05 आसीनाधिकरणम्

आसनसमर्थनहेतोरैकाग्र्यस्येति - अनन्तराधिकरणयोः अप्रासङ्गिकत्वेपि आसननियमसमर्थनहेतोश्चित्तैकाग्रयस्याऽस्मिन्नधिकरणे समर्थ्यमानत्वादनन्तराधिकरणप्रतिपादितेषु अङ्गावबद्धोपासनेषु कर्मतन्त्रेषु ॠत्विक्कर्मसु आसननियमसमथर्नासम्भवेनाऽव्यवहिताधिकरणसङ्गत्यभावात्परमप्रकृतेनैव सङ्गतिरित्यर्थः, अङ्गावबद्धोपसनपर्युदासेनेतरेषूपासनेषु आसननियमचिन्तनात् अनन्तराधिकरणेनापि सङ्गतिः कथञ्चित् फलतीति बोद्धव्यम् । आद्यधिकरणे समर्थितत्वादिति - “तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा’ इत्यैकाग्रयस्य समर्थितत्वमभिप्रेतं द्रष्टव्यम्, परोक्तसूत्रार्थं दूषयति । उपासनसम्भवादित्यतोपीति - तदवश्यम्भावादिति । आसनस्यावश्यम्भावादित्यर्थः, ननु’ “विविक्त्तदेशे तु सुस्वासनस्थः’ इति कैवल्योपनिषदि श्रवणात् कथं पूर्वपक्षोत्थितिरिति चेत्, सूत्रकृता शङ्करादिभिश्चान्यैस्तद्गतवाक्यस्य क्काष्यनुपात्तत्वात् सर्वव्याख्यानाधिकरणे अस्मदीयाचार्यैरेष्यनुदाहृतत्वाच्च कैवल्योपनिषन्न संप्रतिपन्नेति केचिन्मन्यन्ते । केचित्तु तस्य दहरविद्याविशेषविषयत्वेन सर्वविद्यासाधारणत्वाभावात् अनुपन्यास इति प्रतिपद्यन्ते ॥7॥is not available.is not available.चेलाजिनकुशोत्तरम् । चेलं- सर्वोत्तरम्, अजिनं- कुशापेक्षया उत्तरं, कुशाभूतलापेक्षया उत्तरा इत्यर्थः ॥10॥समे शुचौ शर्करावन्हिबालुकाविवर्जिते शब्दलाश्रयादिभिः । मनोनुकूले न तु चक्षुःपीडने गुहानिवाताश्रयणे प्रयोजयेत’ इति वचनं, शर्कराः सूक्ष्मपाषाणाः । आसनसहपठितदेशविशेष इति - आसनाङ्गभूत इत्यर्थः, एकाग्रतातिरिक्त्तदेशकालविशेषाश्रवणात् एकाग्रतानुकूलासानानुकूलदेशादिविशेषस्य ध्यानापेक्षितत्वमित्युक्त्ते एकाग्रतापेक्षितस्य देशविशेषाद्यङ्गकस्यऽऽसननियमस्याऽपेक्षितत्वं किं वक्त्तव्यमित्यर्थः । उक्त्तप्रकारेणेति - कैमुतिकन्यायेनेति भावः ॥11॥ ॥ इति आसीनाधिकरणम् ॥