यस्यैवामिविद्याधिकारित्वज्ञापकः । समुच्चित्योपदेशादिति । समुच्चयशब्द उपदेष्टव्यत्वविशेषविवक्षया समसमुच्चयपरः । यद्वा संबन्धमात्रपरः । स चाङ्गाङ्गिभावे पर्यवस्यति । फलविरोधमभ्युपगम्य परिहरति एवश्चेति । " द्रव्यसंस्कारकर्मसु ‘परार्थत्वात्फलश्रुतिरर्थवादः स्यात्” इति हि कर्ममीमांसासूत्रम् । अथ फलविरोध एव नास्तीत्याह न चेत्यादिना । ज्योकू – उज्ज्वलः । अनेन व्याध्याद्यनुपहतत्वं फलितम् । तदाह व्याध्यादिभिरिति । कुले ब्रह्मविदुत्पत्तेर्ब्रह्मविद्यानुगुणफलत्वं दर्शयति नास्येति । भुलाम इति । ‘भुज पालनाभ्यवहारयोः’ इति धातोः ‘भुजोऽनवने’ इति ह्यात्मनेपदम् । अतः परस्मैपदित्वादयं धातुः अवनार्थ इत्यर्थः परिपालयाम इति । श्रुतौ उपशब्दार्थः परिणोपसर्गेण सूचितः । विनिवारणपर्यन्तः किञ्चित्कारो ब्रह्मविद्यां प्रति अग्निविद्याया अङ्गत्वनिर्वाहक इत्यभिप्रायः । 2 उक्तहेतुभिरेक प्रकरणत्वे स्थितेऽपि ब्रह्मणः पुर्नरवक्तव्यत्वमुखेन चोदयति
नन्विति । स्थानगुणयोविधेयत्वे सति हि तदर्थे पुनर्ब्रह्मणोऽभिधानम् । तत्तु नास्ति ; पूर्वं तयोराचार्येण वक्ष्यमाणत्वाकथनात् । व्यतः खानादिपरवाक्यं न परमात्मविषयमित्यन्यपरमिदं वाक्यमित्यर्थः । परिहरति तदभिधीयत इत्यादिना । परिपूर्णोपदेशो ऽनुपदेशो वा स्यात्, कथं विकलोपदेश इत्याशङ्कां च परिहरन्ं स्थानविश्वतामुपपादयति आचार्यस्त्वित्यादिना । साधिष्ठशब्दः साधुतमत्वे शब्देन व्याख्यातः । 1 ‘उपविधाननाश्वान् इति नञपूर्वादनातेः रूपम् अनाश्वानिति । अनाश्वांसम्अनुवन्तम् । भा० प्र० । ‘सानशितुं बधे’ इति श्रुतिः । मुञ्जाम इतीत्यस्य परस्मैपदित्वादिस्वलान्वयः । इत्यर्थ इत्यत्र उच्यते इति शेषः । अथमार्थ इति हेतोः परिपालयामीत्यर्थ उक्त इति ।
१-२-३ अतराधिकरणम् ३११ संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानमर्चिरादिकां च गतिमुपदिशत्विति मत्वा, ‘आचार्यस्तु ते गतिं वक्ता’ इत्यवोचन् । गतिग्रहणमुपदेश्य विद्याशेषप्रदर्शनार्थम् । अत एवाचार्योऽपि ‘अहं तु ते तद्रक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पायं कर्म न श्लेिष्यते” इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्टं ब्रह्म अक्षिस्थानोपास्यम् अर्चिरादिकाञ्च गतिमुपदिदेश । अतः ‘कं ब्रह्म खं ब्रह्म’ इति सुखविशिष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानादयमक्ष्याधारः परमात्मा ॥ १५ ॥
ननु च ‘कं ब्रह्म खं ब्रह्म’ इति परं ब्रह्माभिहितमिति कथमवगम्यते ; यस्येहाक्ष्याधारतया - ऽभिधानं ब्रूषे । यावता ‘कं ब्रह्म खं ब्रह्म’ इति प्रसिद्धाकाशलौकिक सुखयोरेव ब्रह्मदृष्टिर्विधीयत इति प्रतिभाति “नाम ब्रह्म’ ‘मनो ब्रह्म’, इत्यादिवचनसारूप्यात् ॥ तत्राह- अत एव च स ब्रह्म ॥ १-१-१६ ॥ यतस्तत्र “यदेव कं तदेव खम्” इति सुखविशिष्टस्याकाशस्याभिधानम्–अत एव खशब्दाभिधेयः सः -आकाशः परं ब्रह्म । एतदुक्तं भवति–अग्निभिः ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इत्युक्ते उपकोसल उवाच - विजानाम्यहं यत् प्राणो ब्रह्म ; कं च तु खं च न विजानामि” इति ॥ साधिष्ठमिति भावप्रधानो निर्देश इत्यर्थः । गतिग्रहणमिति । उपदेश्यविद्याशेषमाचार्यो वक्तेति, ‘आचार्यस्तु ते गतिं वक्ता’ इति वदतामभिप्राय इत्यर्थः । तदेवोपपादयति अत एवेति । सूत्रार्थं निगमयति अत इति । अतः - उपकोसलविषादपरिहारस्यापेक्षितत्वात् गुरुमुखाच्छ्रवणेन साधुतमत्वाय अपुष्कलमुपदिष्टत्वाच्च गतिग्रहणस्य प्रदर्शनार्थत्वादित्यर्थः ॥ उत्तरसूत्रशङ्कामाह
ननु चेति । यावता - प्रत्युत । वचनसारूप्यादिति । " नाम ब्रह्म”, “मनो ब्रह्म” इत्यादिवत् दृष्टिविशेषणस्य ब्रह्मणः पश्चादुपादानं विशेष्यस्य प्रथमोपादानं च सारूप्यमभिप्रेतम् । ‘प्राणञ्च हास्मै तदाकाशञ्चोचुः’ इति प्राणाकाशशब्दाभ्यां निगमितम्, न तु ब्रह्मशब्देन; ततोऽपि दृष्टिविधिरिति भावः । तस्याप्युत्तरत्र परिहरिष्यमाणत्वात् । - अत एव च स ब्रह्म ॥ अत्र एवेत्येतद्याचष्टे यतस्तत्रेति । निगमनवाक्यस्थ पुंल्लिङ्गाकाशशब्दकटाक्षेण सूत्रे स इति निर्देशः । अतश्शब्दः सुखविशिष्टाभिधानपरः ।
ननु अतश्शब्दः प्रकृतवाची ‘प्राणो ब्रह्म कं ब्रह्म’ इति वाक्योदितस्य सुखविशिष्टस्य ब्रह्मणः स्थानगुणविध्यर्थमभिधानं हि प्रकृतं पूर्वसूत्रे, तदेव सुखविशिष्टाभिधानमत्र अत इति परामृश्यते । तत् कथं ‘यदेव खं तदेव कम्’ इति सुखविशिष्टाभिधानमतशब्दार्थतयोच्यते ! ॥ उच्यते । सामान्येन सुखविशिष्टाभिधानं हेतुतया अतश्शब्देन परामृश्यते । तत्र सुखविशिष्टाभिधानव्यक्तिविशेषौ वाक्यद्वयस्थात्रिह सूत्रद्वयेऽप्यर्थवशात् हेतुभूतौ यथा “नात्मा श्रुतेः” “ज्ञोऽत एव” इत्यत्र श्रुतिमात्रस्यात शब्द परामृष्टत्वेऽप्यर्थ सामर्थ्याच्छ्रतिव्यक्तिविशेषसिद्धिः, तद्वदिहापीति । भाष्ये यदेव कं तदेव स्वमिति न वाक्योपादानम् अपि स्वर्थोपादानम्; ‘यद्वा व कं तदेव स्वम्’ इति हि वाक्यम् । यदेव कं तदेव खमित्यत्राप्यन्योन्यदृष्टिविधिरेवास्तु, नान्योन्यव्यवच्छेदकत्वम् ; व्यवच्छेदकत्वे वा कथं खशब्दाभिधेयस्याकाशस्य परब्रह्मत्वमिति शङ्काद्वयं हृदि निधायाह एतदुक्तमिति । अग्निभिरित्यादि । दृष्टिविधित्वे ‘प्राणो ब्रह्म’ इत्यस्य ज्ञातत्वं ‘कं च तु खं च’ इत्यस्याज्ञातत्वं च नोपपद्यते, दृष्टिविधित्वेन
६१६ श्रुतप्रकाशिकोपेते श्रीमाये अध्यायमभिप्रायः - न तावत् प्राणादिप्रतीकोपासनमग्निभिरभिहितम्, जन्मजरामरणादिशवभयभीतस्य मुमुक्षोर्ब्रह्मोपदेशाय प्रवृत्तत्वात् । अतो ब्रह्मैवोपास्यमुपदिष्टम् । तत्र प्रसिद्धैः प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम् । तेषु च प्राणविशिष्टत्वं जगद्विधरणयोगेन वा प्राणशरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति ‘विजानाम्यहं यत्पाणो ब्रह्म’ इत्युक्तवान् । तथा मुखाकाशयोरपि ब्रह्मणः शरीरतया तनियाम्यत्वेन विशेषणत्वम्, उतान्योन्यव्यवच्छेदकतया निरतिशयानन्दरूप ब्रह्मस्वरूप समर्पणपरत्वेन वा ? । तत्र पृथग्भूतयोः शरीरतथा विशेषणत्ये वैषयिकसु - खभूताकाशयोर्नियामकत्वं ब्रह्मणः स्यादिति स्वरूपावगतिर्न स्यात् । अन्योन्यव्यवच्छेदकत्वे अपरिच्छिन्नानन्दैकस्वरूपत्वं ब्रह्मणः स्यादित्यन्यतरप्रकार निर्दिधारयिष्या “कं च तु खं च न विजानामि” इत्युक्तवान् । उपकोसलस्येममाशयं जानन्तोऽग्नयः “यद्वा व कं तदेव खं यदेव खं तदेव कम्” इत्युचिरे । ब्रह्मणस्सुखरूपत्वमेवापरिच्छिन्नमित्यर्थः । अतः प्राणशरीरतया प्राणविशिष्टं यद्ब्रह्म तदेवापरिच्छिन्न सुखरूपं चेति निगमितम्, “प्राणश्च हास्मै तदाकाशं सर्वस्य ज्ञातत्वादिति भावः । प्राणो ब्रह्मेत्यस्य ज्ञातत्वे अन्यस्याज्ञातत्वे च किं वैषम्यम्, आकाशस्य सुखविशिष्टत्वं च कथमित्यपेक्षायां विजानाम्यहमिति वावयस्याभिप्रायं विवृणोति अस्वायमिति । नतावदित्यादि । मुमुक्षोरुपदिष्टत्वात् प्रतीकोपासनव्युदासः । मुमुक्षोः प्रतीकोपासनं न कर्तव्यमिति ज्ञानं पूर्वमेव संभवति । यथा मुमुक्षूपास्यं ब्रह्मेति ज्ञानं संभवति, तद्वत् । शरीरवाचिशब्दस्य शरीरिपर्यन्ताभिघायित्वं च देवमनुष्यादिशब्देषु व्युत्पन्नमेव । तथेत्यादि । शरीरं च नियाम्यमिति लोकसिद्धत्वात् ज्ञातमेव । ‘यदेष आकाश आनन्दः’ इत्यादिश्रुतिषु ब्रह्मशब्देन विनाऽप्याकाशशब्दस्यानन्द विशेषणत्वेन प्रयोगदर्शनात् तस्य च महत्त्वोपस्थापनेनैवानन्द विशेषणत्वोपपत्तेर्ब्रह्मणोऽपरिच्छिन्नसुखरूपत्वप्रतीतिसंभवादेवं विचार उपपद्यत इति भावः । उपकोसलस्येत्यादि । ‘यद्वा व कं तदेव खं यदेव खं तदेव कम्’ इत्यत्र न दृष्टिविधित्वं शङ्कनीयम्, तथा सति ‘कं च तु खं च न विजानामि’ इत्यस्योत्तरत्वायोगात् ; 1 न ह्यर्थान्तरदृष्टिविध्यज्ञानस्य दृष्टिविध्यन्तरमुत्तरं भवतीत्यभिप्रायः । एवं ‘कं च तु खं च न विजानामि’ इत्यज्ञानवचनात् मुमुक्षोरुपदिष्टत्वात् अर्थान्तराज्ञानं प्रति दृष्टिविध्यन्तरस्योत्तरत्वायोगाच ‘यद्वा व कम्’ इत्यादिवाक्यस्य दृष्टिविधिपरत्वानुपपत्तेरन्योन्यव्यवच्छेद परत्वं स्थितम् । ‘अस्मद्विद्या चात्मविद्या च’ इति अमीनां वचने पूर्वप्रकृतविद्यायाः आत्मविद्यात्वावगमाच्च ब्रह्मणो दृष्टिविशेषणत्वशङ्का निरस्ता । तथा सति अस्य वावयस्यार्थमाह ब्रह्मण इति । निगमनवाक्यस्यार्थमाह अत इति । उक्तहेतुभिर्दृष्टिविधित्वायोगात् ‘यद्वा व कम्’ इत्यादिवावये कंखमिति शब्दयोरन्योन्यव्यवच्छेद कत्वेनापरिच्छन्न सुखरूप ब्रह्मपरत्वादुपसंहारस्योपक्रमानुगुण्यस्य न्याय्यत्वात् प्राणं चेत्युपसंहारवाक्यमुक्तार्थपरमित्यर्थः । प्राणं चेति, प्राणो ब्रह्मेत्युक्तार्थस्य निगमनम्। तदाकाशं चेति यद्वाव कमित्यादिवाक्यार्थनिगमनम् । तदाकाशमित्यत्र । 1
ननु न विजानामीत्यनेन दृष्टिविध्यतिरिक्तार्थजिज्ञासैव दर्शितेति न वाच्यम्; दृष्टिविधिर्वा अर्थान्तरंवेति तदज्ञानमाविष्कृतम् । तत्र दृष्टिविधिरित्युत्तरमस्त्विति शंकायामुपपादयति नहीति । खं ब्रह्मकं ब्रह्मेति प्रयोगात् अर्थान्तरं वा ब्रह्मदृष्टिर्वत्यन्यतराज्ञानमेव वक्तव्यम् । तत्र तदन्यतरद्विहाय, के खदृष्टिः खे कदृष्टिरिति दृष्टिविध्यन्तरकथनमुत्तरं न भवतीत्यर्थः-वस्तुतो दृष्टिविधेः तेन दूरीकृतत्वात् अर्थान्तराज्ञानमेव वक्तव्यमिति मत्वा उपरि तावदेव वक्ष्यति ।
३१३ चोचुः” इति । अतः ‘कं ब्रह्म खं ब्रह्म’ इत्यत्रापरिच्छिन्नमुखं (खरूपं ) ब्रह्म प्रतिपादितमिति परं ब्रह्मैव तत्र प्रकृतम् । तदेव चात्त्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधारः परमात्मा ॥ १६ ॥ श्रुतोपनिपत्कगत्यभिधानाच्च ॥ १-२-१७ ॥ श्रुतोपनिषत्कस्य - अधिगतपरमपुरुषयाथात्स्यस्य अनुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना. अर्चिरादिका गतिर्या, तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरी मुपको सलायाक्षिपुरुषं श्रुतवते, “तेऽर्चिषमेवाभिसंभवन्ति ; अर्चिषोऽहः, अह्न आपूर्यमाणपक्षम्” इत्यारभ्य, ‘चन्द्रमसो विद्युतम् ; तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति । एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमाना इर्म मानवमावर्त नावर्तन्ते” इत्यन्तेनोपदिशति । अतोऽप्ययमक्षिपुरुषः परमात्मा ॥ १७ ॥ प्रकृतपरामर्शिना तच्छब्देन सुखरूपत्वमभिप्रेतम् ॥ कवयोरन्योन्यव्यवच्छेद्यव्यवच्छेदकत्वे विशेषणयोरन्योन्यविशेषणविशेष्यभावप्रसङ्ग इति चेत् — ततः किम् ; नीलोत्पलादौ नीलत्वोत्पलत्वादिधर्माणामन्योन्यविशेषणविशेष्यभावस्याप्रामाणिकत्वात् तत्रानिष्टत्वम् ; अत्र तु 1 प्रामाणिकत्वान्नानिष्टत्वमिति भावः । कं ब्रह्म खं ब्रह्मेति वाक्यप्रतिपाद्यं न सुखविशिष्टं ब्रह्मेति शङ्कापरिहारार्थ हि अत एव च स ब्रह्मेति सूत्रस्योत्थानम् ; तस्याः शङ्काया अनेन परिहृतत्वं दर्शयति अतः कं ब्रह्मेति । यद्वा व कमित्यादिवाक्यस्यापरिच्छिन्नसुखरूप ब्रह्मपरत्वात् निगमनवाक्यस्यापि तदनुगुणार्थत्वात् कं त्रम खं ब्रह्मेति वाक्ये परं ब्रह्मैव प्रकृतमित्यर्थः । ततः किमक्षिपुरुषस्य परमात्मत्वे इति शङ्कायां सूत्रार्थस्याधिकरणार्थोपपादकत्वं दर्शयति तदेव चेति । अन्यथा वाक्यभेदश्च प्रसजेत् ; संभवत्येकवाक्यत्वे वाक्यभेदोऽनुपपन्न इति भावः । इतीति । कं ब्रह्मेति प्रकृतस्यैवाक्ष्याधारत्वप्रतिपादनात् अक्षिपुरुषः परमात्मेत्यर्थः ॥ 1 श्रुतोपनिपत्कगत्यभिधानाच्च ॥ श्रुतोपनिपत्कस्येति व्याख्येयं पदम् । समस्तमपि व्याख्यानार्थं व्यस्य निर्दिष्टम्। उपनिषत्सु प्रतीकोपासनानामर्चिरादिगतिरहितानामपि विद्यमानत्वात् तद्व्यावृत्त्यर्थं व्याचष्टे अधिगतेति । परमपुरुषशब्देन “तं त्वौपनिषदं पुरुषम्” इति श्रुतिः स्मारिता । उपासनफलम् अर्चिरादिगतिः; न तु श्रवणफलम् ; तत् कथं श्रुतोपनिषत्कगतीत्युक्तमित्यत्राह अनुसन्धेयतयेति । तर्हि श्रुतब्रह्मण इति वक्तव्ये किमिति साधारणाधिकाक्षरथुतोपनिषत्कपदोपादानमित्यत्राह श्रत्यन्तरप्रतिपाद्यमानेति । छान्दोग्य एव प्रदेशान्तरे, “तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति” इत्यादिः, वाजसनेयके, “य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यपासते, तेऽर्चिरभिसंभवन्ति” इत्यादिः, कौषीतकिनां पर्यङ्कविद्यायां “सोऽग्निलोकमागच्छति” इत्यादिः । ताभिः प्रतिपाद्यमानेत्यर्थः । गतिचिन्तनस्य ब्रह्मविद्याङ्गत्वज्ञापकश्रत्यन्तरज्ञापनार्थं श्रतोपनिषत्कव्यपदेशः इत्यभिप्रायः । अक्षिपुरुषस्याब्रह्मत्वे तत्कतुनयविरोध इत्यभिप्रायेणाह अपुनरावृत्तीति । अर्चिषमेवेत्यतः पूर्वम्, “अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदु च न” इति वाक्यम् । तत्रास्मिन्नित्येकवचनं जात्यभिप्रायम्, तेऽर्चिषमिति बहुवचनानुरोधात् । पञ्चाग्निविद्योक्ता गतिरिहानूदिता अपुनरावृत्तिविधानार्थम् ॥ 1 कपदस्य सुखमात्त्रार्थकत्वे उत्पलचत् तस्य विशेष्यत्वमेव स्यात् । सुखविशिष्टार्थकत्वात् विनिगमकाभावात् यथेच्छं विशेष्यविशेषणभाव इति भावः । 2 श्रुतोपनिषत्केति सौत्रपदस्य, थुत्यन्तरअपुनरावृत्ति या तमिति भाष्यपदानाञ्च भावं विशदयितुमाह पञ्चाग्नीति । 240
३१४
अनवस्थितेरसंभवाच्च नेतरः ॥ १-२-१८ ॥ प्रतिबिम्वादीनामक्षणि नियमेनानवस्थानात् अमृतत्वादीनां च निरुपाधिकानां तेष्वसंभवात् न परमात्मन इतरः, छायादिरक्षिपुरुषो भवितुमर्हति । प्रतिविम्बस्य तावत् पुरुषान्तरसंनिधानायत्तत्वान्न नियमेनावस्थान संभवः । जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रिय कन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम् । देवतायाश्च, “रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः” इति रश्मिद्वारेणावस्थानवचनात् देशान्तरावस्थितस्यापीन्द्रियाधिष्ठानोपपत्तेर्न चक्षुष्यवस्थानम् । अनवस्थितेरसम्भवाच्च नेतरः ॥ अनवस्थितेरिति पदं व्याचष्टे प्रतिविम्वादीनामिति । असंभवादिति पदं व्याचष्टे अमृतत्वादीनामिति । असंभवादित्यनेन अन्तर उपपत्तेरिति सूत्रार्थस्य व्यतिरेक उक्तः । अनवस्थितेरित्यनेन स्थानादिव्यपदेशाच्चेति सूत्रार्थस्य व्यतिरेको दर्शितः । इतर सूत्रोक्तहेतूनां व्यतिरेकोपपादनानपेक्षत्वात्, व्यतिरेकश्वार्थसिद्ध इति वा व्यतिरेको न प्रदर्शितः । अनवस्थानासंभवौ प्रतिविम्बादिषु दर्शयति प्रतिविम्बस्येत्यादिना । सर्वेन्द्रियकन्दभृते स्थानविशेष इति । हृदीत्यर्थः । " शतञ्चैका च हृदयस्य नाड्यः “, ‘संततं सिराभिः’ इत्युक्तप्रकारेण हृदयसंबद्धनाडीसंबद्धानीन्द्रियाणीत्यर्थः । एवंविधे हृदि जीवस्यावस्थानं “हृदि ह्ययमात्मा” इति श्रुतेरवगम्यते ॥
ननु “नेत्रस्थं जाग्रतं विद्यात् कण्ठे स्वप्नं विनिर्दिशेत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्धनि स्थितम् " इति श्रुत्या जीवस्य जागरावस्थायां नेत्रे स्थितिरुच्यते । न चेयं श्रुतिः परमात्मविषया; तस्य नामत्खप्नसुषुप्त्यसंभवात् ॥ उच्यते । नेत्रशब्दः सर्वेन्द्रियप्रदर्शनार्थः, जाग्रतमित्युक्तत्वात् । तदानीं सर्वेन्द्रियव्यापारदर्शनात् । अणुपरिमाणस्य जीवस्य नेत्रमात्रवर्तित्वे सति शब्दादिज्ञानानुपपत्तेः । तत्र च स्थितत्वं नाम अधिष्ठातृत्वमात्रमुपसङ्ग्राह्यम्; अधिष्ठानस्यापि स्थाधात्वन्तर्भूतत्वात् । अणोस्तस्य युगपदेव ततदिन्द्रियाधिष्ठानानुपपत्तौ पश्यतः शृण्वतो वा गमनादानोचितपादपाण्याद्यधिष्ठानानुपपत्त्या सर्वेन्द्रियकन्दभूते हृदि स्थितस्य धर्मभूतज्ञानप्रसरणद्वारेणाधिष्ठातृत्वमिति, ‘नेत्रस्थं जामतं विद्यात्’ इति श्रुतेरर्थ इत्यभिप्रायेण सर्वेन्द्रियकन्दभृत इत्युक्तम् । कण्ठे खममिति कण्ठशब्दश्च कण्ठसमीपवर्तिनाडीविशेषपरः; “आसु तदा नाडीषु सृप्तो भवति” इति नाडीनां स्वमस्थानत्व श्रुत्यविरोधात् । इयञ्च श्रुतिः स्वमविषया; ‘यदा सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति” इत्यनन्तरवाक्यस्य सुषुप्तिस्थानपरत्वात् । हृदयस्थमिति हृदयशब्दो ‘हृद्गतपरमात्मपरः; ‘सता सोम्य तदा सम्पन्नो भवति’ इति परमात्मनः सुषुप्तिस्थानत्वावगमात् । तत्र च सच्छब्दो हृदयस्थ परमात्मपरः, “आभिः प्रत्यवसृप्य पुरीतति शेते” इति सुषुप्तौ हृदयागमश्रवणात् । तुरीयशब्दः उत्क्रान्त्यवस्थजीवपरः ; “तासां मूर्द्धानमभिनिस्सृतैका । तयोर्ध्वमायन्’ इति चरमशरीरोत्कान्तावेव मूर्द्धसंबन्धश्रवणात्, अवस्थान्तरे तच्छ्रवणाभावाच । अतो जीवस्य चक्षुष्यनवस्थितिरुपपद्यते । रश्मिद्वारेणेति । खट्टादिद्वारकप्रासादशयनगत् रश्मिद्वारकं चक्षुष्यवस्थानमित्यर्थः । चक्षुष्यवस्थानं नाम चक्षुस्संबन्धित्वम् । यद्वा यथा विद्यानिष्ठ इत्युक्ते तद्वशीकार उक्तः स्यात्, तथा चक्षुष्यवस्थानमपि 1 हृत् अयते आनोतीति हृदयं ब्रह्म । ‘तस्यैतदेव निरुक्तं हृद्ययमिति । तस्मात् हृदयम्’ इति छा. 8. 8.
१-२-३ अन्तराधिकरणम् सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न संभवन्त्येव । तस्मादक्षिपुरुषः परमात्मा ॥ ॥ इति अम्तराधिकरणम् ॥ ३१५ तद्वशीकरणम् ; तन्नियमनम् । तच्च सद्वारकम् । अतो नावस्थितिरित्यर्थः । असंभवमाह सर्वेषामिति । जीवानां परमात्मोपासनेनाभयत्वामृतत्वादयो भवन्तीति तद्व्यावृत्त्यर्थं निरुपाधिका इत्युक्तम् । अधिकरणार्थं निगमयति तस्मादिति । अन्तर इति सूत्रे स्ववाक्यस्थहेतुरुक्तः । श्रत्यन्तरप्रदर्शनमुखेन स्ववाक्यस्थशङ्कापरिहारपरं द्वितीयसूत्रम् । स्ववावयस्थशंकायां परिहृतायाम्, प्राकरणिकपूर्ववाक्येन परमात्मपरत्वोपपादकं तृतीयम् । पूर्ववाक्यस्य ब्रह्मपरत्वोपपादकं चतुर्थम् । ततः पाश्चात्यवाक्येन साध्योपपादकं पञ्चमम् । षष्ठं तु साध्यद्रढिम्ने पूर्वसूत्रद्वयोक्त हेतु व्यतिरेक प्रदर्शक मिति सूत्रसङ्गतिः ॥
यादवप्रकाशीये तु - अन्तर उपपत्तेरित्यादिसूत्रत्रयं छायापुरुषव्युदासपरं योजितम् । ततोऽपि प्रतिबिम्बस्य जीवस्य च व्युदासपरत्वं युक्तम्, अमृतत्वाभयत्वादीनां सर्वव्यावर्तनक्षमत्वात् ; तथाऽभ्युपगतत्वाच्च । ‘अत एव च स ब्रह्म’ इति सूत्रस्य च वैयर्थ्यं प्रसजेत् । अत एव - छायानिराकरणहेतुभिरेव जीवोऽपि न भवतीति हि योजितम् । पूर्वोक्तहेतवो जीवव्यावर्तनसमर्थाः, न वा । न चेत्—तैरेवाक्षिपुरुषस्य परमात्मत्वसाधनमनुपपन्नम् । तद्वदयाससमर्थाश्चेत् — तद्धेतूपादानादेव जीवव्यावृत्तिः सिध्यतीति तदनुवादेन परमात्मत्वसाधनाय सूत्रान्तरप्रणयनवैयर्थ्यमेव स्यात् । प्राणो ब्रह्मेत्यादिवाक्यस्य दृष्टिविधिपरत्वव्युदासेन सुखविशिष्टब्रह्मपरत्वसमर्थनं चापेक्षितम् । अपेक्षितविधेरनपेक्षितविधानं च दुर्बलम् । किञ्च यथा ईक्षत्यधिकरणादिषु नाशब्दमिति, आनन्दमयः इति, अन्तरिति च परमात्मत्वं साध्यं प्रतिज्ञायते - तथा तच्छेषभूतव्यतिरेकप्रतिज्ञानं क्वचित् क्रियते, यथा नानुमानमिति । अवान्तरशङ्काविशेषपरिहारः क्वचित् प्रतिज्ञायते, यथा विकारशब्दान्नेति चेन्न इति । अतोऽस्मिञ्चाधिकरणे ‘अन्तर उपपत्तेः’ इति सूत्र एव परमात्मत्वसाध्यप्रतिज्ञा । यथा ‘अन्तस्तद्धर्मोपदेशात्’, ‘आकाशस्तल्लिङ्गात्’, ‘प्राणस्तथानुगमात्’ इत्यादिषु आदित्यान्तर्वर्त्यक (शप्राणादीनुद्दिश्य परमात्मत्वं प्रतिज्ञातम् एवमन्तरशब्दनिर्दिष्टमुद्दिश्य परमात्मत्वं प्रतिज्ञातमिति हि खरसतः प्रतीयते । अतो ब्रह्मणः प्रतिपाद्यत्वं न पुनः प्रतिज्ञातव्यम् । इह च परमात्मत्वसाध्योपपादकतयोदाहृतस्य पूर्ववाक्यस्य परमात्मपरत्वशैथिल्ये शङ्किते तत्परिहाराय पूर्ववाक्यप्रतिपाद्यस्य परत्वं प्रतिज्ञायते चेत् — युज्यते ; प्रयोजनवत्त्वात् । तदभावात् पुनः प्रतिज्ञानं तन्मते विफलम् ॥ ‘अन्तरं ’ इत्यात्ममात्रं प्रतिज्ञातम् ; न परमात्मेति चेत्-तत् सूत्रशैलीविरुद्धत्वात् अमृतत्वादिधर्माणां जीवव्यावर्तनक्षमत्वाच्चानुपपन्नम् ॥ सुखविशिष्टस्येह प्रत्यभिज्ञानानुपपत्तिपरिहारपरम् अत एव चेति सूत्रमिति चेन्न; ‘सुखविशिष्टाभिधानादेव च’ इति सूत्रेणैव पूर्वत्र अत्र च ब्रह्मसंशब्दनादीनां तत्प्रत्यभिज्ञोपपत्तीनां विवक्षितत्वात् । न हि न्याय निबन्धनात्मकं सूत्रं प्रतिज्ञामात्रपरम् । छायापुरुषनिराकरणहेतुतयोक्तानाममृतत्वाभयत्वादीनामक्षिपुरुषे सुखविशिष्टब्रह्मप्रस्यभिज्ञोपपादकत्वायोगात् प्रत्यभिज्ञानुपपत्तिपरिहारपरत्वमयुक्तम् । प्रत्यभिज्ञोपपादनप्रकारश्चानुपपन्नः । पूर्ववाक्ये “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति प्राणस्य सुखविशिष्टाकाशस्य चोक्तत्वात् श्रुत्यन्तरे दक्षिणवामयोरक्ष्णोरिन्द्रशब्दवाच्यस्य प्राणस्व 1 एवश्चेदं सूत्रं यादवप्रकाशमतेऽप्यस्तीति ज्ञायते । शांकरे न । भास्करीये तु सितासितमुकम् ।
.३१६
अन्तर्याम्यधिकरणम् १-२-४ ‘स्थानादिव्यपदेशाच्च’ इत्यत्र ‘यश्चक्षुपि तिष्ठन्’ इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति सिद्धं कृत्वा अक्षिपुरुषस्य परमात्मत्वं साधितम् । इदानीं तदेव समर्थयते- अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ १-२-१९ ॥ काण्वा माध्यन्दिनाश्च वाजसनेयिनः समामनन्ति ; “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः” इति । एवमन्यन्तरिक्षवायुद्ध - आदित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु देवेषु च सर्वेषु भूतेषु च, प्राणवाक्चक्षुःयोत्रमनस्त्वग्विज्ञान रेतस्सु आत्मात्मीयेषु च तिष्ठन्तं तत्तदन्तरभूतं तत्तदवेद्यं तत्तच्छरीरकं तत्तत् यमयन्तं कञ्चिन्निर्दिश्य " एप त आत्माऽन्तर्याम्यमृतः” इत्युपदिश्यते । माध्यन्दिनपाठे तु “यः सर्वेषु लोकेषु तिष्ठन्’, ‘यः सर्वेषु वेदेषु’, ‘यः सर्वेषु यज्ञेषु’ इति च पर्यायाः, ‘यो विज्ञाने तिष्ठन्’ इत्यस्य पर्यायस्य स्थाने, ‘य आत्मनि तिष्ठन्’ इति पर्यायः । ‘स त तत्पत्न्याश्च स्थित्यवगमात् वाक्च्छक्तिरूपपरमाकाशपत्नीकः प्राणोऽयनक्षिपुरुषः पूर्ववाक्योक्तः प्रत्यभिज्ञायत इति युक्तम्, “वाङ्मयाज्जातस्य प्राणस्य वाङ्मयपत्नीकत्वायोगात् " इति श्रुतिव्याकोपस्य ज्योतिरधिकरणे दर्शिततया अस्यार्थस्यानुपपन्नत्वं स्फुटम् । किञ्च इयं तावत् सूत्रकारशैली - यत् सर्वेष्वधिकरणेषु एकस्मिन्नेव सूत्रे परमसाध्योऽर्थः प्रतिज्ञायते । स्थानादिव्यपदेशाच्चेतीदमपि य एषोऽन्तरक्षण पुरुषो दृश्यते’ इति श्रुतौ चक्षुप्यवस्थानपरिदृश्यमानत्वव्यपदेशात् परमात्मत्वसाधकमिति व्याख्यातम् । ततोऽप्यन्तर्यामित्राह्मणविषयतया व्याख्यानं युक्तम् । उपजीवकवाक्यादप्युपजीव्यवाक्यप्राबल्यात् । ‘य एषोऽन्तरक्षणि’ इति वाक्यं ह्यन्तरादित्यविद्यातुल्ययोगक्षेमम् । तत्र च देहविशेषयोगाधीनजीवत्वशङ्का निरस्ता । अतः (अथ?) तत्रापि प्रसिद्धवन्निर्देश - दृश्यत्वव्यपदेशाभ्यां जीवविषयत्वे शङ्किते अन्तर्यामित्राह्मणादिकमेव शरणम् । अत एव ह्यादित्यान्तर्वर्तिनो नीवादन्यत्वसिद्ध्ये भेदव्यपदेशाच्चान्यः इति सूत्रं तद्विषयं प्रणीतम् । तत्र च नियन्तृत्वादिभिः परमात्मत्वं स्फुटम् । अतः उपजीव्यवाक्यविषयतया व्याख्यानं युक्तम् । अनन्तराधिकरणे अन्तर्यामिणः परमात्मत्वसाधनं चास्य सूत्रस्य अन्तर्यामिब्राह्मणविषयतां द्योतयति । प्रयुक्तेऽर्थे अतिविशङ्कापरिहारो हि यौक्तिकशैली । न च वाच्यम् — त्वदुदाहृतवाक्यमप्युपपाद्यत्वात् दुर्बलमिति । तस्य वाक्यान्तरोपजीवकत्वाभावात् । तत् खल्वनुग्राहकन्यायमात्रापेक्षम् । अतो न्यायानुगृहीतवाक्यान्तरसापेक्षवाक्यविषयत्वात् वाक्यान्तरनिरपेक्षवाक्यविषयत्वं वरम् । श्रतोपनिपत्कगत्यभिधानाचेत्यत्राक्षिपुरुषविद्यायाः / गतिचिन्तनानुवादेन तदङ्गत्वमुच्यत इत्युक्तम्। तदप्ययुक्तम् ; अक्षिपुरुषस्य परमात्मत्व निर्णयात् परमात्मोपासनस्यानुष्ठेयान्तरं प्रति अङ्गत्वायोगात् ; गतिचिन्तनस्य सर्वपरविद्याङ्गत्वाच्च । गत्यनुवादस्य प्रयोजनं त्वपुनरावृत्तिविधानमित्युक्तम् ; न त्वङ्गान्तरविधानम् । अतो यथोक्तार्थपराण्येव सूत्राणि ॥ उत्तराधिकरणसङ्गतिमाह स्थानादीति । अन्तर्याम्यधिदैवांधिलोकादिषु तद्धर्मव्यपदेशात् ॥ विषयं शोधयति काण्वा इत्यादिना । वेदयज्ञशब्दौ तदभिमानिदेवताविशेषपरौ; गुण क्रियादेरद्रव्यतया
१२-४ अन्तर्याम्यधिकरणम् ३१७ आत्मान्तर्याम्यमृतः’ इति च विशेषः । तत्र संशय्यते - किमयमन्तर्यामी प्रत्यगात्मा, उत परमात्मा इति । किं युक्तम् । प्रत्यगात्मेति । कुतः । चाक्यशेषे ‘द्रष्टा श्रोता’ इति करणायत्तज्ञानताश्रुतेः । एवं द्रष्टुरेवान्तर्यामित्वोपदेशात् ‘नाम्यो तोऽस्ति द्रष्टा’ इति द्रष्टृन्तरनिषेधाच्चेति ॥ ; एवं प्राप्तेऽभिधीयते - अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । अधिदैवाधिशरीरत्वायोगात् ॥ अद्रव्यस्यापि शरीरत्वमनेनैव प्रयोगेण कल्प्यतामिति चेन्न - अनन्यथासिद्धस्यैव प्रयोगस्य कल्पकत्वात् । अभिमानिदेवतापरत्वेनापि द्रव्यपरत्वमेवोचितमिति । संशयमाह तत्रेति । प्रत्यगात्मशब्दः ऐश्वर्ययोग विशेषनिमित्त प्रकर्षादुत्कृष्टजीवपरः ॥ समस्त चेतनाचेतनान्तर्यामित्वेन श्रूयमाणस्यापि कथं जीवत्वशङ्कोत्थानम् ॥ उच्यते । ‘द्रष्टा श्रोता’ इत्यादिशब्देन करणायतज्ञानवत्ताप्रतीतिबलात् अमृतत्वादिलिङ्गानाम्, ‘आत्मनि तिष्ठन् ’ तिष्ठन्’ इत्यादिव्यतिरेक निर्देशस्य, नियमनस्य चामुख्यत्वशङ्कयाऽधिकरणोत्थानमिति । किमन्तर्यामी जीवः, उत परमात्मेति प्रथमविचारः तदर्थम् ‘आत्मनि तिष्ठन् ’ इत्यादिकं किं मुख्यम्, उतामुख्यम्; तदर्थं द्रष्टृत्वं किं जीवस्यैव, उतान्तर्यामिणोऽपि संभवति ; तदर्थं ‘द्रष्टा श्रोता’ इति किं करणायत्तज्ञानत्वमुच्यते, उत रूपादिसाक्षात्कार इति । तदर्थं रूपादिसाक्षात्कर्ता चेत्, द्रष्टृन्तरविषेधः किं नोपपद्यते, उतोपपद्यत इति विचारः । नोपपद्यत इति पूर्वः पक्षः । उपपद्यत इति सिद्धान्तः । यदा निषेधोऽनुपपन्नः, तदा द्रष्टृत्वादिकं करणायतज्ञानवत्त्वमिति तस्य जीवात्मन्येव संभवात् आत्मनि स्थित्यादिकममुख्यमित्यन्तर्यामी जीवस्स्यात् । यदा निषेध उपपन्नः, तदा रूपादिसाक्षात्काररूपद्रष्टृत्वादेः परमात्मनि संभवेन आत्मनि स्थित्यादीनां मुख्यतया नेयत्वादन्तर्यामी परमात्मेति फलितं स्यात् । कुत इति । प्रत्यगात्मनोऽप्यन्तर्यामित्वेन श्रुतस्य कथं प्रत्यगात्मत्वमिति भावः । तत्र जीवत्वे हेतुमाह वाक्यशेषे इत्यादिना । ज्ञानस्य करणाधीनत्वोक्त्या नियमनस्य च करणाधीनत्वमर्थसिद्धम् ; परप्रेरणरूपस्य सङ्कल्पम्य मनःकरणकत्वदर्शनात् । करणायतं ज्ञानमस्तु ततः किमन्तर्यामिणो जीवत्वस्येत्यत आह एवं द्रष्टुरेवेति । तर्हि रूपादिसाक्षात्कार एवं द्रष्टृशब्दप्रवृत्तिनिमित्तमस्तु न करणायतं ज्ञानमित्यत्राह नान्योऽतोऽस्तीति । रूपादिसाक्षात्कारस्य जीवपरयोः साधारणत्वात् स न निषेद्धुं शक्यते ; करणायत्तज्ञानवत्त्वं तु जीवस्यैवेति तत् अयस्य निषेद्धं शक्यमित्यर्थः । प्रतिपर्याय यच्छन्दावृत्त्या चान्तर्यामिवहुत्वमवगम्यते । आत्मनि तिष्ठन् इति व्यपदेशः, स्वे महिनि स्थित इतिवद्भवति । तदन्तरत्वं तन्नियन्तृत्वं च आत्मेश्वरमितिवत् व्यापकनियामकवस्त्वन्तराभावाभिप्रायेणोच्यते । ‘यमात्मा न वेद’ इति संसृष्टेन निष्कृष्ट स्वरूपाज्ञानमुच्यत इति नेयम् । यत्तु जीवविशेषान् प्रति अन्तर्यामित्वं तत्तदवेद्यत्वादिकम्, तत् अष्टमूर्त्यदेवि तत्तद्गणाध्यक्षाणां जीवानां तत्तन्नियन्तृत्वेन संभवति । यद्वा आदित्यचन्द्रशब्दौ मण्डलपरौ । सर्वेषु देवेष्वित्यादिशब्दाश्च शरीरमात्रपराः । स त आत्मेति निर्देशः शिलापुत्रस्य शरीरमितिवत् स्यात् । स इति पदं जात्यभिप्रायम्; तज्जातीयस्त्वमित्यर्थः । उपक्रमे च ‘य इमं च लोकं परं च लोकम्’ इत्यत्र यच्छन्दो जात्यभिप्राय इति भावः ॥ एवं प्राप्त इति । सूत्रे’ अधिदैवमधिलोकमिति न निर्दिष्टम् ; दैवलोकादिध्वित्यपि न निर्दिष्टम् । 1 । 1 सूत्र इत्येतदनन्तरम् अधिदैवेति प्रतीकग्रहणात् प्राग्वाक्पजातं शुद्धतालकोशस्थम् । एतदनुपलम्भात् सूत्र इति पदस्य प्रयोजनं नेति भा० प्र० विमृश्यमासीत् । सूत्र इत्यादि अवतरणरूपं सुस्थम् ।
३१८ 66 शुतप्रकाशिकोपेते श्रीभाष्ये छोच्ादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी अपहतपाप्मा परमात्मा नारायणः । काण्वपाठसिल्पोऽधिदेवादिमद्द्भ्यो वाक्येभ्योऽधिकानि अघिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदेवाधिलोकादिष्वित्युभयोरुपादानम् । तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थः । कुतः । तद्धर्मव्यपदेशात् । परमात्मधर्मो ह्ययम्; यदेक एव सन् सर्वलोकसर्वभूत सर्व देवादीन्नियमयतीति । तथा छुद्दालकप्रश्नः “य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ इत्युपक्रम्य ‘तमन्तर्यामिणं ब्रूहि’ इति । तस्य चोत्तरम्, ‘यः पृथिव्यां तिष्ठन्’ इत्यारभ्योक्तम् । तदेतत् सर्वान् लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान् वेदान् सर्वाश्व यज्ञान् अन्तः प्रविश्य सर्वप्रकारनियमनं सर्वशरीरतया सर्वस्यात्मत्वं च सर्वज्ञात् सत्यसङ्कल्पात् पुरुषोत्तमादन्यस्य न संभवति । तथा हि, “अन्तः प्रविष्टः शास्ता जनाना सर्वात्मा”, “तत् सृष्ट्रा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत्” इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्यात्मत्वमित्यादीनि वदन्ति । तथा सुवालोपनिषदि, नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः । चक्षुश्च द्रष्टव्यं च नारायणः । श्रोत्रं च श्रोतव्यं च नारायणः” इत्यारभ्य, “अन्तश्शरीरे निहितो गुहायामज एको नित्यः । यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीरम्” । इत्यादि । यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति परस्यैव ब्रह्मणः सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते । स्वाभाविकं चामृतत्वं परमात्मन एव धर्मः । न च परस्यात्मनः करणायन्तं अधिदेवाधिलोकादिष्वित्येव निर्दिष्टम् । तस्मात् नार्थपरम् । तथासति अधिशब्दसप्तम्योः पौनरुक्तयात् । अपि तु वाक्यपरमित्यभिप्रायेण व्याचष्टे अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येष्विति । अनेन सर्वसूत्रेषु तत्तत्पदचिह्नितवाक्यप्रतिपाद्यत्वं विवक्षितमिति गम्यते । अधिदैवाधिलोकपदद्वयोपादानस्य प्रयोजनमाह काण्वेति । ततः किमित्यत्राह तदेवमिति । माध्यन्दिनपाठे अधिलोकाद्यधिकपर्यायश्रवणेन काण्वमाध्यन्दिनयोर्विषयभेदशङ्कायासु भयसाधारण बहुपर्याय प्रदर्शनार्थेनाधिदैव शब्देनोभयत्रैकविषयत्वप्रत्यभिज्ञानार्थम्, न्यूनपर्यायेऽपि पाठे ‘अनुक्तमन्यतो ग्राह्यम्’ इति न्यायेन अधिकपर्यायपाठार्थविवक्षाज्ञापनार्थं चोभयपदोपादानमित्यर्थः । एकस्यैव सतः सर्वनियमन कथमवगतमित्यवाह तथा हीति । यः पृथिव्याम् इत्यादिकं तस्य प्रश्नस्योत्तरमस्तु; ततः किमित्यत्राह तदेतदिति । नियाम्यापरिज्ञाने मोघसङ्कल्पत्वे च सर्वनियमनायोगात् सर्वज्ञात्सत्यसङ्कल्पादित्युक्तम् । सुबालोपनिषदि समानप्रकरणे पुरुषएवेदं सर्वमित्युक्तत्वादाह पुरुषोत्तमादिति । पुरुषोत्तमस्यैव सर्वनिमयनादिसंभवे श्रत्यन्तराणि दर्शयति तथा हीति । परमात्मन एवेति । अत्र सर्वनियन्तृत्वादितरेषां नियाम्यकोटिनिवेशादस्यैवेत्यवधारणं फलितमिति भावः । एतद्वैशद्याय समानप्रकरणोक्तिं दर्शयति तथा सुबालोपनिषदीति । सूत्रविवक्षितं हेत्वन्तरश्चाह स्वाभाविकं चेति । पूर्वपक्षयुक्ति परिजिहीर्षन् दर्शनश्रवणादिशब्दानां करणायतज्ञानचाचित्वं किमार्थम् उत शाब्दमिति विकल्पमभिप्रेत्य, प्रथमं शिरः प्रतिवदति न च परस्येति । ‘अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता’ इति वाक्ये आत्मसाक्षात्कार तदुपायभूतश्रवणमनननिदिध्यासनकर्तृत्वं हि प्रतीयते, न तु रूपादिसाक्षात्कारं इति शङ्कां परिहर्तु परस्यात्मन
१२-४ अन्तर्याम्यधिकरणम् ३१९ द्रष्टृत्वादिकम् अपि तु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव । तथा च श्रुतिः “पश्यत्यचक्षुः स शृणोत्यकर्णः, अपाणिपादो जवनो गृहीता” इति । इत्युक्तम् । अत्रायमभिप्रायः - श्रुत्यन्तरेषु न दृष्टेष्टारं पश्येः, न श्रुतेः श्रोतारं शृणुयाः, न मतेर्मन्तारं मन्वीथाः, न विज्ञातेर्विज्ञातारं विजानीयाः’ इति, ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादिवाक्यैः श्रवणमननादिकर्तृत्वं परस्य प्रतिषिद्धम् । तत्कर्मत्वञ्च श्रुतम् । तस्मादिह द्रष्टा श्रोता मन्ता विज्ञातेति प्रतीयमानं परस्यात्मनः श्रवणादिकर्तृत्वं तत्प्रतिषेधकश्रुतिविरुद्धम् । रूपादिसाक्षात्कर्तृत्वं तु ‘पश्यत्यचक्षुः स शृणोत्यकर्णः’ इत्यादिश्रुत्यन्तरावगतम् । अतः श्रवणादिकर्तृत्वप्रतिषेधकश्रुतिविरोधात् रूपादिसाक्षात्कार विधायकश्रुत्यन्तरानुरोधाच्च इह श्रयमाणा द्रष्ट्रादिशब्दाश्च रूपादिसाक्षात्कारवाचकाः, न तु श्रवणमननध्यानतत्साध्यदर्शनपरा इति । ‘द्रष्टृत्वादिकं न करणायत्तमिति । रूपादिभिरपरोक्षव्यवहारानुगुणः सम्बन्धो न चक्षुराद्यपेक्ष इत्यर्थः । आदिशब्देन श्रोतृत्वादिकं कर्मेन्द्रिय कार्य गन्तृत्वग्रहीतृत्वादिकं च विवक्षितम् । करणशब्दश्ध ज्ञानकर्मेन्द्रियसाधारणः । किं तत्याकाङ्गायामाह अपि त्विति । स्वभावत एवेति । द्रष्टृत्वादिकमित्यन्वयः । स्वभावशब्दो धर्मपरः स्वरूप स्वभावशब्दयोः समभिव्याहारदर्शनात् । एवकारः चक्षुरादिकरणापेक्षां योगिप्रत्यक्ष हेतुभूतप्रकृष्टादृष्टापेक्षाञ्च व्यावर्तयति । अदृष्टेन्द्रियनिरपेक्षधर्मभूतज्ञानेनैव भवतीत्यर्थः । परमात्मेच्छासापेक्षमुक्त नित्यसिद्धज्ञानव्यावृत्ति दर्शयन् हेतुमाह सर्वज्ञत्वादिति । स्वत एव सर्वज्ञत्वादित्यन्वयः । स्वत एवेति । स्वशब्दः स्वरूपपरः ; सत्ताप्रयुक्तत्वादित्यर्थः । एवकारः स्वव्यतिरिक्तचेतनान्तरसङ्कल्पादृष्टचक्षुरादिव्युदासपरः । यद्वा — न करणायत्तं द्रष्टत्वादिकम् अपि तु स्वभावत एवेति । रूपादिसाक्षात्काराश्रयत्वं न करणापेक्षम् अपि तु सताप्रयुक्तमित्यर्थः । कुत इत्यत्राह - स्वत एव सर्वज्ञत्वादिति । करणानपेक्षसताप्रयुक्तसार्वइयवत्त्वादित्यर्थः । सामान्येनेश्वरज्ञानमात्रस्य हेतुमात्रनिरपेक्षत्वात् रूपादिविषयज्ञानविशेषोऽपि अदुष्टेन्द्रियरूप हेतु विशेषनिरपेक्ष इति यावत् । सर्वस्य ब्रह्मात्मकत्वात् त्वं च तदात्मक इतिवत् विवक्षितविशेषसिद्ध्ये सामान्याकारयोगस्य हेतुतयोपन्यासः । ग्रहीतृत्वगन्तृत्वादिषु कर्मेन्द्रियनैरपेक्ष्यसिद्ध्यर्थमाह सत्यसङ्कल्पत्वाच्च स्वत एवेति । तत्र प्रमाणं दर्शयति तथा चेति । द्रष्टा श्रोतेत्यत्र उपाध्यनुक्तिपूर्वकदर्शनादिश्रवणात् स्वतस्त्वं सिद्धम् ; निरुपाधिकत्व कण्ठोक्तिश्चास्तीति चार्थः । यद्वा-न केवलं यः सर्वज्ञः सत्यसङ्कल्पः इति सामान्यश्रुत्या तत्सिद्धिः, विशेषविषयश्रुतिश्वास्तीति चार्थः । यद्वा’खाभाविकी ज्ञानबलक्रिया च’ इति श्रुत्या करणनिषेधोऽर्थसिद्धः । तस्य स्वाभाविकत्वोक्तिबलात् तद्विशेषभूतदर्शनश्रवणादेः करणनैरपेक्ष्यमपि सामान्यतः सिद्धम् । तदुभयं कण्ठोक्तं चेत्यर्थः । जवनःझटिति दूरस्थसंबन्धक्षमः । अतो विभुत्वाविरोधः । 1 दृष्टृत्वादेः करणायत्तत्वात् तत् परमात्मनि न भवतीति भाष्यार्थः प्रतीयते । तत् सिद्धसाधनं सिद्धान्त्यनिष्टश्च । अतोऽर्थान्तरं वक्तुं प्रथमतोऽन्वयमुचितं दर्शयति द्रष्टृत्वादिकमिति । इदमेवोत्तरभाष्यानुगुणं वर्णनम् । भाष्यानुपूर्वी तु उपर्यनूद्यमानरूपा । ३ स्वरूपवाचिनः स्वंत इति पदस्य सत्वादित्यर्थः ।
३२०
न च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरणजन्मनो ज्ञानस्य वाचकाः, अपि तु रूपादिसाक्षात्कारस्य । स च रूपादिसाक्षात्कारः कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादि- करणजन्मा, परस्य तु स्वत एव । " नान्योऽतोऽस्ति द्रष्टा’ इत्येतदपि पूर्ववाक्योदितात् नियन्तुर्दष्टरन्यो द्रष्टा नास्तीति वदति । “यं पृथिवी न वेद’, ‘यमात्मा न वेद’ इत्येवमादिभिर्वाक्यैः पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत् पूर्वमुक्तम्, तदेव ‘अहो द्रष्टा अधुतः श्रोता’ इति निगमय्य, ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिना तस्य नियन्तुर्नियन्त्रन्तरं निषिध्यते । ‘एष त आत्मा, स त आत्मा’ इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीवत्यात्मतयोपदिश्यमानोऽन्तर्यामी न प्रत्यगात्मा भवितुमर्हति ॥
/ एवं दर्शनश्रवणादेरर्थवशात् करणाची नत्वकल्पनं श्रुतिविरुद्धमित्युक्तम् । अथ अचक्षुः पश्यतीति व्याहतम्, दर्शनश्रवणादिशब्दानां करणा यत्तज्ञानवाचित्वादिति शङ्कायां दर्शनश्रवणादिशब्दानां करणायतज्ञानवाचितां निषेधति न च दर्शनेति । सर्वप्रयोगानुगतं प्रवृत्तिनिमित्तमाह अपि त्विति । एवञ्च सति द्रष्टा श्रोतेति रूपशब्दयोः साक्षात्कर्तेत्यर्थः । मन्ता – ये मानसमननाख्यविचारविषयाः, तेषां साक्षात्कर्ता । विज्ञाता – बुद्धयाध्यवसेया ये तेषां साक्षात्कर्तेत्यर्थः । तत्तदिन्द्रियविषयसाक्षात्कारपरत्वात् प्रकरणस्य । चक्षुरादिबाह्यकरणमनोबुद्धिरूपान्तः करणकृत्य विशेषः साधारणाकारग्रहण - विचाराध्यवसायरूपाः; तदाश्रयो जीव इति च मोक्षधर्मेऽऽमिहितम् ; यथा - “चक्षुरालोकनायैव संशयं कुरुते मनः । बुद्धिरध्यवसायाय साक्षी क्षेत्रज्ञ उच्यते” इति । संसारिचेतनज्ञानानां प्रतिनियतकरणसापेक्षत्वं प्रमाणा प्रमाणरूपत्वं परोक्षापरोक्षरूपत्वं च भवति परमात्मनस्तु तत्तत्करणादिनिरपेक्षाणि तत्तत्करणतत्तद्विषयादिसर्वपदार्थगोचराणि सम्यङ्निश्चयरूपाण्यपरोक्षात्मकानि ज्ञानानि भवन्तीति वैषम्यम् ॥ करणाधीनत्वं शाब्दं मा भूत्, तथापि व्याप्तिचलात् परमात्मनोपि दर्शनश्रवणादयः करणैर्विना नोपपद्यन्त इति सिंहावलोकितकेनाशङ्कय दर्शनादीनां करणापेक्षायाः कर्मवश्यत्वेन सोपाधिकत्वान्न व्याप्तिरित्यभिप्रयन्नाह स चेति । कर्मवश्यस्यैव करणापेक्षा, न त्वकर्मवश्यस्येत्यर्थः । उपाधेः सपक्षानुगतत्वं दर्शितं कर्मतिरोहितेति । परस्य त्विति । तुशब्दोऽकर्मवश्यत्वरूपवैलक्षण्यपरः । तेनापक्षवृत्तित्वं दर्शितं भवति । तर्हि द्रष्टृन्तरनिषेधः कथमुपपद्यत इत्यत्राह नान्योत इति । तदेव विवृणोति यं पृथिवीत्यादिना । निगमय्येति । अदृष्टो द्रष्टा पृथिव्यादिनियाम्यादृष्टः तत्तन्नियन्तृरूपद्रष्टेत्युक्तार्थनिगमनमित्यर्थः । ‘यः पृथिव्याम्’ इत्यादिपर्यायेषु द्रष्टृत्वमार्थम्, निगमनवाक्ये नियन्तृत्वमार्थं गर्भितम् । विशिष्टस्य प्रकृतत्वे सति सामान्यनिर्देशावगतोऽपि इतरनिषेधः प्रकृताकार विशिष्टेतरविषयो दृष्टः, यथा ‘अस्मिन् ग्रामे देवदत्त एव पुरुषः, नाऽन्यः’ इत्युक्ते न पुरुषमात्रं निषिध्यते, किन्तु नैवंविधोऽन्यः पुरुषोस्तीति बुद्धिस्थ स्वातन्त्र्यादिविशिष्टपुरुषान्तरं निषिध्यते; अन्यथा प्रमाणविरोधात् । अतः ‘नान्योतोऽस्ति द्रष्टा’ इत्यत्र असः शब्दस्वारस्यवशात् प्रकृतयथोक्तलक्षणं द्रष्ट्रन्तरं निषिध्यते । ततश्च परमात्मनाऽप्यवेद्यस्तदन्तरः तन्त्रियामकः कोऽपि द्रष्टा नास्तीत्यर्थः स्यात् । अपवादाभावात् व्यतिरेक निर्देशस्वारस्यसिद्धिमाह एष त इति । एतत्पादाद्याधिकरणे ‘शब्दविशेषात्’ इति व्यतिरेकनिर्देशो हेतुतयोक्तः, तस्य 1 भपबादः स्वे महिम्नि, आत्मेश्वरमित्यादौ ।
१२-४ अन्तर्याम्यधिकरणम् न च स्मार्तमतद्धर्माभिलापाच्छारीरथ ॥ १२२० ॥ ३२१ स्मार्तम् - प्रधानम् ; शारीरः - जीवः । स्मार्तञ्च शारीरश्च नान्तर्यामी; अतद्धर्माभिलापात्तयोरसंभावितधर्माभिलापात् । स्वभावत एव सर्वस्य द्रष्टृत्वम् सर्वस्य नियन्तृत्वम् सर्वस्यात्मत्वम् स्वत एवामृतत्वं च तयोर्न संभावनागन्धमर्हति । एतदुक्तं भवति - यथा स्मार्तमचेतनं सर्वज्ञत्वनियन्तृत्व सर्वात्मत्वादिकं नार्हति तथा जीवोऽपि; अतद्धर्मत्वादिति । अमीषां गुणानां परमात्मन्यन्वयः प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शितः । निरपेक्षं च हेत्वन्तरमाह- उभयेऽपि हि भेदेनैनमधीयते ॥ १-२२१ ॥ उभये - माध्यन्दिनाः काण्वाश्च, अन्तर्यामिणो नियाम्यत्वेन वागादिभिरचेतनैः समम् एनम् शारीरमपि विभज्याधीयते । “य आत्मनि तिष्टन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः” इति माध्यन्दिनाः, “यो विज्ञाने तिष्ठन् ’ इति च काण्वाः परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थः । अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ॥ इत्यन्तर्याम्यधिकरणम् ॥ प्रदर्शनार्थत्वात् तदुपजीवनेन व्यतिरेकनिर्देशो हेतुरुक्तः । ‘एष ते ’ इति सर्वपर्यायानुवृत्तषष्ठी निर्देशो ऽत्र विवक्षितः; पर्यायविशेषस्थसप्तमीनिर्देशस्तु उभयेऽपीति सूत्रविवक्षित इति विशेषः ॥ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥ अक्षरार्थमाह स्मार्तमित्यादिना । के पुनस्तदसंभाविता धर्मा इत्यत्राह स्वभावत एवेति । प्रधानस्यान्तर्यामित्वप्रसङ्गाभावेऽपि किमर्थं सूत्रेण तन्निरसनमित्यत्राह एतदुक्तमिति । पूर्वसूत्रे तद्धर्माउक्ताः, अस्मिन् सूत्रेऽपि प्रकृतिपुरुषयोर संभाविता धर्मा उक्ता इति सूत्रस्य पौनरुवत्यमाशङ्कय परिहरति अमीषामिति ॥ निरपेक्षं चेति । पूर्वं व्यतिरेक निर्देश सापेक्षहेतुरुक्तः, अयं तु वक्ष्यमाणो निरपेक्ष इत्यर्थः । उभयेपि हि मेदेनैनमधीयते ॥ अत्रैकैकवस्तुषु परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थं यच्छन्दावृत्तिः । ‘स ते’ इति व्यतिरेकनिर्देशो देवादिशब्दानां शरीरमात्रपरत्वं चाखरसम् । तच्चापवादाभावे अनुपपन्नम् । आत्मशब्दस्य स्ववाचित्वे तिष्ठन्नित्यादयोऽप्यस्वरसाः । ‘यो विज्ञाने तिष्ठन्’ इति काण्वपाठैकार्थ्यादात्मशब्दस्य स्ववाचित्वमयुक्तम् । प्रश्नवाक्यस्य चास्वारस्यम् इति भिदा । यच्छब्दावृत्तिरेकत्वेऽपि संभवति — इति भावोऽनुसन्धेयः । हिर्हेतौ । न हि भेदशब्दोऽत्र श्रूयत इत्यत्राह परमात्मनियाम्यतयेति । भेदकधर्मश्रवणात् भेदेन व्यपदेशः सिद्ध इत्यर्थः । न केवलं व्यतिरेकनिर्देशादीनामपवादाभावः, किंतु तदस्वारस्यापवादश्यास्तीति भावः । सुबालोपनिषदुक्तविशेषणैस्तदेकविषयतां स्मारयन् अधिकरणार्थमुपसंहरति अत इति ॥ आस्मन्नधिकरणे कैश्विचतुर्धा विचारो दर्शितः पृथिव्याद्यभिमानिदेवताविशेषो वा योगसिद्धो वा परमात्मा वा अर्थान्तरं वेति । तत्रार्थान्तरमिति पक्षस्त्वसंभवनिरस्तः । ऐश्वर्यविशेषयोगम्य प्रकृष्टादृष्ट- 2 41
३२२ 1 •
जन्यत्वाविशेषात् देवतास्वेव योगसम्भवाच्च शिरोन्तरभेदकल्पनं विफलम् ॥ 1 कार्यकरणवत्त्वं जीवश्वे हेतुतयोक्तम् । तदयुक्तम् ; पृथिव्यादिष्वेकैकस्य शरीरत्वावगमात् चक्षुरादीनां प्रत्येकं शरीरत्वावगमाच्च तत्कृतजीवत्वशङ्काया आनन्दमयाधिकरणे व्युदस्तत्वाच्च तेन जीवत्वशङ्कानुदयात् । भूतेन्द्रियादीनां सङ्घातरूपेण शरीरेण उपकरणोपकरणित्वलक्षण संबन्धो हि जीवत्वसाधकः ॥ अदृष्टत्वश्रवणेन प्रधानत्वशङ्काव्युदासपरं द्वितीयं सूत्रं व्याख्यातम् । तच्चायुक्तम् ; ‘अदृष्टो द्रष्टा अश्रुतः श्रोता’ इत्यादिवाक्ये अदृष्टाश्रुतादिपदानां द्रष्टृश्रोत्रादिपदान्तरितानामेव श्रूयमाणतया प्रधानपरत्वशङ्कानुदयात् । न ह्येकपदश्रवणेन वाक्यार्थ निर्धारणं पूर्वपक्षेऽपि घटते । प्रधानस्य सर्वविकारकारणत्वेऽपि नियन्तृत्वमुपचारतोऽपि न शक्यशङ्कम् । न हि घटादीन् प्रति मृत्तिकायाः नियन्तृत्वम् । अतः स्मार्तोपन्यासो दृष्टान्ततयैव घटते । अत एव ‘न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च’ इत्येवमन्तमेकं सूत्रम् ; अन्यथाऽर्थवैघटयात् । वैघटयं च प्रधानशङ्कानुदय एव ॥ पृथिव्यादिनियन्तृणां जीवानामिव ईश्वरस्यापि सर्वनियन्तु नियन्त्रन्तरापेक्षया अनवस्थायां प्रसक्तायां नियन्तृनियाम्ययोरभेदेन तत्परिहार इत्यपि दुरुक्तम् ; अनवस्थाप्रसङ्गाभावात् । युक्त्या कल्पनायां ह्यनवस्थानम् ; न श्रुत्याऽभ्युपगमे । श्रुतिश्व ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इत्यादिर्नियन्त्रन्तरं प्रतिषेधति । न चानवस्थाया भेदप्रयुक्तस्वादभेदेन तत्परिहार इति वाच्यम् ; श्रुतभेदनिबन्धनंचोद्यस्य श्रुतविरुद्धा भेदकल्पनया परिहारानुपपत्तेः ॥ कयोरभेदः ? न तावत् पृथिव्यादेः परमात्मनश्च जड जडयो रैवयाभावात् । नापि जीवेन; पृथिव्यादिवत् नियाम्यतयाऽवगतस्य तस्य तेवैव न्यायेन परमात्मनैक्यासंभवात्; पक्षपातस्याहेतुकत्वाच्च । परमात्मसामानाधिकरण्यभेदनिषेधौ शुभयत्र समानौ । किञ्च पृथिव्यादेः खव्यतिरिक्तज्ञानप्रकाश्यत्वे ज्ञानस्यापि स्वव्यतिरिक्तज्ञानप्रकाश्यत्वेनानवस्थाप्रसङ्गात् तत्परिहारार्थं जडाजडयोरैक्यं किं न स्यात् । ज्ञानस्य स्वप्रकाशत्वेनानवस्थानुदयात् मिध्यासत्यजड जडयोस्तयोः स्वभावविशेषाच्चेति चेत्-तर्हि सर्वनियन्तुरीश्वरस्यापि आत्मेश्वरतया नियन्त्रन्तराभावेन अनवस्थित्यभावात् हेयार्हतदनर्हयोः स्वभावविरोधाच न जीवेश्वरयोरेकत्वं युक्तम् । धारणादावप्ययमनवस्थापरिहारोऽनुसन्धेयः ॥ किञ्च मेदो हि प्रतीयते, कथमभेदेनानवस्थापरिहारः ॥ इत्थम् । प्रतीयमानोऽपि मेदो मिथ्या । न च जड जडयोरैक्यप्रसङ्गः, " " 1 कार्येत्यादि । अत्रैवमर्थः प्रतीयते - अन्तर्यामिब्राह्मणे पृथिव्यां तिष्ठन्नित्यादिना भूतेन्द्रियाणामेव निर्देशात् तथाशरीरेन्द्रियवत्त्वं जीवस्यैवेति स एवान्तर्यामीति परमतः पूर्वपक्षो न युक्तः, तेषां पृथक् शरीरत्वेनैव निर्देशात् संघातोपकरणभावानवगमादिति । नैष युक्तःतथा परमते पूर्वपक्षाभावात् । तस्मादन्योऽर्थ एवम्। पक्षचतुष्टयं शाङ्करोक्तम् । भामत्यां जीव इति पूर्वपक्ष एव निगमितः । शरीरेन्द्रियवत्वाभावे नियन्तृत्वायोगात् जीवस्यैव तत्संभवात् जीव एवान्तर्यामीति यदुक्तं तदयुक्तमिति, तदयुक्तमित्यन्तस्यार्थः । तत्र हेतुरुच्यते पृथिवीति । पूर्वपक्षिणा स्वशरीरप्रेरणे शरीरान्तर निरपेक्षत्वस्येष्टत्वात् अन ब्राह्मणे भूतानां चक्षुरादीनाञ्च शरीरत्वस्य स्पष्टमुक्ततया अन्यापेक्षाविरहेण पूर्वपक्षानुत्थितेः । तेषां शरीरत्वे ईश्वरस्य जीवत्वापत्तिरेव शंक्यत इति चेत्-आनन्दमयाधिकरणादावेव तन्निरासः सिद्ध इति । - शंकते इत्थमिति ।
अष्टश्यत्वादिगुणकाधिकरणम् १-२-५ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ १-२-२२ ॥ ३२३ आथर्वणिका अधीयते, “अथ परा यया तदक्षरमधिगम्यते, यत्तदद्देश्यमग्राह्यमगोत्रम - नियाम्यपृथिव्यादिमिथ्यात्वाद्धि पृथिव्यादेः परस्य च भेदमिथ्यात्वम् । नीवपरयोस्तु स्वरूपैक्यात् मेदमिध्यात्वम् । अत एव च नानवस्थेति चेत् स्यादेवानवस्था; जीवपरैत्रयेऽपि पृथिव्यादिकं प्रति जीवस्येव तदेकीभूतस्यापि ब्रह्मणो नियन्त्रन्तराकाङ्क्षाया निवारकाभावात् । यथा पृथिव्यादेर्जीवस्य च नियन्तृ नियाम्यभावमिध्यात्वेऽपि तस्येश्वरं प्रति नियाम्यत्वमपारमार्थिक संभवति, तथा जीवं प्रति नियन्तुः परमात्मनोऽप्यपरमार्थनियन्तृत्वादेवान्यं प्रति अपरमार्थभूतनियाम्यत्वशङ्कां को वारयेत् ॥ नियन्त्रन्तर निषेधकं प्रमाणं निवारकमिति चेत् — यदि प्रमाणबलादनवस्थापरिहारः, तर्हि नियन्तृनियाम्यभावपारमाध्यमाश्रित्यैव सा परिहियताम् ; प्रमाणान्तराबाधेन निर्वाहें संभवति बाघाश्रयणायोगात् ॥ अत एव ‘नान्योऽतोऽस्ति द्रष्टे’त्यपि, परमात्मैवाविद्याकल्पितभेदेन नियन्ता नियाम्यश्च भवतीति’ न पारमार्थिकद्रष्टृन्तर निषेधपरम्; किंतु नियन्तृरूपद्रष्टृन्तर निवारण परम् ; विशिष्ट प्रकृते सति इतर निषेधस्य तत्तुल्येतरविषयत्वदर्शनात् । कथं प्रमाणान्तराप्राप्त नियन्तृनियाम्यभावादिकं विधाय शास्त्रं तदेव प्रतिषेद्धमलम् ॥ कथमेकस्मिन् शरीरे प्रत्यगात्मद्वित्वमिति चेत् — कात्रानुपपत्तिः ॥ बहुत्वे प्रत्यवत्वं हीयेतेति चेत् — किं प्रत्यगात्मद्वित्वमात्रेऽनुपपत्तिः, उतैकस्मिन् शरीरे । न प्रथमः, सर्वेषामात्मनामहमिति प्रत्यक्तयैव खात्मानुभवदर्शनात् । न द्वितीयः एकस्मिन् शरीरे चक्षुराद्यभिमानिनां देवानां प्राणसंवादे ‘अहंश्रेयसे विवदमानाः’ इत्यनेकेषां प्रत्यक्त्वेन खात्मानुभवदर्शनात् ॥ तत्र प्रत्यकत्वमेव सत्यम्, भेदो मिथ्येति चेत् — भेदः सत्यः, प्रत्यक्त्त्रं मिथ्या [इति ?] किं न स्यात् । उभयोरपि बाधस्तुल्यः ॥ ‘नेह नानास्तीत्यादिकं भेदबाधकमिति चेत् — “तत्त्वमसि’ ‘अयमात्मा” इत्यादिकं प्रत्यवत्वबाधकं किं न स्यात् । परागर्थो हि इदम्बुद्धिगोचरः ॥ अयमिति निर्देशः प्रत्यक्त्वाविरोधी, प्रत्यवत्वस्य प्रमाणसिद्धत्वादिति चेत् — नेह नानेत्यादिकमपि तत एव प्रमाणवशादात्मबहुत्वाविरोधि । अतो बहुत्वस्य पराकूत्वव्याप्यत्वाभावात् व्याप्तिशून्यस्तर्काभासोऽयम् । अतोऽन्तर्यामिविद्याया यथोक्त एवार्थः ॥ इत्यन्तर्याम्यधिकरणम् ॥ द्रष्टृत्वादिचेतनधर्मैर्नियन्तृत्वादिपरमात्मधर्मैश्च सहितेन ‘अदृष्टो द्रष्टा’ इत्याद्युक्तेनादृश्यत्वेन परमात्मपरत्वमुक्तं पूर्वाधिकरणे । चेतनधर्मादिरहित केवलादृश्यस्वप्रतिपादकं वाक्यं प्रधानपरमेव भवितुमर्हति ; रूपादिमत्पृथिव्यादिगतदृश्यत्वनिषेधस्य धर्म्यन्तरप्रतिपत्तौ गौरवेण पृथिव्यादिकारणावस्थप्रधानोपस्थापकत्वादिति शङ्कयोत्थानांत् सङ्गतिः । इयमुत्तरत्र पूर्वपक्षोपन्यासे व्यक्तीभविष्यति ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ अदृश्यत्वादिगुणकशब्देन अक्षरम् पुंल्लिङ्गनिर्देशेन अक्षरात्परतः परश्ध द्वयमपि विषयीक्रियत इत्यभिप्रायेण वाक्यद्वयं विषयतयोपाददानः संशयच दर्शयति अथेत्यादिना । अद्रेश्यमग्राह्यम् - इन्द्रियादृश्यमनुमानाद्यवेद्यम् चक्षुरदृश्यमिन्द्रियान्तरादृश्यं 1 भवतीति यः पारमार्थिकद्रष्टन्तरनिषेधः; तत्परं नेत्यर्थः ।
३२४ ६ श्रुतप्रकाशिकोपेते श्रीमाष्ये
वर्णमचक्षुश्क्षतं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति बीराः” इति ; तथोत्तरत्न, “अक्षरात्परतः परः” इति । तत्र सन्दिह्यते - किमिहादृश्यत्वादिगुणकमक्षरम् अक्षरात् परतः परश्च प्रकृतिपुरुषी, अथोभयत्र परमात्मैवेति । किं तावत् प्राप्तम् ? प्रकृतिपुरुषाविति । कुतः । अस्याक्षरय ‘अदृष्टो द्रष्टा’ इत्यादाविवं न द्रष्टृत्वादिश्वेतनधर्मविशेषः इह धूयते, ‘अक्षरात् परतः परः’ इति च सर्वस्माद्विकारात्परभूतादक्षरादस्मात्परः क्षेत्रज्ञ. वा । यद्वा अद्रेश्यम् – ज्ञानेन्द्रियाविषयः । अग्राह्यम् - पाण्यादिकार्यहानोपादानाद्यविषयः । क्रिमिहेति । अदृश्यत्वादिगुणकाक्षरस्य प्रकृतित्वम्, अक्षरात्परतः परस्य जीवत्वं च शङ्कयते, न तुभयोरुभयात्मकत्वम् । उभयत्र - वावयद्वयेऽपि । किमदृश्यत्वादिगुणकम् अक्षरात्परतः परश्च प्रधानपुरुषौ, उत परमात्मेति विचारः ; तदर्थं पृथिव्यादिसंबन्धितया दृष्टं दृश्यत्वादिकं निषिध्यमानं किं पृथिव्यादिसजातीयमचेतनमेवाश्रयमुपस्यापयति, उत नेति । किमूर्णनाभिदृष्टान्तोपादानमचेतनाश्रयोपस्थापकत्वमुपबृंहयति, उत नेति किम् ‘अक्षरात् संभवतीह विश्वम्’ इति विश्वशब्दः चिदचिदात्मकप्रपञ्चमुपस्था पयति, उताचेतनमिति । अचेतनोपस्थापकत्वे सति ऊर्णनाभिदृष्टान्तस्य च अचिदाश्रयोपस्थापकतोपवृद्धकतया निषिध्यमानं दृश्यत्वादिकम चिदुपस्थापकमिति अदृश्यत्वादिगुणकं प्रधानम्, ततः परश्व नीव इति स्यात् । यदा विश्वशब्दः चिदचिदात्मकजगदुपस्थापकः, तदा ऊर्णनाभिदृष्टान्तस्य च अचेतनोपस्थापकत्वानुपबृंहकत्वात् निषिध्यमानं दृश्यत्वादिकमपि नाचेतनोपस्थापकमित्यदृश्यत्वादिगुणकः परमात्मा; परमात्मनश्च परान्तरासंभवात् अक्षरात्परतः परश्च परमात्मेति फलितम् । कुत इति । अदृष्टशब्दस्य 1 अर्हार्थीयतृजन्तपदविशेषणतया " धातुसंबन्धे प्रत्ययाः” इति स्मृतिवशेनाहीयें विश्रान्तिरवगम्यते । अद्रेश्यमिति च पदं कृत्यप्रत्ययान्तत्वादर्हार्थम् । तथाचादृश्यत्वादिकं पूर्वाधिकरणे परमात्मधर्मतयाऽवगतमिति नाक्षरं प्रकृतिः । अत एवाक्षरात्परतः परश्च न समष्टिपुरुषः । न हि परमात्मनोऽन्यत् परं विद्यत इति शङ्कायामदृश्यत्वादिगुणकस्य प्रकृतित्वमुपपादयति अस्याक्षरस्येति । अन्तर्यामिविद्यायामपि न केवलमदृष्टत्वं परमात्मत्वसाधकम्, किन्तु द्रष्टृत्वादिसचिवम् । इह तु तत्साचिव्याभावाददृश्यत्वं नाचिव्द्यावर्तकमित्यर्थः । अदृष्टो द्रष्टेत्यादिना सङ्गतिश्चाभिप्रेता । तथाप्यक्षरात्परतः परो न जीवः । न हि अक्षरात्पर इत्युक्तम् ; किन्तु ‘परतः परः’ इति, इति शङ्कायां तस्य समष्टिपुरुषत्वमुपपादयति सर्वस्मादिति । सर्वस्माद्विकारात्परभृतादक्षरादिति समानविभक्ति निर्देशस्वारस्यात्, परतोऽक्षरा- 1 अर्हार्थीयेति । ष्वुल्तृचाविति तृचो वर्तमानकालादन्यत्र न प्रयोग इति भाव्यानुसारेऽपि द्रष्टा इत्यत्र न किञ्चित्कालेमात्रे दर्शनविवक्षा ; नित्येन वेदेन नित्यवर्तमानदर्शनवचनात् । आगामिकालेऽपि तत्स्पष्टत्वाय अथयो वा स्यात् तृच् । न चार्हतोक्तिः पूर्वकालोभावस्थापिका ; नित्यसंबन्धेन योग्यताया अविरोधात् । एवम् अदृष्ट इति भूतकालिकदर्शनसंबन्धाभावकथनात् सांप्रतं दृश्यमान इति न विवक्षितं यतः, अतः इह धातुसंबन्धे प्रत्ययः । यदा यदा दर्शनं द्रष्टेत्यत्र विवक्षितम्, तत्तत्पूर्वकालावच्छिन्नदर्शनासंबन्ध उक्तो भवति । तेन सार्वकालिकं दर्शनाविषयत्वं सिद्धम् । इदमेव चादृश्यत्वमिति भावः ।
१-२-५ नहश्यत्वाविगुणकाधिकरणम् ३२५
समष्टिपुरुषः प्रतिपाद्यते । एतदुक्तं भवति-रूपादिमत्स्थूलरूपाचेतनपृथिव्यादिभूताश्रयं त्यादिकं प्रतिषिध्यमानं पृथिव्यादिसजातीयसूक्ष्मरूपाचेतनमेवोपस्थापयति । तच्च प्रधानमेव । तस्मात्परत्वञ्च समष्टिपुरुषस्यैव प्रसिद्धम् । तदधिष्ठितञ्च प्रधानं महदादिविशेषपर्यन्तं विकारजातं प्रसूते इति तत्र दृष्टान्ता उपन्यस्यन्ते, “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथा ऽक्षरात् संभवतीह विश्वम्” इति । अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रतिपाद्येते -इति ॥ एवं प्राप्ते ब्रूमः - - अदृश्यत्वादिगुणको धर्मक्तः । अदृश्यत्वादिगुणकः अक्षरात्परतः परश्च परमपुरुष एव । कुतः । तद्धर्मोक्तेः । ‘यः सर्वज्ञः सर्ववित्’ इत्यादिना सर्वज्ञत्वादिकास्तस्यैव धर्मां उच्यन्ते ; तथा हि ‘यया तदक्षरमधिगम्यते’ इत्यादिना अदृश्यत्वादिगुणकमक्षरमभिधाय, ‘अक्षरात् संभवतीह विश्वम्’ इति तस्माद्विश्वसंभवञ्चाभिधाय, “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायते” इति भूतयोनेरक्षरस्य सर्वज्ञत्वादिः प्रतिपाद्यते । दिति सामानाधिकरण्यमिति भावः । चेतनधर्मविशेषाश्रवणेऽप्यदृश्यत्वं साधारणतया न निर्णायकम् ; अतोऽनुकूलयुक्तिर्वक्तव्या । दृष्टान्तश्चेतनकारणत्वानुगुण इत्यत्राह एतदुक्तमिति । तदन्यार्थकन पश्लिष्टाः अब्राह्मणादयः शब्दा हि ब्राह्मणादिप्रत्यासन्न (न्ने ?) सजातीये क्षत्रियादौ वर्तन्ते, न तु श्वपचादौ, पश्चादौ वा । अबालाकृशशब्दादयः प्रत्यसन्नावस्थान्तराश्रये तस्मिन्नेव धर्मिणि वर्तन्ते, न तु धर्म्यन्तरे, संनिकृष्टबोधनस्य न्याय्यत्वात् । एवमदृश्यत्वादिगुणानां धर्मिविशेषाकाङ्क्षायां निषिध्यमानदृश्यत्वस्याचिदाधारत्वेन अचेतने प्रतिपन्ने, तस्यैव सूक्ष्मावस्थस्यादृश्यत्वादौ च संभवति, विजातीयधर्म्यन्तरकल्पने गौरवप्रसङ्गात् तत्परत्वाश्रयणमयुक्तमिति भावः । दृश्यत्वादिनिषेधात् रूपादिवदचेतनत्वमपि निवर्तत इत्यत्राह तच्चेति । न दृश्यत्वादिव्याप्यमचेतनत्वम् ; मनआदौ व्यभिचारादिति भावः । अदृश्यत्वादिगुणकस्य प्रधानत्वसमर्थ - नमुपजीव्य अक्षरात्परतः परस्य जीवत्वमाह तस्मादिति । यथोर्णनाभिरिति चेत नदृष्टान्तः कथमित्यत्राह तदधिष्ठितश्चेति । अनधिष्ठितत्वेऽपि दृष्टान्तोऽस्ति, यथा पृथिव्यामिति । चेतनसंनिधिमात्रापेक्षत्वे दृष्टान्तः यथा सत इति । पूर्वपक्षमुपसंहरति अत इति ॥ राद्धान्ते - अदृश्यत्वेति । परात्परं पुरुषमिति वाक्यं स्मारयति परमपुरुष इति । कस्य धर्मोक्ते, रित्यपेक्षां पूरयति तद्धर्मोक्तेरिति ।
नन्वक्षरं प्रकृतिः; सर्वज्ञस्तु स्वसंनिधानात् प्रकृत्युपकारकः प्रकृष्टपुण्यो जीवः, तदवस्थोपलक्षितो मुक्तो वेति शङ्कायामाह तथाहीति । तस्मादिति । अक्षरशब्दः प्रकृताक्षरपर इति भावः । भृतयोनेरक्षरस्येति । सार्वश्यादेः धर्मिविशेषापेक्षायां प्रकृत एव धर्मी स्वीकार्य ः ; उपक्रमप्रतिपन्नपरित्यागेनाप्रतिपन्नकल्पनायोगात् ; “भूतयोनिम्”, “तस्मादेतत्” इति कारणत्वप्रत्यभिज्ञानाच्च । अतः ‘यस्सर्वज्ञः — तस्मादेतत्’ इति यत्तच्छन्दौ प्रकृताक्षरविषयौ । ततश्चाक्षरस्य कारंणत्वमनूद्य सृष्टिस्थित्युपयोगित्वेन सार्वइयादि विधीयत इत्यर्थः ।
ननु भूतयोनित्व लिङ्गप्रत्यभिज्ञानादपि ‘अक्षरात्परत’ इति श्रुतिप्रत्यभिज्ञानं प्रबलम्, पञ्चम्यन्ताक्षरपदवाच्यं हि प्रधानम् । अतस्तदेव ‘यया तदक्षरम्’ इत्यत्रापि प्रतिपाद्यम् । अतस्तदनुवादेन सार्वश्यादिविधानमयुक्तमिति चेन्न ; केवलश्रुतिप्रत्यभिज्ञानादपि ‘येनाक्षरं पुरुषं वेद सत्यम्’ इति पूर्वोक्तभूतयो-
३२६ शतप्रकाशिकोपते श्रीमाण्ये पश्चात् ‘अक्षरात्परतः परः’ इति च प्रकृतमदृश्यत्वादिगुणकं भूतयोन्यक्षरं सर्वज्ञमेव परत्वेन व्यपदिश्यते । अतः ‘अक्षरात्परतः परः’ इत्यक्षरशब्दः पञ्चम्यन्तः प्रकृतमदृश्यत्वादिगुणकमक्षरं नाभिधत्ते ः तस्य सर्वज्ञस्य विश्वयोनेः सर्वस्मात्परत्वेन तस्मादन्यस्य परत्वासंभवात् । नित्व’ लिङ्गानुगृहीतस्याक्षरभुतिप्रत्यभिज्ञानस्य प्रबलत्वात् ॥
ननु ‘भूतयोनिम् ‘, ’ अधारात्संभवति’ इत्युपादानमुच्यते ; ‘यस्सर्वज्ञस्सर्ववित्’ इति निमित्तम् । अतो लिङ्गानुगृहीतत्वमसिद्धम् । न चैतावता ‘अक्षरात्परतः’, ‘अक्षरं पुरुषम्’ इति श्रतिप्रत्यभिज्ञानयोस्तुल्यत्वम् । ‘अक्षरात्परतः’ इति प्रत्यभिज्ञानस्य ऊर्णनाभिदृष्टान्तानुगृहीतत्वेन प्रानस्यादिति ॥ नैवम् ऊर्णनणाभिदृष्टान्तस्याचिद्विशिष्टत्रकारणत्वेऽप्युपपत्तेः । न चैतावता प्रत्यभिज्ञानयोस्तुल्यत्वम् । ‘अक्षरं पुरुषम्’ इति प्रत्यभिज्ञानस्य प्रथमभाविनः प्रबलतया पश्ञ्चम्यन्ताक्षरशब्दस्य तदविरोधेन वर्णनीयत्वात् । अतो भूतयोन्यक्षरमेव ‘अक्षरं पुरुषम् ’ इत्युच्यते । पुरुषत्वात् कारणत्वेन प्रत्यभिज्ञानाच अक्षरशब्दवाच्यः स एव सर्वज्ञत्वादिगुणकः । तथा च सति ‘अक्षरात संभवति’, ‘तस्मादेतद्वा’ इति पञ्चम्योर्वैरूप्यं न स्यात् । निमित्तोपादानामेदे सत्येव ह्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमुपपद्यते ॥ ; अक्षरं म परमात्मा, अक्षरादपि परस्य प्रतिपन्नत्वादित्यत्राह पश्चादिति । परत्वेन व्यपदिश्यते । प्रथमान्तेन परशब्देन व्यपदिश्यत इत्यर्थः । प्रकृतमदृश्यत्वादिगुणकमिति । अदृश्यत्वादिगुणकत्वेन प्रकृतत्वादित्यर्थः । अपाणिपादत्वेन सर्वगतत्वेन पुरुषशब्दवाच्यत्वेन च प्रकृतं हि भूतयोन्यक्षरम् ; ‘अपाणिपादम्’, ‘नित्यं विभुं सर्वगतम्’, ‘तेनेदं पूर्ण पुरुषेण सर्वम्’, ‘येनाक्षरं पुरुषं वेद’ इति च । अक्षरात्परतः परस्य ‘दिव्यो मूर्तः पुरुषः’ इति पुरुषशब्दसामानाधिकरण्यदर्शनात् अमूर्तशब्देनापाणिपादत्व प्रत्यभिज्ञानात् ‘बाह्याभ्यन्तर’ इत्यनेन सर्वगतत्वप्रत्यभिज्ञानाच्च भूतयोन्यक्षरमेव अक्षरात्परतः पर इत्यर्थः । सर्वज्ञस्य भूतयोन्यक्षरात्परत्वशङ्काव्युदासाय भूतयोन्यक्षरस्यैव सार्वश्यादिगुणकत्वोपपादनं स्मारयति सर्वज्ञमेवेति ।
नन्वक्षरशब्दार्थवैरूप्यपरिहाराय भूतयोन्यक्षरात्सर्वज्ञत्वादिगुणकः पर इत्यभ्युपगन्तव्यमित्यत्राह अतोऽक्षरादिति । प्रकृतमदृश्यत्वादिगुणकमिति । अदृश्यत्वादिगुणकमक्षरमेव, ‘येनाक्षरं पुरुषम्’ इति पूर्वस्मिन् संनिकृष्टवाक्ये प्रकृतम् ; तदेव प्रोवाचेति वक्तव्यतया प्रतिपादितमिति तस्यैव प्राधान्येन प्रतिपाद्यत्वमवगम्यते । अतोऽक्षरपुरुष एव अक्षरात्परतः परत्वेनोच्यत इत्यभ्युपेत्यम्; अन्यस्य प्रतिपाद्यत्वमुक्त्वा अर्थान्तरस्य प्रतिपादनायोगात् । अतोऽक्षरपुरुषो न पञ्चम्यन्ताक्षर शब्दोक्तः; अपि स्वक्षरात्परतः पर एवेत्यभिप्रायः । अत इत्यभिप्रेतं हेतुं विवृणोति तस्येति । सर्वज्ञस्य विश्वयोनेरिति । ‘अक्षरात्संभवतीह विश्वम्’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ इत्युभयत्र कारणत्वप्रत्यभिज्ञानात् मृतयोन्यक्षरमेव सर्वज्ञमिति न सर्वज्ञस्तदपेक्षया पर इत्यभिप्रायः । सर्वस्मात् परत्वेन तस्मादन्यस्य परत्वासम्भवादिति । भूतयोन्यक्षरमभिघाय, अनन्तरमेव “यस्मात्परं नापरमस्ति किञ्चित्” इति समाभ्य- 1 लिङ्गानुगृहीतस्य–लिङ्गप्रत्यभिज्ञानानुगृहीतस्येत्यर्थः । तस्मादेतदिति वाक्ये पूर्वोक्तं सर्वशे भूतयोनित्वप्रत्यभिज्ञानम्; अक्षरं पुरुषमिति पुरुषे अक्षरश्रुतिप्रत्यभिज्ञानम् । इदमुभर्थ ययातदक्षरमित्यक्षरस्य परमात्मत्वस्थापकमिति भावः ।
१-२-५ अहश्यत्वादिगुणकाधिकरणम् अतोऽत्राक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ॥ २२ ॥ इतश्च न प्रधानपुरुपौ– विशेषण भेदव्यपदेशाभ्याञ्च नेतरौ ॥ १-१-२३ ॥ ३२७ विशिनष्टि हि प्रकरणम् प्रधानाच्च पुरुषाच्च भूतयोन्यक्षरम् ’ एकविज्ञानेन सर्वविज्ञानप्रतिशोपपादनादिभिः (?) व्यावर्तयतीत्यर्थः । तथा ताभ्यामक्षरस्य भेदश्च व्यपदिश्यते, ‘अक्षरात्परतः परः’ इत्यादिना । अतः
तथा हि - “स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह” इति सर्वविद्याप्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता । परविद्यैव च सर्वविद्याप्रतिष्ठा । तामिमां सर्वविद्याप्रतिष्ठां विद्यां चतुर्मुखाथर्वादिगुरुपरम्परयाऽङ्गिरसा प्राप्तां जिज्ञासुः शौनको ह वै महाशालोऽङ्गिरसं धिकनिषेधस्योपक्रमावगतत्वादित्यर्थः । भूतयोन्यक्षरादनन्यत्वेन सर्वज्ञस्य ततः परत्वासंभवः, उपक्रमविरोधेनाक्षरादर्थान्तरस्य परत्वासंभव इत्युक्तं भवति । अक्षरादिति किमुच्यत इत्यत्राह अतोऽत्रेति । -यस्य परमात्मधर्मोक्तिः, स हि परमात्मा; प्रथमान्ताक्षर शब्द निर्दिष्टस्य तद्धर्मश्रवणात् पञ्चम्यन्ताक्षरशब्दनिर्दिष्टस्य तदभावाच्चेत्यर्थः । अक्षरशब्दयोर्भिन्नविषयत्वमुपपन्नम् ; अस्मिन्नेव प्रकरणे ‘तपसा चीयते ब्रह्म’, ‘इति ह स्म यद्ब्रह्मविदो वदन्ति’, ‘तस्मादेतद्बह्म नाम रूपमन्नं च जायते’ इत्यत्र ब्रह्मशब्दयोर्भिन्नविषयत्वदर्शनात् ॥ यत्तु समानविभक्तिनिर्देश स्वारस्यात् सामानाधिकरण्यमिति – तन्न ; परशब्दस्य पञ्चम्यन्तपदसापेक्षत्वात् तत्स्वारस्यार्थ न सामानाधिकरण्यम् । किञ्च परतोऽक्षरादिति न निर्दिष्टम् । ‘अक्षरात्परतः परः’ इति हि क्रमः, तत्स्वारस्याश्च न सामानाधिकरण्यम् ॥ २२ ॥ 1 1 विशेषण भेदव्यपदेशाभ्यां च नेतरौ ॥ विशेषणशब्दं व्याचष्टे विशिनष्टि हीति । कस्मात्किमित्यत्राह प्रधानादिति । कैर्धर्मैरित्यत्राह एकेति । मेदव्यपदेशशब्दं व्याचष्टे तथेति । हेतुद्वयं विवरीतुमाह तथा हीति । न केवलं विशेष्यवाचिना ब्रह्मविद्याशब्देन विशेषणवाचिना सर्वविद्याप्रतिष्ठामिति शब्देनापि ब्रह्मविषयत्वं सिद्धमित्याह परविधैव चेति । परब्रह्मविषया विद्या परविद्या । सर्वविद्याप्रतिष्ठात्वम् — सर्वविद्याश्रयत्वम् । ज्ञातव्ये ब्रह्मणि कृत्स्नज्ञातव्यान्तर्भावात् ब्रह्मज्ञाने कृत्स्नविषयज्ञानानि 1 अक्षरमिति पदोत्तरं ‘व्यावर्तयतीत्यर्थः’ इति पदं सर्वत्र लक्ष्यते । टीकादर्शने तु तत् पदमेव नास्तीति ज्ञायते । परंत्वेतदधिकरणान्ते परमतखण्डनटी काव्याख्यानावसरे भावप्रकाशिकोत्तस्यानुसारे पदमिदम उपपादनादिभिरित्येतदनन्तरम् अस्तीति ज्ञायत इति तत्रैव योजयित्वेह मुद्रितम् । अन्यथाऽनन्वयाच्च । तदनुसारेण प्रकरणमित्यत्र वाक्यच्छेदः कार्यः । व्यावर्तयतीत्यर्थं इति पदं (लेखककृत विवरणं) प्रक्षिप्तमिति वेदान्तदीपानुसारेण टीकास्वरसेन च विमर्शे पुनः, आदिभिरित्यन्तमेकमेव वाक्यम् । 2 सभाष्योपनिषत्कोशेषु अदृश्यमानानां वाक्यानामत्र भाष्ये श्रुतप्रकाशिकायाञ्चोदाहरणात् तत्तत्स्थलविवेकार्थमत्रैव भावप्रकाशिकादर्शितया आनुपूर्व्या मुण्डकोपनिषत् पूर्ण प्रकाश्यते- “ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह । अथर्वणे यां प्रवदेत ब्रह्मा अथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ —कस्मिन्नु भगवो विज्ञाते सर्वभिदं विज्ञातं भवतीति ॥ तस्मै स होवाच-द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति, परा चैवापरा
३२८
विधिवदुपसन्नः पप्रच्छ, ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति । ब्रह्मविद्यायाः सर्वविद्याश्रयत्वाद्ब्रह्मविज्ञानेन सर्व विज्ञातं भवतीति कृत्वा ब्रह्मस्वरूपमनेन पृष्टम् । तस्मै स होवाच, ‘द्वे विधे वेदितव्ये इति ह स्म पन्द्रहविंदो वदन्ति पथ वैवापरा व इति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये ब्रह्मविषये परोक्षापरोक्षरूपे द्वे विज्ञाने उपादेये इत्यर्थः । तत्र परोक्षं शास्त्रजन्यं ज्ञानम्, अपरोक्षं योगजन्यम् । तयोर्ब्रह्मप्राप्त्युपाय भूतमपरोक्षं ज्ञानम् । तच भक्तिरूपापन्नम् ; “यमेवैष वृणुते तेन लभ्यः” इति अत्रैव विशेष्यमाणत्वात्; तदुपायश्चाऽऽगमजन्म विवेकादिसाधन सप्तकानुगृहीतं ज्ञानम् । " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति श्रुतेः । आद च भगवान् पराशरः, “तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोकं महामुने । आगमोत्थं विवेकाच द्विधा ज्ञानं तथोच्यते” इति । ‘तत्रापरा ऋग्वेदो यजुर्वेदः’ इत्यादिना ‘धर्मशास्त्राणि’ इत्यन्तेन आगमोत्थं ब्रह्मसाक्षात्कारः हेतुभूतं परोक्षज्ञानमुक्तम् । साङ्गस्य सेतिहासपुराणस्य सधर्मशास्त्रस्य समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पत्तिहेतुत्वात् । “अथ परा, यया तदक्षरमधिगम्यते” इति उपासनाख्यं ब्रह्मसाक्षात्कारअन्तर्भूतानीत्यर्थः । ब्रह्म जिज्ञासमानेन ब्रह्म हि प्रष्टव्यम्; ‘कस्मिन्नु भगवः’ इति प्रश्नस्य कथं ब्रह्मविषयत्वमित्यत्राह ब्रह्मविद्याया इति । ‘द्वे विद्ये’ इति विद्याद्वयं भिन्नविषयत्वेन इतरैर्व्याख्यातम् । तत्र कैश्चित् परविद्या परमात्मविषया अर्थान्तरविषया चापरविद्येति, कैश्चित् कर्मज्ञानमपर विद्या, ब्रह्मज्ञानं परविद्येति उक्तम् ; कैश्चित् अपरमात्मज्ञानमपरविद्या, परमात्मज्ञानं परविद्येत्युक्तम् । तद्व्यावृत्त्यर्थं व्याचष्टे ब्रह्मप्रेप्सुनेति । ब्रह्मैव विषयश्चेत्, द्वयोरपि को भेद इत्यत्राह परोक्षापरोक्षरूपे इति । तस्येति आदिः । ‘स तपोऽतप्यत’, ‘ओदनपाकं पचति’ इतिवत् द्वे विद्ये वेदितव्ये इत्युक्तिः । तत्र फलितमाह उपादेये इत्यर्थः इति । किं परोक्षम्, किमपरोक्षमित्यत्राह तत्रेति । ब्रह्मैव विषयश्चेत्, प्रथमेनैवालमित्यत्राह तयोरिति । उपायभूतम् - अव्यवहितो पायभूतम् । तस्यापि निष्फलत्वमत्रत्यवाक्येनावगम्यत इत्यत्राह तच्च भक्तिरूपेति । तर्हि किं प्रथमेनेत्यत्राह तदुपायथेति । साघनसप्तकं शास्त्रजन्यज्ञानं चोभयमप्युपासनात्मकज्ञानस्य हेतुरिति यावत् । एतद्वैशद्यायाह आह चेति । अनेन विद्याद्वयस्य भिन्नविषयत्वोतिरुपबृंहणविरुद्धेति दर्शितं भवति । विवेकाच — उत्थितमित्यर्थः । यथोक्तलक्षणे ज्ञानद्वयेऽपि किं चायं किंविषय मित्यपेक्षायामागमोत्थज्ञानं तत्त्रेत्यादिवाक्येनोक्तमित्याह तत्रेति । वेद एव हि ब्रह्मज्ञानहेतुः; धर्मशास्त्रादिकीर्तनं किमर्थम् ; न चात्रागमोत्थत्वं ज्ञानस्य शाब्दं प्रतीयत इत्यत्राह साङ्गस्येति । सपरिकरस्यागमस्य तज्ज्ञानहेतुत्वादपरा विद्येत्युक्तमित्यर्थः । ‘तत्रापरा ऋग्वेदः’ इत्यादिवाक्यस्यागमोत्थज्ञानविषयत्वं पूर्वोक्तोपबृंहणवचनेन द्विधा ज्ञानं तथोच्यते इत्यनेन स्पष्टीकृतम् । अथेत्यादिवाक्यस्य विवेकजन्यज्ञानविषयत्वमाह अथेति । उक्तमित्यन्वयः । यत्तदित्यादिवाक्यस्य विषयमा ह /
मुण्डकोपनिषत् 1 । च । तत्त्रापरा-ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीति । अथ परा-यया तदक्षरमधिगम्यते, यत्तददेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ।
1 १-२ ५ महश्यत्वादिगुणकापिकरणम् ३२९. लेक्षणभक्तिरूपापनं ज्ञानम् । ‘यसददेश्यमग्राह्यम्’ इत्यादिना परोक्षापरोक्षरूपज्ञानद्वयविधया परस्य ब्रह्मणः स्वरूपमुच्यते । ‘यथोर्णनाभिस्सृजते गृह्णते च’ इत्यादिना यथोतस्वरूपात् परस्माद्ब्रह्मणोऽक्षरात् कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्योत्पत्तिरुता, विश्वमिति वचनात् ; नाचेतन मानस्य । ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम्’ इति ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते । तपसा - ज्ञानेन; ‘यस्य ज्ञानमयं तपःइति वक्ष्यमाणत्वात् ; चीयते-उपचीयते; ‘बहु स्याम्’ इति सङ्कल्परूपेण ज्ञानेन ब्रह्म सृपृयुन्मुखं भवतीत्यर्थः । ततोऽन्नमभिजायते–अद्यत इत्यन्नम् ; विश्वस्य भोक्तृवर्गस्य भोग्यभूतं भूतसूक्ष्ममव्याकृतं परस्माद्रह्मणो जायत इत्यर्थः । प्राणमनःप्रभृति च स्वर्गापवर्गरूपफलसाधनभूतकर्मपर्यन्तं सर्व विकारजातं तस्मादेव जायते । ‘यस्सर्वशस्सर्ववित्’ इत्यादिना सृष्टयुपकरणभूतं सार्वश्यसत्यसङ्कल्पत्वादिकमुक्तम् । सर्वज्ञात्सत्यसङ्कल्पात्परस्मात् ब्रह्मणोऽक्षरादेतत्कार्याकारं ब्रह्म नामरूपविभक्तं भोक्तृभोग्यरूपं च जायते ॥ - ‘तदेतत्सत्यम्’ इति परस्य ब्रह्मणो निरुपाधिकसत्यत्वमुच्यते । “मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरत नियतं सत्यकामाः” इति सार्वज्ञ्यसत्यसङ्कल्पत्वादिकल्याणगुणाकरमक्षरं पुरुषं स्वतस्सत्यं नित्यं कामयमानाः तत्प्राप्तये फलान्तरेभ्यो विरक्ताः ऋग्यजुस्सामाथर्वसु कविभिर्द्दशनि वर्णाश्रमोचितानि यन्तदिति । यथोर्णनाभिरिति । भूतयोनित्वविवरण मित्यर्थः । तपसा चीयत इत्यादिकं व्याचष्टे ब्रह्मण इत्यादिना । विश्वस्य भोवतृर्गस्येत्यनेनैतद्वाक्यस्थ सत्यशब्दो व्याख्यातो भवति । सत्यशब्दवाच्यस्य भोक्तृवर्गस्येत्यर्थः । फलसाधनभूतकर्मपर्यन्तमिति । लोकाः – स्वर्गादयः । कर्मसु चामृतम् - कर्म स्वायत्तममृतम् । अमृतत्वसाधनभूतं कर्मेत्यर्थं इति भावः । पुनः सर्गाभिधानपौनरुक्तयमाशङ्कयाह यस्सर्वज्ञ इति । यथा ‘दध्ना जुहोति’ इति वाक्ये जुहोतिपदेन ‘अग्निहोत्रं जुहोति’ इति विहितं होममनूद्य दध्नस्तत्साधनत्वं विधीयते, तथा कारणानुवादेन सर्वज्ञत्वादिगुणविधा - नमित्यर्थः । भोक्तभोग्यरूपश्च जायत इत्यनेन अन्नशब्दो व्याख्यातो भवति । ‘अद्यतेऽत्ति च भूतानि इति शब्दनिर्वचनम् । द्वितीयखण्डार्थमाह तदेतत्सत्यमित्यादिना । परस्येति । कारणत्वशङ्कितदोषव्यावृत्त्यर्थमुक्तमित्यभिप्रायः । मन्त्रेष्वित्यादि । केचित् सत्यकामपदं चतुर्मुखलोककामपरं व्याचक्षत इति तद्व्युदासार्थमाह सार्वइयेति । कामनीयत्वाय कल्याणगुणाकरत्वमुक्तम् । अक्षरं पुरुषं स्वतस्सत्यं … कामयमाना इति । ‘तदेतत्सत्यम्’ ‘येनाक्षरं पुरुषं वेद सत्यम्’ पुनश्च ‘तदेतत्सत्यम्’ इति पूर्वापरयो ब्रह्मवाचित्वेन प्रयुक्त सत्यशब्दैफार्थ्यादिति भावः । बहुघेति — अधिकारमन्त्रफलमेदेन । त्रेता - “अमित्रयमिंद त्रेता” इति नैघण्टुकाः । मुण्डकोपनिषत् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् । यथोर्णनाभिस्सृजते गृहते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् । तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् । यः . सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥१०॥ इति प्रथमः खण्डः ॥ तदेतत् सत्यम् । मन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा संततानि । 242
३३०
त्रेताग्निषु बहुधा सन्ततानि कर्माण्याचरतेति । ‘एष वः पन्थाः’ इत्यारभ्य, ‘एष वः पुण्यस्सुकृत ब्रह्मलोकः’ इत्यन्तेन कर्मानुष्ठानप्रकारम् श्रुतिस्मृतिचोदितेषु कर्मस्वेकतर कर्मवै धुर्ये ऽपीतरेषामनुष्ठितानामपि निष्फलत्वम् अयथानुष्ठितस्य चा
ननुष्ठितसमत्वमभिधाय, “प्लवा होते अहसा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति” इत्यादिना फलाभिसन्धिपूर्वकत्वेन ज्ञानविधुरतया चावरं कर्माऽऽचरतां पुनरावृत्तिमुक्त्वा, आचरतेतीति । उच्यत इति पूर्ववाक्यादनुषङ्गः । एष इत्यादि । एकतर कर्मवैधुर्ये ऽपीतरेषां… निष्फलत्वमित्यनेन “यस्याग्निहोत्रम दर्शपूर्णमा समनाग्रयणमतिथिवर्जित (जनं) च अहुतमवैश्वदेवम्’ इत्यस्यार्थोऽभिप्रेतः । अयथानुष्ठितस्या
ननुष्ठितसमत्वं चेत्यनेन “अश्रद्धया अविधिना हुतमासप्तमात् तस्य लोकान् हिनस्ति” इत्यस्यार्थ उक्तः । इदं त्रिवर्गफलसाधनकर्म विषयमुक्तम् ; ‘प्लवा घेते अदृढा’ इति तत्प्रकरणत्वात् ; “नेहाभिक्रमनाशोऽस्ति” इति मोक्षसाधनकर्मणां यथोक्तविपरीतत्वप्रतिपादनाच्च । प्लवा ह्येते इत्यादि । अष्टादशोकम् – अष्टादशस्मृत्युक्तम् । श्रुतेरपि प्रदर्शनार्थमिदम् । श्रुतिस्मृतिचोदितं कर्मेत्यर्थः । यद्वा षोडशर्विक पत्नी यजमानरूपाष्ट। दशपुरुषेषु विहितम् । यद्वा “नव ग्राम्यान् पशूनालभते ; नवारण्यान् ; उभयान् पशूनालमते” इति श्रुत्युक्ताष्टादशपशुहविष्कं कर्मेति । यज्ञशब्दः कर्तसामान्यवाची । येषु पुरुषेषु स्मृतिविहितमवरं कर्म फलाभिसन्धिमत् एतच्छ्रेयो येऽभिनन्दन्ति, ते पुरुषा जरामृत्यू 1 1 अष्टादशत्वसंख्यानिर्वहणविषये परिष्कारोऽपि द्रष्टव्यः । P मुण्डकोपनिषत् 1 तान्याचरत (थ) नियतं सत्यकामा एष वः पन्थाः सुकृतो ब्रह्मलोकः । यथा ले (लो)लायते ह्यचिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ( श्रद्धयाहुतम् ) । यस्यांग्निहोत्रमदर्शपूर्णमा समचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अद्भुतमवैश्वदेवमश्रद्धया अविधिना हुतमासप्तमात् तस्य लोकान् हिनस्ति । सप्त ते अग्ने समिधस्सप्त जिल्ह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन । काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी (रुची) च देवी लेलायमाना इति सप्त जिह्वाः ॥ एतेषु (एतासु ) यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ [ एतासु भ्राजमानामु सप्तसु जिह्वासु यथाकालं यः कर्माचरति तमाददाना आहुतयस्सूर्यरश्मयो भूत्वा इन्द्रादिलोकं नयन्तीत्यर्थः । ] “एह्येही ति तमाहुतयस्सुवर्चसस्सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां घाचमभिवदन्त्योऽर्चयन्त्यः एष वः पुण्यस्सुकृतो ब्रह्मलोकः ॥ प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोत्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापियन्ति ॥ अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥ अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीण लोकाश्च्यवन्ते । [यस्मात्कारणात् कर्मिणो रागोपहतास्तत्त्वं न जानन्ति, तस्माच्च्यवन्त इत्यर्थः ।] इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं चाऽऽविशन्ति । [अनुभूत्वा - अनुभूयेत्यर्थः । हीनतरं वा-अतिहीनं नरकं वा इत्यर्थः ।] ।
१-२-५ अहश्यत्वादिगुणकाधिकरणम् ३३१ " तपश्श्रद्धे ये पवसन्ति” इत्यादिना पुनरपि फलाभिसन्धिरहितं ज्ञानिनाऽनुष्ठितं कर्म ब्रह्मप्राप्तये भवतीति प्रशस्य, “परीक्ष्य लोकान्” इत्यादिना केवलकर्मफलेषु विरक्तस्य यथोदितकर्मानुगृहीतब्रह्मप्राप्त्युपायभूतं ज्ञानं जिज्ञासमानस्य च आचार्योपसदनं विधाय, “तदेतत्सत्यं यथा सुदीप्तात् " इत्यादिना “सोऽविद्याग्रन्थिं विकिरतीह सोम्य” इत्यम्तेन पूर्वोक्तस्याक्षरस्य भूतयोनेः परस्य ब्रह्मणः परमपुरुषम्यानुक्तैः स्वरूपगुणैः सह सर्वभूतान्तरात्मतया विश्वशरीरत्वेन विश्वरूपत्वम् अपियन्तीत्यन्वयः । ब्रह्मप्राप्तये भवतीत्यनेन ‘सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो झव्ययात्मा’ इत्यस्यार्थ उक्तः । परीक्ष्य लोकान् इत्यादिवाक्ये गुरूपसत्तिविषयनियमविधिः ; अन्यत् न्यायसिद्धार्थानुवादरूपम् । तृतीयखण्डार्थमाह तदेतत्सत्यं यथेत्यादिना । भूतयोन्यक्षरस्य अक्षरात्परतः परस्य चानन्यत्व सिद्ध्ये प्रथम तृतीयखण्डयोरैकार्थ्यप्रत्यभिज्ञापकविशेषणानि दर्शयति पूर्वोक्तस्येत्यादिपदैः । पूर्वोक्तस्यैवेह प्रतिपाद्यत्वोपपादकानि पदान्तराणि । तदक्षरमधिगम्यते … भूतयोनिं परिपश्यन्ति’, ‘तथाऽक्षरात् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’ इति वाक्ययोरेकविषयत्वं दर्शितम् अक्षरस्य भूतयोनेरिति । ‘तपसा चीयते ब्रह्म’, ‘तपो ब्रह्म परामृतम्’ इत्यनयोरैककण्ठ्यं दर्शितम् परस्य ब्रह्मण इति । ‘तस्मादेतद्रा’ इत्यवगतकार्यब्रह्मव्युदासार्थः परशब्दः । ‘तेनेदं पूर्ण पुरुषेण’, ‘पुरुष एवेदं सर्वम् ’ इत्यनयोरेकविषयत्वाभिप्रायेण परमपुरुषस्येत्युक्तम् । तत्र ‘यस्मात् परं नापरमस्ति’ इत्युक्तसमाभ्यषिकराहित्यसूचनार्थः परमशब्दः । अक्षरपुरुषशब्दाभ्यां ‘येनाक्षरं पुरुष’ मिति द्वितीयखण्डैकार्थ्यं च दर्शितं मुण्डकोपनिषत् तपश्श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो ब्रह्मचर्यं चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति . यत्त्रामृतस्स पुरुषो ह्यव्ययात्मा । परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन । तद्विज्ञानार्थे स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्त्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १४ ॥ इति द्वितीयः खण्डः ॥ तदेतत्सत्यम् । यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षरा • द्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । भप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परतः परः ॥ एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ अग्निर्मूर्द्धा चक्षुषी चन्द्रसूयौं दिशः श्रोत्रे वाग्विवृनश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ तस्मादग्निस्समिधो यस्य सूर्यस्सोमः पर्जन्य ओषधयः पृथिव्याः (व्याम्) । पुमान् रेतस्सिञ्चति योषितायां बह्वीः प्रजा बहुधा सम्प्रसूताः ॥ तस्मादृचस्साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकः सोमो यत्र पवते यत्न सूर्यः ॥ तस्माच्च देवा बहुधा सम्प्रसूतास्साध्या मनुष्याः पशवी वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥ सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषस्समिधस्लप्त होमाः (जिह्वाः) । सप्तेमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ अतस्समुद्रा गिरयश्च सर्वे अस्मात्स्यन्दन्ते सिन्धवस्तप्त (र्व) रूपाः । अतयं
३३२ भुतप्रकाशिकोपेते श्रीभाष्ये तस्माद्विश्वसृष्टिं च विस्पष्टमभिधाय - “आविः संनिहितम्’ इत्यादिना तस्यैवाक्षरस्यान्या- भवति । अत्र हि, ‘तथाऽक्षरात् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’ इत्युक्त्वा, ‘दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरः’ इति प्रकृतकारणाक्षरपरामर्शितच्छब्देन अक्षरात्परतः परस्य सामानाधिकरण्यात् भूतयोन्यक्षरमेवाक्षरात्परतः पर इत्यवगम्यते । न हि, तस्मादक्षरात्पर इत्युक्तम् अपि त्वक्षरात्स पर इति । पश्चादपि ‘एतस्माज्जायते प्राणः’, ‘एष सर्वभूतान्तरात्मा’, ‘तस्मादग्निः समिधश्व सूर्यः’ इत्यारभ्य, ‘अतः सर्वा ओषधयः” इत्यन्तेषु वाक्येषु तमेव तदेतच्छन्दैः परामृश्य, ‘एतेषु भूतेषु तिष्ठते ह्यन्तरात्मा’ इत्युक्त्वा, ‘पुरुष एवेदं सर्वम्’ इत्यभिधानात् भूतयोन्यक्षरब्रह्मशब्दवाच्यः पुरुष एवाक्षरात्परतः पर इति प्रतीयते । अनुक्तैः स्वरूपगुणैरित्यनेन, ‘दिव्यो ह्यमूर्तः पुरुषः’ इत्याद्युक्ताः दिव्यत्वामूर्तत्वविभुत्वादयो गुणाः विवक्षिताः । विश्वरूपत्वम् विश्वप्रकारत्वम् । तदेव विश्वशरीरशब्देन विशेषितम् । तदुपपादकं सर्वभूतान्तरात्मतयेति पदम् । अन्तः प्रविश्य नियन्तृत्वादस्य विश्वं शरीरतया प्रकार इत्यर्थः । अनेन, ‘पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’, ‘अतश्च सर्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते न्तरात्मा’, ‘पुरुष एवेदं सर्वम्’ इति श्रुत्यर्थोऽनुसंहितः । तस्माद्विवसृष्टि चेत्यनेन, ‘तस्मादग्निः समिधश्च सूर्यः सोमः पर्जन्य ओषधयः’ इत्याद्यर्थ उक्तः । विस्पष्टमित्यनेन प्रथम तृतीयखण्डयोः पौनरुक्त्यपरिहारः । पूर्वोक्तसृष्टिप्रपश्ञ्चनपरत्वान्न पुनरुक्तिरित्यभिप्रायः । 1 । चतुर्थखण्डार्थमाह आचिरिति । आविस्संनिहितम् - योगिनामपरोक्षं संनिहितम् । तस्यैवप्रथम द्वितीयखण्डप्रतिपादितस्य । अव्याकृतादिति । अक्षरात्परतः परस्येति तृतीयखण्डप्रतिपादितस्येत्यर्थः । मुण्डकोपनिषत् विश्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ पुरुष एवेदं सर्वं ततो ब्रह्म परामृतम् । एतद्यो देद निहितं गुहायां सोऽविद्याग्रन्थि विकिरतीह सोम्य ॥ १० ॥ तृतीयः खण्डः ॥ आविस्सन्निहितं गुहाचरं नाम महत्पदम् । तत्त्रेदं सर्वमर्पितम् एजत्प्राणत् निमिषच्च यत् । एतज्जानथ सदसद्वरेण्यं परं विज्ञानात् यद्वरिष्ठं प्रजानाम् ॥ [ जानथेति — हे शिष्या इति शेषः । ] यदर्चिमद्यदणुभ्योऽणु यस्मिल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म तत्प्राणस्तदवाङ्मनः । [वाङ्मनसागोचरमित्यर्थः ।] तदेतत्सत्यं तदमृतं वेद्धव्यं सोम्य विद्धि ॥ ऋग्धनुर्यजुर्बाणस्साम ज्या घोषणादिना । आथर्वणमयं शुभ्रं प्रतिगृह्णीत सुत्रतः ॥ धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ लक्षं सर्वगतं चैव शरो मे सर्वतोमुखम् । वेद्धा सर्वगतश्चैव विद्धं लक्षं न संशयः ॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् ॥ । यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः ॥ भरा इव रथनाभौ संहता यत्र नाडयस्स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथात्मानं स्वस्ति यः पाराय तमसः परस्तात् । [पाराय-
३३३ कृतात्परतो ऽपि पुरुषात्परभूतस्य परस्य ब्रह्मणः परमव्योम्नि प्रतिष्ठितस्यानवधिका तिशयानन्दस्वरूपस्य हृदयगुहायामुपासनप्रकारम् 1 उपासनस्य च परभक्तिरूपत्वमुपासीनस्याविद्याविमोकपूर्वकं ब्रह्मसमं ब्रह्मानुभवफलं चोपदिश्योपसंहृतम् । तदेतदक्षरं ब्रह्मेति वाक्यमभिप्रयन्नाह परस्य ब्रह्मण इति । ‘यस्सर्वज्ञस्सर्ववित् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’ इत्यस्यार्थमाह परमव्योम्नि प्रतिष्ठितस्येति । यस्यैष महिमा भुवीति लीलाविभूत्यन्वय उक्तः । दिव्ये व्योम्नीति त्रिपाद्विभूतिरुक्ता । ब्रह्मपुरे इति शब्दः ‘एतत्सत्यं ब्रह्मपुरम्’ इतिवन्न कर्मधारयः ; ब्रह्मपुरे आत्मा प्रतिष्ठित इति व्यतिरेकनिर्देशात् । ‘तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति’ इति वाक्यं हृदि निघायाह अनवधिकातिशयेति । हृदयगुहायामुपासनप्रकारमिति । ‘एतद्यो वेद निहितं गुहायाम्’ इति पूर्वखण्डावसाने हृदयंगुहायामुपासनं विहितम्, ‘तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि’ इत्यारभ्य, " प्रणवो धनुश्शरो ह्यात्मा’, ‘आत्मानमरणि कृत्वा’ इत्यादिभिरुपासनस्य प्रकार उक्त इत्यर्थः । हृदयगुहा संबन्ध्युपासनस्यैव प्रकारोपदेशोऽयम्, न तूपासनान्तरस्येति इदमवगतम् ‘गुहाचरं नाम महत् पदम्’, ‘प्रतिष्ठितोऽन्तर्हृदये संनिधाय, ’ ‘पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीयात् विश्वस्यायतनं महत्’ इति चतुर्थखण्ड एव तस्योपासनस्य हृदय गुहा संबन्धित्वावगमात् । पाठक्रमादर्थक्रमस्य प्रबलत्वात् षष्ठखण्डे प्रतिपन्नमर्थमाह उपासनस्य चेति । ‘यमेवैष वृणुते तेन लभ्यः’ इति हि तत्रोक्तम् । अर्थक्रमेण, ‘तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ’ इति पञ्चमखण्डस्यवाक्यं हृदि निघायाह ब्रह्मसममिति । भोगमात्रेण साम्यमित्याह ब्रह्मानुभवफलमिति । अविद्याविमोकपूर्वकमित्यनेन पुण्यपापे विधूयेत्यस्यार्थ उक्तः ॥ 1 उपासनप्रकारमिति । उपरितनांशस्यात्र विस्तरेणानुक्तिस्तु द्युभ्वाद्यधिकरणस्य भविष्यतोऽयं भागो विषय इति । 2 अर्थक्रमेणेति । भाष्यार्थदर्पणोक्तमपि ग्राह्यम् । मुण्डकोपनिषत् तीरभूतायेत्यर्थः ।] यस्सर्वज्ञस्सर्ववित् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्नि आत्मा प्रतिष्ठितः ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्तर्हृदये संनिधाय । तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति । न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः कुतोऽन्या देवताः । स एष देवः कृतभूतभावनः स्वयं विरु(शु) द्धो विरजः प्रकाशते । ब्रह्मैवेदममृतं यत्पुरस्तात् ब्रह्म पश्चाद्दक्षिणतश्चोत्तरतश्च । अधश्चोर्ध्वञ्च प्रसृतं ब्रह्म ब्रह्मैवेदं सर्वमिदं वरिष्ठम् ॥ पद्मकोशप्रतीकाशं सुषिरञ्चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ १७ ॥ इति चतुर्थः खण्डः ॥ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । प्राणो ह्येष [यः ] सर्वभूतैर्विभाति विजानन् 1
३३४
ननु पञ्चमखण्डे साम्यापत्तिरूपः सगुणमोक्ष उक्तः । षष्ठे तु ‘युक्तात्मानः सर्वमेवाविशन्ति’ इति परब्रह्मप्राप्तिरूपपरममोक्ष उक्तः । वेदान्तविज्ञानेति मन्त्रेण तस्य क्रमभावित्वमुक्तम् । ‘परेऽव्यये सर्व एकीभवन्ति’ इति परममोक्षस्यैक्यापत्तिरूपत्वमुक्तम् । ‘यथा नद्य’ इति विशेषप्रहाणमुक्तम् । ब्रह्मैव भवतीत्यैक्यापत्तिनिगमनमिति ॥ नैवम् ; तथाहि – सर्वमेवाविशन्तीति न निर्गुणप्राप्तिः, सर्वशब्दस्य निर्गुणवाचित्वाभावात् ; किं तु ब्रह्मविभूतिभूततद्व्याप्यसमस्तजगदनुभवोक्तिः । ’ ते सर्वगं सर्वतः प्राप्य धीराः’ इति सर्वगस्य ब्रह्मणः प्राप्तेरुक्तत्वात् ; सर्वगशब्देन सर्वशब्दवाच्यस्य ब्रह्मव्याप्यविभूतित्वावगमाच्च । वेदान्तविज्ञानेति तु वाक्यं चरमशरीरावसाने ब्रह्मप्राप्तिप्रतिपादकमिति वक्ष्यते । ‘गताः कलाः पञ्चदश प्रतिष्ठाः’ इति मन्त्रश्च मुक्तात्मपरित्यक्तदेहेन्द्रियतदभिमानिदेवतादी नामितर चेतनाचेतनवत् प्रलये परमात्मनि लयपरः ; न तु मोक्षपरः; मुक्तौ कलाशब्दोक्तभूतेन्द्रियाणां परमात्मनैक्यापत्त्य - 1 वक्ष्यते कार्याधिकरणे । मुण्डकोपनिषत् यत्र विद्वान् भवतेि नातिवादी । [ अतिवादी न भवति - बहुगवाङ् न भवतीत्यर्थः ।] आत्मक्रीड आत्मरतिः क्रियावानेष हि ब्रह्मविदां वरिष्ठः ॥ सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यज्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रः यं पश्यन्ति यतयः क्षीणदोषाः ॥ सत्यमेव जयति नानृतम् सत्यस्य पन्था विततो देवयानः । येनाप्नुवन्ति ऋपयो ज्ञानतृप्ताः तत् सत्यस्य परमं निधानम् ॥ वृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । दूरात्सुदुरे तदिहान्तिके च पश्यत्येतन्निहितं गुहायाम् ॥ न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः ॥ एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा । [ विभवति - वैभवयुक्तो भवति ; परमात्मनि प्रसन्ने असंकुचितज्ञानो भवतीत्यर्थः ।] यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांच कामान् । तंतं लोकं जयति तांश्च कामान् तस्मादात्मस्थं ह्यर्चयेद्भूतिकामः ॥ १० ॥ इति पञ्चमः खण्डः ॥ स वेदैतत्परमं ब्रह्म धाम यस्मिन् विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्लमेतदतिवर्तन्ति धीराः ॥ [शुभ्रम् - पुरुषमित्यन्वयः । शुक्लम् - शरीरोपादानभूतं यत् शुक्लमित्यर्थः । ] कामान् यः कामयते मन्यमानः स कामभृजायते यत्र तत्र । पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः ॥ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ नायमात्मा बलेहीनेन लभ्यो न च प्रमादान्न तपसोप्यऽलिङ्गात् । [तपश्शब्दो ज्ञानपरः । चत्राङ्कनादिलिङ्गशून्यज्ञानेन च न लभ्य इत्यर्थः । ] एतैरुपायैर्यतते यस्तु विद्वान् तस्यैष आत्मा विशति ब्रह्मधाम ॥ [ एतैरुपायैः - बलोप्रमादसलिङ्गज्ञानैरित्यर्थः । संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति । वेदान्त विज्ञानसुनिश्चितार्थाः संन्यासयोगात् यतयश्शुद्धसत्त्वाः ।
१-२-५ अवश्यत्वादिगुणाधिकरणम् भस एवं विशेषणाद्भेदव्यपदेशाथ नास्मिन् प्रकरणे प्रधानपुरुषौ प्रतिपाद्येते । ३३५ भेदव्यपदेशोऽपि हि ताभ्यां परस्य ब्रह्मणोऽत्र विद्यते, “दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो हाक्षरात्परतः परः” इत्यादिभिः । अक्षरादव्याकृतात्परो यः समष्टिपुरुषः, तस्मादपि परभूतोऽदृश्यत्वादिगुणकोऽक्षरशन्दाभिहितः परमामेत्यर्थः । अश्नुत इति वा, न क्षरतीति वा अक्षरंतत् । अ (रम् । तत् अ) तदव्याकृतेपि स्वविकारव्याप्त्या वा महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वा अक्षरत्वं कथञ्चिदुपपद्यते ॥ भावात् ॥ पृथिव्यादिषु लय एव परमात्मनि लय इति चेत् — अमुक्तदेहस्यापि पृथिव्यादिषु लयादस्य वाक्यस्य मुक्तविषयत्वं न स्यात् । एकस्मिन् मुक्ते सति अग्न्यादिदेवताश्च न परमात्मनि लीयन्ते । अतश्चेदं वाक्यं न मुक्तस्य परमात्मैक्यापत्तिपरम् । यथा नद्य इति तु वाक्यं मुक्तस्य ब्रह्मप्राप्तेः कर्मकृतनामरूपप्रहाणपूर्वकत्व परम् । ब्रह्मैव भवतीति पूर्वोक्तसाभ्यापत्ति निगमनपरम्; ब्रह्मपर्यन्तखात्माविर्भावपरं वा । मतो यथोक्त एवार्थः । एवं सौत्रहेतुद्वये विशेषणं प्रपञ्चितम् । उपपादितं हेतुं हेत्वन्तरेण सहानुवदन् साध्यार्थेन घटयति अत एवमिति । भेदव्यपदेशस्योपादानं तस्य प्रपञ्चनाकाचा जननार्थम् । अथ भेदव्यपदेशं प्रपञ्चयति भेदव्यपदेशोऽपि हीति । अक्षरशब्दस्याव्याकृतवाचित्वं " कथमित्यपेक्षायाम्, “प्रोक्षणीष्वर्थसंयोगात्” इति श्रन्यायमभिप्रेत्यावयवशक्ति दर्शयति अश्नुत इति । अश्नुत इत्य(त्याद्य ?)वयवार्थः किमव्याकृते संभवतीत्यत्राह अव्याकृतेऽपीति । स्वविकारव्याप्त्येति । कार्याकारेण विकृतमंशं विकृतादन्यः कारणांशः सूक्ष्मतया व्याप्नोतीत्यर्थः । अत एवेदमप्यसदर्थद्वयं नाशङ्कनीयम्, यदुच्यते-इहाय सर्वज्ञशब्दः कस्मिंश्चिद्देवताविशेषे रूढः, न तु यौगिकः, अन्यथा सर्वविच्छब्दपौनरुक्त्यात् । तस्मात् ब्रह्मण उत्पत्तिः श्रूयते, ‘तस्मादेतद्धम नामरूपमन्नञ्च जायते’ इति । इह ब्रह्मशब्दवाच्यश्च परमपुरुषः ; ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ इति, ‘पुरुष एवेदं सर्वं तपो ब्रह्म परामृतम्’ इति ब्रह्मपुरुषशब्दयोरेकविषयत्वावगंमादिति । तत्र पुरुषाक्षर शब्दयोः सामानाधिकरण्यादक्षरस्य भूतयोनित्वश्रवणात् पुरुष उपादानम् ; अक्षरात्परतः परश्च सर्ववित्त्वादियोगात् निमित्तम् । एवञ्च ‘अक्षरात् संभवति’, ‘अक्षरात्परतः’ इति 1 परमात्मनैक्यापत्यभावादित्येतत्, तानिपरे (4.2-25) इति सूत्रे, कलाजातं परब्रह्मविदो ब्रह्मैव संपद्यते इति शांकरभाष्यखण्डनार्थमिति भा० प्र० 2 कथमिति । किं योगेन उत रूढ्या । नाद्यः ; प्रतिक्षणक्षरणस्वभावस्याव्यक्तस्या• क्षरत्वायोगात् । नान्त्यः, यया तदक्षरमित्यत्र रूढिभंगेनार्थवर्णनदोषप्रसंगदिति भावः । 8 न्यायमिति । वर्णविषये महाभाष्यम्, ‘अक्षरं न क्षरं विद्यात् अश्नोतेर्वा सरोऽक्षरम्’ इति । मुण्डकोपनिषत् ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ॥ गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वमेकं भवन्ति ॥ यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपात् विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति । नास्याब्रह्मवित् कुले भवति ।
३३६ भुतप्रकाशिकोपेते श्रीमाण्ये अक्षरशब्दयोर्विरूपार्थता च न स्वादिति ॥ तन्न तावत् निमिसोपादानभेदोऽनुपपन्नः ; तथा सति निमियान्तरस्य स्थितत्वेन ब्रह्मविज्ञानेन सर्वविज्ञानानुपपत्तेः । न च कार्यविषयतया सर्वशब्दसहोचात् निमित्तान्तर स्थित्युपपत्तिः ; उपादानभूतस्यैव ब्रह्मणो निमित्तत्वं वदतां निमित्तान्तरं च निषेधतां वाक्यानां भूयस्त्वात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं चोपक्रमावगतत्वात् प्रचलम् । अक्षरपुरुषस्य ‘यस्मात्परं नापरम्’ इति समाभ्यधिकनिषेधश्च उपक्रमावगतः । तेन तत्प्रेरकं निमित्तान्तरमनुपपन्नम् । अस्यामेवोपनिषदि, ‘रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्म योनिम्’ इति कर्तृत्वयोनित्वश्रवणाच्च न निमित्तोपादानभेदः । अन्नादिप्रपञ्चकारणत्वप्रत्यभिज्ञानाच्च न सर्वज्ञाक्षरपुरुषयोर्भेदः - “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते” इति सर्वज्ञस्य तथात्वं श्रूयते ; ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते’ इति ब्रह्मणश्च तथात्वं श्रूयते । ‘तपसा चीयते ब्रह्म’, ‘यस्य ज्ञानमयं तपः” इति तपश्शब्दवाच्यज्ञानवत्त्वं सर्वज्ञस्य ब्रह्मणश्चावगम्यते । ब्रह्मपुरुष शब्दयोश्चैकविषयत्वं दर्शितम् । । एवं सर्वज्ञशब्दवाच्यस्य ब्रह्मशब्दनिर्दिष्टपुरुषस्य चान्नादिकारणत्वतदुपयोगिसार्वश्यादिगुणयोगेनानन्यत्वात् निमित्तोपादानभेदो विध्वस्तः । तदभेदे च सति, “तथाऽक्षरात् संभवति’, ‘तस्मादेतत् ब्रह्म’ इति पञ्चम्योर्वैरूप्यं च न स्यात् । ‘ब्रह्म वनं ब्रह्म स वृक्ष आसीत्’ इति श्रुत्यन्तराविरोधश्च स्यात् । ’ तपसा चीयते’, ‘यस्सर्वज्ञः’ इति मन्त्रयोः प्रतिपन्नस्य सर्वज्ञस्य ब्रह्मणच कारणतयाऽनन्यत्वात् मिथः कार्यकारणभावशङ्का निरता । . किञ्च अस्यामुपनिषदि, अक्षरब्रशशब्दौ कारणे कार्ये च प्रयुक्तौ, ‘अक्षरात् संभवति’, ‘अक्षरात्परतः परः’, ‘तपसा चीयते ब्रह्म’, ‘तस्मादेतद्ब्रह्म’ इति । तत्र पुरुषशब्दसमानाधिकरणावक्षरब्रह्मशब्दौ किं कारणविषयौ, उत कार्यविषयौ इति विशये - ‘नास्त्यकृतः कृतेन’ इत्युक्ता, ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ’ इत्युक्तत्वात् कारणविषयाविति निश्चीयते । ततश्च कारणपुरुषादन्यस्य परत्वासंभवात् भूतयोन्यक्षरमेवाक्षरात्परतः परः । किञ्च ‘येनाक्षरं पुरुष वेद सत्यं प्रोवाच’ इत्यक्षरपुरुषस्य वक्तव्यत्वप्रतीतेः तस्यैव प्राधान्यात् स एवाक्षरात्परतः परश्च भवितुमर्हति ; अन्यस्य प्रतिपाद्यत्वं प्रतिज्ञाय अर्थान्तरप्रतिपादन (ने ? ) व्याघातात् । भूतयोन्यक्षरधर्माणामक्षरात्परतः परे दर्शनात्, तस्य च स इति प्रकृताक्षर पुरुष परामर्शितच्छन्दसामानाधिकरण्याच्चाक्षरात्परतः पर एवाक्षरपुरुषः । किञ्च यथा भूतयोन्यक्षरस्य पुरुषत्वम्, अक्षरं पुरुषमिति पुरुषशब्दसामानाधिकरण्यादवगम्यते, तथा अक्षरात्परतः परस्य च पुरुषत्वं ‘दिव्यो मूर्तः पुरुषः’ इति पुरुषशब्दसामानाधिकरण्यादवसीयत इति तयोरनन्यत्वसिद्धिः । ब्रह्मशब्दवाच्याक्षरपुरुषादन्यः सर्वज्ञ इह प्रतिपाद्यते चेत्"स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्” " मुण्डकोपनिषत् 9 तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । तदेष श्लोकः । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्टाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवत् यैस्तु चीर्णम् । तदेतत् सत्यमृषिरङ्गिराः प्रोवाच । नैतदचीर्णप्रतोऽधीते नाकृतपावन नासंन्यासी च । नमः परमर्षिभ्यो नमः परमर्षिभ्यः ॥ १० ॥ इति षष्ठः खण्डः ॥ मुण्डकोपनिषत् समाप्ता । अत्र निर्दिष्टे मुण्डकोपनिषत्पाठे स्थिता अधिका अंशाः भाष्यटीकानुमोदिता इतीदमनन्तरपुटे द्रष्टव्यम् ।
१-२-५ अदृश्यत्वादिगुणका धिकरणम् रूपोपन्यासाच्च ॥ १-२-२४ ॥ ३३५ “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी होष सर्वभूतान्तरात्मा” इतीदृशं रूपं सर्वभूतान्तरात्मनः परमात्मन एव संभवति, इति अदृश्यत्वादिगुणकाधिकरणम् । अतश्च परमात्मा ॥ इत्युपक्रमविरोधश्च स्यात् । अक्षरपुरुषः सर्वज्ञादपरश्चेत्, ‘अथ परा यया तदक्षरमधिगम्यते’ इत्यक्षरविद्यायाः परविद्यात्वकथनं विरुध्येत । अक्षरपुरुषः परमकारणं न चेत्, ‘उपासते पुरुषं ये कामाः ‘, ‘परात्परं पुरुषमुपैति दिव्यम्’ इति परमपुरुषस्योपास्यत्व प्राप्यत्व श्रवण विरोधः । परमकारणस्यैव छुपास्यत्वप्राप्यत्वे वेदान्तप्रसिद्धे । परमकारणं चेदक्षरपुरुषः, तस्मादन्यस्य परत्वमनुपपन्नम् ‘स कारण करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ इति कारणान्तराधिपत्यन्तर निषेधात् । एवच सति सर्वज्ञशब्द रूढघनुगुणं न पुरुषशब्दो नेयः; अपि तु पुरुषशब्दरूढयनुगुणं सर्वज्ञशब्दो नेयः । ततश्च तस्य पशुपतिपरत्वमयुक्तम् । ‘दिव्यो ह्यमूर्तः पुरुषः ’ ‘रुवमवणं कर्तारमीशं पुरुषम्’, ‘परात्परं पुरुषम्’ इत्यादिवाक्यानाम्, ‘आदित्यवर्णं तमसः परस्तात्’, ‘आदित्यवर्णं तमसस्तु पारे’, ‘त्रिपादस्यामृतं दिवि’, ‘पुरुष एवेदं सर्वम्’ इति पुरुषनारायणोत्तरनायणैकार्थ्यप्रतीतेः, ‘नित्यं विभुं सर्वगतं सुसूक्ष्मम्’ इत्यनेन ‘अणोरणीयान् महतो महीयान्’ इति (त्यादि) कठवल्ल्यैकार्थ्यावगमात् तत्र च ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ इति श्रवणाश्च, ‘पद्मकोशप्रतीकाशम्’, ‘पुरुष एवेदं सर्वम्’ इति नारयणानुवाकसुबालोपनिषदैकार्थ्यावगमाच्च परमपुरुषपरत्वसिद्धिः । ब्रह्मरुद्रयोर्नारायणसृज्यत्वादिश्रुतिविरोधश्चान्यथा स्यात् । अतः सर्वज्ञशब्देन सर्वेषां धर्मिणां ज्ञातृत्वमुक्तम् । सर्वविच्छब्दस्तु तचद्वस्तुगत सर्व प्रकारवेदित्वपरः । धर्मिमात्रज्ञानादपि तद्गतप्रकारकात्स्यज्ञानं हि ज्ञातुः प्रकर्षापादकम् । अक्षसंज्ञवृक्षमात्रज्ञानं हि सर्वेषां संभवति, सकृच्चक्षुः संप्रयोग एव तद्गतशाखापत्रफलसङ्ख्यादिज्ञानं हि अक्षहृदयाभिज्ञस्यैव संभवति । यद्वा सर्वं विन्दतीति सर्वचित् ; सर्वखामीत्यर्थः । लब्धधनो वि धनखामी भवति । अतः सर्वज्ञत्वादिगुणको निमित्तोपादानभूतः सर्वस्मात्परः परमपुरुष एव ॥ रूपोपन्यासाच्च ॥ सर्वभूतान्तरात्मन इति सर्वभूतान्तरात्मसंबन्धितयोच्यमानमीदृशं रूपं. परमात्मन एव संभवतीत्यर्थः ॥ 1 अत्र मुण्डके निवेशितानामधिकपाठानामादरणे प्रमाणभूताः श्रीभाष्य श्रुतप्रकाशिकासूक्तयस्तावत् - (पु. 328) “तत्त्रापरा - ऋग्वेदो यजुर्वेद इत्यादिना धर्मशास्त्राणीत्यन्तेनसांगस्य सेतिहासपुराणस्य … समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पत्तिहेतुत्वात् (श्रीभाग्य), (श्रु. प्र. पु. 328) “वेद एव हि ब्रह्मज्ञानहेतुः ; धर्मशास्त्रकीर्तनं किमर्थम्”, (330 पु) “अश्रद्धया अविधिना हुतम् आसप्तमात् तस्य लोकान् हिनस्तीत्यर्थ उक्तः”, (पु. 331) “यस्मात् परं नापरस्तीत्युक्त समाभ्यधि कराहित्यसूचनार्थः परमशब्दः”, (पु. 883) “प्रणवो धनुः शरो ह्यात्मा आत्मानमरणिं कृत्वा इत्यादिभिरुपासनस्य प्रकार उक्तः इत्यर्थः”, (पु. 383) “पद्मकोशप्रतीकाशं सुषिरञ्चाप्यधो मुखम् … इति चतुर्थखण्ड एव तस्योपासनस्य हृदयगुहा संबन्धित्वावगमात् “, (पु. 397) “पद्मकोशप्रतीकाशम्’… इत्येवम् ॥ अत उपनिषद्भाष्याव्याख्याता अप्येते भागाः सन्तीति ध्येयम् । 2 रूढ्यर्थत्यागे सर्वज्ञशब्द सर्वविच्छब्दपौनरुक्तयमिति शंकां परिहरति अत इत्यादिना । 248 ……
१३८
वैश्वानराधिकरणम् १-२-६ वैश्वानरः साधारणशब्दविशेषात् ॥ १-२-२५ ॥ इदमामनन्तिच्छन्दोगाः -‘आत्मानमेवेमं वैश्वानरं 1 संप्रत्यध्येषि तमेव नो ब्रह्नि’ इति प्रक्रम्य, ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति । " ; निर्विशेषवादे तावत् इदं सूत्रत्रयमनुपपन्नम् । अभावरूपाणामप्यदृश्यत्वादीनां गुणत्वव्यवहारात् सर्वज्ञत्वादिधर्मव्यवहाराच्च प्रथमसूत्रं विरुद्धम् ; व्यावर्तकधर्मापारमा व्यावृत्त्यपारमार्थ्यात् भूतयोन्यक्षरस्य प्रधानव्यावृत्त्य सिद्धेश्च । भेदमिथ्यात्वे भेदव्यपदेशेन परमात्मत्वसाधनमप्ययुक्तम् । शारीरात् … ‘विशिनष्टि प्रधानाद्भेदं व्यपदिशतीति द्वितीयसूत्रार्थवर्णनमप्यनुचितम्, विशेषण भेदव्यपदेशयोरेकैकस्यैव शारीरप्रघानव्यावर्तनक्षमत्वात् । दिव्यत्वामूर्तित्व पुरुषत्वादयो हि कात्स्न्येन प्रधानस्यापि न संभवन्ति ; अक्षरात्परतः पर इति जीवव्यातृतिरपि हि प्रतीयते स कारणं करणाधिपाधिप इतिवत् । अक्षरात्परो हि जीवः । विशेषणशब्दस्य दिव्यो मूर्त इति लोकोक्तार्थमात्रविषयत्वं चायुक्तम् ; सङ्कोचकाभावात् । एकविज्ञानेन सर्वविज्ञानाभिधानादीनां भूतयोन्यक्षरस्य चिदचिद्यावृत्तिफलकत्वात् विशेषणशब्देन वक्तुं युक्तम् ; न तु धर्मशब्देन । न ह्येकविज्ञानेन सर्वविज्ञानाभिधानं नाम परमात्मगतो धर्मः । अतस्तादृशं विशेषणजातं द्वितीयसूत्रेण विवक्षितं भवितुमर्हति ; न तु प्रथमेन । रूपोपन्यासाच्चेति सूत्रस्य पुरुष एवेदमिति वाक्यप्रतिपन्नसर्वात्मकत्वप्रतिपादनपरत्ववर्णनमनुपपन्नम् ; पूर्वसूत्रयोरन्यतर विवक्षितैकविज्ञाननिबन्धनसर्वविज्ञानान्तर्गतत्वात् सर्वात्मभावस्य । न च त्रैलोक्यशरीर हिरण्यगर्भोत्पत्तिः ‘अभि’ त्यादिवाक्यप्रतिपाद्या; अजायतेत्यध्याहारप्रसङ्गात् ॥ “एतस्माज्जायते प्राणः “, " तस्मादभिः समिघश्च” इति प्रकरणवशादध्याहार इति चेन्न ; अवान्तरप्रकरणस्य भूतयोन्यक्षर विषय महाप्रकरणविरोघे दुर्बलत्वात्; सर्वभूतान्तरात्मत्वलिङ्गबाघितत्वाच्च । तद्धि परमकारणस्य लिङ्गम् ; न तु कार्यस्य । न च कारणस्य विग्रहवत्त्वानुपपत्त्या हिरण्यगर्भपरत्वाश्रयणम् ; अनन्तरं (र?) वैश्वानराधिकरण एव त्रैलोक्यशरीरकस्य परमात्मताया उपपादयिष्यमाणत्वात् । “यस्याग्निरास्यं द्यौर्मूर्द्धा” इत्यादिस्मृतिप्रसिद्धं च भगवतः त्रैलोक्यशरीरत्वम् । यदि क्वचिद्धिरण्यगर्भस्य त्रेलोक्यशरीरत्वमनगम्यते, तदानीमपि परमात्मात्मकत्वेनैव तस्य तथात्वं वर्णनीयम्, “सृष्टि ततः करिष्यामि त्वामाविश्य प्रजापते”, “तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः” इति चतुर्मुखस्य भगवदनुप्रवेशतदन्तरात्मकत्वावगमात् । अतः परमात्मन एव त्रैलोक्यशरीरत्वमग्निर्मृर्धेत्यादिनाऽभिधीयते । अतः सूत्राणां यथोक्त एवार्थः ॥ इत्यदृश्यत्वादिगुणका धिकरणम् । एवं त्रैलोक्यशरीरत्वेन परमात्मत्वे साधिते तादृशरीरत्वं तद्व्यतिरिक्तस्यापि श्रूयत इति शङ्कयोत्थानात् संगतिः । वैश्वानरः साधारणशब्दविशेषात् ॥ विषयमाह इदमिति । अध्येषि । ‘इक् स्मरणे’ । स्मरसि ; उपास्स इत्यर्थः । यद्वा ‘इण गतौ’ । गत्यर्था बुध्यर्थाः । अवगच्छसीत्यर्थः । यद्यपि ‘कोन आत्मा किं ब्रह्म’ इत्यात्मब्रह्मशब्दाभ्यामुपक्रमात् उपसंहारस्य च तदानुगुण्येन नेयत्वान्न 1 द् 1 संप्रति - सम्यक् । 2 भावप्रकाशिका द्रष्टव्या । 3 शांकरे त्रैलोक्यशरीर- कत्वरूपार्थोऽपि पूर्वे वर्णितः । परंतु भामत्यादौ तत् परमतमित्युक्त्वा द्वितीयार्थ एव स्वमतत्वेन स्थापितः । तत्र वक्तव्यं सर्व संग्रहेणाह पुरुष इति । भास्करे तु प्रथमार्थ एव स्वीकृतः ।
१-२-६ वैश्वानराधिकरणम् 1 ३३९ तत्र सन्देहः - किमयं वैश्वानर आत्मा परमात्मेति शक्यनिर्णयः, उत नेति । किं प्राप्तम् ? अशक्यनिर्णय इति । कुतः ? वैश्वानरशब्दस्य चतुर्ष्वर्थेषु प्रयोगदर्शनात् । जाठराग्नौ तावत् “अयमग्निवेसंदेहोदयः, तथाऽपि समानप्रकरणे वाजसनेये अभिवैश्वानरशब्दाभ्यामुपक्रमात् संशयः संभवतीत्यभिप्रायेणाह तत्र संदेह इति । शक्यनिर्णयत्वाशक्यनिर्णयत्वे संदेह शिरसी कृते । तच साधारणशब्दस्य सूत्रस्थत्व निबन्धनम् ॥
ननु प्रयोगसाधारण्यं हि वैश्वानरशब्दस्य साधारणत्वम्, अक्षरशब्दोऽपि हि प्रकृतिपुरुषेश्वरसाधारणः प्रयुज्यते, ‘अक्षरात्परतः परः,’ ‘क्षरं प्रधानममृताक्षरं हरः’, ‘यया सदक्षरमधिगम्यते’ इत्यादि । ततश्च ‘अक्षरमम्बरान्तघृतेः’ इत्यत्रापि शक्यनिर्णयत्वाशक्यनिर्णयत्वे संदेहविषयतया वक्तव्ये । तथा च न कृतम् । किंतु प्रधानं वा जीवो परमात्मा वेति विचारः कृतः । इहापि तथैव संशयो वक्तव्य इति ॥ नैवम् । तत्र हि प्रयोगसाधारण्यातिरिक्तः प्रकृतिपुरुषयोरन्यतरविषयत्वनिर्धारकः पूर्वपक्षहेतुर्विद्यते । अतस्तथा संदेह उपपद्यते । इह तु प्रयोगसाधारण्यस्यैव पूर्वपक्ष हेतुत्वात् तस्य च जाठर - भूततृतीयदेवतासु अन्यतम निर्धारकत्वाभावात् तस्य परमात्मलिङ्गादर्शने तद्विषयत्व निर्णय प्रतिबन्धकत्वात् त्रेताकल्पनादीनामनिर्धारकत्वस्य वक्ष्यमाणत्वाच्च शक्यनिर्णयत्वाशक्यनिर्णयत्वे संशयविषयतयोक्ते ॥
नन्वेवं सति संशयलक्षणाप्रामाण्यं पूर्वपक्षितं स्यात् । तच्चायुक्तम् ; प्रथमे काण्डे वेदप्रामाण्यस्य समर्थितत्वमुपजीव्य आरब्धत्वाच्छारीरकस्य । अतोऽर्थविशेषपरत्वं पूर्वपक्षीकर्तव्यम्, न त्वशक्यनिर्णयत्वम् ॥ नैवम्; चतुष्वर्थेष्वन्यतमानिर्धारणेऽपि सर्वथा कस्मिंश्चिदर्थे प्रमाणमेवेदमिति सामान्यतः प्रामाण्यनिश्चयस्यानपोद्यत्वात् । तद्धि नित्यनिर्दोषवाक्यतया स्थापितम् । “विधिशब्दस्य ’ मन्त्रत्वे भावः स्यात्” इति न्यायेन प्रामाण्यसिद्धिः । । किमयं वैश्वानरात्मा परमात्मेति शक्यनिर्णयः, उत न; तदर्थमात्मब्रह्मशब्दोपक्रमो वैश्वानरस्य ब्रह्मभावमवगमयति, नेति ; तदर्थमग्निशब्दसामानाधिकरण्य-त्रेता कल्पन-प्राणाहुत्याधारत्वानि किं वैश्वानरस्य ब्रह्मभावविरोधीनि, उत नेति । किम् ‘एषोऽनिर्वैश्वानरः’ इत्यग्निशब्दोऽभिमात्रपरः, उताग्न्यवस्थपरमात्मपर इति । अमिशब्दस्यामिमात्रपरत्वे अग्निशब्दसामानाधिकरण्यादीनां ब्रह्मभावविरोधितया आत्मब्रह्मशब्दोपक्रमस्यापि ब्रह्मभावावगमकत्वाभावेनाशक्यनिर्णय इति पूर्वः पक्षः । अभिशब्दस्व परमात्मपरत्वे अभिशब्दसामानाधिकरण्यादीनां ब्रह्मभावाविरोधितया आत्मब्रह्मशब्दोपक्रमस्य ब्रह्मभावाबगमकत्वोपपत्तेर्वैश्वानरः परमात्मेति शक्यनिर्णय इति राद्धान्तः । वैश्वानरशब्दस्य चतुर्वर्थेष्विति । जीवपरसाधारणात्मशब्द सद्भावेऽप्यात्मशब्दस्य वैश्वानरमास्मानमिति वैश्वानरशब्द विशेषितत्वाद्वैश्वानरशब्दस्य च जीवमात्रे प्रयोगाभावादिह जीवविषयत्वशङ्का 1 विधीति । मीमांसायां (१०-४-२३) सूत्रे अन्यादिदेवत्यकर्मसु देवतावाचिशब्देषु प्रयोक्तव्येषु पर्यायानेकशब्दसद्भावेऽपि अर्थैक्येऽपि विधिगत एव अग्न्यादिशब्दः प्रयोक्तव्य इति निर्णीतम् । तत्र शब्दवाच्यत्वाकारेणैव ग्रहणवत् इहापि वैश्वानरशब्दवाच्यत्वाकारेण विद्याविधि - दर्शितगुणादिविशिष्टतयोपासनमिष्यताम् । शब्दमात्रं देवतेति भ्राम्यताममि तत्र यथा फलेसिद्धिर्विहितानुष्ठानवशात्, वस्तुतो देषतातः सर्वेश्वराद्वा-तथाऽवाप्यनुष्ठातुरनिश्चयेऽपि पूर्तिरिति पूर्वपक्ष्याशय इति मावः ।
३४०
श्वानरो येनेदमन्नं पच्यते यदिदमद्यते । तस्यैष घोषो भवति, यावदेतत्कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन् भवति, नैनं घोषं शृणोति” इति ; महाभूततृतीये च, “विश्वस्सा अग्निं भुवनाय देवा वैश्वानरं केतुमहामकृण्वन्” इति ; देवतायां च, “वैश्वानरस्य सुमतौ स्याम राजा हिकं भुवनानामभिश्रीः” इति परमात्मनि च, “तदात्मन्येव हृदयेऽग्नौ वैश्वानरे प्रास्यत्” इति, " स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते” इति च । वाक्योपक्रमादिषूपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानीति ॥ एवं प्राप्ते अभिधीयते — वैश्वानरः साधारणशब्दविशेषात् । वैश्वानरःपरमात्मा । कुतः । साधारणशब्दविशेषात् । विशेष्यत इति विशेषः । साधारणस्य वैश्वानरशब्दस्य परमात्मा - साधारणैर्धर्मैर्विशेष्यमाणत्वादित्यर्थः । तथा हि-औपमन्यवादयः पञ्चमे महर्षयः (पञ्च महर्षयः १) समेत्य " को न आत्मा किं ब्रह्म” इति विचार्य, ‘उद्दालको ह वै भगवन्तोऽयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति तँ हन्ताभ्यागच्छाम ’ इत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मुः । स चोद्दालक एतान् वैश्वानरात्मजिज्ञासून अभिलक्ष्य, आत्मनश्च तत्राकृत्स्तवेदित्वं मत्वा तान् होवाच, “अश्वपतिर्वै भगवन्तोऽयं केकयः संप्रतीममात्मानं वैश्वानरमध्येति तँ हन्ताभ्यागच्छाम” इति । ते चोद्दालंकषष्ठास्तमश्वपतिमभ्याजग्मुः । स च तान् महर्षीन् यथार्ह पृथगभ्यर्च्य न संभवति । न हि गोशब्दविशेषितस्य चतुष्पाच्छब्दस्याश्वादिपरत्वशङ्कासंभव इत्यभिप्रायेण 1 पश्ञ्चस्वित्यनुक्तिः । विश्वमा अग्निमिति । विश्वस्मै भुवनाय - विश्वभुवनोपकाराथ वैश्वानरम् —महाभूततृतीयंम् अह्नां केतुम् – आदित्यमकृण्वन्नित्यर्थः । वैश्वानरस्येति । सुमतिःशोभनमतिः । सुमतौ स्याम - तद्विषयभूतास्स्याम । अभितः श्रीर्यस्य सोऽभिश्रीः; श्रियमिच्छेत् हुताशनात्” इत्युक्तत्वात् । हिकमित्यव्ययम् । प्रयोगसाधारण्यातिरिक्तेषु त्रेताग्निकल्पनादिषु आत्मब्रह्मशब्दादिषु च प्रतीयमानेषु कथं शक्यनिर्णयत्वतदभावसंदेहोक्तिरित्यत्राह वाक्योपक्रमेति । काल्पनिक त्रेतारूपत्वं सर्वत्र संभवति ब्रह्माग्निशब्दौ मिथः प्रतिबन्धकत्वादनिर्धारकौ । अन्नादनरूपं फलच सर्वत्रोपपन्नमित्यभिप्रायः ॥ ; । / एवं प्राप्ते इति । साधारणशब्दविशेषादित्येतत् व्याचष्टे विशेष्यत इति विशेष इति । नेदं विशेषशब्दस्य प्रत्ययार्थव्याख्यानम् ; अपि तु साधारणशब्दविशेषादिति समासान्तर्गतषष्ठीव्याख्यानम् । कर्मणि षष्ठी; न तु कर्तरीत्यर्थः । विशेष इति कृदन्तं पदं कर्मार्थषष्ठीनिमित्तमित्यभिप्रायेण 3 विशेषपदोपादानम् । यद्वा विशेष्यत इति विशेष इति घञः कर्मार्थतामाह । साधारणशब्द एव विशेष इति कर्मधारयः । किं केन विशेष्यत इत्यत्राह साधारणस्येति । धर्मशब्दो लिङ्गपरः । विशेष्यमाणत्वादिति फलितार्थ उक्तः, नाभिघानिकः । के पुनरसाधारणा धर्मा इत्यत्राह तथा हीति । ‘कोन आत्मा किं ब्रह्म’ इति किंशब्दद्वयमात्मत्वब्रह्मत्वयोर्द्वयोरपि ज्ञातव्यत्वाभिप्रायम् । आत्मब्रह्म- 1 पञ्चस्विति । वैश्वानरशब्दस्य न पञ्चसु प्रयोगप्रसक्तिः । तथा कैरप्यनुक्तत्वाच्च । अतः वैश्वानरशब्दस्य बहुषु, आत्मशब्दस्य च जीवपरयोः प्रयोगात् पञ्चसु संशय इत्यनुक्तिरित्यर्थः । 2 अव्ययमिदं हिशब्दार्थे । 3 तथा च साधारणशब्दोऽन्यशब्देन विशेष्यत इति तत्कर्मकविशेषणं विशेष इति भाष्यवाक्यार्थ इति भावः ।
१-२-६ वैश्वानराधिकरणम् ३४१ ‘न मे स्तेनः’ इत्यादिना ‘यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि’ इत्यन्तेनात्मनो व्रतस्थतया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य, ‘यावदेकैकरमा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि ; वसन्तु भवन्तः’ इत्यवोचत् । ते च मुमुक्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं ब्रूहीत्यवोचन् । तदेवं ‘को न आत्मा किं ब्रह्म’ इति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानैस्तज्ज्ञमन्विच्छद्भिर्वैश्वानरात्मनसकाशमागम्य पृच्छ्यमानो वैश्वानरात्मा परमात्मेति विज्ञायते । आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात् सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निर्दिश्यमानो वैश्वानरशब्दो ब्रह्मवाभिधत्त इति विज्ञायते । किञ्च “स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति “, “तद्यथेषीका तूलमग्नौ प्रोत प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति च वक्ष्यमाणं वैश्वानरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मेति ज्ञापयति ॥ २५ ॥ इतश्च वैश्वानरः परमात्मा- स्मर्यमाणमनुमानं स्यादिति ॥ १-२-२६ ॥ शुप्रभृति पृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते । तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम् । तदिह तदेवेदमिति स्मर्यमाणम् - प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरुषत्वे अनुमानम् -लिङ्गमित्यर्थः । इतिशब्दः प्रकारवचनः । इत्थंभूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे अनुमानं स्यात् । श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम् । यथा आथर्वणे, “अग्निर्मूर्धा चक्षुपी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ इति । अग्निरिह द्युलोकः, “असौ वै लोकोऽग्निः” इति श्रुतेः । स्मरन्ति च मुनयः, “द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं शब्दवाच्यधम्यैकत्वानेकत्वजिज्ञासया वा किंशब्दद्वयप्रयोगः । विषयवाक्ये ‘न मे स्तेनः’ इत्यादेः प्रयोजनमाह आत्मन इति । फलितानि साधकलिङ्गानि दर्शयति तदेवमिति । मुमुक्षुभिः पृच्छयमानत्वमात्मत्वम् ब्रह्मत्वम् ब्रह्मशब्दस्थाने वैश्वानरशब्दप्रयोगः, फलनिर्देशश्च वैश्वानरस्य परमात्मत्वसाधकालिङ्गानीत्यर्थः । मूर्धत्वादिविशिष्टतारूपधर्मस्यास्मिन् सूत्रे अनुक्तिस्तस्यानन्तर सूत्रोक्तत्वात् ॥ स्मर्यमाणमनुमानं स्यादिति ॥ स्मर्यमाणशब्दस्य विशेष्यं दर्शयन् सूत्रं व्याचष्टे धुप्रभृतीति लिङ्गमित्यर्थ इति । अनुमानशब्दः करणार्थरयुडन्तः, श्रुतिलिङ्गवाक्येत्यादिसूत्रपठितलिङ्ग’ परचेति भावः । अनुमानशब्देन हेतुत्वसिद्धेः इतिशब्दवैयर्थ्यमित्यत्राह इतिशब्द इति । इतिशब्दार्थेनान्वितं वाक्यार्थमाह इत्थमिति । परमपुरुषरूपत्वेन प्रसिद्धिं दर्शयति श्रुतीति । परमात्मपरत्वेन साधितत्वात् ‘अग्निर्मूर्धा’ इत्यादिवाक्यमुदाहृतम् । इह द्यौर्मूर्घत्वेन श्रूयते, उदाहृतवाक्ये अभिः मूर्खेति, तत् कथमैकार्थ्यमित्यत्राह अग्निरिहेति । परमात्मनस्तथाविधरूपवत्त्वे स्मृतिमुदाहरति स्मरन्ति चेति । ‘यस्यामिरास्यम्’ इत्यत्राभिशब्दः प्रसिद्धानिपरः; द्योर्मूर्धेति पृथगुक्तेः । श्रुतिस्मृतिष्वभिज्ञातस्य रूपस्य प्रत्यभि- 1 शब्दगतमर्थगतं वा सामर्थ्यमेव श्रुतिलिङ्गाद्यन्तर्गतम् । तत् अङ्गत्वथुतिकल्पकम् । तत् यथा तत्र श्रुतिकल्पकम्, तद्वदिदमपि रूपं गृह्यमाणम अग्निर्मूर्धा - एष सर्वभूतान्तरामा’ इति श्रुतिज्ञापकं परमात्मानमेवमुपासीतेति श्रुतिकल्वकं भवतीति भावः ।
३४२ श्रुतप्रकाशिकोपेते श्रीमाण्ये चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता” इति । “यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिचरणौ क्षितिः । सूर्यश्चक्षुर्द्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥” इति च । इह च द्युप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवत्वेनोच्यन्ते । तथा हि-तैरौपमन्यवप्रभृति - भिर्महर्षिभिः, ‘आत्मानमेवेमं वैश्वानरं संप्रत्यध्येपि तमेव नो ब्रूहि’ इति पृष्टः केकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेषप्रश्नान्यथानुपपत्त्या वैश्वानरात्मनि एतैः किञ्चित् ज्ञातं किञ्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशवुभुत्सया तानेकैकं पप्रच्छ । तत्र ‘औपमन्यव कं त्वमात्मानमुपास्से’ इति पृष्टे, ‘दिवमेव भगवो राजन्’ इति तेन चोक्ते, दिवि तस्य पूर्णवैश्वानरात्मवुद्धिं निवर्तयन् वैश्वानरस्य द्यौर्मूर्धेति चोपदिशन् तस्या वैश्वानरांशभूताया दिवः सुतेजा इति गुणनामधेयं प्राचिख्यपत् । एवं सत्ययज्ञादिभिरादित्ययाय्वाकाशपृथिवीनामे के के नैकैकमुपास्यमानतया कथितानां ‘विश्वरूपः, पृथग्वर्त्मा, वहुलो, रयिः, प्रतिष्ठा’ इत्येकैकगुणनामधेयानि वैश्वानरात्मनश्चक्षुःप्राणसन्देहवस्तिपादावयवत्वं चोपदिष्टम् । सन्देहो मध्यकाय उच्यते । अत एवम्भूतद्युमूर्धत्वादिविशिष्टं परमपुरुषस्यैव रूपमिति वैश्वानरः परमपुरुष एव ॥ २६ ॥ ज्ञायमानत्वं दर्शयति इह चेति ।
नन्वत्र अग्निर्मूर्धेत्यादाविव द्यप्रभृति पृथिव्यन्तानां मूर्धादिपादान्तावय. बत्वेन संभूयोपदेशो न दृश्यत इति शङ्कायां विप्रकीर्णपतिपादन हेतुमाह तथा हीति । विशेषप्रश्नान्यथानुपपत्त्येति । न ह्यात्मब्रह्मादिशब्दैः प्रश्नः कृतः ; वैश्वानरशब्देन हि प्रश्नः । अनेन द्युप्रभृतीनामपूर्व नामनिर्देशहेतुश्वोक्तो भवति । अज्ञातांशः सर्वोऽपि ग्रुपदेष्टव्यः । गुणनामधेयानीति । द्यौर्नक्षत्रादितेजस्विनीति सुतेजाः ; एकाशकस्यादित्यस्य विश्वं रूपम् प्रकाश्यम्, तस्मात् आदित्यो विश्वरूपः ; वायुर्विविधगतिस्वभावत्वात् पृथग्वर्त्मा; आकाशो भूतान्तरेभ्यो महत्त्वात् बहुलः ; आपो वेगवत्त्वात् रथिः रयो हि वेगः । इकारान्तत्वं छान्दसम् । रैरूपधनप्राप्तिहेतुत्वाद्वा रयिः - ; पृथिवी प्राण्याधारत्वात् प्रतिष्ठेति भावः । श्रुतिस्थं संदेहशदं व्याचष्टे संदेहो मध्यकाय इति । मध्यं हि पूर्वापरांशसाधारण्यात् कुत्रानुप्रविष्टमिति संदिद्यते । एतत् ज्ञापयितुं मध्यकाय इति व्याख्यातम् ; न तु नाभिरिति । गुणनामधेयानीत्यनेनान्यदपि प्रयोजनं फलितम् । न केवलं नामधेयानि, अपि तु गुणनामधेयानि ; ततद्गुणकत्वं मूर्धादित्वेनोपदिष्टानां द्यप्रभृतीनामनुसन्धेयमित्यर्थः ।
अत्रायमभिप्रायः - वाजसनेयके मूर्धभूताया दिवोऽतिष्ठात्वमुक्तम् ; न तु सुतेजस्त्वम् । चक्षुर्भूतस्यादित्यस्य सुतेज स्त्वमुक्तम्, न तु विश्वरूपत्वम् । न चैतावता विद्याभेदः, ततन्नामधेयोपस्थापितगुणेष्वेव तात्पर्यसंभवात् । अतीत्य स्थितत्वं हि दिवोऽतिष्ठात्वम् । तच्च सर्वोत्कृष्टत्वम् । तच्च नक्षत्रादितेजश्शालित्वरूपमित्येक गुणत्वेन फलितमित्यविरोधः । आदित्यस्य च सुतेजस्त्वफलरूपं विश्वरूपत्वम् । तद्धि विश्वनि रूपकत्वं विश्वप्रकाशकत्वम् । अतोऽनर्थान्तरतया फलितम् । अतो न विद्याभेद इति । एतदभिप्रायेण गुणनामधेयानीत्युक्तम् । परमात्मनस्त्रैलोक्यशरीरत्वविषयं द्यां मूर्धानमित्यादिस्मृतिवचनं स्वमूलत्वेन वैश्वानरविद्यायाः परमात्मविषयत्वं कल्पयतीति व्याख्यानमनुपपन्नम् । स्मृतिवचनं हि खमूलत्वेन श्रुतिं कल्पयति ; न तु वैश्वानर विद्यामेव कल्पयितुं प्रभवति । श्रुत्यन्तरसंभवेन कल्पकस्यान्यथासिद्धत्वात् । भस्ति हि, “अभिर्मूर्षा चक्षुषी चन्द्रसूर्यौ” इत्यादिश्रुतिस्तन्मूलतया संभाव्यमाना । तस्मादाभ्यां
पुनरप्य निर्णयमेवाशङ्कय परिहरति- शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्टयुपदेशादसंभवात् पुरुषमपि चैनमधीयते ॥ १-२-२७ ॥ ३१३ यदुक्तं वैश्वानरः परमात्मेति निश्चीयत इति - तन्न ; शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च जाठरस्याप्यग्नरिह प्रतीयमानत्वात् । शब्दस्तावत् वाजिनां वैश्वानरविद्याप्रकरणे ‘स एषोऽग्निर्वैश्वानरः ’ इति वैश्वानरसमानाधिकरणतयाऽग्निरिति श्रूयतेः अस्मिन् प्रकरणे च, “हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः” इति वैश्वानरस्य हृदयादिस्थस्याग्नित्रयकल्पनं क्रियते । ‘तद्यद्भक्तं प्रथममागच्छेत्, तत् होमीयम् । स यां प्रथमामाहुतिं जुहुयात् तां जुहुमात् प्राणाय स्वाहा’ इत्यादिना प्राणाहुत्याधारत्वं च वैश्वानरस्यावगम्यते । तथा वैश्वानरस्यास्मिन् पुरुषेऽन्तः प्रतिष्ठानं वाजसनेयिनः समामनन्ति, “स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद” इति । अतोऽग्निशब्दसामानाधिकरण्यादग्नित्रेतापरिकल्पनात् प्राणाहुत्याधारभावादन्तः प्रतिष्ठानाच्च वैश्वानिरस्य जाठरत्वमपि प्रतीयत इति नैकान्ततः परमात्मत्वमिति चेत् — तन्न ; तथा दृष्ट्युपदेशात्श्रुतिम्मृतिभ्यामैकार्थ्यप्रत्यभिज्ञानमेवास्मिन् सूत्रे हेतुतया विवक्षितम्, स्मर्यमाणशब्दश्च प्रत्यभिज्ञायमानोपस्थापकः; तर्कपादे अनुस्मृतेश्चेत्यत्रानुस्मृतिशब्दस्य प्रत्यभिज्ञापरत्वेन सूत्रकारैः प्रयुक्तत्वात् ॥ उत्तरसूत्रमवतारयति पुनरपीति । अथचतुष्टये प्रयोगसाधारण्यादनिर्णयः पूर्वमुक्तः । इदानीं तु विशेषकधर्माणां ब्रह्मशब्दादीनां तत्तदनुरूपविशेषकात् शब्दादेः प्रतिरोधादनिर्णयो विवक्षितः ॥ शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्टयुपदेशादसंभवात् पुरुषमपि चैनमधीयते ॥ नेतिपदं व्याचष्टे यदुक्तमित्यादिना । श्रुत्यन्तरस्थ हेत्वोरुभयोर्दूरस्यत्वात् तौ कण्ठोक्तौ । एतत्प्रकरणस्थमग्नित्रयकल्पनं प्राणाहुत्याधारत्वं च आदिशब्दोपात्तम् ; संनिकृष्टत्वात् । एतदभिप्रायेण ‘वाजिनां वैश्वानर विद्याप्रकरणे’, ‘वाजसनेयिनः समामनन्ति’ इति चोक्तम् । अस्मिन् प्रकरणे चेति चशब्देन वाजिनामप्यस्तीति सूचितम् । अनित्रयकल्पनं क्रियत इति । अग्नित्रयकल्पनेन होमाधारत्वमात्रं फलितम् ; होमाधारत्वविशेषमाह तद्यद्भक्तमिति । अग्निशब्द निर्देशसहितमन्तः प्रतिष्ठानं विवक्षितम् । अन्तःप्रतिष्ठत्वमात्रे हि परस्यापि संभवति । ‘स यो हैतमेवमभि वैश्वानरं पुरुषविषं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति हि श्रूयते । उक्तहेत्वनुक्रमेण पूर्वपक्षत्वेन शंकितमर्थमुपसंहरति अत इति । शब्दादिभ्य इत्यादिसूत्रखण्ड जाठरशङ्कामात्रपरम्, न तु देवताभूतपरम् ; अन्तः प्रतिष्ठानोपन्यासात् ; हेत्वन्तराणां च तत्साहचर्यात् । यद्यपि देवतायाः ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ इति मुखे प्रवेशोऽवगम्यते, तथापि पुरुषेऽन्तः प्रतिष्ठितत्वं न खरसम् । जाठरस्य हि तत् खरसतः प्रतीयते । ‘सोऽप्रभुग् विभजस्तिष्ठन् आहारमजरः कविः । संतापयति स्वं देहमापादतलमस्तकम्’ इति कृत्स्नदेहव्याप्तत्वात् तस्य । भूततृतीयस्य तु पुरुषेऽन्तः प्रतिष्ठितत्वं तदेकदेशभूतजाठरद्वारकमिति वक्तव्यम् । अतस्तच क्लिष्टम् । अतोऽन्तः प्रतिष्ठान सहचरैर्हेतुभिर्जाठरभावः शङ्कित इह सूत्रे । अत एव हि देवता-भूततृतीययो । सूत्रान्तरेण व्युदासः ; न त्वेतस्मिन्नेव सूत्रे खण्डान्तरे कृतः । एवं शङ्कितं जाठरविषयत्वं परिहरति तन्नेति । हेत्वाकाङ्क्षायां सौत्रखण्डान्तरस्थं हेतुवाचिपदमुपादत्ते तथा दृष्ट्यपदेशादिति । ‘यस्यामिः
३४४. श्रुतप्रकाशिकोपेते श्रीमाप्ये पूर्वोक्तस्य त्रैलोक्यशरीरस्य परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात् । अग्निशब्दादिभिर्हि न केवलो जाठरः प्रतिपाद्यते, अपि तु जाठराग्निविशिष्टः परमात्मा । कथमिदमवगम्यत इतेि चेत् असम्भवात् - जाठरस्य केवलस्य त्रैलोक्यशरीरत्वासम्भवात् । त्रैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषयतया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्टं परमात्मानमेवाभिद्याती त्यर्थः । यथोक्तं भगवता, “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम्” इति । जाठरानलशरीरो भूत्वेत्यर्थः । अतस्तद्विशिष्टस्योपासनमत्रोपदिश्यते । किञ्च पुरुषमपि चैनमधीयते वाजसनेयिनः, “स एषोऽग्निर्वैश्वानरो यत्पुरुषः” इति । न जाठरस्य केवलस्य पुरुषत्वम् । परमात्मन एव हि निरुपाधिकं पुरुषत्वम, यथा ‘सहस्रशीर्षा पुरुष’ ‘पुरुष एवेदं सर्वम्’ इत्यादौ ॥ शरीरम् ’ इति श्रुत्यभिप्रायेणाह जाठराग्निशरीरतयेति । उपासनशब्देन सौत्रदृष्टिशब्द व्याख्यानम् ; “आत्मा वा अरे द्रष्टव्यः’ ‘तस्मिन् दृष्टे परावरे’ इति श्रौतप्रयोगात् । ‘वैश्वानरमुपास्ते’ इति चात्र श्रयते ॥
ननु दृष्टिशब्दोऽतस्मिन् तथात्वानुसंधानपरः किं न स्यात् ॥ नैवम्; परमार्थविषयत्वे संभवत्यपरमार्थविषयत्वाश्रयणायोगात् । द्युमूर्धत्वादिकं हि जाठरेऽत्यन्तवाधितम् । अत एव हि न ‘मनोत्रम’ इत्यादिदृष्टितुल्यत्वशङ्का । तत्तुल्यत्वं च गत्यन्तरे संभवत्ययुक्तम् । जाठराग्निशरीरतयेत्यनेन परमार्थविषयसंभवश्च दर्शितः । उत्कृष्टे परमात्मनि अपकृष्टामिदृष्टययोगाच्च न परस्मिन्नमिदृष्टिः । अग्नौ परमात्मदृष्टिपरत्वं तु परमात्मत्व समर्थन पर सूत्र तात्पर्यविरुद्धम् । अतः परमात्मलिङ्गानां जाठरलिङ्गानां च दर्शनात् विशिष्टोपासनपरत्वमभ्युपगन्तव्यम्, यथा प्रतर्दनविद्यायामिति वाक्यार्थः । विशिष्टप्रतिपादने । सिद्धे हि विशिष्टोपासनपरत्वमित्यत्राह अग्निशब्दादिभिर्हीति । आदिशब्देन प्राणाहुत्याधारत्वादिकं गृखते । जाठरः प्रतिपाद्यते -ज्ञाप्यत इत्यर्थः । अभिशब्द त्रेताकल्पनादिलिङ्गान्वितेन वावयेन परमात्मा 1 अभिधीयत इति वाऽर्थः । तदा त्रेताकल्पनादिना अग्निद्वारा परमात्मा विशेष्यते । असंभवादिति पदस्याकाङ्क्षां दर्शयति कथमिति । केवलाग्नौ प्रसिद्धस्य कथं तद्विशिष्ट परत्वमित्यर्थः । जाठरस्य त्रैलोक्यशरीरत्वासंभवोऽस्तु ; ततः किमभिशब्दस्य विशिष्टपरत्व इत्यत्राह त्रैलोक्येति । जाठरविषयतया प्रसिद्धस्य शब्दस्य तद्विशिष्टे परमपुरुषे प्रवृत्ति स्मृत्या द्रढयति यथोक्तमिति । सूत्रखण्डमवतारयति किश्चेति । अपि चेत्यत्र विभक्तः चशब्दो हेतुसमुच्चयार्थ इति भावः । न केवलमग्नित्वं पुरुषेऽन्तः प्रतिष्ठितत्वं च, किंतु पुरुषशब्दवाच्यतयाप्यधीयत इत्यभिप्रायेणाह पुरुषमपि चेति । पुरुषत्वम् - पुरुषशब्दवाच्यत्वम् । निरुपाधिकमिति । जीवस्य पुरुषशब्दवाच्यत्वं ‘द्वाविमौ पुरुषौ लोके’, ‘प्रधानपुरुषावेतौ’ इत्यादिषु प्रधानादिपदान्तर समभिव्याहाराक्षरत्वाद्युपाधिनाऽऽश्रीयते, न तु स्वतः । अतः पुरुषशब्दवाच्यत्वं परमात्मन एव निरुपाधिकम् । अतो जाठरस्य पुरुषत्वं दूरतो निरस्तमिति भावः । स एषोऽन्निर्वैश्वानरो यत् पुरुषः’ इति प्रसिद्धवन्निर्देशात् तस्य च प्रापकप्रमाणसापेक्षत्वात् परमात्मन एव निरुपाधिक पुरुषत्व विषयां प्रमाणतः प्रसिद्धि दर्शयति यथेति । 1 जाठरः, परमात्मा इति पदद्वये न तात्पर्यम् । प्रतिपाद्यते इत्यस्य शब्देनोच्यत इत्यर्थो मुख्यः । स इह नेताकल्पनादिलिङ्गजन्यज्ञाने न घटते इति सामान्येनार्थः ज्ञाप्यत इति । वाक्येनेति पूरणे तु मुख्यार्थ एवेत्यर्थः । ।
१-२-६ वैश्वानराधिकरणम् अत एव न देवता भृतं च ॥ १-२-२८ ॥ उक्तेभ्य एव हेतुभ्यो देवतायाश्च, तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः ॥ २८ ॥ साक्षादप्यविरोधं जैमिनिः ॥ १-२-२९ ॥ ३४५ वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकस्वम्, तथैव परमात्मन उपास्यत्वं चोक्तम् । जैमिनिस्त्वाचार्यो वैश्वानरशब्दवत् अग्निशब्दस्यापि अग्निशब्दः त्रेता कल्पनादिलिङ्गत्रयं जाठरविषयत्वसाधकं शङ्कितम् । तत्र पुरुषशब्द त्रैलोक्यशरीरस्वासंभवरूपमेकं लिङ्गं च परमात्मविषयत्वसाधकमुक्तम् । तत्र तथादृष्टयुपदेशादित्यनेनाग्निशब्दलिङ्गत्रययोरन्यथा सिद्धिर्दर्शिता । असंभवलिङ्गपुरुषशब्दयोरनन्यथासिद्धतया प्राबल्यं स्थितम् । अत एव पुरुषमपि चैनमधीयत इति सूत्रखण्डं नान्तःप्रतिष्ठानमात्र परिहारपरम्; तथादृष्टयुपदेशादिस्यनेनैवान्तः प्रतिष्ठानस्य हेत्वन्तराणां चान्यथासिद्धेर्दर्शितत्वात्; असंभव हेतौ च सति अन्तः प्रतिष्ठानस्य दुर्बकत्वात्; निरुपाधिकपुरुषत्वश्रवणे सति हेत्वन्तराणामपि दुर्बलत्वाच्च । अतो यथोक्तावेव शङ्कापरिहारौ ॥ अत एव न देवता भूतं च ॥ जाठरप्रसिद्धिशङ्का पूर्वसूत्रे परिहृता ; तद्व्यतिरिक्तार्थद्वयशङ्का पत्र परिचियते । देवताभूततृतीययोर्जाठरवत् परिच्छिन्नत्वाभावात् त्रैलोक्यशरीरत्वोपपत्तिः । देवताया पधिष्ठातृतया त्रैलोक्यशरीरत्वम् । महाभूततृतीयस्य च त्रिवृत्कृतस्य त्रैलोक्यरूपेण परिणतत्वात् समुदितस्य पथिव्यादयो मूर्द्धपादाद्यवयवाः स्युः । अतस्त्रैलोक्यशरीरत्वकल्पनोपपत्तिः इत्यसंभवाक्षेपेणाधिकाडा। उक्तेभ्य एव हेतुभ्य इति । आत्मब्रह्मपुरुषशब्द निर्देशा सङ्कुचितफलावाप्तिसर्वपाप- बाह्रादयः सर्वे हेतवः तयोरनुपपन्ना इति परिहार इत्यभिप्रायः ॥ 1 1 साक्षादप्यविरोधं जैमिनिः ॥ सूत्रार्थस्य सङ्गतत्वाय पूर्वोक्तमनुवदति वैश्वानरेति । तथाष्ष्ट पुपदेशादित्यनेन सङ्गतिरित्यर्थः । अक्षरार्थमाह जैमिनिरिति । अमिवैश्वानरशब्दयोरुभयोरपि साक्षात्परमात्मप्रतिपादकत्वपरमिदं सूत्रं परैर्व्याख्यातम् ; तद्व्यावृत्त्यर्थमाह वैश्वानरशन्दवदिति । वैश्वानरशब्दस्य पक्षभूतस्य बर्थसाधारणस्याग्निशब्दसामानाधिकरण्येन विना जाठरविषयत्वनिश्चयायोगात् तदुपपादफत्वेन प्रमिशब्दः प्रकृतः । अत उपपादकस्यैवान्यथासिद्धिवक्तव्या ; न तूपपाद्यस्य । उपपादकान्यथासिद्धौ पपाद्यं स्वयमेव न भवति । अत उपपादकाग्मिशब्दस्यैव जाठरविशिष्टपरमात्मविषयत्वमुक्तं तथा दृष्टपुपदेशादिति । अत इहापि तस्यैवामिशब्दस्य प्रकारान्तरेण परमात्मपरत्वमुच्यत इति वैश्वानरशब्दो दृष्टान्ततयोदाहर्तव्यः । तस्य च तथात्वं सिद्धम् । वैश्वानरशब्दस्तावत् परमात्मनि प्रयुक्तः । न च बलतामेव रूढिमाश्रित्य अपर्यवसानात् वैश्वानरशरीरकः परमात्माऽभिधेयः ; अभिशब्देनैवा मिशरीर के परमात्मन्यभिहिते ‘अमिर्वैश्वानरः’ इत्येकवाक्य स्थवैश्वानरशब्दस्यामिशरीरवाचित्वे पुनरुक्तिप्रसङ्गात् । न चान्यवधानेन परमात्मनि रूढ्यन्तरं करूप्यम्, अवयवशक्त्यैव प्रयोगेऽन्यथासिद्धे प्रोक्षणीन्यायेन समुदायशक्ति कल्पनानुपपत्तेः । अतोऽग्निशब्दसमानाधिकरणवैश्वानरशब्दस्यावयवशक्त्या परमात्मविषयत्वे वाक्यान्तरेष्वप्येकप्रयोजकत्वाय अवयवशक्त्यैव ‘वृत्तिरास्थेयेत्यभिप्रायेण, अव्यवधानेन वाचकत्वे वैश्वानरशब्दो दृष्टान्ततयोक्तः वैश्वानरशब्दवदिति । साक्षादिति व्याख्येयपदम् । साक्षाच्छन्दस्य विशदतरत्वेऽपि 244
३४६ मुक्तप्रकाशिकोपेते श्रीमाष्ये परमात्मन एव साक्षात् अव्यवधानेन वाचकत्वे न कश्चिद्विरोध इति मन्यते ॥ एतदुक्तं भवतियथा वैश्वानरशब्दः साधारणोऽपि परमात्मा साधारणधर्मविशेषितः विश्वेषां नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते - एवमग्निशब्दोऽप्यग्रनयनादिना येनैव गुणेन योगात् ज्वलने घर्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि संभवादस्मिन् प्रकरणे परमात्मासाधारणधर्म विशेषितः परमात्मानमेवाभिधत्त इति ॥ २२ ॥ प्रयोगात् तद्व्यावृत्त्यर्थमाह अव्यवधानेनेति । वैश्वानरशब्दस्यावयवशक्त्या वृत्तिः कथम् ? न तावदयं शब्दः “अनृष्यानन्तर्ये बिदादिभ्योञ्”, “ऋष्यन्धकवृष्णिकुरुभ्यश्च” इत्यनुशासनानुसारेण बिदाद्यञन्तः ऋष्यणन्तो वा तयोरपत्यार्थत्वात् परमात्मनश्च विश्वानरसन्ज्ञं कश्चित् प्रति अपत्यत्वाभावात् ; विश्वानर शब्दस्य पुरुषसमष्टिवाचकत्वेऽपि तदपत्यत्वायोगात् बिदाद्यञन्तत्वम् ऋष्यणन्तत्वं चायुक्तंम् । अतो गुणान्तरयोगो वक्तव्यः । तत्र वैश्वानरशब्दस्य केन गुणेन वृतिः; तद्वद मिशब्दः केन गुणयोगेन वर्तते; तेन तस्य परमात्मन्यव्यवधानेन वृतिः कथमित्यत्राह एतदुक्तमिति । नेतृत्वादिनेति । आदिशब्देन विधैर्नरैर्नेयत्वम् — प्राप्यत्वं विवक्षितम् । अप्रनयनादिनेति । आदिशब्देन अप्रत्वेन प्राप्यत्वं विवक्षितम् यथा निराहुः, “वैश्वानरः कस्मात् ! विश्वान् नरान् नयति विश्व एनं नरा मयन्तीति वा । विश्वानर एव वैश्वानरः । राक्षसो बायस इतिवत् । रक्ष एव हि राक्षसः ; वय एव हि वायसः”, यथा च “अभिः कस्मात् । अग्रणीर्भवति । अयं नीयते । अग्रे नयति । नमयति । सन्नमनोक्तौ प्रसन्नो भवतीति स्थौलाष्टिविरितिरिति (स्थूला दृष्टिविधिरिति ) । अव्यवधानमाह तस्यैवेति । काष्ठागतस्येति । अभिशब्दावयवार्थस्य ब्रह्मणि पुष्कलत्वात् ब्रह्मशब्दरूढिर्न त्याज्या; ब्रह्मशब्दावयवार्थपौष्कल्यस्याग्नावसंभवादभिशब्दरूढिरेव त्याज्येति भावः । परमात्मासाधारणधर्मविशेषित इति । उपक्रमाचानुगुण्याच्च ब्रह्मशब्दः प्रबलः ; अग्रिशब्दस्तु तदनुगुणार्थो नेय इति भावः । न च ; ; नन्वग्भिशरीर कतयाऽनुसंघाने साक्षादेवाप्रनयनादिगुणकत्वानुसंधाने च विद्यामेवः स्यात् । च वाच्यम् – एकस्यामेव विद्यायामेकस्मिन् कर्मणि त्रीहियवयोरिवामिशरीरकत्व स्थप्रनयनादिगुणकत्वस्य च विकल्पेन प्राप्तिः ; विकरूपश्च तयोस्तुल्यबलत्वादवर्जनीयः ; अमिशरीरका त्वपरिग्रहे रूढ्यपरित्यागादविलम्बः, अर्थानुपपत्त्या परमात्मपर्यन्तत्व निर्णय इति विशेष्यप्रतिपक्ति विलम्बिता ; अग्रनयनादिगुणकत्वपक्षे रूढार्थानुपपस्याऽवयवार्थप्रतिपतिर्विलम्बिता, अवयवशतयपस्थापितगुणस्य विशेष्यप्रतिपत्तिस्त्वविलम्बिता, गुणस्याद्वारकतयाऽन्वयसंभवात् । अतः पक्षी · विलम्बाविलम्बसाम्यात् तुल्यबलत्वमिति विकल्पः इति ; एकेनैव वाक्येंन वैकल्पिकार्थद्वयविया नानुपपत्तेः । व्रीहियवयोर्हि वाक्यभेदेन प्राप्तिः ॥ - 1 अपिना नरे संज्ञायामिति दीर्घायोगसूचनम्। 2 स्थूलोदृष्टिविधिरिति सर्वत्र मुद्रितपाको मन्तिः। विधिशब्दः पुंल्लिङ्गः। तालकोशे ‘स्थौलाष्टिविरितिरिति’ इत्यस्ति । नृतमिदं कस्य विडपेम । 3 सकृत्प्रयुक्तः शब्दः सहदेवार्थे गमयतीति न्यायादर्थद्वयस्य युगपदद्माद्यत्वादिति भावः ।
१-२-६ वैश्वानराधिकरणम् “यस्त्वैतमेवं प्रादेशमात्रमभिविमानम्” इति, अपरिच्छिन्नस्य परस्य ब्रह्मणो धुप्रभृतिपृथिव्यन्तप्रदेश संबन्धिन्या मात्त्रया परिच्छिन्नत्वं कथमुपपद्यते ? तत्वाह- अभिव्यक्तेरित्याश्मरथ्यः ॥ १-२-३० ॥ उपासकाभिव्यक्तघर्थ प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यों मन्यते । द्यौर्मूर्धा, आदित्यश्चक्षुः, वायुः प्राणः, आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ इति प्रभृति- उच्यते । नात्र विद्याभेदप्रसङ्गः ; अस्य सूत्रस्य ब्रह्माभिशब्दयोस्तुल्यताप्रतिक्षेपपरत्वेनोपास्याकारपरत्वाभावात् । तथा हि ब्रह्मा मिशन्दयोर्द्वयोरपि रूढार्थद्वयाविरोधेन निर्वाहः पूर्वमुक्तः । रूढार्थविशेषाभ्युपगमेनान्यतरस्य यौगिकत्वे प्रायेऽपि न ब्रह्माभिशब्दयोस्तुल्यत्वादशक्यनिर्णयत्वं वाच्यम्, उपक्रमाचानुगुण्यात्, अग्निशब्दावयवार्थस्य ब्रह्मणि पुष्कलतया च ब्रह्मशब्दप्राबल्यात् तद्विपरीतोमिशब्दो दुर्बलत्वात् यौगिक इति हि सूत्रतात्पर्यम् ॥ एवं वा-अस्यां विद्यायाम मिशरीरत्वानुसन्धानमेव सूत्रकारमतं तथादृष्टयुपदेशादिति दर्शितम्; जैमिनिमतं तु सामान्येन परमात्मपरतया तात्पर्यलिङ्गैरवगतेषु प्रकरणेष्वर्थान्तररूढशब्दानां परमात्मपरत्वे अवश्यम्भाविनि सति अवयवशक्त्या साक्षादेव तत्परत्वं वर्णनीयमित्येवंरूपं नैतत्प्रकरणविशेषमात्रविषयम् । अस्य च न्यायस्य सामान्येनोपजीव्यतया यत्र क्वचित् वक्तव्यत्वे सति अत्र परमात्मपर्यन्त निर्वाहप्रसङ्गादिहाम्यधायि ; न त्वेतद्विद्याया असाधारणत्वात् । अत एव ह्यवयवशक्त्या आकाशशब्दो व्याख्यातः ॥ सामान्येनोपजीव्यस्य न्यायस्येहाप्युपजीव्यत्वात् विद्याभेद इति चेन्न ; चिदचिद्विशेषासाधारणलिङ्गान्वितेषु वाक्येषु तच्छरीरत्वाश्रयणस्य न्याय्यत्वेन अस्य न्यायस्य चिदचिदसाधारण लिङ्गर हितवाक्यविषयत्वात् । अत्र च जाठरलिङ्गान्युपलभ्यन्ते । अत एव हि सूत्रकारः तथादृष्टयुपदेशादिति स्वमतमुक्तवान् । यथा, न द्वितीयेति कृत्वा भवघातादीनां त्रीहिशेषत्वं चिन्तितम्, तद्वत् जाठरलिङ्गाभावेन (वे) तद्विशिष्ट [पर] त्वासंभवेऽपि परमात्मपरत्वं सिध्यतीत्यन्वारुह्य दर्शितं जैमिनिमतम् । अतो न विद्याभेदः ॥ . उत्तरसूत्रशङ्कामाह यस्त्वेतमिति । अभिव्यक्तेरित्याश्मरथ्यः ॥ परिच्छिन्नत्वं महाभूततृतीयदेवतयोरेव संभवतीति शङ्कापरिहारार्थमिदं सूत्रम् । अभिव्यक्तयर्थम् – बुद्धिसौकर्यायेत्यर्थः 1 परिच्छिन्नत्वे हि बुद्धिसौकर्थं स्यात् । उक्तमर्थं विवृणोति द्यौर्मूर्धेत्यादिना । धुप्रभृतिप्रदेशेत्यादिना 1 अतः एव - साक्षादपीत्येतन्न्यायप्रवृत्ति बलादेव ; आकाशरूपभूतस्य विशेषणताग्राहकलिंगाभावादेव आकाशाधिकरणे अवयवशक्तिवर्णनम् । 2 मी. 2. 1. तानिद्वैधमित्यत्र व्रीहीनवहन्तीत्यत्र भवघातशेषत्वं वा वीहीणाम्, व्रीहिशेषत्वं वाऽवघातस्येति चिन्ता कृता । व्रीहीनिति द्वितीयया उत्तरषक्षे स्पष्टेऽपि तदभावं कृत्वाचिन्ता यथा, तथा जाठराग्निलिङ्गाभावं कृत्वा जैमिनिचिन्तेत्यर्थः ।
३४८ भुतप्रकाशिकोपेते श्रीभाष्ये प्रदेशसंबन्धिन्या मात्रया परिच्छिन्नत्वं कृत्स्नमभिव्याप्तवतो विगतमानस्य ह्यभिव्यकेरेवं हेतोर्भवति ॥ ३० ॥ मूर्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति चेत् — तत्राह अनुस्मृतेर्वादरिः ॥ १-२-३१ ॥
तथोपासनार्थमिति बादरिराचार्यो मन्यते । “यस्त्वेतमेवमभिविमानमात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति " इति ब्रह्मप्राप्तये ह्युपासनमुपदिश्यते । एतमेवमिति - उक्तप्रकारेण पुरुषाकारमित्यर्थः । सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं पदन्नम् - भोग्यम्, तदत्ति–सर्वत्र वर्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति । यत्तु सर्वै। कर्मवश्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नं भुज्यते, तत् मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते ॥३१॥ यदि परमात्मा वैश्वानरः, कथं तर्ह्यरःप्रभृतीनां वैद्यादित्वोपदेशः, यावता जाठराग्निपरिग्रह एवैतदुपपद्यत इत्यत्राह - संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ १-२-३२ ॥ अस्य परमात्मन एव वैश्वानरस्य छुप्रभृतिपृथिव्यन्तशरीरस्य समाराधनभूतायाः उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसंपादनाय अयमुरःप्रभृतीनां वेदित्वाद्युपदेश इति जैमिनिराचार्यो मन्यते । तथा हि-परमात्मोपासनोचितमेव फलं प्राणाहुत्या अग्निहोत्र संपत्ति प्रादेशमात्र शब्दो व्याख्यातः । अभिविमान मित्यात्राभिशब्दं व्याचष्टे कृत्स्नमभिव्याप्तवत इति । विमानशब्दं व्याचष्टे विगतमानस्येति । उत्तरसूत्रस्य शक्तामाह मूर्धप्रभृतीति । प्राकृतमूर्द्धादिद्रव्यावयवत्वम् (प्राकृतद्रव्यमूर्षाद्यवयवत्वम् १) अप्राकृतरूपस्य परमात्मनो न संभवति, अपि तु देवताया एव संभवतीत्यभिप्रायः । अनुस्मृतेर्बादरिः ॥ माकृतमूर्षाद्यवयववत्त्वासंभवपरिहारार्थत्वाभिप्रायेण सूत्रं व्याचष्टे तथेत्यादिना अनुस्मृति! उपासनम् ; उपासनार्थ पुरुषविधत्वमित्यर्थः । कथमुपासनार्थत्वम् ? बुद्यारोहार्थत्वं किं न स्यादित्यत्राह यस्त्वेतमिति । उदाहृतवाक्ये पुरुषविषत्वमुपास्याकारतया न प्रतीयत इत्यत्राह एतमेवमितीति । अत्र मुक्तिफलवाचिशब्दः क इत्यत्राह सर्वेष्विति । अभ शब्दस्य प्रसिद्धान्नपरत्वानुपपत्तिमाह यत्त्विति ॥ एवं परमात्मनो धुप्रभृतिप्रदेश संबधिन्या मालया परिच्छिन्नत्वे पुरुषविषत्वे च प्रयोजनमुखेन भूतत्तृतीयदेवतान्युदासः कृतः ; अथोत्तरसूत्रस्य जाठरशङ्कान्युदासकत्वं दर्शयन् तदवतारयति यदीति । यावता — प्रत्युतेत्यर्थः । संपत्तेरिति जैमिनिस्तथाहि दर्शयति ॥ कस्य संपत्तिः, सा च कीदृशीत्यपेक्षायामाह अस्येति । संपत्तिः संपादनम्, अतस्मिन् तत्कल्पनम् । तथा हि दर्शयतीति सूत्रखण्डं व्याचष्टे तथेति । परमात्मोपासनोचितमेव फलमिति । अग्निहोत्रसंपतेः परमात्मसमाराधनार्थत्वं ‘तस्य सर्वेषु लोकेषु’ इत्याधुकफलविशेष एव ज्ञापयतीति भावः । स य 1 जाबाले अग्निरहस्ये चोकमन्यादृशं प्रादेशमात्त्रस्वमेतदधिकरणान्ते दर्शयिष्यते मत स्वरससिद्धमिदमन्यत् । अनयो विकल्पः । L
१-२-६ वैश्वानराधिकरणम् ३४९ दर्शयतीयं श्रुतिः, “स य इदमविद्वानग्निहोत्र जुहोति यथा अङ्गारानपोह्य भस्मनि जुहुयात् -तादृक् तत् स्यात् । अथ य एतदेवं विद्वानग्निहोत्रं जुहोति, तस्य सर्वेषु लोकेषु सर्वषु भूतेषु सर्वेष्वात्मसु हुतं भवति । तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति ॥ आमनन्ति चैनमस्मिन् ॥ १-१-३३ ॥ एनम् - परमपुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम् अस्मिन् — उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति च, “तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः” इत्यादिना । अयमर्थः - ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय, ‘सर्वेषु लोकेषु’ इत्यादिना ब्रह्मप्राप्तिं च फलमुपदिश्य, अस्यैवोपासनस्याङ्गभूतं प्राणाग्निहोत्रं ‘तस्य ह वा एतस्य’ इत्यादिनोपदिशति ; यः पूर्वमुपास्यतयोपदिष्टो वैश्वानरस्तस्यावयवभूतान् अग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयान् उपासकशरीरे मूर्घादिपादान्तेषु संपादयति । मूधैव सुतेजाः -उपासकस्य मूधैव परमात्ममूर्धभूता द्यौरित्यर्थः । इदमित्यादि । इदमविद्वान् - ‘इदम् उरःप्रभृतीनामग्निहोत्रोपकरणतामजानन् यः अग्निहोत्रम् - प्राणाहुतिम् जुहोति - अनुतिष्ठतीत्यर्थः । एतदेवं विद्वानित्यत्राप्येवमर्थः सर्वेष्वात्मसु हुतं भवतीति । सर्नात्मकभगवदाराधनेन सर्वमाराधितं भवतीति हुतप्रकर्षोक्तिः । अस्याग्निहोत्रस्य परमात्माराधनत्वज्ञापनार्थं तदङ्गकपरोपासनफलं दर्शयति तद्यथेपीकेति ॥ परस्यात्मनो धुप्रभृतिशरीरकत्वमयुक्तम्, उपासकस्य मूर्धाद्यवयवानामेव सुप्रभृतित्वेनोपासनविधानादिति शङ्कायामाह आमनन्ति चैनमस्मिन् । एनमिति पदं व्याचष्टे घुमूर्धत्वादीति । अन्वादेशविषयो । बेनादेशः । अन्वादेशः अन्वाख्यानम् । तस्मात् एनमिति पदम् उक्तधर्मोपेतम् उक्तधर्मिणं परामृशतीति भावः । उपासकशरीरे घुमूर्धताद्यनुसन्धानं परमात्मनो मूर्धत्वादेर्न विरोधि ; उभयस्यापि विहितत्वात् । अत उपासकशरीर एव मूर्धत्वाद्यवयववमिति अवधारण कल्पनमयुक्तमित्यर्थः । एवमित्यत्र गर्भितमर्थं विवृण्वन् उभयस्य विहितत्वमुपपादयति अयमर्थ इत्यादिना । ब्रह्मप्राप्तिं च फलमुपदिश्येति । फलवत्संनिधावफलं तदङ्गमिति न्यायात् ब्रह्मप्राप्तिफलकत्वेनोक्तस्य वैश्वानरोपासनस्य प्राणाग्निहोत्रमङ्गमित्यभिप्रायः ॥ कथं प्राणाग्निहोत्रस्या फलत्वम् ; ‘अथ य एतदेवं विद्वान्… तद्यथेषीकातूलम्’ इत्यादिना तस्य हि फलै श्रूयत इति चेन्न ; प्राणाहुतिमात्रस्य सर्वपापनिवृत्तिपूर्वका परिच्छिन्न फलहेतुत्वायोगात् अङ्गभूतस्यापि प्राणाग्निहोत्रस्याङ्गिद्वारा मुक्तिरेव फलमिति ज्ञापयितुं यस्त्वेतमेव पित्या दिनोक्तवैश्वानरोपासनफलान्तर्गतानिष्टनिवृत्त्यंशस्योक्ततया अङ्गिफलविरोधिफलाश्रवणेन तस्य ह वा’ इत्यादिवाक्यप्रतिपन्नस्याङ्गि (ङ्ग) भावस्यानपोदितत्वात् । ‘तस्य ह वा’ इत्यादिवाक्यस्यार्थमाह यः पूर्वमिति । अवान्तरवाक्यानि प्रत्येकं व्याचष्टे मूर्धेत्यादिना । अधिकरणार्थप्रतिपत्तिसौकर्यार्थ पूर्वसूत्रविषयवाक्यार्थं क्रमप्राप्तमेतत्सूत्रार्थेन संगतमुपन्यस्य ति 1 श्रुतौ इदमिति पृथक्पदमिति ज्ञापनार्थम् इषमिति पुनर्ग्रहणम् । १ द्वारेति । प्राणाहुतेर्धर्मस्य पापापनोदनपूर्वमेवोपासन निष्पादकतया किञ्चित्पापापनोदफत्वस्य सत्त्वात्, सर्वपापापनोदकत्वात्मकफलंस्याप्यन्ते भविष्यत्त्वाच्चेति भावः ।
३५० मुतप्रकाशिकोपेते श्रीमाष्ये चक्षुर्विश्वरूपः । आदित्य इत्यर्थः । - प्राणः पृथग्वर्त्मा-वायुरित्यर्थः । सन्देहो बहुलः - उपासकस्यै मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः । वस्तिरेव रयिः - अस्य वस्तिरेव तदवयवभूता आप इत्यर्थः । पृथिव्येव पादौ -अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकः स्वशरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं संनिहितमनुसन्धाय स्वकीयानि उबोलोमहृदयमन आस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्द्विर्गार्हपत्यान्वाहार्य - पचनाहवनीयान् अग्निहोत्रोपकरणभूतान् परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति ‘उर एव वेदिलमानि बर्हिर्हृदयं गाईपत्यः’ इत्यादिनोपदिश्यते । अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ॥ १-२-६ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य द्वितीयः पादः ॥ १-२ ॥ एवमित्यादिना । अधिकरणार्थमुपसंहरति अत इति । ‘अभिव्यक्तिः, अनुस्मरणीयत्वम्, धुप्रभृतिषु मूर्धत्वादिसम्पादनम्, मस्तक चिबुकान्तराले परस्य स्थितेर्जाबालश्रुत्या प्रतिपादन मिति अभिव्यक्तेरित्यादिसूत्रचतुष्टयार्थ इतरैरुक्तः । तन्मते सूत्राणां परिहरणीयशङ्काया अभावात् वैयर्थमेव स्यात् । अतो यथोक्त एवार्थः ॥ इति वैश्वानराधिकरणम् " इति श्रीहरितकुलंति लेकंवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन श्रीमद्वरदराजाचार्य पाद सेवासमधिगत भगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रकाशिकायां प्रथमस्याध्यायस्य द्वितीयः पादः ॥ शुभमस्तु -0-0-0- 1 परोक्तसूत्रचतुष्टार्थाः क्रमेणोच्यन्ते अभिव्यक्तिरिति । प्रादेशमात्रत्वं नाम हृदयादिप्रदेशे अभिव्यज्यमानत्वं हृदयप्रदेशगतमन उपास्यत्वम् उपासकशरीर प्रदेशविशेष संपादितद्युप्रभृतिस्वशरीरप्रदेश कत्वमिति सूत्रत्त्रयेणोक्तम्। अन्तिमांशस्य श्रुत्या प्रतिपादनमस्तीति अन्तिमसूत्रोक्तमिति । सूत्रत्वात् पञ्चम्यन्तपदघटितत्वाच्च शंकाशमनार्थत्वमावश्यकमिति भावः । । 2 मस्तकचिदुकान्तराले इति । एतदुपपादनं वाजसनेय काग्निरहस्येऽप्यस्ति (१०-५-६-१०) “स होवाच मूर्धानमुपदिशम्, एष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाच, एष वै सुतेजा वैश्वानर इति । नासिके उपदिशन्नुवाच, एष वै पृथग्वर्त्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवाच, एष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाच, एष वै रयिवैश्वानर इति । चुबुकमुपदिशन्नुवाच, एष वै प्रतिष्ठा वैश्वानर इति । स एषोऽग्निर्वैश्वानरः, यत पुरुषः । अप पुनर्मृत्युं जयति । सर्वमायुरेति । " ॥ श्रीः ॥ इति अभिनवदेशिकवात्स्य सञ्चक्रवर्ति - वीरराघवाचार्यकृतौ सुदर्शन सेवायां प्रथमद्वितीयः ॥ श्रीमते रामानुजाय नमः ॥ श्रीरस्तु ॥
उमयवेदान्तमन्थमाला श्रीमाण्यप्रथमद्वितीयपादगताधिकरण विषयवाक्यानाम् उपनिषत्सूची सर्वाऽप्युपनिषत् - (मुण्डक 1-2-12, 13 परीक्ष्येत्यादि) भृगुवल्ली1 (-भृगुर्वै - यतो - ) ,, 39 आनन्दो ब्रह्मेत्यादिः सर्वाऽप्युपनिषत् । 6-1-16 सद्विद्या जि- 1-1-1 ज- 1-1-2 तै-उ- शा- 1-1-3 स- 1-1-4 तै भृ- ई- 1-1-5 छा- आन- 1-1-6 तै उ-1 अ. 1-1-7 छा-1-6 य एषोऽन्तरादित्ये - आका 1-1-8 छा-1-9-1 आकाश इति होवाच- प्रा- 1-1-9 छा-1-11-4, 5 प्राणइति होवाच- ज्यो
1-1-10 इन्द्र1-1-11 छा-3-13-7 अथ यदतः परो कौषीतकि 3 प्रतर्दनोहवै - आनन्दवल्ली सर्व1-2-1 छा-3-14 सर्वखल्विदं ब्रह्म arafa-1-2-2 कठ-1-2-25 वैस्य ब्रह्म च अन्तरा1-2-3 छा 4-15 य एषोऽक्षणि अन्तर्या - 1-2-4 बृ का 5-7 (मा6-7 ) यः पृथिव्यां अह- 1-2-5 मुण्डकोपनिषत् - अथपरा यथातदक्षरम् वै- 1-2-6 T-5-11 वैश्वानरं संप्रत्यध्येषि –0–00-
३५.१ ३५२ श्रुतप्रकाशिकोपेतं श्रीभाष्यम् शारीरकप्रथमद्वितीयपादसूत्राणाम् अकारादिसूची 1-2-16 296 । न चस्त्रार्तमतद्धर्माभिलापात् 1-2-20 अत एवचस ब्रह्म 303 अत एव न देवताभूतञ्च 1-2-28 316 । नवक्तुरात्मोपदेशादिति 1-1-30 271 अत एव प्राणः 1-1-24 263 नेतरोऽनुपपत्तेः 1-1-17 250 अत्ता चराचरग्रहणात् 1-2-9 286 प्रकरणाच्च 1-2-10 288 अथातो ब्रह्मजिज्ञासा 1-1-1 4 प्रतिज्ञाविरोधात् 1-1-9 224 अदृश्यत्वादिगुणको 1-2-22 304 प्राणस्तथानुगमात् 1-1-29 269 अनवस्थितेरसंभवाच्च 1-2-18 298 भूतादिपाद 1-1-27 268 अनुपपत्तेस्तुनशारीरः 1-2-3 283 । भेदव्यपदेशाच्च 1-1-18 251 अनुस्मृतेर्वादरिः 1-2-31 319 भेदव्यपदेशाच्चान्यः 1-1-22 258 अन्तर उपपत्तेः 1-2-13 292 मान्त्रवर्णिकमेव च 1-1-16 249 अन्तर्याम्यधिदैवा 1-2-19 299 रूपोपन्यासाच्च 1-2-24 310 अन्तस्तद्धर्मोपदेशात् 1-1-21 253 विकारशब्दान्नेति 1-1-14 247 अभिव्यक्तेरित्याश्मरथ्यः 1-2-30 318 । विवक्षितगुणोपपत्तेश्च 1-2-2 282 अर्भकौस्त्वात् 1-2-7 284 विशेषणभेद 1-2-23 306 अस्मिन्नस्य च 1-1-20 252 विशेषणाच्च 1-2-12 289 आकाशस्तलिंगात् 1-1-23 259 । वैश्वानरः साधारण 1-2-25 311 आनन्दमयोऽभ्यासात् 1-1-13 229 शब्दविशेषात् 1-2-5 283 आमनन्ति चैनमस्मिन् 1-2-33 319 शब्दादिभ्योऽन्तः प्र 1-2-27 315 ईक्षतेनशब्दम् 1-1-5 217 शास्त्रदृश्यातूपदेशो 1-1-31 272 उपदेशभेदान्नेति चेन्न 1-1-28268 शास्त्र्योनित्वात् 1-1-3 181 उभयेऽपि हि भेदेन 1-2-21 303 श्रुतत्वाच्च 1-1-12 226 कर्मकर्तृव्यपदेशाध 1-2-4 283 श्रुतोपनिषत्क 1-2-17 298 कामाच्चनानुमानापेक्षा गतिसामान्यात् 1-1-19 252 संपत्तरिति 1-2-32 319 1-1-11 226 संभोगप्राप्ति 1-2-8 286 गुहांप्रतिष्ठावात्मानौ 1-2-11 288 सर्वत्र प्रसिद्धो 1-2-1 278 गौणश्चन्नात्मशब्दात् 1-1-6 221 साक्षादप्यविरोधं 1-2-29 317 छन्दोभिधानान्नेति चेत् 1-1-26 266 सुखविशिष्टाभि 1-2-15 293 जन्माद्यस्ययतः 1-1-2 174 स्थानादिव्यप 1-2-14 293 जीधमुख्य… नोपासा 1-1-32 274 । स्मर्यमाणमनुमानं 1-2-26 314 ज्योतिश्चरणाभिधानात् 1-1-25264 । स्मृतेश्च 1-2-6 284 तत्तु समन्वयात् ।-1-4 193 स्वाप्ययात् 1-1-10 224 तद्धेतुव्यपदेशाच्च 1-1-15 249 हेयत्वावचनाच्च 1-1-8 223 तन्निष्टस्य मोक्षोपदेशात् 1-1-7 223 शुभमस्तु
भूमिकाभागे शोधनादिकम् 18-6 अनोपात्तेषु पूर्वाचार्यवावयेषु “कर्मसमृद्धघर्थत्वं तत्प्रयोजनं तन्निर्वचनात्” इति वाक्यकारवचनं श्रुतप्रकाशिकायां (।.१-७४ पुटे) उपात्तमपि आयोज्यम् । 19-10 कुहदेव 70-1
( कुहदेवः = वामनः, वश्वनयाऽवतीर्णत्वात्) काण्ड इति व्यवहारः 76 - 16 व्यक्तिपर्यन्तत्व…. श्रुतप्रकाशिकासहिते श्रीभाष्ये प्रथमसंपुटे आदितः २५६ पुटपर्यन्तभागे पाठभेदशोधनिकाविकम् । 3-16 मनस्समवधानार्थं 14-22 यत्वप्रतीते रनन्तस्थि रफलापातप्रतीत्यन्तर्भावात् ( पाठभेदः) 15-21 परम्परया ब्रह्मसम्बन्धिना ….. (षष्ठीदर्पणे) 15-24 जिज्ञास्यत्वं सूच्यते (षष्ठीदर्पण- दृष्टोऽयमेव पाठः स्वरसः ) 16-19 लक्षणायामेव । प्राति… पाठशोधनम् । (ति. ई. वीरराघवाचार्यः, शिरोमणिः) “श्रुतप्रकाशिकायां अध्ययनविधि- निरूपणप्रकरणभाष्यव्याख्यावसरे ‘आद्ये त्वध्ययनेनैव काचिदस्ति फलश्रुतिः । धारणे जपयज्ञे च या साप्येवं निवारिता ॥’ इति वचनं धृतम् । इदं च पार्थ सारथिमिश्रीयं न्यायरत्नमालावचनम् । तत्र ‘फलश्रुतिरियं यतः’ इत्येव तुरीयपादो दृश्यते । अग्न्यादिदेवतासायुज्यप्राप्त्यादिफलं ब्रह्मयज्ञादेः । न तु ग्रहणाध्ययनस्य श्रूयते इति तात्पर्यम् अयमेव पाठः प्रकरणानुगुणः । अतस्तदनुवादरूपेऽत्रापि तथैव पाठ्यमिति भाति ।” 31-14 व्यवहितमव्यवहितं 35-7 स्वात्मनां बुद्धयु - 35-15 द्विजः । सकल्पं .. 37-9-10. दैवत ब्राह्मणेन मन्त्रेण याजयति • . गतं वा पतति . दृष्ट्वा ( भावप्रकाशिकापाठः) 38-1 ः 17-19 स्वेतरवैलक्षण्यं तृणादे… (भा. प्र . ) 17-22 निर्गुणत्वस्य 4120 नत्वन्ययोग (भा. प्र.) … 18-5 2615 रात्रिसत्रन्याय… 29.20 उद्यानपत्रिका (May 1939) तदन्तर्गतानामेव (भा. प्र. ) 42-28 न समसमुच्चयपरः । (भा. प्र.) 43-26 क्रमनियामकहेतु (भा. प्र.) 42-16 प्रतिकूल फलत्वमपीत्याह-प्रत्युतेति । …
2 44-26 रूपा विशेषा; (भा. प्र. … सर्पा- द्याकाराणां … 45-4 लोकः क्षीयते, ब्रह्मविदाप्नोति परम्, ब्रह्म वेद…. 45-12 न साध्यसाधन… 68-28 तस्यापकर्षन्ति 694 बुद्धिमपकर्षन्ति 69-20 कार्यमेव तत् । यज्ञो दानं 70-18 संराधनात्मके कर्मणि 71-16 नित्यानित्ययो… यस्य धर्मिणो 73 8 सम्भवशङ्का, ते 46-24 “भूत्वाऽऽत्मानं पश्येत्”. 47-18 ज्ञानोत्पत्तिकरणमाह 74 1 47-24 व्यावर्तकः । तेषां कर्म समृद्ध्यर्थान्यपि ब्रह्मदृष्टिरूपाणि ब्रह्मज्ञाना… 48-15 भ्रान्तिमूलकमिति 502 जातेऽपि सर्वस्य पुंसः सहसैव (भा. प्र . ) 76-22 52-13 रज्जुसर्पादिभ्रान्ति… (भा. प्रा.) 531 कुर्वीत, अनुविद्य विजानाति, ओ- मित्येव … 54-17 मनादृत्य … 54-19 आवृत्तिरिति । आवृत्तिद्वयतय- व्यावृत्त्यर्थम् ‘असकृत्’ इति सीतं पदम् । उपासनशब्दाश्रवणात सूत्रस्य तत्परत्वमस्फुट मिति तस्यार्थमाह - तदिदमिति । कस्यावृत्ति… (इति पाठ्यम्) 55-10 एतत् वेद्यं ब्रह्म च उभयं… (भा.प्र.) 58-14 जगत्कारणोपासनं चेत्… निदि- ध्यासनरूपमित्यवगम्यते (भा. प्र . ) 67-5 …रुत्तरणवाचित्वं 678 कर्मानुबन्धि 68-12 …दधोनयनस्येति 68-13 विवक्षितमुत्रयनमुपासननिष्पादन- रूपम् । 68-23 जीववृद्धयनपेक्षं भवति । 76 5 तुच्छता स्यादित्यत्राह - चिन्मात्र- मिति । स्वगतभावाभावरूपभेदः । (पा.) 77-26 मेकवाक्यत्वरूप न्याय… 77-28 उभयलिङ्गत्वं साकारत्वं [भा. प्र . ] 78 - 6 द्वैतिनोऽतथ्यदर्शिनः । 87-16 अस्थूलमित्यादिवाक्यं 88 - 3 87.31 द्वयेकेषु इति हि वक्तव्यम् । [ भा. प्र . ] [इत आरभ्य पु. ९०-२३ ‘इति’ इत्युत्तरत्र विवरणपर्यन्तात्मको भागः प्रमेयमाला कोशानुवादः । प्रमेयमालाकोशानुसारेण अत्र, एतदनुसारेण तत्र च सुबहु शोधनीयः वर्तते । क्वचित् वाक्यान्यनन्वितानि । भावप्रकाशिकापाठाः समीचीनाः । [ सं . ] 88-3 पतञ्जलिना… ‘लटः शतृशानची अप्रथमासमानाधिकरणे’ इत्येतत् सूत्रस्थ… 88-13 नीलं शुक्लं पीतं इत्यादयः । 88-24 पूर्वोक्तार्थः साधीयान् । [ भा. प्र.] 88-25 तत्स्था समानविभक्तिः [भा. प्र.] 89-12 प्रातिपदिकार्थेयपरस्य
3 90-3 92-1 खपरत्वेन … जडरूपाद्वस्तुनो 942
ननु च सर्व पदानां 96-15 शास्त्रप्रत्यक्ष विरोधे ( भा. प्र . ) 96-30 शास्त्रबलीयस्त्वस्य हि तत्’ इत्येतदवतारणात्, उपरि स्वानुभवसिद्धमित्यनेने कार्थ्यात् इति श्रीभाष्यपाठानुवादाच्च । स्वानुभवसिद्धमित्यादि निर्विशेषवस्तु विशेष्यामितीदमपि पर्यालोच- 97-28 तथा प्रतियोगिग्रहणमपि [ भा. प्र . ] नीयम्” । (सं.) 98-14 मित्यनवस्था । किश्व शब्दान्त- 115 11 पक्षव्यापको हि हेतुः [भा. प्र.] रेण धर्म इत्युक्तं स्यात् । तथा च 116 3 प्रामाणिकेविशेष … [पा. ] धर्म पक्षदूषणान्यापतेयुः । किच- 117-31 सविकल्पस्य स्वरूपं [पा. ] भेद … 1187 वृत्तिप्रतीतिरिति । प्रथम… 99-19 बाधितत्वाबाधितत्वाभ्यां [न्यायपरिशुद्धिव्याख्याने न्यायसारे 99-23 सोपाधिकत्वं [पु. ८१] दृष्टः पाठः । 101-21 स्वस्मै भासमानत्वात् [भा. प्र. ] 1188 सास्नादिसंस्थानरूप… (,,,,) 103-26 आत्ममनस्संयोगे [भा. प्र . ] 104-15 यदि प्रत्यक्षेण [,,,,] 1056 अनुमेयत्वदर्शनात् बाधप्रसङ्गात् … [WT. ऽT.] 106-15 रूपादिति । 1096 arfer for = 110-17 प्रामाणिकानाम् 110-22 ज्ञातुरप्यात्मत्वं [भा. प्र.] 112-23 मधुसूदनः । 113 - 8 1142 दुर्निरसत्वमुक्तम् [भा. प्र . ]
[ उद्यानपत्रिका May 1939 पाठशोधनम् । ति ई-वीरराघवाचार्यः। ] “श्रीभाष्ये महासिद्धान्तारम्भे यस्तु स्वानुभवसिद्ध इति स्वगोष्ठीनिष्ठः समयः’ इति पाठो दृश्यते । अत ‘स्वानुभवसिद्धम्’ इति युक्तः पाठः । श्रुतप्रकाशिकायां ‘स्वानुभवसिद्धं 1192 प्रतीत्यभावाञ्च प्रथमपिण्ड… [भा. प्र . ] 120-16 … च्छेद्यत्वसिद्धेरुपाधित्वं [भा.प्र.] 120-26 त्र्यवच्छेदको यः स 122-17 संस्थानसंस्थितानां दण्डादीनां 1264 संस्थानस्य उभयसम्प्रतिपन्नत्वाच्च [भा. प्र . ] 129-17 भ्रमविरोधी भेदो 129-31 महिषादीनाम् । 131-13 सिद्धसाध्यता । 131-18 तत्पर्यवसायित्वाच्च । 131-25 स्वरूपमात्रमिति 132-13 बाधस्यापि पक्षवृत्त्युपपादनेन [पा.] 133-18 क्रियान्तरावच्छिन्नस्य कालस्य [WT. ऽTः] 133-28 तृतीये - अंशतः सिद्धसाध्यता (भाः प्र . ) 135-14 क्षेमत्वमाह - तथाऽनुभूतेरिति ।
4 137-23 प्रतिसन्धानं वा घटादि… [भा. प्र . ] 161-8 अहङ्कारस्येत्यर्थः । यद्वा स्वरूप- 139-23 स्मरणञ्च 139-29 प्राग्जन्मभोगाः [पा. ] 142-24 साधनाव्यावृत्तत्वलक्षणानियतत्व- मात्रम् [भा. प्र.] 143-18 हेतुत्वरूपं व्यवहारानुगुण्यं [ भा. प्र . ] 144 4 कोऽयमात्मा ? 144-28 संविदात्मभावस्य [भा. प्र . ] 144-30 धर्मधर्मिभावपुञ्ज एव [भा. प्र.] शब्दो धर्मिपरः । ज्ञानस्वरूपस्यैव ज्ञानधर्मकत्वं सम्भवति; न तु जड-
स्वरूपस्य यथा घटादेरिति, ज्ञानस्वरूपत्वात् ज्ञानधर्मं कस्यैव स्वधर्मं भूतज्ञानप्रसर कर्तृत्वरूपविकार - सम्भवः; न तु जडस्वरूपत्वात्, अतद्धर्मं कस्याहङ्कारस्येत्यर्थः । एवं विक्रिया… स्वतः सिद्धतया हि प्रागभाव उक्तः । (WTT. ऽT.) भा 1462 प्रतिसन्धानाभावस्तदवस्थः । 163-8 [ न्यायसिद्धाञ्जनव्याख्या (पु. ११९) दृष्टः पाठः ] 164 14 अन्यन्निरसनीयं 147 2 तद्द्बलनिर्भासितत्वात् [श्रुतप्रका- शिकासम्मतः पाठः ] 165 6 प्रतीत्यनुगुणस्वभावत्वाच्च (भा. प्र. ) 1506 अस्याश्च ( न्यायसिद्धाञ्जने बुद्धि- 165-20 ज्ञानेऽस्य तथात्वम्, परिच्छेदे एवं पाठः) 166 - 3 अहम्भानविगमे तु (पा.) 151-20 ‘दीपदीप्ता यथाऽऽकृतिः’ इति 1671 सुप्तोत्थितः (मोक्षधर्मे २४८-१५) शुद्धः पाठः । 167-26 गजो नास्तीति [ भा. प्र.] 1522 ऊर्ध्व मुद्गम्य 168-14 153-30 व्यतिरेकशब्देन (भा. प्र.) तिष्ठत्येव । स्वापस्य बाह्यान्तरकरण… (न्यायसिद्धाञ्जनव्याख्याने 155 4 सम्बन्धविषयकज्ञानेन (भा. प्र.) 1557 विशेष्यतं कस्वभावः स्वात्मानमुप- उत स्थापयति । (भा. प्र . ) 155-30 उत स्वस्मै प्रकाशमानत्वम्, स्वस्मै स्वयम्प्रकाशमानत्वम् । 157-27
ननु संविदध्यासानुदयो दुर्वचः (भा. प्र.) 1585 चेतनासाधारणधर्मत्वाच्च (भा. प्र . ) 158-32 ज्ञातृत्वाभाव उक्ते पराक्त्वं 1606 स्वाभाविकं रूपम; अपि तु [भा.प्र.] 160-28 अविकारित्ववचनानि [भा. प्र. ] …विकारित्व में वरूप शब्देन 160-30 (पु. १२७) उपनिषद्भाष्यकार रुपात्तः पाठः) 168-15 अनुसन्धानमस्ति चेत् (,,,,) 168-16 न चैवं सुखादेः (,,,,) 1699 साक्षाद् द्रष्टर्येव (भा. प्र . ) 1719 स्वस्मै भासमानत्वेन (भा. प्र.). 173-15 युक्तम् । यथा, (भा. प्र.) 173-21 अतैव पुराणे (भा. प्र.) 176-33 यस्य तु दुष्टं करणं 179-23 / तत्प्रतिपत्तिः, क्वचित्… (भा. प्र . )
B 5 182-18 त्वादिज्ञानम् (चक्षुरादिकं नापे206-25 विरोधगन्ध … क्षते ) । नहि… (पा.) 185-20 वैशेषिकादिमत… [भा. प्र . ] 186-20 उपदेशः । प्रत्ययार्थः कर्मत्वम् । ‘अकर्तरि… 186-22 ‘faऽfa a’ 209-25 आविद्यकत्वाविशेषेण 214 9 उद्गमयिता गमयिता सङ्गमयिते … [भा. प्र. ] 214-10 नेतेति । अनेन गमयितृ… [ भा. प्र . ] 214-27 कश्यपः पश्यकोऽभवदिति [पा.] 186-80 ब्रह्मण इत्यसाधारणमिति (पा.) 216 - 2 रूपवर्गादि… [पा. ] 1873 … मितसुख… [पा.]. 2176 एव विशेषणम् । (भा. प्र . ) 1878 … वस्तुनोऽपेक्षिता… [ पा. ] 228-18 अतोऽनेन वचनेन सत्त्वादि… 188-16 … वाक्येषु अनेकविशेषणविशिष्टै- कार्थ… (पा.) 188-22 तथा सति पदानां पर्यायत्व… (ऽT. ऽT.) 189-21 परामर्शदशायां हि सम्भवत्येव । (भा. प्र . ) 189-23 विशेष्यैक्यमेवावगमयति; (भा.प्र.) 191-18 वाक्यमखण्डार्थं परं समानाधि- करण.. … [भा. प्र. ] 1953 मपि न युक्तम् [भा. प्र . ] … 195-27 … रुभयोरप्यपच्छेदनियमो (भा. प्र . ) 196-13 ज्ञायमानतया वा [पा. ] 199-10 स्फुटप्रतीतिहेतुत्व… (भा. प्र.) 190-29 पुरुषबुद्धयुत्प्रेक्षा… (भा. प्र. ) 231-29 अन्तिमपङ्क्तिस्था टिप्पणी २३० पुटे आयोज्या । 233-22 न तु तस्य शरीरात्म… (भा. प्र.) 234 - 8 इत्युक्तप्रश्नस्योत्तरत्वा … 234-21 विस्तररूपत्वं च 236-19 सजातीयस्तेषामिति 2376 तपतां श्रेष्ठ! 238-14 तादात्म्यमिति निर्देशवत् । 238-19 व्याप्यत्वसहचरितं हि (भा. प्र . ) 238-20 अतत्पर्यन्तस्य स्वतन्त्र… 238-30 प्रतीयते; 243-15 नभस्यंशभेदाभिप्रायेण 202-15 बहुधेत्युक्तम् 249-29 सादृश्य एव हि समशब्दस्य (इत्येव 202-24 … माविद्यकत्वेन महीशूरपुरमुद्रणे पाठः) 2046 तेन सकृत्प्रयुक्तजगच्छब्दस्य [पा.] 253-12 दाष्टन्तिके 205 - 6 …. विशिष्ट वस्त्वैक्यम्; [भा. प्र . ] 254-13 206-12 बहुधा विचारः घोष इत्यत गङ्गापदवत् (न्यायसिद्धाञ्जने एवं पाठः)
6 द्वितीयांशे शोधनपरिवर्तन परिवर्धनादिकम् 12-23 स्पर्शानुपलम्भस्तु (सिद्धान्तसिद्धाञ्जने (पु. ४१) श्रीअनन्तात्वान्विरचिते दृष्टोऽयं पाठः साधुः । 142 विद्यमानं हि स्वाश्रयं (पा.) 15-26 स्वरूपभूतं ज्ञानं साश्रयं (भा. प्र . ) 31-29 ‘सोमाभावे’ इति श्लोको यामुना- र्याणामिति अधिकरणचिन्तामणि[ श्लोकः २०१] दर्शनात् ज्ञायते । ‘यन्नाथमुनिमिश्राद्यैर्यथार्थं ख्याति - साधनम्’ इति न्यायपरिशुद्धिदर्शनात् एताः कारिकाः नाथमुनिमिश्रीया इत्यवगम्यते । 32-20 तथाऽवगम्यते । 34. 9 ‘जीवस्य’ इत्यनन्तरं “स्रष्टृत्वमाशङ्क्य, ‘मायामात्रं तु कात्स्र्त्स्न्येनानभिव्यक्तस्वरूपत्वात्’ [३ - १ - ३] इत्यादिना न जीवस्य सङ्कल्पमात्रेण स्रष्टृत्वमुपपद्यते” इतिपर्यन्तो भागः भाष्ये गलितः । 379 " अथवा किमनेन-” इत्यादिकः कुण्डलितो भाष्यभागः न्यायपरिशुद्धयादिषु आचार्यैः (प्रत्यक्षाध्याये प्रथमाह्निके) उपादानात्, श्रुत- प्रकाशिकायां व्याख्यातत्वात्, श्री- विष्णु चित्तैः प्रमेयसङ्ग्रहेऽनूदित- त्वाच्च प्रामाणिक एव । 707 प्रवृत्तिनिमित्त-. 80-3 বান, " पाठशोधनम् " उद्यान पत्रिका May 1939. मधुरान्तकम् ति. ई. वीरराघवाचार्याः । “श्रीभाष्ये महासिद्धान्तावसाने “चिदचिदीश्वरान विविक्तस्वरूपस्वभावान् ‘क्षरां प्रधानममृताक्षरं हरः’ इत्यादिवाक्यैः पृथक् प्रतिपाद्य, ‘यस्य पृथिवी शरीरं…’ इत्यादिभिः वावयैः चिदचितोः सर्वावस्थावस्थितयोः परमात्मशरीरतां परमात्मनस्तदात्मतां च प्रतिपाद्य, शरीरि भूतपरमात्माभिधायिभिः सद्ब्रह्मात्सादिशब्दे ः कारणावस्थः कार्यावस्थश्च परमात्मा एक एव इति ‘सदेव सोम्येदमग्र आसीत्’ …इत्या दिवाक्यं प्रतिपादयति” इत्युक्तम् अत्र चिदचिदीश्वराणां विविक्तः स्वरूपस्वभावप्रतिपादनस्य; तेषां शरीरात्मभावप्रतिपादनस्य कार्यकारणावस्थः परमात्मा एक एवेति प्रतिपादनस्य च विभिन्न वाक्यकर्तृकतया समानकर्तृकत्वपरं ल्यबन्तं पदद्वयं कथमन्वेतु ? इति शङ्का जायते । अत्रैवं समाधानम् - णिजन्तात् प्रतिपूर्वकात् पद्धातोः पुनर्हेतुमणिचि ल्यप् प्रत्यये च ‘प्रतिपाद्य’ इति रूपं, णिजर्थश्च निर्वाहकव्यापारः । निर्वाह्य कर्तृत्वस्य
वाक्यान्तरवतित्वेऽपि निर्वाहकव्यापारस्य ‘सदेव’ इत्यादिवाक्ये विवक्षितत्वेन तदुपपत्तिः । ‘सदेव’ इत्यादिवाक्येन कार्यकारणावस्थब्रह्मप्रतिपादनं चिदचिदीश्वराणां स्वरूपभेदप्रतिपादनं, तेषां शरीरशरीरिभावप्रतिपादनं च अपेक्षत इति प्रातीतिकः क्रम इह विवक्षित अथवा पाठान्तरमन्वेष्ट- इति । व्यम् ।” 822 निवर्तकज्ञानोत्पत्तिरेव 88 8 तेषु तेष्वर्थेषु स्वात्मनो ( पा.) 92-28 कृतिसाध्यत्वातिरेकि कृतिकर्मत्वं 95-7 अर्यंत इति [ पा. ] 97-8 स्वातन्त्याभिमानवतः 1016 अयोगव्यवच्छेद… 111-32 उपलक्षणाकारमाह112-20 भिन्नविषयत्वमेव (भा. प्र . ) 115-23 अतो यथोक्त एवार्थं उपपन्नः । (भा. प्र. ) 1162 सातिशयस्वरूपस्वगुणाः 119-9 निर्दोषज्ञानमूलत्वं वाच्यम् (भा. प्र . ) 120-14 वह्नयौष्ण्य- 123-24 … शङ्काद्योतनाथं (भा. प्र . ) 126-11 सद्भावेनानै कान्तिकत्वात् । (पा.) 1287 कर्तृकाले क्यनियमाभावात् [ भा. प्र . ] 1307 विरुद्धत्वमित्यर्थः । 131-12 न तद्विलक्षणत्वसिद्धिरित्याह138-19 निवर्त्य प्रातिकूल्याभ्यां [भा. प्र . ] 1393 स्वविषयावबोधित्वात् सर्वप्रमाणानाम् [भा. प्र.] साध्यत्वमविरुद्धमिति । [ भा. प्र. ] 141-23 स्वर्गादावप्यस्ति ; [भा. प्र . ] 141-6 1448 नाप्यनुग्राहकम् । ( पाठोऽयं शत- दूषण्यां ४६ वादान्ते दृष्टः, स एव साधुः ।) (सं.) 149-26 प्रमेयतया इत्यर्थः । (भा. प्र.) 151-3 ह्यपरोक्षज्ञानजनकानि । (भा. प्र. ) 101-15 ब्राह्मणाग्नीन्द्रादीनामपि 102-16
ननु नेदं समुदितमपि लक्षणम् [ भा. प्र. ] 103 - 4 अविशेषेण विशेषणं विशेष्यं च एककार्यान्वितत्वेन 1464 तत्र तद्ध्याननियोगेन [भा. प्र.] -103-17 तात्पर्याभाव 103-29 भाष्यकारपरिष्कृतप्रकृत… 105-23 विभूते रप्युपास्यान्तर्भावज्ञापनार्थं 106-30 उपासनं च जगद्विशिष्ट विषयम् (भा. प्र. ) 107-14 कारणमनूद्यते । [ भा. प्र ] 107-21 बुभुत्सितः, धीस्थः सारस… 1107 उच्यते । शाखाग्रमुपलक्षणम् । काल- विशेषे देशविशेष सम्बन्ध उपलक्ष्या- 162-7 प्रवृत्तिनिवृत्तिरूपप्रयोजन… 1656 निश्चिते सति (भा. प्र .) 165-16 …प्यविरुद्ध एव । (भा. प्र.) 165-24 जिहासाव्याप्तम् [पा.] 173-29 तदनुग्राहकत्वेन चोपनिषदन्तर… [भा. प्र . ] कारः । शाखाचन्द्रयोश्च… (भा.प्र.) 175-30 यद्वा, इदमग्र आसीदिति [भा. प्र.] CC-0. L’al Bahadur ऽhaऽtr। Un।verऽ।ty, Delh।. D।g।t।zed by ऽarvagya ऽharada Peetham 8 179-13 न्यायो हि [भा. प्र . ] 182-29 मृन्मयमितिवत् 184-29 नापि निष्कृष्ट परमात्मपरः ( भा. प्र . ) 188-10 ओघ शब्दः 2223 " चत्वारः पश्वदश राताः… देवत्वं गच्छन्ति” (वाक्यमिदं ताण्डघमहाब्राह्मणे २३-६) । 237-10 गतो भवति 188-18 सूत्रकार श्रुत्योनिर्देशः । 190-13 परमात्मसाध्यस्य हेतुवाचीति 238-26 कपिर्बभस्ति 239-28 वष्टि भागुरि… [ भा. प्र . ] 240-13 … शरीरसम्बन्धनिबन्धनजीवत्व- 194-20 दश पद्याः, द्वावूरू (ऐतरेयवाक्य- शङ्का (तत्त्वमार्ताण्डदृष्टः पाठ ः ; मिदमिति स्तोत्ररत्नभाष्ये (श्लो-३३) सम्पादक ः) स्पष्टम् । तदनुसारेण पाठः शोधितः । [सम्पादकः ]) 245-15 नित्याऽलिङ्गा 2469 ’ रुक्माभम्’ 198-26 ‘तथा वर्षति वासवे’ इत्येव स्तोत्र- रत्नभाष्ये (श्लो. ४४) पाठः । 200-23 ः एवं सूत्रन्यायाभ्यां [भा. प्र . ] 212-17 “आक्षिप्तद्रव्ये गुणजाती” इत्येतत् दीपशिखावाक्यम् । (सम्पादकः ) 214-8 पूर्वपक्षे प्राप्ते तद्व्यावर्तनाय अर्थ- कत्व इत्युक्तम् । (अरुणाधिकरणसरणिविवरिण्यां (पु. १७५) दृष्टः पाठभेदोऽयम्) [सम्पादकः] । 2507 इत्यादिष्वपि 279-12 परस्य ब्रह्मणो- 282-4 परमात्मानमुपास्स्वेत्येकवावयत्वम् 2932 कल्याणगुणजातं 3003 अत्ता चराचरग्रहणात् 308-9 १-२-१४ 309-2 १-२-१५ 311-10 १-२-१६ 215-19 स्यात् इति किमत्र… अयोगव्यवच्छेदमात्रं हि न विरुद्धम् । [ अ.स. 330.13 कर्मसामान्यवाची । 339.27 अग्न्यादिदेवत्यकर्म सु विः पाठः ] 347-13 वर्णनोयमिति । एवंरूपं 215-21 कारकविभक्तित्वाकारात् कारका- 349 9 क्रियान्वयबोधनं [अ.स. वि. पाठः ] ‘उद्यानपत्रिका’ July and Auguऽt 1947 पाठशुद्धिः” 215-22 द्याकारात् सङ्ख्या… [अ. स. वि. पाठः ] 215-31 बाध्यबाधकभावाङ्गीकार इति चेत् [अ. स. वि. पाठ ] । 2169 प्रयोगदर्शनात् एवं समानविभक्ते … (अ. स. वि. पाठः) । श्रीभाष्ये वैश्वानराधिकरण ते “यः पूर्वमुपास्यतयोपदिष्टो वैश्वानरः, तस्यावयवभूतान् अग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधे - यान् उपासकशरीरे मूर्धादिपादा-
न्तेषु सम्पादयति” -इत्येतस्मिन् ग्रन्थे ‘अग्न्यादित्यादीन्” इत्यन ‘अग्नि’ इति अनन्वितं भाति । उपनिषद्भाष्योदाहृतेऽस्मिन्नेव श्रीभाष्यग्रन्थे ‘दुय्वादित्यादीन्’ इति दृश्यते । स एव तात्त्विकः पाठो भवितुमर्हति ॥ श्रीनिवासपाट्टराचार्यः ॥” [सं.]
शिन्नामु ऽeptember 1947 उद्यानपत्रिका “पाठशुद्धिविमर्शः " (ति. इ. वीरराघवाचार्यः, शिरोमणिः) “वैश्वानराधिकरणश्रीभाष्यान्ते ‘अग्न्यादित्यादीन् ’ इत्यत ‘अग्नि’ इति अनन्वितमिति उक्त्वा ‘दुद्य्वादित्यादीन्’ इति अशोधि श्रीमत्पाट्टराचार्य स्वामिभिः । पाठशुद्धिरियं पूर्वस्यां सविकायां प्राकाशि। इयं विमृश्यते । ‘अग्निमूर्धा’ इति, ‘असो व लोकोऽग्निः ’ इति च दिवोऽग्निशब्देन श्रौतो व्यवहारो दृश्यते । ‘अग्निरिह द्यलोकः’ इति च अभाषि ‘स्मर्यमाणम–’ इति सूत्रे ऽत्रैव । अतः पर्यायेणाग्निशब्देन दिवो निर्देश उपपद्यते । ’ स्वर्लोकादित्य-’ इति च सारावली पर्यायान्तरेण निदिउपनिषद्भाष्येऽनुवादस्तु शति । 9 अंशतः शब्दवैरूप्य सहः पाठभेदसमर्थनाय नालम् । पुरुषं, ‘ब्रह्मप्राप्तिफलं’ ‘उपासकस्य शरीरे’ ‘मध्य कायभूताकाशः’ इत्यत्रेव ‘दुय्वादित्यादीन्’ इत्यत्रापि प्रकृतभाष्यार्थानुवादमात्रं स्यादपि । ‘अग्न्यादित्यादीन्’ इति पाठे न काऽप्यनुपपत्तिः ॥” अतः [ स्थितं यथाकथविनेतुं शक्यम् -इत्यत्र न पाठान्तरदशिनां विप्रतिपत्तिः । अपि तु प्रकरणस्थस्य घुशब्दस्य आदित्यशब्दस्येव उपादानं स्वरसम् । प्रयोजनलेशं विना प्रकरणान्तरपठितस्य, अर्थान्तरे प्रसिद्धस्य अग्निशब्दस्य किमिति भाष्यकारेणोपादानं कृतं भवेत् ? । शून्यहृदयत्वं हि तथा सति आपतेत् । सारावली ‘स्वर्लोक - ’ शब्दश्च भाष्ये शब्दसत्त्वमेव स्वरसतो गमयति । यदि उपनिषद्भाष्ये पदान्तराण्यशुद्धानि भाष्या
ननुरूपाणि, कामं तानि शोध्यन्ताम् । ‘द्य्वादित्यादीन्’ इत्यत्र तु अयमेव पाठो भाष्यकार मुखोद्गतो भवितुमर्हतीति मतिरवशाद् भवति । ] [ श्री D. T. ताताचार्यः ] श्रीरङ्गलक्ष्मणाभिख्यसंयमीन्द्र कटाक्षभाक् । श्रीवीरराघवाचार्यकृपासम्प्राप्तसन्मतिः ॥ अघमर्षणवंश्योऽसौ श्रीवत्साङ्कः सदीरणात् । श्रुतप्रकाशिकायुक्ते भाष्येऽकृत परिष्क्रियाम् ॥ शुभम्
[उपात्तवि- अवधेयं किञ्चिदिह । श्रीभाष्ये महासिद्धा. न्ते सामान्यविशेष न्यायस्य विवेचनावसरे श्रुतप्रकाशिकायां (जिज्ञासाधिकरणे प्रथमसम्पुटे प्रथमभागे १९५-७ पुटे) गोबलीवर्द न्यायादयः प्रस्तुताः । तच विषयविवेचनार्थ उद्यानपति - कायाम् [July 1940] श्रीमद्भिः V. R. ऽऽ. ताताचायेंः विवेचितोंऽशस्तथैवात्र प्रस्तूयते । (सम्पादकः, चेट्टलूरू वा. श्रीवत्साङ्काचार्यः ) । ‘गोबलीवर्दन्यायः’ । “अयं न्यायो बहुभिः शास्त्रग्रन्थकारः स्वस्वग्रन्थेषु समचार्यत । जिज्ञासाधिकरणश्रुतप्रकाशिकायाम् शेषव्यतिरिक्तविषये सामान्यशब्दस्य] अविरोधंऽपि वैयर्थ्यं परिहाराय सङ्कोचश्चेत् गोबलीवर्दन्यायः’ इति तत्स्वरूपं न्यरूप्यत । नित्यकर्मापि करणे प्रत्यवायपरिहाररूपफलप्रदमिति काम्यमेव इति, काम्यात् नित्यस्य पृथगभिलापो न युज्यते । एवं मनोऽपि इन्द्रियेष्वन्यतममिति, ‘मनस्सर्वेन्द्रियाणि च’ इति श्रुतो मनसः पृथङ्गनिर्देशो न घटते; इत्याशङ्काद्वयम् अनेन न्यायेन मीमांसापादुका श्रुतप्रकाशिकाऽधिकरणसारावल्यादी समाधीयत । प्रोढ• मनोरमायाम्’धातुसूत गणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीतिताः’ इत्यत्र ‘उणादिलिङ्गानुशासनयोरपि सूत्रस्वात् सिद्धे, पृथगुपादानं गोबलीवर्दन्यायेन। एव गणत्वादेव सिद्धे धातोरपीत्यादि’ इति प्राचीन वैयाकरणव्याख्यानं प्रादर्श्यत । गोशब्दस्य धेनुबलीवर्दोभयवाचकत्वम्, बलीवर्दपदसमभिव्याहारे तु धेनुमात्रवाचकत्वं च इति तत्र तत्र एतन्न्यायसश्वारकृतामाशयो लक्ष्यते ॥ ‘त्यदादीनि सर्वेनित्यम्’ इति सूत्रे महाभाष्ये तु ‘यदि सामान्यविशेषवाचिनोः द्वन्द्वो न भवति इत्युच्यत; शूद्राभीरम्. गोबलीवर्दम, तृणोलपम् इति न सिद्ध्यति । नैष दोषः । इह तावत् शूद्राभीरमिति । आभीग जात्यन्तराणि । गाव 11वर्तमिति । गावः उत्कालितपुस्काः वा- हाय च विक्रयाय च स्त्रिय एवावधिष्यन्ते । तृणोलपमिति । अपां ‘उलपम्’ इति नामधेयम्’ इत्यभाष्यत ॥ अत्र प्रदीपे ‘स्त्रिय एव’’ इति प्रकीकमुपादाय ‘ततभात गोशब्दः स्त्रीगवीणामेव वाचकः’ इति व्याख्यायत ॥ एतद्व्याख्यानो द्योते’स्त्रिय एव’ इति भाष्यप्रतीकं धृत्वा, ‘तता गोशब्दे स्त्रीत्वसमानाधिकरणं गोत्वं प्रवृत्तिनिमित्तं पुंस्त्वसमानाधिकरणं च इति नानार्थो गोशब्दः । तन आद्यः प्रसिद्धः । अन्त्यस्तु क्वचिदेव । एवं च गोशब्दः स्त्रोगवीणामेव वाचकः प्रायेण । क्वचिदेव तात्पर्य ग्राहकवशेन पुङ्गवानां वाचकः । यथा’एतान् गाश्चतुरो बलीवर्दान् पश्य’ इति ‘प्रथमयोः-’ इति सूत्रस्थभाष्यप्रयोगे, ‘गौर्बाहीकः’ इत्यादी च इति भावः । एवं च बलीवर्द समभिव्याहारात् गोशब्दस्तदतिरिक्तपदः’ इति कथा चिन्त्या । वाहाद्यर्थं निष्कासितपुरुषाः (-पुंस्काः ?) एव गावो गोपदवाच्याः, न तु तत्सहिताः - इत्यर्थो भाष्यस्य । ‘एवान् गाः-’ इत्युदाहरणे ‘बलीवर्दान्’ इति तु बबस्थाविशेषप्राप्तत्वबोधनाय - इत्याहुः । ततश्वानेति । अनोदाहरणे पुंसात्पर्य ग्राहकर हिते इत्यर्थः । इत्यर्थः । भाष्यात् लोकाच्च गोशब्दव्यवहारः प्रायेण स्त्रीगवीष्वेव, इति द्रष्टव्यम्’ इति महाभाष्यप्रदीपकारहृदयमवयंत ॥ लघुमञ्जूषायां प्रातिपदिकार्थविचारान्तेऽयमेवार्थः प्राकाश्यत । एवं च महाभाष्यकारमते गोबलीवदं पदयो· गोशब्दो धेनुरूपविशेषवाचकः, न तु प्रथमं धेन्वृषभात्मकार्यद्वयवाची सन् बलीवर्द पदसन्निधानात् धेनुरूपविशेषेऽवतिष्ठते इति गोशब्दस्य सामान्यवाचित्वमभिसन्धाय तैस्तैराश्रितो गोबलीवर्दन्यायो नास्त्येव-इति फलितम् । ब्राह्मणवसिष्ठन्यायस्तु तन्न्यायस्थाने कैयटादिभिरूरीकृत इति स एव महाभाष्यानुसारिणामादरणीयः॥” [ संपादकः ] ।