एवमिति न्यायातिदेश इति - न त्वसंश्लेषातिदेशः तस्य प्रतिज्ञयैव निर्दिष्टत्वादिति भावः । “सर्वे पाप्मान’ इत्यत्र पाष्मशब्दस्य सुकृतसाधारण्यकोटिबीजं प्रकृयति । न सुकृतं न दुष्कृतमिति - सुकृतदुष्कृते निर्दिश्य सर्वे पाष्मान इति निर्देशः पाप्मशब्दस्य सुकृतसाधारण्यमवगमयति नेति पर्यवसितोऽर्थः । उक्त्तं न्यायमिति- पूर्वाधिकरणाभिप्रेतन्यायमित्यर्थः । पूर्वसूत्रानुकृष्टव्यपदेशशब्दार्थमिति - व्यपदेशं प्रदर्शयतीत्यर्थः, तत्र एवंशब्देन पूर्वसूत्रे आभिप्रायिकफलविरोधित्वन्यायात् कण्ठोक्तस्तद्वयपदेशोप्यतिदिष्टः, तद्व्यपदेशो हि तस्य फलत्वव्यपदेशः, तत्र ह्यत्रासत्वशङ्का प्राप्ता “एवंविदि पापं कर्म न श्ळिप्यते तद्यर्थषीकतूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाष्मानः प्रदूयन्ते’ इति पापानामेव श्रवणात् एवंशब्दोनुकृष्टस्तद्वयपदेशो न सम्भवतीति, अतस्तच्छङ्कां व्युदसितुं एवंशब्दानुकृष्टव्यपदेशसिध्यर्थमुभे सुकृतदुष्कृते निर्दिश्य सर्वे पाष्मानोऽतो निवर्तन्त इति साधारण्येन सुकृतस्यापि मुमुक्ष्वनाविष्करणात् “सुकृतदुष्कृते धूनुते’ इति वाक्येन अनिष्टत्वाविष्करणाच्च, अनिष्टफलत्वरूपप्रवृतिनिमिव सत्वात् “सर्वे पाष्मानः प्रदूयन्ते’ इति सुकृताश्लेषविनाशस्यापि विद्यमानफलत्वव्यपदेशोस्तीति प्रदर्शयतीति भावः । भाष्ये- सुकृतस्यापि शास्त्रीयत्वादिति, ज्योतिष्टोमदर्शपूर्णमासादीनां शास्त्रीत्यत्वेन परस्परानुपमर्दकत्वादिति भावः, न च तत्सुकृतदुष्कते धूनुते इति विशिष्य सुकृतस्यापि विनाशश्रवणात् कथमभ्यधिकाशङ्केति वाच्यं, तस्य शरीरपातानन्तरभावि ;सुकृतनाशविषयत्वादिति भावः ॥14॥ ॥ इति इतराधिकरणं ॥