ब्रह्मणः प्रतीको दृष्टिविशेषणमिति - ब्रह्म स्वतन्त्रेणोपासं प्रतीको दृष्टिविशेषणमित्यर्थः ॥4॥भाष्ये- भृत्ये तु राजदृष्टिरभ्युदयायेति, स्यादिति शेषः, इदमुपलक्षणम् “मनो ब्रह्मेत्युपासती’ इत्यादौ मनऽादिशब्दानां प्राथम्यात् तन्मुख्यार्थत्यागस्याऽनुचितत्वात् ब्रह्मशब्दस्य इतिशब्दशिरस्कत्वेन स्वार्थात् प्रच्यावनस्यापेक्षितत्वाच्च आदित्यं ब्रह्मोपास्ते’ इत्यादौ द्वितीयानिर्देशाच्छ मनऽादौ ब्रह्मदृष्टिरेवं युक्त्तेति द्रष्टव्यम् । तदभावप्रसङ्गाभावादिति - प्रतीकाभावप्रसङ्गाभावादित्यर्थः, यद्यपि ब्रह्मशरीरत्वमात्रं, न स्वरूपोपमर्दकम्, उक्त्तरीत्या अनुपमर्देनापि शरीरत्वसम्भवात्, तथापि न तन्मात्रमात्मत्वेनोपास्वत्वप्रयोजकम्, ब्रह्मस्वरूपत्वस्यैव ग्राह्यत्वेन उपास्यत्वप्रयोजकत्वात् प्रतीकादेर्ब्रह्मस्वरूपत्वापत्तौ प्रतीकाभावप्रसङ्गस्य अवर्जनीयत्वात्, प्रसङ्गादिति चेन्न, जडस्य मनऽादेः ब्रह्मस्वरूपत्वापत्तेरत्यान्तासत्वेन तस्य प्रतीकाभावप्रसङ्गहेतुत्वस्याप्रसक्त्तेरित्यत्र तात्पर्यात् । वासो ददात्यनो ददातीति - वासो ददात्यनो ददातीत्यत्र वानं तक्षणञ्च कृत्वा वासोऽनश्च निष्पाद्यैव दातव्यम्, उत यथासिद्धमेव दातव्यमिति संशये वानतक्षणक्रियायां सत्यां वासोऽनश्शब्दयोः प्रयोगदर्शनात् क्रियानिमित्तकौ वासोऽनश्शब्दौ क्रियामेव दानाङ्गतया विधत्तः, तस्माद्दानं कुर्वता तन्तून् वृक्षाश्चोपादाय वानं तक्षणं च कतर्व्यमिति प्राप्ते, जात्यन्वयव्यतिरेकानुविधानात् जातिशब्दावेतौ, जातिस्तु क्रियाभिव्यङ्गयेति क्रियोत्तरकाले शब्दप्रयोगः, न तु वासोऽनश्शब्दें;ः क्रियावचनत्वम्, अतो वानतक्षणक्रिययोरचोदितत्वात् नानुष्ठानमिति सप्तने स्थितम् । ब्रह्मणश्चोदितत्वाभावादिति - “मनो ब्रह्मे’त्यादौ ब्रह्मेत्युपासनमात्रं विधीयते च त्वात्मा, तथापि यस् यन्मात्रतयोपासनं विहितं तत्तन्मात्रतयैव प्रतिपत्तव्यम्, यवद्वचनं वाचनिकमिति न्यायात् नाधिकमध्याहर्तव्यम् अतिप्रसङ्गदिति भावः । ब्रह्मसामानाधिकरण्णञ्चेति - ब्रह्मण उपास्यत्वश्रवणात् ब्रह्मोपासने सर्वत्रात्मत्वस्य सत्यत्वादिवदनुवृत्ततायाः पूर्वाधिकरणे समर्थितत्वादित्यर्थः । इतिकरणवैयर्थ्यं हेतुरिति - शुक्त्तिकां रजतमिति प्रत्येतीति वाक्यसमानाकारत्वादिति भावः । प्रतीपगतद्वितीयावभिक्त्तिरपीति - “य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्ते’ “यः सङ्कल्पं ब्रअह्मेत्युपास्ते’ इत्यादावादित्यसङ्कल्पादिपुंल्लिङ्गशब्देषु द्वितीयाया असंदिग्वत्वादिति भावः । हेतुरिति - प्रतीकस्यैव स्वततनत्रोपास्यत्वं ब्रह्मणो दृष्टिविशेषणत्वम् इत्येवंरूपे अधिकरणार्थे इति शेषः, आदित्यादेः दृष्टिविशेषणत्वे “ब्रह्म आदित्य इत्युपास्ते’ “ब्रह्म सङ्कल्प इत्युपास्ते’ इत्येवं प्रथमतः उपास्यं ब्रह्म द्वितीयान्तेन निर्दिश्य दृष्टिविशेषणानां आदित्यादीनां प्रथमान्तेन पश्चाच्च निर्देशप्रसङ्ग इत्यर्थः । अतः प्रतीकगतद्वितीयाविभक्त्तिः प्रथमनिर्देशश्चमनऽ ादेः स्वतन्त्रोपास्यत्वं ब्रह्मण उपास्यविशेषणत्वमित्येवंरूपाधिकरणप्रतिपाद्ये अर्थे हेतुरित्यर्थः ॥5॥ ॥ इति प्रतीकाधिकरणम् ॥