शव्यं शवयोग्यमिति - साध्यर्थे यत्, तस्मै स तत्र परिजिहीत इति त्वावायवान् विगमय्य छिद्रं करोति, यथा रथचक्रस्य छिद्रमित्यर्थः । निरन्ध्रं तथा मार्गमावृत्व स्थितो वायुः स्वावयवप्रहाणे रथचक्रप्रमाणं छिद्ररूपं मार्गं ददातीत्यथर्ः । अन्यत्रेति व्याख्यय पदम् । कमिभेदश्चेति - क्रमाश्रयपदार्थानां देवलोकवायुलोकादीनां प्रतिशाखम् भेदेनाऽऽम्नानादिति भावः । गुणानत्यादुपसंहारो न शक्यत इतीति - इदमुपलक्षणम्, भेदकाकारस्यापि सम्बन्धादेवमन्यत्रापि’ इत्येवामादिषु दर्शितत्वादित्यपि द्रष्टव्यम् । दार्विहौमिक इति - दार्वेहाय इति कर्मविशेषणां नाम ॥1॥ ॥ इति अर्चिगद्यधिकरणम् ॥