21 निशाधिकरणम्

तर्हि निशि मृतस्येति- रश्म्यनुसारेणेति शेषः, इष्टापत्तिमाशङ्क्याह - तस्य रविरश्म्यनपेक्षत्व इति । निशि ब्रह्मगमनस्य रविरश्म्यनपेक्षत्व इत्यर्थः । विद्यानिष्पत्यभावनिबन्धनत्वाश्रयणेनेति । अयम्भावः- विद्याया निशि मृतविषये न सर्वदा फलाजनकत्वं पूर्वपक्षिणोऽभिमतं येन विद्यायाः पाक्षिकफलत्वं नास्ति, अप्रारब्धकर्मभिर्वा प्रारब्धकर्मभिरेव वा शरीरान्तरव्यवधानेनेति हि पूर्वपक्ष्यभिप्रायः, अतो न पाक्षिकफलत्वप्रसङ्ग इति नन्वेवं चरमत्वमेव नासातीति पूर्वपक्षे सिद्धान्तमाष्ये प्रारब्धकार्यस्य कर्मणः चरमदेहावधित्वादिति देहस्य चारम्य सिद्धवत्कृत्य परिहारो न सङ्कच्छेतेति चेत् चरमदेहावधित्वादिति भाष्यस्याऽयमर्थः । पलभूतदेहावधित्वादस्य कर्मणः, इयन्ति शरीराणि फलभूतानीति नियमसत्त्वेन तावद्देहाधिकदेहनिष्पादनासामर्त्यादिति, अथ मेव यावद्देहभावित्वादिति सूत्रखण्डाभिप्रेतार्थ इति द्रष्टव्यम् । तस्य तु प्रतिज्ञायामिति- रश्म्यनुसारीति प्रतिज्ञायामित्यर्थः । अन्यथा अपेक्षिताथान्तरप्रतिज्ञाया इति । निशि मृतस्य मुक्त्तिस्सम्भवतीत्यर्थान्तरप्रतिज्ञाया यावद्देहमावित्वादिति िहेतोश्वेत्यर्थः ॥18॥ ॥ इति निशाधिकरणम् ॥