25 वरुणाधिकरणम्

भाष्ये- अग्नित्वोकशब्दस्यार्चिःपर्यायत्वेनेति, अर्चिश्शब्देन ज्वालावाचित्यं तदात्मकोऽग्निरुच्यते उपचारादिनेति भावः, नन्वत्र “इसुसोस्सामर्थ्ये नित्यं समासेऽनुत्तरपदस्थस्य’ इति षत्वप्राप्त्या अर्चिष्पर्यात्वेनेति भवितव्यम्,, यथा- सपिर्ष्कुण्डिका शोचि ष्केशः इत्यादि, अर्चिश्शुचिविसृविच्छादिभ्य इसिः’ इति शोचिरादिवत् अर्चिश्शब्दोपि इसिप्रत्ययान्तरा व्युत्पादित इति चेत् अत्राभिधीयते- “अतः कृकमिकसे’त्युत्तरसूत्रे कंसग्रहणेन उणादिषु क्कचिद्वयत्पत्तिकार्यं न भवतीति ज्ञापनेन इसिप्रत्ययान्तत्वाभावादिति वा कस्कादिषु सपिर्ष्कुण्डिकेत्यादिपाठेन इदं षत्वमनित्यमिति ज्ञापनेन वा अर्चिश्शब्दस्याऽत्र शब्दस्वरूपपरतया अमुख्यत्वाद्गौणमुख्ययोमर्ुख्ये कार्यसम्प्रत्यय इति वा महत्पूर्वश्शूद्र इत्यादावात्वादिवत् षत्वं न भवतीति, एवमुत्तरत्रापि अर्चिः- प्रभृतिष्वित्यादौ द्रष्टव्यम् । तृतीयस्तु परिहार उत्तरत्र न सम्भवति, अर्थपरत्वेन तत्र मुख्यत्वादिति अर्चिष्प्रभृतिष्वित्येव बहुषु कोशेषु पाठो दृश्यते तत्र न किञ्चिद्वन्तसाध्यं “अर्चिश्शब्दस्य गौणत्वादिसश्चाप्रत्ययत्वतः । अनित्यत्वाच्च मूर्धन्यो न कृतोऽर्चिःपदेऽमुना’ इति च संग्रहश्लोकः । भाष्ये- आदित्यस्याप्यत्रेत्यादि, अयमर्थः- पाठात्प्राप्तक्रमः पाठक्रमः, “अग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोक’मिति पाठवशेन वायोर्वरुणस्य यः क्रमः प्राप्तः, तद्वाधेन विद्युत उपरि तेषां निवेशसमर्थनेन वाजसनेयश्रुत्यनुसारादादित्यस्य वायोरुपरि निवेशोऽस्मिन्नधिकरणे सिषाधयिषित इत्यर्थः । आशंसोयां कः, देवलोकशब्दाभिहितात् वायोरुपरि निवेशस्सिद्ध इति क्कचित्पाठः, तत्र उपरिशब्दयोगे “षष्ठयतसर्थप्रत्ययेन’ इति प्राप्त षष्ठी ततः फश्चाद् वज्जतीति महाभाष्यप्रयोयेणानित्यत्वज्ञापनात् क्कचिन्न सम्भवतीति न कतेति द्रष्टव्यम् । वायुमपेक्ष्ये त्यर्थविवक्षमाक्यब्क्यब्लोपे पञ्चमीति वा द्रष्टव्यम्, एवमुत्तरत्रापि - भाष्ये इदानीं वरुणेन्द्रादिष्विति, तदर्थमिति शेषः । क्रमद्वयभङ्गः स्यादिति - आदित्यचन्द्रयोरन्तराले चन्द्रविद्युतोरन्तराले वा निवेशे आदित्याच्चन्द्रप्रसं चन्द्रमसो वा विद्युतम्, इतिश्रौतक्रगस्य च “वरुणलोकं स इन्द्रलोकं स प्रजापतिलोक’ मिति पाठक्रमप्राप्तस्य वरुणेन्द्रप्रजापतीनामानन्तर्यस्य च भङ्गप्रसङ्गादित्यर्थः । तडिततोष्यधस्तादिति पञ्चमी पूर्ववत् द्रष्टव्या - कथं तडिदुपरि वरुणनिवेश इति । ननु कथमत्र समासः, अन्यारादिति दिग्योगलक्षणपञ्चम्याः “षष्ठयतसर्थप्रत्ययेने’ति षष्ठया बाधात् अबाधेति पञ्चम्यन्तस्य समासप्राप्त्यभावात् षष्ठीपक्षे पूरणगुणेत्यव्ययेन षष्ठयन्तस्य समासनिषेधात्, उच्यते- षष्ठीसमास एवायम्, पूरणगुणेति निषेधस्तु सत्तव्याभ्यां कृद्भ्यां साहचर्यात् कृदन्तेनाव्ययेनैव, नान्येन, यथा कटस्य कर्तुं कटस्य कृत्वेत्यादि, तथैव वृत्त्यादावुदाहृतत्वात्, अकृदन्ताव्यययोगे तु समासोऽस्त्येव, अत एव भगवान् पाणिनिः निरदिशत् “अनुर्यत्समया’इति, व्याख्यातं च वृत्तिकारादिभिः यस्य समया यत्समयेति, उपायान्तरमप्यस्तीति तद्वयाख्यातृभिरन्यथा पयिहृतः, अनित्यश्चायं समासप्रतिषेध इति पूर्वमसकृदुपपादितम् “शिष्टप्रयोगबाहुल्यात् कृदन्ताव्ययसंग्रहात् । अनित्यत्वाच्च, तस्यैव निर्देशास्साधनो मताः’ । अर्थकमस्य पाठप्रमादिति - मेधोदरवर्तित्वलक्षणसामर्थ्यरूपार्थक्रमस्येत्यर्थः । तडितो गमयितृत्वाव्यवधानायेति -ततश्चन्द्रमसो विद्युतमिति औतक्रमभङ्गाङ्ग्रपि सोढव्य इति भावः । तथासतीन्द्रप्रजापत्योर्यश्रापाठमिति - फस वरुणलोकं स इन्द्रलोकं स प्रजापतिलोक’ मिति पाठानुसारेण त्रयाणामव्यवधानसिध्यर्थं तडितः पूर्वं त्रयाणां निेर्दशऽङ्गीकियमाणे मेधोदरवर्तित्वरूपाथर्क्रमभङ्गप्रसङ्गादित्यर्थः । तडिदानन्तर्य इति - वरुणानन्तरं तडित् तत इन्द्रप्रजापती इत्यभ्युपगम्यमाने कौषीतकिपाठसिद्धस्य वरुणेन्द्रप्रजापतीनां क्रमस्य भङ्गप्रसङ्गादित्यर्थः । अतः क्कचित्कोशेषु “स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं सा प्रजापतिलोक’मिति वरुणेन्द्रलोकयोर्मध्ये आदित्यलोकपाठो दृश्यते, स तु न प्रामाणिकः, केषुचित्कोशेषु तथा अनुदाहृतत्वात्, अस्यैव श्रुतप्रकाशिकाग्रन्थस्य साक्षित्वाच्च, तथाहि पाठे सति एतदधिकरणपूर्वपक्षसिद्धान्तयोः असङ्गतिप्रसङ्गाच्च, तथाहि यदि वरुणलोकानन्तरमादित्यः पठितः स्यात्, तर्हि वरुणेन्द्रप्रजापतीनां त्रयाणामप्यादित्यात् पूर्वत्वमिति पूर्वपक्षस्य कथमुत्थितिः, अत्रहि वायुलोकं वरुणलोकमिति पाठक्रममव लम्ब्य वायुलोकानन्तर्थं वरुणलोकस्य वदन् पूर्वपक्षी कथं तुरगारूढस्य तुस्गविस्मरणन्यायेन वायुलोकादित्यलोकयोः पाठप्राप्तं क्रमं चानादृत्या त्रयाणामादित्यार्त्पूवं निवेश इत्याक्षिपेत् , न च वाय्वादित्ययोरानन्तर्यस्य बाधितत्वात् तत्रैव निवेशनीयानां निवेश इति वाच्यम्, “आदित्याच्छन्द्रमस’ इति क्रमस्य इन्द्रप्रजापतिभ्यां बाधितत्वात्, वरुणस्यापि तत्रैव निवेशःकिं न स्या दित्यपि वक्त्तुं सुशकत्वात्, किञ्च नह्यानन्तर्यं स्वरसप्रतिपन्नं, केनचित् प्रामाणिकेनापोदितं चेत् अतथाभूतेनापि शक्यते अपवदितुम्, तदपि प्रामाणिकमिति चेत्- तर्हि पाठक्रमानुग्रहायादित्यानन्तरमेव तर्योर्निर्देशोस्तु, आदित्याच्चन्द्रमसमिति शब्दस्वरसप्रतिपन्नमप्यानन्तर्यमपि बाध्यताम्, वायुलोकादादित्यमिति प्रतिपन्नस्य वाय्वादित्यक्रमस्य पाठक्रमेण बाधवत्, इतरथा वरुणलोकानन्तरमिन्द्रलोकात् पूर्वमादित्यलोकपाठस्य निरालम्बनत्व प्रसङ्गात्, अत एव पूर्वतंत्रे अग्नौ सावित्रहोमादिवैशेषिकानुष्ठानान्तरमेव दीक्षणीयाया अनुष्ठानं सावित्रहोमादिपाठानन्तरं दीक्षणीयागुणविधानार्थस्याप्यनुवादस्य दर्शनात्, इतरथा तत्र तत्पाठस्य अत्यन्तानर्थक्यप्रसङ्गादित्युक्त्तं पञ्चमे, अतो वरुणलोकेन्द्रलोकर्योध्ये नादित्यलोकपाठः कौषीतक्यां युक्त्तः, नचैवमुत्तराधिकरणयादवप्रकाशमतदूषणग्रन्थविरोध इति वाच्यं, यादवप्रकाशैः तथा पाठस्य कल्पिततया पराभ्युगममादायैव परो दूषणीय इति न्यायात् उपपत्तेरिति युक्त्तमुत्पश्यामः । परे तु- आदित्याच्चन्द्रमसमिति श्रौत्रक्रमबाधापेक्षया “स आदित्यलोकं स इन्द्रलोक’मिति पाठक्रमबाधस्यैव युक्त्तत्वात्, वायुलोकादित्यलोकयोरानम्तर्यस्थ व्यवधानसहत्वाच्च त्रयाणामप्यादित्यार्त्पूवं निवेश इति पूर्वपक्षो युक्त्त एव । अत एव ज्जातेष्टौ पुत्रजननरूपनिमित्तानन्तर्यस्य निमित्तश्रुतिप्राप्तस्य स्तनप्राशनोत्कर्षद्वारा पुत्रविपत्तिसम्पादकत्वेन प्रयोजनविरोधप्रसङ्गात् बाधितत्वे सति जातकर्मानन्तरमपि न जातेष्टयनुष्ठानं, निमिवस्वरसानन्तर्यस्य बाधितत्वात्, तत आशौचापगमे पर्वकाले च प्राप्ते कर्तव्यमिति चतुर्थे सत्त्वात् तन्नयायेन बाधितस्य वायुलोकादित्यलोकानन्तर्यस्य बाधितत्वादेव निवेशसाकाङ्क्षाणां तत्रैव निवेशो युक्त्त इति पूर्वपक्षस्य युक्त्तत्वात् । न च त्रयाणामप्यादित्यात्परत एव निवेश इति पूर्वपक्षः किं न स्यादिति वाच्यं, न्यायसाम्येन तस्यापीष्टत्वात्, वायुलोकं वरुणलोकं आदित्यलोकमिति प्रथमनुतप्राठक्रमपरित्यागेन चरमश्रुतस्य “स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोक’मिति पाठक्रमानुग्रहस्य अन्याय्यत्वाच्च, तस्मात् त्रयाणां चादित्यात्पूर्वं निवेश इति युक्त्त एव पूर्वः पक्षः । सर्वकोशेषु दृष्टस्य वरुणेन्द्रलोकमध्ये आदित्यलोकपाठस्य यादवप्रकाशदिभिरादृतस्याऽपलापे अतिप्रसङ्गाच्च, न च वरुणेन्द्रान्तराले आदित्यपाठस्याऽत्यन्तनिरवलम्बनत्वमिति वाच्यम्, “अग्निहोत्रं जुहोति यावगूं पचती’तिवत् बाधस्य न्यायप्राप्तत्वादिति वदन्ति ॥3॥ ॥ इति वरुणाधिकरणम् ॥