is not available.is not available.is not available.is not available.वस्तुसामर्थ्यादिति पूर्वेणान्वयः, स्थूलशरीरस्योष्मा सर्वात्रिक इति ग्रन्थस्थानन्तरं सूक्ष्मदेहस्य र्सावत्रिकत्वादिति शेषोऽध्या हर्तव्यः इति “सन्तापयति खं देहमापादतलमस्तकम्’ इत्यग्निशिखाप्रयुक्त्तः स्थूलशरीरे आपादतलमभिव्याप्तः सन्तापशब्दित ऊष्मा सूक्ष्मशरीरसार्वत्रिकत्वनिबन्धनः, न तु स्थूलशरीरत्वनिबन्धन इत्यर्थः । अग्निशिखायाः क्रमेणोपसंहियमाणत्वादिति न च अग्निशिखायाः क्काचित्कत्वादेवोष्मणः क्काचित्कत्वोपत्तेर्नतस्य सूक्ष्मशरीरक्काचित्कत्वनिबन्धनत्वमिति वाच्यं, अग्निशिखाक्काचित्कत्वस्यापि सूक्ष्मशरीरक्काचित्कत्वनिबन्धनत्वादित्यभिप्रायः, यद्वा भूतसूक्ष्मान्तर्गततेर्जोशातिरिक्त्ताग्निशिखाया अभावादिति भावः ॥11॥हृदयान्निष्क्रामतीत्यर्थ इति । निष्कमितुमुद्युक्त्त इत्यर्थः, एतदपि फलितार्थकथनम्, “अथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्वपाक्रामति’ इत्युक्त्तत्वात् “तस्य हैतस्थ हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्कामती’ति पठ्यते, अत एतत्सन्दर्भानुसारात् निर्गममार्गापरिज्ञानेनांतर्हृदय एव परिभ्रमति, पश्चाद्वदयाग्रं प्रद्योते तेनैष आत्मा निष्कामतीत्येवार्थः, तस्यैव स्वरसतः प्रतीतेः इति द्रष्टव्यम् । केचित्तु हृदयाग्रपद्योतनं हृदयैकदेशान्निष्कान्तस्य मार्गप्रदर्शनायोपयुज्यते, अतो यथाश्रुतार्थेपि नानुपपत्तिरित्याहुः, तेन प्रद्योतेनेत्यादिवाक्यस्येत्यादिचोद्यस्याऽयमर्थः- उत्क्रान्तेरविद्वन्मात्रविषयत्वे अर्चिरादिगतिरपि विदुषो न प्रसजेत्, अत उत्क्रान्तिवचनस्याविद्वन्मात्रविषयत्वमिति वक्त्तं न शक्यत इति, तस्मादविदुष इत्युक्त्तमिति शेषः । सिद्धान्ते तु विद्वद्विषयमेवेदमिति - एवकारो भिन्नक्रमः, इदमेव वाक्यं विद्वद्विषयं अविद्वद्विषयमपि भवतीत्यर्थः, मूर्ध्न इत्यस्य विद्वद्विषयत्वेन पूर्वं व्याख्यातत्वात्, ननु हृदयप्रद्योतनस्य सर्वसाधारण्ये तदोकाग्रज्वलनमित्यत्र भाष्ये अप्रज्वलनस्य विद्यासामर्थ्यलब्धहार्दानुग्रहाधीनत्वप्रतिपादनात् तद्विरोध इति चेत्, शताधिकनाडीविवेचकज्वलनविशेषस्य तदधीनत्वपरत्वप्रतिपादनपरतया विरोधाभावादिति भावः । इत्यत्रार्थपुत्रवित्तविषयेषणात्रयराहित्यं विवक्षितमिति । अत्रार्थशब्दः स्वर्गादिलोकपरः, “ते ह स्म पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थाया’ इति श्रुतेः, भाष्ये- अपपुनर्मृत्यंक्षयतीति विद्वांसं प्रस्तुत्येति संसारतरणरूपफलकीर्तनस्य विद्वद्विषयत्वावक्षयंभावात् विद्वांसमित्युक्त्तम् । षष्ठ्या अपादानवाचकत्वाञ्चेति । अपादानरूपसम्बन्धस्य शेषत्वेन विवक्षासम्भवादिति भावः । अग्नेरषां भक्षकत्वानुसन्धानमिति । “अग्निर्वैभृस्युः सोऽपामन्नम्’ इति अपामग्न्यन्नत्वोपासनमुकत्वा विहितस्य फलमुच्यते, “अपपुनर्मृत्युञ्जयति’ इति भावः ।परे त्वित्यादि । सगुणविदुषश्चेति । सगुणब्रह्मोपासकस्येत्यर्थः, द्वितीयेति योगविभागात्समासः, असामवेदविदुषः’ विशेषविदुषश्शास्त्रम्’ इत्यादिरामायणमाधकाव्यप्रयोगदर्शनात्, तेन विद्वच्छब्दस्य शत्रन्ततया कृद्योगषष्ठ्या निषेधात् शेषलक्षणषष्ठयाश्च सुरणगुणेति सता योगे षष्ठी ततः समस्यत इति षष्ठीसमासनिषेधात्, सगुणं विद्वानीति द्वितीयापक्ष सामस प्राप्त्यम्भवात्, नैवं निर्देशो युक्त्त इति चोच्चं निरस्तं, सुष्सुषेति वा समासात् साधुरिति । केचित्, गत्यादिपाठदर्शनात् “द्वितीया समास’ इति माधव्याख्याने मल्लिनार्थेनोक्तं, तदपि ग्राह्यमेव । इयं च तेषां सूत्रयोजनेति । “सूक्ष्मं प्रमाणतः इति सूत्रयोजनेत्यर्थः, तदापीतेरिति पूवर्सूत्रयोजनायान्तु योजनांशे अत्यन्तदूष्याभावात् तदकथनं न दोषः । नाडीनिष्क्रमणश्रुतिरूपप्रमाणादिति । यद्यपि परभाष्ये प्रमाणत इत्यस् परिमाणत इत्यर्थः प्रतीयते, एवं हि तद्याख्यानं, तल्लिङ्गशरीरं स्वरूपतः परिमाणत्च सूक्ष्मं, स्वरूपतः सौक्ष्म्य नायनस्य महतस्तेजस इव, भ्रसरेणारिव च परिमाणतः सौक्ष्म्यस, तथ परिमाणतस्सौक्ष्म्ात् नाडीसञ्चारोपपत्तिः, स्वरूपतस्सौक्ष्म्ात् अप्रतिपातपार्श्वस्थानुपलम्भोपपत्तिरिति, तथापि प्रमाणपरत्वारस्यादियधपि सौक्ष्ना प्रतीयते इति तथोक्तमिति द्रष्टव्यम्, मृतत्वाभावाशङ्का शमयितुमिति पाठः, अर्चिरादिगत्युपपत्त्यर्थमिति छेदः । अतद्विषयत्वादनुदाहायर्मिति न च प्रद्यत इति पदं गन्तव्यं, न विद्यते पदं यस्य सोऽपद इत्येवं युक्त्तस्य गन्तव्यरहितत्वप्रतिपादनात् कथं तस्य नोदाहर्तव्यत्वमिति शंख्यम्, पदशब्दस्य इन्द्रादिस्थंनवाचित्वात् ॥13॥ ॥ इति आसृत्युपक्रमाधिकरणम् ॥