27 कार्याधिकरणम्

is not available.भाष्ये- गमयतीति विशेष्यत इति, बहुवचनान्तलोकशब्दस्य लोकविशेषणमुखेन गमनविशेषणत्वं युज्यत इति भावः । अत एव भाष्ये- लोकविशेषवर्तिनमित्युक्त्तं, भाष्ये- अर्चिरादिना गतोऽभिसन्धत इति यद्यपि न पूर्वत्र अर्चिरादिगतिः प्रस्तुता, तथापि “आकाशो ह वै नामरूपयोर्निर्वतहता’ इति ब्रह्मविद्यायाः प्रस्तुतत्वात् ब्रह्मविदश्चार्चिरादिगतिं सिद्धवत्कृत्य एवमुक्त्तमिति द्रष्टव्यम् ॥7॥is not available.is not available.is not available.is not available.is not available.प्रपद्य इति - प्रपत्त्यभिसन्धिः प्रत्यभिसंधिशब्देन विवक्षितः ॥13॥जैमिनिमतादिति - इदमुपलक्षणम्, बादरिमतादित्यपि द्रष्ट व्यम्. उत्तरत्र मतद्वयविशेषप्रतिपादनात्, ननु आश्रयान्तरप्रत्ययस्य आश्रयान्तरे प्रतिक्षेषः प्रतीक इति हि वृद्धाः, तत्कथमुच्यते अप्रतीकालम्बनशब्देन कार्योपासकव्यवच्छेद इत्याशक्याह - न च प्रतीकालम्बनान्नयतीत्यत्रेति । वादरिमताद्विशेषमुकत्वा जैमिनिमताद्विशेषमाह - गोबलीवर्दन्यायादिति । जैमिनेरप्युभयविधान्नयतीत्येव परमतात्पर्यं, आदरातिशयात्तु परब्रह्मोपासीनानामर्चिरादिगतिर्जैमिनिना उक्त्तेत्यर्थः । प्रतिपत्त्याभिसन्धिरिति परेषां पाठः, न च कार्ये प्रतिपत्त्यसन्धिरिति तन्मते सूत्रपाठश्च ॥14॥भाष्ये पूर्वपक्षोक्तवचनस्य सिद्धान्ते अपरिहृतत्वात् स्वयं तस्यार्थमाह - ब्रह्मणा स ह ते सर्वे इत्यादीति । परेषामित्यादि - परविद्याप्रकरण इति । कठवल्लीषु तयोर्ध्वमायन्निति गतिकीर्तनमित्यर्थः - श्रुतिवाक्ये बलीयसी इति । प्रजापतिश्रुतिः तद्युक्त्तं वाक्यं चेत्यर्थः - प्रशंसार्थं वा तदिति । तत् सर्वात्मककीर्तनतमित्यर्थः, वाक्यभेदस्तु अस्माकमिष्ट एवेत्याशङ्कयाह - एकवा क्यत्वे सम्भवतीति । भूगतेन प्रदेशान्तरगमनवदिति - यथा पृथिवीस्थ एव पृथिवी देशन्तरद्वारेण गच्छति, नहि तत्र पृथिवीप्रागप्राप्तेति शक्यते वक्त्तुं, यथा न्यग्नोधं प्राप्तेन वानरेण अग्रप्रदेशविशेषविशिष्टस्य न्यग्रोधस्यैव प्राप्त्यत्वं तद्वदित्यर्थः । पयसो दध्याद्यवस्थाप्राप्तिवञ्चेति - यथा प्राप्तस्यैव पयसो दध्याद्यवस्थतया आतञ्चनादिभिः प्राप्यत्वमित्यर्थः, यद्वा दध्वाद्य वस्याभिन्नस्वरूपप्राप्तिवदित्यर्थः । बन्धादनिर्मोक्ष इति - स्वरूपस्य अन्यताकर्तुमशक्यत्वादिति भावः । उभयथा च दोषादिति पठ्यमानत्वादिति - एतस्यैव साम्प्रदायिकत्वेन उभयथा अदोषात् तत्क्रतुश्चेति पाठोऽसांप्रदायिक इति भावः । अपरे त्वित्यादि वाक्यभेदप्रसङ्गादिति - अनावृत्तिसम्बन्धस्य एतत्कल्पसम्बन्धस्य च बोधनादिति भावः । परं जैमिनिरित्यनेने विरोध इति -अनावृत्तिसम्बन्धस्य एतत्कल्पसम्बन्धस्य च बोधनादिति भावः । परं जैमिनिरित्यनेन विरोध इति - परं जैमिनिरित्यनेन सिद्धान्तसूत्रेण अप्रतीकालम्बनाचिति सूत्रस्येति भावः । कार्यमण्डलातिक्रमरूपा गतिरिति - उपपद्यत इति शेषः, च नु उपाधिपरिच्छिन्नब्रह्मप्रदेशस्य घटावच्छिननब्रह्मप्रदेशस्य घटावच्छिन्नाकाशस्थानीयस्य जीवस्य कथं गमनमित्यत्राह - जीवत्वस्थौपाधिकत्वादिति । ब्रह्मकायं प्रविशत इति - प्रवेक्ष्यत इत्यर्थः । पर्यङ्कविद्यादिकं प्रमाणमिति चेदिति - नहि परब्रह्मणः पर्यङ्कारूढविग्रहत्वं सम्भवतीति भावः । विलक्षणविग्रहयोगस्यैवेति - “सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ इति विद्युद्वर्णविग्रहयोगस्य कारणत्वसाधकत्वादिति भावः । अन्यो त्वाहुरित्यादि - ब्रह्मलोकमिति प्रयोगदर्शनादिति । उपक्रमोपसंहारस्थब्रह्मलोकशब्दयोरैकार्यस्य वक्त्तव्यत्वात् ब्रह्मलोकशब्दस्य पृथिव्यन्तरिक्षलोक्रपाथपाठेन चतुर्मुखलोकपरत्वस्य वक्त्तव्यत्वाच्चतुर्मुखलोकस्य ब्रह्मशब्दप्रयोगविषयत्वं सिद्धमिति भावः । ह्रदनदीति - “तस्य वा एतस्य ब्रह्मलोकस्यारो ह्रदो मुहूर्तं यष्टिहा विरजा नदी तिल्यो वृक्षः’ इत्यादि प्रमाणादिति भावः । अहीननयादिति - ज्योतिष्टोमप्रकरणश्रुतायाः “द्वादशाही नस्येति’ति विहिताया द्वादशोपसत्ताया अहर्मश्चे उत्कर्षवदिति भावः । परविद्याव्यतिरिक्त्तश्रेयःप्रदर्शनार्थत्वसम्भवादिति - ये यज्ञेन दानेन तपसा लोकान् यजन्ति ते धूममभिसम्भवन्ती’त्येतत् सर्वेषां परविद्याव्यतिरिक्त्तश्रेसां धूमादिमार्गसाधनत्वपरम्, न तु ज्ञादिमात्रस्येति भावः । हिरण्यगर्भमेव परं ब्रह्म मन्वानस्येति - सर्वमिदमनुपपन्नमित्यत्तरेणान्वयः । तदेवोपपादयति - अब्रह्मविदामित्यादि ॥15॥ ॥ कार्याधिकरणं समाप्तम् ॥ ॥ इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां चतुथर्स्याध्यायस्य तृतीयः पादः ॥