13 मनोधिकरणम्

भाष्ये- अतो मनः प्राणे सम्पद्यत इत्यत्रेत्यादि, अत्र केचिदेवं वर्णयन्ति, पूर्वपक्षे प्राणशब्दे लक्षणा अभ्युपगन्तव्या, तथा सम्पत्तिवाचनस्याप्यस्वारस्यमेव अप्रकृतित्वात्, नहि प्रकृतिमात्र लय उपपद्यते । किञ्च प्राणशब्दस्याब्लक्षकत्वे प्राणस्तेजसीत्युत्तरवाक्येपि प्राणशब्दस्याऽवैरूपेण जलपरत्वये जलस्य तेजसि लय इत्यर्थः स्यात्, नचैतदयुक्त्तं प्रयाणकालेषु भूतलयासम्भवात् । किञ्च वाङ्मनसि सम्पद्यत इति वाक्येपि मनश्शब्देन मनःप्रकृत्यहंकारलक्षणायां मुख्यसम्पत्तिसम्भव इति पूर्वपक्षस्यापि सम्भवेन तत्समाधानस्य एतदधिकरणसिद्धान्तयुकत्यापि कर्तुमशक्यत्वात्, तस्मात् श्रुतार्थस्योपपत्तिरस्तीत्येव पूवपक्षो वक्त्तव्यः, न तु लक्षणामादाय पूर्वपक्ष इति, तत्रैवं केचित्समादधते प्रकृतिविकृत्योरभेदादन्नमनसोरभेदः, जलप्राणयोश्चाभेदः, ततश्चान्नस्याप् लय इत्युक्त्तेस्सोपपत्तिकत्वमिति मनसः प्राणलय इत्युक्त्तिरुपपद्यत इति पूर्वपक्षाभिप्रायः, ततश्च प्राणप्रकृतिभूता अपो निर्दिश्येत्यत्र भाष्ये प्रकृतिशब्दः स्वभावपरः, प्राणस्वरूपभूता अपो निर्दिायेत्यर्थः, ततश्च तयोरभेदादित्यर्थ उक्त्तो भवति, ततश्च पृथिवीरूपस्य मनसो जलरूपे प्राणे मुख्यलय उपपद्यत इत्यभिप्रायः, परम्परया स्वकारण इति भाष्ये परम्परयेत्यस्य युक्त्तिपरम्परयेत्यर्थः, टीकापि तदानुगुण्येन नेया, तथाहि किं प्रकृतिविकृतिभावपरमित्यस्य किं प्रकृतिविकृतिभावप्रतिपादनमुखेनाभेदपरमित्यर्थः, स्वकारणं पृथिवीद्वारेणेत्यादेरयमर्थः, पृथिवीद्वारेणान्नमयस्य पृथिवीरूपतयैवान्नमयस्य स्वकारणे प्राणशब्दलक्षितासु प्राणनामप्रतिपाद्यास्वित्यर्थः, केचित्तु सम्पद्यत इत्यस्य विधिरूपत्वात् “न विधौ परश्शब्दार्थः’ इति न्यायेन सम्पत्तिशब्दास्वारस्याश्रयणासम्भवात् सम्पत्तिशब्दस्य लय एव मुख्यत्वात् यथा कथञ्चित् तत्सम्भवे तत्त्यागस्यानुचितत्वात् प्राणशब्दस्याब्धलक्षणापि सोढव्या, प्राणस्तेजसीत्यत्र वैरूप्यमापतति चेत्, सोढव्यमेव, अन्यत्र दोषान्तरमापतितं सोढव्यमेव, न्यायागर्तेर्थै किं कुमर् इति पूर्वपक्षिण आशय सति वदन्दि । परे त्वित्यादि- वृत्त्युपपत्तिपरत्वे इति । वाङ्मनसिदर्शनाच्छब्दाच्चेति सूत्रे वाक्छब्दस्य वृत्तिपरत्वं, शब्दशब्दस्य शब्दोपपत्तिपरत्वमित्याश्रयणे इत्यर्थः । मनश्शब्दयोरिति- “वाङ्मनसि सम्पद्यते मनः प्राण’ सति सप्तम्यन्तप्रथमान्तमनश्शब्दयोरित्यर्थः । प्राणशब्दयोश्चेति- मनः प्राणे प्राणस्तेजसीति सप्तम्यन्तप्रथमान्तमाणशब्दयोरित्यर्थः । अहङ्कारवाचित्वमनोवाचित्वेति । वाङ्मनसीत्यत्र सप्तम्यन्तमनश्शब्दस्याहङ्कारपरत्वं वदता तदधिकरणपूर्वपक्षिणैव “मनः प्राणे’ इत्यत्र प्रथमान्तमनश्शब्दस्य मनोवाचित्वं वक्त्तव्यम्, एवं “तन्मनः प्राण उत्तरा’दित्यधिकरणपूर्वपक्षेपि सप्तम्यन्तप्रथमान्तशब्दयोः वैरूप्यमाश्रयणीयं, तच्चायुक्त्तमिति भावः, अभिमतपूर्वपक्षविरोधमेव दर्शयति । मनसोऽहङ्कारलीनत्व इति- यथा मनसः प्राणविलीनत्वे प्राणात्पृथगुत्क्रमणं विरुद्धम् । एवमहङ्कारविलीनत्वेपि विरुद्धमेव, नहि तदानीमहङ्कारस्य भूतेन्द्रियादिहेतुभूतस्य ब्रह्माण्डावरणभूतस्य उत्क्रमणं सम्भावनापदमिति भावः ॥3॥ ॥ इति मनोधिकरणम् ॥