12 वागधिकरणम्

यदा लयपरत्वेप्युपपद्यत इति- ननु इन्द्रियान्तरसम्पत्तिवाक्सम्पत्तिवचनयोर्विशेषानुपलम्भात्, अत एव “सर्वाण्यनु’ इति सूत्रे तद्भाष्ये च वाक्सम्पत्तिवचनन्यायस्यैव इन्द्रियसम्पत्तावतिदेशाच्च इन्द्रियान्तरवचनस्य कथमुपपादककोटौ निवेश इति चेन्न, तस्मादुपशान्ततेजाः पुनर्भवभिन्द्रियैर्मनसि सम्पद्यमानैः’ इत्यस्य ह्ययमर्थः- उपशन्ततेजाः उपाशन्तौष्ण्यः पुनर्भवं पुनर्जन्म उद्दिश्य मनसि सम्पद्यमानैरिन्द्रियैस्सह ग्राणमायातीति, अत्र हि पुनर्जन्मोद्दिश्य मनसि इन्द्रियाणां सम्पत्तिर्लयरूपा, इन्द्रियाणां मनसि लये हि पुनर्जन्मन एवाभावप्रसङ्गात् । अतस्तत्र सम्पत्तिशब्दस्य सयोगपरत्वं वक्त्तव्यमिति- वाक्सम्पत्तिवचनेष्यवैरूप्यात् तथात्वं वक्त्तव्यमिति इन्द्रियसम्पत्तिवचनमप्युपपादककौटौ निवेशितमिति भावः । वस्तुतस्तु इन्द्रियैर्मनसि सम्पद्यमानैरिति वाक्यस्य न वाक्सम्पत्तिवाक्यापेक्षया वैलक्षण्यमस्ति, अथाष्याचार्यैः गुणसूत्राणां सर्वेषामपि प्रकृताधिकरणार्थोपपादकत्वं वक्त्तव्यमित्यभिनिवेशादुपपादककोटौ निवेशितमिति द्रष्टव्यम् । नन्वयं विचारः काकदन्तपरीक्षासदृशः, पूर्वोत्तरपक्षयोरर्थभेदाभावात् वाक्स्वरूपस्य मनसि लये नास्तीति पूर्वोत्तरपक्षयोस्सम्प्रतिपन्नमेव, न च सिद्धान्त्यमिमतो मनसि वाक्संयोगः पूर्वपक्षिणानभ्युपगत इति शक्यते, वक्त्तुं, वाचो मनसि संयोगाभावे वागुक्त्तेर्मनसि लयवार्ताया अप्यसम्भवात्, इयांसु विशेषः, वाक्छब्दस्य स्वरूपपरत्वे सम्पत्तिशब्दस्य वागक्त्तिनिष्पादनलक्षणमनोव्यापारलयपरत्वं वाक्छब्दस्य वागुक्त्तिपरत्वे तु सम्पत्तिशब्दस्य तद्धेतव्यापारविलयपरत्वमिति नैतद्वयापारस्य उपयोगोस्ति, उत्क्रान्तिस्वरूपविशेषपर्यवसायित्वाभावात् देवदत्तपुत्राभिप्रायेण काञ्च्यां देवदत्तो नष्ट इत्युक्त्ते देवदत्तशब्दस्य तत्पुत्रलक्षणयापि समर्थयितुं शक्यते, नष्टपदस्य विनष्टपुत्रलक्षणामाश्रित्यापि तदर्थ प्रतिपादयितुं शक्यते, नैतावता अर्थे कश्चन विशेषोभिहितो भवति, तत्तुल्यश्चायं विचारः, न च मुख्यजधन्ययोरन्यतरस्यामुख्यार्थत्वे समाश्रयणीये जघन्यस्यैव अस्वरसार्थसमाश्रयणन्यायव्युत्पादनार्थमिदमधिकरणमिति वाच्यम्, तस्य पूर्वतन्त्र एव क्षुण्णत्वादिति चेत्, अत्र केचित् अस्मिन्नधिकरणे वाक्स्वरूपस्य मनसि लय इत्येव प्रधानपूर्वपक्षः, सम्पत्तिश्रुतिः कथचिदुपपद्यत इति, अस्मिन्पक्षे अनुशयं प्रदर्शयता भाष्यकारेण पूर्वपक्षान्तरस्य सूचनात् “तन्मनः प्राण उत्तरा’ दित्यतिदेशाधिकरणे अधिकाशङ्कोपपादकभाष्यग्रन्थपरिचयशालिनाम्, किमत्र मनसो लय उच्यते उत संयोगः इति टीकाग्रन्थदर्शिनां च अस्यार्थस्य सुगमत्वात्, यदि ह्यत्र वाग्लयपूर्वपक्षो नाभिमतः स्यात्, तर्हि अतिदेशाधिकरणे भाष्ये मनोलयसाधकाधिकाशङ्काकथनं विरुद्धमेव स्यात्, अतस्तत्रापि वाक्स्वरूपलयकथनमेव प्रधानपर्वपक्षः, सम्पत्तिशब्दस्य व्यापारनिवृत्तिपूर्वकसंयोगार्थकत्वेनाप्युपपन्नत्वात् अप्रकृतौ लयो न युक्त्त इति सिद्धान्त इत्येव तत्त्वम् । परे तु वाचो मनसि संयोमाभावे वाग्वृत्तेरपि मनसि लयोक्तिर्न सम्भवतीत्येतत्सत्यमेव, तथापि सिद्धान्त्यभिमतसंयोमविशेषस्य पूर्वपक्षिणानभ्युपगमात् न पक्षद्वयेप्यर्थाविशेष इति वदन्दि, भाष्ये वागिन्द्रिये उपरतेपि मनःप्रवृत्तिरिति, अत्र मनःप्रवृत्तिसव्वाभिधानं वाक्सम्पत्तिहेतुत्वोपपत्त्यर्थम्, अन्यथा हि तत्प्रलीनवृत्तित्वं न सम्पत्तिहेतुतां भजेतेत्यर्थः । प्रवृत्तव्यापारमित्यादिटीकाया अप्यत्रैव तात्पर्यम् ॥1॥भाष्ये- वाचमानु सर्वेषामिन्द्रियाणामिति, अनुशब्दस्तृतीयार्थ इति कर्मप्रवचनीयः, वाचा सहेत्यर्थः, न तु पश्चादथर्वाची, तथा सति “श्रव्ययं विमक्त्ती’ति पश्चादर्थेव्ययीभावसमासप्रसङ्गात्, तस्य च नित्यसमासत्वेन वाक्याभावात्, तदर्थे च द्वितीयाया अपि दुर्लभत्वाच्च, अतः सहार्थ एवायं कमर्प्रवचनीयः “कर्मप्रवचनीययुक्त्ते द्वितीया’ इति द्वितीया, अतः टीकाग्रन्थः कथञ्चिन्नेय इति केचिदाहुः, केचित्तु वाचमनुवाचमनुरुध्य सम्पद्यत इत्यर्थः, अनुशब्दस्ससाधनक्रियावचनः, शाकल्यस्य संहितामनुप्रावषदित्यादिवत् शाकल्यस्य संहितामनु निशम्य प्रावर्षदित्यर्थप्रत्ययात् प्रदर्षणस्य पश्चाद्भावोर्थः सिध्यति, यथा च पुमांसमनुजायत इतिपुमनुज इत्यादौ पुमांसमनुरुध्य जायत इत्यर्थप्रत्ययात् ततः पश्चाज्जननं सिध्यति, एवमिहापि वाचमनुरुध्य इत्यर्थावगमात् पश्चादित्यर्थस्सिध्यतीत्यभिप्रेत्याचार्यैरित्थमुक्त्तमिति प्रतिपादयन्ति ॥2॥ ॥ इति वागधिकरणम् ॥