श्रीभाष्यवत अशेषविद्वदभिनन्द्यं भाष्यं प्रणेतुं प्रभविष्णवोऽपि सिद्धिनयादिप्रौढप्रबन्धनिर्माणप्रख्यापितपाण्डित्यप्रकर्पाः श्रीभगवद्यामुनमुनयः वोधायनवृत्ति शारीरकव्याख्यां साक्षान्निरीक्ष्य प्रणेतव्यमित्यभिसंधिना समयं प्रतीक्षाञ्चकिरे इतीदं तद्विष्यमुखेनाधिगत्य स्वयं काश्मीरान् गत्वा आन्तं तां वृत्तिमवेक्ष्य प्रतिनिवृत्य तामनुसृत्य श्रीयामुनादिदर्शितेनैव एथा शांकरादि निरस्य प्राच्यसांप्रदायिकार्थव्यक्तये तत्साधुत्वाधिगतये च स्वयं भाष्यमभाषिषत श्रीभगवद्रामानुजस्वामिपादाः । ‘सूत्राक्षराणि व्याख्यास्यन्ते’ इति स्वप्रतिज्ञानुरोधेन प्रतिसूत्रं परयोजनासु दोषं परिशील्यैव आर्जवेनार्थ भाषमाणा अपि न सर्वत्र तं दोषं मुक्तकण्ठमाविरचिकीर्षन् ६ गम्भीरपदन्यासशैल्यैव सुधीभिः सवं सुविवेचमिति मेनिरे । शैलीयं गीताभाष्येऽपि दृश्यमाना श्रीमन्निगमान्तमद्दादेशिककृतया तात्पर्यचन्द्रिकया सुग्रहा भवति, यथेह तत्त्वटीकया । नदिदं श्रीभाष्यं तत्तन्मतभाष्यविलक्षणम् आमूलाग्रं प्रत्यक्षरपरिशीलन प्रवृत्तया भाष्यान्तख्याख्याविलक्षणया श्रुतप्रकाशिकयैव संप्रकाशित सर्ववैभवमिति विपश्चितां निश्चप्रचम् । तथा च- श्रीमद्यामुनवश्य हस्तिवरदप्रेमेद्धरामानुज- श्रीभाष्यं श्रुतवेदसंग्रहकृतिश्रीवासभत्त्यात्मकम् । अम्बे त्यादृतमान्यवात्स्यवरदस्वव्याक्रियाप्रक्रियासर्वस्वायित-रङ्गिदत्तविरुदव्यासायंकृत्युज्ज्वलम् ॥ सर्वासु दिक्षु संप्रसृत्वरयशःप्रकर्षाणाम् एषामिदं श्रीभाष्यं काश्मीरेषु सरस्वत्या लाघितम, जयश्रीसमृद्धम्, “देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्” इति मानितेन, इदमेव भाष्यं सूत्रकृतः स्वस्याभिमतमर्थं यथावद्दर्शयतीति प्रीतेन व्यासेनैव व्यासार्यरूपेणावतीर्य विरचितया श्रुतप्रकाशिकयाऽनया सह यथावत् संशोध्य सहृदयानां तत्त्वज्ञप्तये सर्वदेशप्रचा रौपयिक्या लिप्या प्रकाशनीयमिति उभयवेदान्तग्रन्थमाला स्थापनकाले विंशतेर्वर्षेभ्यः प्रागेव अस्मदाचार्यैः श्रीरङ्गरामानुजमहादेशिकैरनेक ग्रन्थनिर्माणालङ्कमणैराज्ञप्तस्य मे तदाज्ञापरिपूरणभाग्यं तदाज्ञापरिपूरणभाग्यं साम्प्रतमेव फलेग्रहि संपन्नम् । इदमत्र वक्तव्यम्-यत्-संस्कृत भाषा संरक्षणार्थ विविधोपाय विधानव्यग्रया भारतराष्ट्र महामन्त्रिसमित्या द्रविणसाहाय्यं संविहितं यतः, तत एवात्र महति कार्ये उत्साह आसीत् । धार्मिकाग्रेसर - श्रीवैष्णव धर्मदीप-श्री-उ-वे माडभूषिसुदर्शनाचार्यादयश्च तमुत्साहमभ्यवर्धयन् । 10-6 1964 समये द्रविणसंभरणेन 1965 वत्सरे मुद्रणे प्रवृत्तस्य मे मुद्रणालये नानाकार्यव्या संगिनि सर्वथा विलम्बमपरिहार्यमा लक्षयतः पुनरवसाद एवासीत् । एतस्मिन्नवसरे श्रीमान् आर. वेंकटाचार्यः समुपसन्नः सर्वप्रकारप्रियहितपरमास्तिकपरिषदमेकां परिकल्प वाचामगोचरं साहाय्यं मे कर्तुमुदयुंक्त । तत एवेदं सर्व संपन्नम, संपद्यते च । परिषनिविष्टौ श्रीमन्तौ एम. एस. वरदाचार्यः टि. नरसिंहाचार्यश्चैवं गणनीयौ । परिषदियम् एतावति अनुपरम्य श्रीपन्निगमा-न्तमहादेशिकादिनिर्मितान् ग्रन्थांश्च मुद्रयितुमध्यवस्यति ।
यथाशक्ति तालंकोश-ग्रन्थाक्षर-आन्ध्रलिप्यादिकोशनिरीक्षणपूर्वकं विशोध्य गहनस्य ग्रन्थस्य पूर्वोत्तरपक्षविभागादि विधाय मुद्रणं निरवर्ति । अथापि सहायभूतविद्वज्जन दुर्भिक्षेण कार्यान्तरगौरवेण मुद्राक्षर संयोजकादीनां नूत्नतया च तत्रसत्र अल्पो विपर्ययः आपतितः । अक्षरभ्रंशः व्युत्पन्नानां सुज्ञान एवेति मातीच शोधनप्रकाशने यत्नः क्रियते । पूर्वं मदीयव्याख्यानेन भाष्यार्थदर्पणेन सह मुद्रिते श्रीभाष्ये यथावत् कृत्स्नभाष्यप्रमाणाकरप्रदर्शनमकारीति तत इष अनत्यसूच्याच तत्सुदर्शनामालोचयताऽपि मया श्रुतप्रकाशिका प्रमाणाकर प्रदर्शनमावश्यकमित्येव निश्चितमासीत् । तथापि तदर्थ प्रकाशनविलम्बमसहमानेन, सर्वग्रन्थान्तरोपयोगमप्यनुचिन्त्य पृथक शीघ्रमेव प्रकाशयिष्यमाणे श्रीसूक्तिप्रमाणाकराख्ये ग्रन्थे सर्वदर्शनसौकर्य भावि मन्वानेन चात्र तद्विषये उदासि । अन श्रीमता न्यायव्याकरणप्रचीणेन पैय्यम्वाडिबेट्लूर श्रीवत्सांकाचार्येण भावप्रकाशिकादर्शितटीकापाठभेदानां प्रदर्शनं शोधनिका संयोजनञ्च कृतमत्र प्रकाशितम् । विशेषतः टिप्पणं विधित्सुनाऽपि मया द्रविणसंपादनश्रमचिन्तया तत्वतत्र विरलंमेव कृतम् । यत्र किञ्चिद्गहनमिवालक्ष्यत, यत्राक्षेपसमाधानयोरवसरः प्रत्यभात्, यत्त्र पाठवैमत्यात् स्थितरक्षणं सुकरं न वेति चिन्ताऽभूत्-तत्रतत्र किञ्चिदलेखि । बहुषु स्थलेषु श्रीभाप्ये योजनाभेदाः सुवचाः, विशेषांशाश्च वक्तव्याः मदीये भाष्यार्थदर्पणेऽपि द्रष्टव्या भवेयुः । यथा श्रुतप्रकाशिकयैव चरितार्थता न भवेत्तथा खलु तद्व्याख्यानं प्राक् प्रणीय प्रकाशितम् ।
इदमन्यन्मे भाग्यम् – यत्रास्मत्परमाचार्याणां श्रीकेताण्डपट्टिस्वामिन इति सुप्रसिद्धानां बहुषु ग्रन्थेषु लघुः संगतिग्रन्थ एक इह प्रकाशनीय इति भक्तानामपेक्षां पूरयितुं सौकर्यमासीत्, यच्च श्रीमदहोबिलमठास्थाने चतुश्चत्वारिंशतया अभिषिक्ताः श्री. प. प. श्रीवण्शठकोपश्रीमद्वेदान्तदेशिकयतीन्द्र महादेशिकाः स्वनिर्मितं ब्रह्मसूत्रानुबन्धिपद्यजातमत्र मुद्रयित्वा प्रकाशयितुं - मामादिशन् । इमे प्रायो मया प्रकाश्यमानानां ग्रन्थानां प्रकाशनार्थ सर्वदा सुबहु उपकुर्वन्त एव सन्तीतीदं समयेऽत्रावश्यं वक्तव्यम् । एतद्ग्रन्थप्रकाशनादेव मया लिखिताः केचिदशाः पुनरुकिभिया अत्र न मुद्रिताः । यत् यदत्र निवेशितम्, तत् सर्व प्रथमं पट्टिकायां निर्दिश्यते । तदस्मिन् वृत्ते- आचार्य भागवतानुग्रहपुरस्कारेण साम्प्रतमभ्यर्थनीयं तावत्- उपनिषदुद्दितार्थव्यक्तये सत्प्रबन्धान् उभयनिगमचूडामालया श्रीनिवासः । उपकृतिपर इत्थं ख्यापयन् स्वावतारश्रुतिशिखरगुरुक्तीरेवमाविष्करोतु ॥ 29-5-67. इति श्रीवैष्णवचरणपरागपरमाणुः उत्तमूर्-तिवीरराघवाचार्यः