06 आप्रयाणाधिकरणम्

भाष्ये- एकस्मिन्नेवाहानि शास्त्रार्थस्य कृतत्वादिति, इदमुपलक्षणं, ध्यानेन दर्शनसमानाकारभक्त्तिरूपध्याने निष्पन्न शास्त्राथर्स्य कृतत्वान्न तत् उर्ध्वमुपासनं कार्यमित्यर्थः, “स खल्वेवं वर्तयन्यावदायुषम्’ इति श्रुतिस्तु कर्मणामेव यावज्जीवमनुष्ठेयत्वमाह, न तु विद्याया इति पूर्वपक्ष्यभिप्रायः, तत्रापि हि दृष्टमिति, यावज्जीवं कर्मानुष्ठानस्याऽपुनरावृत्तिफलकत्वमुच्यमानं विद्यां प्रतिस्वरूपोपकारकत्वेनैवोपपादनीयमिति तदुक्त्तिसामर्थ्यात् विद्याया अपि यावज्जीवमनुष्ठेयत्वं तत्र विवक्षितमुन्नीयत इति तत्फलात् “प्रायणान्तमभिध्यायीत’ इति श्रुत्यन्तरदर्शनाच्च दर्शनसमानाकारतापव्यनन्तरमपि यथाश्रुतं यावज्जीवमुपासनमनुष्ठेयमिति भावः । एतेन “प्रायणान्तमभिध्यायीत’ इति श्रुत्यनुसारात् प्रायणशाब्दसं मरणे प्रसिद्धेश्च आप्रयाणादिति सूत्रपाठोऽयुक्त्त इति निरस्तम्, “प्रयाणकालो मनसाऽचलेन’ इत्यादि स्मृतिप्रसिद्धेः प्रयाणशब्दस्यापि समानत्वात् । उपाधरनुवृत्तत्वादिति - ब्राह्मणदेहावच्छिन्नत्वस्यैवोपाधित्वेन तस्यानुवृत्तैरित्यर्थः । मुक्त्तस्य न मुमुक्षेति - जीवन्मुक्त्तस्येत्यर्थः । प्रीतेश्च यथाशास्त्रमनुष्ठानजन्यत्वादिति - ननु “वेदनं ध्यानविश्रान्त’ मित्युक्त्तरीत्या छागपशुन्यायेन दर्शनसमानाकारभक्त्तिरूपापन्नज्ञानस्यैव शास्त्रात्रर्त्वाच्च दर्शनसमानाकारज्ञाननिष्पत्तिपर्यन्तमावृत्तिः भाष्यकृतापि पूर्वपक्षेऽभ्युपगन्तव्येति चेत्, सत्यभ्युपगन्तव्या साक्षात्कारपर्यन्तावृत्तिः, तथापि साक्षात्कारफलकत्वेन नोपासनस्य तावत्पर्यन्तत्वम्, अपितु परमपुरुषप्रीतिसाधनतया दर्शनसमानाकारस्य चोदितत्वात्तावतैव च शास्त्राथर्स्य कृतत्वात् न तत उर्ध्वमुपासनमनुष्ठेयमिति पूर्वपक्षिणां युक्त्तमिति भावः ॥ ॥ इति आप्रयाणाधिकरणम् ॥