भाष्ये- अनिच्छतोऽननुष्ठान प्राप्ते इति, निष्फलकर्मणि चिकीषर्ाया अभावादित्यर्थः, यद्यग्निहोत्रादीनां फलवत्त्वं तर्हि अश्लेषो नोपपद्यत इति भावः,यज्ञेनेत्यादिश्रुतेः, दर्शनसमानाकारविद्योदयात्प्राक् तादर्थ्येन विधानार्थतयोप्युपपत्तेर्विद्योत्पत्त्यनन्तरं यावज्जीवमग्निहोत्रादेरनुष्ठेयत्वे प्रमाणाभावादित्यर्थः । समुच्चयवादो निरकाश इति - सर्वापेक्षेति सूत्रं विद्याङ्गत्वपरम्, सहकारित्वेनचेति सूत्रं फलविरोधिनिरसनेन समुच्चयपरमिति यादवमतानवकाश इत्यर्थः । उत्तराघं विषयः स्यादिति - इदमुपलक्षणं । मारब्धव्यतिरिक्त्तपूवर्ोत्तरसुकुतदुष्कृतानां विनष्टाश्लिष्टतया उपायनश्रुतेर्निविषयत्वमित्येवाक्षेपाभिप्रायः, अत्रोपायनस्य चिनष्टाश्लिष्टपूर्वोत्तरसुकृतसजातीयोत्पत्तिरूपत्वेन विनाशश्लेषयोरुपायनवचनेनाऽविरोधादिति परिहाराभिप्रायः, अयमर्थः- “तदधिगम उत्तरपूर्वोधयोः’ इत्यत्र सम्यक् विवृतस्तत्रैवानुसन्धेयः ।is not available.परे त्वित्यादि - ततोपि वरं ज्ञानाख्यकार्यायेति - न च तथासति कार्यपदं व्यर्थमिति वाच्यं, यस्य ज्ञानस्य सुकृताश्लेषोत्पादकत्वं तस्मा एव ज्ञानायेति स्फोरकत्वेन साफलत्यात् । अन्ये त्वित्यादि - विद्यासहकारिणामिति । विद्योत्पत्तेः प्राजीनानि नित्यनैमित्तिकानि विद्योत्पव्य र्थानि अपवर्गार्थानि च तदनन्तरभाधीनि च विद्यया समप्रधानानि विद्यासहकारीणीति तेषां मर्यादाप्रहाणसम्भावनाया इति । “तत्सुकृतदुष्कृते धूनुते’ इति धूननसम्भावनाया इत्यर्थः, विद्यासहकारिणो विद्यया धूननासम्भवात् पूर्वपक्षानुत्थितेरिति भावः । काम्यव्यतिरिक्त्तेति - काम्येषु कर्मसु मोक्षार्थत्वासम्भवात् सिद्धान्तानुत्थितेरिति भावः । स्वाधिकारार्थानामिति - नियोगानामित्यर्थः । अपवर्गार्थत्वायोगादिति - ततश्च न हास्य कर्म क्षीयते’ इतिश्रुतेर्विद्यासहकारिविषयत्वमेव वक्त्तव्यं, ततश्च पूर्वपक्षसिद्धान्तावपि तद्विषयावेवोचिताविति भावः । विद्वत्सम्बन्ध्याश्रमधर्मविषयत्वमिति - विदुषा यावज्जीवमग्निहोत्रादीनि कर्तव्यानि नवेत्येवं विचारो युक्त्त इति भावः । विनियोगवचनमिति - सुहृत्संक्रमरणवचनमित्यर्थः । विद्याङ्गकर्मसमृद्धयर्थेति - मोक्षस्थाने विद्यां निवेशयाम इत्यर्थः ॥18॥ ॥ इति अग्निहोत्राद्यधिकरणम् ॥