व्यतिकरोपदेशज्ञापनायेति - पूर्वाधिकरणे “आत्मेत्येवोपासीत’ इति विद्युपास्योर्व्यतिकरोपदेशज्ञापनार्थोपात्तवाक्यस्थितात्मशब्दार्थनिरूपणं क्रियत इत्यर्थः । वस्तुतस्यतु “त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते’ “आत्मेत्येवोपासीत’ इत्यादीनां व्यतिकराणामुपदेशरूपत्वमुखेन दृष्टिविधित्वाभावज्ञापनायेत्यर्थः । पूर्वप्रकृतेति - जगत्कारणतयोपास्यतया चाध्यायत्रयप्रतिपादितस्य वस्तुनो वेदान्तवाक्यस्थात्मशब्दार्थात्मशब्दार्थात्मकत्वं निरूप्यते समर्थ्यत इत्यर्थः । ततश्च कथमस्याधिकरणस्य शब्दार्थनिरूपणपरत्वमिति शङ्कापि निराकृता । अहमर्थसामानाधिकरण्येनेति -अहन्त्वेनेत्यर्थः, अथवेत्यादिपक्षाभिप्रायेणाह - किमुपास्यं ब्रह्मेति । अन्यत्वेनोपास्यमिति -शरीरशरीरिभावरूपसम्बन्धशून्यत्वेनोपास्यमित्यर्थः । पृथकत्वानुसन्धानविरोध इति । “पृथगात्मानं प्रेरितारञ्च मत्वा’ इति पृथक्सिद्धत्वानुसन्धानस्वाऽपृथक्सिद्धविशेषणत्वरूपशरीरत्वानुसन्धानविरुद्धत्वादिति भावः । यदा पृथङ्मत्वेति पृथक्पकत्वेत्यादित् मननक्रियायामन्वेति, ततश्च आत्ममननं प्रेरितृमननञ्च पृथग्भूतं कार्यमित्यर्थः पर्यवसन्नः । ततश्च आत्मप्रेरित्रोरेकमननानुप्रवेशो व्यावर्तितो भवति, अतो जीवपरयोः शरीरात्ममावानुसन्धानस्य नावकाशः । शरीरात्मभावानुसन्धाने हि द्वयोरप्येकस्यां मननक्रियायामनुप्रवेशप्रसङ्गेन पृथङ्मननं न भवेदिति विरोध इति भावः । ब्रह्मोपासनानि विहितानीति - शाण्डिल्यविद्यायां “सर्वं खल्विदं ब्रह्म’ इति सामानाधिकरण्यनिर्देशः, एष म आत्मा’ इति व्यदिकरणनिर्देशश्च न दृष्टिविधित्वशङ्काव्यतिरेकोकिविरोधात्, अतो न तत्रायं विचार उपयुक्त्त इति भावः । वस्तुतस्तु पृथक्सिद्धत्वरूपानात्मत्वानुसन्धानस्य मोक्षसाधनतया विहितत्वात्, अनात्मत्वमेव प्रामाणिकम्, आत्मेस्येवोपासीत’ इत्येतत्तु अभ्युदयफलकदृष्टिविधिरूपं भविष्यतीति पूर्वपक्षिणो भावः । अहंशब्दार्थतात्पर्यविवक्षयेति - अहंशब्दार्थस्य प्रकृतित्वविवक्षायां प्रकृतेरेवास्तिक्रियाकर्तृत्वात् उत्तमपुरुष इत्यर्थः । अत एव “यदग्ने स्थामहं त्वं वा स्या अहम्’ इति, प्रकृत्याश्रयः पुरुषो भवतीति “युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः’ इति सूत्रे प्रतिपादितमिति द्रष्टव्यम् । युक्त्तमिति दर्शितं भवतीति - क्रियान्वयात्प्रागेव “विष्णवे शिषिविष्टाय’ इत्यादौ सामानाधिकरण्यस्थले परस्परमभेदान्वयाभ्युपगमादिहाष्य भेदान्वया नन्तरं तस्मिन्नभेदे अस्तित्वान्वयसं भाव इति भावः । प्रामाणिकत्वादिति परिहारायोगादिति - संसारिणः संसारित्वापोहेन ईश्वरात्मत्वप्रतिपादनेऽपि ईश्वरस्य संसार्यात्मत्वप्रतिपादनानाभ्युपगमात् नेश्वराभावप्रसङ्ग इिीत चेति परिहारान्तरमप्युपन्यस्तम्, तथापि प्रामाणिकत्वादित्ययं परिहारः परिहासपदम् । बाधस्य तर्केऽनुगुणत्वादित्यत्र तात्पर्यमिति द्रष्टव्यम् । तत् त्वमेव, त्वमेव तद्वितीश्वरस्यापि संसंर्यात्मत्वप्रतिपादनाद्यत्यपि द्रष्टव्यम् । शास्त्रमीरुत्वाल्लोकस्येति - श्रवणे न प्रवृत्तिस्स्यादिति शेषः, स्वाप्नशशमहिषवैषम्यं शङ्कते । यदि प्रबोधेऽपीति - जीवस्य हेयार्हत्वमेव निवर्तत इति । स्यप्ने; तू धर्मिद्वयं धर्मद्वयञ्च निवर्तत इति भावः । शुक्त्तिरूप्येश्वरयोरिति - न च रूप्यस्वरूपस्य नाशात् कथमवैषम्यमिति वाच्यम्, अधिष्ठानमेवाऽध्यस्तस्वरूपमित्यभ्युपगमात् शुक्त्तिस्वरूपस्य चानाशादवैषम्यमिति भावः ॥3॥ ॥ इति आत्मत्वोपासनाधिकरणम् ॥