देवताया उत्कर्षादिति - ननु “ब्रह्मदृष्टिरुत्कर्षा’दिति ब्रह्मण एवोत्कर्षात् दृष्टिविशेषणत्वमुक्त्तम्, नत्वादित्यादिदेवतायाः, येनेयमाक्षेपिकी सङ्गतिस्स्यादिति चेन्न, ब्रह्मणस्सर्वज्ञत्वफलप्रदत्वादिना मनआद्यपेक्षयोत्कृष्टत्वात्, तद्दृष्टिर्मनआदौ कर्तव्येत्युक्त्ते आदित्यादीनामपि उद्गीथाद्यपेक्षया देवात्वादिना उत्कृष्टत्वात् आदित्यादिदृष्टिरुद्गीथादौ कर्तव्येति सिद्धमेवेति भावः । फलसाधनतया विहितत्वात्प्रधानस्य कर्मण इति - साङ्गस्येति शेषः, ततश्चोद्गीथकर्माङ्गभूतोद्गीथादीनामपि फलवत्त्वमस्तीति भावः । देवताप्रातिरवन्तरव्यापारमात्रमिति - अतिथिभोगनेनाऽतिथिप्रीतिवदिति भावः, “फलमत उपपत्तेः’ इति न्यायेन परमात्मन एव फलप्रदत्वेन इतरासां देवतानां भोजनेनातिथिवत् कर्मभिः प्रतीनामपि फलप्रदत्वासम्भवेन अप्रधानत्वादिति भावः, ब्रह्ममतिवदादित्यामितयोपीति चशब्दार्थ इति ग्रन्थो राद्धान्तव्याख्याने उत्कृष्टश्चेत् सुश्लिष्ट इव भाति, न च तत्रापि च शब्दोऽवधारण इति भाष्येणे विरोधश्शङ्कनीयः, तस्य निपातत्वेन नानार्थत्वात्, तथापि व्याख्यानोपपत्तेः सूत्रस्यानेकार्थसूचकत्वादिति द्रष्टव्यम्, ननु उद्गीथादीनां कर्माङ्गतया फलसाधनत्ववत् आदित्यादेरपि देवतारूपेण फलसाधनत्वमविशिष्टमिति कथं पूर्वपक्ष इत्यत आह - मनो ब्रह्मेत्युपासीतेत्यादिना । अफलसाधनेभ्य इति - न विद्यते फलं यषां त इत्येवं बहुव्रीहिणा अफलशब्दो अफलसाधन वचन इति भावः । अर्यम्णे चरुं निर्वपेदिति - यद्यादित्यादेः “अर्यम्णे चरुं निर्वपेत् स्वर्गकामः’ इत्यादि विध्यन्तरविहितेषु कर्मसु फलप्रदत्वसम्भवेऽपि अस्मिन्नुपासनाप्रकरणे देवतात्वाभावेन फलप्रदत्वाभावात् तत उद्गीथादेरेव फलवत्कमर्ाङ्गत्वात् उत्कृष्टत्वमित्युच्येत तदापि उद्गीथादावेवादित्यादिदृष्टिविर्धेया, अङ्गानङ्गसमभिव्याहारवतीनां विद्यानां अङ्गेषु अनङ्गदृष्टिरूपत्वे प्रधानकर्मप्रयुक्त्ताङ्गाश्रयत्वात् स्वतन्त्रफलानामपि तासां अधिकृताधिकारतया पृथक्प्रवृत्तिर्न कल्पनीयेति प्रयुक्त्तिलाघवात्, अन्यथा प्रयुर्क्त्तिकल्पनागौरवं स्यादिति द्रष्टव्यम्, उद्गीथादीनां क्रियारूपाणामिति पाठः, कर्मसमवायितयेति क्कचित्पाठो लेखकानवधाननिबन्धनः, उद्गीथादीनां स्वत एव गीतिक्रियारूपत्वात् परैस्तथानुक्त्तेश्चेति द्रष्टव्यम् । युकत्यन्तरमाह - इयमेवेति । इयमेवर्गग्निस्सामेत्युकत्वा तद्धेतुसमर्पके “तदेतदेतस्यामृच्यध्यूढं साम’ इति वाक्ये पृथिव्यग्न्योः ॠकसामशब्दप्रयोगः पूर्ववाक्ये पृथिव्यग्न्योः ॠक्सामदृष्टिं ज्ञापयति, आरोप्यवाचिशब्देनौवाधिष्ठानव्यवहारस्य लोके दर्शनादिति भावः । न राज्ञि क्षत्तृशब्द इति - अध्यस्ते राज्ञि नाधिष्ठानवाचिक्षत्तृशब्दप्रयोगोऽस्तीति भावः, तत्र क्षत्रध्यासाभावादिति क्कचित्पाठो दृश्यते, न तस्य सामीचीन्यं पश्यामः । कर्मणो वीर्यवत्तरत्वं श्रुतमिति - “यदेव विद्यया करोति’ इति विद्यया क्रियमाणस्यैव वीर्यवत्तरत्वश्रवणात् आदित्यादेश्चाक्रियमाणत्वादिति भावः । उद्गीथादिकमर्स्वतिशय उपपद्यत इति - भूतभाव्युपयोगं हि वस्तु संस्कायर्मिष्यते, उद्गीथादीनांच क्रियात्वात् ज्योतिष्टोमाद्युपकारस्य तैः करिष्यमाणत्वाच्च तान्येवोद्वथादीन्यादित्यादिमतिभिः संस्क्रियेरन्नित्यर्थः । कर्मणो ह्यपूर्वसन्निकर्ष इति - उद्गीथादिकर्मण इत्यर्थः, ततश्च सप्रयोजनत्वादादित्यादिमतिभिः संस्कार्यत्वमुपपद्यत इति भावः, ननु उद्गीथादिकर्मणो नापूर्वसन्निकर्षः, प्रधानस्यैवापूर्वसन्निकृष्टत्वादित्याशंक्याह - असाधितस्य करणत्वायोगादिति । अङ्गाननुगृहीतस्य प्रधानस्यापूर्वकरणत्वासम्भवेन अङ्गानामपूवसन्निकृष्टत्वमस्तीति भावः । कर्मस्वतिशयावहत्वादिति - उपासनस्योद्गीथादिकमर्सु अतिशयावहत्वात् उद्गीथादिकर्मण एव स्वतन्त्रोपास्यत्वमिति भावः, यकत्यन्तरमाह - आदित्यादिः प्रधानमिति । प्रधानशब्दस्य नित्यनपुंसकलिङ्गतया तथा निर्देशः तदेवोपपादयति । कर्मफलस्येत्यादिना- ॠच्चि पृथिवीत्वं विधेयमवगतमिति । पृथिव्या हि ॠकत्वे अवधार्यमाणे इयमृगेवेत्यक्षरन्यासः स्यादिति भावः । पृथिव्यामृक्छब्दो लाक्षरिक इति - तदेतदेतस्वामिति वाक्य इति शेषः । सम्बन्धमात्रमिति - पृथिव्यग्न्योः ॠक्सामशब्दवाच्याध्यस्तत्वलक्षणसम्बन्धोऽस्तीति भावः । न तूत्कर्षमिति - नाध्यस्तमपेक्षत इत्यर्थः, तथाचाध्यस्तवाचिशब्दत्वाभावेपि अधिष्ठानवाचिशब्देन अध्यति लक्षणया प्रयोग उपपद्यत इति भावः । कर्मस्वतिशयाधायकत्वेनेति - कर्मस्वनुष्ठितेषु परमात्मप्रीतिरूपतिशयाधाने आदित्यादिदेवताप्रीतेः द्वारत्वादिति भावः, यद्यप्ययं ग्रन्थः पुरोवादग्रन्थेषु न दृश्यते, तथापि योग्यतानुसारादेवमुक्त्तमिति द्रष्टव्यम् । नहि द्वितीयाविभकत्यर्थोऽनन्वित इति - लोकेष्वित्यस्य द्वितीयया विपरिणाममात्रेणैव “वाचं धेनुमुपासीत’ “योषितमग्निं ध्यायीत’ इत्यादिवत् “लोकान् पञ्जविधं सामोपासीत’ इत्युक्त्तौ विरोधाभावादिति भावः । क्रत्वधिकृतेनेति - क्रत्वङ्गाश्रितत्वात् गोदोहनादिवदिति भावः । पृथिव्येव ॠक् नान्यदस्तीति - अयमर्थः- पृथिव्येव ॠगित्युक्त्ते नान्या ॠगिति वाक्यशेषरूपं विवरणं सम्पद्यत इति ॥6॥ ॥ इति आदित्यादिमत्यधिकरणम् ॥