भाष्ये- वाङ्मनसोरिति काचित्कः पाठः समासान्तविधेरनित्यत्वनिवन्धनः, तेजश्शब्देन भूतसूक्ष्मांशा विवक्षिता इति वाक्यस्यानन्तरम् । उपगमस्सम्बन्ध इति पाठस्समीचीनः अन्यतरवाचिशब्दनिर्देश इति । अन्यतरमात्रवाचिशाब्दनिर्देश इत्यर्थः । भाष्ये- यमुनासागरं गच्छतीति वचो न विरुध्यते तद्वदिति, नन्वनेनैव दृष्टान्तेन प्राण उपगमनश्रुतेरेव सद्वारकत्वं किं न स्यात्, किञ्च यथा वाह्येन्द्रियव्यापरोपरमानन्तरमपि मनोव्यापारदर्शनात् “वाङ् मनसि सम्पद्यते’ इति श्रुतिः, यथा च वाह्यान्तरज्ञानोपरमानन्तरमपि श्वासादिलक्षणप्राणव्यापारदर्शनात् “मनः प्राणे’ इति श्रुतिः, तथा श्वासादिप्राणव्यापारोपरमानन्तरमपि देहे क्कचिदौष्ण्यलक्षणतेजोव्यापारदशर्नात् “प्राणस्तेजसी’ति श्रुतेरपि तत्साम्येन साक्षात्तेजस्सम्पत्तिपरत्वमेव युक्त्तमिति चेन्न, यथा “वायोरग्निः अग्नेराषः’ इति श्रवणस्य “एत्तस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इत्यस्याविरोदायाऽग्न्यादिशब्दस्वऽग्न्याद्यवस्थपरमात्मपरत्वम्, एवमात्मोपगमश्रुत्यनुरोधाय भूतसूक्ष्मवाचितेजश्शब्दस्य तच्छरीरकजीवपरत्वेनाविरोधोपपत्तेः । किञ्च प्राणस्तेजसीति श्रुत्यनुरोधेन जीवोपगमात्प्रागेव तेजस्सम्पत्तौ “तेजः परस्यां देवताया’ मिति परदेवतासम्पत्तिश्रवणात् जीवोपगमस्य निरवकाशत्वप्रसङ्गेन क्कचिन्निवेशेऽवश्यंभाविनि सहोत्क्रमणलिङ्गानुगृहीतात्मोपगमनश्रुत्यनुरोधात् जीवसंपत्त्यनन्तरमेव तेजःसम्पत्त्युपपत्तेश्चेति भावः । अश्रुतत्वादिति पूर्वपक्षहेतुमाहुरिति- यद्यपि प्राणस्तेजसीति श्रुतेरनतिशंकयत्वात् यथाश्रुते तेजस्येवसम्पत्तिः, अश्रुतज्जीवसम्बत्तिपरिहारकल्पनाया अन्याय्यत्वादिति परैः पूर्वपक्षयुक्त्तितया श्रुतिरेव वर्णिता, तथापि श्रुत्यनुग्राहकतया परैरश्रुतकल्पनाया अन्याय्यत्वादिति हेतुरप्युपन्यस्त इति कृत्वा तथोक्तमिति द्रष्टव्यम् । अश्रवणमात्रस्य हेतुत्वायोगादिति- “एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति’ इति प्रदेशान्तरे श्रवणे विद्यमाने श्रवणसामान्याभावस्य हेतुत्वायोगादित्यर्थः । सहावस्थानस्य श्रुतिमिति- तत्सहिततयाऽवस्थानं सहावस्थानं, तदाधारत्वेनावस्थानमिति यावत्, न तु सहावस्थानं सामानाधिकरण्यमिति मन्तव्यम् । परैर्जीवाधिकरणकावस्थान एव स विज्ञान इत्यस्य प्रमाणीकरणादिति द्रष्टव्यम् ॥4॥ ॥ इत्यध्यक्षाधिकरणम् ॥