भाष्ये- तच्छरीरविमोक्षावसानत्वश्रवणादिति, “धूत्वा शरीरमकृतं कृतात्मा’ इति श्रुत्यन्तरदर्शनात् तस्य तावदित्येतः शरीरस्याश्रुतत्वेपि शरीरमोक्षावधिकरम्, न च धूत्वा शरीरमित्येतत् प्रारब्धकार्ययावच्छरीरपरम्, एकवचनश्रवणात्, एकत्वाविवक्षा कल्पने प्रमाणाभावात्, अस्माच्छरीरात्समुत्यायेति श्रुत्यन्तरे अस्मादिति विशेषणेन विद्यायोनिशरीरस्यैव विवक्षितत्वाच्च, अन्यथा तद्वैयर्थ्यापत्तेरिति भावः । देहस्तदवधिश्च न श्रुताविति - तदवधिशब्दः तदवधित्वपरः देहस्तदविधत्वेन न श्रूयत इत्यर्थः । ननु धूत्वा शरीरमिति श्रुत्यन्तरदर्शनात् तदवधित्वनिश्चय इत्यत आह - धूत्वा शरीरमिति । “अस्माच्छरीरात्सुमुत्याय’ इत्यिापि शरीरपदं प्रारब्धकार्यशरीरसामान्यपरम्, अस्मादिति विशेषणं च श्रुतिस्मृतिप्रसिद्धत्याज्यत्वहेत्वनुमवसिद्धेहयताप्रदर्शनार्थमिति भावः । परे त्वित्यादि- तस्य तावदिति श्रुतिवशेनेति । तस्य तावदिति श्रुत्या विद्यायोनिशरीरपात एव ब्रह्मसम्पत्तेः श्रवणेन शरीरान्तरे “अनेकशरीराम्भककर्मफलभोगासम्भवेन क्षयायोगात् ज्ञानेनैव प्रारब्धस्य क्षयो वाच्यइत्यर्थः । शिष्टं स्पष्टम् ॥ ॥ इति इतरक्षणाधिकरणम् ॥ ॥ इति दशोपनिषद्भाव्यकारैः श्रीरङ्गरामानुजनुनिभिर्विरचितायां श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां चतुथर्स्याध्यायस्य प्रथमः पादः ॥