is not available.व्याख्यातं त्र्यात्मकत्वादितीति - त्र्यात्मकत्वात्तु च भूयस्त्वादिति पाठः, शाङ्करभाष्ये तथा दर्शनादिति द्रष्टव्यम्, अण्व्यो मात्रास्सूक्ष्माः दशार्धानां पञ्चाचामित्यर्थः । जीवसहितप्राणेति - ततश्च सः प्राणसंपृक्त्ताध्यक्ष इति परव्याख्यानमनुपपन्नमिति भावः । तत्र च व्युदसनीयेति - स्फुणटसूत्रार्थव्युदसनीयशङ्काया एव पूर्वपक्षस्योचितत्वादिति भावः । पुनस्सम्भवविषयतयेति - “अण्व्यो मात्रा विनाशिन्य’ इति स्मृतेश्च “महदाद्य विशेषान्ताः’ इति स्वोदाहृतस्मृतेश्च, वैषम्यमनुपूर्वश इति पुनस्सम्भवप्रतिपादकपदसम्भवासम्भवाभ्यामिति द्रष्टव्यम् ॥6॥ ॥ इति भूताधिकरणं ॥