भाष्ये- अमुकं च पर्वतपार्श्वमिति, पार्श्वशब्दस्योमयलिङ्गत्वात् पुल्लिङ्गाभिप्रायेणेत्थमुक्त्तं, नपुंसके तु अदकमिति स्यात्, न च “सैव हि सत्यादयः’ इति सूत्रे कल्पतरौ अमुक्त्त फलं प्रदानसनयेत्यगृह्यमाणविशेषत्वादिति निर्देशात् अमुकमित्यप्यस्ति रूपमिति वाच्यं, तस्य व्याकरणस्मृतिविरुद्धतया अप्रामाणिकत्वात् । लोकशब्दवाच्यत्वमुक्त्तं स्यादिति - ततश्च स्तुतितया पर्यवस्यत् मुख्यस्य कालविशेषस्य भोगभूमित्वासम्भवादिति भावः । लोकत्वसाधकहेतुरर्थसिद्ध इति - विजिहीर्षते इति विहरणेच्छाप्रतिपादनादिति भावः, इदञ्च विजिहीर्षत इति क्कचित्कपाठप्रभिप्रेत्योक्तं, पाठान्तरं तु पूवर्मेव व्याख्यातम् । भाष्ये- अतिवाहे परमपुरुषेण नियुक्त्ता इति, “तत्र नियुक्त्तः’ इति ठगिति भावः । भाष्ये- उपसंहारे श्रूयमाणं पूर्वेषामिति, ननु विशेषविधानस्य शेषप्रतिषेधार्थत्वं लोकदृष्टम्, यथा देवदत्तो वामेनाक्ष्णा पश्यतीति तदितरनिषेधपरत्वम्, ततश्च कथमस्य इतरेषामपि चेतनत्वगमयितृत्वप्रतिपादकत्वमिति चेन्न, “स एनान्ब्रह्म गमयती’ति वाक्ये पुरुषत्वं गमयितृत्वं च सिद्धवत्कृत्य अमानवत्वरूपविशेषमात्रप्रतिपादनेन तेषामप्यर्चिरादीनां गमयितृत्वपुरुषत्वावगतेः, ब्रह्मगमयितृत्वविधानपक्षेपि त्वदुक्त्तरीत्या इतरेषां ब्रह्मगमयितृत्वनिषेधे विशेषनिषेधे सामान्यस्याभ्यनुज्ञान’मिति न्यायेन ब्रह्मगमयितृत्वमात्रसिद्धेश्चेति द्रष्टव्यम् ॥4॥मानवगमयितृत्वव्यवच्छेदकत्वादिति - वैद्युतस्यगमयितृत्वसिद्धवत्कारेणामानवत्वनिवृत्तिमात्रपरत्वात् वाक्यस्येत्यथर्ः । वैद्युते विशिष्यायं ब्रह्मगमयिता मानवो नेत्युक्त्त पूर्वेषां मानवत्वं गमयितृत्वं चोक्तमेव भवतीति भावः । व्यवचमछेद्यस्य मानवत्वं गमयेदिति - अर्चिरादेरित्यर्थः । अन्यत्वित्यादि - अर्थक्रमवशादिति । वृष्टिरूपैककार्यकारित्वलक्षणार्थक्रमवशादित्यर्थः - वरुणो निवेशनीय इति । इन्द्रप्रजापती तु तडितः परस्तान्निवेशनीयावित्येतत्तु पूर्वपक्षसिद्धान्तयोः समानमिति द्रष्टव्यम् । वरुणनिवेशपरं व्याख्यातमिति - पूर्वपक्षसूत्रतयेति शेषः । तमभिप्रवहन्तीति - तं प्राययन्तीत्यर्थः । वृष्टिहेतुत्वलक्षणार्थकमसचिवेति - इन्द्रस्यापि भेधवाहनत्वेन वर्षहेतुत्वादिति भावः ॥5॥ ॥ इति आतिवाहिकाधिकरणं ॥