24 वाय्वधिकरणम्

श्रुत्यर्थपाठप्रवृत्तिमुख्यकाण्डाः क्रपमाणनीति - वेदं कृत्वा वेदिं करोति’ इति श्रौतक्रमः, “अग्निहोत्रं जुहोति, यवामूं पचति’ इत्यादौ अर्थलक्षणप्रयोजनवशात्कं, “समिधो यज्जति तनूनपातं वजति, इत्यादौ पाठक्रमेण क्रमः, “प्राजापत्येषु पशुगुणेषु नियोजनोपकरणादिषु पूर्वपूवर्कारेण उत्तरोत्तरप्रवृतिक्रः सारस्वतौ भवतः’ इति विहितयोः सरस्वतीदैवत्यसरस्वद्दैवत्ययोः मुख्ययोः क्रमानुरोधेन तदङ्गभूतानां निर्वापादीनां क्रमः, काण्डक्रमो हि स्थानक्रमः, यथा साद्यस्के “सह पशूनालभते, इति सहकर्तव्यत्वेन चोदितानामग्नीषोमीयसवनीयानूबन्ध्यानां मध्ये सवनीयस्य स्तानभ्रंशाभावेन तस्यैव पूर्वभावित्वमिति द्रष्टव्यम् । पञ्चम्यभिहितं संवत्सरदेवलोकयोर्मासादूर्ध्वत्वमिति - “मासेभ्यस्संवत्सरं भासेभ्यो देवलोक’ मिति पञ्चम्यारध्याहृतोर्ध्वशब्दरूपदिक्छब्धयोगनिमित्तत्वात् पञ्चमीनिमित्तदिक्छब्द एव पञ्चमीशब्देनोपचरित इति द्रष्टव्यम् ननु नेयं पञ्चमी उर्ध्वादिति दिक्छब्दयोगनिसिमता, अपि तेऽर्चिषमभिसम्भवन्ति’ इति अनुषक्त्ताभिसम्भवनक्रियापादानत्वप्रयुक्त्ता, अतो नाध्याहृतोर्ध्वशब्दमादायोर्द्वत्वस्य श्रुतत्वनिर्वाहः । किञ्च कत्वाश्रुत्यादेः क्रियामौर्वापर्यलक्षणक्रमार्थकत्वात् पञ्चम्या उर्ध्वाधरक्रमे पौर्वापर्यक्रमे वा नानुशासनमस्ति, येनोर्ध्वत्वस्य श्रौतत्वं स्यादिति चेन्न, अभिसम्भवनक्रियाया अपादाननिरपेक्षत्वेन “तेनोर्ध्वमाक्रमते’ इति श्रुत्यन्तरानुसारेण च उर्ध्वशब्दस्यैव अध्याहर्तव्यतया उर्ध्वत्वस्य श्रौतत्वसम्भवादिति तात्पर्यात् ।यद्यपि च “मासेभ्यो देवलोक’ मित्यादावभिसम्भवनक्रियोपेक्षया अपादानपञ्चमी, तथापि देवलोकोद्यभिसम्भवनक्रियां प्रति नियतपूर्वसत्वरूपकारकंविशेषत्वलक्षणापादानत्वस्य पञ्चम्य्राभिधाने क्रियाकारकलक्षणपौर्वापर्यरूपः क्रमोऽभिहितो भवति, ततश्च मासापादानकाभिसम्भवनक्रियाकर्मत्वे संवत्सरदेवलोकयोः कथ्यमाने मासादूर्ध्वत्वं संवत्सरदेवलोकयोरर्थात्सिध्यतीत्यभिप्रेत्य ऊर्ध्वत्वस्य श्रौतत्वमभिहितमिति द्रष्टव्यम्, एवमुत्तरत्रापि द्रष्टव्यम् । यद्वा आतिवाहिकत्वापेषां हेदुपञ्चमीत्वपक्षे तेषां पूर्वसत्त्वरूपं हेतुत्वं श्रुत्युक्त्तमिति द्रष्टव्यम् । हेतौ कथमर्चिरादौ पञ्चमी प्राप्नोति “विभाषागुणेऽस्त्रियाम्’ इति पञ्चमी गुण हेतावस्त्रीलिङ्गे विहिता, यथा जाड्यन ज्जाड्याद्वा बद्ध इतीति चेत्, अत्र केचित समादधते, नात्र “सत्त्वे निविशतेऽपैति’ इति लक्षितस्य पारिभाषिकस्य गुणस्य ग्रहणम्, अपितु पराश्रितमात्रस्य ग्रहणम्, तेनार्चिष इत्यादौ हेतौ पञ्चमीसिद्धेति तदतिमन्दम्, यद्यपि परतत्रस्य गुणस्य ग्रहणम् तथापि नात्र पञ्चमी प्राप्नोति, अर्चिरादीना विशेष्यतया स्वतन्त्रत्वेन पराश्रितत्वभावात् गुणत्वाभावात्, यस्य गुणस्य हि भावादित्यत्र गुणशब्देन यावान् पराश्रयविशेषणभूतो द्रव्यादन्यो जात्यादिरर्थोस्ति, स सर्वोपि गृह्यत इत्युक्त्तप्रकाराश्रयणेपि अर्चिदानीनं विपतीतत्वेन गुणत्वाप्रसक्त्तेः, सत्यपि च गुणत्वे अर्चिष इत्यत्र पञ्चमी नानेन प्राप्नोति “अस्त्रिया’मिति प्रतिषेधात्, अर्चिश्शब्दस्य “इसुसन्तः । अर्चिः स्त्रियां च’ इति सूत्रेण स्त्रीनपुंसकयोरनुशासनात् पुल्लिंगता नास्त्येव, अत्रत्यार्चिश्शब्द स्त्रीलिङ्ग एव “तेऽर्चिषमभिसम्भवन्ति’ इति पूर्वत्र निर्देशात्, नपुंसकलिङ्गे तु अर्चिरित्येव द्वितीयैकवचने रूपं स्यात्, अतः स्त्रीलिङ्गः एवार्चिश्शब्द इति “अस्त्रिया’मिति प्रतिषेधः स्यादेव, नहि परतन्त्रमात्रस्य गुणस्य ग्रहणम्, अपि तु पारिभाषिकस्यैव तदनुरूपत्वेन वृत्यादावुदाहरणप्रत्युदाहरणयोर्दशिर्तत्वात्, यद्यपि यस्य गुणस्य हि भावादित्यत्र पराश्रितस्य भेदकजात्यादेः गुणशब्देन ग्रहणमिति स्थितम्, लोके उपसजर्नं गुण उच्यते, शुक्लादौ च प्रसिद्धतरो गुणशब्दः, वैशेषिकास्तु रूपरसादयश्चतुर्विशतिर्गुणा इति प्रतिपन्नाः, तथापि इह शास्त्रे “सत्त्वे निविशते’ इत्यादिपरिभाषितस्य गुणस्य ग्रहणम्, यथा वा “वोतो गुणवचनात्’ इत्यत्र कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति न्यायात्, तस्मेदवमत्र परिहारः “विभाषा गुणेऽस्त्रिया’ मित्यत्र विभाषेति योगविभागात् गुणवचनादपि हेतोः स्त्रियामपि क्कचित्पञ्चमी भवति, तेन नास्तीह घटः, अनुपलब्धेः, वह्निमान् धूमात् इत्यादयः प्रयोगा अप्युपपन्ना इत्यलमतिक्षोदेन- अन्यत्रेति । वृहदारण्यक एव अदेशान्तर इत्यर्थः । वायोरादित्यात्पूर्वत्वं प्रातिपदिकाभिहितमिति - इदमुपलक्षणम्, तेन “स उर्ध्वमाक्रमते स आदित्यमागच्छति’ इति वायुदत्तमार्यस्याप्राप्तौ तृतीयया करणत्वश्रवणात्, नचोर्ध्वदेशाक्रमणमात्रे वायुदत्तमार्गस्य करणत्वं श्रुतं, नत्वादत्यमण्डलाक्रमण इति वाच्यम्, उर्ध्वदेशस्य विशेषाकांशायाम् आदित्यमण्डलरूपविशेषपर्यवसानादिति द्रष्टव्यम् । अनन्तरं वायुरितीति - “देवयानं पन्थानमापद्याभिलोकमागच्छति स चायुलोक’ मिति पाठक्रमात् अर्चिरनन्तरमेव वायोनिर्वेश इति पूर्वः पक्षः, “स वायुमागच्छति तस्मै स तत्र परिजिहीते’ इति वायुप्रदेन मार्गेण आदित्यगमनश्रवणात् कौषीतकिपाठक्रमं बाधित्वा आदित्यात्पूर्व वायोर्निवेश इति सिद्धान्तः, सूत्रमप्यादि त्यात्पूर्वं वायोर्निवेशपरम्, नत्वब्दानन्तर्यपरमिति वदन्तीति भावः ॥2॥ ॥ इति वाय्वधिकरणम् ॥