श्रीः मान्याः महान्तः ! श्रीमते रामानुजाय नमः
अस्मदाचार्यवर्यैः सर्वशास्त्रपारङ्गतैः अभिनवदेशिकैः श्रीमद्भिः वात्स्यवीरराघवाचार्यमहादेशिकैः विविधपरिष्कारपरिमण्डितं श्रुतप्रकाशिका समेतं श्रीभगवद्रामानुजानुगृहीतं श्रीभाष्यं द्वाविंशतिसंवत्सरेभ्यः प्राक् देवनागरीलिप्यां मुद्राप्य प्रकाशितमिति सर्वे जानन्त्येव । तस्य ग्रन्थस्याद्यत्वे सुदुर्लभतामालोच्य श्रीविशिष्टाद्वैतप्रचारिणीसभानिर्वाहकाः पुनर्मुद्रणं साम्प्रतमिति मेनिरे । पूर्वमेवाचार्याणामिदङ्ग्रन्थमुद्रणावसरे श्रुन प्रकाशिकाभाव प्रकाशिकादिषु पाठभेदादिसमीक्षणे सानुग्रहमहं तैरादिष्टः विस्तरेण परिशीलनमकरवम् । विलिख्य तत्तत्स्थलेषु पाठस्थितिराचार्याणां करकमलयोः समर्पिता । तदात्वे शीघ्रमेव ग्रन्थप्रकाशनस्योरीकृतत्वात् अवकाशस्तत्परिष्करणे नालमासीत् । पश्चाद् भविष्यतीति चाचार्यैः भूमिकायां निरदेशि । तस्याद्यावकाशः समजनि । अन संस्करणेऽस्माभिः भावप्रकाशिकागताः श्रुतप्रकाशिकापाठभेदाः, श्रीभाष्यस्था अपि क्वाचित्काः सम्प्रतिपन्नाः पाठविशेषाः तत्रतत्रान्येषु ग्रन्थेषु प्रसङ्गात् दृष्टाः समीचीनाः पाठाश्च यथासम्भवं प्रादर्शिषत । न्यायसिद्धाञ्जने, तत्त्वटीकायाम्, तत्त्वमार्ताण्डे, षष्ठीदर्पणेऽन्यत्र च केचन पाठभेदा उपलब्धाः । तेषामप्यत्र सङ्कलनं कृतम् । तदात्वे “उद्यानपत्रिका” नाम्न्यां मासिकपत्रिकायां श्रीभाष्यश्रुतप्रकाशिकयोः क्वचित् क्वचित् पाठरीतिमधिकृत्य संक्षिप्ताः केचन विमर्शाः प्रस्तुताः । तेषामत्यन्तमुपयुक्तत्वात्, भाष्यनिगूढार्थ परिज्ञानौपयिकत्वात् पण्डितप्रकाण्डैस्तेषामनुमोदनाच्च तत्रतत्रायोजनमस्माभिः कृतम् । यथा - गोबलीवर्दन्यायः । गोबलीवर्दन्यायः सामान्यविशेषन्यायस्य पर्यायरूपेण लोके सर्वैरपि शास्त्रज्ञरुपादीयते । परं तु महाभाष्यपरिशीलिनां स न्यायः प्रकारान्तरेणैव भायात् । तत्तत्त्वं विमृष्टमत्र । एवं सुबहु । अर्थव्यक्तिरोदृशविमर्शनेन भविष्यतीति धिया तादृशा अत्यन्तोपयुक्ता अवोपात्ताः । मद्रनगरसंस्कृत महाकलाशालायां व्याकरणादिशास्त्रस्य, गृहे वेदान्तस्य च प्रवचनेनालब्धाधिकावकाशोऽहं इतोऽपि परिष्करणे नापारयम् । लब्धेन सन्तोष्टव्यम् । श्रीभाष्य श्रुत प्रकाशिके अधिकृत्यास्मदाचार्यवर्यैरेव विस्तरेणात्र दर्शनविवेकनाम्नि प्रास्ताविकेऽभ्यधायि । “व्यासोच्छिष्टं जगत् सर्वम्” इति रीत्या तैरविमृष्टोंऽशो यद्यपि न कोऽप्यस्ति । तथाऽपि तत्र तत्र जिज्ञासूनां कृतेऽत्र सुबहु इतोऽपि वक्तव्यमस्ति । यथा आदेशशब्दविषयेऽन्यत्र च । “उत तमादेशमप्राक्ष्यः" इत्यत्र आदेशशब्दः
श्रीभाष्य श्रुतप्रकाशिका - भाव प्रकाशिकानां त्रयाणां मुद्रणं चिकीर्षितमासीत् । श्रुतप्रकाशिकाव्याख्यायाः उपनिषद्भाष्यकारैः श्रीमद्भिः परमहंस परिव्राजकाचार्यैः चतुष्षष्टि प्रबन्ध निर्माणालङ्कर्माणैः श्रीरङ्गरामानुजमुनिभिरारचितायाः भावप्रकाशिकाया अभावे नूनं श्रुतप्रकाशिकाया अर्थाधिगमो विदुषामपि दुश्शकः । परं तु तस्यापि सहैव मुद्रणे भूयान् कालोऽपेक्षितः । द्रव्यसंविधानं तु वाचामगोचरम् । प्रतीक्ष्यते च तादृशः कालः - येन श्रीभाष्य - श्रुतप्रकाशिका - भावप्रकाशिकाः प्रतिपुटं प्रस्फुटमध्ययनसौकर्याय मुद्राप्यमाणाः स्युः, येन च पण्डितकुलमाराधितं भविष्यति इति । भवतु । स्थितस्य संरक्षणं कृतमित्याश्वासः कार्यः । धनिकाः सिद्धान्त प्रचारबद्धादराः शास्त्रव्यसनिनः उद्यञ्जानाः अद्यत्वे विरलाः । तैः साधनीयोऽयं क्रमः । आशास्महे - स भगवान् अचिरेव ईदृशरोत्या अखिलानपि विशिष्टाद्वैतशास्त्रग्रन्थान् प्रकाशयिष्यतीति । श्रीभाष्यस्य बहुधा मुद्रणेऽपि सम्पूर्णायाः श्रुतप्रकाशिकायाः मुद्रणं अस्मदाचार्यवर्यैरेव देवनागरीलिप्यां निर्वर्तितम् । प्रप्रथमं श्रीबृन्दावने षट्सु सम्पुटेषु श्रीभाष्यश्रुतप्रकाशिका - भावप्रकाशिकाः देवनागर्यां अशीतिसंवत्सरेभ्यः पूर्वं मुद्रिताः । तेऽद्य न कुत्रापि सुलभाः । तत्त्रापि प्रथमसम्पुटे भावप्रकाशिका नास्ति । तत्त्वटीका यावदुपलम्भं प्रकाशिता तैस्तत्र प्रथमसम्पुटे । अतिगहनस्य परमत प्रक्रियाविमर्शनात्मकस्य महासिद्धान्तभागस्य भावप्रकाशिका तत्र नास्ति । काश्यां " पण्डित" पत्रिकायां श्रुतप्रकाशिकासहित श्रीभाष्यं शतसंवत्सरात् पूर्वं मुद्रितम् । दाक्षिणात्य लिपिभिरान्ध्रग्रन्थात्मकैः मुद्रितान् कोशान् निरीक्ष्य तस्य मुद्रणस्य निर्वर्तितत्वात् प्रतिपङ्क्ति शोधनिका तत्त्रापेक्ष्यते । " पण्डित" पत्रिकासंस्करणम्, “बृन्दावन" संस्करणमित्येतदुभयं अव संस्करणेऽस्माभिरान्तमवलोकितम् । महाशूरनगरे श्रीब्रह्मतन्त्रपरकालमठास्थान्यां मूर्धाभिषिक्तेः श्रीपरमहंसपरिव्राजकाचार्यैः श्रीमदभिनवरङ्गनाथ ब्रह्मतन्त्रपरकालमहादेशिकैः कृतंन स्वोपज्ञगूढार्थसङ्ग्रहनामकविस्तृत व्याख्यानेन सह श्रुतप्रकाशिका चमसाधिकरणपर्यन्तं मुद्रिता । यतस्तावत्पर्यन्तमेव तेषां गूढार्थसंग्रहः समस्ति । तदुपरि श्रुतप्रकाशिकायाः श्रीभाष्यस्य वा तैर्मुद्रणं न कृतम् ।
एतत् सर्वं समीक्ष्यैव अस्मन्न्यायमीमांसा वेदान्ताचार्यैः श्रीमद्भिः अभिनवदेशिकैः अतीते गणराते ग्रन्थस्यास्य सुपरिष्कृतं मुद्रणमुपक्रान्तं यस्य फलमद्य विद्वत्करकमलयोरिदं संस्करणं समर्प्यते । नय प्रकाशिकादिषु उपत्रिंशेषु श्रीभाष्यव्याख्यानेषु प्राचीनेषु सत्स्वपि " गुरुभ्योऽर्थः श्रुतः, शब्दस्तत्प्रयुक्तैश्च योजितः । सौकर्याय बुभुत्सूनां संकलय्य प्रकाश्यते ॥" इति श्री सुदर्शन भट्टारकैः स्वकीयायाः श्रुतप्रकाशिकायाः नामनिर्वचनपूर्वकं गुरुभ्योऽधिगतत्वं ज्ञापयत् इदं ग्रन्थरत्नमेव सर्वतः प्रामुख्यमावहति इति विदितं विदितवेदितव्यानाम् । सेयं श्रुतप्रकाशिका श्रीमन्निगमान्तगुरुभिः “व्यासार्येः न्यासि च द्विः श्रुतमिति” इति सश्लाघं निर्दिष्टा, “श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता” इति श्रीकुमारवरदाचार्योक्तरीत्या परिरक्षिता च । रक्षणं च गोपन-प्रवचन प्रचारणव्याख्याविलेखन-मुद्रणपरिष्करण-तदुपर्याक्षेपदूरीकरणादिकमेव । एषु एकैक कैश्चित् कृतम् । अस्मदाचार्यैस्तु सर्वमपि सुष्ठु निर्वर्तितम् । श्रीभगवद्रामानुजार्य दिव्याज्ञात्वेन सम्प्रदायग्रन्थेषु निर्दिष्टेषु पञ्चविधेषु प्रपन्नानुष्ठेयेषु धर्मेषु अभ्यर्हितत्वेन प्राथम्यमुपगतस्य " श्रीभाष्यमधीत्य प्रवर्तनम्" इत्यस्य जरामर्यत्वेन स्वीकारोऽस्मदाचार्यैः कृतः । यदाप्रभृति मद्रनगरमधितिष्ठमानास्ते आसन्, तदाप्रभृति “आध्यात्मग्रन्थनिर्माणमन्येषां चावबोधनम्” इति श्रीयामुनार्यसूक्तिसार्थक्यमकुर्वन् । सत्सम्प्रदाय ग्रन्थसंरक्षणदोक्षया मध्यसर्वकारैराद्रियमाणेषु बहुषु प्रकारेषु चिरन्तनसुदुर्लभावश्यक सर्वसम्मत ग्रन्थ प्रकाशनमन्यतमम् । तदर्थं सुविधा बह्वयस्तैरादृताः । तत्त्रास्मद्भाग्यवशात् श्रुतप्रकाशिका प्रकाशितस्य यतिक्ष्माभृद्दीपस्याद्य जाज्वल्यमानता लब्धा । तदर्थं केन्द्रीय सर्व काराः सप्रश्रयं धन्यवादार्हाः । ईदृशविशिष्टग्रन्थमुद्रापणप्रचरादिबद्धादराः श्रमसाध्येऽस्मिन् कर्मणि मां नियुक्तवन्तः श्रीविशिष्टाद्वैतप्रचारिणी सभानिर्वाहकाः, विशिष्य तत्कार्यदर्शिनः श्रीमन्तः कुमारवाडि . ऽ वरदाचार्याश्च श्लाघास्पदम् । वर्धतां शास्त्रसम्पत् ॥ १७.३.१९८९, विभव पुनर्वसुः श्रीदेशिक विद्याभवनम् २७, वेङ्कटेशाग्रहारः महिलापुरी, मद्रास् - ६०० ००४ इत्थं विद्वद्विधेयः पयम्बाडि चेट्टलूर्. वा. श्रीवत्साङ्काचार्यः