धूमादिमार्गलिङ्गाभावादिति- दक्षिणायानमृतानांअनन्यथासिद्धधूषादिप्राषकप्रमाणभावादित्यर्थःल भाष्ये तत्पर्यवैतीति, यदा तत्पर्यवैतीति यदायस्मिन्काले, तत् सोमलोकप्रापकं पुण्यं, पर्यवैति परिर्क्षीयत, इत्यर्थः परैर्वर्णितः ॥19॥ननु “नैते सृती पार्थ । जानन’ इति उपसंहारानुसारेण “यत्र काले त्वनावत्तिम् इत्युपक्रमो बाध्यते इत्येतावति वक्त्तव्ये मध्ये ्रअग्निर्ज्योति’ इत्यादिवचनं भाष्ये अयुक्त्तमित्याशङ्क्य उपक्रमस्य उपसंहारमात्रेण अन्यथानयनासम्भवात् महावाक्यस्वारस्येन बाध्यत्वं वक्त्तुं मध्यमवाक्यस्यापि उपक्रमविरोधं दर्शयतीत्याह- यत्र काले त्वतीति । य उपक्रमः स बाध्यत इत्यभिप्रायेणेत्यन्वयः न तु तत्प्रतीकग्रहणमिति मन्तव्यम् । चतुर्विधेति । अर्तो जिमासुरर्थाथा मानी च भरतर्षभ’ इत्युक्त्तचर्तुविधिति द्रष्टव्यम्, ततश्च “यत्र काले त्वनावृत्तिमावृत्तिञ्चैव योगिनः’ इत्यावृत्तिप्रतिपादकवचनमुपपद्यत इति भावः, यत्र काले त्वनावृत्तिमित्यस्य यैरातिवाहिकैर्नीयमानस्याऽऽवृत्तिरितिफलितोर्थः ॥20॥ ॥ दक्षिणायनाधिकरणम् ॥ ॥ इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिका व्याख्यायां भावप्रकाशिकायां चतुथर्स्याध्यायस्य द्वितीयः पादः ॥ ॥ समाप्तश्चाष्यायः ॥ समुदिताधिकरणसङ्ख्या -142- समुदितसूत्रसङ्ख्या - 507 ।