is not available.is not available.भाष्ये- सङ्कल्पभेदेन सत्रमहीनञ्चेत्युक्त्तमयुक्त्तं, सत्रत्वाहीनत्वयोः आसीरनूयजतिचोदनानिबन्धनत्वेन सङ्कल्पभेदनिबन्धनत्वाभावात् इति न शंक्यम्, सङ्कल्पभेदेन सत्रमहीनञ्च भवतीति नान्वयः, येनायं दोषः स्यात्, किन्तु उपैदियजतिचोदनाभ्यां द्विरूपत्वे सिद्धे यस्य यादृक्प्रयोगेच्छा स तं प्रयोगमनुतिष्ठतीत्यर्थ इत्याह - सत्रत्वे अहीनत्वे चेत्यादिना । सङ्कल्पभेदेनेति भाष्वग्रन्थः, “प्रायणीयोतिरात्रः प्रथममहः, पृष्ठयः षडहः त्रयश्छन्दोमाः, अविवाक्यमेकमहः उदयनीयोतिरात्रश्चरममहः’ इत्येवंरूपोऽहर्गणो द्वादशाहः, अविवाक्यमेकमहः उदयजतिचोदनाभ्यां सत्ररूपोऽहीनश्च, अहीने हि “एको द्वौ बहवो वाऽहीनेन यजेरन्’ इति कतृसंख्यानियमाभावः, तथा 2न दीक्षिता याजयेरन्’ इति याजकेषु दीक्षितत्वप्रतिषेध सत्येवमादयो धर्मा व्यवस्थिताः, सत्रे “गृहपतिसप्तदशाश्चतुर्विातिपरमाः स्वयमृत्विजो ब्राह्मणास्सत्रमुपेयुः’ इति सप्तदशसङ्खयाया अन्यूनत्वनियमः, दीक्षितानामेव परस्परयाजकत्वमित्यादयो धर्मा व्यवस्थिाः । ततश्च यथा द्विरूपत्वं द्वादशाहस्य, एव मुक्त्तस्यापि सदेहत्वं विदेहत्वं च प्रामारिकमित्येवं रूपद्वये प्रामाणिके सति यथेच्छावशेन अहीनसत्रान्यतरप्रयोगपरिग्रहः, एवं सङ्कल्पवशेन सदेहत्वविदेहत्वान्यतरपरिग्रह इत्यर्थः ॥12॥तदनुगुणप्रकारपरिकल्पनेनेति - मुक्त्तसङ्कल्पाभावेऽपि परमात्मसङ्कल्पात् देहादिसृष्टिरित्यर्थः, ततश्च पूर्वसूत्रे अतश्शब्दपरामृष्टस्य सङ्कल्पस्य मुक्त्ताश्रितत्वनियम इति भावः । सार्थमाहेति - तन्वभाव इति सूत्रार्थस्य सङ्कल्पादेव तेच्छ्रुत’रित्यधिकरणविरुद्धत्वात् स नाभिमत इति भावः ॥13॥is not available.प्रवर्तकत्वशक्त्तिविशिष्टेत्यर्थ इति - आत्माभिमानस्य प्रवृत्तिहेतुतया आत्माभिमानानुण्येन प्रवृत्त्यानुगुण्यमस्तीति आत्माभिमानानुगुणशब्देन प्रवृत्तिशक्त्तियुक्त्तत्वं लक्ष्यत इति भावः, आत्माभिमानस्य प्रवृत्तिहेतुत्वमुपपादयति । आत्माभिमानो हीत्यादिना - प्रकाशकत्वशक्त्तिरुक्त्तेति । घटपटादिवाह्यवस्तुप्रकाशनशक्त्तियुक्त्ता ज्ञानव्याप्तिरित्यर्थः ॥15॥भाष्ये- सम्पत्तिश्च मरणमिति, प्रतिज्ञातार्थोपपादकताया “वाङ्मनसि सम्पद्यते’ इत्यारभ्य “तेजः परस्यां देवतायाम्’ इत्यन्तो ग्रन्थः तदेकवाक्यतयाऽपि योजयितुं शक्यते, “वाङ्मनसि सम्पद्यते’ इत्यारभ्य “तेजः परस्यां देवत्ताया’मिति वचनात्, तयोश्चावस्थयोः प्राज्ञप्राप्तिः निस्सम्बोधत्वञ्च विद्येते इत्युत्तरग्रन्थैकवाक्यतामभिप्रेत्याह - सता सोम्य तदा सम्पन्नो भवतीत्यदिभिरिति । पूर्ववाक्यैकवाक्यतामभिप्रेत्याह - ब्रह्मसम्पत्तिनिर्बोधत्वयोरित्यादिना । एवञ्च योजनाद्वयमपि भाष्यकृदभिमतमिति सूचितमिति द्रष्टव्यम्, “प्राज्ञेनाऽऽत्मना सम्परिष्वक्त्तः’ इति वाक्ये ब्रह्मसम्पत्तिनिर्बाधत्वयोः श्रवणात् “आविष्कृतं ही’ति सूत्रखण्डेनापि द्वयमपि दर्शनीयमिति मत्वा ब्रह्मसम्पत्तिश्रुतिश्चानुसन्धेयेति “अभावं बादरि’रिति सूत्रेण “मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’ इति श्रुतौ मनसेतिविशेषणात् मुक्त्तस्य शरीरेन्द्रियाणामभावोऽवसीयते, यदि हि मनसा शरीरेन्द्रियैश्च विहरेत् तदा मनसेति विशेषणमनर्थकं स्यादिति व्याख्यातम्, “भावं जैमिनिविर्कल्पामननात्’ इति सूत्रे शेषः “द्वादशाहवदुभयविधं बादरायणोऽतः’ इति सूत्रे अत इत्यस्य “मनसैतान् कामान्’ इति श्रुतेः “स एकधा भवती’त्यादिश्रुतेश्चेत्यर्थ इति व्याख्यातम्, तस्याविरुद्धत्वात् तमशमुपेक्ष्य निराकर्तव्याशमाह - सङ्कल्पादेवेत्यादिना । न भोगानुपपत्तिरिति - पुष्कलभोगस्थानुपपत्तावपि मनोरथमात्रसाध्यस्वाप्न भोगवत् सूक्ष्मयोगो भवत्येवेत्यर्थः । शरीरेन्द्रियसद्भावे जाग्रद्वत्पुष्कलभोगः, तदभावे सूक्ष्मभोग इति तैर्वर्णितत्वादिति भावः । शरीरस्थितेरन्यथासिद्धत्वादिति - शरीरस्थितिमन्तरेणापि मनस्सिद्धिमात्रेण भोगस्य सिद्धत्वादित्यर्थः । केवलेश्वरप्रयत्नसृष्टत्वेति - यद्यपि जाग्रत्स्वप्नावस्थयोः द्वयोरपि स्वसृष्टभोगोपकरणसदसद्भावयोः सिद्धान्तेष्यविशेषात् “तन्वभावे सन्ध्यवत्’ भावे जाग्रद्वत’ इति व्यवस्थया निर्देशे किं बीजं, क्लिष्टमित्यापि परैस्सुवचम्, तथापि उक्त्तदूषणे तात्पर्यम् । अभिप्रायाविरोधज्ञापनार्थ इति - ननु मुक्त्तस्य ब्रह्मानुभवे अन्यानपेक्षत्वेऽपि ब्रह्मानुभवान्योपकरणैरीश्वरसृष्टैर्भागान् मुक्त्तं इति “तन्वभावे’ इति सूत्रे प्रतिपादनात् विरुद्धाभिप्रायत्वस्यैवाविष्करणात् कथमविरोध इति चेन्न, औदासीन्यदशायामपि भगवान् मुक्त्तान् भोगं प्रापयतीत्युकत्या विरुद्धाभिप्रायत्वानापपत्तेरिति भावः । तदधिकारवशात्तदा विष्कृतं हीति - यत्र द्वितीयदर्शनाभावः प्रतिपाद्यते, “यत्र त्वस्य सर्वमात्मैवाभूत तत्केन कं पश्येत्’ “यत्र सुप्तो न क्चन कामं कामयते न कञ्चन स्वप्नं पश्यति’ इत्यादौ तत्र सर्वत्र सुषुप्तिं वा कैवल्यं वा अधिकृत्यैव प्रवृत्तेः तद्विषयत्वमेव द्वितीयदर्शनाभावस्येति भावः । नन्विदं त्रिधामवनादिक न कैवल्यविषयमित्यत आह - सगुणविद्याविपाक इति । अन्ये त्वित्यादि- भृत्यादिशरीरवृत्तेरपुरुषार्थत्वादिति । मुक्त्तिदशायां त्वभोगोपकरणत्वेन सृष्टमृन्यादिशरीरवृत्तेरित्यर्थः - ईश्वरानुमञ्चरणायेति । “कामान्नीकारूप्यनुसञ्चरन्’ इति श्रुतिविहितेश्वरानुवर्तनायेत्यथर्ः, भृत्यादिभावस्यानिष्टत्वात् स्वयमेवाहङ्कारकरणाभावश्चेदित्येकवाक्यम् ॥16॥ ॥ इति अभावाधिकरणम् ॥