09 अनारब्धकार्याधिकरणम्

भाष्ये- उतानारब्धकार्ययोरेवेति, विद्यायोनिशरीरानारम्भकयोरित्यर्थः, भाष्ये- विन्याफलस्याविशेषश्रवणादिति, तस्य ताव’ दिति श्रुतेः एतावन्ये चिरं यावद्धुञ्जानस्येत्यत्रैव क्षेपीयस्ताप्रतिपादनपरत्वेनादधिपरत्वाभावात्, इतरथा- अवषेश्चिरत्वस्य च प्रतिपादने वाक्यभेदप्रसङ्गादिति भावः । यावन्न विमोक्ष्ये - अथ संपत्स्से’ इति, यावत्प्रारब्धकर्मणा न विमोक्ष्यते अथ संपत्स्यत इत्यर्थः, पुरुषव्यत्ययश्छान्दसः, नचावधिपरत्वे चिरत्वावधित्वरूपार्थद्वयप्रतिपादनेन वाक्यभेदप्रसङ्ग इत्युक्त्तमिति वाच्यं, वाक्यन्तरसिद्धचिरत्वानुवादेनावधिमात्रप्रतिपादनपरत्वादस्य वाक्यस्येत्यदोषः । मिथ्यात्वेन बाधादिति - न च यतो ज्ञानमज्ञानस्यैव निवर्तकमिति ज्ञानस्य अज्ञानमात्रनिवर्तकत्वेन ज्ञानकार्यभूतप्रारब्धकर्मानिवर्तकत्वात् तस्य कर्मणः स्वोत्पादनभूताविद्यानिवृत्तिप्रतिबन्धकत्वमस्तीति वाच्यम्, अज्ञानवत्तत्कायर्स्यापि निवर्त्यत्वस्य वक्त्तव्यत्वात्, इतरथा ज्ञाननिवर्त्यत्वरूपमिथ्यात्मवस्याऽभावप्रसङ्ग इति भावः ॥15॥ ॥ इति अनाब्धकार्याधिकरणम् ॥