पेटिकासङ्गतिरिति - साधनपेटिकाकलपेटिकयोः सङ्गतिरित्यर्थः, विद्यास्वरूपशोधनस्य फलाध्यायासङ्गतिं परिहरति । उपाय भूतेति - अश्लेषविनाशप्रपीतिसंशयाभावादिति । अश्लेषविनाशौ प्रतीयेते नवेति संशयस्य वक्त्तुमशकत्यत्वादित्यर्थः, भाष्ये- शास्त्रविरोधादिति, नामुक्त्तमिति शास्त्रेण कर्मणां भोगैर्नाश्यत्वावगत्या विरोधात् तयोर्विद्याफलत्वकल्पनंनोपपद्यत इत्यर्थः, भाष्ये- भिन्नविषयत्वादिति, इदमुपलक्षणम्, “नामुक्त्तं क्षीयते कर्मे’त्येतस्स्मरणमौत्सर्गिकम्, प्रायश्चित्तादिना नाश्यत्वाभ्युपगमात्, ततश्च “एवंविदि पापं कर्म न श्लिष्यते’ इति विशेषशास्त्रविरोधे सङ्कुचितविषयमेव वक्त्तव्यम्, असत्यां ब्रह्मविद्यायाम् असति च प्राश्चिते “नामुक्त्तं क्षीयते’ सत्यर्थः, न च विद्याया मोक्षफलकत्वात् अश्लेषवचनं स्तुतिरिति मन्तव्यम्, एतस्य स्तुतित्वे अदानामानन्त्येन अनिर्मोक्षप्रसङ्कादिति द्रष्टव्यम् । पूर्वं शरीरपातानन्तरं कर्मक्षय उक्त्त इति - साम्पराये तर्तव्याभावादित्यत्रेति शेषः । कर्मफलभोगानवश्यम्भावेपीति - कर्मणां फलभोगावश्यम्भावेपि उपभोगेन सर्वकर्मक्षये ब्रह्मज्ञानं मोक्षमुत्पादयतीति पूर्वपक्षिणोक्त इत्यर्थः । तथा चेदिति - देशकालादिसापेक्ष इत्यर्थः । अविद्यानिवृत्तेरनित्यत्वप्रसङ्गादिति - ननु ज्ञाव्यतिरिक्त्तदोकालाद्यपेक्षत्वान्नानित्यवप्रसङ्ग इति चेन्न, ज्ञानव्यतिरिक्त्तासम्भावनाविपरीतभावनारूपप्रतिबन्धकाभावसापेक्षत्वेन अविद्यानिवृत्तषरनित्यत्वतादवस्थ्यात् । अन्ये त्वित्यादि अत एव सुकृतदुष्कृते इत्यादि - उत्तराधविनाशे विधूननादेरसम्भवादित्यर्थः । उत्तराघस्येति - अभक्ष्यभक्षणादिक्रियारूपकमर्ण इत्यर्थः । नतु क्रियाजन्यादृष्टरूपकर्मण इति मन्तव्यम्, तदतिरिक्त्तशक्त्तेरभावात् । विपाकहेत्विति - विपाको नरकादिरुच्यते । विशेषोपादानवैयर्थ्यं स्यादिति - विपाकविधातस्याभ्युपेतत्वेन लेपांशविधात इति वचनस्यायुक्त्तत्वादिति भावः, शङ्कते । विपाकशक्त्तेः श्लेषस्त्विष्ट इति - अश्लेषवचनसङ्कोचः स्यादिति । ननु कथमत्राश्लेषवचनसङ्कोचः, ब्रह्मविद्याश्लेषो हि तत्र कार्यानार्जकत्वम्, ततश्चोत्पन्नस्याप्यस्य ब्रह्मविधि कार्यानार्जकत्वात् अश्लेषवचनं सुश्लिष्टम्, नह्यश्लेषवचनस्याऽनुत्पत्ति वचनत्वं पुष्करपलाशजलदृष्टान्तविरोधादिति चेत्, उच्यते नहि निषिद्धकर्मजन्यपापस्याश्लेषं श्रुतिर्व्रवीति, येनायं उपालभ्यः स्यात्, किन्त्व्ेवंविदि पापं कर्म न श्लिप्यत इति निषिद्धकर्मणोऽभक्ष्यभक्षणादेरेवाश्लेषं व्रवीति, तस्य च कर्मणो ब्रह्मण्यश्लिष्टत्वं हि ब्रह्मविदि पापानार्जकत्वमेव न तु पापोत्पत्तिमभ्युपगम्यः ब्रह्मविदि लेपमात्रानार्जकत्वमिति सङ्कोच आश्रयणीय इत्यभिप्रायात्, नन्वेवं “क्षीयन्ते चास्य कर्माणि’ इत्यादिश्रुत्यनुसारेण पूर्वाधविनाशेष्यभक्ष्यभक्षणादिनिषिद्धकर्मविनाश एव स्यादिति चेन्न, तेषां कर्मणां क्षणिकत्या तदानीमेव नष्टत्वेन तत्राधविनाशश्रुतेः निषिद्धकमर्जन्यपापविनाशपत्वेन “पापं कर्म न श्लिष्यते’ इत्यादौ निडिद्धकरण्स्यैव तन्निष्ठकार्यानार्जकत्वरूपाश्लेषस्य वक्त्तव्यत्वात्, नचावस्थाचतुष्टयमुत्तीर्णशक्त्तिविषयमित्युवरग्रन्थविरोध इति वाच्यं, तस्याप्यत्रैव तस्याप्यत्रैव तात्पर्यात् ॥13॥ ॥ इति तदधिगमाधिकरणम् ॥