चतुष्टयस्यापि विद्वदविद्वत्साधारण्यनिर्णायकस्यारम्भ उचितः, न तु मध्य इत्याशङ्क्य “समाना चासृत्युपक्रमा’ दिति विद्वदविद्वत्समानत्वनिर्णयस्य सूत्र कृता समानविषयत्वसंशयास्पदमात्र एत्त कर्तुं युक्त्ततया तेजः परस्था देवताया’ मिति वाक्यार्थस्य समानत्वसंशयानास्पदत्वात् तत्साधारण्येन कर्तुमयुक्त्तत्वमभिप्रेत्य चतुर्थवाक्यार्थनिर्णायकाधिकरणाभ्यां प्रागेव समाना चे’त्यधिकरणं निवेशितमिति परिहरति । पूर्व समाना चेत्यादि । यथाकर्म यथाविद्यमिति यथाकर्मेत्यत्र नश्च नपुंसकादन्यतरस्यातम्’ इति टजभावे रूपम् । ननु क्रमेण “नैकस्मिन्दर्शयतो हि’ इत्यन्तसूत्रैर्विचारिते तेजः परस्या’ मिति चतुर्थवाक्यार्थराद्धान्ते - तथा ह्याह श्रुतिरिति । “वाङ्मनसि सम्पद्यते’ इत्यादिनिर्देशो न सर्ववस्तुसाधारणधारकत्वाभिप्रायः, अतः सम्पत्तिरेवार्थ इति भावः ॥ 14 ॥ ॥ परसम्पत्त्यधिकरणं समाप्तम् ॥