18 अविभागाधिकरणम्

उक्त्तमेवार्थं दृष्टान्तान्तरप्रदर्शनेन विवृणोति- यथा च कब्चुकोष्णीषवत इत्यादिना । तद्रहितस्य च विश्रम इति- तद्राहित्यदशायां विश्रम, इत्यर्थः । सुषुप्तौ जीवमात्रस्येति- न तु प्रलयोत्क्रान्त्योरिव स्थूलसूक्ष्मविशिष्टस्य जीवस्येति भावः । शङ्कते- विशेष्याशस्येति । सुषुप्तिवदिति भावः । “गताः कलाः पञ्चदशं प्रतिष्ठाः’ इति प्राणशब्दोदितानीद्रिषाणि देशः, मन एकं सूक्ष्माणि भूतानि पञ्चेति षोडशकलास्सन्दि, तत्र ध्राणस्य पृथिवीविकारत्वान्मनसोपि “अन्नमयं सोम्य मन’ इति पृथिवीविकारत्वात् द्वयोरप्येकीकरणेन पञ्चदशत्वोक्तिरिष्युपपद्यते, प्रतिष्ठाः स्वखोपादानानि इति अवयवेषु वा अज्ञाने वा लयोक्तिवदसङ्गतेय मुक्त्तिः, किञ्च परैरेवमनुक्त्तञ्च, अतो नायम्पाठ इति चोदयन्ति, तान्प्रतिवदामः, अन्तःकरणादिना जीवाविद्यामात्रकार्यत्वपक्षे तत्त्वज्ञानेन जीवाविद्याया उन्मूलिततया स्वकारणेषु लयासम्भवेति ईश्वराश्रितमायापरिणाममहाभूतोपसृष्टजर्वाविद्याकार्यत्वपक्षे तत्त्वज्ञानेन जीवांशस्य नाशेपि उपष्टम्भीभूतमहाभूतांशस्य सत्त्वेन तत्रान्तःकरणादिकलैकदेशस्य लयसम्भवात्, तन्तुद्वयारब्ध पटस्य एकतन्तुनाशे तन्त्वन्तरे लयदृष्टेः परग्रन्थेषु तथा समर्थितत्वाच्च न यथानुवादः, नच उत्तराधिकरणे कलाप्रलयस्य निरवशेषत्वसमर्थनात् तद्विरोधः स्यादिति वाच्यभूत जीवाविद्याकर्यांश एव निरवशेषलय इतिपादनपरत्वेन विरोधाभावात् । प्रथम इति- अधिकरणे इतिशेषः । भिद्यते चासां नामरूपे इति- आसां कलानां नामरूपे शकत्यात्मके अपि भिद्येते विदीयेते इत्यर्थः । अविद्वद्दृष्टयाप्यनवगतत्वादिति- तेषामदृश्यत्वेन श्रुत्येकसमधिगम्यस्याऽथर्स्य विदुषा उत्प्रेक्षितुमशक्यत्वादिति भावः । प्राकृतप्रलयविषयतया वार्थवत्त्वादिति । यद्यप्यात्मज्ञानेन कलाप्रलयं प्रतिपाद्य हि “भिद्येते चासां नामरूपे पुरुषे’ इत्येवं प्रोच्यते स एषोऽकलोऽमृतोभवती’तिश्रुतस्यन सर्वसाधारणप्राकृतप्रलयपरत्वं सम्भवति, तथापि देवमनुष्यादिनामरूपविषयतयार्थवत्तया पूर्वदूषण एव तात्पर्यमिति द्रष्टव्यम् । ईश्वरांशस्य निमित्तकारणत्वादिति तन्मत इति शेषः ॥15॥ ॥ इति अविभागाधिकरणं ॥